भावप्रकाशः/मध्यखण्डे प्रथमो भागः
दिखावट
- अथ मध्यखण्डम्
ज्वराधिकारः
[सम्पाद्यताम्]- ज्वराधिकारः
- तत्राष्टमं चिकित्साप्रकरणम् ८
- यतः समस्तरोगाणां ज्वरो राजेति विश्रुतः
- अतो ज्वराधिकारोऽत्र प्रथमं लिख्यते मया १
- दक्षापमानसंक्रुद्धरुद्र निःश्वाससम्भवः
- ज्वरोऽष्टधा पृथग्द्वन्द्वसंघातागन्तुजः स्मृतः २
- मिथ्याऽहारविहाराभ्यां दोषा ह्यामाशयाश्रयाः
- बहिर्निरस्य कोष्ठाग्निं ज्वरदाः स्यू रसानुगाः३
- श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः
- इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ४
- जृम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः
- अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे ५
- सामान्यतो विशेषात्तु जृम्भाऽत्यर्थं समीरणात्
- पित्तान्नयनयोर्दाहः कफन्नान्नाभिनन्दनम् ६
- रूपैरन्यतराभ्यां तु संसृष्टैर्द्वन्द्वजं विदुः ७
- सर्वलिङ्गसमावायः सर्वदोषप्रकोपजे ८
- स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा
- युगपद्यत्र रोगे तु स ज्वरो व्यपदिश्यते ९
- रुणद्धि चाप्यपां धातून् यस्मात्तस्माज्ज्वरातुरः
- भवत्यत्युष्णगात्रश्च स्विद्यते न च सर्वशः१०
- अंशांशं यत्र दोषाणां विवेक्तुं नैव शक्नुयात्
- साधारणीं क्रियां तत्र विदध्यात्तु चिकित्सकः
- सामान्यतो ज्वरी पूर्वं निर्वाते निलये वसेत्
- निर्वातमायुषो वृद्धिमारोग्यं कुरुते यतः ११
- व्यजनस्यानिलस्तृष्णास्वेदमूर्च्छाश्रमापहः
- तालवृन्तभवो वातस्त्रिदोषशमनो मतः १२
- वंशव्यजनजः सोष्णो रक्तपित्तप्रकोपणः
- चामरो वस्त्रसम्भूतो मायूरो वेत्रजस्तथा
- एते दोषजितो वाताः स्निग्धा हृद्याः सुपूजिताः १३
- नवज्वरी भवेद् यत्नाद् गुरूष्णवसनावृतः
- यथर्त्तुपक्वपानीयं पिवेत्किञ्चिंन्निवारयन् १४
- विनाऽपि भेषजैर्व्याधिः पथ्यादेव निवर्तते
- न तु पथ्यविहीनस्य भेषजानां शतैरपि १५
- परिषेकान्प्रदेहांश्च स्नेहान्संशोधनानि च
- दिवास्वप्नं व्यवायञ्च व्यायामं शिशिरं जलम्
- क्रोधप्रवातभोज्यांश्च वर्जयेत्तरुणज्वरी १७
- शोषं छर्दिं मदं मूर्च्छां भ्रमं तृष्णामरोचकम्
- प्राप्नोत्युपद्र वानेतान्परिषेकादिसेवनात् १८
- व्यायामाज्ज्वरसंबृद्धिर्व्यवायात्स्तम्भमूर्च्छनम्
- मृतिश्च स्नेहपानाद्यैर्मूर्च्छा च्छर्दिर्मदोऽरुचिः १९
- गुर्वन्नभोजनात्स्वप्नाद्विष्टम्भो दोषकोपनम्
- अग्निसादः खरत्वञ्च स्रोतसां च प्रवर्त्तनम् २०
- सज्वरो ज्वरमुक्तो वा विदाहीनि गुरूणि च
- असात्म्यान्नानि पानानि विरुद्धाध्यशनानि च २१
- व्यायाममतिचेष्टां वाऽभ्यङ्गं स्नानञ्च वर्जयेत्
- तेन ज्वरः शमं याति शान्तश्च न पुनर्भवेत् २२
- आमाशयस्थो हत्वाऽग्नि सामो मार्गान् पिधापयन्
- विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् २३
- ज्वरादौ लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम्
- ज्वरान्ते भेषजंदद्याज्ज्वरमुक्ते विरेचनम् २४
- त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत्
- दोषेऽल्पे लङ्घनं पथ्यं मध्ये लङ्घनपाचनम्
- प्रभूते शोधनं तच्च मूलादुन्मूलयेन्मलान् २५
- तरुणं तु ज्वरं पूर्वं लङ्घनेन क्षयं नयेत्
- आमदोषमलिङ्गाद्वा लङ्घयेत्तं यथाविधि २६
- वातः पचति सप्ताहात्पित्तं तु दशभिर्दिनैः
- श्लेष्मा द्वादशभिर्घस्रैः पच्यते वदतां वर २७
- लङ्घनं लङ्घनीयस्तु कुर्याद्दोषानुरूपतः
- त्रिरात्रमेकरात्रं वाऽहोरात्रमथवा ज्वरे २८
- निर्वातसेवनात्स्वेदाल्लङ्घनादुष्णवारिणः
- पानादामज्वरे क्षीणे पश्चादौषधमाचरेत् २९
- ज्वरादौ लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम्
- ज्वरान्ते भेषजं दद्याज्ज्वरमुक्ते विरेचनम् ३०
- दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च
- लङ्घितश्चाप्यदोषश्चेद्यवागूपानमाचरेत् ३१
- शालिषष्टिकमुद्गानां यूषं वा शस्तमाचरेत्
- पञ्चकोलेन संसिद्धां यवागूं मध्यलङ्घने ३२
- अत्यर्थं लङ्घितं दृष्ट्वा तस्य संतर्पणं हितम्
- द्रा क्षादाडिमखर्जूरप्रियालैः सपरूषकैः ३३
- तर्पणार्हस्य कर्त्तव्यं तर्पणं ज्वरशान्तये ३४
- लङ्घनेन क्षयं नीते दोषे सन्धुक्षितेऽनले
- विज्वरत्वं लघुत्वं च क्षुच्चैवास्योपजायते ३५
- अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम्
- ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् ३६
- वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे
- हृदयोद्गारकण्ठास्यशुद्धौ तन्द्रा क्लमे गते ३७
- स्वेदे जाते रुचौ चापि क्षुत्पिपासासहोदये
- कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ३८
- कफोत्क्लेशः सहृल्लासः ष्ठीवनं च मुहुर्मुहुः
- कण्ठास्यहृदयाशुद्धिस्तन्द्रा स्याद्धीनलङ्घने ३९
- पर्वभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च
- क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः ४०
- मनसः संभ्रमोऽभीक्ष्णमूर्ध्ववातस्तमो हृदि
- देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत् ४१
- बलाविरोधिना चैनं लङ्घनेनोपपादयेत्
- बलाधिष्ठानमारोग्यं यदर्थोऽय क्रियाक्रमः ४२
- तद्धि मारुततृष्णाक्षुन्मुखशोषभ्रमान्वितः
- न कार्यं गुर्विणीबालवृद्धदुर्बलभीरुभिः
- न क्षयाध्वश्रमक्रोधकामशोषचिरज्वरी ४३
- अवश्यमेव कुर्वीत ज्वरी सामे समीरणे
- लङ्घनं ह्यामपाकार्थं न तदूर्ध्वं यथा कफे ४४
- आहारस्य रसः सारो यो न पक्वोऽग्निलाघवात्
- आमसंज्ञाञ्च लभते बहुव्याधिसमाश्रयः ४५
- आममन्नरसं केचित् केचित्तु मलसञ्चयम्
- प्रथमां दोषदुष्टिं वा केचिदामं प्रचक्षते ४६
- अविपक्वमसंसक्तं दुर्गन्धं बहुपिच्छिलम्
- सादनं सर्वगात्राणामाम इत्यभिशब्दितः ४७
- तेनामेन समायुक्ता दोषा दूष्याश्च तादृशाः
- तदुद्भवा आमयाश्च सामा इति बुधैः स्मृताः ४८
- वायुः सामो विबन्धाग्नि सादतन्द्रा ऽन्त्रकूजनः
- वेदनाशोथनिस्तोदैः क्रमतोऽङ्गानि पीडयेत् ४९
- विचरेद् युगपच्चापि गृह्णाति कुपितो भृशम्
- स्नेहाद्यैर्वृद्धिमायाति मेघे सूर्य्योदये निशि ५०
- निरामो विशदो रूक्षो निर्गन्धोऽत्यल्पवेदनः
- विपरीतगुणैः शान्तिं स्निग्धैर्याति विशेषतः ५१
- पित्तं सामं भवेदम्लं दुर्गन्धं हरितं गुरु
- अम्लिकाकण्ठहृद्दाह करं श्यावं तथा स्थिरम् ५२
- निरामं पित्तमाताम्रमत्युष्णं कटुकं सरम्
- दुर्गन्धि रुचिकृद् वह्निबलवर्धनमीरितम् ५३
- आविलस्तन्तुलः स्त्यानः कण्ठदेशे च तिष्ठति
- सामो बलासो दुर्गन्धस्तृट्क्षुधोरुपघातकृत् ५४
- श्लेष्मा निरामो निर्गन्धः फेनवांश्छेदवानपि
- भवेत् स पिण्डितः पाण्डु रास्यवैरस्यनाशकृत् ५५
- आलस्यतन्द्रा हृदयाविशुद्धि दोषप्रवृत्त्याविलमूत्रताभिः
- गुरूदरत्वारुचिसुप्तताभिरामान्वितं व्याधिमुदाहरन्ति ५६
- आमं जयेल्लङ्घनकोष्णपेया लघ्वन्नसूपौदनतिक्तयूषैः
- विरूक्षणस्वेदनपाचनैश्च संशोधनैरूर्ध्वमधस्तथैव ५७
- तृषितो मोहमायाति मोहात् प्राणान् विमुञ्चति
- अतः सर्वास्ववस्थासु न क्वचिद् वारि वर्जयेत् ५८
- तृष्णा गरीयसी घोरा सद्यः प्राणविनाशिनी
- तस्माद्देयं तृषाऽत्ताय पानीयम्प्राणधारणम् ५९
- नवज्वरे प्रतिश्याये पार्श्वशूले गलग्रहे
- सद्यः शुद्धौ तथाऽध्माने व्याधौ वातकफोद्भवे ६०
- अरुचिग्रहणीगुल्म श्वासकासेषु विद्र धौ
- हिक्कायां स्नेहपाने च शीतं वारि विवर्जयेत् ६१
- सेव्यमानेन शीतेन ज्वरस्तोयेन वर्द्धते ६२
- क्वाथ्यमानं तु निर्वेगं निष्फेनं निर्मलं तथा
- अर्द्धावशिष्टं यत् तोयं तदुष्णोदकमुच्यते ६३
- ज्वरकासकफश्वास पित्तवाताममेदसाम्
- नाशनं पाचनञ्चैव पथ्यमुष्णोदकं सदा ६४
- त्रिपादशेषं सलिलं ग्रीष्मे शरदि शस्यते
- हिमेऽद्धशेषं शिशिरे तथा वर्षावसन्तयोः ६५
- निदाघे त्वर्द्धपादोनं पादहीनन्तु शारदम्
- शिशिरे च वसन्ते च हिमे चार्द्धावशेषितम् ६६
- अष्टमांशावशेषन्तु वारि वर्षासु शस्यते
- इति केचिद् बुधाः प्राहुर्जेज्जटागमदर्शनात् ६७
- पक्षयोस्त्रिषु वेदेषु बाणेष्वङ्गेषु सप्तसु
- एषु भागावशेषं स्यादम्बु वर्षाऽदिषु क्रमात् ६८
- तत्पादहीनं पित्तघ्नमर्द्धहीनन्तु वातनुत्
- त्रिपादहीनं श्लेष्मघ्नं संग्राह्यग्निप्रदं लघु ६९
- पादशेषं तु यत्तोयमारोग्याम्बु तदुच्यते
- आरोग्याम्बु सदा पथ्यं कासश्वासकफापहम् ७०
- सद्योज्वरहरं ग्राहि दीपनं पाचनं लघु
- आनाहपाण्डुशूलार्शो गुल्मशोथोदरापहम् ७१
- हेमन्ते शिशिरे चाम्बु सारसं वा तडागजम्
- वसन्तग्रीष्मयोः कौप्यं वाप्यं वा नैर्झरं हितम् ७२
- नादेयं वारि नादेयं वसन्तग्रीष्मयोर्बुधः
- विषवत्पत्रपुष्पादि दुष्टनिर्झरयोगतः ७३
- आद्भिदं चान्तरिक्षं वा कौप्यं वा प्रावृषि स्मृतम्
- शस्तं शरदि नादेयं नीरमंशूदकं परम् ७४
- दिवा रविकरैर्जुष्टं निशि शीतकरांशुभिः
- ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम् ७५
- अनभिष्यन्दि निर्दोषञ्चान्तरिक्षजलोपमम्
- बल्यं रसायनं मेध्यं शीतं लघु सुधासमम्७६
- शरद्यगस्तेरुदयादखिलं सलिलं हितम् ७७
- कार्त्तिके मार्गशीर्षे च जलमात्रं प्रशस्यते ७८
- दाहातिसारपित्तास्त्र मूर्च्छामद्यविषार्त्तिषु
- मूत्र कृच्छ्रे पाण्डुरोगे तृष्णाच्छर्दिश्रमेषु च
- मद्यपानसभुद्भूते रोगे पित्तोत्थिते तथा
- सन्निपातसमुत्थेषु शृतशीतं प्रशस्यते ७९
- शृताम्बु तत्त्रिदोषघ्नं तदन्तर्बाष्पशीतलम्
- अरूक्षमनभिष्यन्दि कृमितृड्ज्वरहृल्लघु
- धारापातेन विष्टम्भि दुर्जरं पवनाहतम्८०
- भिनत्ति श्लेष्मसङ्घातं मारुतं चापकर्षति
- अजीर्णं जरयत्याशु पीतमुष्णोदकं निशि ८१
- दिवा शृतंपयो रात्रौ गुरुतामधिगच्छति
- रात्रौ शृतं दिवा पीतं गुरुत्वमधिगच्छति ८२
- तत्तु पर्य्युषितं वह्निगुणोत्सृष्टं त्रिदोषकृत्
- गुर्वम्लपाकं विष्टम्भि सर्वरोगेषु निन्दितम् ८३
- शृतशीतं पुनस्तप्तं तोयं विषसमं भवेत्
- निर्य्यूहोऽपि तथा शीतः पुनस्तप्तो विषोपमः ८४
- अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा
- अथ वा क्वथनेनैवसिद्धमुष्णोदकं वदेत् ८५
- श्लेष्मानिलाममेदोघ्नं दीपनं बस्तिशोधनम्
- श्वासकासज्वरहरं पीतमुष्णोदकं निशि ८६
- रात्रावुष्णोदकञ्च तप्तमेव पिबेदित्याह
- उष्णं तदग्निजननं लघ्वच्छं बस्तिशोधनम् ८७
- पार्श्वरुक्पीनसाध्मानहिक्काऽनिलकफापहम्
- शस्तं तृट्श्वासशूलेषु सद्यःशुद्धौ नवज्वरे ८८
- मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये
- भ्रमश्रमपरीतेषु तमके श्वयथौ तथा ८९
- धूमोद्गारे विदग्धेऽन्ने शोषे च मुखकण्ठयोः
- ऊर्ध्वगे रक्तपित्ते च शीतलाम्बु प्रशस्यते ९०
- आमं जलं पाकमुपैति यामं पक्वं पुनः शीतलमर्द्धयामम्
- पक्वं कदुष्णञ्च ततोऽद्धकालात् त्रयः सुपीतस्य जलस्य पाके ९१
- पित्तमद्यविषार्त्तेषु तिक्तकैः शृतशीतलम् ९२
- मुस्तपर्पटकोदीच्यच्छत्राऽख्योशीरचन्दनैः
- शृतं शीतं जलं दद्यात्तृड्दाहज्वरशान्तये ९३
- दिवास्वापं न कुर्वीत यतोऽसौ स्यात्कफावहः
- ग्रींष्मवर्ज्येषु कालेषु दिवास्वापो निषिध्यते ९४
- उचितो हि दिवास्वापो नित्यं येषां शरीरिणाम्
- वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा ९५
- व्यायामप्रमदाऽध्ववाहनरतान् क्लान्तानतीसारिणः
- शूलश्वासवमीतृषापरिगतान् हिक्कामरुत्पीडितान्
- क्षीणान्क्षीणकफाञ्छिशून्मदहतान्वृद्धांस्तथाऽजीर्णिनो
- रात्रौ जागरितान्नरान्निरशनान्कामं दिवा स्वापयेत् ९६
- वातिकः सप्तरात्रेण दशरात्रेण पैत्तिकः
- श्लैष्मिको द्वादशाहेन ज्वरः पाकमुपैति हि ९७
- आ सप्तरात्रात्तरुणं ज्वरमाहुर्मनीषिणः
- द्वादशाहमभिव्याप्य मध्यं जीर्णं ततः परम् ९८
- वातिके सप्तरात्रेण दशरात्रेण पैत्तिके
- श्लैष्मिके द्वादशाहेन ज्वरे युञ्जीत भेषजम् ९९
- ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम् १००
- तत्राऽनुक्ते प्रभातं स्यात्कषायेषु विशेषतः
- मुख्यभैषज्यसम्बन्धो निषिद्धस्तरुणज्वरे १०१
- तोयपेयाऽदिसंस्कारेर्निर्दोषं तत्र भेषजम् १०२
- दोषा वृद्धाः कषायेण स्तम्भितास्तरुणज्वरे
- स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम् १०३
- न च्यवन्ते न पच्यन्ते कषायैः स्तम्भिता मलाः
- तिर्यग्विमार्गगा वाते घोरं कुर्युर्नवज्वरम् १०४
- अनवस्थितदोषाणां वमनं तरुणज्वरे
- हृद्रो गं श्वासमानाहं मोहं च कुरुते भृशम् १०५
- सद्योभुक्तस्य वा जाते ज्वरे सन्तर्पणोत्थिते
- वमनं वमनार्हस्य शस्तमित्याह वाग्भटः १०६
- पाययेदातुरं सामं पाचनं सप्तमे दिने
- शमनेनाथ वा दृष्ट्वा निरामं तमुपाचरेत् १०७
- कृशं चैवाल्पदोषञ्च शमनीयैरुपाचरेत् १०८
- नागरं देवकाष्ठञ्च ध्यामकं बृहतीद्वयम्
- दद्यात्पाचनकं पूर्वं ज्वरितेभ्यो ज्वरापहम् १०९
- अथ संशमनीयानि कषायाणि निबोध मे
- सर्वज्वरेषु देयानि यानि वैद्येन जानता ११०
- बृश्चीरो विश्ववर्षाभूः पयः सोदकमेव च
- पचेत्क्षीरावशेषं तत्पेयं सर्वज्वरापहम्१११
- उदकाद् द्विगुणं क्षीरं शिंशपोशीरमेव च
- तत्क्षीरशेषं क्वथितं पेयं सर्वज्वरापहम् ११२
- गुडूचीधान्यकारिष्टं पद्मकं रक्तचन्दनम्
- एषां क्वाथः सुप्रसिद्धः सर्वज्वरहरः स्मृतः
- दीपनो दाहहृल्लासतृष्णाच्छर्द्यरुचीर्हरेत् ११३
- छर्दिमूर्च्छामदश्वासभ्रमतृड्विषमज्वरान्
- संशोधनस्य पानेन प्राप्नोति तरुणज्वरी ११४
- रोगे शोधनसाध्ये तु यं विद्याद् दोषदुर्बलम्
- तं समीक्ष्य भिषक्कुर्याद् दोषप्रच्यावनं मृदु ११५
- सद्योज्वरे विषेऽजीर्णे मन्देऽग्नावुदरे तथा
- स्तन्यरोगे च हृद्रो गे कासश्वासेषुवामयेत् ११६
- जीर्णज्वरगरच्छर्दिगुल्मप्लीहोदरेषु च
- शूले शोथे मूत्रघाते कृमिरोगे विरेचयेत् ११७
- चले दोषे मृदौ कोष्ठे नेक्षेत्तत्र बलं नृणाम्
- अव्यापद् दुर्बलस्यापि शोधनं हि तदा भवेत् ११८
- पक्वोऽप्यनिर्हृतो दोषो देहे तिष्ठन्महात्ययम्
- विषमं वा ज्वरं कुर्याद् बलव्यापदमेव वा ११९
- आरग्वधग्रन्थिकमुस्ततिक्ताहरीतकीभिः क्वथितः कषायः
- सामे सशूले कफवातयुक्ते ज्वरे हितो दीपनपाचनश्च १२०
- इत्यारग्वधादिः क्वाथः
- पथ्याऽरग्वधतिक्तात्रिवृदामलकैः शृतं तोयम्
- पाचनसारकमुक्तं मुनिभिर्जीर्णज्वरे सामे
- इत्यारोग्यपञ्चकद्वयम् १२१
- अनन्ता बालकं मुस्तं नागरं कटुरोहिणी
- पिष्ट्वा सुखाम्बुना कल्कं पाययेदक्षसम्मितम् १२२
- कल्कः स्वल्पेन कालेन हन्यात्सर्वज्वरामयान्
- विदध्यात्कोष्ठसंशुद्धिं दीपयेच्च हुताशनम् १२३
- पीताम्बुर्लङ्घनक्षीणो जीर्णो भुक्तः पिपासितः
- न पिबेदौषधं जन्तुः संशोधनमथेतरत् १२४
- त्रिफला रजनीयुग्मं कण्टकारीयुगं शटी
- त्रिकटु ग्रन्थिकं मूर्वा गुडूची धन्वयासकः १२५
- कटुका पर्पटो मुस्तं त्रायमाणा च बालकम्
- निम्बः पुष्करमूलञ्च मधुयष्टी च वत्सकः १२६
- यवानीन्द्र्यवो भार्गी शिग्रुबीजं सुराष्ट्रजा
- वचात्वक्पद्मकोशीरचन्दनातिविषाबलाः १२७
- शालिपर्णी पृश्निपर्णी विडङ्गं तगरं तथा
- चित्रकं देवकाष्ठञ्च चव्यं पत्रं पटोलजम् १२८
- जीवकर्षभकौ चैव लवङ्गं वंशलोचनम्
- पुण्डरीकञ्च काकोली पत्रकं जातिपत्रकम् १२९
- तालीसपत्रमेतानि समभागानि चूर्णयेत्
- अर्द्धांशं सर्वचूर्णस्य किरातं प्रक्षिपेत्सुधीः १३०
- एतत्सुदर्शनं नाम चूर्णं दोषत्रयापहम्
- ज्वरांश्च निखिलान् हन्ति नात्र कार्या विचारणा १३१
- दोषजागन्तुकांश्चापि धातुस्थान्विषमज्वरान्
- सन्निपातोद्भवांश्चापि मानसानपि नाशयेत् १३२
- शीतादीनपि दाहादीन्मेहं तन्द्रा ं! भ्रमं तृषाम्
- कासं श्वासञ्च पाण्डुञ्च हृद्रो गं कामलामपि १३३
- त्रिकपृष्ठकटीजानुपार्श्वशूलं निवारयेत्
- शीताम्बुना पिबेदेतत्सर्वज्वरनिवृत्तये १३४
- सुदर्शनं यथा चक्रं दानवानां विनाशनम्
- तथा ज्वराणां सर्वेषां चूर्णमेतत्प्रणाशनम् १३५
- निम्बपत्रवराव्योषयवानी लवणत्रयम्
- क्षारो दिग्वह्निरामेषुत्रिनेत्रान् क्रमतॐऽशकान् १३६
- सर्वमेकीकृतं चूर्णं प्रत्यूषे भक्षयेन्नरः
- एकाहिकं द्व्याहिकञ्च तथा त्रिदिवसज्वरम् १३७
- चातुर्थिकं महाघोरं सततं सन्ततं दिवा
- धातुस्थं च त्रिदोषोत्थं ज्वरं हन्ति नसंशयम् १३८
- इति निम्बादिचूर्णम्
- शटी निशाद्वयं शुण्ठी दारु पुष्करमूलकम्
- एला गुडूची कटुका पर्पटश्च यवासकः
- शृङ्गी किराततिक्तञ्च दशमूली तथैव च १३९
- क्वाथमेषां पिबेत्कोष्णं सिन्धुचूर्णयुतं नरः
- ज्वरान्सर्वान्द्रुतं हन्ति नात्र कार्या विचारणा १४०
- हरीतकीत्रिवृद्वृद्धदारकाणां पृथग्भवेत्
- पलद्वयं कणा शुण्ठी गुडूची गोक्षुरो वरी १४१
- सहदेवी विडङ्गञ्च प्रत्येकं पलसम्मितम्
- मधुना वटिकां कृत्वा खादञ्ज्वरमपोहति १४२
- कासं श्वासं मलस्तम्भं वह्निमान्द्यं नियच्छति १४३
- लाक्षा दशाक्षा त्वरुणा षडक्षा सचन्दनं लोहितचन्दनञ्च
- त्वक्पत्रकं वारि मुरा समुस्ता प्रत्येकमेतानि पलोन्मितानि १४४
- किराततिक्तात्रिवृतासतिक्ताऽमृताकणापर्पटकण्टकार्यः
- विडङ्गविश्वाऽमलकानि वासारसानिशावीरणसिन्दुवाराः १४५
- एतानि देयानि पृथक्पलार्द्धमानानिसर्वाणि च भेषजानि
- कल्कानमीषां विदधीत गव्यदुग्धेन वै सार्द्धतुलामितेन १४६
- तैलं तिलानां तु तुलाऽनुमानं तेनैव कल्केन शनैः पचेच्च
- हन्याज्ज्वरांस्तैलमिदं समस्तान् कुर्याद् बलं वीर्यमतीव पुष्टिम् १४७
