भावप्रकाशः/मध्यखण्डे चतुर्थो भागः

विकिस्रोतः तः
चतुर्थो भागः

नाडीव्रणाधिकारः[सम्पाद्यताम्]

अथैकोनपञ्चाशत्तमो नाडीव्रणाधिकारः ४९
यः शोथमाममिति पक्वमुपेक्षतेऽज्ञो यो वा व्रणं प्रचुरपूयमसाधुवृत्तः
अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः स पूयः
तस्यातिमात्रगमनाद् गतिरिष्यते तु नाडीव यद्वहति तेन मता च नाडी १
दोषैस्त्रिभिर्भवति सा पृथगेकशश्च सम्मूर्च्छितैरपि च शल्यनिमित्ततोऽन्या २
तत्रानिलात्परुषसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपासु ३
पित्तात्तु तृड्ज्वरकरी परिदाहयुक्ता पीतं स्रवत्यधिकमुष्णमहःसु चापि ४
ज्ञेया कफाद् बहुघना सितपिच्छिलास्रां स्तब्धा सकण्डुररुजा रजनीप्रवृद्धा ५
दाहज्वरश्वसनमूर्च्छनवक्त्रशोषा यस्यां भवन्त्यभिहितानि च लक्षणानि
तामादिशेत्पवनपित्तकफप्रकोपाद् घोरां गतिं त्वसुहरामिव कालरात्रिम् ६
नष्टं कथञ्चिदणुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति
सा फेनिलं मथितमुष्णमसृग्विमिश्रं स्रावं करोति सहसा सरुजञ्च नित्यम् ७
नाडी त्रिदोषप्रभवा न सिध्येदन्त्याश्चतस्रः खलु यत्नसाध्याः ८
अथ नाडीव्रणचिकित्सा
तत्रानिलोत्थामुपनाह्य पूर्वमशेषतः पूयगतिं विदार्य
तिलैरपामार्गफलैः सुपिष्टैः ससैन्धवैः सम्परिपूर्य बन्धेत्
प्रक्षालने वाऽपि सदा व्रणस्य योज्यं महद्यत्खलु पञ्चमूलम् ९
हिंस्रां हरिद्रा ं! कटुकां बलाञ्च गोजिह्विकाञ्चापि सबिल्वमूलाम्
संहृत्य तैलं विपचेद् व्रणस्य संशोधनं पूरणरोपणञ्च १०
पित्तात्मिकां प्रागुपनाह्य धीमानुत्कारिकाभिः सपयोघृताभिः
निपात्य शस्त्रं तिलनागदन्तीयष्ट्याह्वकल्कैः परिपूरयेच्च
प्रक्षालने चापि ससोमनिम्बा निशा प्रयोज्या कुशलेन नित्यम् ११
श्यामात्रिभण्डी त्रिफलासुसिद्धं हरिद्र या तिल्वकवृक्षकेण
घृतं सदुग्धं व्रणतर्पणेन हन्याद्गतिं कोष्ठगताऽपि या स्यात् १२
नाडीं कफोत्थामुपनाह्य पूर्वं कुलत्थसिद्धार्थकसक्तुकिण्वैः
मृदूकृतामेष्यगतिं विदित्वा निपातयेच्छस्त्रमशेषकारि १३
दद्याद् व्रणे निम्बतिलाग्निदन्तीसुराष्ट्रजाः सैन्धवसम्प्रयुक्ताः
प्रक्षालने चापि करञ्जनिम्बजात्यर्कपीलुस्वरसाः प्रयोज्याः १४
स्वर्जिकासिन्धुदन्त्यग्नियूथिका जलनीलिका
खरमञ्जरिबीजेषु तैलं गोमूत्रसाधितम्
दुष्टव्रणप्रशमनं कफनाडीव्रणापहम् १५
सैन्धवार्कमरिचज्वलनाख्यैर्मार्कवेण रजनीद्वयसिद्धम्
तैलमेतदचिरेण निहन्याद् दूरगामपि कफानिलनाडीम् १६
नाडीं तु शल्यप्रभवां विदार्य निष्कास्य शल्यं प्रतिशोध्य मार्गम्
बन्धेद् व्रणं क्षौद्र घृतप्रगाढैस्तिलैस्ततो रोपणमस्य कुर्यात् १७
कुम्भीकखर्जूरकपित्थबिल्ववनस्पतीनाञ्च शलाटुवर्गे
कृत्वा कषायं विपचेत्तु तैलमावाप्य मुस्तं सरलां प्रियङ्गुम् १८
सौगन्धिकं मोचरसाहिपुष्पं लोध्राणि दत्वा खलु धातकीञ्च
एतेन शल्यप्रभवा हि नाडी रोहेद् व्रणो वा सुखमाशु चैव १९
इति कुम्भीकाद्यतैलम्
स्नुह्यर्कदुग्धदार्वीणां वर्त्तिं कृत्वा प्रपूरयेत्
एष सर्वशरीरस्थां नाडीं हन्यात्प्रयोगराट् २०
आरग्वधनिशाकाला चूर्णाज्यक्षौद्र संयुता
सूत्रवर्त्तिव्रणे योज्या शोधनी गतिनाशिनी २१
वर्त्तीकृतं माक्षिकसम्प्रयुक्तं नाडीघ्नमुक्तं लवणोत्तमं वा
दुष्टव्रणे यद्विहितं तु तैलं तत्सेव्यमानं गतिमाशु हन्ति २२
जात्यर्कसम्पाक करञ्जदन्ती सिन्धूत्थसौवर्चलयावशूकैः
वर्त्तिः कृता हन्त्यचिरेण नाडीं स्नुक्क्षीरपिष्टा तु सचित्रकेण २३
बिभीतकाम्रास्थि वटप्रवाल हरेणुकाशङ्खिनिबीजमिश्रा
वाराहविट्सूक्ष्ममसी प्रदेया नाडीषु तैलेन च मिश्रयित्वा २४
मेषरोममसीतुम्ब्या कटुतैलं विपाचितम्
नाडीव्रणं चिरोद्भूतं जयेत्तु तूलसङ्गमात् २५
कर्चूरकस्य स्वरसे कटुतैलं विपाचयेत्
सिन्दूरकल्कितं नाडीदुष्टव्रणविसर्पनुत् २६
कर्चूरकरसे तैलं पुरसिन्दूरकल्कितम्
पामादुष्टव्रणं नाडीं हन्यात्सर्वव्रणान्तकृत् २७
भल्लातकार्कमरिचैर्लवणोत्तमेन सिद्धं विडङ्गरजनीद्वयचित्रकैश्च
स्यान्मार्कवस्य च रसेन निहन्ति तैलं नाडीं कफानिलकृतामपचीं व्रणांश्च २८
स्वर्जिका सैन्धवं दन्ती नीलीमूलं फलं तथा
मूत्रे चतुर्गुणे सिद्धं तैलं नाडीव्रणापहम्
सर्वो व्रणक्रमः कार्यः शोधनारोपणादिकः २९
गुग्गुलुत्रिफलाव्योषैः समांशैराज्ययोजितैः
अक्षप्रमाणां गुटिकां खादेदेकामतन्द्रि तः ३०
नाडीं दुष्टव्रणं शूलमुदावर्त्तं भगन्दरम्
गुल्मञ्च गुदजान्हन्यात्पक्षिराट् पन्नगानिव ३१
या द्विव्रणीये विहितास्तु वत्तर्यस्ताः
सर्वनाडीषु भिषग्विदध्यात् ३२
कृशदुर्बलभीरूणां नाडीं मर्माश्रितामपि
क्षारसूत्रेण तां छिन्द्यान्न शस्त्रेण कदाचन ३३
एषण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम्
सूचीं निदध्याद्गत्यन्ते प्रोन्नाम्याशु विनिर्हरेत् ३४
सूत्रस्यान्तं समानीय गाढं बन्धनमाचरेत्
ततः क्षारबलं वीक्ष्य सूत्रमन्यत्प्रवेशयेत् ३५
क्षाराक्तं मतिमान्वैद्यो यावन्न च्छिद्यते गतिः
भगन्दरेष्वेष विधिः कार्यो वैद्येन जानता ३६
अर्बुदादिषु चोत्क्षिप्य मूले सूत्रं निधापयेत्
सूचीभिर्यववक्त्राभिराचितं वा समन्ततः
मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद् व्रणम् ३७
इत्येकोनपञ्चाशत्तमो नाडीव्रणाधिकारः समाप्तः ४९

भगन्दराधिकारः[सम्पाद्यताम्]

अथ पञ्चाशत्तमो भगन्दराधिकारः ५०
कटीकपालनिस्तोददाह कण्डूरुजाऽदयः
भवन्ति पूर्वरूपाणि भविष्यति भगन्दरे १
गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिडकाऽत्तिकृत्
भिन्नो भगन्दरो ज्ञेयः स च पञ्चविधो भवेत् २
भगन्दरशब्दस्य निरुक्तिमाह भोजः
भगं परिसमन्ताच्च गुदं वस्तिं तथैव च
भगवद् दारयेद्यस्मात्तस्मादेष भगन्दरः ३
कषायरुक्षैरतिकोपितोऽनिलस्त्वपानदेशे पिडकां करोति याम्
उपेक्षणात्पाकमुपैति दारुणं रुजा च भिन्नाऽरुणफेनवाहिनी
तत्रागमो मूत्रपुरीषरेतसां व्रणैरनेकैः शतपोनकं वदेत् ४
प्रकोपनैः पित्तमतिप्रकोपितं करोति रक्तां पिडकां गुदे गताम्
तदाशुपाकाऽहिमपूतिवाहिनीं भगन्दरं चोष्ट्रशिरोधरं वदेत् ५
कण्डूयनो घनस्रावी कठिनो मन्दवेदनः
श्वेतावभासः कफजः परिस्रावी भगन्दरः ६
बहुवर्णरुजास्रावा पिडका गोस्तनोपमा
शम्बूकावर्त्तगतिकः शम्बूकावर्त्तको मतः ७
क्षताद्गतिः पायुगता विवर्द्धते ह्यपेक्षणात्स्युः कृमयो विदार्य ते
प्रकुर्वते मार्गमनेकधा मुखैर्व्रणैस्तमुन्मार्गिभगन्दरं वदेत् ८
घोराः साधयितुं दुःखाः सर्व एव भगन्दराः
तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्चविशेषतः ९
वातमूत्रपुरीषाणि शुक्रञ्च कृमयस्तथा
भगन्दरात्स्रवन्तस्तु नाशयन्ति तमातुरम् १०
अथास्य पिडकामेव तथा यत्नादुपाचरेत्
शुद्ध्य्स्रस्रुतिसेकाद्यैर्यथा पाकं न गच्छति ११
वटपत्रेष्टका शुण्ठीसगुडूचीपुनर्नवाः
सुपिष्टः पिडकाऽवस्थे लेपः शस्तो भगन्दरे १२
पिडकानाम पक्वानामपतर्पणपूर्वकम्
कर्म कुर्याद्विरेकान्तं भिन्नानां वक्ष्यते क्रिया १३
एषणीपाटनक्षारवह्निदाहादिकं क्रमम्
विधाय व्रणवत्कार्यं यथादोषं यथाक्रमम् १४
पयः पिष्टैस्तिलारिष्टमधुकैश्च सुशीतलैः
भगन्दरे प्रशस्तोऽय सरक्ते वेदनावति १५
सुमना वटपत्राणि गुडूची विश्वभेषजम्
ससैन्धवस्तक्रपिष्टो लेपो हन्ति भगन्दरम् १६
त्रिवृत्तिला नागदन्ती मञ्जिष्ठा सह सर्पिषा
उत्सादनं भवेदेतत्सैन्धवक्षौद्र संयुतम् १७
खदिराम्बुरतो भूत्वा कषायं त्रैफलं पिबेत्
महिषाक्षविडङ्गानां भगन्दरविनाशनम् १८
शम्बूकमांसं भुञ्जीत प्रकारैर्व्यञ्जनादिभिः
अजीर्णवर्जी मासेन मुच्यते तु भगन्दरात् १९
न्यग्रोधादिर्गणो यस्तु हितः शोधनरोपणः
तैलं घृतं वा तत् पक्वं भगन्दरविनाशनम् २०
तिला ज्योतिष्मती कुष्ठं लाङ्गली गिरिकर्णिका
शताह्वात्रिवृतादन्त्यः शोधनाश्च भगन्दरे २१
तिलाभयालोध्रमरिष्टपत्रं निशे बला लोध्रमगारधूमम्
भगन्दरे चाप्युपदंशजे च द्रुष्टव्रणे रोपणशोधनाय २२
स्नुह्यर्कदुग्धदार्वीभिर्वर्त्तिं कृत्वा विचक्षणः
भगन्दरगतिं ज्ञात्वा पूरयेत्तां प्रयत्नतः २३
एषा सर्वशरीरस्थां नाडीं हन्यान्नसंशयः
त्रिफलारससंयुक्तं विडालास्थिप्रलेपनम् २४
भगन्दरं निहन्त्याशु दुष्टव्रणहरं परम्
त्रिवृत्तेजोवतीदन्तीकल्को नाडीव्रणापहः २५
ज्योतिष्मती लाङ्गलकी श्यामा दन्ती त्रिवृत्तिलाः
कुष्ठं शताह्वा गोलोमी तिल्वको गिरिकर्णिका २६
कासीसकाञ्चनक्षीर्यौ वर्गः शोधन इष्यते २७
मधुतैलयुता विडङ्गसारत्रिफलामागधिकाकणाश्च लीढाः
कृमिकुष्ठभगन्दरप्रमेहक्षयनाडीव्रणरोपणा भवन्ति २८
चित्रकार्कौ त्रिवृत्पाठे मलयूहयमारकौ
सुधां वचां लाङ्गलकीं हरितालं सुवर्चिकाम् २९
ज्योतिष्मतीञ्च संहृत्य तैलं धीमान्विपाचयेत्
एतद्विष्यन्दनं नाम तैलं दद्याद्भगन्दरे
शोधनं रोपणञ्चैव सवर्णकरणं तथा ३०
निशाऽकक्षीर सिन्धूत्थपुराश्वहरवत्सकैः
सिद्धमभ्यञ्जनं तैलं भगन्दरहरं परम् ३१
करवीरनिशा दन्तीलाङ्गलीलवणाग्निभिः
मातुलुङ्गकवत्साह्वैः पचेत्तैलं भगन्दरे ३२
त्रिफलापुरकृष्णानां त्रिपञ्चकांशयोजिता
गुटिका शोथगुल्मार्शोभगन्दरवतां हिता ३३
नाड्यन्तरे व्रणान्कुर्याद्भिषक् तु शतपोनके
ततस्तेष्ववरूढेषु शेषा नाडीरुपाचरेत् ३४
व्याधौ तत्र बहुच्छिद्रे भिषजा तु विजानता
अर्द्धलाङ्गलकच्छेदः कार्यो लाङ्गलकोऽपि वा ३५
सर्वतोभद्र को वाऽपि कार्यो गोतीर्थकोऽपि वा ३६
द्वाभ्यां समाभ्यां पार्श्वाभ्यां छेदो लाङ्गलको मतः
ह्रस्वमेकतरं यत्तु सोऽद्धलाङ्गलकः स्मृतः ३७
सेवनीं वर्जयित्वा तु चतुर्द्धा दारिते गुदे
सर्वतोभद्र कं छेदमाहुश्छेदविदो जनाः
पार्श्वादागतशस्त्रेण च्छेदो गोतीर्थको मतः ३८
सर्वानास्रावमार्गांस्तु दहेद्वैद्यस्तथाऽग्निना
अथोष्ट्रग्रीवमेषिण्या छित्वा क्षारं निपातयेत् ३९
उत्कृत्यास्रावमार्गन्तु परिस्राविणि बुद्धिमान्
क्षारेण वा स्रावगतिं दहेद्धुतवहेन वा ४०
गतिमन्विष्य शस्त्रेण च्छिन्द्यात्खर्जूरपत्रकम् ४१
चन्द्रा र्द्ध चन्द्र चक्रञ्च सूचीमुखमवाङ्मुखम्
छित्वाऽग्निना दहेत्सम्यगेवं क्षारेण वा पुनः ४२
एषां तु शस्त्र पतनाद्वेदना यत्र जायते
तत्राणुतैलेनोष्णेन परिषेकः प्रशस्यते ४३
आगन्तुजे भिषङ् नाडीं शस्त्रेणोत्कृत्य यत्नतः ४४
जम्ब्वोष्ठेनाग्निवर्णेन तप्तया वा शलाकया
दहेद्यथोक्तं मतिमांस्तं व्रणं सुसमाहितः ४५
व्यायामं मैथुनं युद्धं पृष्ठयानं गुरूणि च
संवत्सरं परिहरेदुपरूढव्रणो नरः ४६
इति पञ्चाशत्तमो भगन्दराधिकारः समाप्तः ५०

उपदंशाधिकारः[सम्पाद्यताम्]

अथैकपञ्चाशत्तम उपदंशाधिकारः ५१
हस्ताभिघातान्नख दन्तघातादधावनादत्युपसेवनाद्वा
योनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधापचारैः १
सतोदभेदस्फुरणैः सकृष्णैः स्फोटैर्व्यवस्येत्पवनोपदंशम्
पीतैर्बहुक्लेदयुतैः सदाहैः पित्तेन रक्तैः पिशितावभासैः २
स्फोटैः सकृष्णै रुधिरं स्रवन्तं रक्तात्मकं पित्तसमानलिङ्गम्
सकण्डुरैः शोथयुतैर्महद्भिः शुक्लैर्घनैः स्रावयुतैः कफेन
नानाविधस्रावरुजोपपन्नमसाध्यमाहुस्त्रिमलोपदंशम् ३
प्रशीर्णमांसं कृमिभिःप्रजग्धं मुष्कावशेषं परिवर्जनीयम् ४
सञ्जातमात्रे न करोति मूढः क्रियां नरो यो विषये प्रसक्तः
कालेन शोथकृमिदाहपाकैः प्रशीर्णशिश्नो म्रियते स तेन ५
उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिनः
मेढ्रमध्ये शिरां विध्यात्पातयेद्वा जलौकसः ६
हरेदुभयतश्चापि दोषानत्यर्थमूर्च्छितान्
सद्यो निर्हृतदोषस्य रुक्शोथावुपशाम्यतः ७
यदि वा दुर्बलोजन्तुर्न वा प्राप्तविरेचनः
निरूहेण हरेत्तस्य दोषानत्यर्थमूर्च्छितान्
पाको रक्ष्यः प्रयत्नेन शिश्नक्षयकरो हि सः ८
प्रपौण्डरीकयष्ट्याह्वसरलागुरुदारुभिः
सरास्नाकुष्ठपृथ्वीकैर्वातिके लेपसेचने ९
निचुलैरण्डबीजानि यवगोधूमसक्तवः
एतैश्च वातजं स्निग्धैः सुखोष्णैः सम्प्रलेपयेत् १०
गैरिकाञ्चनमञ्जिष्ठा मधुकोशीरपद्मकैः
सचन्दनोत्पलैः स्निग्धः पैत्तिकं सम्प्रलेपयेत् ११
पद्मोत्पलमृणालैश्च ससर्जार्जुनवेतसैः
सर्पिः स्निग्धैः समधुकैः पैत्तिकं सम्प्रलेपयेत् १२
सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः
अथवाऽपि सुशीतेन कषायेण वटादिना १३
शालाजकर्णाश्वकर्णधवत्वग्भिः कफोत्थितम्
सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत् १४
आरग्वधादिक्वाथेन परिषेकञ्च दापयेत् १५
निम्बार्जुनाश्वत्थकदम्बशालजम्बूवटोदुम्बरवेतसैश्च
प्रक्षालनालेपकृतानिकुर्याच्चूर्णं सपित्तास्रभवोपदंशे १६
त्वचो दारुहरिद्रा याः शङ्खनाभी रसाञ्जनम्
लाक्षागोमयनिर्यासस्तैलं क्षौद्रं घृतं पयः १७
एभिस्तु पिष्टैस्तुल्यांशैरुपदंशं प्रलेपयेत्
व्रणाश्च तेन शाम्यन्ति श्वयथुर्दाह एव च १८
उपदंशद्वयेऽप्येतां प्रत्याख्यायाचरेत्क्रियाम्
तयोरेव च या योग्या वीक्ष्य दोषबलाबलम् १९
शस्त्रेणोल्लेखयेत्क्वापि पाकमागतमाशु वै
तमपोह्य तिलैः सर्पिः क्षौद्र युक्तैः प्रलेपयेत् २०
वटप्ररोहार्जुनजम्बुपथ्या लोध्रं हरिद्रा च हिताः प्रलेपे
तथोपदंशेष्ववरोहणार्थं चूर्णञ्च कार्यं विमलाञ्जनेन २१
त्रिफलायाः कषायेण भृङ्गराजरसेन वा
व्रणप्रक्षालनं कार्यमुपदंशप्रशान्तये २२
जयाजपाऽश्वमारार्कशम्पाकानां दलैः क्रमात्
कृतं प्रक्षालनं क्वाथं मेढ्रपाके प्रयोजयेत् २३
शम्पाकनिम्बत्रिफलाकिरातक्वाथं पिबेद्वा खदिरासनाभ्याम्
सगुग्गुलुं वा त्रिफलायुतं वा सर्वोपदंशापहरःप्रयोगः २४
नीलोत्पलानि कुमुदं पद्मसौगन्धिकानि च
उपदंशेषु चूर्णानि प्रदेहोऽय प्रशस्यते २५
बन्धूकदलचूर्णेन दाडिमत्वग्रजोऽथवा
गुण्डनं वृषणे शस्तं लेपः पूगफलेन वा २६
सौराष्ट्री गैरिकं तुत्थं पुष्पकासीससैन्धवम्
लोध्रं रसाञ्जनञ्चापि हरितालं मनः शिला २७
हरेणुकैले तु तथा समं संहृत्य चूर्णयेत्
तच्चूर्णं क्षौद्र संयुक्तमुपदंशेषु पूजितम् २८
पुटदग्धं कृतं भस्म हरितालं मनःशिला
उपदंशविसर्पाणामेतद्धानिकरं परम् २९
दहेत्कटाहे त्रिफलां तां मसीं मधुसैन्धवम्
उपदंशे प्रलेपोऽय सद्यो रोपयति व्रणम् ३०
तिरीटाञ्जनवज्राक्षकोविदारेभकेशरैः
लेपनं पुरुषव्याधौ जलपिष्टैः प्रशस्यते ३१
रसाञ्जनं शिरीषेण पथ्यया वा समन्वितम्
सक्षौद्रं लेपनं योज्यं सर्वाङ्गगगदापहम् ३२
भार्गीसम्भवशिखरिजमूलं भद्र श्रियं सुसम्पिष्टम्
मनःशिला वै मधुना शमयत्युपदंशमचिरेण ३३
शतधौतं प्रयत्नेन लिङ्गोत्थमवचूर्णयेत्
रोगं कासीसचूर्णेन पुरुषः सुखमाप्नुयात् ३४
करवीरस्य मूलेन परिपिष्टेन वारिणा
असाध्याऽपि व्रजत्यस्तं लिङ्गोत्था रुक्प्रलेपनात् ३५
वरानिम्बार्जुनाश्वत्थखदिरासनवासकैः
चूर्णितैर्गुग्गुलुसमैर्वटका अक्षसंमिताः ३६
कर्त्तव्या नाशयन्त्याशु सर्वांल्लिङ्गसमुत्थितान्
उपदंशानसृग्दोषांस्तथा दुष्टव्रणानपि ३७
करञ्जनिम्बार्जुनशालजम्बूवटादिभिः कल्ककषायसिद्धम्
सर्पिर्निहन्यादुपदंशदोषं सदाहपाकस्रुतिरागयुक्तम् ३८
भूनिम्बनिम्बत्रिफलापटोलकरञ्जधात्रीखदिरासनानाम्
सतोयकल्कैर्घृतमाशु पक्वं सर्वोपदंशापहरं प्रदिष्टम् ३९
घृतानि यानि वक्ष्यामि कुष्ठे नाडीव्रणे व्रणे
उपदंशे प्रयोज्यानि सेकाभ्यञ्जनभोजनैः ४०
आगारधूमो रजनी सुराकिट्टं च तैस्त्रिभिः
यथोत्तरैः पचेत्तैलं कण्डूशोथरुजाऽपहम्
शोधनं रोपणं चैव ह्युपदंशहरं परम् ४१
गोजीविडङ्गयष्टीभिः सर्वगन्धैश्च संयुतम्
एतत्सर्वोपदंशेषु तैलं रोपणमिष्यते ४२
जम्बुवेतसपत्राणि धात्रीपत्रं तथैव च
नक्तमालस्य पत्राणि तद्वत्पद्मोत्पलानि च ४३
एला चातिविषाऽम्रास्थि मधुकञ्च प्रियङ्गवः
लाक्षा कालीयकं लोध्रं चन्दनं त्रिवृताह्वया ४४
एतान्येकीकृतान्येव बस्तमूत्रेण पेषयेत्
अक्षमात्रैरिमैर्द्र व्यैस्तैलप्रस्थं विपाचयेत् ४५
सर्वव्रणहरं तैलमेतत्सिद्धं न संशयः
उपदंशहरं श्रेष्ठं मुनिभिः परिकीर्तितम् ४६
यस्य लिङ्गस्य मांसं तु शीर्यते मुष्कशेषतः ४७
तिक्तकोशातकीलाबुबीजं नागरसाधितम्
तैलं हन्त्यविशेषेण व्रणं दुष्टमनेकधा ४८
सेवेन्नित्यं यवान्नञ्च पानीयं कौपमेव च
अर्शसां च्छिन्नदग्धानां क्रियां चात्र प्रयोजयेत् ४९
इत्येकपञ्चाशत्तम उपदंशाधिकारः समाप्तः ५१