- विमर्दनादाशु परिश्रमं भ्रमं शमं नयेत्सञ्जनयेद् द्युतिं तनोः
- तथा व्यथामस्थिसमुद्भवामपि प्रहृत्य निद्रा ं! समुपार्जयेत्सुखम् १४८
- लाक्षारससमं तैलं तैलान्मस्तु चतुर्गुणम्
- अश्वगन्धानिशादारुकौन्तीकुष्ठाब्दचन्दनैः१४९
- समूर्वारोहिणीरास्नाशताह्वामधुकैः समैः
- सिद्धं लाक्षाऽदिकं नाम तैलमभ्यञ्जनादिना १५०
- सर्वज्वरक्षयोन्मादश्वासापस्मारवातनुत्
- यक्षराक्षसभूतध्नं गर्भिणीनां च शस्यते १५१
- लाक्षा हरिद्रा मञ्जिष्ठा फेनिलं मधुकं वला
- लामज्जकं चन्दनं च चम्पकं नीलमुत्पलम् १५२
- प्रत्येकमेषां षण्मुष्टीः पक्त्वा तोये चतुर्गुणे
- चतुर्भागावशेषे तु गर्भे चैतत्समावपेत् १५३
- रेणुका पद्मकञ्चैव वाजिगन्धा तथैव च
- वेतसं चोरकं कुष्ठं देवदारु नखं त्वचम् १५४
- शतपुष्पा पुण्डरीकं मांसी मधुकमेव च
- एभिरक्षमितैः कल्कैः कषायेणैव पेषितैः १५५
- मस्तुशुक्तारनालानामाढकांशं समावपेत्
- क्षीराढकसमायुक्तं तैलप्रस्थं विपाचयेत् १५६
- अभ्यङ्गात्तैलमेतद्धि शीघ्रं दाहमपोहति
- व्यपोहति तथा वातपित्तश्लेष्मभवज्वरम् १५७
- सप्रलापं सतृष्णञ्च तालुशोषभ्रमान्वितम्
- ग्रहोपसृष्टा ये बाला रक्षसा दूषिताश्च ये
- तेषां कष्टं प्रशमयेत्तैलं लाक्षाऽदिकं महत् १५८
- सूतो गन्धष्टङ्कणः शोषणश्च सर्वैस्तुल्या शर्करा मत्स्यपित्तैः
- भूयो भूयो मर्दयेत्तत् त्रिरात्रं वल्लो देयः शृङ्गवेरद्र वेण १५९
- तापे शीतं व्यञ्जनैस्तक्रभक्तं वृन्ताकाढ्यं पथ्यमेतत्प्रदिष्टम्
- अह्नायोग्रं हन्ति सद्यो ज्वरन्तु पित्ताधिक्ये मूर्ध्नि तोयं च दद्यात् १६०
- भवेत् समं सूतसमुद्र फेनहिङ्गूलगन्धं परिमर्द्य यामम्
- नवज्वरे वह्रयुगं त्रिघस्रमाद्रा र्म्भ!साऽय ज्वरधूमकेतुः १६१
- शुद्धसूतो विषं गन्धः प्रत्येकं शाणसम्मितः
- धूर्त्तबीजं त्रिशाणं स्यात्सर्वेभ्यो द्विगुणा भवेत् १६२
- हेमाह्व कारयेदेषां सूक्ष्मं चूर्णं प्रयत्नतः
- देयं जम्बीरमज्जाभिश्चूर्णं गुञ्जाद्वयोन्मितम् १६३
- आर्द्र कस्य रसेनापि ज्वरं हन्ति त्रिदोषजम्
- एकाहिकं द्वयाहिकं च त्र्! याहिकं च चतुर्थकम् १६४
- विषमञ्च ज्वरं हन्यान्नवं जीर्णञ्च सर्वथा
- महाज्वराङ्कुशो नाम्ना रसोऽय सर्वसम्मतः १६५
- एको भागो रसाच्छुद्धाच्छैलेयःपिप्पली शिवा
- आकारकरभो गन्धः कटुतैलेन शोधितः १६६
- फलानि चेन्द्र वारुण्याश्चतुर्भागमिता अमी
- एकत्र मर्दयेच्चूर्णमिन्द्र वारुणिकारसैः १६७
- माषोन्मितां वटीं कृत्वा दद्यात्सद्योज्वरे बुधः
- छिन्नारसानुपानेन ज्वरघ्नी वटिका मता १६८
- रसं गन्धञ्च दरदं जैपालंक्रमवर्द्धितम्
- दन्तीरसेन संपिष्य वटी गुञ्जामिता भवेत् १६९
- प्रभाते सितया सार्द्धमशिता शीतवारिणा
- एकेन दिवसेनैषा नवज्वरहरी भवेत् १७०
- रसो गन्धो विषं शुण्ठीपिप्पलीमरिचानि च
- पथ्या बिभीतकं धात्री दन्तीबीजं च शोधितम् १७१
- चूर्णमेषां समांशानां द्रो णपुष्पीरसैः पुटेत्
- वटीं माषनिभांकुर्याद्भक्षयेन्नूतने ज्वरे १७२
- एकभागो रसो भागद्वयं शुद्धञ्च गन्धकम्
- गरलस्य त्रयो भागाश्चतुर्भागा हिमावती १७३
- जैपालकः पञ्चभागो निम्बूद्र वविमर्दितः
- कृमिघ्नप्रमिता वट्यः कार्याः सर्वज्वरच्छिदः १७४
- शृङ्गवेरेण दातव्या वटिकैका दिने दिने
- जीर्णज्वरे तथाऽजीर्णे सामे वा विषमे तथा १७५
- ज्वरं सर्व निहन्त्यसौ दावो वनमिवानलः १७६
- शुद्धं सूतं विषं गन्धं धूर्त्तबीजं त्रिभिः समम्
- चतुर्णां द्विगुणं व्योषं चूर्णं गुञ्जाद्वयोन्मितम् १७७
- आर्द्र कस्य रसैः किं वा जम्बीरस्य रसैर्युतम्
- महाज्वराङ्कुशो नाम्ना सर्वज्वरविनाशनः १७८
- एकाहिकं द्व्याहिकञ्च त्र्! याहिकञ्च चतुर्थकम्
- विषमं वा त्रिदोषं वा ज्वरं हन्ति न संशयः १७९
- सूतं गन्धं विषं चैव टङ्कणं च मनःशिला
- एतानि टङ्कमात्राणि मरिचं त्वष्टटङ्ककम् १८०
- कटुत्रयं टङ्कषट्कं खल्ले क्षिप्त्वा विचूर्णयेत्
- रसः श्वासकुठारोऽय सर्वज्वरहरः परः १८१
- दारुमुखां शिखिग्रीवां रसकञ्च पृथक् पृथक्
- टङ्कत्रयानुमानेन गृहीत्वा कनकद्र वैः १८२
- मर्दयेत् त्रिदिनं कार्या वटी चणकमात्रया
- मरिचैरेकविंशत्या सप्तभिस्तुलसीदलैः १८३
- खादेद्वटीद्वयं पथ्यं दुग्धभक्तं सशर्करम्
- तरुणं विषमं जीर्णं हन्यात्सर्वज्वरं ध्रुवम् १८४
- नागरं कर्षमात्रञ्च टङ्कणं कर्षकद्वयम्
- मरिचं सार्द्धकर्षं स्यात्तावद्दग्धवराटकम् १८५
- विषं कर्षचतुर्थांशं सर्वमेकत्र चूर्णयेत्
- रसो हुताशनो नाम्ना खाद्यो गुञ्जामितो ज्वरे १८६
- शुद्धजैपालटङ्कं तु कट्वीं टङ्कद्वयोन्मिताम्
- गैरिकं टङ्कमेकञ्च कन्यानीरेण मर्दयेत् १८७
- कलायसदृशी कार्या वटिका ताञ्च भक्षयेत्
- शीतलेन जलेनैव वटी जीर्णज्वरापहा १८८
- द्विभागतालेन हतं च ताम्रं रसं च गन्धं च समीनमायुम्
- विषं समं च द्विगुणञ्च ताम्रं त्रिःसप्तवारेण दिवाकरांशौ १८९
- विमर्द्य चारिष्टरसेनचूर्णं गुञ्जैकदत्तं सितया समेतम्
- ज्वराङ्कुशोऽय रविसुन्दराख्यो ज्वरान्निहन्त्यष्टविधान्समस्तान् १९०
- शुद्धं सूतं तथा गन्धं खल्ले तावद्विमर्दयेत्
- सूतं न दृश्यते यावत्किन्तु तत्कज्जलं भवेत् १९१
- एषा कज्जलिका ख्याता वृंहणी वीर्यवर्द्धिनी
- नानाऽनुपानयोगेन सर्वव्याधिविनाशिनी १९२
- जपापत्ररसेनाथ वर्द्धमानरसेन च
- भृङ्गराजरसेनापि काकमाच्या रसेन च १९३
- रसं संशोधयेत्तेन तत्समं शोधयेद्वलिम्
- भृङ्गराजरसैः पिष्ट्वा शोषयेदर्करश्मिभिः १९४
- सप्तधा वा त्रिधा वाऽपि पश्चाच्चूर्णन्तु कारयेत्
- चूर्णयित्वा समं तेन रसेन सह मर्दयेत् १९५
- नष्टसूतं यदा चूर्णं भवेत्कज्जलसन्निभम्
- निर्धूमबदराङ्गारे द्र वीकुर्यात्प्रयत्नतः १९६
- तत्र तं महिषीविष्ठास्थापिते कदलीदले
- निक्षिपेत्तदुपर्य्यन्यत् पत्रं दत्वा प्रपीडयेत् १९७
- शीतलञ्च ततः पत्रात् समुद्धृत्य विचूर्णयेत्
- एवं सिद्धा भवेद्व्याधिघातिनी रसपर्पटी १९८
- ज्वरादिव्याधिभिर्व्याप्तं विश्वं दृष्ट्वा पुरा हरः
- चकार कृपया युक्तः सुधावद्र सपर्पटीम् १९९
- रक्तिकासम्मितां तावद् भृष्टजीरकसंयुताम्
- गुञ्जाऽद्धभृष्टहिङ्ग्वाढ्यां भक्षयेद्र सपर्पटीम् २००
- रोगानुरूपभैषज्यैरपि तां भक्षयेद्बुधः
- पिबेत्तदनु पानीयं शीतलंचुलुकत्रयम् २०१
- प्रत्यहं वर्धयेत्तस्याएकैकां रक्तिकां भिषक्
- नाधिकां दशगुञ्जातो भक्षयेत्तां कदाचन २०२
- एकादशदिनारम्भात्तां ततो वाऽपकर्षयेत्
- एवमेतां समश्नीयान्नरो विंशतिवासरान् २०३
- शिवं गुरूंस्तथा विप्रान्पूजयित्वा प्रणम्य च
- श्रद्धया भक्षयेदेतां क्षीरमांसरसाशनः २०४
- ज्वरञ्च ग्रहणीं वाऽपि तथाऽतीसारमेव च
- कामला पाण्डुरोगञ्च शूलं प्लीहं जलोदरम् २०५
- एवमादीन् गदान् हत्वा हृष्टः पुष्टश्च वीर्यवान्
- जीवेद्वर्षशतं साग्रं वलीपलितवर्जितः २०६
- अथ ज्वरिणोऽन्नदानसमयस्तत्र चरकः
- क्षुत्सम्भवति पक्वेषु रसदोषमलेषु च
- काले वा यदि वाऽकालेसोऽन्नकाल उदाहृतः २०७
- आमे पाकं गते नॄणां यदा भोजनलालसा
- भवेत्काले ह्यकाले वा सोऽन्नकाल उदाहृतः २०८
- सर्वज्वरेषु सप्ताहं मात्रावल्लघु भोजयेत्
- वेगापायेऽन्यथा तद्धिज्वरवेगाभिवर्द्धनम् २०९
- आहारनिर्हारविहारयोगाःसदैव सद्भिर्विजने विधेयाः २१०
- ज्वरे प्रमेहो भवति स्वल्पैरपि विचेष्टितैः
- निषण्णं भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत् २११
- यथादोषोचितैर्द्र्रव्यैः कर्त्तव्यः कवल ग्रहः
- अरोचकास्यवैरस्यमलपूतिप्रसेकहृत् २१२
- भृष्टजीरकचूर्णेन सिन्धुजन्मयुतेन च
- जिह्वादन्तान्मुखस्यान्तर्घृष्ट्वा कवलमाचरेत् २१३
- मुखे मलं विगन्धत्वं विरसत्वंच नश्यति
- मनःप्रसन्नं भवति भोजनेऽतिरुचिर्भवेत् २१४
- ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत्
- अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽपि च २१५
- रक्तशाल्यादयः शस्ताःपुराणाः षष्टिकैः सह
- यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः २१६
- मुद्गान् मसूरांश्चणकान् कुलत्थान्समकुष्ठकान्
- यूषार्थे यूषसात्म्यानं ज्वरितानां प्रदापयेत् २१७
- पटोलपत्रं वार्त्ताकुं कुलकं कारवेल्लकम्
- कर्कोटकं पर्पटकं गोजिह्वां बालमूलकम् २१८
- पत्रं गुडूच्याःशाकार्थे ज्वरितानां ज्वरापहम्
- लावान् कपिञ्जलानेणान् हरिणान्पृषताञ्छशान् २१९
- कुरङ्गान्कालपुच्छांश्च तथैव मृगमातृकान्
- मांसार्थं मांससात्म्यानां ज्वरितानां प्रदापयेत् २२०
- सारसक्रौञ्चशिखिनस्तथा तित्तिरकुक्कुटान्
- गुरूष्णत्वान्न शंसन्ति केचिदेवं व्यवस्थिताः २२१
- ज्वरितानां प्रकोपं तु यदा याति समीरणः
- तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः २२२
- निम्बुकं दाडिमं धात्रीफलमम्लं प्रकाङ्क्षते
- प्रदद्यादम्लसात्म्याय काञ्जिकं वा पुरातनम् २२३
- तण्डुलानां सुसिद्धानां चतुर्दशगुणे जले
- रसः सिक्थैर्विरहितो मण्ड इत्यभिधीयते २२४
- शुण्ठीसैन्धवसंयुक्तो दीपनः पाचनश्च सः
- अन्नस्य सम्यक्सिद्धत्वं ज्ञेया मण्डस्य सिद्धता २२५
- पेयायूषयवागूनां विलेपीभक्तयोरपि
- मण्डो ग्राही लघुः शीतो दीपनो धातुसाम्यकृत्
- ज्वरघ्नस्तर्पणो बल्यः पित्तश्लेष्मश्रमापहः २२६
- चतुर्दशगुणे नीरे रक्तशाल्यादिभिः कृता
- द्र वाधिका स्वल्पसिक्था पेया प्रोक्ता भिषग्वरैः २२७
- साऽतिलघ्वी ग्राहिणी च धातुपुष्टिविधायिनी
- तृड्ज्वरानिलदौर्बल्यकुक्षिरोगविनाशिनी २२८
- स्वेदाग्निजननी ज्ञेया वातवर्चोऽनुलोमनी
- शुण्ठीसैन्धवसंयुक्ता दीपनी पाचनी च सा २२९
- आमशूलहरी रुच्या स्याद्विबन्धविनाशिनी २३०
- प्रमथ्या प्रोच्यते द्र्रव्यपलात्कल्कीकृताच्छ्रतात्
- तोयेऽष्टगुणिते तस्याः पानमाहुः पलद्वयम्
- गुणैः प्रमथ्या पेयावत्ततो लघ्वी विशेषतः २३१
- अष्टादशगुणे नीरे शिम्बीधान्यशृतो रसः
- विरलान्नो घनः किञ्चित्पेयातो यूष उच्यते
- उक्तः स एव निर्यूहो रुचिकृच्च विशेषतः २३२
- कल्कद्र्रव्यपलं शुण्ठी पिप्पली चार्द्धकार्षिकी
- वारिप्रस्थेन विपचेत्तद्भवो यूष उच्यते २३३
- यूषो बल्यो लघुःपाके रुच्यः कण्ड्यः कफापहः २३४
- मुद्गानां द्विपलं तोये शृतमर्द्धाढकोन्मिते
- पादस्थं मर्दितं पूतं दाडिमस्य पलेन तत् २३५
- युक्तं सैन्धवविश्वाह्वधान्यकैः पादिकांशिकैः
- कणाजीरकयोश्चूर्णाच्छाणैकेनावचूर्णितम्
- संस्कृतो मुद्गयूषोऽय पित्तश्लेष्महरो मतः २३६
- मुद्गानामुत्तमो यूषः दीपनः शीतलो लघुः
- व्रणोर्द्ध्वजत्रुरुग्दाहकफपित्तज्वरास्रजित् २३७
- मुद्गामलकयूषस्तु भेदी पित्तानिलापहः
- तृड्दाहशमनः शीतो मूर्च्छाश्रममदापहः २३८
- मसूरयूषः संग्राही बृंही स्वादुः प्रमेहनुत् २३९
- यवागू षडगुणे तोये संसिद्धा घनसिक्थका
- पृथग्द्र वैस्तु विरलैः संयुक्ता ज्वरिणे हिता २४०
- यवागूर्दीपनी लघ्वी तृष्णघ्नी वस्तिशोधिनी
- श्रमग्लानिहरी पथ्या ज्वरे चैवातिसारके २४१
- चतुर्गुणाम्बुसंसिद्धा विलेपी घनसिक्थका
- पृथग्द्र वेण रहिता ख्याता शिथिलभक्तिका २४२
- विलेपी दीपनी बल्या हृद्या संग्राहिणी लघुः
- व्रणाक्षिरोगिणां पथ्या तर्पणी तृड्ज्वरापहा २४३
- जले चतुर्दशगुणे तण्डुलानां चतुष्पलम्
- विपचेत्स्रावयेन्मण्डं तद्भक्तं मधुरं लघु २४४
- अन्नं पञ्चगुणे तोये यवागूं षडगुणे पचेत्
- भक्तं वह्निकरं पथ्यं तर्पणं मूत्रलं लघु २४५
- सुधौतं प्रस्रुतं चोष्णं विशदं गुणवत्तरम्
- अधौतमस्रतं शीतं वृष्यं गुरु कफप्रदम् २४६
- अत्युष्णं बलहृद्भक्तं शीतं शुष्कञ्च दुर्जरम्
- अतिक्लिन्नं ग्लानिकरं दुर्जरं तण्डुलान्वितम् २४७
- भृष्टतण्डुलजं रुच्यं सुगन्धिं कफहृल्लघु
- वातास्थापितमन्दाग्निविरिक्तानां प्रशस्यते २४८
- मांसलं सक्थिजं मांसं तथाऽनस्थि च तैत्तिरम्
- चतुष्पलोन्मितं सूक्ष्मं कल्पितं क्षालितं जले २४९
- पिप्पलीपिप्पली मूल शुण्ठीजीरकधान्यकैः
- द्विशाणैः संयुते तोये क्वाथ्यमर्द्धाढकोन्मिते
- पादस्थितं जलं तत्र दाडिमात् कुट्टिताद्धरेत्
- तं रसं मर्दितं हिङ्गुभृष्टसैन्धवजीरकैः २५०
- युक्तं प्रधूपितं पथ्यं शुद्धानां शुद्धिकाङ्क्षिणाम् २५१
- रसौदनो गुरुर्वृष्यो बल्यो वातज्वरापहः २५२
- साध्यं चतुष्पलं द्र्रव्यं चतुःषष्टिपलेऽम्बुनि
- तत्क्वाथेनार्द्धशिष्टेन मण्डपेयाऽदि साधयेत् २५३
- वृद्धवैद्याः पलं द्र व्यं ग्राहयन्त्याढकेऽम्भसि
- भेषजस्यातिबाहुल्यात् कदाचिदरुचिर्भवेत् २५४
- यैरन्नैरौषधैर्यैश्च कृता मण्डादयो बुधैः
- विचार्य तद्गुणानेतांस्तद्गुणानेव निर्दिशेत् २५५
- अन्नकाले हिता पेया यथास्वं पाचनैः कृता
- दीपनी पाचनी लघ्वी ज्वरार्त्तानांज्वरापहा २५६
- पञ्चमूल्याः कषायन्तु पाचनं वातिके ज्वरे
- सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्र्रयवैः कृतम् २५७
- पिप्पल्यादिकषायं तु पाचनं कफजे ज्वरे
- लघुना पञ्चमूलेन पिप्पल्या सह धान्यया २५८
- महत्या पञ्चमूल्याऽथ व्याघ्रीदुःस्पर्शगोक्षुरैः
- सिद्धानि भिषगन्नानि प्रयुञ्जीत यथाक्रमम्
- वातपित्ते श्लेष्मपित्ते कफवाते त्रिदोषजे २५९
- पेयां वा रक्तशालीनां वस्तिपार्श्वशिरोरुजि
- श्वदंष्ट्राकण्टकारीभ्यां सिद्धां ज्वरहरीं पिबेत् २६०
- विबद्धवर्चाः सयवां पिप्पल्यामलकैः शृताम्
- सर्पिष्मतीं पिबेत्पेयां ज्वरी दोषानुलोमिनीम् २६१
- कासी श्वासी च हिक्की च पञ्चमूलीशृतां पिबेत् २६२
- पेया भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनी
- वातमूत्रपुरीषाणां दोषाणां चानुलोमिका २६३
- स्वेदनाय च सोष्णत्वाद् द्र्रवत्वात्तृट्क्षयाय च
- आहारभावात्प्राणाय सरत्वाल्लाघवाय च
- ज्वरध्नी हेतुसाम्यत्वात्तस्मात्तां पूर्वमाचरेत् २६४
- यवकोलकुलत्थानां मुद्गमूलकशुण्ठयोः
- एकैकमुष्टिमादाय पचेदष्टगुणे जले २६५
- पञ्चमुष्टिक इत्येष वातपित्तकफापहः
- शूले प्रशस्यते गुल्मे कासे श्वासे क्षये ज्वरे २६६
- रुद्धमूत्रपुरीषस्य गुदे वर्त्तिं निधापयेत् २६७
- पिप्पलीपिप्पलीमूलयवानीचव्यसाधिताम्
- पाययेत्तु यवागूं वा मारुताद्यनुलोमिनीम् २६८
- मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफोत्थिते
- ऊर्ध्वगे रक्तपित्ते च यवागूर्न हिता ज्वरे २६९
- दाहच्छर्द्यर्दितं क्षामं निरन्नं तृष्णयाऽन्वितम्
- घर्मार्त्तं मद्यपं चापि तोयालोडितसक्तुकम् २७०
- शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम्
- ज्वरापहैः फलरसैर्युक्तमन्नं हितं क्वचित् २७१
- द्रा क्षादाडिमखर्जूरमृदिताम्बु सशर्करम्
- लाजचूर्णं समध्वाज्यं सन्तर्पणमुदाहृतम् २७२
- लाजानां सक्तवः क्षौद्र सितायुक्ता विशेषतः
- छर्द्यतीसारतृड्दाहविषमूर्च्छाज्वरापहाः २७३
- तत्र तर्पणमेवादौ प्रदेयं लाजसक्तुभिः
- ज्वरापहैः फलरसैर्युक्तं समधुशर्करम् २७४
- द्रा क्षादाडिमखर्जूरप्रियालैः सपरूषकैः
- तर्पणार्हस्य दातव्यं तर्पणं ज्वरनाशनम् २७५
- श्रमोपवासानिलजे हितो नित्यं रसौदनः २७६
- मुद्गयूषौदनश्चैव हितः कफसमुत्थिते
- स एव सितयायुक्तः शीतः पित्तज्वरे हितः २७७
- कृशोऽल्पदोषो यः क्षीणकफो जीर्णज्वरान्वितः
- विवद्धासृष्टदोषश्च रूक्षपित्तानिलज्वरी
- पिपासाऽत्त सदाहश्च पयसा स सुखी भवेत् २७८
- अजादुग्धं गुडोपेतं पातव्यं ज्वरशान्तये
- तदेव तु पयः पीतं तरुणे हन्ति मानवम् २७९
- जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम्
- तदेव तरुणे पीतं विषवद्धन्ति मानवम् २८०
- न द्विरद्यान्न पूर्वाह्णे नाभिष्यन्दि कदाचन
- न तीक्ष्णं न गुरुप्रायं भुञ्जीत तरुणज्वरी २८१
- न जातु तर्पयेत्प्राज्ञः सहसा ज्वरकर्शितम्
- तेन संशमितोऽप्यस्यपुनरेव भवेज्ज्वरः २८२
- दाहः स्वेदो भ्रमस्तृष्णा कम्पो विड्भिदसंज्ञता
- कूजनं चातिवैगन्ध्यमाकृतिर्ज्वरमोक्षणे २८३
- त्रिदोषजे ज्वरे ह्येतदन्तर्वेगे च धातुगे
- लक्षणं मोक्षकाले स्यादन्यस्मिन्स्वेददर्शनम् २८४
- देहो लघुर्व्यपगतक्लममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम्
- स्वेदः क्षवः प्रकृतियो गिमनोऽन्नलिप्सा कण्डूश्च मूर्ध्निविगतज्वरलक्षणानि २८५
- स्वेदो लघुत्वं शिरसः कण्डूः पाको मुखस्य च
- क्षवथुश्चान्नकाङ्क्षा च ज्वरमुक्तस्य लक्षणम् २८६
- व्यायामञ्च व्यवायञ्च स्नानं चङ्क्रमणानि च
- ज्वरमुक्तो न सेवेत यावन्न बलवान्भवेत् २८७
- व्ययामञ्च व्यवायञ्च प्रवातं शिशिरं जलम्
- ज्वर मुक्तो नसेवेत यावन्न बलवान्भवेत् २८८
- जन्तोर्ज्वरविमुक्तस्य स्नानं कुर्यात्पुनर्ज्वरम्
- तस्माज्ज्वरविमुक्तोऽपि स्नानं विषमिव त्यजेत् २८९
- बलवर्णाग्निवपुषां यावन्न प्रकृतिर्भवेत्
- तावज्ज्वरेण मुक्तोऽपि वर्जनीयानि वर्जयेत् २९०
- वातलाहारचेष्टाभ्यां वायुरामाशयाश्रयः
- बहिर्निरस्य कोष्ठाग्निं ज्वरकृत्स्याद् रसानुगः २९१
- वेपथुर्विषमो वेगः कण्ठौष्ठमुखशोषणम्
- निद्रा नाशः क्षवस्तम्भो गात्राणां रौक्ष्यमेव च २९२
- शिरोहृद्गात्ररुग्वक्त्रवैरस्यां बद्धविट्कता
- शूलाध्माने जृम्भणञ्च भवन्त्यनिलजे ज्वरे २९३
- भवन्ति विविधा वातवेदनाः स्यादसुप्तता
- पिण्डिकोद्वेष्टनं कर्णस्वनो वक्त्रकषायता
- गात्रसादो हनुस्तम्भो विश्लेषः सन्धिजानुनोः २९४
- शुष्ककासो वमिर्लोमदन्तहर्षः श्रमभ्रमौ
- अरुणं मूत्रनेत्रादि तृट्प्रलापोष्णगात्रताः २९५
- ज्वरितं षडहेऽतीते लघ्वन्नं प्रतिभोजितम्
- पाचनं शमनीयञ्च कषायं पाययेद्भिषक् २९६
- वातिके सप्तरात्रेण दशरात्रेण पैत्तिके
- श्लैष्मिके द्वादशाहेन ज्वरे युञ्जीत भेषजम् २९७
- दोषाणामेव सा शक्तिर्लङ्घने या सहिष्णुता
- न हि दोषक्षये कश्चित्सहते लङ्घनं महत् २९८
- कफपित्ते द्र्रवे धातू सहेते लङ्घनं बहु
- आमक्षयादूर्ध्वमपि वायुर्न सहते क्षणम् २९९
- तत्र भेषजम्
- श्रीफलः सर्वतोभद्रा कामदूती च शोणकः
- तर्कारी गोक्षुरः क्षुद्रा बृहती कलशी स्थिरा ३००
- रास्ना कणा कणामूलं कुष्ठं शुण्ठी किरातकः
- मुस्ता बलाऽमृता बालं द्रा क्षायासशताह्विकाः ३०१
- एषां क्वाथो निहन्त्येव प्रभञ्जनकृतं ज्वरम्
- सोपद्र वञ्च योगोऽय सर्वयोगवरः स्मृतः ३०२
- त्रिशतीतर्कारी श्रीफलटुण्टुकपाटलामूलैः
- पाचनमुचितं मारुतजनितज्वरहारि वारिणा क्वथितैः ३०३
- किराताब्दामृतोदीच्य बृहतीद्वयगोक्षुरैः
- त्रिपर्णीकलशीबिल्वैः क्वाथो वातज्वरापहः ३०४
- गुडूचीपिप्पलीमूलनागरैःपाचनं शृतम्
- वातज्वरे तथा पेयं कालिङ्गं सप्तमेऽहनि ३०५
- विश्वाऽमृताग्रन्थिकसिद्धतोयं मरुज्ज्वरः स्यात्पिबतः कुतोऽयम्
- क्वाथोऽथ कुस्तुम्बुरुदेवदारुक्षुद्रौ षधैः पाचनमत्र चारु ३०६
- पञ्चमूलीवलारास्नाकुलत्थैः सह पौष्करैः
- क्वाथो हन्याच्छिरःकम्पं पर्वभेदं मरुज्ज्वरम् ३०७
- कणारसोनामृतवल्लिविश्वानिदिग्धिकासिन्धुकभूमिनिम्बैः
- समुस्तकैराचरितः कषायो हिताशिनां हन्ति गदानिमांस्तु ३०८
- ज्वरं मरुद्दुष्टिसमुद्भवं तथा बलासजं चानलमन्दताञ्च
- कण्ठावरोधं हृदयावरोधं स्वेदञ्च रोमाञ्चहिमत्वमोहान् ३०९
- अथ कल्पतरुरसः
- शुद्धं शंकरशुक्रमक्षतुलितं मारारिनारी रजस्तद्वत्तावदुमापतिस्फुट गलालङ्कारवस्तु स्मृतम्
- तावत्येव मनःशिला च विमला तावत्तथा टङ्कणंशुण्ठी द्व्यक्षमिता कणाच मरिचं दिक्पालसंख्याक्षकम् ३१०
- विषादिवस्तूनि शिलोपरिष्टाद् विचूर्णयेद्बाससि शोधयेच्च
- ततस्तु खल्वे रसगन्धकौ च चूर्णञ्च तद्यामयुगंविमर्द्यम् ३११
- कल्पतरुनामधेयो यथार्थनामा रसः श्रेष्ठ
- समीरणश्लेष्मगदान्हरते मात्राऽस्य स्मृता गुञ्जैका ३१२
- आर्द्र्रकेण सममेष भक्षितो हन्ति वातकफसम्भवं ज्वरम्
- श्वासकासमुखसेकशीतता वह्निमान्द्यविसुचीश्च नाशयेत् ३१३
- नस्येनाश्वेव हरति शिरोर्तिं कफवातजाम्
- मोहं महान्तमपि च प्रलापं क्षवथुग्रहम् ३१४
- सामन्यज्वरचिकित्सोक्तो महाज्वराङ्कुशः प्रदेयोऽत्र
- अथ त्रिपुरभैरवरसः
- विषमहौषधमागधिकोषणद्युमणिरक्तकमार्द्र्रकमर्दितम्
- क्रमविवर्द्धितमुद्दलितज्वरस्त्रिपुरभैरव एष रसो वरः ३१५
- वातश्लेष्मज्वरे स्वेदं जङ्घापार्श्वास्थिशूलिनि
- पीनसश्वासबाधिर्ये कारयेत्तद्विधानवित् ३१६
- स्रोतसां मार्दवं कृत्वा नीत्वा पावकमाशयम्
- हत्वा वातकफस्तम्भं स्वेदो ज्वरमपोहति ३१७
- खर्परभृष्टपटस्थितकाञ्जिकसंसिक्तबालुकास्वेदः
- शमयति वातकफामयशूलाङ्गभङ्गकम्पादीन् ३१८
- कम्पे शिरोहृदयगात्रव्यथायां जृम्भायां पादसुप्ततायाम्
- पिण्डिकोद्वेष्टनेऽङ्गसादे हनुस्तम्भे च लोमहर्षे ३१९
- मातुलुङ्गफलकेशरो धृतः सिन्धुजन्ममरिचान्वितो मुखे
- हन्ति वातकफरोगमास्यगं शोषमाशु जडतामरोचकम् ३२०
- शर्करादाडिमाभ्याञ्च द्रा क्षादाडिमयोस्तथा
- कल्कं विधारयेदास्ये शोषवैरस्यनाशनम् ३२१
- द्रा क्षाऽमलकयोः कल्कं सघृतं वदने क्षिपेत्
- तेन घृष्ट्वा मुखस्यान्तः कुर्वीत प्रतिसारणम् ३२२
- तेन तालुगलान्तःस्थः संशोषश्चैव शाम्यति
- सुरसं जायते वक्त्रं रुचिर्भवति भोजने ३२३
- नावनं लङ्घनं चिन्ता व्यायामः शोकभीरुषः
- एभिरेव भवेन्निद्रा नाशः श्लेष्मातिसंक्षयात् ३२४
- भृष्टन्तु विजयाचूर्णं मधुना निशि भक्षयेत्
- निद्रा नाशेऽतिसारे च ग्रहण्यां पावकक्षये ३२५
- गुडं पिप्पलिमूलस्य चूर्णेनालोडितं लिहेत्
- चिरादपि च संनष्टां निद्रा माप्नोति मानवः ३२६
- वायसजङ्घामूलं बद्धं वा शिरसि काकमाच्याश्च
- विधृतं निद्रा जनकं त्वङ्मूलं वा शृतं सगुडम् ३२७
- मूलन्तु काकमाच्या बद्धं सूत्रेण मस्तके नियतम्
- विदधाति नष्टनिद्रो निद्रा माश्वेव सिद्धमिदम् ३२८
- शीलयेन्मन्दनिद्र स्तु क्षीरमद्यरसान्दधि
- अभ्यङ्गोद्वर्त्तनस्नानमूर्द्धकर्णाक्षितर्पणम् ३२९
- कान्ताबाहुलताऽश्लेषो निर्वृतिः कृतकृत्यता
- मनोऽनुकूला विषयाः कामं निद्रा सुखप्रदाः ३३०
- रसे शाके च सूपे च सर्पिर्यूषपयःसु च
- निद्रा ं! सञ्जनयत्याशु पलाण्डुरुपयोजितः ३३१
- एक्षवं पोतकी माषः सुरा मांसरसः पयः
- गोधूमतिलमत्स्याश्च निद्रा ं! कुर्वन्ति देहिनाम् ३३२
- दारुहैमवती कुष्ठशताह्वाहिङ्गुसैन्धवैः
- लिम्पेत्कोष्णैरम्लपिष्टैः शूलाध्मानयुतोदरम् ३३३
- कटुतैलं कणाहिङ्गुवचालशुनसाधितम्
- उष्णं विनिहितं हन्ति कर्णयोर्निःस्वनं व्यथाम् ३३४
- कणा सुगन्धिवचया यवान्या च समन्विता
- ताम्बूलसहिता हन्ति शुष्ककासं मुखे धृता ३३५
- श्रमोपवासानिलजे हितो नित्यं रसौदनः
- मुद्गामलकयूषस्तु बद्धविट्काय दीयते ३३६
- पेयां वा रक्तशालीनां वस्तिपार्श्वशिरोरुजि
- श्वदंष्ट्रकण्टकारीभ्यां सिद्धां ज्वरहरीं पिबेत्
- कासी श्वासी च हिक्की च पञ्चमूलीशृतां पिबेत् ३३७
- पित्तलाहारचेष्टायां पित्तमामाशयाश्रयम्
- बहिर्निरस्य कोष्ठाग्निंज्वरकृत्स्याद्र्रसानुगम् ३३८
- वेगस्तीक्ष्णोऽतिसारश्च निद्रा ऽल्पत्वं तथा वमिः
- कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ३३९
- प्रलापो वक्त्रकटुता मूर्च्छा दाहो मदस्तृषा
- पीतविण्मूत्र नेत्रत्वं पैत्तिके भ्रम एव च ३४०
- पैत्तिके दशरात्रेण ज्वरे युञ्जीत भेषजम् ३४१
- अथ तिक्ताऽदिक्वाथः
- तिक्तामुस्तायवैः पाठाकट्फलाभ्यां सहोदकम्
- पक्वं सशर्करं पीतं पाचनं पैत्तिके ज्वरे ३४२
- अथ पर्पटादिक्वाथ
- पर्पटो वासकस्तिक्ता कैरातो धन्वयासकः
- प्रियङ्गुश्च कृतः क्वाथ एषां शर्करया युतः
- पिपासादाहपित्तास्रयुक्तं पित्तज्वरं हरेत् ३४३
- अथ द्रा क्षाऽदिक्वाथः
- द्रा क्षा हरीतकी मुस्ता कटुका कृतमालकः
- पर्पटश्च कृतः क्वाथ एषां पित्तज्वरापहः ३४४
- मुखशोषप्रलापार्त्तिदाह मूर्च्छाभ्रमप्रणुत्
- पिपासारक्तपित्तानां शमनो भेदनो मतः ३४५
- अथ पटोलादिक्वाथः
- पटोलयवधान्याकमधुकं मधुसंयुतम्
- हन्ति पित्तज्वरं दाहं तृष्णाञ्चातिप्रमाथिनीम् ३४६
- अथ गुडूच्यादिक्वाथः
- गुडूच्यामलकैर्युक्तः केवलो वाऽपि पर्पटः
- पित्तज्वरं हरेत्तूर्णं दाहशोषभ्रमान्वितम् ३४७
- एकः पर्पटकः श्रेष्ठः पित्तज्वरविनाशनः
- किं पुनर्यदि युज्येत चन्दनोशीरबालकैः ३४८
- अथ ह्रीवेरादिक्वाथः
- ह्रीवेरचन्दनोशीरघनपर्पटसाधितम्
- दद्यात्सुशीतलं वारि तृट्छर्दिज्वरदाहनुत् ३४९
- अथ भूनिम्बादिक्वाथः
- भूनिम्बातिविषालोध्रमुस्तकेन्द्र यवामृताः ३५०
- बालकं धान्यकं बिल्वं कषायो माक्षिकान्वितः
- विड्भेदश्वासकासांश्च रक्तपित्तज्वरं हरेत् ३५१
- अथ महाद्रा क्षाऽदिक्वाथः
- द्रा क्षाचन्दनपद्मानि मुस्तातिक्ताऽमृताऽपि च
- धात्री बालमुशीरं च लोध्रेन्द्र यवपर्पटाः ३५२
- परूषकं प्रियङ्गुश्च यवासो वासकस्तथा
- मधुकं कुलकञ्चापि किरातो धान्यकं तथा ३५३
- एषां क्वाथो निहन्त्येव ज्वरं पित्तसमुत्थितम्
- तृष्णां दाहं प्रलापञ्च रक्तपित्तं भ्रमं क्लमम् ३५४
- मृर्च्छां छर्दिं तथा शूलं मुखशोषमरोचकम्
- कासं श्वासञ्च हृल्लासं नाशयेन्नात्र संशयः ३५५
- अथ धान्याकक्वाथः
- ससितो निशि पर्युषितः प्रातर्धान्याकतण्डुलक्वाथः
- पीतः शमयत्यचिरादन्तर्दाहं ज्वरं पैत्तम् ३५६
- अथामृताहिमवासाहिमौ
- अमृतायाता हिमः प्रातः ससितः पैत्तिकं ज्वरम्
- वासायाश्च तथा कासरक्तपित्तज्वराञ्जयेत् ३५७
- अथद्वितीयो गुडूच्यादिक्वाथः
- गुडूची भूमिनिम्बश्च बालं वीरणमूलकम्
- लघुमुस्तं त्रिवृद्धात्री द्रा क्षा वासा च पर्पटः ३५८
- एषां क्वाथो हरत्येव ज्वरं पित्तकृतं द्रुतम्
- सोपद्र्रवमपि प्रातर्निपीतो मधुना सह ३५९
- पलाशस्य बदर्या वा निम्बस्य मृदुपल्लवैः
- अम्लपिष्टैः प्रलेपोऽय हन्याद्दाहयुतं ज्वरम् ३६०
- उत्तानसुप्तस्य गभीरताम्रकांस्यादिपात्रे निहिते च नाभौ
- शीताम्बुधारा बहुला पतन्ती निहन्ति दाहं त्वरितं ज्वरं च ३६१
- अथ पथ्याऽवलेहः
- पथ्यां तैलघृतक्षौद्र्रैर्लिहन्दाहज्वरापहाम्
- कासासृक्पित्तवीसर्पश्वासान्हन्ति वमीमपि ३६२
- काञ्जिकार्द्र पटेनावगुण्ठनं दाहनाशनम्
- अथ गोतक्रसंस्विन्नशीतलीकृतवाससा ३६३
- द्रा क्षाऽमलककल्केन कवलोऽत्र हितो मतः
- पक्वदाडिमबीजैर्वा धानाकल्केन च क्वचित् ३६४
- दाहकम्पार्दितं क्षामं निरन्नं तृष्णयान्वितम्
- शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम् ३६५
- मुद्गयूषौदनो देयः सितया पैत्तिके ज्वरे
- हर्म्ये शुभ्राभ्रसङ्काशे शशाङ्ककरशीतले
- मलयोद्भवसंसिक्ते सुप्यात्पित्तज्वरी नरः ३६६
- हारावलीचन्दनशीतलानां सुगन्धपुष्पाम्बरभूषितानाम्
- नितम्बिनीनां सुपयोधराणामालिङ्गनान्याशु हरन्ति दाहम् ३६७
- आह्लादश्चास्य विज्ञाय ताः स्त्रीरपनयेत्पुनः
- हितञ्च भोजयेदन्नं न प्रीतिसुरतंमहत् ३६८
- वाप्यः कमलहासिन्यो जलयन्त्रगृहाः शुभाः
- नार्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः ३६९
- इति पित्तज्वराधिकार
कफज्वराधिकारः
[सम्पाद्यताम्]- अथ कफज्वराधिकारः
- श्लेष्मलाहारचेष्टाभ्यां कफो ह्यामाशयाश्रयः
- बहिर्निरस्य कोष्ठाग्निं ज्वरकृत्स्याद्र सानुगः ३७०
- स्तैमित्यं स्तिमितोवेग आलस्यं मधुरास्यता
- शुक्लमूत्रपुरीषत्वं स्तम्भस्तृप्तिरथापि वा ३७१
- गौरवं शीतमुत्क्लेदो रोमहर्षोऽतिनिद्रि ता
- प्रतिश्यायोऽरूचिः कासः कफजेऽक्ष्णोश्च शुक्लता ३७२
- श्लैष्मिके द्वादशाहेन ज्वरे युञ्जीत भेषजम्
- पिप्पल्यादिकषायन्तु कफजे परिपाचनम् ३७३
- पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली
- नागरं चित्रकं चव्यं रेणुकैलाऽजमोदिकाः ३७४
- सर्षपो हिङ्गु भार्गी च पाठेन्द्र यवजीरकाः
- महानिम्बश्च मूर्वा च विषा तिक्ता विडङ्गकम् ३७५
- पिप्पल्यादिगणो ह्येषः कफमारुतनाशनः
- गुल्मशूलज्वरहरो दीपनस्त्वामपाचनः ३७६
- क्षौद्रो पकुल्यासंयोगः श्वासकासज्वरापहः
- प्लीहानं हन्ति हिक्काञ्च बालानामपि शस्यते ३७७
- पिप्पलद्यं त्रिफलां चापि समभागां ज्वरी लिहन्
- मधुना सर्पिषा चापि कासी श्वासी सुखी भवेत् ३७८
- कट्फलं पौष्करं शृङ्गी कृष्णाच मधुना सह
- श्वासकासज्वरहरो लेहोऽय कफनाशनः ३७९
- कट्फलं पौष्करं शृङ्गी यवानी कारवी तथा
- कटुत्रयञ्चसर्वाणि समभागानि चूर्णयेत् ३८०
- आर्द्र कस्वरसैर्लिह्यान्मधुना वा कफज्वरी
- कासश्वासारुचिच्छर्दिहिक्काश्लेष्मानिलापहः ३८१
- सिन्दुवारदलक्वाथं कणाऽढ्य कफजे ज्वरे
- जङ्घयोश्च बले क्षीणे कर्णे च पिहिते पिबेत् ३८२
- यवानी पिप्पली वासा तथा खाखसवल्कलम्
- एषां क्वाथं पिबेत्कासे श्वासे च कफजे ज्वरे ३८३
- वासाक्षुद्रा ऽमृताक्वाथः क्षौद्रे ण ज्वरकासहृत् ३८४
- मरिचं पिप्पलीमूलं नागरं कारवी कणा
- चित्रकं कट्फलं कुष्ठं ससुगन्धि वचा शिवा ३८५
- कण्टकारीजटा शृङ्गी यवानी पिचुमन्दकः
- एषां क्वाथो हरत्येव ज्वरं सोपद्र वं कफात् ३८६
- कफवातव्याधिहरत्वाद्वाता धिकारोक्तकल्पतरुरसोयोज्यः
- सिन्धुत्रिकटुराजीभिरार्द्र केण कफे हितः ३८७
- मुद्गयूषौदनो देयो ज्वरे कफसमुत्थिते ३८८
- इति श्लेष्म ज्वराधिकारः
वातपित्तज्वराधिकारः
[सम्पाद्यताम्]- अथ वातपित्तज्वराधिकारः
- वातपित्तकरैर्वातपित्ते ह्यामाशयाश्रये
- बहिर्निरस्य कोष्ठाग्निं रसगे ज्वरकारिणी ३८९
- प्राग्रूपे वातपित्तस्य भवतो वातपैत्तिके ३९०
- तृष्णा मूर्च्छा भ्रमो दाहो निद्रा नाशः शिरोरुजा
- कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तमः
- पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः ३९१
- वातपित्तज्वरे देयमौषधं पञ्चमेऽहनि ३९२
- किराततिक्तममृतां द्रा क्षामामलकं शटीम्
- निष्क्वाथ्य सगुडं क्वाथं वातपित्तज्वरे पिबेत् ३९३
- गुडूची पर्पटो मुस्तं किरातो विश्वभेषजम्
- वातपित्तज्वरे देयं पञ्चभद्र मिदं शुभम् ३९४
- त्रिफलाशाल्मलीरास्नाराजवृक्षाटरूषकैः
- श्रृतमम्बु हरत्याशु वातपित्तभवं ज्वरम् ३९५
- मधुकं सारिवा द्रा क्षा मधूकं चन्दनोत्पलम्
- काश्मरीफलकं लोध्रं त्रिफला पद्मकेशरम्
- परूषकं मृणालञ्च क्षिपेत्संचूर्ण्य वारिणि
- निशोषितं सिताक्षौद्र लाजयुक्तन्तु तत्पिबेत्
- वातपित्तज्वरं दाहं तृष्णां मूर्च्छाऽरुचिभ्रमान्
- शमयेद्र क्तपित्तञ्चजीमूतमिव मारुतः ३९६
- मुद्गामलकयूषस्तु वातपित्तज्वरे हितः
- महादाहे प्रदातव्यो यूषश्चणकसम्भवः ३९७
- दाडिमामलकमुद्गसम्भवो यूष उक्त इति वातपैत्तिके इति
- कफपित्तहरा मुद्गाः कारवेल्ल्यादयस्तथा
- प्रायेण न च ते देया वातपित्तोत्तरे ज्वरे
- दत्तास्तु ज्वरविष्टम्भशूलोदावर्त्तकारिणः ३९८
- इति वातपित्तज्वराधिकारः समाप्तः
वातश्लेष्मज्वराधिकारः
[सम्पाद्यताम्]- अथ वातश्लेष्मज्वराधिकारः
- वातश्लेष्मकरैर्वातकफावामाशयाश्रयौ
- बहिर्निरस्य कोष्ठाग्निं रसगौ ज्वरकारिणौ ३९९
- प्राग्रूपे वातकफयोः स्यातां वातकफज्वरे ४००
- स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च
- शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्त्तनम्
- सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः ४०१
- वातश्लेष्मज्वरे देयमौषधं नवमेऽहनि ४०२
- अथ पञ्चकोलम्
- पिप्पलीपिप्पली मूलचव्यचित्रकनागरैः
- दीपनीयः स्मृतो वर्गो वातश्लेष्मज्वरापहः ४०३
- कोलमात्रोपयोगित्वात्पञ्चकोलमिदं स्मृतम्
- तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफदाहनुत्
- गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम् ४०४
- अथ द्वितीयः किरातादिक्वाथः
- किरातविश्वाऽमृतवल्लिसिंहिकाव्याघ्रीकणामूलरसोनसिन्दुकैः
- कृतः कषायो विनिहन्ति सत्वरं ज्वरं समीरात्सकफात्समुत्त्थितम् ४०५
- अथ पिप्पल्यादिक्वाथः
- पिप्पल्यादिगणक्वाथं पिबेद्वातकफज्वरी
- नातः परं किञ्चिदस्ति ज्वरे भेषजमुत्तमम् ४०६
- अथ बृहत्पिप्पल्यादिक्वाथः
- पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम्
- वचा सातिविषाऽजाजी पाठावत्सकरेणुकाः ४०७
- किराततिक्तको मूर्वा सर्षपा मरिचानि च
- कट्फलं पुष्करं भार्गो विडङ्गंकर्कटाह्वयम् ४०८
- अर्कमूलं वृहत्सिंही श्रेयसी सदुरालभा
- दीप्यकश्चाजमोदा च शुकनासा सहिङ्गुका ४०९
- एतानि समभागानि गण एकोऽष्टविंशतिः
- एषां क्वाथो निपीतः स्याद्वातश्लेष्मज्वरापहः ४१०
- हन्ति वातं तथा शीतं प्रस्वेदमतिवेपथुम्
- प्रलापञ्चातिनिद्रा ञ्च रोमहर्षारुची तथा ४११
- महावातेऽपतन्त्रे च शून्यत्वे सर्वगात्रजे
- पिप्पल्यादिमहाक्वाथो ज्वरे सर्वत्र पूजितः ४१२
- अथ दशमूलीक्वाथः
- दशमूलीरसः पीतः कणाऽढ्य कफवातजे
- ज्वरेऽविपाके निद्रा यां पार्श्वरुक्छ्वासकासके ४१३
- अथ पिप्पलीक्वाथः
- पिप्पलीभिः शृतं तोयमनभिष्यन्दि दीपनम्
- वातश्लेष्मज्वरं हन्ति सेवितं प्लीहनाशनम् ४१४
- अथ सूर्यशेखररसः
- सूतकं टङ्कणं भृष्टं गन्धं शुद्धं समं समम्
- द्विगुणं सूतकाद्देयं जैपालं तुषवर्जितम् ४१५
- सैन्धवं मरिचं चिञ्चात्वक्क्षारः शर्कराऽपि च
- प्रत्येकं सूततुल्यं स्याज्जम्बीरैर्मर्दयेद्दिनम् ४१६
- सूर्यशेखरनामाऽय रसो गुञ्जाद्वयोन्मितः
- भक्षितस्तप्ततोयेन वातश्लेष्मज्वरापहः ४१७
- स्वेदोद्गमे भृष्टकुलत्थचूर्णनिपातनं शस्तमिति ब्रुवन्ति
- जीर्णं शकृद्गोर्लवणस्य भाजनं संचूर्णितं स्वेदहरं सुधूलनात् ४१८
- अथ मरिचाद्युद्धूलनम्
- मरिचं पिप्पली शुण्ठी पथ्या लोध्रञ्च पौष्करम्
- भूनिम्बः कटुकाकुष्ठं कचूरोलिङ्गिका शटी ४१९
- एतानि समभागानि सूक्ष्मचूर्णानि कारयेत्
- एतदुद्धूलनं श्रेष्ठं स्रोतोवत्स्वेदनिर्गमे ४२०
- अथ भूनिम्बाद्युद्धूलनम्
- भूनिम्बः कारवी तिक्ता वचा कट्फलजं रजः
- एषामुद्धूलनं श्रेष्ठं सततं स्वेदसंस्रवे ४२१
- अथ वालुका स्वेदः
- पूर्वोक्तो वालुकास्वेदोऽप्यत्र समुचितः
- यदुक्तम्
- पीनसश्वासबाधिर्यजङ्घापार्श्वास्थिशूलिनि
- वातश्लेष्मज्वरे देयमौषधं तद्विधानवित् ४२२
- मातुलुङ्गफलकेशरो धृतः सिन्धुजन्ममरिचान्वितो मुखे
- हन्तिवातकफरोगमास्यगं शोषमाशु जडतामरोचकम् ४२३
- महत्या पञ्चमूल्याऽन्न सम्यक्सिद्धं चिकित्सकः
- सप्तमे दिवसे दद्याज्ज्वरे वातवलासजे ४२४
- इति वात कफज्वराधिकारः समाप्तः
पित्तकफज्वराधिकारः
[सम्पाद्यताम्]- अथ पित्तकफज्वराधिकारः
- पित्तश्लेष्मकरैः पित्तकफावामाशयाश्रयौ
- बहिर्निरस्य कोष्ठाग्निं रसगौज्वरकारिणौ ४२५
- प्राग्रूपे पित्तकफयोः स्यातां पित्तकफज्वरे ४२६
- लिप्ततिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा
- मुहुर्दाहो मुहुः शीतं पित्तश्लेष्मज्वराकृतिः ४२७
- पित्तश्लेष्मज्वरे देयमौषधं दशमेऽहनि ४२८
- गुडूची निम्बधान्याकं चन्दनं कटुरोहिणी
- गुडूच्यादिरयं क्वाथः पाचनो दीपनः स्मृतः
- तृष्णादाहारुचिच्छर्दिपित्तश्लेष्मज्वरापहः ४२९
- अमृताकटुकाऽरिष्टपटोलघनचन्दनम्
- नागरेन्द्र यवं चैतदमृताष्टकमीरितम् ४३०
- क्वथितं सकणाचूर्णं पित्तश्लेष्मज्वरापहम्
- हृल्लासारोचकच्छर्दितृष्णादाहनिवारणम् ४३१
- अथ कण्टकार्यादिक्वाथः