लिङ्गार्शोऽधिकारः[सम्पाद्यताम्]

अथ द्विपञ्चाशत्तमो लिङ्गार्शोऽधिकारः ५२
अङ्कुरैरिव सञ्जातैरुपर्युपरि संस्थितैः
क्रमेण जायते वर्त्तिस्ताम्रचूडशिखोपमा १
कोषस्याभ्यन्तरे सन्धौ पर्वसन्धिगतापि वा
लिङ्गवर्त्तिरिति ख्याता लिङ्गार्श इति चापरे
सवेदनापिच्छिला च दुश्चिकित्स्या त्रिदोषजा २
क्षारेण प्रदहेच्छित्त्वा लिङ्गवर्त्तिमशेषतः
व्रणवच्चाचरेत्सम्यक् समं चूर्णमुपद्र वान् ३
स्वर्जिकातुत्थशैलेयमञ्जनं सरसाञ्जनम्
मनःशिलाऽले च समं चूर्णं मांसाङ्कुरापहम् ४
हरति घृतकुमारीपत्रमावेष्टेनेन ग्रथनविधिविशेषांश्चर्मकीलांस्तृतीये
अहनि गुरुतरानप्यङ्गलब्धप्रतिष्ठान् विधिरिव विपरीतः पौरुषस्य प्रकारान् ५
शुभे तु चारटीमूलं वृषमूत्रेण पेषयेत्
चर्मकीलान्निहन्त्याशु प्रलेपात्साधनोद्भवान् ६
इति द्विपञ्चाशत्तमो लिङ्गार्शोऽधिकारः समाप्तः ५२

शूकदोषाधिकारः[सम्पाद्यताम्]

अथ त्रिपञ्चाशत्तमः शूकदोषाधिकारः ५३
अक्रमाच्छेफसो वृद्धिं योऽभिवाञ्छति मूढधीः
व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजाः १
शूकदोषा दश चाष्टौ च भवन्ति
गौरसर्षपसंस्थाना शूकदुर्भगहेतुका
पिडिका श्लेष्मवाताभ्यां ज्ञेया सर्षपिका तु सा २
कठिना विषमैर्भुग्नैर्वायुनाष्ठीलिका भवेत् ३
शूकैर्यत्पूरितं शश्वद् ग्रथितं नाम तत्कफात् ४
कुम्भिका रक्तपित्तात्स्याज्जाम्बुवास्थिनिभा सिता ५
अलजी स्यात्तथा यादृक्प्रमेहपिडका तथा
सा च रक्तासिता स्फोटचिता च कथिता बुधैः ६
मृदितं पीडितं यत्तु संरब्धं वातकोपतः ७
पाणिभ्यां भृशसंमूढे संमूढ पिडिका भवेत् ८
दीर्घा बह्व्यश्चपिडका दीर्यन्ते मध्यतस्तु याः
सोवमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत् ९
पिडिका पिडिकाव्याप्ता पित्तशोणितसम्भवा
पद्मकर्णिकसंस्थाना ज्ञेया पुष्करिकेति सा १०
स्पर्शहानिन्तु जनयेच्छोणितं शूकदूषितम् ११
मुद्गमाषोपमा रक्ता रक्तपित्तोद्भवा च या
एषोत्तमाख्यपिडका शूकाजीर्णसमुद्भवा १२
छिद्रै रणुमुखैलिङ्गं चिरं यस्य समन्ततः
वातशोणितजो व्याधिर्विज्ञेयःशतपोनकः १३
वातपित्तकृतो ज्ञेयस्त्वक्पाको ज्वरदाहकृत् १४
कृष्णैः स्फोटैः सरक्ताभिः पिडकाभिर्निपीडितम्
लिङ्गं वास्तुरुजश्चोग्रा ज्ञेयं तच्छोणितार्बुदम् १५
मांसदुष्टं विजानीयादर्बुदं मांससम्भवम् १६
शीर्यन्ते यस्य मांसानि यस्य सर्वाश्च वेदनाः
विद्यात् तं मांसपाकं तु सर्वदोषकृतं भिषक् १७
विद्र धिं सन्निपातेन यथोक्तमभिनिर्दिशेत् १८
कृष्णानि चित्राण्यथवा शुक्लानि सविषाणि तु
पातितानि पचन्त्याशु मेढ्रं निरवशेषतः १८
कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिनः
सन्निपातसमुत्थांश्च तान्विद्यात्तिलकालकान् १९
तत्र मांसार्बुदं यच्च मांसपाकश्च यःस्मृतः
विद्र धिश्च न सिध्यन्ति ये च स्युस्तिलकालकाः २०
शूकदोषेषु सर्वेषु विषघ्नीं कारयेत्क्रियाम्
जलौकाभिर्हरेद्र क्तं रेचनं लघु भोजयेत्
गुग्गुलुं पाचयेच्चापि त्रिफलाक्वाथसंयुतम्
क्षीरेण लेपसेकांश्च शीतेनैव हि कारयेत् २१
दार्वीसुरसयष्ट्याह्वैर्गृहधूमनिशायुतैः
सम्पक्वं तैलमभ्यङ्गान्मेढ्ररोगं हि नाशयेत् २२
रसाञ्जनं साह्वयमेकमेव प्रलेपमात्रेण नयत्प्रशान्तिम्
सपूतिपूयव्रणशोथकण्डूशूलान्वितं सर्वमनङ्गरोगम् २३
इति त्रिपञ्चाशत्तमः शूकदोषाधिकारः समाप्तः ५३

कुष्ठरोगाधिकारः[सम्पाद्यताम्]

अथ चतुष्पञ्चाशत्तमः कुष्ठरोगाधिकारः ५४
विरोधीन्यन्नपानानि द्र वस्निग्धगुरूणि च
भजतामागतां छर्दिं वेगांश्चान्यान्प्रतिघ्नताम् १
व्यायाममग्नितापञ्चाप्यतिभुक्त्वा निषेविणाम्
शीतोष्णलङ्घनाहारान्क्रमं मुक्त्वा निषेविणाम् २
घर्मश्रमभयार्त्तानां द्रुतं शीताम्बुसेविनाम्
अजीर्णाध्यशिनां चापि पञ्चकर्मापचारिणाम् ३
नवान्नदधिमत्स्यादिलवणाम्लनिषेविणाम्
माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम् ४
व्यवायं चाप्यजीर्णेऽन्ने दिवानिद्रा ं! निषेविणाम्
विप्रान्गुरून्धर्षयतां पापं कर्म च कुर्वताम् ५
वातादयस्त्रयो दोषास्त्वग्रक्तं मांसमम्बु च
दूषयन्ति स कुष्ठानां सप्तको द्र व्यसङ्ग्रहः
अतः कुष्ठानि जायन्ते सप्तधैकादशैव च ६
पूर्वं त्रिकं तथा सिध्मं ततः काकणकं तथा
पुण्डरीकर्क्षजिह्वके महाकुष्ठानि सप्त च ७
एककुष्ठं स्मृतं पूर्वं गजचर्म ततः स्मृतम्
ततश्चर्मदलं प्रोक्तं ततश्चापि विचर्चिका ८
विपादिकाऽभिधा सैव पामा कच्छूस्ततः परम्
दद्रुविस्फोटकिटिभालसकानि च वेष्टितम् ९
क्षुद्र कुष्ठानि चैतानि कथितानि भिषग्वरैः १०
कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः
सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः ११
अतिश्लक्ष्णः खरस्पर्शः स्वेदास्वेदविवर्णता
दाहःकण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिः क्लमः १२
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः
रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपि कोपनम्
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम् १३
दूषयन्ति श्लथीकृत्य निश्चलत्वादितस्ततः
त्वचः कुर्वन्ति वैवर्ण्यं दोषाः कुष्ठमुशन्ति तम् १४
वातेन कुष्ठं कापालं पित्तेनौदुम्बरं कफात्
मण्डलाख्यं विचर्ची च ॠक्षाख्यं वातपित्ततः १५
चर्मैककुष्ठकिटिभसिध्मालसविपादिकाः
वातश्लेष्मोद्भवाः पित्तकफाद्दद्रुशतारुषी १६
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा
सर्वैरेवोल्वणैर्दोषैराहुः काकणकं बुधाः १७
कृष्णारुणकपालाभं यद्रू क्षं परुषं तनु
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् १८
उदुम्बरफलाभासं कुष्ठमौदुम्बरं वदेत्
रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम् १९
श्वेतरक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम्
कृच्छ्रमन्योऽन्यसंसक्तं कुष्ठं मण्डलमुच्यते २०
श्वेतताम्रञ्च तनु यद्र जो घृष्टं विमुञ्चति
प्रायेणोरसि तत्सिध्ममलाबुकुसुमोपमम् २१
यत्काकणन्तिकावर्णमपाकं तीव्रवेदनम्
त्रिदोषलिङ्गं तत्कुष्ठं काकणं नैव सिध्यति २२
तच्छ्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम्
सरागञ्चैव सोत्सेधं पुण्डरीकं कफोल्वणम् २३
कर्कशं रक्तपर्यन्तमन्तः श्यावं सवेदनम्
यदृक्षजिह्वासंस्थानमृक्षजिह्वं तदुच्यते २४
अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम्
तदेककुष्ठं चर्माख्यं बहलं गजचर्मवत् २५
रक्तं सशूलं कण्डूमत्सस्फोटं दलयत्यपि
तच्चर्मदलमाख्यातं स्पर्शस्यासहनञ्च यत् २६
सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका २७
वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम् २८
सूक्ष्मा बह्व्यः स्राववत्यः प्रदाहाः पामेत्युक्ताः पिडकाः कण्डुमत्यः २९
सैव स्फोटस्तीव्रदाहैरुपेता ज्ञेया पाण्योः कच्छुरुग्रा स्फिचोश्च ३०
सकण्डूरागपिडकं दद्रुर्मण्डलमुद्गतम् ३१
स्फोटाः श्यावारुणाभासा विस्फोटाः स्युस्तनुत्वचः ३२
श्यामं किणखरस्पर्शं परुषं किटिभं स्मृतम् ३३
कण्डूमद्भिः सरागैश्च गण्डैरलसकं चितम् ३४
रक्तश्यावं सदाहार्त्ति शतारुःस्याद् बहुव्रणम् ३५
त्वक्स्थे वैवर्ण्यमङ्गेषु कुष्ठे रौक्ष्यञ्च जायते
त्वक्स्वापो रोमहर्षश्च स्वेदस्यातिप्रवर्त्तनम् ३६
कण्डूर्विपूयकश्चैव कुष्ठे शोणितसम्भवे ३७
बाहुल्यं वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः
तोदः स्फोटः स्थिरत्वञ्च कुष्ठे मांससमाश्रिते ३८
कौण्यं गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम्
मेदः स्थानगते लिङ्गं प्रागुक्तानि तथैव च ३९
नासाभङ्गोऽक्षिरागश्च क्षतेषु कृमिसम्भवः
स्वरोपघातः पीडा च भवेत्कुष्ठेऽस्थिमज्जगे ४०
दम्पत्योः कुष्ठबाहुल्याद् दुष्टशोणितशुक्रयोः
यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम् ४१
खरं श्यावारुणं रूक्षं वातकुष्ठं सवेदनम्
पित्तात्प्रकुथितं दाहरागस्रावान्वितं मतम्
कफोत्क्लेदि घनं स्निग्धं सकण्डूशैत्यगौरवम्
द्विलिङ्गं द्वन्द्वजं कुष्ठं त्रिलिङ्गं सान्निपातिकम् ४२
साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकञ्च यत्
मेदोगं द्वन्द्वजं याप्यं वर्ज्यं मज्जास्थिसंश्रितम्
कृमिकृद् दाहमन्दाग्निसंयुक्तं यत् त्रिदोषजम् ४३
प्रभिन्नं प्रस्रुताङ्गञ्च रक्तनेत्रं हतस्वरम्
पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ४४
कुष्ठैकसम्भवं श्वित्रं किलासं चारुणं भवेत्
निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ४५
वाताद्रू क्षारुणं पित्तात्ताम्रं कमलपत्रवत्
सदाहं रोमविध्वंसि कफाच्छ्वेतं घनं गुरु
सकण्डूकं क्रमाद्र क्तमांसमेदःसु चादिशेत्
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ४६
अशुक्लरोमाबहलमसंश्लिष्टमथो नवम्
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा ४७
गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम्
वर्जनीयं विशेषेण किलासं सिद्धिमिच्छता ४८
प्रसङ्गाद्गात्रसंस्पर्शान्निश्वासात्सहभोजनात्
एकशय्याऽसनाच्चापिवस्त्रमाल्यानुलेपनात्
कण्डूकुष्ठोपदंशाश्च भूतोन्मादव्रणज्वराः
औपसर्गिकरोगाश्च सङ्क्रामन्ति नरान्नरम् ४९
म्रियते यदि कुष्ठेन पुनर्जातस्य तद्भवेत्
अतो निन्दितरोगोऽय कुष्ठं कष्टं प्रकीर्त्तितम् ५०
वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु
पित्तोत्तरेषु लेपः सेको रक्तस्य मोचनं श्रेष्ठम् ५१
पथ्याकरञ्जसिद्धार्थनिशाऽवल्गुजसैन्धवैः
विडङ्गसहितैः पिष्टैर्लेपो मूत्रेण कुष्ठनुत् ५२
सोमराजीभवं चूर्णं शृङ्गबेरसमन्वितम्
उद्वर्त्तनमिदं हन्ति कुष्ठमुग्रं कृतास्पदम् ५३
रसायनं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम्
मार्कण्डेयप्रभृतिभिर्यत्प्रयुक्तं महर्षिभिः ५४
पुष्पकाले तु पुष्पाणि फलकाले फलानि च
संगृह्य पिचुमर्दस्य त्वङ्मूलानि दलानि च ५५
द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत्
त्रिफला त्र्! यूषणं ब्राह्मी श्वदंष्ट्राऽरुष्कराग्नयः ५६
विडङ्गसारवाराहीलोहचूर्णामृताः समाः
निशाद्वयावल्गुजकं व्याधिघातः सशर्करः ५७
कुष्ठमिन्द्र यवाः पाठाः चूर्णमेषां तु संयुतम्
खादिरासननिम्बानां घनक्वाथेन भावयेत्
सप्तधा पञ्चनिम्बं तु मार्कवस्यरसेन च
स्निग्धः शुद्धतनुर्धीमान्योजयेत्तच्छुभे दिने ५८
मधुना तिक्तहविषा खदिरासनवारिणा
लेह्यमुष्णाम्भसा वाऽपि कालवृद्ध्या पलं भवेत्
जीर्णे तस्मिन्समश्नीयात्स्निग्धं लघु हितञ्च यत् ५९
विचर्चिकौदुम्बर पुण्डरीककापालदद्रू किटिभालसादि
शतारुविस्फोटविसर्पमालाः कफप्रकोपं त्रिविधं किलासम् ६०
भगन्दरश्लीपदवातरक्तजडान्ध नाडीव्रणशीर्षरोगान्
सर्वान्प्रमेहान्प्रदरांश्च सर्वान्दंष्ट्राविषं मूलविषं निहन्ति ६१
स्थूलोदरः सिंहकृशोदरः स्यात्सुश्लिष्टसन्धिर्मधुनोपयोगात्
सदोपयोगादपि ये दशन्ति सर्पादयो यान्ति विनाशमाशु ६२
जीवेच्चिरं व्याधिजराविमुक्तः शुभे रतश्चन्द्र समानकान्तिः ६३
शशिलेखा पञ्चपलं तावद्गिरिजस्य गुग्गुलोस्तु दश
ताप्यस्य पलत्रितयं द्वे लोहस्रावणीकयोश्च पले ६४
त्रिफलाकरञ्जपल्लवखदिरगुडूचीत्रिवृद्दन्त्यः
मुस्ताविडङ्गरजनीकुटजत्वङ्निम्बवह्निसंपाकाः ६५
एतै रचितां वटिकां मधुसंमिश्रां गिलेत्प्रातः
गोमूत्रेण च कुष्ठं नुदत्यसृग्वातमचिरेण ६६
श्वित्राणि पाण्डुरोगं विषमानुदरप्रमेहगुल्मांश्च
नाशयति वलीपलितं योगः स्वायम्भुवो नाम्ना ६७
चित्रकं त्रिफला व्योषमजाजी कारवी वचा
सैन्धवातिविषाकुष्ठं चव्यैला च यवासकम् ६८
विडङ्गान्यजमोदा च मुस्ता चामरदारु च
यावन्त्येतानि सर्वाणि तावन्मानन्तु गुग्गुलोः ६९
सङ्कुट्य सर्पिषा सार्द्धं गुटिकां कारयेद्भिषक्
प्रातर्भोजनकाले च खादेदग्निबलं यथा ७०
हन्त्यष्टादश कुष्ठानि कृमिदुष्टव्रणानि च
ग्रहण्यर्शोविकारांश्च मुखामयगलग्रहान् ७१
गृध्रसीमथ भग्नञ्च गुल्मं चापि नियच्छति
व्याधीन्कोष्ठगतांश्चापि जयेद्विष्णुरिवासुरान् ७२
वातरक्ताधिकारोक्तः पुरः कैशोरकाभिधः
कुष्ठानां वातरक्तानां नाशनं परमौषधम् ७३
भल्लातकप्रस्थयुगं छित्वा द्रो णजले क्षिपेत्
प्रस्थद्वयंगुडूच्याश्च क्षुण्णं तत्राम्भसि क्षिपेत्
चतुर्थांशावशेषं तु कषायमवतारयेत्
वस्त्रपूते कषाये तु वक्ष्यमाणं विनिक्षिपेत् ७५
शरावमात्रकंसर्पिर्दुग्धं स्यादाढकं तथा
सितां प्रस्थमितां दद्यात्प्रस्थार्द्धं माक्षिकं क्षिपेत् ७६
सर्वाण्येकत्र भाण्डे तु पचेन्मृद्वग्निना शनैः
सर्वद्र वे घनीभूते पावकादवतारयेत् ७७
तत्र क्षेप्याणि चूर्णानि ब्रूमो बिल्वविषामृताः
वाकुची चाथ दद्र घ्नुः पिचुमर्दो हरीतकी ७८
अक्षो धात्री च मञ्जिष्ठा मरिचं नागरं कणा
यवानी सैन्धवं मुस्तं त्वगेला नागकेशरम् ७९
पर्पटं पत्रकं बालमुशीरं चन्दनं तथा
गोक्षुरस्य च बीजानि कर्चूरो रक्तचन्दनम् ८०
पृथक्पलार्द्धमानानां चूर्णमेषामिह क्षिपेत्
पलमात्रमितं प्रातः समश्नीयाज्जलेन हि ८१
नाशयेदवलेहोऽय पथ्यान्यन्नानि खादतः
कुष्ठानि वातरक्तानि सर्वाण्यर्शांसि सेवितः ८२
व्यायाममातपं वह्निमम्लं मांसं दधि स्त्रियम्
तैलाभ्यङ्गं तथाध्वानं नरो भल्लातकी त्यजेत् ८३
निम्बगोपारुणाः कट्वी त्रायन्ती त्रिफला घनम्
पर्पटावल्गुजानन्तावचाखदिरचन्दनम् ८४
पाठाशुण्ठीशटीभार्गीवासाभूनिम्बवत्सकम्
श्यामेन्द्र वारुणीमूर्वाविडङ्गेन्द्र यवानलम् ८५
हस्तिकर्णामृताद्रे कापटोलरजनीद्वयम्
कणारग्वधसप्ताह्वत्रिवृद्वेत्रोच्चटाफलम् ८६
मञ्जिष्ठा लाङ्गली रास्ना नक्तमालं पुनर्नवा
दन्तीबीजकसारञ्च भृङ्गराजं कुरण्टकम् ८७
अङ्कोटकञ्च शाखोटं द्विपलांशं पृथक्पृथक्
गृह्णीयात्तानि सर्वाणि जलद्रो णे पचेच्छनैः ८८
अष्टमांशावशेषन्तु कषायमवतारयेत्
विधाय वाससा पूतं स्थापयेद्भाजने दृढे ८९
भल्लातकसहस्राणि च्छित्वा तु त्र्! यर्मणाम्भसि
पचेदष्टावशेषं तत्कषायमवतारयेत् ९०
तच्च वस्त्रेण संशोध्य द्वौ कषायौ विमिश्रयेत्
गुडं शतपलं दत्वा लेहवत्तत्पचेच्छनैः ९१
त्रिकटु त्रिफला मुस्तं विडङ्गं चित्रकं तथा
सैन्धवं चन्दनं कुष्ठं दीप्यकञ्च पलं पृथक्
सौगन्ध्यार्थं क्षिपेत्तत्र चातुर्जातं पलं पलम् ९२
महाभल्लातको ह्येष महादेवेन भाषितः
प्राणिनां हितकामेन जयेच्छीघ्रं प्रयोजितः ९३
श्वित्रमौदुम्बरं दद्रुमृक्षजिह्वन्तु काकणम्
पुण्डरीकं सचर्माख्यं विस्फोटं रक्तमण्डलम् ९४
कण्डूं कपालकं कुष्ठं पामानञ्च विपादिकाम्
वातरक्तं षडर्शांसि पाण्डुरोगव्रणान्कृमीन् ९५
रक्तपित्तमुदावर्त्तं कासं श्वासं भगन्दरम्
सदाभ्यासेन पलितमामवातं सुदुस्तरम् ९६
निर्यन्त्रणस्तु कथितो विहाराहारमैथुने
कुरुते परमां कान्तिं प्रदीप्तं जठरानलम्९७
अनुपानं प्रयोक्तव्यं छिन्नातोयं पयोऽथवा
भोजने तु सदा त्याज्यमुष्णमम्लं विशेषतः ९८
मञ्जिष्ठा त्रिफला तिक्ता वचादारुनिशाऽमयाः
निम्बश्चैषां कृतः क्थाथः सर्वकुष्ठं विनाशयेत् ९९
वातरक्तं तथा कण्डूं पामां वै रक्तमण्डलम्
दद्रू ं! विसर्पं विस्फोटं पानाभ्यासेन नाशयेत् १००
मञ्जिष्ठा वाकुची चक्रमर्दश्च पिचुमर्दकः
हरीतकी हरिद्रा च धात्री वासा शतावरी १०१
बला नागबला यष्टीमधुकं क्षुरकोपि च
पटोलस्य लतोशीरं गुडूची रक्तचन्दनम् १०२
मञ्जिष्ठादिरयं क्वाथः कुष्ठानां नाशनः परः
वातरक्तस्य संहर्त्ता कण्डूमण्डलनाशनः १०३
मञ्जिष्ठाकुटजामृताघन वचामुण्डीहरिद्रा द्वयं
क्षुद्रा रिष्टपटोलतिक्तकटु काभार्गीविडङ्गाग्निकम्
मूर्वादारुकलिङ्गभृङ्गम गधात्रायान्तपाठावरी गायत्री त्रिफलाकिरातकमहानिम्बासनारग्वधाः १०४
श्यामावल्गुजचन्दनं वरुणकं दन्तीकशाखोटकं-
वासासर्पटसारिवा प्रतिविषानन्ताविशालाजलम्
मञ्जिष्ठाप्रथमं कषायमिति यः संसेवते तस्य तु त्वग्दोषाः सुचिरेण यान्ति विलयं कुष्ठानि चाष्टादश १०५
नाशं गच्छति वातरक्तमखिला नश्यन्ति रक्तामयाः
वीसर्पस्त्वचि शून्यता नयनजा रोगाः प्रशाम्यन्ति च १०६
मरिचं त्रिवृता मुस्तं हरितालं मनः शिला
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् १०७
विशाला करवीरञ्च क्षीरमर्कसमुद्भवम्
गोमयस्य रसं कुर्यात्प्रत्येकं कर्षसम्मितम्१०८
विषस्यार्द्धपलं देयं तैलं प्रस्थमितं कटु
पचेच्चतुर्गुणे नीरे गोमूत्रे द्विगुणे तथा १०९
मरिचाद्यमिदं तैलमभ्यङ्गात्कुष्ठनाशनम्
एतस्याभ्यङ्गतः श्वित्रं विवर्णं तत्क्षणाद्भवेत् ११०
तैलमेतज्जयेत्कण्डूं पामां सिध्मविचर्चिकाम्
पुण्डरीकं तथा दद्रुं शून्यतां नित्यसेविनाम् १११
मरिचं त्रिवृता दन्ती क्षीरमार्कं शकृद्र सः
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ११२
विशाला करवीरञ्च हरितालं मनःशिला
चित्रकं लाङ्गली मुस्तं विडङ्गं चक्रमर्दकः ११३
शिरीषःकुटजो निम्बः सप्तपर्णोऽमृता स्नुही
श्यामाको नक्तमालश्च खदिरो वाकुची वचा ११४
ज्योतिष्मती च पलिका विषं द्विपलिकं भवेत्
आढकं कटुतैलस्य गोमूत्रञ्च चतुर्गुणम् ११५
मृत्पात्रे लोहपात्रे च शनैर्मृद्वग्निना पचेत्
मरिचाद्यमिदं तैलं महन्मुनिभिरीरितम् ११६
भिषगेतेन तैलेन म्रक्षयेत्कौष्ठिकान्व्रणान्
पामाविचर्चिकादद्रू कण्डूविस्फोटकानि च ११७
वलयः पलितं छाया नीलं व्यङ्गं तथैव च
अभ्यङ्गेन प्रणश्यन्ति सौकुमार्यञ्च जायते ११८
प्रथमे वयसि स्त्रीणां यासां नस्यं प्रदीयते
तासामपि जरां प्राप्य न स्यातां स्खलितौ स्तनौ ११९
बलीवर्दस्तुरङ्गो वा गजो वा वायुपीडितः
त्रिभिरभ्यञ्जनैरस्य भवेन्मारुतविक्रमः १२०
तालताप्यशिलासूतटङ्कणाः सिन्धुसंयुताः
गन्धको द्विगुणः सूताच्छङ्खचूर्णञ्च तत्समम् १२१
जम्बीराद्भिर्दिनं घृष्ट्वा त्रिंशदंशं विषं क्षिपेत्
अस्य माषद्वयं खादेन्महिषीघृतसंयुतम् १२२
मध्वाज्यैर्वाकुचीबीजकर्षं लिह्यात्ततः परम्
तालकेश्वरनामाऽय सर्वकुष्ठहरो रसः १२३
रसो वलिस्ताम्रमयः पुरोग्निः शिलाजतु स्याद्विषतिन्दुकश्च
वरा च तुल्यं गगनञ्च सर्वैः करञ्जबीजं सचतुष्टयञ्च १२४
सम्मर्द्य सर्वं मधुना घृतेन घृतस्य पात्रे निहितं प्रयत्नात्
कर्षं भजेत्प्रत्यहमस्य पथ्यं शाल्योदनं दुग्धमधुत्रयञ्च १२५
विशीर्णकर्णाङ्गुलिनासिकोऽपि भवेदनेन स्मरतुल्यमूर्त्तिः
दारापरित्याग इह प्रदिष्टो जलौदनं तत्र निबद्धमूले १२६
कुष्ठं मूलकबीजं प्रियङ्गवः सर्षपास्तथा रजनी
एतत्केशरषष्ठं निहन्ति चिरकालजं सिध्मम् १२७
शिखरीरसेन पिष्टं मूलकबीजं प्रलेपतः सिध्मम्
क्षारेण वा कदल्या रजनीमिश्रेण नाशयति १२८
दार्वीमूलकबीजानि तालकं सुरदारु च
ताम्बूलपत्रं सर्वाणि कार्षिकाणि पृथक्पृथक् १२९
शङ्खचूर्णन्तु शाणं स्यात्सर्वाण्येकत्र वारिणा
प्रलेपयेत्प्रलेपोऽय सिध्मनाशन उत्तमः १३०
सलिले चाम्रपेशी तु किञ्चित्सैन्धवसंयुता
ताम्रपात्रे विनिर्घृष्टा लेपाच्चर्मदलापहा १३१
सलिलेन तु शुष्काणि घृष्ट्वा धात्रीफलानि च
कराभ्यां सुखमाप्नोति नरश्चर्मदलान्वितः १३२
जीरकस्य पलं पिष्टं सिन्दूरार्द्धपलं तथा
कटुतैलं पचेदाभ्यां सर्वपामाहरं परम् १३३
मञ्जिष्ठात्रिफलालाक्षालाङ्गली रात्रिगन्धकैः
चूर्णितैस्तैलमादित्यपाकं पामाहरं परम् १३४
सैन्धवं चक्रमर्दश्च सर्षपाः पिप्पली तथा
आरनालेन संपिष्टाः पामाकण्डूहराः पराः १३५
अर्कपत्ररसे पक्वं हरिद्रा कल्कसंयुतम्
नाशयेत्सार्षपं तैलं पामाकच्छूविचर्चिकाः १३६
मनः शिलाऽल कासीसं गन्धाश्म सिन्धुजन्म च
स्वर्णक्षीरी शिलाभेदी शुण्ठी कुष्ठञ्च मागधी १३७
लाङ्गली करवीरञ्च दद्रुघ्नः कृमिहाऽनलः
दन्ती निम्बदलं चैभिः पृथक्कर्षमितैर्भिषक् १३८
कल्लीकृत्य पचेत्तैलं कटु प्रस्थद्वयोन्मितम्
अर्कसेहुण्डदुग्धेन पृथक्पलमितेन च १३९
गोमूत्रस्याढकेनापि शनैर्मृद्वग्निना पचेत्
अभ्यङ्गेन हरेदेतत्कच्छू दुःसाध्यतामपि १४०
पामानञ्च तथा कण्डूं त्वग्व्याधिरुधिरामयान्
कण्डूराक्षसनामेदं तैलं हारीतभाषितम् १४१
कृतमालस्य पत्राणि नक्तमालदलानि च
द्रो णपुष्पीपलाशानि सर्षपा राजिका निशा १४२
कुटजो मधुकं मुस्तं नागरं रक्तचन्दनम्
धांत्री यवानिका दारु कल्क एष प्रकल्पितः १४३
उद्वर्त्तनादयं कल्कः कटुतैलसमन्वितः
कच्छूं पामां हरत्येव शीतपित्तादिकान्गदान् १४४
कुष्ठं कृमिघ्नो दद्रुघ्नो निशासैन्धवसर्षपाः
अम्लपिष्टः प्रलेपोऽय दद्रुकुष्ठनिषूदनः १४५
दूर्वाभयासैन्धवचक्रमर्दकुठेरकाः काञ्जिकतक्रपिष्टाः
त्रिभिः प्रलेपैरपि बद्धमूलां दद्रू ञ्च कुष्ठञ्च विनाशयन्ति १४६
गण्डलिकाख्यं तृणमपि सिद्धार्थकश्च स्नुहीपत्रम्
त्रयमपि समभागं स्यादेषां द्विगुणस्तु दद्र्रुघ्नः १४७
अष्टगुणे गोतक्रे तानि प्रकृतानि सन्दध्यात्
दिवसत्रितयादूर्ध्वं सम्यङ्निष्पेषयेत्तानि१४८
वन्योपलेन घृष्ट्वा च दद्रुमालेपयेत्तेन
सप्ताहाल्लेपोऽय दद्र्रूमचिराद्विनाशयति १४९
बिभीतकत्वङ्मलयूजटानां क्वाथेन पीतं गुडसंयुतेन
आवल्गुजं बीजमपाकरोति श्वित्राणि कृच्छ्राण्यपि पुण्डरीकम् १५०
कुडवमवल्गुणबीजं हरितालचतुर्थभागसम्मिश्रम् १५१
मनः शिलां तोलकार्द्धं गुञ्जाफलमग्निमूलञ्च
मूत्रेण गवां पिष्टं सवर्णताकारकं श्वित्रे १५२
श्वेतं कुष्ठं व्रजत्यस्तं पक्षार्द्धेनाधिकेन वा
गिरिकर्ण्यास्तु कृष्णाया मूलेन परिलेपितम् १५३
क्वाथः सवाकुचीचूर्णो धात्रीखदिरसारयोः
शङ्खेन्दुकुन्दधवलं श्वित्रं संसेवितो हरेत् १५४
मथितेन पिबेच्चूर्णं काकोदुम्बर्यवल्गुजम्
तैलाक्तो घर्मसेवी स्यात्तक्राशी श्वित्रहृद्भवेत् १५५
चतुष्पलं सोमराज्याः खदिरस्य पलं तथा
पटोलमूलं त्रिफला त्रायमाणा दुरालभा १५६
कल्कार्थं कटुकं चापि कार्षिकान्सूक्ष्मपेषितान्
पलद्वयं कौशिकस्य शुद्धस्यात्र प्रदापयेत् १५७
सिद्धं सर्पिरिदं श्वित्रं हन्यादम्भ इवानलम्
अष्टादशानां कुष्ठानां परमं चैतदौषधम् १५८
सोमराजीघृतं नाम निर्मितं ब्रह्मणा पुरा
लोकानामुपकाराय श्वित्रकुष्ठादिरोगिणाम् १५९
इति चतुष्पञ्चाशत्तमः कुष्ठाधिकारः समाप्तः ५४

शीतपित्तोदर्दकोठोत्कोठाधिकारः[सम्पाद्यताम्]

अथ पञ्चपञ्चाशत्तमः शीतपित्तोदर्दकोठोत्कोठाधिकारः ५५
शीतमारुतसम्पर्कात्प्रवृद्धौ कफमारुतौ
पित्तेन सह सम्भूय बहिरन्तर्विसर्पतः १
पिपासाऽरुचिहृल्लास देहसादाङ्गगौरवम्
रक्तलोचनता तेषां पूर्वरूपस्य लक्षणम् २
वरटीदष्टसंस्थानः शोथः सञ्जायते बहिः
सकण्डूतोदबहुलश्छर्दि ज्वरविदाहवान्
वाताधिकतमं विद्याच्छीतपित्तमिमं भिषक् ३
सोत्सङ्गैश्च सरागैश्च कण्डूमद्भिश्च मण्डलैः
शैशिरः श्लेष्मबहुल उदर्दइति कीर्त्तितः ४
असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः ५
मण्डलानि सकण्डूनि रागवन्ति बहूनि च
सानुबन्धस्तु स प्राज्ञैरुत्कोठ इति कथ्यते ६
शीतपित्ते तु वमनं पटोलारिष्टवासकैः
त्रिफलापुरकोष्णाभिर्विरेकश्च प्रशस्यते ७
अभ्यङ्गः कटुतैलेन सेकश्चोष्णेन वारिणा
त्रिफलां क्षौद्र्रसंयुक्तां खादेच्च नवकार्षिकम् ८
त्रिफलापुरकृष्णानां त्रिपञ्चैकांशयोजिता
गुटिका शीतपित्तार्शोभगन्दरवतां हिता ९
इति नव कार्षिकः
सितां त्रिकटुसंयुक्तां गुडमामलकैः सह
यवानीं खादयेच्चापि सव्योषक्षारसंयुताम् १०
आर्द्र्रकस्य रसःपेयः पुराणगुडसंयुतः
शीतपित्तापहः श्रेष्ठो वह्निमान्द्यविनाशनः ११
सिद्धार्थरजनीकल्कैः प्रपुन्नाटतिलैः सह
कटुतैलेन सम्मिश्रमेतदुद्वर्त्तनं हितम् १२
सुगुडं दीप्यकं यस्तु खादेत्पथ्यान्नभुङ्नरः
तस्य नश्यति सप्ताहादुदर्दःसर्वदेहजः १३
घृतं पीत्वा महातिक्तं शोणितं मोक्षयेत्तथा
स्निग्धस्विन्नस्य संशुद्धिमादौ कोठे समाचरेत्
उत्कोठे शुद्धदेहस्य कुष्ठघ्नीं कारयेत्क्रियाम् १४
निम्बस्य पत्राणि सदा घृतेन धात्रीविमिश्राणि नरः प्रयुञ्ज्यात्
विस्फोटकण्डूकृमिशीतपित्तमुदर्दकोठौ च कफञ्च हन्यात् १५
आर्द्र कं प्रस्थमेकं स्याद् गोघृतं कुडवद्वयम्
गोदुग्धं प्रस्थयुगलं तदर्द्धं शर्करा मता १६
पिप्पली पिप्पलीमूलं मरिचं विश्वभेषजम्
चित्रकञ्च विडङ्गञ्च मुस्तकं नागकेशरम् १७
त्वगेलापत्रकर्चूरं प्रत्येकं पलमात्रकम्
विधाय पाकं विधिवत्खादेत्तत्पलसम्मितम् १८
इदमार्द्र कखण्डं हि प्रातर्भुक्तं व्यपोहति
शीतपित्तमुदर्दञ्च कोठमुत्कोठमेव च
यक्ष्माणं रक्तपित्तञ्च कासं श्वासमरोचकम्
वातगुल्ममुदावर्तं शोथं कण्डूं कृमीनपि २०
दीपयेदुदरे वह्निं बलं वीर्यञ्च वर्द्धयेत्
वपुः पुष्टं प्रकुरुते तस्मात्सेव्यमिदं सदा २१
इति पञ्चपञ्चाशत्तमः शीतपित्तोदर्दकोठोत्कोठाधिकारः समाप्तः ५५

विसर्पाधिकारः[सम्पाद्यताम्]

अथ षट्पञ्चाशत्तमो विसर्पाधिकारः ५६
लवणाम्ल कटूष्णादिसेवनाद्दोषकोपतः
विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात् १
विसर्पस्य सप्तधात्वं विवृणोति
वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः
चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः २
आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः
यस्तु कर्दमको घोरः स पित्तकफसम्भवः ३
रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः
विसर्पाणां समुत्पत्तौ हेतवः सप्त धातवः ४
तत्र वातात्परीसर्पो वातज्वरसमव्यथः
शोफस्फुरणनिस्तोदभेदायामार्त्तिहर्षवान् ५
पित्ताद् द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः ६
कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक् ७
सन्निपातसमुत्थश्च सर्वरूपसमन्वितः ८
वातपित्ताज्ज्वरच्छर्दिमूर्च्छाऽतीसारतृड्भ्रमैः
अस्थिभेदाग्निसदनतमकारोचकैर्युतः
करोति सर्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत्
यं यं देशं विसर्पश्च विसर्पति भवेत्स सः ९
शीताङ्गारासितो नीलो रक्तो वाऽशूपचीयते
अग्निदग्ध इव स्फोटः शीघ्रगत्वाद् द्रुतञ्च सः १०
मर्मानुसारी वीसर्पःस्याद्वातोऽतिबलस्ततः
व्यथेताङ्गं हरेत्संज्ञां निद्रा ञ्च श्वासमीरयेत् ११
हिध्माञ्च स गतोऽवस्थामीदृशीं लभते न ना
क्वचिच्छर्मारतिग्रस्तो भूमिशय्याऽसनादिषु १२
चेष्टमानस्ततः क्लिष्टो मनोदेहसमुद्भवाम्
दुष्प्रबोधोऽश्नुते निद्रा ं! सोऽग्निवीसर्प उच्यते १३
कफेन रुद्धः पवनो भित्वा तं बहुधा कफम्
रक्तं वा वृद्धरक्तस्य त्वक्शिरास्नायुमांसगम् १४
दूषयित्वा तु दीर्घाणां वृत्तस्थूलखरात्मनाम्
ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम् १५
श्वासकासातिसारास्य शोषहिक्कावमिभ्रमैः
मोहवैवर्ण्यमूर्च्छाऽङ्ग भङ्गाग्निसदनैर्युतः
इत्ययं ग्रन्थिवीसर्पो वातश्लेष्मप्रकोपजः १६
कफपित्ताज्ज्वरस्तम्भनिद्रा तन्द्रा शिरोरुजाः
अङ्गावसादविक्षेपप्रलेपारोचकभ्रमाः १७
मूर्च्छाऽग्निहानिर्भेदोऽस्थ्ना पिपासेन्द्रि यगौरवम्
सामोपवेसनं लेपः स्रोतसां स च सर्पति १८
प्रायेणामाशयं गृह्णन्नेकदेशं न चातिरुक्
पिडकैरवकीर्णोऽतिपीतलोहितपाण्डुरः १९
स्निग्धोऽसितो मेचकाभो मलिनः शोफवान्गुरुः
गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्यते २०
पङ्कत्वक्शीर्णमांसश्च स्पष्टस्नायुशिरागणः
शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम् २१
सन्निपातसमुत्थस्तु सर्वरूपसमन्वितः २२
बाह्यहेतोः क्षतात्क्रुद्धः सरक्तं पित्तमीरयन्
विसर्पं मारुतः कुर्यात्कुलत्थसदृशैश्चितम्
स्फोटः शोथज्वररुजादाहाढ्यं श्यावशोणितम् २३
ज्वरातिसारौ वमथुस्त्वङ्मांसदरणक्लमाः
अरोचकाविपाकौ च विसर्पाणामुपद्र वाः २४
सिद्ध्य्न्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति
पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः कृच्छ्राश्च मर्मसु भवन्ति हि सर्व एव २५
विरेकवमनालेप सेचनास्रविमोक्षणैः
उपाचरेद्यथादोषं विसर्पानविदाहिभिः २६
रास्ना नीलोत्पलं दारु चन्दनं मधुकं बला
घृतक्षीरयुतो लेपो वातवीसर्पनाशनः २७
कशेरुशृङ्गाटकपद्मगुन्द्र ः! सशैवलैः सोत्पलकर्दमैश्च
वस्त्रान्तरैः पित्तकृते विसर्पे लेपो विधेयः सघृतः सुशीतः २८
त्रिफलापद्मकोशीर समङ्गाकरवीरकम्
नलमूलमनन्ता च लेपः श्लेष्मविसर्पके २९
वातपित्तप्रशमनमग्निवीसर्पणे हितम्
वातश्लेष्महरं कर्म ग्रन्थिविसर्पणे हितम् ३०
पित्तश्लेष्मप्रशमनं हितं कर्दमसंज्ञके
त्रिदोषजे क्रियां कुर्याद्विसर्पे त्रितयापहाम् ३१
शिरीषयष्टीनतचन्दनैलामांसीहरिद्रा द्वयकुष्ठबालैः
लेपो दशाङ्गः सघृतः प्रयोज्यो विसर्पकुष्ठज्वरशोथहारी ३२
परिषेकाः प्रलेपाश्च शस्यन्ते पञ्चवल्कलैः
पद्मकोशीरमधुकैश्चन्दनैर्वा विसर्पणे ३३
भूनिम्बवासाकटुकापटोलीफलत्रयीचन्दननिम्बसिद्धः
विसर्पदाहज्वरशोथकण्डूविस्फोटतृष्णावमिहृत्कषायः ३४
कुष्ठेषु यानि सर्पींषि व्रणेषु विविधेषु च
विसर्पे तानि योज्यानि सेकालेपनभोजनैः ३५
करञ्जसप्तच्छदलाङ्गली कस्नुह्यर्कदुग्धानलभृङ्गराजैः
तैलं निशामूत्रविषैर्विपक्वं विसर्पविस्फोटविचर्चिकाघ्नम् ३६
कुष्ठामयस्फोटमसूरिकोक्तचिकित्सयाऽप्याशु हरेद्विसर्पान्
सर्वान्विपक्वान्परिशोध्य धीमान्व्रणक्रमेणोपचरेद्यथोक्तम् ३७
इति षट्पञ्चाशत्तमो विसर्पाधिकारः समाप्तः ५६