- कण्टकार्यमृताभार्गी विश्वेन्द्र्रयववासकम्
- भूनिम्बं चन्दनं मुस्तं पटोलं कटुरोहिणीम् ४३२
- विपाच्य पाययेत्क्वाथं पित्तश्लेष्मज्वरापहम्
- दाहतृष्णाऽरुचिच्छर्दिकासशूलनिवारणम् ४३३
- नागरोशीरबिल्वाब्द धान्यमोचरसाम्बुभिः
- कृतः क्वाथो भवेद् ग्राही पित्तश्लेष्मज्वरापहः ४३४
- शर्करामक्षमात्राञ्च कटुकीं चोष्णवारिणा
- पीत्वा ज्वरं जयेज्जन्तुः पित्तश्लेष्मसमुद्भवम् ४३५
- सपत्रपुष्पवासाया रसः क्षौद्र सितायुतः
- पित्तष्लेमज्वरं हन्ति साम्लपित्तं सकामलम् ४३६
- कषायः परिपीतस्तु शृङ्गबेरपटोलयोः
- पित्तश्लेष्मज्वरवमीदाहकण्डूहरो भवेत् ४३७
- पटोलधान्ययोर्यूषः पित्तश्लेष्मज्वरापहः ४३८
- इति पित्तकफज्वराधिकारः समाप्तः
सन्निपातज्वराधिकारः
[सम्पाद्यताम्]- अथ सन्निपातज्वराधिकारः
- त्रिदोषजनकैर्वातः पित्तां श्लेष्माऽमगेहगाः
- बहिर्निरस्य कोष्ठाग्निं रसगा ज्वरकारिणः ४३९
- क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा
- सास्रावे कलुषे रक्ते निर्भुग्ने चापि लोचने ४४०
- सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः
- तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः ४४१
- परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परा
- ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च
- शिरसो लोठनं तृष्णा निद्रा नाशो हृदि व्यथा
- स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः ४४२
- कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्
- कोठानां श्यावरक्तानां मण्डलानाञ्च दर्शनम् ४४३
- मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च
- चिरात्पाकश्च दोषाणांसन्निपातज्वराकृतिः ४४४
- एकोल्वणास्त्रयस्तेषु द्व्युल्वणाश्च तथेति षट्
- त्र्! युल्वणश्च भवेदेको विज्ञेयः स तु सप्तमः ४४५
- प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च षट्
- सन्निपातज्वरस्यैवं स्युर्विशेषास्त्रयोदश ४४६
- विस्फारकश्चाशुकारी कम्पनो बभ्रसंज्ञकः
- शीघ्रकारी तथा भल्लुः सप्तमः कूटपाकलः ४४७
- सम्मोहकः पाकलश्च याम्यः क्रकच इत्यपि
- ततः कर्कटकः प्रोक्तस्ततो वैदारिकाभिधः ४४८
- तत्र वातोल्वणविस्फारकलक्षणम्
- श्वासः कासो भ्रमो मूर्च्छा प्रलापो मोहवेपथू
- पार्श्वस्य वेदना जृम्भा कषायत्वं मुखस्य च ४४९
- वातोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत्
- एष विस्फारको नाम्ना सन्निपातः सुदारुणः ४५०
- अतिसारो भ्रमो मूर्च्छा मुखपाकस्तथैव च
- गात्रे च बिन्दवो रक्ता दाहोऽतीव प्रजायते ४५१
- पित्तोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत्
- भिषग्भिः सन्निपातोऽयमाशुकारी प्रकीर्त्तितः ४५२
- जडता गद्गदा वाणी रात्रौ निद्रा भवत्यपि
- प्रस्तब्धे नयने चैव मुखमाधुर्यमेव च ४५३
- कफोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत्
- मुनिभिः सन्निपातोऽयमुक्तःकम्पनसंज्ञकः ४५४
- वातपित्ताधिको यस्तु सन्निपातः प्रकुप्यति
- तस्य ज्वरो मदस्तृष्णा मुखशोषः प्रमीलकः ४५५
- आध्मानारुचितन्द्रा श्च कासश्वासभ्रमश्रमाः
- मुनिभिर्बभ्रनामाऽय सन्निपात उदाहृतः ४५६
- वातश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति
- तस्य शीतज्वरो मूर्च्छा क्षुत्तृष्णा पार्श्वनिग्रहः ४५७
- शूलमस्विद्यमानस्य तन्द्रा श्वासश्च जायते
- असाध्यः सन्निपातोऽय शीघ्रकारीति कथ्यते
- न हि जीवत्यहोरात्रमनेनाविष्टविग्रहः ४५८
- पित्तश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति
- अन्तर्दाहो बहिः शीतं तस्य तृष्णा प्रवर्द्धते ४५९
- तुद्यते दक्षिणे पार्श्वे उरःशीर्षगलग्रहः
- ष्ठीवति श्लेष्मपित्तञ्च कृच्छ्रात्कोठश्च जायते ४६०
- विड्भेदश्वासहिक्काश्च वर्द्धन्ते सप्रमीलकाः
- ऋषिभिर्भल्लुनामाऽय सन्निपात उदाहृतः ४६१
- सर्वदोषोल्वणो यस्य सन्निपातः प्रकुप्यति
- त्रयाणामपि दोषाणां तस्य रूपाणि लक्षयेत् ४६२
- व्याधिभ्यो दारूणश्चैव वज्रशस्त्राग्निसन्निभः
- केवलोच्छ्वासपरमः स्तब्धाङ्गः स्तब्धलोचनः ४६३
- त्रिरात्रात्परमेतस्य जन्तोर्हरति जीवितम्
- तदवस्थन्तु तं दृष्ट्वा मूढो व्याहरते जनः ४६४
- धर्षितो राक्षसैर्नूनमवेलायां चरन्ति ये
- अम्बया ब्रुवते केचिद्यक्षिण्या ब्रह्मराक्षसैः ४६५
- पिशाचैर्गुह्यकैश्चैव तथाऽन्यैर्मस्तके हतम्
- कुलदेवार्च्चनाहीनं धर्षितं कुलदैवतैः ४६६
- नक्षत्रपीडामपरे गरकर्मेति चापरे
- सन्निपातमिमं प्राहुर्भिषजः कूटपाकलम् ४६७
- प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च यः
- तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः ४६८
- प्रलापायाससम्मोहकम्पमूर्च्छाऽरतिभ्रमाः
- एकपक्षाभिघातश्च तत्राप्येते विशेषतः ४६९
- एष सम्मोहको नाम्ना सन्निपातः सुदारुणः ४७०
- मध्यप्रवृद्धहीनैस्तु वातपित्तकफैश्च यः
- तेन रोगास्त एवोक्ता यथादोषवलाश्रयाः ४७१
- मोहप्रलापमूर्च्छाः स्युर्मन्यास्तम्भः शिरोग्रहः
- कासः श्वासो भ्रमस्तन्द्रा संज्ञानाशो हृदि व्यथा
- खेभ्यो रक्तं विसृजति सरक्तस्तब्धनेत्रता
- तत्राप्येते विशेषाः स्युर्मृत्युरर्वाक् त्रिवासरात्
- भिषग्भिः सन्निपातोऽय कथितःपाकलाभिधः ४७३
- हीनप्रवृद्धमध्यैस्तु वातपित्तकफैश्च यः
- तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः ४७४
- हृदयं दह्यते चास्य यकृत्प्लीहान्त्रफुफ्फुसाः
- पच्यन्तेऽत्यर्थमूर्द्ध्वाधः पूयशोणितनिर्गमः ४७५
- शीर्णदन्तश्च मृत्युश्च तत्राप्येतद्विशेषतः
- भिषग्भिः सन्निपातोऽय याम्यो नाम्ना प्रकीर्त्तितः ४७६
- प्रवृद्धहीनमध्यस्तु वातपित्तकफैश्च यः
- तेन रोगास्त एवोक्ता यथादोषबलश्रयाः ४७७
- प्रलापायाससम्मोहाः कम्पमूर्च्छाऽरतिभ्रमाः
- मन्यास्तम्भेन मृत्युःस्यात्तत्राप्येतद्विशेषतः ४७८
- भिषग्भिः सन्न्पितोऽय क्रकचः सम्प्रकीर्त्तितः ४७९
- मध्यहीनप्रबृद्धैस्तु वातपित्तकफैश्च यः
- तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः ४८०
- अन्तर्दाहो विशेषोऽत्र नच वक्तुं स शक्यते
- रक्तमालक्तकेनेव लक्ष्यते मुखमण्डलम् ४८१
- पित्तेनाकर्षितः श्लेष्मा हृदयान्न प्रसिच्यते
- इषुणेवाहतं पार्श्वं तुद्यते खन्यते हृदि ४८२
- प्रमीलकश्वासहिक्का वर्द्धन्ते तु दिने दिने
- जिह्वा दग्धा खरस्पर्शा गलः शूकैरिवावृतः ४८३
- विसर्गं नाभिजानाति कूजेच्चापि कपोतवत्
- अतीव श्लेष्मणा पूर्णः शुष्कवक्त्रौष्ठतालुकः ४८४
- तन्द्रा निद्रा ऽतियोगार्त्तो हतवाङ् निहतद्युतिः
- न रतिं लभते नित्यं विपरीतानि चेच्छति ४८५
- आयम्यते च बहुशो रक्तं ष्ठीवति चाल्पशः
- एष कर्कटको नाम्ना सन्निपातःसुदारुणः ४८६
- हीनमध्यप्रवृद्धैस्तु वातपित्तकफैश्च यः
- तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः ४८७
- अल्पशूलं कटीतोदो मध्ये दाहो रुजा भ्रमः
- भृशं क्लमः शिरोवस्तिमन्याहृदयवाग्रुजः ४८८
- प्रमीलकः श्वासकासहिक्काजाड्यविसंज्ञताः
- प्रथमोत्पन्नमेनन्तु साधयन्ति कदाचन ४८९
- एतस्मिन्सन्निवृत्ते तु कर्णमूले सुदारुणा
- पिडिका जायते जन्तोर्यया कृच्छ्रेण जीवति ४९०
- स वैदारिकसंज्ञोऽय सन्निपातःसुदारुणः
- त्रिरात्रात्परमेतस्य व्यर्थमौषधकल्पनम् ४९१
- शीता ङ्गस्त्रिमलोद्भवज्वरगणे तन्द्री प्रलापी ततो
- रक्तष्ठीवयिता च तत्र गणितः सम्भुग्ननेत्रस्तथा
- साभिन्यासकजिह्वकश्च कथितः प्राक्सन्धिगोऽथान्तको
- रुग्दाहः सहचित्तविभ्रम इह द्वौ कर्णकण्ठग्रहौ ४९२
- हिमशिशिरशरीरः सन्निपातज्वरी यः श्वसनकसनहिक्कामोहकम्पप्रलापः
- क्लमबहुकफवातादाहवभ्यङ्गपीडास्वरविकृतिभिरार्त्तः शीतगात्रः स उक्तः ४९३
- तन्द्रा ऽतीव ततस्तृषाऽतिसरणं श्वासोऽधिकः कासरुक्
- सन्तप्तार्तितनुर्गले श्वयथुना सार्द्धञ्च कण्डूः कफः
- सुश्यामा रसना क्लमः श्रवणयोर्मान्द्यञ्च दाहस्तथा
- यत्र स्यात्स हि तन्द्रि को निगदितो दोषत्रयोत्थो ज्वरः ४९४
- यत्र ज्वरे निखिलदोषनितान्तरोष जाते प्रलापबहुलाः सहसोत्थिताश्च
- कम्पव्यथापतनदाहविसंज्ञताः स्युर्नाम्ना प्रलापक इति प्रथितः पृथिव्याम् ४९५
- निष्ठीवो रुधिरस्य रक्तसदृशं कृष्णं तनौ मण्डलं
- लौहित्यं नयने तृषाऽरुचिवमिश्वासातिसारभ्रमाः
- आध्मानञ्च विसंज्ञता च पतनं हिक्काऽङ्गपीडा भृशं
- रक्तष्ठीविनि सन्निपातजनिते लिङ्गं ज्वरे जायते ४९६
- भृशं नयनवक्रता श्वसनकासतन्द्रा भृशं प्रलापमदवेपथुश्रवणहानिमोहास्तथा
- पुरो निखिलदोषजे भवति यत्र लिङ्गं ज्वरे पुरातनचिकित्सकैः स इह भुग्ननेत्रो मतः ४९७
- दोषास्तीव्रतरा भवन्ति बलिनः सर्वेऽपि यत्र ज्वरे
- मोहोऽतीव विचेष्टता विकलता श्वासो भृशं मूकता
- दाहश्चिक्कणमाननञ्च दहनो मन्दो बलस्य क्षयः
- सोऽभिन्यास इति प्रकीर्त्तित इह प्राज्ञैर्भिषग्भिः पुरा ४९८
- त्रिदोषजनिते ज्वरे भवति यत्र जिह्वा भृशं
- वृता कठिनकण्टकैस्तदनु निर्भरंमूकता
- श्रुतिक्षतिबलक्षति श्वसनकाससन्तप्तताः
- पुरातनभिषग्वरास्तमिह जिह्वकं चक्षते ४९९
- व्यथाऽतिशयिता भवेच्छ्वयथुसंयुता सन्धिषु
- प्रभूतकफता मुखे विगतनिद्र ता कासरुक्
- समस्तमिति कीर्त्तितं भवति लक्ष्म यत्र ज्वरे
- त्रिदोषजनिते बुधैः स हि निगद्यते सन्धिगः ५००
- यस्मिँ ल्लक्षणमेतदस्ति सकलैर्दोषैरुदीते ज्वरे
- ऽजस्रं मूर्द्धविधूननं सकसनं सर्वाङ्गपीडाऽधिका
- हिक्काश्वाससदाहमोहसहिता देहेऽतिसन्तप्तता वैकल्यञ्च वृथावचांसि मुनिभिः संकीर्त्तितः सोऽन्तकः ५०१
- दाहोऽधिको भवति यत्र तृषा च तीव्रा श्वासप्रलापविरुचिभ्रममोहपीडाः
- मन्याहनुव्यथनकण्ठरूजः श्रमश्च रूग्दाहसंज्ञ उदितस्त्रिभवो ज्वरोऽयम् ५०२
- गायति नृत्यति हसति प्रलपति विकृतं निरीक्षते मुह्येत्
- दाहव्यथाभयार्त्तो नरस्तु चित्तभ्रमे ज्वरे भवति ५०३
- दोषत्रयेण जनितः किल कर्णमूले तीव्रा ज्वरे भवति तु श्वयथुव्यथा च
- कण्ठग्रहो बधिरता श्वसनं प्रलापः प्रस्वेदमोहदहनानि च कर्णिकाख्ये ५०४
- कण्ठःशूकशतावरुद्धवदतिश्वासः प्रलापोऽरुचि
- र्दाहोदेहरुजा तृषाऽपि च हनुस्तम्भः शिरोऽतिस्तथा
- मोहो वेपथुना सहेति सकलं लिङ्गं त्रिदोषज्वरे
- यत्रस्यात्स हि कण्ठकुब्ज उदितः प्राच्यैश्चिकित्साबुधैः ५०५
- सन्धिगस्तेषुसाध्यः स्यात्तन्द्रि कश्चित्तविभ्रमः
- कर्णिको जिह्वकः कण्ठकुब्जः पञ्चापि कष्टकाः ५०६
- रुग्दाहस्त्वतिकष्टेन संसाध्यस्तेषु भाषितः
- रक्तष्ठीवी भुग्ननेत्रः शीतगात्रः प्रलापकः
- अभिन्यासोऽन्तकश्चैते षडसाध्याः प्रकीर्त्तिताः ५०७
- कुम्भीपाकः प्रोर्णुनावः प्रलापी ह्यन्तैर्दाहो दण्डपातोऽन्तकश्च
- एणीदाहश्चाथ हारिद्र संज्ञो भेदा एते सन्निपातज्वरस्य ५०८
- अजघोषभूतहासौ यन्त्रापीडश्च संन्यासः
- संशोषी च विशेषास्तस्यैवोक्तास्त्रयोदशान्यत्र ५०९
- घोणाविवरझरद्वहु शोणासितलोहितं सान्द्र म्
- विलुठन्मस्तकमभितः कुम्भीपाकेन पीडितं विद्यात् ५१०
- उत्क्षिप्य यः स्वमङ्गं क्षिपत्यधस्तान्नितान्तमुच्छ्वसिति
- तं प्रोर्णुनावजुष्टं विचित्रकष्टं विजानीयात् ५११
- स्वेदभ्रमाङ्गभेदाः कम्पोदवथुर्वमिर्व्यथा कण्ठे
- गात्रश्च गुर्वतीव प्रलापिजुष्टस्य जायते लिङ्गम् ५१२
- अन्तर्दाहः शैत्यं बहिः श्वयथुररतिरति तथा श्वासः
- अङ्गमपि दग्धकल्पं सोऽन्तर्दाहार्दितः कथितः ५१३
- नक्तन्दिवा न निद्रा मुपगृह्णाति मूढधीर्नभसः
- उत्थाय दण्डपाती भ्रमातुरः सर्वतो भ्रमति ५१४
- सम्पूर्यते शरीरं ग्रन्थिभिरभितस्तथोदरं मरुता
- श्वासातुरस्य सततं विचेतनस्यान्तकार्त्तस्य ५१५
- परिधावतीव गात्रे रुक्पात्रे भुजगपतगहरिणगणः
- वेपथुमतः सदाहस्यैणीदाहज्वरार्त्तस्य ५१६
- यस्यातिपीतमङ्गं नयने सुतरां मलस्ततोऽप्यधिकम्
- दाहेऽतिशीतता बहिरस्य स हारिद्र को ज्ञेयः ५१७
- छगलकसमानगन्धः स्कन्धरुजावान्निरूद्धगलरन्ध्रः
- अजघोषसन्निपातादाताम्राक्षः पुमान् भवति ५१८
- शब्दादीनधिगच्छति न स्वान् विषयान् यदिन्द्रि यग्रामैः
- हसति प्रलपति परुषं स ज्ञेयो भूतहासार्त्तः ५१९
- येन मुहुर्ज्वरवेगाद् यन्त्रेणेवावपीड्यते गात्रम्
- रक्तं पित्तञ्च वमेद् यन्त्रापीडः स विज्ञेयः ५२०
- अतिसरति वमति कूजति गात्राण्यभितश्चिरं नरः क्षिपति
- संन्याससन्निपाते प्रलपत्युग्राक्षिमण्डलो भवति ५२१
- मेचकवपुरतिमेचक लोचनयुगलो मलोत्सर्गात्
- संशोषिणि सितपिडिका मण्डलयुक्तो ज्वरे नरो भवति ५२२
- नारायण एव भिषग् भेषजमेतेषु जाह्नवीनीरम्
- नैरुज्यहेतुरेको नित्यं मृत्युञ्जयो ध्येयः ५२३
- सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः
- शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते ६५२४
- सन्निपातज्वरान्कष्टानसाध्यानपरे जगुः ५२५
- दोषे प्रवृद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः
- सन्निपातज्वरोऽसाध्यः कष्टसाध्यस्ततोऽन्यथा ५२६
- सन्निपातार्णवे मग्नं योऽभ्युद्धरति मानवम्
- कस्तेन न कृतो धर्मः काञ्च पूजां न सोऽहति ५२७
- मृत्युना सह योद्धव्यं सन्निपातं चिकित्सता
- यश्च तत्र भवेज्जेता सजेताऽमयसंकुले ५२८
- श्लेष्मनिग्रहमेवादौ कुर्याद्व्याधौ त्रिदोषजे
- संसर्गे यो गरीयान्स्या दुपक्रम्यस वै भवेत् ५२९
- अंशाशं यत्र दोषाणां विवेक्तुं नैव शक्नुयात्
- क्रियां साधारणीं तत्र विदधीत चिकित्सकः ५३०
- लङ्घनं बालुकास्वेदो नस्यं निष्ठीवनं तथा
- अवलेहोऽञ्जनं चैव प्राक्प्रयोज्यं त्रिदोषजे ५३१
- क्रियाभिस्तुल्यरूपाभिः क्रियासांकर्यमिष्यते
- भिन्नरूपतया तास्तु न हि कुर्वन्ति दूषणम् ५३२
- त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा
- लङ्घनं सन्निपातेषु कुर्यादारोग्यदर्शनात् ५३३
- सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा
- पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा ५३४
- पित्तकफानिलवृद्ध्या दशदिवसद्वादशाहसप्ताहात्
- हन्ति विमुञ्चत्यथ वा त्रिदोषजो धातुमलपाकात् ५३५
- निद्रा नाशो हृदिस्तम्भो विष्टम्भो गौरवारुची
- अरतिर्बलहानिश्च धातूनां पाकलक्षणम् ५३६
- सम्बाध्यमानोहृदि नाभिदेशे गात्रेषु वा पाकरुजाऽन्वितेषु
- पीडां ज्वरार्त्तोऽङगुलिभिश्च गच्छेत् स धातुपाकी कथितो भिषग्भिः ५३७
- नाभेरूर्ध्वं हृदोऽधस्तात् पीडिते चेद्ब्यथा भवेत्
- धातोः पाकंविजानीयादन्यथा तु मलस्य च ५३८
- दोषप्रकृतिवैकृत्यं लघुताज्वरदेहयोः
- इन्द्रि याणाञ्च वैमल्यं मलानां पाकलक्षणम् ५३९
- शश्वत्त्विन्द्रि यपञ्चकस्य पटुता वह्नेश्च यत्र क्रमा
- त्तृष्णाऽदिप्रशमो ज्वरस्य मृदुता तं दोषपाकं वदेत्
- हृन्नाभ्योरतिवेदनाऽतिसरणं तीव्रो ज्वरस्तृण्मदः
- श्वासाधिक्यमरोचकोऽरतिरिति स्याद्धातुपाकाकृतिः ५४०
- सप्तमी द्विगुणा यावन्नवम्येकादशी तथा
- एषा त्रिदोषमर्यादा मोक्षाय च वधाय च ५४१
- सन्निपातज्वरी पूर्वं सम्यग् लङ्घनमाचरेत्
- शृतं शीतं पिबेदम्भः समये भेषजं भजेत् ५४२
- सन्निपातेन तृष्यन्तं पार्श्वरुक्तालुशोषिणम्
- यःपाययेज्जलं शीतं स मृत्युर्नरविग्रहः ५४३
- वातश्लेष्मकृते स्वेदान्कारयेद्रू क्षनिर्मितान्
- स्निग्धः स्वेदो निषिद्धोऽत्र विना केवलवातजात् ५४४
- खर्परभृष्टपटस्थितकाञ्जिकसंसिक्तवालुकास्वेदः
- शमयति वातकफामयमस्तकशूलाङ्गभङ्गादीन् ५४५
- स्रोतसां मार्दवं कृत्वा नीत्वा पावकमाशयम्
- हृत्वावातकफस्तम्भं स्वेदो ज्वरमपोहति ५४६
- सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव च
- बस्तमूत्रेण सम्पिष्टं नस्यं तन्द्रा निवारणम् ५४७
- मधूकसारसिन्धूत्थवचोषणकणाः समाः
- श्लक्ष्णं पिष्ट्वाऽम्भसा नस्यं दद्यात्संज्ञाप्रबोधनम् ५४८
- मातुलुङ्गार्द्र्रकरसं कोष्णं त्रिलवणान्वितम्
- अन्यद्वा सिद्धिविहितं नस्यं तीक्ष्णं प्रयोजयेत् ५४९
- तेन प्रभिद्यते श्लेष्मा प्रभिन्नश्च प्रसिच्यते
- शिरोहृदयकण्ठास्यपार्श्वरुक् चोपशाम्यति ५५०
- मोहामयेन मुग्धं बोधयितुं यादृशः शक्तः
- कल्पतरुनामधेयो रसो न तादृक् परं किञ्चित् ५५१
- जिह्वातालुगलक्लोम मरुत्पित्तेन दूषितम्
- तदा सञ्चारयेच्छोषं जिह्वाविरसतां तथा ५५२
- स्फुटनञ्च तदा जिह्वां लेपयेन्मधुपिष्टया
- द्रा क्षया साज्यया तेन जिह्वा स्यात्सरसा मृदुः ५५३
- आर्द्र्रकस्वरसोपेतं सैन्धवं कटुकत्रयम्
- आकण्ठाद्धारयेदास्ये निष्ठीवेच्च पुनः पुनः ५५४
- तेनास्यतालुकोष्ठांसमन्यापार्श्वशिरोगलात्
- लीनोऽप्याकृष्यते श्लेष्मा लाघवं चास्य जायते ५५५
- पर्वभेदो ज्वरो मूर्च्छानिद्रा श्वासगलामयाः
- मुखाक्षिगौरवं जाड्यमुत्क्लेशश्चोपशाम्यति ५५६
- सकृद्द्विस्त्रिश्चतुष्कुर्याद् दृष्ट्वा दोषबलाबलम्
- एतद्धि परमं प्राहुर्भेषजं सन्निपातिनाम् ५५७
- इति कवल ग्रहः
- कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी
- श्लक्ष्णं चूर्णीकृतं चैतन्मधुना सह लेहयेत् ५५८
- एषाऽवलेहिका हन्ति सन्निपातं सुदारूणम्
- हिक्कां श्वासं च कासञ्च कण्ठरोगञ्च नाशयेत्
- एतद्योज्यं कफोद्रे के चूर्णमार्द्र कजै रसैः ५५९
- अष्टाङ्गं मधुना लिह्यादार्द्र कस्य रसेन वा
- सम्मोहं दारुणं हन्यात्तन्द्रा काससमन्वितम् ५६०
- सर्वेषु सन्निपातेषु न क्षौद्र्रमवचारयेत्
- शीतोपचारि क्षौद्रं स्याच्छीतं चात्र विरुद्ध्य्ते ५६१