स्नायुरोगाधिकारः[सम्पाद्यताम्]

अथ सप्तपञ्चाशत्तमो स्नायुरोगाधिकारः ५७
शाखासु कुपितो दोषः शोथं कृत्वा विसर्पवत्
भित्वैव तं क्षते तत्र सोष्म मांसं विशोष्य च १
कुर्यात्तन्तुनिभं सूत्रं तत्पिण्डैस्तक्रशक्तुजैः
शनैः शनैः क्षताद्याति च्छेदात्तत्कोपमावहेत् २
तत्पाताच्छोथशान्तिः स्यात्पुनः स्थानान्तरे भवेत्
स स्नायुरिति विख्यातः क्रियोक्ताऽत्र विसर्पवत् ३
बाह्वोर्यदि प्रमादेन त्रुट्यते जङ्घयोरपि
सङ्कोचं खञ्जतां चापि च्छिन्नो नूनं करोत्यसौ ४
स्नेहस्वेदप्रलेपादि कर्म कुर्याद्यथोचितम्
रामठं शीततोयेन पीतं स्नायुकरोगनुत् ५
स्वेदात्स्नायुकमत्युग्रं भेकः काञ्जिकसाधितः
तद्वद् बब्बूलजं बीजं पिष्टं हन्ति प्रलेपनात् ६
गव्यं सर्पिस्त्र्! यहं पीत्वा निर्गुण्डीस्वरसं त्र्! यहम्
पिबेत्स्नायुकमत्युग्रं हन्त्यवश्यं न संशयः ७
मूलं सुषव्या हिमवारिपिष्टं पानादिदं तन्तुकरोगमुग्रम्
शान्तिं नयेत्सव्रणमाशु पुंसां गन्धर्वगन्धेन घृतेन पीत्वा ८
अतिविषमुस्तकभर्गीविश्वौषधपिप्पलीबिभीतक्यः
चूर्णमिदं तन्तुघ्नं पुंसामुष्णेन वारिणा पीतम् ९
शिग्रुमूलदलैः पिष्टैः काञ्जिकेन ससैन्धवैः
लेपनं स्नायुकव्याधेः शमनं परमं मतम् १०
अहिंस्रकमूलकल्केन तोयपिष्टेन यत्नतः
लेपसम्बन्धनात्तन्तुर्निःसरेन्नैव संशयः ११
इति सप्तपञ्चाशत्तमः स्नायुरोगाधिकारः समाप्तः ५७

विस्फोटकाधिकारः[सम्पाद्यताम्]

अथाष्टपञ्चाशत्तमो विस्फोटकाधिकारः ५८
कट्वम्लतीक्ष्णोष्णविदाहिरुक्षक्षारैरजीर्णाध्यशनातपैश्च
तथर्त्तुदोषेण विपर्ययेण कुप्यन्ति दोषाः पवनादयस्तु १
त्वचमाश्रित्य ते रक्तं मांसास्थीनि प्रदूष्य च
घोरान्कुर्वन्ति विस्फोटान्सर्वाञ्ज्वरपुरःसरान् २
अग्निदग्धा इव स्फोटाः सज्वरा रक्तपित्तजाः
क्वचित्सर्वत्र वा देहे विफोटा इति ते स्मृताः ३
शिरोरुक् शूलभूयिष्ठं ज्वरतृट्पर्वभेदनम्
सकृष्णवर्णता चेति वातविस्फोटलक्षणम् ४
ज्वरदाहरुजापाकस्रावतृष्णासमन्वितम्
पीतलोहितवर्णञ्च पित्तविस्फोटलक्षणम् ५
छर्द्यरोचकजाड्यानिकण्डू काठिन्यपाण्डुताः
यस्मिन्न रुक् चिरात्पाकः स विस्फोटः कफात्मकः ६
कण्डूर्दाहो ज्वरश्छर्दिरेतैश्च कफपैत्तिकः ७
वातपित्तकृतो यस्तु तत्र स्यात्तीव्रवेदना ८
कण्डूस्तैमित्यगुरुभिर्जानीयात्कफवातिकम् ९
मध्यनिम्नोन्नतान्तश्च कठिनः स्वल्पपाकवान्
दाहरागतृषामोहच्छर्दिमूर्च्छारुजाज्वराः
प्रलापो वेपथुस्तन्द्रा सोऽसाध्यश्च त्रिदोषजः १०
वेदितव्याश्च रक्तेन पैत्तिकेन च हेतुना
गुञ्जाफलसमा रक्ता रक्तस्रावा विदाहिनः
न ते सिद्धिं समायान्ति सिद्धैर्योगशतैरपि ११
एते चाष्टविधा बाह्या आन्तरोऽपि भवेदयम्
तस्मिन्नन्तर्व्यथातीव्रा ज्वरयुक्ताऽभिजायते १२
यस्मिन्बहिर्गते स्वास्थ्यं न वा तस्य बहिर्गतिः
तत्र वातिकविस्फोटक्रिया कार्या विजानता १३
तृट्श्वासमांससङ्कोथदाह हिक्कामदज्वराः
विसर्पमर्मसंरोधास्तेषामुक्ता उपद्र वाः १४
हिक्का श्वासोऽरुचिस्तृष्णा साङ्गमर्दा हृदि व्यथा
विसर्पज्वरहृल्लासा विस्फोटानामुपद्र वाः १५
एकदोषो स्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः
सर्वरूपान्वितो घोरो ह्यसाध्यो भूर्युपद्र वः १६
विस्फोटे लङ्घनं कार्यं वमनं पथ्यभोजनम्
यथादोषबलं वीक्ष्य युक्तमुक्तं विरेचनम् १७
जीर्णशालियवा मुद्गा मसूराश्चाढकी तथा
एतान्यन्नानि विस्फोटे हितानि मुनयोऽब्रुवन् १८
द्वे पञ्चमूल्यौ रास्ना च दार्व्युशीरं दुरालभा
गुडूची धान्यकं मुस्तमेषां क्वाथं पिबेन्नरः
विस्फोटान्नाशयन्त्याशु समीरणनिमित्तकान् १९
द्रा क्षाकाश्मर्य खर्जूरपटोलारिष्टवासकैः
कटुकालाजदुःस्पर्शैः सितायुक्तं तु पैत्तिके २०
भूनिम्बसवचावासा त्रिफलेन्द्र जवत्सकैः
पिचुमर्दपटोलाभ्यां कफजे मधुयुक्शृतम् २१
किराततिक्तकारिष्टयष्ट्या ह्वाम्बुदवासकैः
पटोलपर्पटोशीरत्रि फलाकौटजान्वितैः
क्वथितैर्द्वादशाङ्गन्तु सर्वविस्फोटनाशनम् २२
विस्फोटव्याधिनाशाय तण्डुलाम्बुप्रपेषितैः
बीजैः कुटजवृक्षस्य लेपः कार्यो विजानता २३
छिन्नापटोलभूनिम्ब वासकारिष्टपर्पटैः
खदिराब्दयुतैः क्वाथो हन्ति विस्फोटकज्वरम् २४
चन्दनं नागपुष्पञ्च सारिवा तण्डुलीयकम्
शिरीषवल्कलं जातीलेपः स्याद्दाहनाशनः २५
उत्पलं चन्दनं लोध्रमुशीरंसारिवाद्वयम्
जलपिष्टेन लेपेन स्फोटदाहार्त्तिनाशनम् २६
पुत्रजीवस्य मज्जानं जले पिष्ट्वा प्रलेपयेत्
कालस्फोटं च विस्फोटं सद्यो हन्ति सवेदनम् २७
कक्षग्रन्थिं गलग्रन्थिं कर्णग्रन्थिञ्च नाशयेत्
हन्याच्च स्फोटकं ताम्रं पुत्रजीवो विनाशयेत् २८
इत्यष्टपञ्चाशत्तमोविस्फोटकाधिकारः समाप्तः ५८

फिरङ्गरोगाधिकारः[सम्पाद्यताम्]

अथैकोनषष्टितमः फिरङ्गरोगाधिकारः ५९
फिरङ्गसंज्ञके देशे बाहुल्येनैव यद्भवेत्
तस्मात्फिरङ्ग इत्युक्तो व्याधिर्व्याधिविशारदैः १
गन्धरोगः फिरङ्गोऽय जायते देहिनां ध्रुवम्
फिरङ्गिणोऽङ्गसंसर्गात्फिरङ्गिण्याः प्रसङ्गतः २
व्याधिरागन्तुजो ह्येष दोषाणामत्र सङ्क्रमः
भवेत्तं लक्षयेत्तेषां लक्षणैर्भिषजां वरः ३
फिरङ्गस्त्रिविधो ज्ञेयो बाह्य आभ्यन्तरस्तथा
बहिरन्तर्भवश्चापि तेषां लिङ्गानि च ब्रुवे ४
तत्र बाह्यः फिरङ्गः स्याद्विस्फोटसदृशोऽल्परुक्
स्फुटितोव्रणवद्वेद्यः सुखसाध्योऽपि स स्मृतः ५
सन्धिष्वाभ्यन्तरः स स्यादामवात इव व्यथाम्
शोथञ्च जनयेदेष कष्टसाध्यो बुधैः स्मृतः ६
कार्श्यं बलक्षयो नासाभङ्गो बह्नेश्च मन्दता
अस्थिशोषोऽस्थिवक्रत्वं फिरङ्गोपद्र वा अमी ७
बहिर्भवो भवेत्साध्यो नवीनो निरुपद्र वः
आभ्यन्तरस्तु कष्टेन साध्यः स्यादयमामयः
बहिरन्तर्भवो जीर्णः क्षीणस्योपद्र वैर्युतः
व्याप्तो व्याधिरसाध्योऽयमित्याहुर्मुनयः पुरा ९
अथ फिरङ्गरोगस्य चिकित्सा
फिरङ्गसंज्ञकं रोगं रसः कर्पूरसंज्ञकः
अवश्यं नाशयेदेतदूचुः पूर्वाश्चिकित्सकाः १०
लिख्यते रसकर्पूरप्राशने विधिरुत्तमः
अनेन विधिना खादेन्मुखे शोथं न विन्दति ११
गोधूमचूर्णं सन्नीय विदध्यात्सूक्ष्मकूपिकाम्
तन्मध्ये निक्षिपेत्सूतं चतुर्गुञ्जामितं भिषक् १२
ततस्तु गुटिकां कुर्याद्यथा न दृश्यते बहिः
सूक्ष्मचूर्णे लवङ्गस्य तां वटीमवधूलयेत् १३
दन्तस्पर्शो यथा न स्यात्तथा तामम्भसा गिलेत्
ताम्बूलं भक्षयेत्पश्चाच्छाकाम्ललवणांस्त्यजेत्
श्रममातपमध्वानं विशेषात्स्त्रीनिषेवणम् १४
पारदष्टङ्कमानः स्यात्खदिरष्टङ्कसंमितः
आकारकरभश्चापि ग्राह्यष्टङ्कद्वयोन्मितः १५
टङ्कत्रयोन्मितं क्षौद्रं खल्वे सर्वं विनिक्षिपेत्
संमर्द्य तस्य सर्वस्य कुर्यात्सप्तवटीर्भिषक् १६
स रोगी भक्षयेत्प्रातरेकैकामम्बुना वटीम्
वर्जयेदम्ललवणं फिरङ्गस्तस्य नश्यति १७
पारदः कर्षमात्रः स्यात्तावानेव हि गन्धकः
तण्डुलाश्चाक्षमात्राः स्युरेषां कुर्वीत कज्जलीम् १८
तस्याःसप्त वटीः कुर्यात्ताभिर्धूमं प्रयोजयेत्
दिनानि सप्त तेन स्यात्फिरङ्गान्तो न संशयः १९
पीतपुष्पबलापत्ररसैष्टङ्कमितं रसम्
हस्ताभ्यां मर्दयेत्तावद्यावत्सूतो न दृश्यते २०
ततः संस्वेदयेद्धस्तावेवं वासरसप्तकम्
त्यजेल्लवणमम्लञ्च फिरङ्गस्तस्य नश्यति २१
चूर्णयेन्निम्बपत्राणि पथ्या निम्बाष्टमांशिका
धात्री च तावती रात्रिर्निम्बषोडशभागिका २२
शाणमानमिदं चूर्णमश्नीयादम्भसा सह
फिरङ्गं नाशयत्येव बाह्यमाभ्यन्तरं तथा २३
चोपचीनीभवं चूर्णं शाणमानं समाक्षिकम्
फिरङ्गव्याधिनाशाय भक्षयेल्लंवणं त्यजेत् २४
लवणं यदि वा त्यक्तुं न शक्नोति यदा जनः
सैन्धवं स हि भुञ्जीत मधुरं परमं हितम् २५
पारदः कर्षमात्रः स्यात्तावन्मात्रं तु गन्धकम्
तावन्मात्रस्तु खदिरस्तेषां कुर्यात्तु कज्जलीम् २६
रजनी केशरं त्रुट्यौ जीरयुग्मं यवानिका
चन्दनद्वितयं कृष्णा वांशी मांसी च पत्रकम् २७
अर्द्धकर्षमितं सर्वं चूर्णयित्वा च निक्षिपेत्
तत्सर्वं मधुसर्पिर्भ्यां द्विपलाभ्यां पृथक्पृथक् २८
मर्दयेदथ तत्खादेदर्द्धकर्षमितं नरः
व्रणः फिरङ्गरोगोत्थस्तस्यावश्यं विनश्यति २९
अन्योऽपि चिरजातोऽपि प्रशाम्यति महाव्रणः
एतद्भक्षयतः शोथो मुखस्यान्तर्न जायते ३०
वर्जयेदत्र लवणमेकविंशतिवासरान् ३१
इत्येकोनषष्टितमः फिरङ्गरोगाधिकारः समाप्तः ५९

मसूरिकाशीतलाऽधिकारः[सम्पाद्यताम्]

अथ षष्टितमो मसूरिकाशीतलाऽधिकारः ६०
कट्वम्ललवणक्षार विरुद्धाध्यशनाशनैः
दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः १
क्रूरग्रहेक्षणाच्चापि देशे दोषाः समुद्धताः
जनयन्ति शरीरेऽस्मिन्दुष्टरक्तेन सङ्गताः
मसूराकृतिसंस्थानाः पिडकास्ता मसूरिकाः २
तासां पूर्वं ज्वरः कण्डूर्गात्रभङ्गोऽरतिर्भ्रमः
त्वचि शोथः सवैवर्ण्यो नेत्ररागस्तथैव च ३
स्फोटाः कृष्णारुणा रुक्षास्तीव्रवेदनयान्विताः
कठिनाश्चिरपाकाश्च भवन्त्यनिलसम्भवाः ४
सन्ध्यस्थिपर्वणां भेदः कासः कम्पोऽरतिर्भ्रमः
शोषस्ताल्वोष्ठजिह्वानां तृष्णा चारुचिसंयुता ५
रक्ताः पीताः सिताः स्फोटाः सदाहस्तीव्रवेदनाः
भवन्त्यचिरपाकाश्च पित्तकोपसमुद्भवाः ६
विड्भेदश्चाङ्गमर्दश्च दाहस्तृष्णाऽरुचिस्तथा ७
मुखपाकोऽक्षिपाकश्च ज्वरस्तीव्रः सुदारुणः
रक्तजासु भवन्त्येते विकाराः पित्तलक्षणाः ८
कफप्रसेकः स्तैमित्यं शिरोरुग्गात्रगौरवम्
हृल्लासः सारुचिर्निद्रा तन्द्रा ऽलस्यसमन्विता ९
श्वेताः स्निग्धा भृशं स्थूलाः कण्डूरा मन्दवेदनाः
मसूरिकाः कफोद्भूताश्चिरपाकाः प्रकीर्त्तिताः १०
नीलाश्चिपिटविस्तीर्णा मध्ये निम्ना महारुजः
पूतिस्रावाश्चिरात्पाकाः प्रभूताः सर्वदोषजाः ११
अथ सप्तधातुगतमसूरिकाणां पृथक् पृथक् लक्षणानि
मसूरिकास्त्वचं प्राप्तास्तोयबुद्बुदसन्निभाः
स्वल्पदोषाः प्रजायन्ते भिन्नास्तोयं स्रवन्ति च १२
रक्तस्था लोहिताकाराः शीघ्रपाकास्तनुत्वचः
साध्या नात्यर्थदुष्टास्तु भिन्ना रक्तं स्रवन्ति च १३
मांसस्थाः कठिनाः स्निग्धाश्चिरपाका घनत्वचः
गात्रशूलतृषाकण्डूज्वरारतिसमन्विताः १४
मेदोजा मण्डलाकारा मृदवः किञ्चिदुन्नताः
घोरज्वरपरीताश्च स्थूलाः स्निग्धाः सवेदनाः
सम्मोहारतिसन्तापाः कश्चिदाभ्यो विनिस्तरेत् १५
क्षुद्रा गात्रसमा रुक्षाश्चिपिटाः किञ्चिदुन्नताः
मज्जोत्था भृशसम्मोहा वेदनाऽरतिसंयुताः १६
भ्रमरेणेव विद्धानि कुर्वन्त्यस्थीनि सर्वतः
छिन्दन्ति मर्मधामानि प्राणानाशु हरन्ति च १७
पक्वाभाः पिडकाः स्निग्धाः श्लक्ष्णाश्चात्यर्थवेदनाः
स्तैमित्यारतिसंमोहदाहोन्मादसमन्विताः १८
शुक्रजायां मसूर्यान्तु लक्षणानि भवन्ति हि
निर्दिष्टं केवलं चिह्नं जीवनं न तु दृश्यते १९
दोषमिश्रास्तु सप्तैता द्र ष्टव्या दोषलक्षणैः २०
कण्ठरोधारुचिस्तम्भ प्रलापारतिसंयुताः
दुश्चिकित्स्याः समुद्दिष्टाः पिडकाश्चर्मसंज्ञिताः २१
रोमकूपोन्नतिसमा रागिण्यः कफपित्तजाः
कासारोचकसंयुक्ता रोमान्त्यो ज्वरपूर्विकाः २२
त्वग्गता रक्तगाश्चैव पित्तजाः श्लेष्मजास्तथा
श्लेष्मपित्तकृताश्चैव सुखसाध्या मसूरिकाः
एता विनाऽपि क्रियया प्रशाम्यन्ति शरीरिणाम् २३
वातजा वातपित्तोत्था वातश्लेष्मकृताश्च याः
कष्टसाध्यतमास्तस्माद् यत्नादेता उपाचरेत् २४
असाध्याः सन्निपातोत्थास्तासां वक्ष्यामि लक्षणम्
प्रवालसदृशाः काश्चित्काश्चिज्जम्बूफलोपमाः २५
लोहजालसमाः काश्चिदतसीफलसन्निभाः
आसां बहुविधा वर्णा जायन्ते दोषभेदतः २६
कासो हिक्का प्रमेहश्च ज्वरस्तीव्रः सुदारुणः
प्रलापारतिमूर्च्छाश्च तृष्णा दाहोऽतिघूर्णता २७
मुखेन प्रस्रवेद्र क्तं तथा घ्राणेन चक्षुषा
कण्ठे घुर्घुरकं कृत्वा श्वसित्यत्यर्थदारुणम् २८
मसूरिकाऽभिभूतस्य यस्य तानि भिषग्वरैः
लक्षणानीह दृश्यन्ते न देयं तस्य भेषजम् २९
मसूरिकाऽभिभूतो यो भृशं घ्राणेन निःश्वसेत्
स भृशंत्यजति प्राणांस्तृष्णावान्वायुदूषितः ३०
मसूरिकिऽन्ते शोथः स्यात्कूर्परे मणिबन्धके
तथांऽसफलके वाऽपि दुश्चिकित्स्यः सुदारुणः ३१
काश्चिद्विनाऽपि यत्नेन सिध्यन्त्याशु मसूरिकाः ३२
दृष्टाः कृच्छ्रतराः काश्चित्काश्चित्सिध्यन्ति वा न वा
काश्चिन्नैव तु सिध्यन्ति साध्यपाकाः प्रयत्नतः ३३
मसूरिकायां कुष्ठेषु लेपनादिक्रियाहिता
पित्तश्लेष्मविसर्पोक्ता क्रिया चात्र प्रशस्यते ३४
श्वेतचन्दनकल्कोत्थं हिलमोचीभवं द्र वम्
पिबेन्मसूरिकाऽरम्भे नैव वा केवलं रसम् ३५
द्वौ पञ्चमूल्यौ रास्ना च धात्र्! युशीरं दुरालभा
सामृता धान्यकं मुस्तं जयेद्वातमसूरिकाम् ३६
मञ्जिष्ठाबहुपात्प्लक्ष शिरीषोदुम्बरत्वचः
वातजायां मसूर्यां स्यात्प्रलेपः सर्वतो हितः ३७
गुडूची मधुकं द्रा क्षा मोरटं दाडिमैः सह
पाककाले प्रदातव्यं भेषजं गुडसंयुतम्
तेन कुप्यति नो वायुः पाकं यान्ति मसूरिकाः ३८
मसूरिकासु भुञ्जीत शालीन्मुद्गमसूरकान् ३९
रसं मधुरमेवाद्यात्सैन्धवं चाल्पमात्रकम्
पटोलमूलं क्वथितं मोरटस्वरसं तथा
आदावेव मसूर्यां तु पित्तजायां प्रयोजयेत् ४०
निम्बः पर्पटकः पाठा पटोलश्चन्दनद्वयम् ४१
उशीरं कटुका धात्री तथा वासा दुरालभा
एषां पानं शृतं शीतमुत्तमं शर्कराऽन्वितम् ४२
मसूर्यां पित्तजायान्तु प्रयोक्तव्यं विजानता
दाहे ज्वरे विसर्पे च व्रणे पित्ताधिकेऽपि च ४३
मसूर्यो रक्तजा नाशं यान्ति शोणितमोक्षणैः
वासामुस्तकभूनिम्बत्रिफलेन्द्र यवासकम् ४४
पटोलारिष्टकं चापि क्वाथयित्वा समाक्षिकम्
पिबेत्तेन प्रशाम्यन्ति मसूर्यः कफसम्भवाः ४५
शिरीषोदुम्बरत्वग्भ्यां खदिरारिष्टजैर्दलैः
कफोत्थासु मसूरीषु लेपः पित्तोत्थितासु च ४६
निम्बः पर्पटकः पाठा पटोलः कटुरोहिणी
चन्दने द्वे उशीरञ्च धात्री वासा दुरालभा ४७
एष निम्बादिकः क्वाथः पीतः शर्करयाऽन्वितः
मसूरीं सर्वजां हन्ति विसर्पज्वरसंयुताम् ४८
उत्थिता प्रविशेद्या च तां पुनर्बाह्यतो नयेत्
काञ्चनारत्वचः क्वाथस्ताप्यचूर्णावचूर्णितः ४९
धात्रीफलं समधुकं क्वथितं मधुसंयुतम्
मुखे कण्ठे व्रणे जाते गण्डूषार्थं प्रशस्यते
अक्ष्णोः सेकं प्रशंसन्ति गवेधुमधुकाम्बुना ५०
मधुकं त्रिफला मूर्वा दार्वीत्वङ्नीलमुत्पलम्
उशीरलोध्रमञ्जिष्ठाः प्रलेपाश्च्योतने हिताः ५१
नश्यन्त्यनेन दृग्जाता मसूर्यो न भवन्ति च
प्रलेपं चक्षुषोर्दद्याद् बहुवारस्य वल्कलैः ५२
पञ्चवल्कलचूर्णेन क्लेदिनीमवधूलयेत्
भस्मनाकेचिदिच्छन्ति केचिद्गोमयरेणुना ५३
सुषवीपत्रनिर्यासं हरिद्रा चूर्णसंयुतम्
रोमान्तीज्वरवीसर्पव्रणानां शान्तये पिबेत् ५४
इति मसूरिकाधिकारः समाप्तः