- स्विन्नमामलकं पिष्ट्वा द्रा क्षया सह मेलयेत्
- विश्वभेषजसुंयुक्तं मधुना सह लेहयेत्
- तेनास्य शाम्यति श्वासः कासो मूर्च्छाऽरुचिस्तथा ५६२
- शिरीषबीजं गोम्रूत्रकृष्णामरिचसैन्धवैः
- अञ्जनं स्यात्प्रबोधायसरसोनशिलावचैः ५६३
- अयोरजः श्वेतलोध्रं मरिचं चाञ्जनं तथा
- गोमूत्रेण समायुक्तं तन्द्रा नाशनमुत्तमम् ५६४
- अञ्जनं सम्यगारब्धं मधुसिन्धुशिलोषणैः
- प्रमोहद्र्रोहि भवति भाषितं दण्डपाणिना ५६५
- इत्यञ्जनम्
- सूतं विषञ्च मरिचंतुत्थकं नवसादरम्
- चूर्णितं स्वरसैर्मर्द्यं धूर्त्तपत्ररसोनयोः ५६६
- सन्निपातकृते मोहे मूर्ध्नि लिम्पेत्पदोपरि
- अस्थिव्यथास्वनेनैव लेपं कुर्यात्पदोपरि ५६७
- बिल्वः श्योनाकगाम्भारीपाटलागणिकारिकाः
- पित्तघ्नंवातकफहृत्पञ्चमूलमिदं महत् ५६८
- शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका
- गोक्षुरुर्वातपित्तघ्नं कनीयः पञ्चमूलकम् ५६९
- उभयं दशमूलं तत्पिप्पलीचूर्णसंयुतम्
- सन्निपातज्वरं हन्ति हृत्कण्ठग्रहनाशनम् ५७०
- तन्द्रा वातकफातङ्कश्वासपार्श्वार्त्तिकासनुत् ५७१
- महान्ति यानि मूलानि काष्ठगर्भाणि यानि च
- तेषान्तु वल्कलं ग्राह्यं ह्रस्वमूलानि कृत्स्नशः ५७२
- दशमूलीकषायस्तु पिप्पलीपौष्करान्वितः
- सन्निपातज्वरे देयः श्वासकाससमन्विते ५७३
- चिरज्वरे वातकफोल्वणे वा त्रिदोषजे वा दशमूलमिश्रः
- किराततिक्तादिगणः प्रयोज्यः शुद्ध्य्र्थिने वा त्रिवृताविमिश्रः ५७४
- किराततिक्तको मुस्तं गुडूची विश्वभेषजम्
- किरातादिर्गणो ह्येष चातुर्भद्र कमित्यपि ५७५
- दशमूली शटी शृङ्गी पौष्करं सदुरालभम्
- भार्गी कुटजबीजञ्च पटोलं कटुरोहिणी ५७६
- अष्टादशाङ्ग इत्येष सन्निपातज्वरापहः
- कासहृद्ग्रहपार्श्वार्त्तिश्वासहिक्कावमीहरः ५७७
- भूनिम्बदारुदशमूलमहौषधाब्द तिक्तेन्द्र्रबीजधनिकेभकणाकषायः
- तन्द्रा प्रलापकसनारुचिदाहमोह श्वासत्रिदोषजनितज्वरनाशनः स्यात् ५७८
- सन्निपातज्वरे रसप्रदीपे
- विषं त्रिकटुकं गन्धं टङ्कणं मृतशुल्वकम्
- धत्तूरस्य च बीजानि हिङ्गुलं नवमं स्मृतम् ५७९
- एतानि समभागानि दिनैकं विजयाद्र वैः
- मर्दयेच्चणकाकारा कर्त्तव्या वटिकाऽथ सा ५८०
- भक्षणीयोऽनुपातव्यो रविमूलकषायकः
- मृतसञ्जीवनी नाम्नासन्निपातज्वरान्तकृत् ५८१
- शुद्धसूतं समं गन्धं सूतांशं मृतताम्रकम्
- त्रिभिस्तुल्यैर्गवां क्षीरैर्मर्दयेदातपे खरे ५८२
- मर्दयेद्दिनमेकन्तु निर्गुण्डीशिग्रुजद्र वैः
- विधाय गोलं तं गोलमन्धमूषागतं पचेत् ५८३
- त्रियामं बालुकायन्त्रे ततः खल्वे विचूर्णयेत्
- अष्टमांशं विषं तत्र क्षिपेत्तेनापि मर्दयेत् ५८४
- त्रिनेत्राख्यो रसो ह्येष देयो गुञ्जाद्वयोन्मितः
- पञ्चकोलकषायेण छागीदुग्धेन वा सह ५८५
- रसेनानेनभुक्तेन सन्निपातज्वरो महान्
- संक्षयं व्रजति क्षिप्रं कर्त्तव्यो नात्र संशयः ५८६
- भस्म षोडशनिष्कं स्यादरण्योपलसम्भवम्
- मरिचं निष्कमात्रञ्च विषं निष्कं विचूर्णयेत् ५८७
- रसो भस्मेश्वरो नाम सन्निपातज्वरान्तकृत्
- एकगुञ्जामितो भक्ष्य आर्द्र कस्य द्र्रवेण हि ५८८
- द्वौ कर्षौ सूतकाद् ग्राह्यौ गन्धकाद् द्वौ तथैव च
- यत्नतस्तूभयं मर्द्यं दिनं हंसपदीद्र्रवैः ५८९
- कल्कस्य वटिकां कृत्वा निक्षिपेत्काचभाजने
- कर्षैकममृतं तत्र क्षिप्त्वा वक्त्रं निरोधयेत् ५९०
- कूपिकायाः परौ भागौ बालुकाभिश्च पूरयेत्
- सार्द्धं यावदहोरात्रं तावत्तत्र पचेद्र सम् ५९१
- याममात्रोऽनलो देयः स्वाङ्गशीतं समुद्धरेत्
- तोलार्द्धममृतं तत्र क्षिपेत्तावत्तथोषणम् ५९२
- भक्षितो रक्तिकामात्रो रसस्त्वग्निकुमारकः
- सन्निपातज्वरं हन्याद्वातं मन्दाग्नितामपि ५९३
- शूलञ्च ग्रहणीं गुल्मं क्षयं जत्रुगदं तथा
- श्वासकासादिकान्सर्वान् गदानेष विनाशयेत् ५९४
- गन्धेशटङ्कमरिचं विषं धत्तूरजैर्द्र वैः
- दिनं सम्मर्दितं शुष्कं पञ्चवक्त्रो रसो भवेत् ५९५
- आर्द्र्रकस्य द्र्रवेणैष दातव्यो रक्तिकामितः
- सन्निपातज्वरे देयो घोरे तद्दोषनाशनः ५९६
- अमृतवराटकमरिचै र्द्विपञ्चनवभागयोजितै रचिता
- वटिका मुद्गसमाना कफत्रिदोषाग्निमान्द्यहरी ५९७
- सूतकं गन्धकञ्चैव हरितालं मनःशिला
- एकनिष्कं द्विनिष्कञ्च चतुर्निष्कं तथैव च ५९८
- पञ्चनिष्कं रसैः कारवेल्ल्याः सम्यक्प्रकल्पयेत्
- ताम्रपत्राणि तुल्यानि तेन कल्केन लेपयेत् ५९९
- शरावसम्पुटे तानि कृत्वा तेषामुपर्यपि
- दद्यात्तां पिष्टिकां पश्चात्पुटपाकेन पाचयेत् ६००
- ततः सञ्चूर्णयेदेवं रसः क्षौद्रे ण भक्षितः
- यवैकमात्रया हन्ति घोरं शीतज्वरं ध्रुवम् ६०१
- पारदं गन्धकञ्चैव तुत्थञ्च दरदं विषम्
- विषादष्टगुणं योज्यं मरिचं विश्वभेषजम् ६०२
- अश्वगन्धाऽथ विजया कासमर्दः कठिल्लकः
- चतुर्णाञ्च रसैरेतैश्चूणान्येतानि मर्दयेत् ६०३
- तुलस्यास्तु दलैः सार्द्धं भक्षितो रक्तिकामितः
- हन्ति शीतज्वरं घोरं नाम्नाऽय शीतकेसरी ६०४
- तालकं शुक्तिकाचूर्णं तुल्यं तत्रोभयोरपि
- नवमांशञ्च तुल्यं स्यान्मर्दयेत्कन्यकाद्र वैः ६०५
- तत्तु संशुष्कमुपलैर्वन्यैर्गजपुटे पचेत्
- शीतं तच्चूर्णयेदर्द्धगुञ्जामात्रं सितायुतम् ६०६
- प्रभाते भक्षयेत्तेन याति शीतज्वरःक्षयम्
- वान्तिर्भवति कस्यापि कस्यचिन्न भवत्यपि ६०७
- तालकं तुत्थकं ताम्रंसूतगन्धकटङ्कणम्
- सर्वमेतत्समं चूर्णं कारवेल्लीरसद्र वैः ६०८
- दिनैकं मर्दयेत्तेन रसकर्दमकेन तु
- ताम्रस्यभाजनस्यान्तर्लिम्पेदर्द्धाङ्गुलोन्मितम् ६०९
- तत्पचेद्वालुकायन्त्रे यवा यावत्स्फुटन्तिहि
- शीतलं तद्धि गृह्णीयात्ताम्रपात्रोदराद्भिषक् ६१०
- शीतभञ्जी रसो माषमात्रो मरिचसंयुतः
- भक्षितःपर्णखण्डेन नाशयेद्विषमज्वरान् ६११
- तालको दरदोद्भूतः पारदो गन्धकःशिला
- क्रमाद्भागार्द्धरहितं कारवेल्ल्यम्बुमर्दितम् ६१२
- अनेनास्यप्रमाणेन ताम्रपात्रं प्रलेपयेत्
- अधोमुखं दृढे भाण्डे तन्निरुध्याथ पूरयेत् ६१३
- चुल्ल्यां बालुकया घस्रमग्निं प्रज्वालयेदधः
- शीतं सञ्चूर्ण्य माषोऽस्य नागवल्लीदले स्थितः ६१४
- भक्षितो मरिचैः सार्द्धं समस्तविषमज्वरान्
- शीतदाहादिकान्हन्ति पथ्यं शाल्योदनं पयः ६१५
- कट्फलं त्रिफला दारु चन्दनं सपरूषकम्
- कटुका पद्मकोशीरं विपचेत्कर्षकं जले ६१६
- त्रिदोषदाहतृष्णाघ्नं पानमात्रे प्रपूजितम्
- दीर्घकालज्वरार्त्तानामेतत्स्यादमृतोपमम् ६१७
- सन्निपाते तु दाहार्त्तं यः सिञ्चेच्छीतवारिणा
- आतुरः स कथं जीवेद्भिषग्वा स कथं भवेत् ६१८
- दुःस्पर्शगोक्षुर क्षुद्रा सिद्धमाहारमर्पयेत्
- दोषशान्तिबलाग्न्यर्थं त्रिदोषज्वरिणे भिषक् ६१९
- लाजसक्तून्समश्नीयात्सैन्धवेन समन्वितान्
- ते च जीर्यन्त्यविघ्नेन ज्वरी जीवेत्तदा ध्रुवम् ६२०
- रक्तपित्तहितत्वेन तृषादाहज्वरेषु च
- लाजानां सक्तवः शीता नैव तेऽत्र हिता मताः ६२१
- पाचनो दीपनः स्वेद्यो लाजमण्डो यतः स्मृतः
- दशमूलादिसंसिद्धः संनिपातज्वरे हितः ६२२
- सन्निपातज्वरी यस्तु कम्पते प्रलपत्यपि
- किञ्चिदेव न जानाति चिकित्सा तस्य कथ्यते ६२३
- अभ्यञ्जयेत्पुराणेन सर्पिषा पूर्वमेव तम्
- बलारास्नागुडूच्याद्यैस्तैलैश्च परिषेचयेत् ६२४
- वर्त्तको वर्त्तिका लावो वार्त्तिकस्तित्तिरिः शशः
- कुलिङ्गश्च रसेनैषां तर्पयेत यथाऽनलम् ६२५
- सन्निपाते क्षुधाऽत्त यो भोजयेत्पिशितौदनम्
- स कथं भिषगाख्यान्तु लभते मनुजाधमः ६२६
- अथ वातोल्वणसन्निपातज्वरस्य चिकित्सा
- पञ्चमूलीकषायन्तु दशाद्वातोल्बणे ज्वरे
- भृशोष्णं वा सुखोष्णं वा दृष्ट्वा दोषबलाबलम् ६२७
- अथ पित्तोल्वणसन्निपातज्वरस्य चिकित्सा
- परूषकञ्च त्रिफला देवदारु च कट्फलम्
- चन्दनं पद्मकञ्चैव तथा कटुकरोहिणी ६२८
- पृश्निपर्णी शृतं त्वेभिरुषितं शीतलं जलम्
- पित्तोत्तरे नृणामेतत्सन्निपातचिकित्सितम् ६२९
- किराततिक्तकं मुस्तं गुडूची विश्वभेषजम्
- पाठोदीच्यं मृणालञ्च शृतं पित्ताधिके पिबेत् ६३०
- अथ कफोल्वणसन्निपातज्वरस्य चिकित्सा
- बृहत्यौ पौष्करं भार्गी शटी शृङ्गी दुरालभा
- वत्सकस्य तु बीजानि पटोलं कटुरोहिणी ६३१
- बृहत्यादिगणः शस्तः सन्निपाते कफोत्तरे
- श्वासादिषु च सर्वेषु हितः सोपद्र वेष्वपि ६३२
- अथ वातपित्तोल्वणसन्निपातज्वरस्य चिकित्सा
- वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम्
- तत्क्वाथो मधुना हन्ति वातपित्तोल्वणं ज्वरम् ६३३
- किराततिक्तकं मुस्तं गुडूची विश्वभेषजम्
- चातुर्भद्र कमित्याहुर्वातपित्तोल्बणे ज्वरे ६३४
- अथ पित्तकफोल्वणसन्निपातज्वरस्य चिकित्सा
- पर्पटः कट्फलं कुष्ठमुशीरं चन्दनं जलम्
- नागरं मुस्तकं शृङ्गी पिप्पल्येषां शृतं हितम्
- तृष्णादाहाग्निमान्द्येषु पित्तश्लेष्मोल्वणो ज्वरे ६३५
- अथ वातपित्तकफोल्वणसन्निपातज्वरस्य चिकित्सा
- नागरं धान्यकं भार्गी पद्मकं रक्तचन्दनम्
- पटोलः पिचुमन्दश्च त्रिफला मधुकं बला ६३६
- शर्करा कटुका मुस्तं गजाह्वा व्याधिघातकः
- किराततिक्तममृता दशमूली निदिग्धिका ६३७
- योगराजो निहन्त्येष सन्निपातं त्रिकोल्वणम्
- सन्निपातसमुत्थानं मृत्युमप्यागतं जयेत् ६३८
- अथ प्रवृद्धमध्यहीनवातादिसन्निपातज्वराणां चिकित्सा
- प्रवृद्धं कर्शयेद्दोषं क्षीणं संवर्द्धयेद्भिषक्
- चिकित्सेयं विधातव्या दोषयोर्वृद्धहीनयोः ६३९
- प्रवृद्धे शमिते दोषे मध्यमः स्वयमेव हि
- शान्तिं याति शमं नीतेऽनुबन्ध्ये त्वनुबन्धवत् ६४०
- भास्वन्मूलं जीरकव्योषभार्गी व्याघ्रीशुण्ठीपुष्करं गोजलेन
- सिद्धं सद्यः शीतगात्रार्तिमोहश्वासश्लेष्मोद्रे ककासान्निहन्ति ६४१
- कर्कोटिकाकन्दरजः कुलत्थ कृष्णावचाकट्फलकृष्णजीरैः
- किराततिक्तानलकट्फलाम्बु पथ्याभिरुद्वर्त्तनमत्र शस्तम् ६४२
- रसविषमरिचमहेश प्रियफलभस्मैकभूचतुर्वसुभिः
- भागैर्मितमुद् धूलनमिदमधिकस्वेदशैत्यहरम् ६४३
- क्षुद्रा ऽमृतापौष्करनागराणि शृतानि पीतानि शिवायुतानि
- शुण्ठीकणाऽगस्तिरसोषणानि नस्येन तन्द्रा विजयोल्वणानि ६४४
- मरिचकचपचम्पचावचारुक् कृमिहरनागरशर्वरीगवाक्ष्यः
- छगलकजलकल्किता नितान्तं नसि निहिता ननु तन्द्रि कं जयन्ति ६४५
- तुरङ्गलालालवणोत्तमेन्दु मनःशिलामागधिकामधूनि
- नियोजितान्यक्षिणि निश्चितं च तन्द्रा ञ्च निद्रा ञ्च निवारयन्ति ६४६
- सतगरवरतिक्तारेवताम्भोदतिक्ता नलदतुरगगन्धाभारतीहारहूराः
- मलयजदशमूलीशङ्खपुष्पीसुपक्वाः प्रलपनमपहन्युः पानतो नातिदूरात् ६४७
- सान्त्वनरञ्जनैस्तीक्ष्णै र्नस्यैस्तिमिरसेवनैः
- सर्वतो विकृतं चित्त मस्य प्रकृतिमानयेत् ६४८
- रोहिषधन्वयवासकवासा पर्पटगन्धलताकटुकाभिः
- शर्करया सममेष कषायः क्षतजष्ठीविन उद्यदुपायः ६४९
- पद्मकचन्दनपर्पटमुस्तं जातिकजीवकचन्दनवारि
- क्लींतकनिम्बयुतं परिपक्वं वारि भवेदिह शोणितहारि ६५०
- मधुकमधूकपरूषकपाथ श्चन्दनपल्लवदारुसनाथः
- श्रीपर्णीफलशीतकषायः ससित इहस्यादस्रजयाय ६५१
- तुरङ्गगन्धालवणोग्रगन्धा मधूकसारोषणमागधीभिः
- बस्ताम्बुशुण्ठीलशुनान्विताभिर्नस्यं कृशं भुग्नदृशं करोति ६५२
- शृङ्गीभार्ग्यभयाऽजाजी कणाभूनिम्बपर्पटः
- देवदारुवचाकुष्ठ यासकट्फलनागरैः ६५३
- मुस्तधान्याकतिक्तेन्द्र ः! यवपाठाहरेणुभिः
- हस्तिपिप्पल्यपामार्गः पिप्पलीमूलचित्रकैः ६५४
- विशालाऽरग्वधारिष्ट शटीवाकुचिकाफलैः
- विडङ्गरजनीदार्वी यवानीद्वयसंयुतैः ६५५
- समांशैर्विहितः क्वाथो हिङ्ग्वार्द्र करसान्वितः
- अभिन्यासज्वरं घोरं हन्ति तन्द्रा ञ्च तत्क्षणात् ६५६
- प्रमेहं कर्णशूलञ्च सन्निपातांस्त्रयोदश
- हिक्कां श्वासञ्च कासञ्च तथा सर्वानुपद्र वान् ६५७
- किराततिक्ताकुलकृत्कुलिङ्गी कर्पूरकृष्णाकटुतैलयुक्तः
- अम्लद्र वः संशमयेद्र सज्ञा दोषान्स्तुतो दाशरथिर्यथाऽत्र ६५८
- शालूरपर्णी मालूर मूलामयमधुप्लुता
- शङ्खकपुष्पीसहिता सेव्या वाचां विशुद्धये ६५९
- क्षुद्र्रानागरपुष्करामृतलता ब्राह्मीवचासुव्रता भार्गीवासकयासतोयसुरसाक्वाथोजयेज्जिह्वकम्
- विश्वावर्मविभावरी युगवरावत्सादनीवारिद
- व्याघ्रीनिम्बपटोलपुष्करजटारुग्दारुभिर्वा कृतः ६६०
- शटीसुरतरूत्तमास्थविरदारुरास्नाः समाः
- सनागरसुधाऽन्विताः पिब शतावरीसंयुताः
- मृदुज्वलनपाचिताः सह पुरेण संधिग्रह
- व्यथाऽपहृतये वृथा शिशिरसेवनं मा कृथाः ६६१
- वचाकवचकच्छुरासहचरामृताभङ्गुरासुराह्वघननागरातरुणदारुरास्नापुराः
- वृषातरुणभीरुभिः सह भवन्ति संधिग्रह व्यथोरुजडिमक्लमभ्रमणपक्षघातद्रुहः ६६२
- सुरदारुशटीसुधालता सुवहाशुण्ठ्यमृताः शृता जले
- सपुराः शमयन्ति सेविताः सततं सन्धिगतं सदागतिम् ६६३
- मुस्तैरण्डप्राणदाबाणादारू च्छिन्नारास्नाभीरूकर्चूरतिक्ताः
- वासाविश्वापञ्चमूलाश्वगन्धा हन्युर्मन्यास्तम्भसन्धिग्रहार्त्तीः ६६४
- इहापहाय व्रतमुष्णवारि ज्वरारियूषादि गदापहारि
- ज्वरच्छिदं जीवितदञ्च नित्यं मृत्युञ्जयं चेतसि चिन्तयस्व ६६५
- कर्पूरप्रकरावदातवपुषं संयोगमुद्रा जुषं शश्वद्भक्तजनेषु भावुकजुषं भालस्फुरच्चक्षुषम्
- सम्पूर्णामृतकुम्भसम्भृतकरं शुभ्राक्षमालाधरं पिङ्गात्तुङ्गजटाकलापरुचिरं चन्द्रा र्द्धमौलि स्तुहि ६६६
- भिषग्भिरिति निर्णीतं सन्निपातेऽन्तकाभिधे
- भेषजं जाह्ववीनीरं वैद्यो गोविन्द एव हि ६६७
- उशीरचन्दनोदीच्य द्रा क्षाऽमलकपर्पटैः
- शृतं शीतं जलं दद्याद् दाहतृड्ज्वरशान्तये ६६८
- ससितो निशि पर्युषितः प्रातर्धान्याकतण्डुलक्वाथः
- पीतः शमयत्यचिरादन्तर्दाहं ज्वरं पैत्तम् ६६९
- पथ्यां तैलघृतक्षौद्रै र्लिह्याद्दाहविनाशिनीम् ६७०
- प्रशमयति दाहमचिराद् दधियुक्कर्कन्धुपल्लवैर्लेपः
- लेपो हिमकरमलयज निम्बदलैस्तक्रपिष्टैर्वा ६७१
- उत्तानसुप्तस्य गभीरताम्र कांस्यादिपात्रे निहिते च नाभौ
- शीताम्बुधारा बहुलापतन्ती निहन्ति दाहं त्वरितं ज्वरञ्च ६७२
- शीताम्भसा तु शतशश्च विलोडितेन गव्येन चन्दनयुतेन घृतेन दिग्ध्वा
- दाहज्वरी सकमलोत्पलमाल्यधारी क्षिप्रं विशेत्सलिलकोष्ठमनल्पकालम् ६७३
- काञ्जिकार्द्र पटेनावगुण्ठनं दाहनाशनम्
- अथ गोतक्रसंस्विन्न शीतलीकृतवाससा ६७४
- दाहवम्यर्दितं क्षामं निरन्नं तृष्णयाऽन्वितम्
- शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम् ६७५
- वाप्यःकमलहासिन्यो जलयन्त्रगृहाः शुभाः
- नार्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः ६७६
- मुक्तावलीचन्दनशीतलानां सुगन्धपुष्पाम्बरभूषितानाम्
- नितम्बिनीनां सुपयोधराणामालिङ्गनान्याशु हरन्ति दाहम् ६७७
- प्रह्लादञ्चास्य विज्ञाय ताः स्त्रीरपनयेत्पुनः
- हितञ्च भोजयेदन्नं येनाप्नोति सुखं महत् ६७८
- कणोषणोग्रालवणोत्तमानि करञ्जबीजं प्रमदामलानि
- पथ्याऽक्षसिद्धार्थकहिङ्गुशुण्ठी युतानि बस्ताम्बुविमिश्रितानि ६७९
- पिष्ट्वा गुटीयं नयने विधेया प्रचेतनेऽतिप्रथिताऽन्वितार्था
- चित्तभ्रमापस्मृतिभूतदोष शिरोऽक्षिरोगभ्रमनाशहेतुः ६८०
- कुम्भोद्भवतरोरम्भो गुडं विश्वकणाऽन्वितम्
- निहितं नसि नूनं स्याच्चित्तभ्रमविनाशनम् ६८१
- मुरामूर्द्धजमेघाह्व मधूकमलयोद्भवैः
- मरुत्तरुमधून्मिश्रैः पुरपाणिजपांशुभिः ६८२
- लोहलामज्जकैला भिर्धूपश्चित्तभ्रमापहः
- ग्रहदोषहरः श्रीदः सौभाग्यकर उत्तमः ६८३
- मृद्वीकाऽमरदारुमत्स्यशकलामुस्तामलक्योऽमृता
- पथ्याऽरेवतरामसेनकरजोराजीफलैः संयुताः
- हन्युश्चित्तरुजोऽथ दर्दुरदलापाठापटोलीपयः
- पथ्यापर्पटराजवृक्षकटुकाशम्बूकपुष्प्यः शृताः ६८४
- प्रलेपस्तमस्तं नयत्यल्पमेकः समुद्रि क्तशोथञ्च रक्तावशेषः
- पक्वे च शस्त्रक्रिया पूयजित्सा व्रणत्वं गते चोचिता तच्चिकित्सा ६८५
- निशाविशालाऽमयमाणिमन्थ दार्वीङ्गुदीमूलकृतः प्रलेपः
- प्रभाकरक्षीरयुतः प्रभावाद् व्यस्तः समस्तोऽप्यथ कर्णिकघ्नः ६८६
- कुलत्थः कट्फलं शुण्ठी कारवी च समांशकैः
- सुखोष्णैर्लेपनं कार्यं कर्णमूले मुहुर्मुहुः ६८७
- गैरिकं कठिनी शुण्ठी कट्फलारग्वधैः समैः
- उष्णैः काञ्जिकसम्पिष्टैर्लेपः कर्णकमूलनुत् ६८८
- शिग्रुराजिकयोः कल्कं कर्णमूले प्रलेपयेत्
- कर्णमूलभवः शोथस्तेन लेपेन शाम्यति ६८९
- अशिशिरजलपरिमृदितं मरिचकणाजीरसिन्धुजं त्वरितम्
- नस्यविधिसेवितं ननु कर्णकरूङ्नाशकृद् गदितम् ६९०
- भार्गीजयापौष्करकण्टकारी कटुत्रिकोग्राघनकुण्डलीभिः
- कुलीरशृङ्गीकटुकारसाभिः कृतः कषायः किल कर्णिकघ्नः ६९१
- दशमूलमत्स्यशकला चपलात्रिफलामहौषधकिरातैः
- मरिचं चाशु क्वथितं बलादपहन्ति कर्णरुजः सकलाः६९२
- फलत्रिकत्र्! यूषणमुस्तकट्वी कलिङ्गसिंहाननशर्वरीभिः
- क्वाथः कृतः कृन्तति कण्ठकुब्जं कण्ठीरवः कुञ्जरमाशु तद्वत् ६९३
- किरातकटुकाकणाकुटजकण्टकारीशटी
- कलिद्रुकिलिमाभयाकटुककट्फलाम्भोधरः
- विषाऽमलकपुष्करानलकुलीरशृङ्गीवृषैर्महौषधसखैरयं जयति कण्ठकुब्जं गणः ६९४
- अभिघाताभिषङ्गाभ्याम भिचाराभिशापतः
- आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत् ६९५
- ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः
- रागद्वेषभयाद्यैश्च ते स्युरागन्तवो गदाः ६९६
- कामशोकभयाद्वायुः क्रोधात्पित्तं त्रयो मलाः
- भूताभिषङ्गात्कुप्यन्ति भूतसामान्यलक्षणाः ६९७
- श्यावास्यता विषकृते तथाऽतीसार एव च
- भक्तारूचिः पिपासा च तोदश्च सह मूर्च्छया ६९८
- ओषधीगन्धजे मूर्च्छा शिरोरुग्वमथुस्तथा
- कामजे चित्तविभ्रंशस्तन्द्रा ऽलस्यमभोजनम्
- हृदये वेदना चास्य गात्रञ्च परिशुष्यति ६९९
- मूर्च्छाङ्गमर्दस्तृण्नेत्रचापल्यं कुचवक्त्रयोः
- स्वेदः स्याद्धृदि दाहश्च स्त्रीणां कामज्वरे भवेत् ७००
- बालकं शतपत्राणि गन्धसारमुशीरकम्
- चोचधान्येयकं मांसी क्वाथः कामज्वरापहः ७०१
- सन्ध्यायां संस्तरः कार्यः सुगन्धैः कुसुमैर्भृशम्
- क्रीडनीयं स्वकान्तेन सह रात्रौ तथा स्त्रिया ७०२
- भयात्प्रलापः शोकाच्च भवेत्कोपाच्च वेपथुः ७०३
- भूताभिषङ्गादुद्वेगो हास्यरोदनकम्पनम्
- केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ७०४
- अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ७०५
- आगन्तुजे ज्वरे नैव नरः कुर्वीत लङ्घनम् ७०६
- लङ्घनं न हितं कामशोकचिन्ताप्रहारजे
- भयभूतश्रमक्रोधलङ्घनैश्च कृते ज्वरे ७०७
- किन्त्वग्नौ दीपिते तत्र दद्यान्मांसरसौदनम्
- अभिघातज्वरे युञ्ज्यात् क्रियामुष्णविवर्जिताम्
- कषाय मधुरं स्निग्धं यथादोषमथापि च
- अभिघातज्वरो नश्येत् पानाभ्यङ्गेन सर्पिषः
- रक्तावसेकैर्मेध्यैश्च तथा मांसरसौदनैः ७०८
- व्यधबन्धश्रमात्यध्वभङ्गभ्रंशसमुद्भवान्
- ज्वरानुपाचरेत्पूर्वं क्षीरमांसरसौदनैः ७०९
- अध्वश्रान्तेषु वाऽभ्यङ्गं दिवा निद्रा ञ्च कारयेत् ७१०
- ओषधीगन्धविषजौ विषपित्तप्रबाधनैः
- जयेत्कषायैर्मतिमान् सर्वगन्धकृतैर्भिषक् ७११
- चातुर्जातककर्पूरकङ्को लागुरुकुङ्कुमम्
- लवङ्गसहितञ्चैव सर्वगन्धं विनिर्दिशेत् ७१२
- क्रोधजे पित्तजित्कार्यं धार्यं सद्वाक्यमेव च
- आश्वासेनेष्टलाभेन वायोः प्रशमनेन च
- हर्षणैश्च शमं यान्ति कामक्रोधभयज्वराः ७१३
- कामैरथ मनोघ्नैश्च पित्तघ्नैश्चाप्युपक्रमैः
- सद्वाक्यैश्च शमं याति ज्वरः क्रोधसमुत्थितः ७१४
- कामात्क्रोधज्वरो नश्येत् क्रोधात्कामज्वरस्तथा
- घातिताभ्यामुभाभ्याञ्च कामक्रोधज्वरक्षयः ७१५
- भूतविद्यासमुद्दिष्टैर्बन्धावेशनताडनैः
- जयेद् भूताभिषङ्गोत्थं मनः शान्त्या च मानसम् ७१६
- सहदेवाया मूलं विधिना कण्ठे निबद्धमपहरति
- एकद्वित्रिचतुर्भिर्दिवसैर्भूतज्वरं पुंसाम् ७१७
- अभिचाराभिशापोत्थौ ज्वरौ होमादिभिर्जयेत्
- दानस्वस्त्ययनातिथ्यैरुत्पातग्रहदुष्टिजौ ७१८
- इत्यागन्तुज्वराधिकारः
विषमज्वराधिकारः
[सम्पाद्यताम्]- दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः
- धातुमन्यतमं प्राप्य करोति विषमज्वरम् ७१९
- सन्ततं रस रक्तस्थः सततं रक्तधातुगः
- दोषः क्रुद्धो ज्वरं पुंसां सोऽन्येद्युः पिशिताश्रितः ७२०
- मेदोगतस्तृतीयेऽह्नि अस्थिमज्जगतः पुनः
- कुर्य्याच्चातुर्थिकं घोरमन्तकं रोगसङ्करम् ७२१
- यः स्यादनियतात्कालाच्छीतोष्णाभ्यां तथैव च
- वेगतश्चापि विषमो ज्वरः स विषमः स्मृतः ७२२
- सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ ७२३
- सप्ताहं वा दशाहं द्वादशाहमथापि वा
- सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते ७२४
- अहोरात्रे सततको द्वौ कालावनुर्त्तते ७२५
- अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्त्तते ७२६
- तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः ७२७
- कफस्थानविभागेन यथासंख्यं करोति हि
- सततान्येद्युस्तृतीय चतुर्थकप्रलेपकान्
- अहोरात्रादहोरात्रात् स्थानात्स्थानं प्रपद्यते
- दोष आमाशयं प्राप्य करोति विषमज्वरम् ७२८
- निवृत्तः पुनरायाति विषमो नियते दिने
- स्वभावं कारणं तत्र मन्यन्ते मुनिपुङ्गवाः ७२९
- अधिशेते यथा भूमिं बीजं काले प्ररोहति
- अधिशेते तथा धातून् दोषः काले प्रकुप्यति ७३०
- स चापि विषमो देहं न कदाचित्प्रमुञ्चति
- ग्लानिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते ७३१
- वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते
- धात्वन्तरेषु लीनत्वात् सौक्ष्म्यान्नैवोपलभ्यते ७३२
- कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः
- वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः ७३३
- चतुर्थको दर्शयति स्वभावं द्बिविधं ज्वरः
- जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरसोऽनिलसम्भवः ७३४
- मध्यकायन्तु गृह्णाति पूर्वं यस्तु स पित्तजः
- विषमज्वर एवान्यश्चतुर्थकविपर्ययः ७३५
- अस्थिमज्जगतो दोषश्चतुर्थकविपर्ययः
- जायते भिषजा ज्ञेयो विषमज्वर एव सः ७३६
- स मध्ये ज्वरयत्यह्नी आद्यन्ते च विमुञ्चति ७३७
- त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरम्
- तयोः प्रशान्तयोः पित्तमन्तर्दाहं करोति च ७३८
- करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च
- तस्मिन्प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः ७३९
- द्वावेतौ दाहशीतादौ ज्वरौ संसर्गजौ स्मृतौ
- दाहपूर्वस्तयोः कष्टः सुखसाध्यतमोऽपरः ७४०
- विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते
- तेनार्द्धं शीतलं देहमर्द्धमुष्णं प्रजायते ७४१
- काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यवस्थितम्
- तेनोष्णत्वं शरीरस्य शीतत्वं हस्त पादयोः ७४२
- काये श्लेष्मा यदा दुष्टः पित्तं चान्ते व्यवस्थितम्
- शीतत्वं तेन गात्रे स्यादुष्णत्वं हस्तपादयोः ७४३
- प्रलिम्पन्निव गात्राणि घर्मेण गौरवेण च
- मन्दज्वरविलेपी च स शीतः स्यात्प्रलेपकः ७४४
- ज्वराश्च विषमाः सर्वे सन्निपातसमुद्भवाः
- यथोल्वणस्य दोषस्य तेषु कार्यं चिकित्सितम् ७४५
- विषमेष्वपि कर्त्तव्यमूर्ध्वञ्चाधश्च शोधनम्
- स्निग्धोष्णैरन्नपानैश्च शमयेद्विषमज्वरम् ७४६
- कालिङ्गकः पटोलस्य पत्रं कटुकरोहिणी
- पटोलं सारिवा मुस्तं पाठा कटुकरोहिणी ७४७
- निम्बः पटोलं त्रिफला मृद्बीका मुस्तवत्सकौ
- किराततिक्तममृता चन्दनं विश्वभेषजम् ७४८
- गुडूच्यामलकं मुस्तमर्द्धश्लोकसमापनाः
- कषायाः शमयन्त्याशु पञ्च पञ्चविधं ज्वरम् ७४९
- महाबलामूलमहौषधाभ्यां क्वाथो निहन्याद्बिषमज्वरं हि
- शीतं सकम्पं परिदाहयुक्तं विनाशयेद् द्वित्रिदिनप्रयोगात् ७५०
- मुस्ताऽमलकगुडूची विश्वौषधकण्टकारिकाक्वाथः
- पीतः सकणाचूर्णः समधुर्विषमं ज्वरं हन्ति ७५१
- तिलतैललवणयुक्तः कल्को लशुनस्य सेवितः प्रातः
- विषज्वरमपहरते वातव्याधीनशेषांश्च ७५२
- कालजाजी तु सगुडा विषमज्वरनाशिनी
- मधुना चाभया लीढा हन्त्याशु विषमज्वरान् ७५३
- पीतो मरिचचूर्णेन तुलसीपत्रजो रसः
- द्रो णपुष्पीरसो वाऽपि निहन्ति विषमज्वरान् ७५४
- समगुडमसितं जीरकमीषन्मरिचेन भक्षितं सद्यः
- एकाहिकंप्रशमयेत् समरेष्विव दानवानिन्द्र ः! ७५५
- शुण्ठ्यजाजी गुडं पिष्टं पीतमुष्णेन वारिणा
- जीर्णमद्येन तक्रेण तीव्रं शीतज्वरं जयेत् ७५६
- अथ सन्ततादिज्वराणां सामान्यचिकित्सा
- अमृतायाः शतं चूर्णं वाससा परिशोधितम्
- पृथक षोडश भागाः स्युर्गुडमाक्षिकसर्पिषाम् ७५७
- यथाऽग्नि भक्षयेदेतन्नरो हितमिताशनः
- नास्य कश्चिद्भवेद्व्याधिर्न जरा पलितं न च ७५८
- न ज्वरा विषमा नैव मोहो नानिलरक्तकम्
- न च नेत्रगता रोगाः परमेतद्र्रसायनम् ७५९
- मेधाकरं त्रिदोषघ्नं प्रयोगादस्य बुद्धिमान्
- जीवेद्वर्षशतं साग्रं यथैवादितिजस्तथा ७६०
- तक्रमांसं पयोमांसं दधिमांसमथापि वा
- माषमांसञ्च भुञ्जानो मुच्यते विषमज्वरात् ७६१
- अग्निवेशेनोक्तम्
- सुरा समण्डा पानार्थे भोजने चरणायुधाः
- तित्तिरा विष्किराः पथ्याः कुक्कुटा विषमज्वरे ७६२
- त्रायन्तीकटुकाऽनन्तासारिवाभिः शृतं जलम्
- पटोलाब्दवृषातिक्तासारिवाभिः शृतं जलम्
- सन्तताख्ये ज्वरे देयं वातादीनां निवृत्तये ७६३
- पटोलेन्द्र यवानन्तापथ्याऽरिष्टामृताजलम्
- क्वथितं तज्जलं पीतं ज्वरं सततकं जयेत् ७६४
- द्रा क्षापटोलनिम्बाब्दशक्राह्वत्रिफलाशृतम्
- जलं जन्तुः पिबेच्छीघ्रमन्येद्युर्ज्वरशान्तये ७६५
- कर्म साधारणं जह्यात् तृतीयकचतुर्थकौ
- भिषजा प्रतिकर्त्तव्यौ विशेषोक्तचिकित्सितैः ७६६
- उशीरं चन्दनं मुस्तं गुडूची धान्यनागरम्
- अम्भसा क्वथितं पेयं शर्करामधुयोजितम् ७६७
- ज्वरे तृतीयके पुंसां तृष्णादाहसमन्विते ७६८
- अपामार्गजटां कट्यां लोहितैः सप्ततन्तुभिः
- बद्ध्वा वारे रवेस्तूर्णं ज्वरं हन्ति तृतीयकम् ७६९
- स्थिरातामलकीदारु शिवावृषमहौषधैः
- सितामधुयुतः क्वाथश्चतुर्थकहरः परः ७७०
- अगस्तिपत्रस्य रसेन नस्यं निहन्ति चातुर्थकमुग्रवीर्यम्
- शिरीषपुष्पस्य निशाद्वयस्य कल्केन वा तद् घृतसंयुतेन ७७१
- ज्वरस्य वेगकालञ्च चिन्तयञ्ज्वर्यते तु यः
- तस्येष्टैरद्भुतैर्वाऽपि विषमैर्नाशयेत्स्मृतम् ७७२
- सन्ततं विषमं चापि सततं सुचिरोत्थितम्
- ज्वरं सुभोजनैः पथ्यैरिष्टैश्च समुपाचरेत् ७७३
- शीताभिभूते पुरुषे कुर्य्याच्छीतहरीं क्रियाम्
- दाहाभिभूते तु विधिं विदध्याद्दाहनाशनम् ७७४
- आच्छादनैर्बहुतरैर्गुरुभिः कम्बलादिभिः
- तूलवत्या महाशीतं शीतादिज्वरिणो हरेत् ७७५
- तं स्तनाभ्यां सुपीनाभ्यां पीवरोरुर्नितम्बिनी
- युवतिर्गाढमालिङ्गेत् तेन शीतं प्रशाम्यति ७७६
- कान्ताऽङ्गसङ्गसञ्जाते तद्वच्छीते निवारिते
- प्रह्लादं चास्य विज्ञाय पृथक् तां कारयेत्स्त्रियम् ७७७
- ततो दाहे तु सञ्जाते पत्रैरेरण्डसम्भवैः
- शीतलैर्धारितैरङ्गे दाहं तस्यापनोदयेत् ७७८
- तालकं शुक्तिकाचूर्णे दत्तं तत्रोभयोरपि
- नवमांशञ्च तुत्थं स्यान्मर्दयेत्कन्यकाद्र वैः ७७९
- तत्तु संशुष्कमुपलैर्वन्यैर्गजपुटे पचेत्
- शीतं तच्चूर्णयेच्चूर्णं गुञ्जामात्रं सितायुतम् ७८०
- प्रभाते भक्षयेत्तेन याति शीतज्वरः क्षयम्
- वान्तिर्भवति कस्यापि कस्यचिन्न भवत्यपि ७८१
- एकेन दिवसेनैव शीतज्वरहरं परम्
- मध्याह्नसमये पथ्यं शिखरिण्योदनं तथा ७८२
- कायस्थानाकुलीतिक्तावयः स्थापुरचोरकैः
- सहदेवावचाकुष्ठैः शीतघ्नैर्धूपलेपनैः७८३
- साम्लैर्विपाचितं तैलमभ्यङ्गाच्छीतनाशनम् ७८४
- एरण्डस्य तु पत्राणि लिप्तभूमौ निधापयेत्
- दाहादिज्वरिणो देहे तानि पत्राणि धारयेत् ७८५
- तेन नश्यति दाहोऽस्य ज्वरश्चैवोपशाम्यति
- दाहे शान्ते यदा शैत्यं तच्च युक्त्यानिवारयेत् ७८६
- जघनचक्रचलन्मणिमेखला सरसचन्दनचन्द्र विलेपना
- वनलतेव तनुं परिवेष्टयेत् प्रबलदाहनिपीडितमङ्गना ७८७
- तदङ्गसङ्गसञ्जाते शैत्ये दाहे निवारिते
- प्रह्लादञ्चास्य विज्ञाय तां स्त्रीमपनयेत्पुनः ७८८
- सुवर्चिकानागरकुष्ठमूर्वालाक्षानिशालोहितयष्टिकाभिः
- सिद्धं हरेत्षड्गुणतक्रपक्वं तैलं ज्वरं दाहसमन्वितं च ७८९
- रास्नानागरकुष्ठचन्दननिशायष्ट्याह्वकृष्णाबला
- लाक्षासैन्धवसारिवामधुरसादेवाह्वरोहीतकैः
- सोशीराम्बुधिफेनरोहिषजलैस्तैलंपचेत्षड्गुणे
- तक्रे तच्च जयेज्ज्वरं दृढतरं दाहादिशीतादिकम् ७९०
- पद्मकोत्पलकह्लार मृणालबिसपौष्करैः
- कुमुदोशीरमञ्जिष्ठा पद्मगैरिककट्फलैः ७९१
- सारिवाद्वयलोध्रा ह्वक्षीरीखर्जूरमस्तकैः
- धात्रीशतावरीयुक्तैः क्वाथे कल्के प्रयोजितैः ७९२
- लाक्षारसपयःशुक्त मस्तुभिः सह काञ्जिकैः
- पक्वं तैलमिदं त्वच्यं दाहज्वरहरं परम् ७९३
- प्रलेपके प्रयुञ्जीत श्लेष्मज्वरहरीं क्रियाम् ७९४
- रूद्र जटा गोशृङ्गं विडालविष्ठोरगस्य निर्मोकः
- मदनफलभूतकेश्यौ वंशत्वग्रुद्र निर्माल्यम् ७९५
- घृतयवमयूरपुच्छच्छगलकलोमानि सर्षपाःसवचाः
- हिङ्गुगवास्थिमरीचाः समभागाश्छागमूत्रसंपिष्टाः ७९६
- धूपनविधिना शमयन्त्येते सर्वाञ्ज्वरान्नियतम्
- ग्रहडाकिनीपिशाचप्रेतविकारानयं धूपः ७९७
- सोमं सानुचरं देवं समातृगणमीश्वरम्
- पूजयन्प्रयतः शीघ्रं मुच्यते विषमज्वरात् ७९८
- विष्णुं सहस्त्रमूर्द्धानं चराचरपतिं विभुम्
- स्तुवन्नामसहस्त्रेण ज्वरान्सर्वान्व्यपोहति ७९९
- तीर्थायतनदेवाग्निगुरुवृद्धोपसर्पणैः
- श्रद्धया पूजनैश्चापि सहसा शाम्यति ज्वरः ८००
- इति विषमज्वराधिकारः समाप्तः
सप्तधातुगतज्वराधिकारः
[सम्पाद्यताम्]- गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ
- रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते ८०१
- रसस्थे तु ज्वरे तस्मिन् कुर्याद्वमनलङ्घने ८०२
- रक्तनिष्ठीवनं दाहो मोहश्छर्दनविभ्रमौ
- प्रलापः पिडिका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ८०३
- सेकः संशमनो लेपो रक्तमोक्षमसृग्गते ८०४
- पिण्डकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता
- ऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ८०५
- तीक्ष्णं विरेकञ्च तथा कुर्यान्मांसगते ज्वरे ८०६
- भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च
- दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ८०७
- मेदःस्थे मेदसो नाशं विदधीत चिकित्सकः ८०८
- भेदोऽस्थ्ना कूजनं श्वासो विरेकश्छर्दिरेव च
- विक्षेपणञ्च गात्राणां विद्यादस्थिगते ज्वरे ८०९
- अस्थिस्थे तु ज्वरे कुर्याद् वातनाशनकं विधिम्
- वस्तिकर्म प्रयोक्तव्यमभ्यङ्गोन्मर्दनं तथा ८१०
- तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा
- अन्तर्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे ८११
- मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे
- शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ८१२
- इति सप्तधातुगतज्वराधिकार समाप्तः
जीर्णज्वराधिकारः
[सम्पाद्यताम्]- अथ जीर्णज्वराधिकारः
- यो द्वादशेभ्यो दिवसेभ्य ऊर्द्ध्वं दोषत्रयेभ्यो द्विगुणेभ्य ऊर्द्ध्वम्
- नृणां तनौ तिष्ठति मन्दवेगो भिषग्भिरुक्तो ज्वर एष जीर्णः ८१३
- नित्यं मन्दज्वरो रूक्षः शूनः कृच्छ्रेणसिद्ध्य्ति
- स्तब्धाङ्गःश्लेष्मभूयिष्ठो नरो वातबलासकी ८१४
- जीर्णज्वरी नरः कुर्यान्नोपवासं कदाचन
- लङ्घनात्स भवेत्क्षीणो ज्वरस्तु स्याद्बली यतः
- पुराणेऽपि ज्वरे दोषा यद्यपथ्यैः पुनस्तथा
- लङ्घयेत्तत्र तत्पश्चात् पूर्वामेवाचरेत्क्रियाम् ८१५
- निदिग्धकानागरकामृतानां क्वाथं पिबेन्मिश्रितपिप्पलीकम्
- जीर्णज्वरारोचककासशूल श्वासाग्निमान्द्यार्दितपीनसेषु ८१६
- हन्त्यूर्द्ध्वजामयं प्रायः सायन्तेनोपयुज्यते ८१७
- पिप्पलीमधुसंयुक्तः क्वाथश्छिन्नोद्भवोद्भवः
- जीर्णज्वरकफध्वंसी पञ्चमूलकृतोऽथ वा
- अमृतायाः कषायन्तु शीतलीकृतमीरितम्
- मधुपादयुतं पीतं जीर्णज्वरहरं परम्
- पिप्पलीमधुसम्मिश्रं गुडूचीस्वरसं पिबेत्
- जीर्णज्वरकफप्लीह कासारोचकनाशनम् ८१८
- जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली
- कासाजीर्णारुचिश्वासहृत्पाण्डु कृमिरोगनुत्
- द्विगुणः पिप्पलीचूर्णाद् गुडोऽत्र भिषजां मतः ८१९
- पिप्पली मधुसंयुक्ता मेदः कफविनाशिनी
- श्वासकासज्वरहरी पाण्डुप्लीहोदरापहा ८२०
- आमलं चित्रकं पथ्या पिप्पली सैन्धवं तथा ८२१
- चूर्णितोऽय गणो ज्ञेयः सर्वज्वरहरः परः
- भेदी रुचिकरः श्लेष्महन्ता दीपनपाचनः ८२२
- द्रा क्षाऽमृता शटी शृङ्गी मुस्तकं रक्तचन्दनम्
- नागरं कटुका पाठा भूनिम्बः सदुरालभः ८२३
- उशीरं धान्यकं पद्मं बालकं कण्टकारिका
- पुष्करं पिचुमन्दश्च दशाष्टाङ्गमिदं स्मृतम्
- जीर्णज्वरारुचिश्वास कासश्वयथुनाशनम् ८२४
- त्रिवृद्ध्या पञ्चवृद्ध्या वा सप्तवृद्ध्याऽथवाऽपि वा
- गव्यक्षीरेण सम्पिष्टाः पिबेद्दशदिनानि हि ८२५
- तथैवापनयेदेता एवं विंशतिवासरान्
- पिबतां ज्वरशान्तिः स्यात् पाण्डुरोगश्च शाम्यति ८२६
- कासः श्वासोऽग्निमान्द्यञ्च कफाधिक्यञ्च नश्यति ८२७
- वातश्लेष्मज्वरोक्ता स्यात् क्रियावातबलासके
- जीर्णज्वरे कफे क्षीणे दाहे तृष्णासमन्विते ८२८
- पयः पीयूषसदृशं तन्नवे तु विषोपमम्
- चन्दनाद्यं हितं तैलं शोषाधिकारकीर्त्तितम्
- तथा नारायणं तैलं जीर्णज्वरहरं परम् ८२९
- इति जीर्णज्वराधिकारः समाप्तः
- हरीतकी निम्बपत्रं नागरं सैन्धवोऽनलः
- एषां चूर्णं सदा खादेद् दुर्जलज्वरशान्तये ८३०
- अरुचिमनलमान्द्यं पीनसश्वासकासानुदरमुदकदोषानाशु हन्यादशेषान्
- जनयति तनुकान्तिं चित्तनेत्रप्रसादं पलपरिमितशुण्ठीक्षौद्र सिद्धः कषायः ८३१
- विषं भागद्वयं दग्धं कपर्दं पञ्चभागकम्
- मरिचं नागरञ्चैव चूर्णं वस्त्रेण शोधयेत् ८३२
- आर्द्र कस्य रसेनास्य कुर्यान्मुद्गनिभां वटीम्
- वारिणा वटिकायुग्मं प्रातः सायञ्च भक्षयेत् ८३३
- अयं रसो ज्वरे योज्यः सामे दुर्जलजेऽपि च
- अजीर्णाध्मानविष्टम्भ शूलेषु श्वासकासयोः ८३४
- पटोलमुस्ताऽमृतवल्लिवासकं सनागरं धान्यकिराततिक्तकम्
- कषायमेषां मधुना पिबेन्नरो निवारयेद् दुर्जलदोषमुल्बणम् ८३५
- किराततिक्तात्रिबृदम्बुपिप्पली विडङ्गविश्वाकटुरोहिणीरजः
- निहन्ति लीढं मधुनाऽतिसत्वरं सुदुस्तरं दुर्जलदोषजं ज्वरम् ८३६
- भोजनाग्रे नरैर्भुक्तं शुण्ठ्यजाज्यभयोत्थितम्
- कल्कन्तु सेवितं नित्यं नानादेशोद्भवं जलम् ८३७
- सहार्द्र कयवक्षारौ पीत्वा कोष्णेन वारिणा
- नानादेशसमुद्भूतं वारिदोषमपोहति ८३८
- बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्र वः ८३९
- श्वासो मूर्च्छाऽरुचिश्छर्दिस्तृष्णाऽतीसारविड्ग्रहाः
- हिक्काकासाङ्गदाहाश्च ज्वरस्योपद्र वा दश ८४०
- सञ्जातोपद्र वो व्याधिस्त्याज्यो न स्याच्चिकित्सकैः
- व्याधौ शान्ते प्रणश्यन्ति सद्यःसर्वेऽप्युपद्र वाः ८४१
- अतो व्याधिं जयेद्यत्नात् पूर्वं पश्चादुपद्र वान्
- भिषग् यःकुशलः सोऽत्र जयेत्पूर्वमुपद्र वम् ८४२
- तेष्वपि प्रचुरेषु प्राङ् नाशयेदाशुकारिणाम्