मसूरिकाभेदशीतलाऽधिकारः[सम्पाद्यताम्]

अथ मसूरिकाभेदशीतलाऽधिकारः
देव्या शीतलयाऽक्रान्ता मसूर्येव ही शीतला
ज्वरयेच्च यथा भूताधिष्ठितो विषमज्वरः ५५
सा च सप्तविधा ख्याता तासां भेदान्प्रचक्ष्महे
ज्वरपूर्वा बृहत्स्फोटैः शीतला बृहती भवेत् ५६
सप्ताहान्निःसरत्येव सप्ताहात्पूर्णतां व्रजेत्
ततस्तृतीये सप्ताहे शुष्यति स्खलति स्वयम् ५७
तासां मध्ये यदा काचित्पाकं गत्वा स्फुटेत्स्रवेत्
तत्रावधूलनं कुर्याद्वनगोमयभस्मना ५८
निम्बसत्पत्र शाखाभिर्मक्षिकामपसारयेत्
जलञ्च शीतलं दद्याज्ज्वरेऽपि न तु तत्पचेत् ५९
स्थापयेत्तं स्थले पूते रम्ये रहसि शीतले
नाशुचिः संस्पृशेत्तन्तु नच तस्यान्तिकंव्रजेत् ६०
बहवो भिषजो नात्र भेषजं योजयन्ति हि
केचित्प्रयोजयन्त्येव मतं तेषामथ ब्रुवे ६१
ये शीतलेन सलिलेन विपिष्य सम्यङ् निम्बाक्षबीजसहितां रजनीं पिबन्ति
तेषां भवन्ति न कदाचिदपीह देहे पीडाकराजगति शीतलिकाविकाराः ६२
मोचारसेन सहितं सितचन्दनेन वासारसेन मधुकं मधुकेन चाथ
आदौ पिबन्ति सुमनास्वरसेन मिश्रं ते नाप्नुवन्ति भुवि शीतलिकाविकारान् ६३
शीतलासु क्रिया कार्या शीतला रक्षया सह
बध्नीयान्निम्बपत्राणि परितो भवनान्तरे ६४
कदाचिदपि नो कार्यमुच्छिष्टस्य प्रवेशनम् ६५
स्फोटेष्वपि सदाहेषु रक्षारेणूत्करो हितः
तेन ते शोषमायान्ति प्रपाकं न भजन्ति च ६६
चन्दनं वासको मुस्तं गुडूची द्रा क्षया सह
एषां शीतकषायस्तु शीतलाज्वरनाशनः ६७
जपहोमोपहारैश्च दानस्वस्त्ययनार्चनैः
विप्रगोशम्भुगौरीणां पूजनैस्ताः शमं नयेत्
स्तोत्रञ्च शीतलादेव्याः पठेच्छीतलिकाऽन्तिके
ब्राह्मणः श्रद्धया युक्तस्तेन शाम्यन्ति शीतलाः ६८
अस्य श्रीशीतलास्तोत्रस्य महादेवॠषिरनुष्टुपछन्दः
शीतला देवता शीतलोपद्र व शान्त्यर्थं जपे विनियोगः ६९
स्कन्द उवाच
भगवन्देवदेवेश शीतलायाः स्तवं शुभम्
वक्तुमर्हस्यशेषेण विस्फोटकभयापहम् ७०
ईश्वर उवाच
वन्देऽह शीतलां देवीं रासभस्थां दिगम्बराम्
यामासाद्य निवर्त्तेत विस्फोटकभयं महत् ७१
शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ७२
यस्त्वामुदकमध्ये तु ध्यात्वासम्पूजयेन्नरः
विस्फोटकभयं घोरं कुले तस्य न जायते ७३
शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च
प्रणष्टचक्षुषः पुंसस्त्वामाहुर्जीवितौषधम् ७४
नमामि शीतलां देवीं रासभस्थां दिगम्बराम्
मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम् ७५
शीतले तनुजान्रोगान्नृणां हरसि दुस्तरान्
विस्फोटकविशीर्णानां त्वमेकाऽमृतवर्षिणी ७६
गलगण्डग्रहा रोगा ये चान्ये दारुणा नृणाम्
त्वदनुध्यानमात्रेण शीतले यान्ति ते क्षयम् ७७
न मन्त्रो नौषधं किञ्चित्पापरोगस्य विद्यते
त्वमेका शीतले धात्री नान्यां पश्यामि देवताम् ७८
मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम्
यस्त्वां सञ्चिन्तयेद्देवि तस्य मृत्युर्न जायते ७९
अष्टकं शीतलादेव्या यःपठेन्मानवः सदा
विस्फोटकभयं घोरं कुले तस्य न जायते ८०
श्रोतव्यं पठिव्यञ्च नरैर्भक्तिसमन्वितैः
उपसर्गविनाशाय परं स्वस्त्ययनं महत् ८१
शीतलाऽष्टकमेतद्धि न देयं यस्य कस्यचित्
किन्तु तस्मै प्रदातव्यं भक्तिश्रद्धाऽन्वितो हि यः ८२
इति श्रीकाशीखण्डे शीतलाष्टकस्तोत्रं सम्पूर्णम्
अथ शीतलाया भेदाः
वातश्लेष्मसमुद्भूता कोद्र वा कोद्र वाकृतिः
तां कश्चित्प्राह पक्वेति सातु पाकं न गच्छति ८३
जलशूकवदङ्गानि सा विध्यति विशेषतः
सप्ताहाद्वादशाहाद्वा शान्तिं याति विनौषधम् ८४
यदि वा भेषजं दद्यात्खदिराष्टकनिर्मितम्
कषायं हि तदा दद्यात्कोद्र वायाः प्रशान्तये ८५
ऊष्मणा तूष्मजारूपा सकण्डूः स्पर्शनप्रिया
नाम्ना पाणिसहा ख्याता सप्ताहाच्छुष्यति स्वयम् ८६
चतुर्थी सर्षपाकारा पीतसर्षपवर्णिनी
नाम्ना सर्षपिका ज्ञेयाऽभ्यङ्गमत्र विवर्जयेत् ८७
किञ्चिदूष्मनिमित्तेन जायते राजिकाऽकृतिः
एषा भवति बालानां सुखं शुष्यति च स्वयम् ८८
कोठवज्जायते षष्ठी लोहितोन्नतमण्डला
ज्वरपूर्वा व्यथायुक्ता ज्वरस्तिष्ठेद्दिनत्रयम्
स्फोटानां मेलनादेषा बहुस्फोटाऽपि दृश्यते ८९
एकस्फोटा च कृष्णा च बोद्धव्या चर्मजाऽभिधा ९०
एताः सप्तापि बोद्धव्याः शीतलादेब्यधिष्ठिताः
शीतलोचितमाचारमासु सर्वासु वा चरेत् ९१
काश्चिद्विनाऽपि यत्नेन सुखं सिद्ध्य्न्ति शीतलाः
दृष्टाः कष्टतराः काश्चित्काश्चित्सिध्यन्ति वा न वा
काश्चिन्नैव तु सिद्ध्य्न्ति यत्नतोऽपि चिकित्सिताः ९२
इति षष्टितमः शीतलामसूरिकाऽधिकारः समाप्तः ६०

क्षुद्र रोगाधिकारः[सम्पाद्यताम्]