- मूलव्याधिं जयेत्पूर्वं यत्र यो वा भवेद्बली
- अविरोधेन कार्या तदुभयोरपि च क्रिया ८४३
- सिंही व्याघ्री ताम्रमूली पटोली शृङ्गी पद्मा पुष्करं रोहिणी च
- शाकं शठ्याः शैलमल्ल्याश्च बीजं श्वासं हन्यात्सन्निपातं दशाङ्गः ८४४
- भार्गीनिम्बघनाभयाऽमृतलताभूनिम्बवासाविषात्रातयन्ती कटुकावचात्रिकटुकश्योनाकशक्रद्रुमैः ८४५
- रास्नायासपटोलपाटलशटीदार्वीविशालत्रिवृद्ब्राह्मीपुष्करसिंहिकाद्वयनिशाधात्र्! यक्षदेवद्रुमैः
- क्वाथोऽय खलु सन्निपातनिवहान्द्वात्रिंशतां पानतो
- दुर्द्धर्षान्निजतेजसा विजयते सर्पान्गरुत्मानिव
- किञ्च श्वासवलासकासगुदरुग्घृद्रो गहिक्कामरुन्
- मन्यास्तम्भगलामयार्दितमलावष्टम्भब्रध्नानपि ८४६
- मधुना कृष्णाकट्फलकर्कटशृङ्गीभवं चूर्णम्
- श्वासामये महोग्रे लीढ्वा लोकः सुखी भवति ८४७
- वन्योपलाग्नितापितदात्रस्याग्रेण पञ्जरे दाहः
- अपहरति श्वासामयमसंशयं भाषितं मुनिभिः ८४८
- आर्द्र कस्य रसैर्नस्यं मूर्च्छायामाचरेन्नरः
- अञ्जनञ्च प्रयुञ्जीत मधुसिन्धुशिलोषणैः ८४९
- शीताम्भसाऽक्षिसेकः सुरभिर्धूपः सुगन्धि पुष्पञ्च
- मृदुतालवृन्तवातः कोमलकदली दल स्पर्शः ८५०
- अरुचौ तु शृङ्गबेरजरसकैः सोष्णैः ससिन्धुजैः कवलः
- सिन्धूत्थमातुलुङ्गीफलकेसरधारणं वक्त्रे ८५१
- क्वाथो गुडूच्याः समधुः सुशीतः पीतः प्रशान्तिं वमनस्य कुर्यात्
- विण्मक्षिकाणां मधुनाऽवलीढा सचन्दना शर्करयाऽन्विता वा ८५२
- दन्तशठबीजपूरकदाडिमबदरैः सचुक्रकैर्वदने
- लेपो जयति पिपासामथ रजतगुटी मुखान्तःस्था ८५३
- शीतं पयः क्षौद्र युतं निपीतमाकण्ठमाश्वेव तदुद्वमेच्च
- तर्षं महान्तं शमयेद्धि वक्त्रे धृत्वाऽथवा क्षौद्र वटाग्रलाजान् ८५४
- लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनः
- समुदीर्णदोषनिचयं शमयति तत्पाचयेदपि च ८५५
- वत्सादनीवत्सकवारिवाह विश्वम्भरानिम्बविषाः सविश्वाः
- ज्वरेऽतिसारं त्वरितं जयन्ति विश्वाऽमृतावत्सकवारिवाहाः ८५६
- पाठाऽमृतापर्पटमुस्तविश्व किराततिक्तेन्द्र यवान्विपाच्य
- पिबन्हरत्येव हठेन सर्वाञ्ज्वरातिसारानपि दुर्निवारान् ८५७
- विड्ग्रहे वातजित्कर्म कुर्यादत्रानुलोमनम्
- मलं प्रवर्त्तयेदाशु तीक्ष्णाभिः फलवर्त्तिभिः ८५८
- पथ्याऽरग्वधतिक्तात्रिवृदामलकैः शृतं तोयम्
- जीर्णज्वरे विबंधे दद्यादश्वेव विड्ग्रहः शाम्येत् ८५९
- नीरेण सिन्धूत्थरजोऽतिसूक्ष्मं नस्येन नूनं विनिहन्ति हिक्काम्
- शुण्ठी हठाद्वा सितया समेता धूपोऽथवा हिङ्गुसमुद्भवश्च ८६०
- कासे कणा कणामूलं कलिङ्गद्रुफलं रजः
- सविश्वभेषजं लिह्यान्मधुना वा वृषाद्र सम् ८६१
- पुष्करमूलकटुत्रिकशृङ्गी कट्फलयासककारविकाभिः
- मधुलुलिताभिरयं खलु लेहः कासरिपुः कफरोगहरश्च ८६२
- दाहाधिकारे लिखितं दाहे कुर्याच्चिकित्सितम्
- परं ज्वरे विरुद्धं यन्नोचितं तच्चिकित्सितम् ८६३
- सन्तापोऽभ्यधिको बाह्यस्तृष्णाऽदीनां च मार्दवम्
- बहिर्बेगस्य लिङ्गानि सुखसाध्यत्वमेव च ८६४
- वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्
- प्राकृतः सुखसाध्यस्तु ज्वरः सुरभिसम्भवः ८६५
- वैकृतोऽन्य स दुःसाध्यः प्राकृतश्चानिलोद्भवः ८६६
- वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्
- कुर्यात्पित्तञ्चशरदि तस्य चानुबलः कफः ८६७
- तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम्
- कफो वसन्ते तमपि वातपित्तं भवेदनु ८६८
- अन्तर्दाहोऽधिका तृष्णा प्रलापः श्वसनं भ्रमः
- सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः
- अन्तर्वेगस्य लिङ्गानि कष्टसाध्यत्वमेव च ८६९
- ज्वरः क्षीणस्य शूनस्य गम्भीरो दीर्घरात्रिकः
- असाध्यो बलवान्यश्च केशसीमन्तकृज्ज्वरः ८७०
- गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया
- आनद्धत्वेन चात्यर्थं कासश्वासोद्गमेन च ८७१
- ज्वरस्य पूर्वं ज्वरमध्यतो वा ज्वरान्ततो वा श्रुतिमूलशोथः
- क्रमादसाध्यः खलु कृच्छ्रसाध्यः सुखेन साध्यो मुनिभिः प्रदिष्टः ८७२
- रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते
- तल्लक्षणमरिष्टं स्याद् रिष्टमप्यभिधीयते ८७३
- हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः
- ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रि यनाशनः ८७४
- विसंज्ञस्ताम्यते यस्तु शेते निपतितोऽपि वा
- शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः८७५
- यो हृष्टरोमा रक्ताक्षो हृदि संघातशूलवान्
- वक्त्रेण चवोच्छ्वसिति तं ज्वरो हन्ति मानवम् ८७६
- हिक्काश्वासतृषायुक्तं मूढं विभ्रान्तलोचनम्
- सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः ८७७
- हतप्रभेन्द्रि यं क्षाममरोचकनिपीडितम्
- गम्भीरतीक्ष्णवेगार्त्तं ज्वरितं परिवर्जयेत् ८७८
- मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे
- शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ८७९
- आरम्भाद्विषमो यस्य यस्य वा दीर्घरात्रिकः
- क्षीणस्य चातिरूक्षस्य गम्भीरो यस्य हन्ति तम् ८८०
- इति प्रथमो ज्वराधिकारः समाप्तः
अतिसाराधिकारः
[सम्पाद्यताम्]- अथ द्वितीयोऽतिसाराधिकारः २
- गुर्वतिस्निग्धरूक्षोष्णद्र वस्थूलातिशीतलैः
- विरूद्धाध्यशनाजीणैर्विषमैश्चापि भोजनैः १
- स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः
- शोकदुष्टाम्बुमद्यातिपानैः सात्म्यर्त्तुपर्ययैः २
- जलाभिरमणैर्वेगविघातैः कृमिदोषतः
- नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते ३
- हृन्नाभिपार्श्वोदरकुक्षितोदगात्रावसादा निलसन्निरोधाः
- विट्सङ्गआध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि ४
- संशम्यापां धातुरग्निं प्रवृद्धो वर्चोमिश्रो वायुनाऽध प्रणुन्नः
- सरत्यतीवातिसारं तमाहुर्व्याधिं घोरं षड्विधं तं वदन्ति ५
- एकैकशः सर्वशश्चापि दोषैः शोकेनान्यःषष्ठ आमेन चोक्तः ६
- आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः
- अतोऽतिसारे सर्वस्मिन्नामं पक्वञ्च लक्षयेत् ७
- संसृष्टमामैर्दोषैस्तु न्यस्तमप्सु निमज्जति
- पुरीषं भृशदुर्गन्धि पिच्छिलं चामसंज्ञितम् ८
- एतान्येव तु लिङ्गानि विपरीतानि यस्य वै
- लाघवञ्च विशेषेण तं तु पक्वं विनिर्दिशेत् ९
- न च संग्राहकं दद्यात्पूर्वमामातिसारिणे
- अकाले संगृहीतस्तु विकारान्कुरुते बहून् १०
- दण्डकालसकाध्मानग्रहण्यर्शोभगन्दरान्
- शोथपाण्ड्वामयप्लीहगुल्ममेहोदरज्वरान् ११
- डिम्भस्थः स्थविरस्थश्च वातपित्तात्मकश्च यः
- क्षीणधातुबलश्चापि बहुदोषोऽतिनिस्रुतः
- आमोऽपि स्तम्भनीयः स्यात्पाचनान्मरणं भवेत् १२
- लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनः
- समुदीर्णदोषनिचयं तत्पाचयेत्तथा च शमयेत् १३
- धान्याम्बुभ्यां शृतं तोयं तृष्णादाहातिसारिणे
- ह्रीबेरशृङ्गबेराभ्यां मुस्तपर्पटकेन वा
- मुस्तोदीच्यशृतं शीतं प्रदातव्यं पिपासवे १४
- हितं लङ्घनमेवादौ पूर्वरूपेऽतिसारिणे
- कार्यं वाऽनशनस्यान्ते प्रद्र वं लघु भोजनम् १५
- पथ्यादारुवचामुस्तैर्नागरातिविषाऽन्वितैः
- आमातिसारनाशाय क्वाथमेभिः पिबेन्नरः १६
- पाठाहिङ्ग्वजमोदोग्रापञ्चकोलाह्वजं रजः
- उष्णाम्बुपीतं सरुजं जयत्यामं ससैन्धवम् १७
- हरीतकी सातिविषा हिङ्गु सौवर्चलं वचा
- सैन्धवञ्चापि संपिष्य पाययेदुष्णवारिणा १८
- आमातिसारयोगोऽय पाचयित्वा चिकित्सति
- आमातिसारो योगेन यस्त्वेतेन न शाम्यति १९
- न तं योगशतेनापि चिकित्सति चिकित्सकः २०
- वत्सकातिविषाबिल्वं मुस्तकं बालकं शटी
- अतीसारं जयेत्सामं चिरजं रक्तशूलजित् २१
- एरण्डरससम्पिष्टं पक्वमामञ्च नागरम्
- आमातिसारशूलघ्नं पाचनं दीपनं परम् २२
- धान्यबालकबिल्वाब्दनागरैः पाचितं जलम्
- आमशूलविबन्धघ्नं पाचनं दीपनं परम् २३
- पित्ते धान्यचतुष्कन्तु शुण्ठीत्यागाद्वदन्ति हि
- रक्तेऽपि पित्तसाधर्म्याद्देयं धान्यचतुष्टयम् २४
- इत्यामातिसारचिकित्सा
- अथ पक्कातीसारचिकित्सा
- सलोध्रं धातकीबिल्वमुस्ताऽम्रास्थिकलिङ्गकम्
- पिबेन्माहिषतक्रेण पक्वातीसारनाशनम् २५
- समङ्गा धातकीपुष्पं मञ्जिष्ठा लोध्र एव च
- शाल्मलीवेष्टको लोध्रो दाडिमद्रुफलत्वचौ २६
- आम्रास्थिमध्यं लोध्रश्च विल्वमध्यं प्रियङ्गु च
- मधुकं शृङ्गबेरञ्च दीर्घवृन्तत्वगेव च २७
- चत्वार एते योगाः स्युः पक्वातीसारनाशनाः
- ते योगा उपयोज्याःस्युः सक्षौद्रा स्तण्डुलाम्बुना २८
- कञ्चटदाडिमजम्बू शृङ्गाटकपत्रबिल्वबर्हिष्ठम्
- जलधरनागरसहितं गङ्गामपि वेगवाहिनीं रुन्ध्यात् २९
- मोचरसमुस्तनागर पाठाऽरलुधातकीकुसुमैः
- चूर्ण मथितसमेतं रुणद्धि गङ्गाप्रवाहमपि सद्यं ३०
- मुस्ता वत्सकबीजं मोचरसो बिल्वधातकीलोध्रम्
- गुडमथितसंप्रयुक्तं गङ्गामपि वेगवाहिनीं रुन्ध्यात् ३१
- मुस्ताऽरलुकशुण्ठीभिर्धातकीलोध्रबालकैः
- बिल्वमोचरसाभ्यां च पाठेन्द्र यववत्सकैः ३२
- आम्रबीजसमङ्गाऽतिविषायुक्तैश्च चूर्णितैः
- मधु तण्डुलपानीयं पीतं हन्ति प्रवाहिकाम् ३३
- हन्ति सर्वानतीसारान् ग्रहणीं हन्ति वेगतः
- वृद्धगङ्गाधरं चूर्णरुन्ध्याद्गीर्वाणवाहिनीम् ३४
- अङ्कोलमूलकल्कस्तण्डुलपयसा समाक्षिकः पीतः
- सेतुरिववारिवेगं झटिति निरुन्ध्यादतीसारम् ३५
- कुटजत्वक्तुलामाद्रा रं! द्रो णनीरे पचेद्भिषक्
- पादशेषं शृतं नीत्वा वस्त्रपूतं पुनः पचेत् ३६
- लज्जालुर्धातकी बिल्वं पाठा मोचरसस्तथा
- मुस्ता चातिविषा चैव चूर्णमेषां पलं पलम् ३७
- निक्षिप्य विपचेत्तावद् यावद्दर्वी प्रलिप्यते
- जलेन च्छागदुग्धेन पीतो मण्डेन वा जयेत् ३८
- घोरान्सर्वानतीसारान्नाना वर्णान्सवेदनान्
- असृग्दरं समस्तञ्च तथाऽशासि प्रवाहिकाम् ३९
- कृत्वाऽलवालं सुदृढं पिष्टैरामलकैर्भिषक्
- आर्द्र कस्य रसेनाशु पूरयेन्नाभिमण्डलम् ४०
- नदीवेगोपमं घोरं प्रवृद्धं दुर्द्धरं नृणाम्
- सद्योऽतीसारमजयं नाशयत्येष योगराट् ४१
- पाठा पिष्टा च गोदध्ना तथा मध्यत्वगाम्रजा
- अतीसारं व्यथादाहं हन्त्येवाशु न संशयः ४२
- अरुणं फेनिलं रूक्षमल्पमल्पं मुहुर्मुहुः
- शकृदामं सरुक्शब्दं मारुतेनातिसार्यते ४३
- वचा चातिविषा मुस्तं बीजानि कुटजस्य च
- श्रेष्ठः कषाय एतेषां वातातीसारशान्तये ४४
- पित्तात्पीतं शकृद्र क्तं दुर्गन्धि हरितं द्रुतम्
- गुदपाकतृषामूर्च्छादाहयुक्तं प्रवर्त्तते ४५
- बिल्वशक्रयवाम्भोदबालकातिविषाकृतः
- कषायो हन्त्यतीसारं सामं पित्तसमुद्भवम् ४६
- रसाञ्जनं सातिविषं कुटजस्य फलत्वचम्
- धातकी शृङ्गबेरञ्च पाययेत्तण्डुलाम्बुना ४७
- निहन्ति मधुना पीतं पित्तातीसारमुल्वणम्
- अग्निं सन्दीपयेदेतच्छूलमाशु निवारयेत् ४८
- पित्तकृन्ति यदाऽत्यर्थं द्र व्याण्यश्नाति पैत्तिके
- तदाऽस्य जायतेऽभीक्ष्णं रक्तातीसार उल्वणः ४९
- वत्सत्वग्दाडिमतरु शलाटुफलसम्भवां त्वक् च
- त्वग्युगलं पलमानं विपचेदष्टांशसंमिते तोये अं५०
- अष्टमभागं शेषं क्वाथं मधुना पिबेत्पुरुषः
- रक्तातिसारमुल्वणमतिशयितं नाशयेन्नियतम् ५१
- कुटजातिविषामुस्ताबालकं लोध्रचन्दनम्
- धातकी दाडिमं पाठा क्वाथमेषां समाक्षिकम् ५२
- पिबद्र क्तातिसारे तु दाहशूलप्रशान्तये
- कुटजादिकषायोऽय सर्वातीसारनाशनः ५३
- कल्कस्तिलानां कृष्णानां शर्करापञ्चभागिकः
- आजेन पयसा पीतः सद्योऽतीसारनाशनः ५४
- सवत्सकः सातिविषः सबिल्वः सोदीच्यमुस्तश्च कृतः कषायः
- सामे सशूले सहशोणिते च चिरप्रवृत्तेऽपि हितोऽतिसारे ५५
- कृष्णमृन्मधुकं लोध्रं कौटजं तण्डुलाम्बुना
- पीतमेकत्र सक्षौद्रं रक्तसंग्रहणं परम् ५६
- गुडेन भक्षयेद्बिल्वं रक्तातीसारनाशनम्
- आमशूलविबन्धघ्नं कुक्षिरोगहरं परम् ५७
- जम्ब्वाम्रामलकीनान्तु कुट्टयेत्पल्लवान्नवान्
- तत्पीतं मधुना युक्तं रक्तातीसारनाशनम् ५८
- निक्वाथ्य मूलममलं गिरिमल्लिकायाःसम्यक् पलद्वितयमम्बुचतुःशरावे
- तत्पादशेषसलिलं खलु शोषणीयं क्षीरे पलद्वयमिते कुशलैरजप्याः ५९
- प्रक्षिप्य माषकानष्टौ मधुनस्तत्र शीतले
- रक्तातिसारी तत्पीत्वा नैरुज्यंक्षिप्रमाप्नुयात् ६०
- पीत्वा शतावरीकल्कं पयसा क्षीरभुग् जयेत्
- रक्तातिसारं पीत्वा वा तया सिद्धं घृतं नरः ६१
- गोदुग्धनवनीतं च मधुना सितया सह
- लीढं रक्तातिसारे तु ग्राहकं परमं मतम् ६२
- पीतं मधुसितायुक्तं चन्दनं तण्डुलाम्बुना
- रक्तातीसारजिद्र क्तपित्ततृड्दाहमेहनुत् ६३
- विरेकैर्बहुभिर्यस्य गुदं पित्तेन दह्यते
- पच्यते वा तयोः कार्यं सेकप्रक्षालनादिकम् ६४
- पटोलयष्टिमधुकक्वाथेन शिशिरेण हि
- गुदप्रक्षालनं कार्यं तेनैव गुदसेचनम् ६५
- दाहे पाके हितं छागीदुग्धं सक्षौद्र शर्करम्
- गुदस्य क्षालने सेके युक्तं पाने च भोजने ६६
- अतिप्रवृत्त्या महती भवेद्यदि गुदव्यथा
- स्विन्नमूषकमांसेन तदा संस्वेदयेद् गुदम् ६७
- अथ गोधूमचूर्णस्य संशृतस्य तु वारिणा
- साज्यस्य गोलकं कृत्वा मृदु संस्वेदयेद् गुदम् ६८
- गुदनिःसरणे प्रोक्तं चाङ्गेरीघृतमुत्तमम्
- गुदभ्रंशे गुदं स्नेहैरभ्यज्यान्तःप्रवेशयेत् ६९
- प्रविष्टं स्वेदयेन्मन्दं मूषकस्यामिषेण हि ७०
- शम्बूकमांसं सुस्विन्नंसतैललवणान्वितम्
- ईषद् घृतेन चाभ्यज्य स्वेदयेत्तेन यत्नतः ७१
- गुदभ्रंशमशेषेण नाशयेत्क्षिप्रमेव च
- मूषकस्याथ वसया पायुं सम्यक्प्रलेपयेत्
- गुदभ्रंशाभिधो व्याधिः प्रणश्यति न संशयः ७२
- चाङ्गेरीकोलदध्यम्लक्षारनागरसंयुतम्
- घृतं विपक्वं पातव्यं गुदभ्रंशगदापहम् ७३
- कोमलं पद्मिनीपत्रं यः खादेच्छर्कराऽन्वितम्
- एतन्निश्चित्य निर्दिष्टं न तस्य गुदनिर्गमः ७४
- श्वेतं स्निग्धं घनं बद्धं शीतलं मन्दवेदनम्
- गौरवारुचिसंयुक्तं श्लेष्मणा सार्यते शकृत् ७५
- श्लेष्मातिसारे प्रथमं हितंलङ्घनपाचनम्
- योज्यश्चामातिसारघ्नो यथोक्तो दीपनो गणः ७६
- चव्यं सातिविषामुस्तं बालबिल्वं सनागरम्
- वत्सकत्वक्फलं पथ्या च्छर्दिश्लेष्मातिसारनुत् ७७
- हिङ्गु सौवर्चलंव्योषमभयाऽतिविषा वचा
- पीतमुष्णाम्बुना चूर्णमेषां श्लेष्मातिसारनुत् ७८
- अथ द्विदोषजातीसारस्य सामान्यचिकित्सा
- तत्र कृमिशत्र्वादिक्वाथः
- कृमिशत्रुवचाबिल्वपाठाधान्याककट्फलम्
- एषां क्वाथं भिषग्दद्यादतीसारे द्विदोषजे ७९
- तेषां चिकित्सा प्रोक्तैव विशिष्टा च निगद्यते ८०
- अथ वातश्लेष्मातिसारस्य चिकित्सा
- तत्र कट्फलादिक्वाथः
- कट्फलं मधुकं लोध्रं त्वग्दाडिमफलस्य च
- सतण्डुलजलं चूर्णं वातश्लेष्मातिसारनुत् ८१
- अथ वातपित्तातिसारस्य चिकित्सा
- तत्र चित्रकादिक्वाथः
- चित्रकातिविषामुस्तं वालबिल्वं सनागरम्
- वत्सकत्वक्फलं पथ्या वातपित्तातिसारनुत् ८२
- अथ पित्तकफातीसारस्य चिकित्सा
- तत्र मुस्तादिक्वाथः
- मुस्ता सातिविषा मूर्वा वचा च कुटजः समाः
- एषां कषायः सक्षौद्र ः! पित्तश्लेष्मातिसारनुत् ८३
- तन्द्रा युक्तो मोहसादास्यशोषी वर्चः कुर्यान्नैकरूपं तृषाऽत्त
- सर्वोद्भूते सर्वलिङ्गोपपत्तिः कृच्छ्रः साध्योबालवृद्धाबलानाम्८४
- अथ सन्निपातातीसारस्य चिकित्सा
- पञ्चमूलीबलाबिल्वगुडूची मुस्तनागरैः
- पाठाभूनिम्बबर्हिष्ठकुटजत्वक्फलैः शृतम् ८५
- सर्वजं हन्त्यतीसारं ज्वरञ्चापि तथा वमिम्
- सशूलोपद्र वं श्वासं कासं चापि सुदुस्तरम् ८६
- पञ्चमूली च सामान्या पित्ते योज्या कनीयसी
- वाते पुनर्बलासे च सा योज्या महती मता ८७
- अभया नागरं मुस्तं गुडेन सह योजितम्
- चतुःसमेयं गुटिका सर्वातीसारनाशनी ८८
- आमातीसारमानाहं सविबन्धं विसूचिकाम्
- कृमीनरोचकं हन्याद्दीपयत्याशु चानलम् ८९
- तत्कालाकृष्टकुटजत्वचं तण्डुलवारिणा
- पिष्ट्वा चतुःपलमितां जम्बूपत्रेण वेष्टिताम् ९०
- सूत्रेण बद्ध्वा गोधूमपिष्टेन परिवेष्टिताम्
- लिप्ताञ्च घनपङ्केन निर्दहेद् गोमयाग्निना ९१
- अङ्गारवर्णाञ्च मृदं दृष्ट्वा वह्नेः समुद्धरेत्
- ततो रसं समादाय शीतं क्षौद्र युतं पिबेत् ९२
- उक्तः कृष्णात्रिपुत्रेण पुटपाकस्तु कौटजः
- जयेत्सर्वानतीसारान् रक्तजान्सुचिरोत्थितान् ९३
- कुटजत्वक्कृतः क्वाथो वस्त्रपूतो हिमीकृतः
- स लीढोऽतिविषायुक्तः स्यात् त्रिदोषातिसारनुत् ९४
- इच्छन्त्यत्राष्टमांशेन क्वाथादतिविषारजः
- प्रक्षेपयेच्चतुर्थांशमिति केचिद्वदन्ति हि ९५
- पलमङ्कोटमूलस्य पाठां दार्वीञ्च तत्समाम्
- पिष्ट्वा तण्डुलतोयेन वटकानक्षसम्मितान् ९६
- छायाशुष्कांश्च तान्कुर्यात्तेष्वेकं तण्डुलाम्बुना
- पेषयित्वा प्रदद्यात्तं पानाय गदिने भिषक् ९७
- वातपित्तकफोद्भूतान्द्वन्द्वजान्सान्निपातिकान्
- हन्यात्सर्वानतीसारान्वटकोऽय प्रयोजितः ९८
- तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पोष्मा वै वह्निमाविश्य जन्तोः
- कोष्ठं गत्वा क्षोभयेत्तस्य रक्तं तच्चाधस्तात्काकणन्तीप्रकाशम् ९९
- निर्गच्छेद् वै विड्विमिश्रं ह्यविड् वा निर्गन्धं वा गन्धवद्वाऽतिसारः
- शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः १००
- भयेन क्षोभिता दोषा दूषयन्ति मलं यदा
- तदाऽतिसार्यते जन्तुः क्षिप्रमुष्णं जलप्लवम् १०१
- वातपित्तातिसारस्य प्रायो लिङ्गैः समन्वितम्
- अभयोपशमाच्छर्म यस्मिन्स्यात्स भयात्स्मृतः १०२
- भयशोकसमुद्भूतौ ज्ञेयौ वातातिसारवत्
- तयोर्वातहरी कार्या हर्षणाश्वासनैः क्रिया १०३