अथैकषष्टितमः क्षुद्र रोगाधिकारः ६१
क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः
पित्तञ्च केशान्पचति पलितं तेन जायते १
लोहचूर्णस्य कर्षं तु दशार्द्धं चूतमज्जतः
धात्रीपलद्वयं पथ्ये द्वे तथैकं बिभीतकम् २
पिष्ट्वा लोहमये भाण्डे स्थापयेन्निशि वासयेत्
लेपोऽयमचिराद्धन्ति पलितं नात्र संशयः ३
काश्मर्या मूलमादौ सहचरकुसुमं केतकस्यापि मूलं
लौहं चूर्ण सभृङ्गं त्रिफलपलयुतं तैलमेभिः पचेद्यः
कृत्वा लौहस्य भाण्डे क्षितितलनिहितं स्थापयेन्मासमेकं
केशाः काशप्रकाशा अपि मधुपनिभा अस्य योगाद्भवन्ति ४
त्रिफला नीलिकापत्रं भृङ्गराजोऽयसो रजः
अविमूत्रेण संपिष्टं लेपात्कृष्णीकरं परम् ५
रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ६
रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः
तदिन्द्र लुप्तं खालित्यं रुह्येति च विभावयेत् ७
तिक्तपटोलीपत्रस्वरसैर्घृष्ट्वा शमं याति
चिरकालजाऽपि रुह्या नियतं दिवसत्रयेणापि ८
गोक्षुरस्तिलपुष्पाणि तुल्ये च मधुसर्पिषी
शिरः प्रलेपितं तेन केशैः समुपचीयते ९
हस्तिदन्तमसीं कृत्वा छागीदुग्धं रसाञ्जनम्
लोमान्येतेन जायन्ते लेपात्पाणितलेष्वपि १०
यष्टीन्दीवरमृद्वीकातैलाज्यक्षीरलेपनैः
इन्द्र लुप्तं शमं याति केशाः स्युश्च घना दृढाः ११
जातीकरञ्जवरुण करवीराग्निपाचितम्
तैलमभ्यञ्जनाद्धन्यादिन्द्र लुप्तं न संशयः १२
स्नुहीपयः पयोऽकस्य लाङ्गली मार्कवो विषम्
अजामूत्रं सगोमूत्रं रक्तिका सेन्द्र वारुणी १३
सिद्धार्थकस्तीक्ष्णगन्धा सम्यगेभिर्विपाचितम्
तैलं भवति नियमात्खालित्यव्याधिनाशनम् १४
दारुणा कण्डुरा रूक्षा केशभूमिः प्रजायते
मारुतश्लेष्मकोपेन विद्याद्दारुणकन्तु तत् १५
कार्यो दारुणके मूर्ध्नि प्रलेपोमधुसंयुतः
प्रियालबीजमधुककुष्ठमाषैः ससैन्धवैः १६
आम्रबीजं तथा पथ्या द्वयं स्यान्मात्रया समम्
दुग्धेन पिष्टं तल्लेपो दारुणं हन्ति दारुणम्
दुग्धेन खाखसं बीजं प्रलेपाद्दारुणं हरेत् १७
गुञ्जाफलैः शृतं तैलम्भृङ्गराजरसेन च
कण्डूदारुणहृत्कुष्ठकापालव्याधिनाशनम् १८
अरुंषि बहुवक्त्राणि बहुक्लेदीनि मूर्द्धनि
कफासृक्कृमिकोपेन तानि विद्यादरुंषिकाम् १९
नीलोत्पलस्य किञ्जल्को धात्रीफलसमन्वितः
यष्टीमधुकयुक्तश्च लेपाद्धन्यादरूषिकाम् २०
त्रिफलाऽयोरजोयष्टीमार्कवोत्पलसारिवाः
सैन्धवं पक्वमेतैस्तु तैलं हन्यादरुंषिकाम् २१
पिडकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम्
सर्वात्मिकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् २२
पैत्तिकस्य विसर्पस्य याचिकित्सा प्रकीर्त्तिता
तयैव भिषगेताञ्च चिकित्सेदिरिवेल्लकाम् २३
कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम्
स्थिरां पनसिकां तान्तु विद्याद्वातकफोत्थिताम् २४
भिषक् पनसिकां पूर्वं स्वेदयेदथ लेपयेत् २५
कल्कैर्मनः शिलाकुष्ठनिशातालकदारुभिः
पक्वां विज्ञाय तां भित्त्वा व्रणवत्समुपाचरेत् २६
वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः
स्थिरो मन्दरुजः स्निग्धः ज्ञेयः पाषाणगर्दभः २७
पाषाणगर्दभं पूर्वं स्वेदयेत्कुशलो भिषक्
ततः पनसिकाप्रोक्तैः कल्कैरुष्णैः प्रलेपयेत् २८
गतश्लैष्मिकशोथघ्नैः कल्कैरन्यैश्च लेपयेत्
परिपाकगतं भित्वा व्रणवत्तमुपाचरेत् २९
जलौकोभिर्हृते रक्ते स शाम्यति विनौषधम्
एतत्स्थलेषु बहुषु प्रेक्षितं लिखितं ततः ३०
शाल्मलीकण्टकप्रख्याः कफमारुतरक्तजाः
जायन्ते पिडका यूनां ज्ञेयास्ता मुखदूषिकाः ३१
अथ मुखदूषिकाचिकित्सा
अङ्गुलस्य चतुर्थांशो मुखलेपो विधीयते
मध्यमस्तु त्रिभागः स्यादुत्तमोऽद्धाङ्गुलो भवेत् ३२
स्थितिकालोऽपि तस्योक्तो यावत्कल्को न शुष्यति
शुष्कस्तु गुणहीनः स्यात्तथा दूषयति त्वचम् ३३
लोध्रधान्यवचालेपस्तारुण्यपिडकाऽपहः
तद्वद्ग्रोरोचनायुक्तं मरिचं मुखलेपितम् ३४
सिद्धार्थकवचालोध्रसैन्धवैश्च प्रलेपनम्
वमनञ्च निहन्त्याशु पिडकां यौवनोद्भवाम् ३५
केवलाः पयसा पिष्टास्तीक्ष्णाः शाल्मलिकण्टकाः
आलिप्तं त्र्! यहमेतेन भवेत्पद्मोपमं मुखम् ३६
क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः
मुखमागत्य सहसा मण्डलं प्रसृजत्यतः
नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् ३७
कृष्णमेवङ्गुणं वक्त्रे गात्रे वा नीलिकां विदुः ३८
शिरोवेधैः प्रलेपैश्च तथाऽभ्यङ्गैरुपाचरेत्
व्यङ्गं च नीलिकां वाऽपि न्यच्छञ्च तिलकालकम् ३९
वटङ्कुरा मसूराश्च प्रलेपाद्व्यङ्गनाशनम्
व्यङ्गे मञ्जिष्ठया लेपः प्रशस्तो मधुयुक्तया ४०
अथवा लेपनं शस्तं शशस्य रुधिरेण च
व्यङ्गहृद्वरुणत्वक्स्यादजामूत्रेण पेषिता ४१
जातीफलस्य लेपस्तु हरेद्व्यङ्गञ्च नीलिकाम्
अर्कक्षीरहरिद्रा भ्यां मर्दयित्वा प्रलेपनात्
मुखकार्ष्ण्यं शमं याति चिरकालोद्भवं ध्रुवम् ४२
मसूरैः क्षीरसम्पिष्टैर्लिप्तमास्यं घृतान्वितैः
सप्तरात्राद्भवेत्सत्यं पुण्डरीकदलोपमम्
वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम् ४४
कुष्ठं कालीयकं लोध्रमेभिर्लैपं प्रयोजयेत्
युवानपिडकानां तु व्यङ्गानां तु विनाशनम्
स्यादेतेन मुखञ्चापि वर्जितं नीलिकादिभिः ४५
कुङ्कुमं चन्दनं लोघ्रं पतङ्गं रक्तचन्दनम्
कालीयकमुशीरञ्च मञ्जिष्ठा मधुयष्टिका ४६
पत्रकं पद्मकं पद्मं कुष्ठं गोरोचना निशा
लाक्षा दारुहरिद्रा च गैरिकं नागकेशरम् ४७
पलाशकुसुमञ्चापि प्रियङ्गुश्च वटाङ्कुराः
मालती च मधूच्छिष्टं सर्षपः सुरभिर्वचा ४८
चतुर्गुणपयः पिष्टैरेतैरक्षमितैः पृथक्
पचेन्मन्दाग्नि वैद्यस्तैलं प्रस्थद्वयोन्मितम् ४९
वदनाभ्यञ्जनादेतद्व्यङ्गं नीलिकया सह
तिलकं माषकं न्यच्छं नाशयेन्मुखमदूषिकाम् ५०
पद्मिनीकण्टकञ्चापि हरेज्जतुमणिं तथा
विदध्याद्वदनं पूर्णचन्द्र मण्डलसुन्दरम् ५१
ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दोषैः
ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमेणैवगतः प्रवृद्धिम् ५२
मुखैरनेकैः स्रुतितोदवद्भिर्विसर्पवत्सर्पति चोन्नताग्रैः
वल्मीकमाहुर्भिषजो विकारं निष्प्रत्यनीकं चिरजं विशेषात् ५३
पाणिपादोपरिष्टात्तु च्छिद्रै र्बहुभिरावृतम्
वल्मीकं यत्सशोफं स्याद्वर्ज्यं तद्धि विजानता ५४
शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत्
विधानेनार्बुदोक्तेन शोधयित्वा च रोपयेत् ५५
वल्मीकं तु भवेद्यस्य नातिवृद्धममर्मजम्
तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक् ५६
कुलत्थकानां मूलैश्च गुडूच्या लवणेन च
आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च ५७
श्यामामूलैःसपललैः सक्तुमिश्रैः प्रलेपयेत्
सुस्निग्धैश्च सुखोष्णैश्च भिषक्तमुपनाहयेत् ५८
पक्वं तदा विजानीयाद्गतीः सर्वायथाक्रमम्
अभिज्ञाय गतिं छित्वा प्रदिह्यान्मतिमान्भिषक् ५९
संशोध्यदुष्टमांसानि क्षारेण प्रतिसारयेत्
व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान्भिषक् ६०
मनः शिलालभल्लातसूक्ष्मैलाऽगुरुचन्दनैः
जातीपल्लवतक्रैश्च निम्बतैलं विपाचयेत् ६१
वल्मीकं नाशयेत्तद्धि बहुच्छिद्रं बहुव्रणम् ६२
बाहुकक्षांऽसपार्श्वेषु कृष्णस्फोटां सवेदनाम्
पित्तप्रकोपसम्भूतां कक्षां तामिति निर्दिशेत् ६३
एकान्तु तादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम्
त्वग्जातां पित्तकोपेन गन्धनिआ!म्नींइ! मालां प्रचक्षते ६४
कक्षाञ्च गन्धनिआ!म्नीइ! मालाञ्च चिकित्सेच्च चिकित्सकः
पैत्तिकस्य विसर्पस्य क्रियया पूर्वमुक्तया ६५
कक्षाभागेषु विस्फोटा जायन्ते मांसदारणाः
अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः ६६
सप्ताहाद्वा दशाहाद्वा पक्षाद्वा घ्नन्ति मानवम्
तामग्निरोहिणीं विद्यादसाध्यां सान्निपातिकीम् ६७
पित्तवीसर्पविधिना साधयेदग्निरोहिणीम्
रोहिण्यां लङ्घनं कुर्याद्र क्तमोक्षणरूक्षणम्
शरीरस्य च संशुद्धिं तान्तु वृद्धां परित्यजेत् ६८
विदारीकन्दवद् वृत्तां कक्षावङ्क्षणसन्धिषु
रक्तां विदारिकां विद्यात्सर्वजां सर्वलक्षणाम् ६९
विदारिकायां प्रथमं जलौकायोजनं हितम्
पाटनञ्च विपक्वायां ततो व्रणविधिः स्मृतः ७०
नखमांसमधिष्ठाय वातःपित्तञ्च देहिनाम्
करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत् ७१
अभिघातात्प्रदुष्टो यो नखो रूक्षःसितः खरः
भवेत्तं कुनखं विद्यात्कुलीरं वाभिधानतः ७२
चिप्पं रुधिरमोक्षेण शोधनेनाप्युपाचरेत्
गतोष्माणमथैनन्तु सेचयेदुष्णवारिणा ७३
शस्त्रेणापि यथायोग्यमुच्छिद्य स्रावयेत्ततः
व्रणोक्तेन विधानेन रोपयेत्तं विचक्षणः ७४
स्वरसेन हरिद्रा याः पात्रे कृत्वायसेऽभयाम्
घृष्ट्वा तज्जेन कल्केन लिम्पेच्चिप्पं पुनः पुनः ७५
काश्मर्याः सप्तभिः पत्रैः कोमलैः परिवेष्टितः
अङ्गुलीवेष्टकः पुंसां ध्रुवमाशु प्रशाम्यति ७६
श्लेष्मविद्र धिकल्पेन कुनखं समुपाचरेत् ७७
नखकोटिप्रविष्टेन टङ्कणेन न शाम्यति
कुनखश्चेत्तदा शैलः सलिले प्लवतेऽपि च ७८
मर्दनात्पीडनाद्वापि तथैवाप्यभिघाततः
मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरन् ७९
तदा वातोपसृष्टन्तु तच्चर्म परिवर्त्तते
सवेदनं सदाहं च पाकञ्च व्रजति क्वचित् ८०
मणेरधस्तात्कोषस्तु ग्रन्थिरूपेण लम्बते
सरुजां वातसम्भूतां विद्यात्तां परिवर्त्तिकाम्
सकण्डूः कठिना चापि सैव श्लेष्मसमन्विता ८१
परिवर्त्तिं घृताभ्यक्तां सुस्विन्नामुपनाहयेत्
त्रिरात्रं पञ्चरात्रञ्च वातघ्नैः शाल्वणादिभिः ८२
ततोऽभ्यज्य शनैश्चर्म पाटयेत्पीडयेन्मणिम्
प्रविष्टे चर्मणि मणौ स्वेदयेदुपनाहनैः ८३
दद्याद्वातहरान्वस्तीन् स्निग्धान्यन्नानि भोजयेत् ८४
अल्पीयःखां यदा हर्षाद् बलाद्गच्छेत्स्त्रियं नरः
हस्ताभिघातादथवा चर्मण्युद्वर्त्तिते बलात् ८५
मर्दनात्पीडनाद्वापि शुक्रवेगाभिघाततः
यस्यावपाट्यते चर्म तं विद्यादवपाटिकाम् ८६
वातेन कर्कशा रूक्षा सूक्ष्मा कृष्णा रुगन्विता
पित्तेन पीता रक्ता वा दाहतृष्णासमन्विता
श्लेष्मणा कठिना स्निग्धा कण्डूमत्स्वल्पवेदना ८७
स्नेहस्वेदैरिमां वैद्यश्चिकित्सेदवपाटिकाम् ८८
वातोपसृष्टे मेढ्रे तु चर्म संश्रयते मणिम्
मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च
निरुद्धप्रकशे तस्मिन्मन्दधारमवेदनम्
मूत्रं प्रवर्त्तते जन्तोर्मणिर्विव्रियते न च ९०
निरुद्धप्रकशं विद्यात्सरुजं वातसम्भवम् ९१
निरुद्धप्रकशे नाडीं लौहीमुभयतोमुखीम्
दारवीं जतुकृतां वा घृताक्तां सम्प्रवेशयेत् ९२
परिषिञ्चेद्वसां मज्जां शिशुमारवराहयोः
चक्रतैलं तथा योज्यं वातघ्नद्र व्यसंयुतम् ९३
त्र्! यहात्स्थूलतरां सम्यङ् नाडीं मार्गे प्रवेशयेत्
स्रोतो विवर्द्धयेदेवं स्निग्धमन्नञ्च भोजयेत्
भित्वा वा सेवनीं मुक्त्वा सद्यः क्षतवदाचरेत् ९४
वेगसन्धारणाद्वायुर्विहतो गुदसंश्रितः
निरुणद्धि महत्स्रोतः सूक्ष्मद्वारं करोति च ९५
मार्गस्य सौक्ष्म्यात्कृच्छ्रेण पुरीषं तस्य गच्छति
सन्निरुद्ध गुदं व्याधिमेतं विद्यात्सुदुस्तरम् ९६
सन्निरुद्धगुदे तैलैः सेको वातहरैर्हितः
तथा निरुद्धप्रकशक्रियाऽपि कथिताऽथवा ९७
स्नानोत्सादनहीनस्य मलो वृषणसंस्थितः
प्रक्लिद्यते यदा स्वेदात्कण्डूं जनयते तदा ९८
ततः कण्डूयनात्क्षिप्रं स्फोटः स्रावश्च जायते
प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम् ९९
सर्जाह्वकुष्ठसैन्धवसितसिद्धार्थैः प्रकल्पितो योगः
उद्वर्त्तनेन नियतं शमयति वृषणस्य कण्डूतिम् १००
भिषग्वृषणकच्छूं तु चिकित्सेत्पामरोगवत्
अहिपूतननिर्दिष्टक्रिययाऽपि च तां हरेत् १०१
शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत्
स्विन्ने वाऽस्नाप्यमानस्य कण्डू रक्तकफोद्भवा १०२
कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते
एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम् १०३
तत्र संशोधनैः पूर्वं धात्रीस्तन्यं विशोधयेत्
त्रिफलाखदिरक्वाथैर्व्रणानां क्षालनं हितम्
शङ्खसौवीरयष्ट्याह्वैर्लेपः कार्योऽहिपूतने १०४
प्रवाहिकाऽतिसाराभ्यां निर्गच्छति गुदं बहिः
रूक्षदुर्बलदेहस्य गुदभ्रंशं तमादिशेत् १०५
गुदभ्रंशे गुदं स्विन्नं स्नेहेनाक्तं प्रवेशयेत्
प्रविष्टं रोधयेद्यत्नाद्गव्यसच्छिद्र चर्मणा १०६
पद्मिन्याः कोमलं पत्रं यः खादेच्छर्कराऽन्वितम्
एतन्निश्चित्य निर्दिष्टं न तस्य गुदनिर्गमः १०७
मूषकाणां वसाभिर्वा गुदभ्रंशे प्रलेपनम्
सुस्विन्नं मूषिकामांसेनाथवा स्वेदयेद् गुदम् १०८
वृक्षाम्लानलचङ्गेरीबिल्वपाठायवाग्रजम्
तक्रेण शीलयेत् पायुभ्रंशार्त्तोऽनलदीपनम् १०९
मूषका दशमूलानि गृह्णीयादुभयं समम्
तयोः क्वाथेन कल्केन पचेत्तैलं यथोदितम् ११०
अभ्यङ्गात्तस्य तैलस्य गुदभ्रंशो विनश्यति
विनश्यति तथाऽनेन गुदशूलं भगन्दरम् १११
सदाहो रक्तपर्यन्तस्त्वपाकी तीव्रवेदनः
कण्डूमाञ्ज्वरकारी च स स्याच्छूकरदंष्ट्रकः ११२
भृङ्गराजकमूलस्य रजन्या सहितस्य च
चूर्णन्तु सहसा लेपाद्वाराहद्विजनाशनम् ११३
राजीवमूलकल्कःपीते गव्येन सर्पिषा प्रातः
शमयति शूकरदंष्ट्रं दंष्ट्रोद्भूतंज्वरं घोरम् ११४
रजनी मार्कवं मूलं पिष्टं शीतेन वारिणा
तल्लेपाद्धन्ति वीसर्पवाराहदशनाह्वयम् ११५
गम्भीरामल्पशोथां च सवर्णामुपरिस्थिताम्
पाकस्यानुशयीं तान्तु विद्यादन्तः प्रपाकिनीम् ११६
हरेदनुशयीं वैद्यः क्रियया श्लेष्मविद्र धेः ११७
क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहसमन्वितौ
दुष्टकर्दमसंस्पर्शादलसं तं विभावयेत् ११८
पादौ सिक्त्वाऽरनालेन लेपनं त्वलसे हितम्
पटोलकुनटीनिम्बरोचनामरिचैस्तिलैः ११९
क्षुद्रा स्वरससिद्धेन कटुतैलेन लेपयेत्
ततः कासीसकुनटीतिलचूर्णैर्विचूर्णयेत् १२०
करञ्जबीजं रजनी कासीसं पद्मकं मधु
रोचना हरितालञ्च लेपोऽयमलसे हितः १२१
परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः
पादयोः कुरुते दारीं सरुजां तलसंश्रिताम् १२२
पाददार्यां शिरां प्राज्ञो मोचयेत्तलशोधिनीम्
स्नेहस्वेदोपपन्नौ तु पादौ वा लेपयेन्मुहुः
मधूच्छिष्ठवसामज्जाघृतैः क्षारविमिश्रितैः १२३
सर्जाह्वसिन्धूद्भवयोश्चूर्णं घृतमधुप्लुतम्
निर्मथ्य कटुतैलाक्तं हितं पादप्रमार्जने १२४
मधुसिक्थकगैरिकवृतगुडमहिषाक्षशालनिर्यासैः
गैरिकसहितैर्लेपः पाकस्फुटनापहः सिद्धः १२५
उन्मत्तकस्य बीजेन मानकक्षारवारिणा
विपक्वं कटुतैलन्तु हन्याद्दारीं न संशयः १२६
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः
ग्रन्थिः कोलवदुत्सन्नो जायते कदरस्तु सः १२७
दहेत्कदरमुद्धृत्य तैलेन दहनेन वा १२८
कृष्णानि तिलमात्राणि नीरुजानि तमानिच
वातपित्तकफोद्रे कात्तान्विद्यात्तिलकालकान् १२९
अवेदनं स्थिरञ्चैव यत्तु गात्रे प्रदृश्यते
माषवत्कृष्णमुत्सन्नमनिलान्मशकं दिशेत् १३०
वित्वचस्तनवः स्फोटाः सूक्ष्माग्राः श्यावपिण्डिकाः
भवन्ति कफपित्ताभ्यां क्षिप्रं नाशं प्रयान्ति च १३१
सममुत्सन्नमरुजं मण्डलं कफरक्तजम्
सहजं लक्ष्म चैकेषां लक्ष्यो जतुमणिश्च सः १३२
कृष्णः स्निग्धो जतुमणिर्ज्ञेयः श्लेष्मोत्तरैस्त्रिभिः
अरुजं त्वपरे रक्तं लक्ष्मेत्याहुर्भिषग्वराः १३३
चर्मकीलं जतुमणिं मशकांस्तिकालकान्
उत्कृत्य शस्त्रेण दहेत्क्षाराग्निभ्यामशेषतः १३४
महद्वा यदि वा चाल्पं श्यावं वा यदि वाऽसितम्
नीरुजं मण्डलं गात्रे न्यच्छं तदभिधीयते १३५
शिरावेधैः प्रलेपैश्च तथाऽभ्यङ्गैरुपाचरेत्
न्यच्छं लिम्पेत्पयः पित्तैः कल्कैः क्षीरतरूद्भवैः १३६
त्रिभुवनविजयापत्रं मूलं स्थविरस्य शिंशपा चैभिः
उद्वर्त्तनं विरचितं न्यच्छव्यङ्गापहं सिद्धम् १३७
कण्टकैराचितं वृत्तं कण्डूमत्पाण्डु मण्डलम्
पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम् १३८
पद्मिनीकण्टके रोगे छर्दयेन्निम्बवारिणा
तेनैव सिद्धं सक्षौद्रं सर्पिः पातुं प्रदापयेत् १३९
निम्बारग्वधकल्कैर्वा मुहुरुद्वर्त्तनं हितम् १४०
चतुर्गुणेन निम्बोत्थपत्रक्वाथेन गोघृतम्
पचेत्ततस्तु निम्बस्य कृतमालस्य पत्रजैः १४१
कल्कैर्भूयः पचेत्सिद्धं तत्पिबेत्पलसम्मितम्
पद्मिनीकण्टकाद्रो गान्मुक्तो भवति नान्यथा १४२
स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा
कफवातोत्थिता ज्ञेया बालानामजगल्लिका १४३
तत्राजगल्लिकां सामां जलौकोभिरुपाचरेत्
शुक्तिसौराष्ट्रिकाक्षारकल्कैश्चालेपयेन्मुहुः
कठिनां क्षारयोगेन द्रा वयेदजगल्लिकाम् १४४
यवाकारा प्रकठिना ग्रथिता मांससंश्रया
पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते १४५
घनामवक्रां पिडकामुन्नतां परिमण्डलाम्
अन्त्रालजीमल्पपूयां तां विद्यात्कफवातजाम् १४६
अन्त्रालजीयवप्रख्ये पूर्वं स्वेदैरुपाचरेत्
मनःशिलादेवदारुकुष्ठकल्कैः प्रलेपयेत्
पक्वां व्रणविधानेन तथोक्तेन प्रसाधयेत् १४७
विवृतास्यां महादाहां पक्वोदुम्बरसन्निभाम्
विवृतामिति तां विद्यात्पित्तोत्थां परिमण्डलम् १८८
पद्मकर्णिकवन्मध्ये पिडकां पिडकाचिताम्
इन्द्र विद्धान्तु तां विद्याद्वातपित्तोत्थितां भिषक्
मण्डलं वृतमुत्सन्नं सरक्तं पिडकाचितम्
रुजाकरीं गर्दभिकां तां विद्याद्वातपित्तजाम्
विसर्पवत्सर्पति यः शोथस्तनुरपाकवान्
दाहज्वरकरः पित्तात्सज्ञेयो जालगर्दभः १५१
विवृतामिन्द्र विद्धाञ्च गर्दभीं जालगर्दभम्
पैत्तिकस्य विसर्पस्य क्रिययासाधयेद् भिषक्
पाके तु रोपयेदाज्यैः पक्वैर्मधुरभेषजैः १५२
ग्रथिताः पञ्च वा षड् वा दारुणाः कच्छपोन्नताः
कफानिलाभ्यां पिडकाः सा स्मृता कच्छपी बुधैः १५३
कच्छपीं स्वेदयेत्पूर्वं तत एव प्रलेपयेत् १५४
कल्कीकृतैर्निशा कुष्टसितातालकदारुभिः
तां पक्वां साधयेच्छीघ्रं भिषग्व्रणचिकित्सया १५५
प्राप्य मांसशिरास्नायुमेदः श्लेष्मा तथाऽनिलः
ग्रन्थिं करोत्यसौ भिन्नो मधुसर्पिर्वसानिभम् १५६
स्रवति स्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः
मांसं विशोष्य ग्रथितां शर्करां जनयत्यतः १५७
दुर्गन्धं क्लिन्नमत्यर्थं नानावर्णं ततः शिराः
स्रवन्ति सहसा रक्तं तां विद्याच्छर्कराऽबुदम् १५८
मेदोऽबुदविधानेन साधयेच्छर्कराऽबुदम् १५९
शक्तस्य चाप्यनुत्साहः कर्मण्यालस्यमुच्यते
अस्वास्थ्यं चिन्तयाऽत्यर्थमरतिः कथ्यते बुधैः १६०
उत्क्लिश्यान्नं न निर्गच्छेत्प्रसेकः ष्ठीवनोरितम्
हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत् १६१
वक्त्रे मधुरता तन्द्रा हृदयोद्वेष्टनं भ्रमः
न चान्नं रोचते यस्मै ग्लानिं तस्य विनिर्दिशेत्
ग्लानिरोजःक्षयाद् दुःखादजीर्णाच्च श्रमाद्भवेत् १६२
उदानकोपादाहारसुस्थितत्वाच्च यद्भवेत्
पवनस्योर्ध्वगमनं तमुद्गारं प्रचक्षते १६३
आटोपो गुडगुडाशब्दः प्रोक्तो जठरसम्भवः
तमःस्थस्येव यज्ज्ञानं तत्तमः कथ्यते बुधैः १६४
इत्येक षष्टितमः क्षुद्र रोगाधिकारः समाप्तः ६१

शिरोरोगाधिकारः[सम्पाद्यताम्]

अथ द्विषष्टितमः शिरोरोगाधिकारः ६२
शिरोरोगास्तु जायन्ते वातपित्तकफैस्त्रिभिः
सन्निपातेन रक्तेन क्षयेण कृमिभिस्तथा १
सूर्यावर्त्तानन्तवातशङ्ख कार्द्धावभेदकाः
एकादशविधस्यास्य लक्षणानि प्रचक्षते २
यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम्
बन्धोपतापैः प्रशमो भवेच्च शिरोऽभितापः स समीरणेन ३
यस्योष्णमङ्गारचितं यथैव भवेच्छिरो दह्यति चाक्षिनासम्
शीतेन रात्रौ च भवेच्छ्रमश्च शिरोऽभितापः स तु पित्तकोपात् ४
शिरो भवेद् यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमञ्च
शूनाक्षिनासावदनञ्च यस्य शिरोऽभितापः स कफप्रकोपात् ५
शिरोऽभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति ६
रक्तात्मकः पित्तसमावलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च ७
वसाबलासक्षतसम्भवानां शिरोगतानामतिसङ्क्षयेण
क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम्
संस्वेदनच्छर्दनधूमनस्यैरसृग्विमोक्षैश्च विवृद्धिमेति ८
अङ्गं भ्रमति तुद्येत शिरो विभ्रान्तनेत्रता
मूर्च्छा गात्रावसादश्च शिरोरोगे क्षयात्मके ९
निस्तुद्यते यस्य शिरोऽतिमात्रं सम्भक्ष्यमाणं स्फुरतीव चान्तः
घ्राणाच्च गच्छेद्रुधिरं सपूयं शिरोऽभितापः कृमिभिः स घोरः १०
सूर्योदयं या प्रति मन्दमन्दमक्षिभ्रुवौ रुक् समुपैति गाढम्
विवर्द्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्त्तते च ११
शीतेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाद्वा
सर्वात्मकं कष्टतमं विकारं सूर्यापवर्त्तं तमुदाहरन्ति १२
दोषास्तु दुष्टास्त्रय एव मन्यां सम्पीड्य गाढं स्वरुजां सुतीव्राम्
कुर्वन्ति योऽक्ष्णि भ्रुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु १३
गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजान्विकारान्
अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम् १४
पित्तरक्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः
तीव्ररुग्दाहरागं हि शोथं कुर्वन्ति दारुणम् १५
स शिरो विषवद्वेगान्निरुध्याशु गलं तथा
त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः
त्र्! यहं जीवति भैषज्यं प्रत्याख्यायास्य कारयेत् १६
रूक्षाशनाद्यध्यशनप्राग्वातावश्यमैथुनैः
वेगसन्धारणायासव्यायामैः कुपितोऽनिलः १७
केवलः सकफो वाऽद्ध गृहीत्वा शिरसो बली
मन्याभ्रूशङ्खकर्णाक्षिललाटार्द्धेषु वेदनाम् १८
शस्त्राशनिनिभां कुर्यात्तीव्रां सोऽद्धावभेदकः
नयनं वाऽथवा श्रोत्रमतिवृद्धो विनाशयेत् १९
वातजातशिरोरोगे स्नेहस्वेदं विघर्षणम्
पानाहारोपनाहांश्च कुर्याद्वातामयापहान् २०
कुष्ठमेरण्डमूलञ्च नागरं तक्रपेषितम्
कदुष्णं शिरसः पीडां भाले लेपनतो हरेत् २१
रसः श्वासकुठारो यस्तस्य नस्यं विशेषतः
शिरः शूलं हरत्येव विधेयो नात्र संशयः २२
आ शिरो व्यायतं चर्म षोडशाङ्गुलमुच्छ्रितम्
तेनावेष्ट्य शिरोऽधस्तान्माषकल्केन लेपयेत् २३
निश्चलस्योपविष्टस्य तैलैः कोष्णैः प्रपूरयेत्
धारयेदारुजः शान्तेर्यामंयामार्द्धमेव वा २४
शिरोवस्तिर्हरत्येष शिरोरोगं मरुद्भवम्
हनुमन्याऽक्षिकर्णार्त्तिमर्दितं मूर्द्धकम्पनम् २५
विना भोजनमेवैष शिरोवस्तिः प्रयुज्यते
दिनानि पञ्च वा सप्त रुचितोऽग्रे ततोऽपि च २६
ततोऽपनीतस्नेहस्तु मोचयेद्वस्तिबन्धनम्
शिरोललाटवदनं ग्रीवांऽसादीन्विमर्दयेत् २७
सुखोष्णेनाम्भसा गात्रं प्रक्षाल्याश्नाति यद्धितम्
आमिषं जाङ्गलं पथ्यं तत्र शाल्यादयोऽपि च २८
मुद्गमाषान्कुलत्थांश्च खादेद्वा निशि केवलान्
कटुकोष्णान्ससर्पिष्कानुष्णं क्षीरं पिबेत्तथा २९
पित्तात्मके शिरोरोगे शीतानां चन्दनाम्भसा
कुमुदोत्पलपद्मानां स्पर्शाः सेव्याश्च मारुताः ३०
सर्पिषः शतधौतस्य शिरसा धारणं हितम्
रसः श्वासकुठारोऽल्प कर्पूरः कुङ्कुमं नवम् ३१
सिता छागीपयः सर्वं चन्दनेनानुघर्षयेत्
तस्य नस्यं भिषग्दद्यात्पित्तजायां शिरोरुजि
किन्तु मस्तकशूलेषु सर्वेष्वेवं हितं मतम् ३२
गुडनागरकल्कस्य नस्यं मस्तकशूलनुत् ३३
रक्तजे पित्तवत्सर्वं भोजनालेपसेचनम्
शीतोष्णयोश्च विन्यस्य विशेषो रक्तमोक्षणम् ३४
कफजे लङ्घनं स्वेदो रूक्षोष्णैः पावकात्मकैः
सन्निपातभवे कार्या सन्निपातहरी क्रिया
पुराणसर्पिषः पानं विशेषेण दिशन्ति हि ३५
एरण्डमूलं तगरं शताह्वा जीवन्तिका रास्निकसैन्धवं च
भृङ्गं विडङ्गं मधुयष्टिका च विश्वौषधं कृष्णतिलस्य तैलम् ३६
अजापयस्तैलविमिश्रितञ्च चतुर्गुणं भृङ्गरसे विपक्वम्
षड्बिन्दवो नासिकया प्रदेयाः सर्वान्निहन्युः शिरसो विकारान् ३७
च्युतांश्च केशान्पलितांश्च दन्तान्निर्बन्धमूलान्सुदृढीकरोति
सुपर्णगृध्रप्रतिमञ्च चक्षुः कुर्वन्ति बाह्वोरधिकं बलञ्च ३८
क्षयजे क्षयनाशाय कर्त्तव्यो बृंहणो विधिः
पाने नस्ये च सर्पिः स्याद्वातघ्नैर्मधुरैः शृतम् ३९
कृमिजे व्योषनक्ताह्वशिग्रुबीजैश्च नावनम्
अजामूत्रयुतं नस्यं कर्त्तव्यं कृमिनुत्परम् ४०
सूर्यावर्त्ते विधातव्यं नस्यकर्मादि भेषजम् ४१
कुमार्याः स्वरसप्रस्थे धत्तूरस्य रसे तथा
भृङ्गराजस्य च रसे प्रस्थद्वयसमायुते ४२
चतुःप्रस्थमिते क्षीरे तैलप्रस्थं विपाचयेत्
कल्कैर्मधुकह्रीबेरमञ्जिष्ठा भद्र मुस्तकैः ४३
नखकर्पूरभृङ्गैलाजीवन्ती पद्मकुष्ठकैः
मार्कवासकतालीस सर्जनिर्यासपत्रकैः ४४
विडङ्गशतपुष्पाऽश्व गन्धागन्धर्वहस्तकैः
शोथहृन्नारिकेलाभ्यां कर्षमानैर्विपाचिते ४५
उत्तार्य वस्त्रपूतं तु शुभे भाण्डे सुधूपिते
त्रिरात्रमथ गुप्तञ्च धारयेद्विधिवद्भिषक् ४६
ततस्तु तैलमभ्यङ्गे मूर्ध्नि क्षेपे नियोजयेत्
शमयेदर्दितं गाढं मन्यास्तम्भशिरोगदान् ४७
तालुनासाऽक्षिजातन्तु शोषं मूर्च्छां हलीमकम्
हनुग्रहगदार्त्तिं वा बाधिर्यं कर्णवेदनाम् ४८
योजयेत्सगुडं सर्पिर्घृतपूरांश्च भक्षयेत्
नावनं क्षीरसर्पिर्भ्यां पानञ्च क्षीरसर्पिषोः ४९
क्षीरपिष्टैस्तिलैः स्वेदो जीवनीयैश्च शस्यते
भृङ्गराजरसश्छागी क्षीरतुल्योऽकतापितः
सूर्यावर्त्तं निहन्त्याशु नस्येनैव प्रयोगराट् ५०
अर्द्धावभेदके पूर्वं स्नेहस्वेदौ हि भेषजम्
विरेकः कायशुद्धिश्च धूपः स्निग्धोष्णभोजनम् ५१
विडङ्गानि तिलान्कृष्णान्समान्पिष्टान्विलेपयेत्
नस्यञ्चाप्याचरेत्तस्मादर्द्धभेदो व्यपोहति ५२
पिबेत्सशर्करं क्षीरं नीरं वा नारिकेलजम्
सुशीतं वाऽपि पानीयं सर्पिर्वा नस्यतस्तयोः ५३
अनन्तवाते कर्त्तव्यः सूर्यावर्तहितो विधिः
शिरावेधश्च कर्त्तव्योऽनन्तवातप्रशान्तये ५४
आहारश्च प्रदातव्यो वातपित्तविनाशनः
मधुमस्तकसंयावो घृतपूपो विशेषतः ५५
पथ्याऽक्षधात्रीरजनीगुडूचीभूनिम्बनिम्बैःसगुडः कषायः
भ्रूशङ्खकर्णाक्षिशिरोऽद्धशूलं निहन्ति नासानिहितः क्षणेन ५६
दार्वीः हरिद्रा मञ्जिष्ठा सनिम्बोशीरपद्मकम्
एतत्प्रलेपनं कुर्याच्छङ्खकस्य प्रशान्तये ५७
शीततोयाभिषेकश्च शीतलक्षीरसेवनम्
कल्पश्च क्षीरवृक्षाणां शङ्खके लेपनंहितम् ५८
यष्टीमधुकमाषः स्यात्तुर्यांशं तु विषं भवेत्
तयोश्चूर्णं सुसूक्ष्मं स्यात्तच्चूर्णं सर्षपोन्मितम् ५९
नासिकाऽभ्यन्तरे न्यस्तं सर्वां शीर्षव्यथांहरेत्
दृष्टप्रयोगो योगोऽयमनुभाविभिरादृतः ६०
आद्र रं! यच्छुक्तिकाचूर्णं चूर्णितं नवसादरम्
उभयं योजितं तस्य गन्धान्नश्यति शीर्षरुक् ६१
इति द्विषष्टित्तमः शिरोरोगाधिकारः समाप्तः ६२

नेत्ररोगाधिकारः[सम्पाद्यताम्]