- अन्नाजीर्णात्प्रद्रुताः क्षोभयन्तो दोषाः कोष्ठे धातुसंघान्मलांश्च
- नानावर्णान्नैकशः सारयन्ति शूलोपेतं षष्ठमेनं वदन्ति १०४
- अथामातीसारस्य चिकित्सा
- तत्र वत्सकादिक्वाथः
- वत्सकातिविषाशुण्ठीबिल्वहिङ्गुयवाम्बुदाः
- चित्रकेण युतः क्वाथ आमातीसारनाशनः १०५
- अथ शोथातीसारस्य चिकित्सा
- तत्र शोथघ्न्यादिक्वाथः
- शोथघ्नीन्द्र यवौ पाठा श्रीफलातिविषाघनः
- क्वथिताः सोषणाः पीताः शोथातीसारनाशनाः १०६
- अथ छर्द्यतीसारस्य चिकित्सा
- तत्राम्रास्थ्यादिक्वाथः
- आम्रास्थिमध्यमालूरफलक्वाथः समाक्षिकः
- शर्करासहितो हन्याच्छर्द्यतीसारमुल्वणम् १०७
- कषायो भृष्टमुद्गस्य सलाजमधुशर्करः
- निहन्याच्छर्द्यतीसारं तृष्णां दाहं ज्वरं भ्रमम् १०८
- दध्ना ससारेण समाक्षिकेण भुञ्जीत निःसारकपीडितस्तु
- सुतप्तकुप्यक्वथितेन वाऽपि क्षीरेण शीतेन मधुप्लुतेन १०९
- दीप्ताग्निर्निष्पुरीषो यः सार्यते फेनिलं शकृत्
- स पिबेत्फाणितं शुण्ठीं दधि तैलं पयो घृतम्
- बलाविश्वाशृतं क्षीरं गुडतैलानुयोजितम्
- दीप्ताग्निं पाययेत्प्रातः सुखदं वर्चसः क्षये १११
- तुलां संकुट्य बिल्वस्य पचेत्पादावशेषितम्
- सक्षीरं साधयेत्तैलं श्लक्ष्णपिष्टैरिमैः समैः ११२
- बिल्वं सधातकीकुष्ठं शुण्ठीरास्नापुनर्नवाः
- देवदारुवचामुस्तं लोध्रमोचरसान्वितम् ११३
- एभिर्मृद्वग्निना पक्वं ग्रहण्यर्शोऽतिसारनुत्
- बिल्वतैलमितिख्यातमत्रिपुत्रेण भाषितम् ११४
- ग्रहण्यर्शोऽधिकारे ये स्नेहाः समुपदर्शिताः
- योज्यास्ते ह्यतिसारेऽपि त्रयाणां तुल्यहेतुना ११५
- वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य
- प्रवाहतोऽल्प बहुशो मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः ११६
- प्रवाहिका वातकृता सशूला पित्तात्सदाहा सकफा कफाच्च
- सशोणिता शोणितसम्भवा च ताः स्नेहरूक्षप्रभवा मतास्तु ११७
- तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च ११८
- अथ प्रवाहिकाचिकित्सा
- बिल्वपेषी गुडं लोध्रं तैलं मरिचसंयुतम्
- लीढ्वा प्रवाहिकाऽक्रान्तः सत्वरं सुखमाप्नुयात् ११९
- धातकी बदरीपत्रं कपित्थं रसमाक्षिकम्
- सलोध्रमेकतो दध्ना पिबेन्निर्वाहिकाऽदितः १२०
- पक्कजाम्बवसङ्काशं यकृत्खण्डनिभं तनु
- घृततैलवसामज्जवेसवारपयोदधि १२१
- मांसधावनतोयाभं कृष्णं नीलारुणप्रभम्
- कर्वुरं मेचकं स्निग्धं चन्द्र कोपगतं घनम् १२२
- कुणपं मस्तुलुङ्गाभं सगन्धं कुथितं बहु
- तृष्णादाहारुचिश्वासहिक्वापार्श्वास्थिशूलिनम् १२३
- संमूर्च्छाऽरतिसंमोहयुक्तं पक्ववलीगुदम्
- प्रलापयुक्तञ्च भिषग्वर्जयेदतिसारिणम् १२४
- असंवृतगुदं क्षीणं शूलाध्मानैरुपद्रुतम्
- गुदे पक्वे गतोष्माणमतिसारिणमुत्सृजेत् १२५
- श्वासशूलपिपासाऽत्त क्षीणंज्वरनिपीडितम्
- विशेषेण नरं वृद्धमतिसारो विनाशयेत् १२६
- शोथं शूलं ज्वरं तृष्णां श्वासं कासमरोचकम्
- छर्दिं मूर्च्छां च हिक्काञ्च दृष्ट्वाऽतीसारिणं त्यजेत् १२७
- हस्तपादाङ्गुलीसन्धिप्रपाको मूत्रनिग्रहः
- पुरीषस्योष्णताऽतीव मरणायातिसारिणः१२८
- अतिसारी राजरोगी ग्रहणीरोगवानपि
- मांसाग्निबलहीनो यो दुर्लभं तस्य जीवनम् १२९
- बाले वृद्धे त्वसाध्योऽय लिङ्गैरेतैरुपद्रुतः
- अपि यूनामसाध्यं स्यादतिदुष्टेपु धातुषु १३०
- यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति
- दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः १३१
- स्नानावगहावभ्यङ्गं गुरुस्निग्धादिभोजनम्
- व्यायाममग्निसन्तापमतिसारी विवर्जयेत् १३२
- प्रत्येकं दश गद्याणाः शुद्धसूतकगन्धयोः
- विंशतिस्त्रिदिनं खल्वे पिष्ट्वा तां कज्जलद्यं त्र्! यहम् १३३
- ततो वज्रस्य दुग्धेन पिष्ट्वा तां कज्जलद्यं त्र्! यहम्
- आर्द्र कं चित्रकं श्वेतं निःसहायञ्च मर्दयेत् १३४
- पेषयेत्तद्र सैरेवं कज्जलद्यं तां दिनत्रयम्
- पीतानाञ्च कपर्दीनां चूर्णं गद्याणविंशतिः १३५
- विशतिः शङ्खचूर्णस्य चत्वारिंशच्च मिश्रितम्
- त्रिदिनं मर्दयेत्खल्वे पूर्वोक्तेन क्रमेण च १३६
- त्र्! यहमर्कस्य दुग्धेन वज्रीदुग्धेन च त्र्! यहम्
- तन्मध्ये कज्जलद्यं क्षिप्त्वा चित्रकार्द्र रसेन तु १३७
- खल्वे पिष्ट्वा द्वयोः कार्या गुट्यो बदरसम्मिताः
- लिप्त्वा दग्ध्वाऽशु चूर्णेन पक्वकुह्लरिकांतरम् १३८
- प्रक्षिप्य गुटिकास्तत्र चूर्णलिप्तपिधानकम्
- दत्त्वा वस्त्रं मृदा लिप्त्वा गर्त्तं हस्तप्रमाणकम् १३९
- तद्गर्भे कुह्लरीं मुक्त्वा पुटो देयश्च शाणकैः
- पश्चाच्चित्रकनीरेण स्वाङ्गशीतञ्च पेषयेत् १४०
- गुटिकां पूर्वरीत्यैव कृत्वा देयः पुनः पुटः
- दग्धानां गुटिकानाञ्च चूर्णं कृत्वाऽथ कूपके १४१
- क्षेप्यं चैव हि निष्पन्नो रसोऽय शङ्खपोटली
- आमज्वरातिसारे च श्वासे कासे तथैव च १४२
- श्लेष्मपित्तामवातेषु मन्दाग्नौ ग्रहणीषु च
- अष्टादशप्रमेहेषु जीर्णे जीर्णबलेषु च १४३
- द्बात्रिंशन्मरिचैः साकं सघृतं वल्लपञ्चकम्
- सर्वरोगेषु दातव्यं मरिचाज्यं विना ज्वरे १४४
- शालयो दधि दुग्धादि भोजनं मधुरं हितम्
- कट्वम्लक्षारतैलाद्यान्दूरतः परिवर्जयेत् १४५
- विधिनाऽनेनकर्त्तव्यो रसोऽसौ शङ्खपोटली
- क्रमेण विनिवर्त्तन्ते प्रोक्तरोगा न संशयः १४६
- त्रैलोक्यविजयाजातीफले तुल्ये कलिङ्गकम्
- गृहीत्वा द्विगुणं श्रेष्ठो लेहः सर्वातिसारनुत् १४७
- बिल्वमोचरसलोध्रधातकीपुष्पचूतफलबीजसंयुता
- नाशयेदतिविषाऽवलेहिका सिन्धुवेगमपि दुर्धरं ध्रुवम् १४८
- इति द्वितीयोऽतीसाराधिकारः समाप्तः २
ज्वरातिसाराधिकारः
[सम्पाद्यताम्]- अथ तृतीयो ज्वरातिसाराधिकारः ३
- ज्वरातिसारयोरुक्तं निदानं यत्पृथक्पृथक्
- तस्माज्ज्वरातिसारस्य निदानं नोदितं पुनः १
- ज्वरातिसारयोरुक्तं भेषजं यत्पृथक्पृथक्
- न तन्मिलितयोः कार्यमन्योऽन्य वर्धयेद्यतः २
- अतस्तौ प्रतिकुर्वीत विशेषोक्तचिकित्सितैः ३
- लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजंबलिनः
- समुदीर्णदोषनिचयं तत्पाचयेत्तथा शमयेत् ४
- लङ्घनमुभयोरुक्तं मिलिते कार्यं विशेषतस्तदनु
- उत्पलषष्ठकसिद्धं लाजामण्डादिकं सकलम् ५
- पृश्निपर्णीबला बिल्वधनिकानागरोत्पलैः
- ज्वरातिसारयोर्वाऽपि पिबेत्साम्लं शृतं नरः ६
- कणाकरिकणालाजक्वाथो मधुसितायुतः
- पीतो ज्वरातिसारस्य तृष्णामाशु विनाशयेत् ७
- नागरातिविषामुस्ताऽमृताभूनिम्बवत्सकैः
- क्वाथः सर्वज्वरान्हन्ति चातिसारं सुदारुणम् ८
- गुडूच्यतिविषाधान्यशुण्ठीबिल्वाब्दबालकैः
- पाठाभूनिम्बकुटजचन्दनोशीरपर्पटैः ९
- पिबेत्कषायं सक्षौद्रं ज्वरातीसारनाशनम्
- हृल्लासारुचितृड्दाहवमीनाञ्च निवृत्तये १०
- उत्पलं दाडिमत्वक्च पद्मकेशरमेव च
- पीतं तण्डुलतोयेन ज्वरातीसारनाशनम् ११
- बिल्वबालकभूनिम्बगुडूचीमुस्तवत्सकैः
- कषायःपाचनःशोथज्वरातीसारनाशनः १२
- नागरातिविषाबिल्वगुडूचीमुस्तवत्सकैः
- कषायः पाचनः शोथज्वरातीसारनाशनः १३
- दशमूलीकषायेण विश्वमक्षसमां पिबेत्
- ज्वरे चैवातिसारे च सशोथे ग्रहणी गदे १४
- इति तृतीयाज्वरातिसारः समाप्तः ३
ग्रहणीरोगाधिकारः
[सम्पाद्यताम्]- अथ चतुर्थो ग्रहणीरोगाधिकारः ४
- अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः
- भूयः सन्दूषितो वह्निर्ग्रहणीमपि दूषयेत् १
- अग्न्यधिष्ठानमन्नस्य ग्रहणाद् ग्रहणी मता
- अपक्वं धारयत्यन्नं पक्वं त्यजति चाप्यधः २
- षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता
- आमपक्वाशयान्तःस्था ग्रहणी साऽभिधीयते ३
- ग्रहण्या बलमग्निर्हि स चापि ग्रहणीबलः
- तस्मादग्नौ प्रदुष्टे तु ग्रहण्यपि विदुष्यति
- तस्मात्कार्यः परीहारो ह्यतिसारे विरिक्तवत् ४
- एकैकशः सर्वशश्च दोषैरत्यन्तमूर्च्छितैः
- सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ५
- पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्र वम्
- ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः ६
- कटुतिक्तकषायाति रुक्षशीतलभोजनैः
- प्रमितानशनात्यध्यवेग निग्रहमैथुनैः ७
- मारुतः कुपितो वह्विं संछाद्य कुरुते गदम्
- तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता ८
- कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः
- पार्श्वोरुवङ्क्षणग्रीवारुगभीक्ष्णं विसूचिका ९
- हृत्पीडाकार्श्यदौर्बल्यं वैरस्यं परिकर्त्तिका
- गृद्धिः सर्वरसानाञ्च मनसः सदनं तथा १०
- जीर्णेजीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च
- स वातगुल्महृद्रो गप्लीहाशङ्की च मानवः ११
- चिराद् दुःखं द्र्रवं शुष्कं तन्वामं शब्दफेनवत्
- पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात् १२
- कटुतिक्तविदाह्यम्लक्षाराद्यैः पित्तमुल्वणम्
- आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम् १३
- सोऽजीर्णं पीतनीलाभं पीताभः सार्यते द्र वम्
- अत्यम्लोद्गारहृत्कण्ठदाहारुचितृषाऽदितः १४
- गुर्वतिस्निग्धशीतादि भोजनादतिभोजनात्
- भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितःकफः १५
- तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः
- आस्योपदेहमाधुर्यकासष्ठी वनपीनसाः १६
- हृदयं मन्यते स्तब्धमुदरं स्तिमितं गुरु
- दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम् १७
- भिन्नामश्लेष्मसंश्लिष्टगुरुवर्चः प्रवर्त्तनम्
- अकृशस्यापि दौर्बल्यमालस्यञ्च कफात्मके १८
- पृथग्वातादिनिर्दिष्टहेतु लिङ्गसमागमे
- त्रिदोषं निर्दिशेदेवं तेषां वक्ष्यामि भेषजम् १९
- द्र वं घनं सितं स्निग्धं सकटीवेदनं शकृत्
- आमं बहु सपैच्छिल्यं सशब्दं मन्दवेदनम् २०
- पक्षान्मासाद्दशाहाद्वा नित्यञ्चापि विमुञ्चति
- अन्त्रकूजनमालस्यं दौर्बल्यं सदनं भवेत् २१
- दिवा प्रकोपो भवति रात्रौ शान्तिं च गच्छति
- दुर्विज्ञेया दुर्निवारा चिरकालानुबन्धिनी २२
- सा भवेदामवातेन सङ्ग्रहग्रहणी मता २३
- प्रसुप्तिः पार्श्वयोःशूलं तथा जलघटीध्वनिः
- तं वदन्ति घटीयन्त्रमसाध्यं ग्रहणीगदम् २४
- ग्रहणीमाश्रितं रोगमजीर्णवदुपाचरेत्
- लङ्घनैर्दीपनीयैश्च सदाऽतीसारभेषजैः २५
- दोषं सामं निरामञ्च विद्यादत्रातिसारवत्
- अतिसारोक्तविधिना तस्यामञ्च विपाचयेत् २६
- पेयाऽदि पटु लघ्वन्नं पञ्चकोलादिभिर्युतम्
- दीपनानि च तक्रं च ग्रहण्यां योजयेद्भिषक् २७
- कपित्थबिल्वचाङ्गेरीत क्रदाडिमसाधिता
- यवागूः पाचयत्यामं शकृत्संवर्त्तयत्यपि २८
- गव्यं दध्युत्तमं बल्यं पाके स्वादु रुचिप्रदम्
- पवित्रं दीपनं स्निग्धं पुष्टिकृत्पवनापहम्
- उक्तं दध्नामशेषाणां मध्ये गव्यं गुणाधिकम् २९
- माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत्
- स्वादुपाकमभिष्यन्दि वृष्यं गुर्वस्रदूषणम् ३०
- आजं दध्युत्तमं ग्राहि लघु दोषत्रयापहम्
- शस्यते श्वासकासार्शःक्षयकार्श्येषु दीपनम् ३१
- तक्रन्तु घोलं मथितोदश्वित्तक्रप्रभेदतः
- सुश्रुताद्यैर्मुनिश्रेष्ठैश्चतुर्द्धा परिकीर्त्तितम् ३२
- ससरं निर्जलं घोलं मथितं त्वसरोदकम्
- तक्रं पादजलं प्रोक्तमुदश्विच्चार्द्धवारिकम् ३३
- वातपित्तहरं घोलं मथितं कफपित्तनुत्
- उदश्वित्कफदं बल्यं श्रमघ्नं परमं मतम् ३४
- तक्रं ग्राहि कषायाम्लं मधुरं दीपनं लघु
- वीर्योष्णं बलदं वृष्यं प्रीणनं वातनाशनम् ३५
- यान्युक्तानि दधीन्यष्टौ तद्गुणं तक्रमादिशेत्
- ग्रहण्यादिमतां तक्रं पथ्यं संग्राहि लाघवात् ३६
- वातघ्नमम्लसान्द्र त्वात्सद्यस्कं त्वविदाहि च
- किञ्च स्वादुविपाकं च अन्ते पित्तप्रकोपणम् ३७
- कषायोष्णविकासित्वाद्रौ क्ष्याच्चैव कफे हितम् ३८
- समुद्धृतघृतं तक्रं पथ्यं लघु विशेषतः
- स्तोकोद्धृतघृतं तस्माद् गुरु वृप्यं कफावहम्
- अनुद्धृतघृतं सान्द्रं गुरु पुष्टिवलप्रदम् ३९
- वातेऽम्ल सैन्धवोपेतं पित्ते स्वादु सशर्करम्
- पिबेत्तक्रं कफे चापि क्षारत्रिकटुसंयुतम् ४०
- हिङ्गुजीरयुतं घोलं सैन्धवेनावधूलितम्
- ग्रहण्यर्शोऽतिसारघ्नं भवेद्वातहरं परम् ४१
- रोचनं पुष्टिदं बल्यं बस्तिशूलविनाशनम् ४२
- तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति च
- पीनसश्वासकासादौ पक्वमेव विशिष्यते ४३
- नैव तक्रं क्षते दद्यान्नोष्णकाले न दुर्बले
- न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ४४
- न तक्रसेवी व्यथते कदाचिन्न तक्रदग्धाः प्रभवन्ति रोगाः
- यथा सुराणाममृतं सुखाय तथा नराणां भुवि तक्रमाहुः ४५
- मुद्गयूषं रसं तक्रंधान्यजीरकसंयुतम्
- सैन्धवेनान्वितं दद्यात्षड्यूषणमितीरितम् ४६
- कर्षं गन्धकमर्द्धपारदमुभे कुर्याच्छुभां कज्जलद्यं
- द्व्यक्षं त्र्! यूषणतश्च पञ्चलवणं सार्द्धञ्च कर्षं पृथक्
- भृष्टं हिङ्गु च जीरकद्वययुतं सर्वार्द्धभङ्गाऽन्वितं
- खादेट्टङ्कमितं प्रवृत्तिगदवांस्तक्रेण बिल्वेन वा ४७
- जातीफललवङ्गैला पत्रत्वङ्नागकेशरैः
- कर्पूरचन्दनतिलत्वक्क्षीरीतगरामलैः ४८
- तालीसपिप्लीपथ्यास्थूलजीरकचित्रकैः
- शुण्ठीविडङ्गमरिचैः समभागं विचूर्णितैः ४९
- यावन्त्येतानि सर्वाणि दद्याद्भङ्गाञ्च तावतीम्
- सर्वचूर्णसमं कृत्वा प्रदेया शुभ्रशर्करा ५०
- कर्षमात्रमिदं खादेन्मधुना प्लावितं जनः
- नाशयेद ग्रहणीं कासं क्षयकासमरोचकम् ५१
- चित्रकं पिप्पलीमूलं क्षारो लवणपञ्चकम्
- व्योषं हिङ्ग्वजमोदा च चव्यं चैकत्र चूर्णयेत् ५२
- वटिका मातुलुङ्गस्य रसैर्वा दाडिमस्य च
- कृता विपाचयत्यामं दीपयत्याशु चानलम् ५३
- श्रीफलशलाटुमज्जा नागरचूर्णेन मिश्रितः सगुडः
- ग्रहणीगदमत्युग्रं तक्रभुजा शीलितो जयति ५४
- चतुष्पलं सुधाकाण्डं त्रिपलं लवणत्रयम्
- वार्ताकोः कुडवं चार्कमूलाद्बिल्वं तथाऽनलात् ५५
- दग्ध्वा द्र्रवेण वार्त्ताकोर्गुटिका भोजनान्तरे
- भुक्ता भुक्तं पचत्याशु नाशयेद् ग्रहणीगदम्
- कासं श्वासं तथाऽशासि विसूचीञ्च हृदामयम् ५६
- मुस्तकातिविषाबिल्वकौटजं सूक्ष्मचूर्णितम्
- मधुना च समालीढं ग्रहणीं सर्वजां जयेत् ५७
- श्वेतो वा यदि वा रक्तः सुपक्को ग्रहणीगदः
- गुडेनाधिकसर्जेन भक्षितेनाशु नश्यति ५८
- बिल्वाब्दशक्रयवबालकमोचसिद्धमाजं पयः पिबति यो दिवसत्रयं ना
- सोऽतिप्रवृद्धचिरजं ग्रहणीविकारं सामं सशोणितमसाध्यमपि क्षिणोति ५९
- प्रस्थत्रयं त्वामलकीरसस्य शुद्धस्य दत्वाऽद्धतुलां गुडस्य
- चूर्णीकृतैर्ग्रन्थिकजीरचव्यव्योषैः सकृष्णाहपुषाऽजमोदैः ६०
- विडङ्गसिन्धुत्रिफलायवानीपाठाऽग्निधान्यैश्च पलप्रमाणैः
- दत्वा त्रिवृच्चूर्णपलानि चाष्टावष्टौ च तैलस्य पचेद्यथावत् ६१
- तं भक्षयेदक्षपलप्रमाणं यथेष्टचेष्टस्त्रिसुगन्धियुक्तम्
- अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोथाः ६२
- शाम्यन्ति चायं चिरमन्तरग्नेर्हतस्य पुंस्त्क्वस्य च वृद्धिहेतुः
- स्त्रीणान्तु वन्ध्याऽमयनाशनः स्यात् कल्याणको नाम गुडः प्रसिद्धः ६३
- तैले मनाक् त्रिवृद् भृष्ट्वा त्रिफलायाः पलत्रयम्
- सिद्धे निधेयमत्रैव गुडे कल्याणपूर्वके ६४
- पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली
- धान्यकञ्च विडङ्गानि यवानी मरिचानि च ६५
- त्रिफला चाजमोदा च नीलिनी जीरकस्तथा
- सैन्धवं रोमकञ्चापि सामुद्रं रुचकं विडम् ६६
- आरग्वधश्च त्वक्पत्रं सूक्ष्मैला चोपकुञ्जिका
- शुण्ठी शक्रयवाश्चैव प्रत्येकं कर्षसम्मिताः ६७
- मृद्वीकायाः पलान्यत्र चत्वारि कथितानि हि
- त्रिवृतायाःपलान्यष्टौ गुडस्यार्द्धतुलां तथा ६८
- तिलतैलपलान्यष्टावामलक्या रसस्य तु
- प्रस्थत्रयमिदं सर्वं शनैर्मृद्वग्निना पचेत् ६९
- औदुम्बरं चामलकं बादरञ्च यथाबलम्
- तावन्मात्रमिदं खादेद् भक्षयेद्वा यथाऽनलम् ७०
- निखिलान्ग्रहणीरोगान्प्रमेहांश्चैव विंशतिम्
- उरोघातं प्रतिश्यायं दौर्बल्यं वह्निसंक्षयम् ७१
- ज्वरानपि हरेत्सर्वान्कुर्यात्कान्तिं मतिं बलम्
- पाण्डुरोगाञ्जवाद्धन्ति रक्तपित्तञ्च विड्ग्रहम् ७२
- धातुक्षीणो वयः क्षीणः स्त्रीपु क्षीणः क्षयी च यः
- तेभ्योहितश्च वन्ध्यायै महाकल्याणको गुडः ७३
- कूष्माण्डानां सुपक्वानां स्विन्नानां निष्कुलत्वचाम्
- सर्पिःप्रस्थं पलशतं ताम्रपात्रे शनैः पचेत् ७४
- पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली
- धान्यकानि विडङ्गानिनागरं मरिचानि च ७५
- त्रिफला चाजमोदा च कलिङ्गाजाजिसैन्धवम्
- एकैकस्य पलञ्चैकं त्रिवृतोऽष्टौ पलानि च ७६
- तैलस्य च पलान्यष्टौ गुडात्पञ्चाशदेव तु
- आमलक्या रसस्यात्र प्रस्थत्रयमुदीरितम् ७७
- तावत्पाकं प्रकुर्वीत मृदुना वह्निना भिषक्
- यावद्दर्व्याः प्रलेपः स्यात्तदैनमवतारयेत् ७८
- औदुम्बरं चामलकं बादरं वा यथाबलम्
- तावन्मात्रमिदं खादेद् भक्षयेद्वा यथाऽनलम् ७९
- अनेनैव विधानेन प्रयुक्तश्च दिने दिने
- निहन्ति ग्रहणीरोगान्कुष्ठानर्शोभगन्दरान् ८०
- ज्वरमानाहहृद्रो गं गुल्मोदरविसूचिकाः
- कामलां पाण्डुरोगञ्च प्रमेहांश्चैव विंशतिम् ८१
- वातशोणितवी सर्पदद्रुयक्ष्महलीमकान्
- वातपित्तकफान्सर्वान्दुष्टाञ्छुद्धान्समाचरेत् ८२
- व्याधिक्षीणा वयः क्षीणाः स्त्रीषुक्षीणाश्च ये नराः
- तेभ्यो हितो गुडोऽय स्याद्वन्ध्यानामपि पुत्रदः
- वृष्यो बल्यो बृंहणश्च वयसः स्थापनं तथा ८३
- अतीसाराधिकार लिखितं बिल्वतैलञ्चात्र हितम्
- इति चतुर्थोग्रहणीरोगाधिकारः समाप्तः ४