अथ त्रिषष्टितमो नेत्ररोगाधिकारः ६३
विद्याद्द्व्यङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसम्मितम्
द्व्यङ्गुलंसर्वतः सार्द्धं भिषङ् नयनमण्डलम् १
पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु
अनुपूर्वन्तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम् २
द्वादश व्याधयो दृष्टौ तत्रैवान्यौ गदावुभौ
कृष्णमार्गे तु चत्वारो दशैकः शुक्लभागजाः ३
वर्त्मन्येको विंशतिश्च पक्ष्मजौ द्वौ प्रकीर्त्तितौ
नव सन्धिषु सर्वस्मिन्नेत्रे सप्तदशोदिताः
एवं नेत्रे समस्ताः स्युरष्टसप्ततिरामयाः ४
वाताद्दश तथा पित्तात्कफाच्चैव त्रयोदश ५
रक्तात्षोडश विज्ञेयाः सर्वजाः पञ्चविशतिः
बाह्यौ पुनर्द्वौ नयने रोगाः षट्सप्ततिः स्मृताः ६
उष्णाभितप्तस्यजलप्रवेशाद् दूरेक्षणात्स्वप्नविपर्ययाच्च
स्वेदाद्र जोधूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् ७
शुक्तारनालाम्बुकुलत्थमाषाद्विण्मूत्रवातागमनिग्रहाच्च
प्रसक्तसंरोदनशोकतापाच्छिरोऽभिघातादतिशीघ्रयानात् ८
तथा ॠतूनाञ्च विपर्ययेण क्लेशाभितापादतिमैथुनाच्च
बाष्पग्रहात्सूक्ष्मनिरीक्षणाच्च नेत्रे विकारं जनयति दोषाः ९
शिराऽनुसारिभिर्दोषैर्विगुणैरूर्ध्वमाश्रितैः
जायन्ते नेत्रभागेषु रोगाः परमदारुणाः १०
मसूरदलमात्रां तु पञ्चभूतप्रसादजाम्
खद्योतविस्फुलिङ्गाभां सिद्धां तेजोभिरव्ययैः ११
आवृतां पटलेनाक्ष्णोर्बाह्येन विवराकृतिम्
शीतसात्म्यां नृणां दृष्टिमाहुर्नयनचिन्तकाः १२
तेजोजलाश्रितं बाह्यं तेष्वन्यत्पिशिताश्रितम्
मेदस्तृतीयं पटलमाश्रितं त्वस्थ्नि चापरम्
पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते १३
प्रथमे पटले यस्य दोषो दृष्टेर्व्यवस्थितः
अव्यक्तानि स्वरूपाणि कदाचिदथ पश्यति १४
दृष्टिर्भृशं विह्वलति द्वितीयं पटले गते
मक्षिकामशकान् केशाञ्चालकानीव पश्यति १५
मण्डलानि पताकाश्च मरीचीन्कुण्डलानि च
परिप्लवांश्च विविधान्वर्षमभ्रं तमांसि च १६
दूरस्थानि च रूपाणि मन्यते च समीपतः
समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात् १७
यत्नवानपि चात्यर्थं सूचीच्छिद्रं न पश्यति १८
ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते
सुमहान्त्यपि रूपाणि च्छादितानीव चाम्बरैः १९
कर्णनासाऽक्षिरूपाणि विकृतानि च पश्यति
यथादोषञ्च रज्येत दृष्टिर्दोषे बलीयसि २०
अधःस्थे तु समीपस्थं दूरस्थं चोपरिस्थिते
पार्श्वस्थिते पुनर्दोषे पार्श्वस्थानि न पश्यति २१
समन्ततः स्थिते दोषे संकुलानीव पश्यति
दृष्टिमध्यस्थिते दोषे महद्ध्रस्वं च पश्यति २२
दोषे दृष्टिस्थिते तिर्यगेकं वा मन्यते द्विधा
द्विधास्थिते द्विधा पश्येद्बहुधा चानवस्थिते २३
तिमिराख्यः स यो दोषश्चतुर्थं पटलं गतः
रुणद्धि सर्वतो दृष्टिं लिङ्गनाश इति क्वचित् २४
अस्मिन्नपि तमोभूते नातिरूढे महागदे
चन्द्रा दित्यौ सनक्षत्रावन्तरिक्षे च विद्युतः २५
निर्मलानि च तेजांसि भ्राजिष्णूनीव पश्यति
स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः २६
दृष्ट्याश्रयाः षट् च षडेव रोगाः षड् लिङ्गनाशा हि भवन्ति तत्र
वातेन पित्तेन कफेन सर्वे रक्तात्परिम्लाय्यभिधश्च षष्ठः २७
तथा नरः पित्तविदग्धदृष्टिः कफेन वाऽन्यस्त्वथ धूमदर्शी
यो ह्रस्वजात्यो नकुलान्ध्यसंज्ञो गम्भीरसंज्ञश्च तथैव दृष्टिः २८
वातेन खलु रूपाणि भ्रमन्तीव च पश्यति
आविलान्यरुणाभानि व्याविद्धानीव मानवः २९
पित्तेनादित्यखद्योत शक्रचापतडिद्गुणान्
नृत्यतश्चैव शिखिनः सर्वं नीलञ्च पश्यति ३०
गौरचामरगौराणि श्वेताभ्रप्रतिमानिच
पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसंप्लवम् ३१
कफेन पश्येद्रू पाणि स्निग्धानि च सितानि च
सलिलप्लावितानीव जालकानीव मानवः ३२
सन्निपातेन चित्राणि विप्लुतानि च पश्यति
बहुधाऽपि द्विधा वाऽपि सर्वाण्येव समन्ततः
हीनाधिकाङ्गान्यथ वा ज्योतींष्यपि च पश्यति ३३
पश्ये द्र क्तेनरक्तानि तमांसि विविधानि च
हरितान्यथ कृष्णानि पीतान्यपि च मानवः ३४
रक्तेन मूर्च्छितं पित्तंपरिम्लायिनमाचरेत् ३५
तेन पीता दिशः पश्येदुद्यन्तमिव भास्करम्
विकीर्यमाणान्खद्योतैर्वृक्षांस्तेजोभिरेव हि ३६
वातादिजनितैर्नेत्रवर्णैरपि च षड्विधः
लिङ्गनाशो निगदितो वर्णो वातादिजो यथा ३७
रागोऽरुणो मारुतजः प्रदिष्टो म्लायी च नीलश्च तथैव पित्तात्
कफात्सितः शोणितजः सरक्तः समस्तदोषप्रभवो विचित्रः ३८
अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा
पित्ततो मण्डलं नीलं कांस्याभं वा सपीतकम् ३९
श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम् ४०
चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः
मृद्यमाने तु नयने मण्डलं तद्विसर्पति ४१
मण्डलं तु भवेच्चित्रं लिङ्गनाशे त्रिदोषजे
प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् ४२
रक्तजं मण्डलं दृष्टौ स्थूलकाचारुणप्रभम्
परिम्लायिनि रोगे स्यान्म्लानं नीलमथापि वा
दोषक्षयात्स्वयं तत्र कदाचित्स्यात्तु दर्शनम् ४३
यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ४४
पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्य नरस्य दृष्टिः
पीतानि रूपाणि च तेन पश्येत्स वै नरः पित्तविदग्धदृष्टिः ४५
प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि वीक्षते सः
रात्रौ स शीतानुगृहीतदृष्टिः पित्ताल्पभावात्सकलानि पश्येत् ४६
तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु
त्रिषु स्थितोऽल्प पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य
दिवा स सूर्यानुगृहीतदृष्टिः पश्येत्तु रूपाणि कफाल्पभावात् ४७
शोकज्वरायासशिरोऽभितापैरभ्याहता यस्य नरस्य दृष्टिः
धूमांस्तु यःपश्यति सर्वभावात्स धूमदर्शीति नरः प्रदिष्टः ४८
यो वासरे पश्यति कष्टतोऽथ रूपं महच्चापि निरीक्षतेऽल्पम्
रात्रौ पुनर्यः प्रकृतानि पश्येत्स ह्रस्वजात्यो मुनिभिः प्रदिष्टः ४९
विद्योतते यस्य नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत्
चित्राणि रूपाणि दिवा च पश्येत्स वै विकारो नकुलान्ध्यसंज्ञः ५०
दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कोचमभ्यन्तरतः प्रयाति
रुजाऽवगाढा च तमक्षिरोगे गम्भीरिकेति प्रवदन्ति धीराः ५१
बाह्यौ पुनर्द्वाविह सम्प्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च
निमित्ततस्तत्र शिरोऽभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैः सः ५२
सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्करस्य
हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसञ्ज्ञः ५३
तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः
विदीर्यते सीदति हीयते वा नृणामभीघातहता तु दृष्टिः ५४
इति दृष्टिगत रोगाः
अथ कृष्णमण्डलजा रोगाः
यत्सव्रणं शुक्लमथाव्रणञ्च पाकात्ययश्चाप्यजका तथैव
चत्वार एते नयनामयास्तु कृष्णप्रदेशे नियता भवन्ति ५५
निमग्नरूपं तु भवेद्धि कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै
स्रावं स्रवेदुष्णमतीव चापि तत्सव्रणं शुक्लमुदाहरन्ति ५६
दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्यत्
अवेदनं यन्न च युग्मशुक्लं तत्सिद्धिमायाति कदाचिदेव ५७
स्यन्दात्मकं कृष्णगतन्तु शुक्लं शङ्खेन्दुकुन्दप्रतिमावभासम्
वैहायसाभ्रप्रतनुप्रकाशमथाव्रणं साध्यतमं वदन्ति ५८
गम्भीरजातं बहलञ्च शुक्लं चिरोत्थितञ्चापि वदन्ति कृच्छ्रम् ५९
विच्छिन्नमध्यं पिशितावृतञ्च चलं शिरासूतमदृष्टिकृच्च
द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितञ्चापि विवर्जनीयम् ६०
उष्णाश्रुपातः पिडका च कृष्णे यस्मिन्भवेन्मुद्गनिभञ्च शुक्लम्
तदप्यसाध्यं प्रवदन्ति केचिदन्ये तु तत्तित्तिरिपक्षतुल्यम् ६१
श्वेतः समाक्रामति सर्वतो हि दोषेण यस्यासितमण्डले तु
तमक्षिपाकात्ययमक्षिकोपं सर्वात्मकं वर्जयितव्यमाहुः ६२
अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलाश्रुः
विगृह्य कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति व्यवस्येत् ६३
इति कृष्णमण्डलजा रोगाः
अथ नेत्रशुक्लभागजा रोगाः
प्रस्तारिशुक्लक्षतजाधिमांसस्नाय्वर्मसंज्ञाः खलु पञ्च रोगाः
स्याच्छुक्तिका चार्जुनपिष्टकौ च जालं शिराणां पिडकाश्च याः स्युः
रोगा बलासग्रथितेन सार्द्धमेकादशाक्ष्णोः खलु शुक्लभागे ६४
प्रस्तार्यर्म तनु स्तीर्णं श्यावं रक्तनिभं सितम् ६५
सुश्वेतं मृदु शुक्लार्म शुक्ले तद् वर्द्धते चिरात् ६६
पद्माभं मृदु रक्तार्म यन्मांसं चीयते सिते ६७
पृथु मृद्वधिमांसार्म बहलञ्च यकृन्निभम् ६८
स्थिरं प्रसारि मांसाढ्यं शुष्कं स्नाय्वर्म पञ्चमम् ६९
श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये
शुक्लाभाः सितनिचिताः स शुक्तिसञ्ज्ञः ७०
एको यः शशरुधिरप्रभस्तु बिन्दुः शुक्लस्थो भवति तमर्जुनं वदन्ति ७१
श्लेष्ममारुतकोपेन शुक्ले मांसं समुन्नतम्
पिष्टवत्पिष्टकं विद्धि मलाक्तादर्शसन्निभम् ७२
जालाभः कठिनशिरोऽरुणः शिराणां
सन्तानो भवति शिराऽदिजालसञ्ज्ञः ७३
शुक्लस्थाः सितपिडकाःशिरावृता यास्ता विद्यादसितसमीपजाः शिराजाः ७४
कांस्याभोऽमृदुरथ वारिबिन्दुकल्पो विज्ञेयो नयनसिते बलाससञ्ज्ञः ७५
इति शुक्ल भागजा रोगा
अथ वर्त्मजा रोगाः
उत्सङ्गिन्यथ कुम्भीका पोथकी वर्त्मशर्करा
तथाऽशोवर्त्म शुष्कार्शस्तथैवाञ्जनदूषिका ७६
अभ्यन्तरमुखी ताम्रा बाह्यतो वर्त्मसंश्रया
सोत्सङ्गोत्सङ्गपिडका सर्वजा स्थूलकण्डुरा ७७
वर्त्मान्ते पिडकाध्माता भिद्यन्ते च स्रवन्ति च
कुम्भीकाबीजसदृशाः कुम्भीकाः सन्निपातजाः ७८
स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः
रुजावत्यश्च पिडकाः पोथक्य इति कीर्त्तिताः ७९
पिडकाभिः सुसूक्ष्माभिर्घनाभिरभिसंवृता
पिडका या खरा स्थूला वर्त्मस्था वर्त्मशर्करा ८०
एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः
श्लक्ष्णाः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीत्तर्यते ८१
दीर्घाङ्कुरः खरः स्तब्धो दारुणोऽभ्यन्तरोद्भवः
व्याधिरेषोऽभिविख्यातः शुष्कार्शो नाम नामतः ८२
दाहतोदवती ताम्रा पिडका वर्त्मसम्भवा
मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जनदूषिका ८३
वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः
सवर्णाभिः स्थिराभिश्च विद्याद्वहलवर्त्म तत् ८४
कण्डूरेणाल्पतोदेन वर्त्मशोफेन मानवः
न समं छादयेदक्षि यत्रासौ वर्त्मबन्धकः ८५
मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च
अकस्माच्च भवेद्र क्तं क्लिष्टवर्त्मेति तद्विदुः ८६
क्लिष्टं पुनः पित्तयुतं शोणितं विदहेद्यदा
तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः ८७
यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम्
सकण्डूकं परिक्लेदि श्याववर्त्मेति तन्मतम् ८८
अरुजं बाह्यतः शूनं वर्त्म यस्य नरस्य हि
प्रक्लिन्नवर्त्म तद्विद्यात्क्लिन्नमत्यर्थमन्ततः ८९
यस्य धौतान्यधौतानि सम्बध्यन्ते पुनः पुनः
वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत् ९०
विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते
एतद्वातहतं विद्यात्सरुजं यदि वारुजम् ९१
वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम्
आचक्षीतार्बुदमिति सरक्तमवलम्बि च ९२
निमेषिणीः शिरा वायुः प्रविष्टो वर्त्मसंश्रयाः
सञ्चालयति वर्त्मानि निमेषः स न सिध्यति ९३
वर्त्मस्थो यो विवर्द्धेत लोहितो मृदुरङ्कुरः
तद्र क्तजं शोणितार्शश्छिन्नं वाऽपि विवर्द्धते ९४
अपाकी कठिनः स्थूलो ग्रन्थिवर्त्मभवोऽरुजः
सकण्डूः पिच्छिलः कोलप्रमाणो लगणः स्मृतः ९५
त्रयो दोषा बहिः शोथं कुर्युश्छिद्रा णि वर्त्मनोः
प्रस्रवन्त्यन्तरुदकं बिसवद्बिसवर्त्म तत् ९६
वाताद्या वर्त्मसंकोचं जनयन्ति मला यदा
तदा द्र ष्टुं न शक्नोति कुञ्चनं नाम तद्विदुः ९७
इति वर्त्मजा रोगाः
अथ पक्ष्मरोगाः
पक्ष्मकोपः पक्ष्मशातो रोगौ द्वौ पक्ष्मसंश्रयौ ९८
प्रचालितानि वातेन पक्ष्माण्यक्षि विशन्ति हि
घृष्यन्त्यक्षि मुहुस्तानि संरम्भं जनयन्ति च
असिते सितभागे च मूलकोशात्पतन्त्यपि
पक्ष्मकोपः स विज्ञेयो व्याधिः परमदारुणः ९९
यत्पक्ष्मदेहलद्यं मुक्त्वा वर्त्मनोऽन्त प्रजायते
घर्षेत्पक्ष्मासिते श्वेते पक्ष्मकोपः च उच्यते १००
वर्त्मपक्ष्माशयगतं पित्तं लोमानि शातयेत्
कण्डूं दाहं च कुरुते पक्ष्मशातं तमादिशेत् १०१
इति पक्ष्म रोगौ
अथ सन्धिजा रोगाः
पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्ल गतोऽपरः
शुक्लकृष्ण गतश्चान्यः कृष्ण दृष्टिगतोऽपि च
मतः कनीनक गतः षष्ठश्चापाङ्ग संश्रितः १०२
पूयालसः सोपनाहः स्रावाश्चत्वार एव च
पर्वणिकाऽलजी जन्तुग्रन्थिः सन्धौ नवामयाः १०३
पक्वः शोथः सन्धिजः संस्रवेद्यः सान्द्रं पूयं पूति पूयालसाख्यः १०४
ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकी कण्डूप्रायो नीरुजश्चोपनाहः १०५
गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावांल्लक्षणैः स्वैरुपेतान्
तं हि स्रावं नेत्रनाडीति चैके लिङ्गं तस्या कीर्त्तयिष्ये चतुर्द्धा १०६
हारिद्रा भं पीतमुष्णं जलं वा पित्तस्रावः संस्रवेत्सन्धिमध्यात् १०७
श्वेतं सान्द्रं पिच्छिलं यः स्रवेत्तु श्लेष्मस्रावोऽसौ विकारः प्रदिष्टः १०८
शोथः सन्धौ संस्रवेद्यस्तु पक्वः पूयं स्रावः सर्वजः सम्मतः स्यात् १०९
रक्तास्रावः शोणिताद्यो विकारो गच्छेदुष्णं तत्र रक्तं प्रभूतम् ११०
ताम्रा तन्वी दाहपाकोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोका
जाता सन्धौ कृष्णशुक्लेऽलजी स्यात्तस्मिन्नेव व्याहृता पूर्वलिङ्गैः १११
जन्तुग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युर्जन्तवः सन्धिजाताः
नानारूपा वर्त्मशुक्लान्तसन्धौ गच्छन्त्यन्तर्लोचनं दूषयन्तः ११२
इति सन्धिजा रोगाः
अथ समस्तनेत्रजा रोगाः
स्यन्दाश्चतुष्का इह सम्प्रदिष्टाश्चत्वार एवेह तथाऽधिमन्थाः
पाकः सशोथः स च शोथहीनो हताधिमन्थोऽनिलपर्ययश्च ११३
शुष्काक्षिपाकस्त्विह कीर्त्तितश्च तथाऽन्यतो वात उदीरितश्च
दृष्टिस्तथाऽम्लाध्युषिता शिराणामुत्पातहर्षौ च समस्तनेत्रे ११४
एवं समस्तनेत्रे स्युरामया दश सप्त च
तेषामिह पृथग्वक्ष्ये यथावल्लक्षणान्यपि ११५
वातात्पित्तात्कफाद्र क्ता दभिष्यन्दश्चतुर्विधः
प्रायेण जायते घोरःसर्वनेत्रामयाकरः ११६
निस्तोदनस्तम्भनरोमहर्षसंघर्षपारुष्यशिरोऽभितापाः
विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ११७
दाहः प्रपाकः शिशिराभिनन्दा धूमायनं वाष्पसमुद्भवश्च
उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ११८
उष्णाभिनन्दा गुरुताऽक्षिशोथः कण्डूपदेहावतिशीतता च
स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ११९
ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च
पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति १२०
वृद्धैरेतैरभिष्यन्दैर्नराणाम क्रियावताम्
तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः १२१
उत्पाट्यत इवात्यर्थं तथा निर्मथ्यतेऽपि च
शिरसोऽद्ध तु तं विद्यादधिमन्थं स्वलक्षणैः १२२
हन्याद् दृष्टिं श्लैष्मिकः सप्तरात्राद्योऽधीमन्थो रक्तजः पञ्चरात्रात्
षड्रात्राद्वा वातिको वै निहन्यान्मिथ्याऽचारात्पैत्तिकः सद्य एव १२३
कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः
संरम्भी पच्यते यस्तु नेत्रपाकः सशोथकः
शोथहीनानि लिङ्गानि नेत्रपाके त्वशोथजे १२४
उपेक्षणादक्षि यदाऽधिमन्थो वाताधिकः शोषयति प्रसह्य
रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः १२५
वारंवारञ्च पर्येति भ्रुवौ नेत्रे च मारुतः
रुजाश्च विविधास्तीव्राः स ज्ञेयो वातपर्ययः १२६
यत्कूणितं दारुणरूक्षवर्त्म सन्दह्यते चाविलदर्शनं यत्
सुदारुणं यत्प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि १२७
यस्यावटूकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा
कुर्याद्रुजोऽति भ्रुवि लोचने च तमन्यतोवातमुदाहरन्ति १२८
श्यावं लोहितपर्यन्तं सर्वमक्षि प्रपच्यते
सदाहशोथं सास्रावमम्लाध्युषितमम्लतः १२९
अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः
मुहुर्विरज्यन्ति च याः समन्ताद् व्याधिः शिरोत्पात इति प्रदिष्टः १३०
मोहाच्छिरोत्पात उपेक्षितस्तु जायेत रोगः स शिराप्रहर्षः
ताम्राक्षिता स्रावयति प्रगाढं तथा न शक्नोत्यभिवीक्षितुञ्च १३१
उदीर्णवेदनं नेत्रं रागशोथसमन्वितम्
घर्षनिस्तोदशूलाश्रुयुक्तमामान्वितं विदुः १३२
मन्दवेदनताकण्डू संरम्भाश्रुप्रशान्तताः
प्रसन्नवर्णता चाक्ष्णोर्निरामेक्षणलक्षणम् १३३
इति समस्तनेत्रजा रोगाः
द्वे पादमध्ये पृथुसन्निवेशे शिरोगते ते बहुधा हि नेत्रे
ताः प्रोक्षणोत्सादनलेपनादीन्पादप्रयुक्तान्नयनं नयन्ति १३४
मलोष्मसंघट्टनपीडनाद्यैस्ता दूषयन्ते नयनानि दुष्टाः
भजेत्सदा दृष्टिहितानि तस्मादुपानदभ्यञ्जनधावनानि १३५
चक्षुष्याः शालयो मुद्गा यवा मांसन्तु जाङ्गलम्
पक्षिमांसं विशेषेण वास्तूकं तण्डूलीयकम्
पटोलकर्कोटककारवेल्लफलानि सर्पिः परिपाचितानि
तथैव वार्त्ताकफलं नवीनमक्ष्णोर्हितः स्वादुरथापि तिक्तः
कट्वम्लगुरु तीक्ष्णोष्णमाषनिष्पावमैथुनम्
मद्यवल्लूरपिण्याकमत्स्य शाकविरूढजम्
विदाहीन्यन्नपानानि नहितान्यक्षिरोगिणे
सेक आश्च्योतनं पिण्डी विडालस्तर्पणं तथा
पुटपाकोऽञ्जनं चैभिः कल्कैर्नेत्रमुपाचरेत् १३६
सेकस्तु सूक्ष्मधाराभिः सर्वस्मिन्नयने हितः
मीलिताक्षस्य मर्त्यस्य प्रदेयश्चतुरङ्गुलः १३७
स चापि स्नेहनो वाते पित्ते रक्ते च रोपणः
लेखनस्तु कफे कार्यस्तस्य मात्राऽभिधीयते १३८
षड्भिर्वाचां शतैः स्नेहे चतुर्भिस्तैस्तु रोपणे
तैस्त्रिभिर्लोचने कार्यः सेको नेत्रप्रसादने १३९
निमेषोन्मेषणं पुंसामङ्गुल्या च्छोटिकाऽथवा
गुर्वक्षरोच्चारणं वा वाङ्मात्रेयं स्मृता बुधैः १४०
सेकस्तु दिवसे कार्यो रात्रावत्यन्तिके गदे
एरण्डदलमूलत्वक्छृतमाजं पयो हितम्
सुखोष्णं नेत्रयोः सिक्तं वाताभिष्यन्दनाशनम् १४१
पथ्याऽक्षामलखाखसवल्कलकल्केन सूक्ष्मवस्त्रेण
कृत्वा पोटलिकां तामहिफेनोत्थद्र वेण संयुक्ताम् १४२
निदधीत लोचने स्यात्सर्वाभिष्यन्दसंक्षयः शीघ्रम्
योगोऽयमृषिभिरुक्तो जगदुपकाराय कारुणिकैः १४३
भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते
अचिरेणैव तद्वारि तिमिराणि व्यपोहति १४४
स्नानं कृष्णतिलैश्चापि चक्षुष्यमनिलापहम्
आमलैः सततं स्नानं परं दृष्टिबलावहम् १४५
त्रिफलायाः कषायस्तु धावनान्नेत्ररोगजित्
कवलान्मुखरोगघ्नः पानतः कामलाऽपहः १४६
क्वाथक्षीरद्र्रवस्नेहबिन्दूनां यत्तु पातनम्
द्व्यङ्गुलोन्मीलिते नेत्रे प्रोक्तमाश्च्योतनं हि तत् १४७
विन्दवोऽष्टौ लेखनेषु रोपणे दश विन्दवः
स्नेहने द्वादश प्रोक्तास्ते शीते कोष्णरूपिणः १४८
उष्णे तु शीतरूपाः स्यु सर्वत्रैवैष निश्चयः
वाते तिक्तं तथा स्निग्धं पित्ते मधुरशीतलम् १४९
कफे तिक्तोष्णरूक्षं स्यात्क्रमादाश्च्योतनं हितम्
आश्च्योतनानां सर्वेषां मात्रा स्याद्वाक्छतोन्मिता १५०
बिल्वादिपञ्चमूलेन बृहत्येरण्डशिग्रुभिः
क्वाथ आश्च्योतने कोष्णो वाताभिष्यन्दनाशनः १५१
त्रिफलाऽश्च्योतनं नेत्रे सर्वाभिष्यन्दनाशनम् १५२
उक्तभेषजकल्कस्य पिण्डी च कोलमात्रया
वस्त्रखण्डेन सम्बद्धाऽभिष्यन्दव्रणनाशिनी १५३
स्निग्धोष्णा पिण्डिका वाते पित्ते सा शीतला मता
रूक्षोष्णा श्लेष्मणि प्रोक्ता विधिरुक्तो बुधैरयम् १५४
एरण्डपत्रमूलत्वङ्निर्मिता वातनाशिनी
धात्रीविरचिता पित्ते शिग्रुपत्रकृता कफे १५५
निम्बपत्रकृतापिण्डी पित्तश्लेष्महरी भवेत्
शुण्ठीनिम्बदलैः पिण्डी सुखोष्णा स्वल्पसैन्धवा १५६
धार्या नेत्रेऽनिलकफे शोथकण्डूव्यथाहरी
त्रिफलापिण्डिका नेत्रे वातपित्तकफापहा १५७
पथ्याऽक्षामलखाखसवल्कलकल्कोऽहिफेनजलयुक्तः
तेन विरचिता पिण्डी शमयति सकलानभिष्यन्दान् १५८
विडालको बहिर्लेपो नेत्रे पक्ष्मविवर्जिते
तस्य मात्रा परिज्ञेया मुखालेपविधानवत् १५९
अङ्गुलस्य चतुर्थांशो मुखलेपः कनिष्ठकः
मध्यमस्तु त्रिभागः स्यादुत्तमोऽद्धाङ्गुलो भवेत् १६०
स्थितिकालेऽपि तस्योक्तो यावत्कल्को न शुष्यति
शुष्कस्तु गुणहीनः स्यात्तथा दूषयति त्वचम् १६१
यष्टिगैरिकसिन्धूत्थदार्वीतार्क्ष्यैः समांशकैः
जलपिष्टैर्बहिर्लेपः सर्वनेत्रामयापहः १६२
रसाञ्जनेन वा लेपः पथ्याबिल्वदलैरपि
वचाहरिद्रा विश्वैर्वा तथा नागरगैरिकैः १६३
वातातपरजोहीने वेश्मन्युत्तानशायिनः
आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ १६४
समौ दृढावसन्धानौ कर्त्तव्यौ नेत्रकोशयोः
पूरयेद् घृतमण्डेन विलीनेन सुखोदकैः १६५
सर्पिषा शतधौतेन क्षीरजेन घृतेन वा
निमग्नान्यक्षिपक्ष्माणि यावत्स्युस्तावदेव हि १६६
पूरयेन्मीलिते नेत्रे तत उन्मीलयेच्छनैः
भिषग्भिरेष कथितः पुराणैस्तर्पणो विधिः १६७
यद्रू क्षं परिशुष्कञ्च नेत्रं कुटिलमाविलम्
शीर्णपक्ष्मशिरोत्पातकृच्छ्रोन्मीलनसंयुतम् १६८
तिमिरार्जुन शुक्राद्यैरभिष्यन्दाधिमन्थकैः
शुष्काक्षिपाकशोथाभ्यां युक्तं पवनपर्ययैः
तन्नेत्रं तर्पयेत्सम्यङ् नेत्ररोगविशारदः १६९
तर्पणं धारयेद्वर्त्मरोगे वाचां शतं बुधः १७०
स्वस्थे कफे सन्धिरोगे वाचां पञ्चशतानि च
षट्शतानि कफे कृष्णरोगे सप्तशतानि हि १७१
दृष्टिगे च शतान्यष्टावधिमन्थे सहस्रकम्
सहस्रं वातरोगेषु धार्यमेवं हि तर्पणम् १७२
ततश्चापाङ्गतः स्नेहं स्रावयित्वाऽक्षिशोधयेत्
स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः १७३
यथास्वं धूमपानेन कफमस्य विरेचयेत्
एकाहं वा त्र्! यहं वाऽपि पञ्चाहं वाऽपि तर्पयेत् १७४
तर्पणे तृप्तिलिङ्गानि नेत्रस्यैतानि लक्षयेत् १७५
सुखसुप्तावबोधत्वं वैशद्यं दृष्टिपाटवम्
निर्वृतिर्व्याधिशान्तिश्च क्रियालाघवमेव च १७६
गुर्वाविलमतिस्निग्धमश्रु कण्डूपदेहवत्
घर्षतोदयुतं नेत्रमतितर्पितमादिशेत् १७७
आस्रावशोफरोगाढ्यमसहं रूपदर्शने
आविलं परुषं रूक्षं नेत्रं स्याद्धीनतर्पितम् १७८
अनयोर्दोषबाहुल्यात् प्रयत्नेन चिकित्सिते
रुक्षस्निग्धोपचाराभ्यामनयोःस्यात्प्रतिक्रिया १७९
दुर्दिनात्युष्णशीतेषु चिन्तायां सम्भ्रमेषु च
अशान्तोपद्र वे वाऽक्ष्णि तर्पणं न प्रशस्यते १८०
द्वे बिल्वे स्निग्धमांसस्य परं द्र व्यपलं मतम्
द्र व्यस्य कुडवोन्मानं सर्वमेकत्र पेषयेत् १८१
तदेकत्र समालोड्य पत्रैः सुपरिवेष्टितम्
पुटपाकविधानेन तत्पक्त्वा तद्र सं बुधः १८२
तर्पणोक्तेन विधिना यथावद्विनियोजयेत्
दृष्टिमध्ये निषेक्तव्यो नित्यमुत्तानशायिनः १८३
तेजांस्यनिलमाकाशमातपं भास्करस्य च
नेक्षेत तर्पिते नेत्रे यश्च वा पुटपाकवान् १८४
अथ सम्पक्वदोषस्य प्राप्तमञ्जनमाचरेत्
अञ्जनं क्रियते येन तद् द्र व्यं चाञ्जनं मतम् १८५
वटिकारसचूर्णानि त्रिविधान्यञ्जनानि हि
कुर्याच्छलाकयाऽङगुल्या हीनानि स्युर्यथोत्तरम् १८६
स्नेहनं रोपणं चापि लेखनं तत्त्रिधा पृथक्
मधुरं स्नेहसम्पन्नमञ्जनं स्नेहनं मतम् १८७
कषायतिक्तरसयुक्सस्नेहं रोपणं स्मृतम्
अञ्जनं क्षारतिक्ताम्लरसैर्लेखनमुच्यते १८८
हरेणुमात्रां कुर्वीत वटीं तीक्ष्णाञ्जने भिषक्
प्रमाणं मध्यमे सार्द्धद्विगुणं तु मृदौ भवेत् १८९
रसक्रिया तूत्तमा स्यात् त्रिविडङ्गमिता मता
मध्यमा द्विविडङ्गा सा हीना त्वेकविडङ्गिका १९०
शलाकाः स्नेहने चूर्णे चतस्रः प्राहुरञ्जने
रोपणे तासु तिस्रः स्युस्ते उभे लेखने स्मृते १९१
मुखयोः कुञ्चिता श्लक्ष्णां शलाकाऽष्टाङ्गुलोन्मिता
अश्मजा धातुजा वा स्यात्कलायपरिमण्डला १९२
सुवर्णरजतोद्भूता शलाका स्नेहने स्मृता
तीव्रलोहाश्मसञ्जाता शलाका लेखने मता
अङ्गुली तु मृदुत्वेन रोपणे कथिता बुधैः १९३
त्रिफालाभृङ्गशुण्ठीनां रसैः शुद्धश्च सर्पिषा १९४
गोमूत्रमध्वजाक्षीरैः सिक्तो नागः प्रतापितः
तच्छलाका हरत्येव सकलान्नेत्रजान्गदान् १९५
कृष्णभागादधः कुर्याद्यावन्नयनमञ्जनम्
हेमन्ते शिशिरे चापि मध्याह्नेऽञ्जनमिष्यते १९६
पूर्वाह्णे वाऽपराह्णे वा ग्रीष्मे शरदि चेष्यते
वर्षास्वदभ्रे नात्युष्णे वसन्ते तु सदैव हि १९७
प्रातः सायन्तु तत्कुर्यान्न च कुर्यात्सदैव हि १९८
श्रान्ते प्ररुदिते भीते पीतमद्ये नवज्वरे
अजीर्णे वेगघाते च नाञ्जनं सम्प्रशस्यते १९९
पथ्याऽक्षधात्रीबीजानि एकद्वित्रिगुणानि च
पिष्ट्वाऽम्बुना वटीं कुर्यादञ्जनं द्विहरेणुकम्
नेत्रस्रावं हरत्याशु वातरक्तरुजं तथा २००
रसाञ्जनं हरिद्रे द्वे मालतीनिम्बपल्लवाः
गोशकृद्र ससंयुक्ता वटी नक्तान्ध्यनाशिनी
एतस्याश्चाञ्जने मात्रा प्रोक्ता सार्द्धं हरेणुका २०१
शङ्खनाभिर्बिभीतस्य मज्जा पथ्या मनः शिला
पिप्पली मरिचं कुष्ठं वचा चेति समांशकम् २०२
छागीक्षीरेण संपिष्य वटीं कुर्याद्यवोन्मिताम्
हरेणुमात्रं संघृष्य जलेनाञ्जनमाचरेत् २०३
तिमिरं मांसवृद्धिञ्च काचं पटलमर्बुदम्
रात्र्! यन्ध्यं वार्षिकं पुष्पं वटी चन्द्रो दया जयेत् २०४
पलाशपुष्पस्वरसैर्बहुशः परिभावितम्
करञ्जबीजं तद्वर्त्तिर्दृष्टेः पुष्पं विनाशयेत् २०५
कतकस्य फलं पिष्ट्वा मधुना नेत्रमञ्जयेत्
ईषत्कर्पूरसहितं तत्स्यान्नेत्रप्रसादनम् २०६
रसाञ्जनं सर्जरसो जातीपुष्पं मनःशिला
समुद्र फेनं लवणं गैरिकं मरिचं तथा २०७
एतत्समांशं मधुना पिष्टं प्रक्लिन्नवर्त्मनि
अञ्जनं क्लेदकण्डूघ्नं पक्ष्मणाञ्च प्ररोहणम् २०८
दुग्धेन कण्डूं क्षौद्रे ण नेत्रस्रावञ्च सर्पिषा
पुष्प तैलेन तिमिरं काञ्जिकेन निशाऽन्धताम् २०९
पुनर्नवा हरत्याशु भास्करस्तिमिरं यथा २१०
बब्बूलदलनिक्वाथो लेहीभूतस्तदञ्जनात्
नेत्रस्रावो व्रजेच्छोषं मधुयुक्तान्न संशयः २११
वटक्षीरेण संयुक्तं मुख्यकर्पूरजं रजः
क्षिप्रमञ्जनतो हन्ति कुसुमं तु द्विमासिकम् २१२
क्षौद्रा श्वलालासंघृष्टैर्मरिचैर्नेत्रमञ्जयेत्
अतिनिद्रा शमं याति तमः सूर्योदयादिव २१३
अग्नितप्तं हि सौवीरं निषिञ्चेत्त्रिफलारसैः
सप्तवेलं तथा स्तन्यैः स्त्रीणां सिक्तं विचूर्णितम् २१४
अञ्जयेत्तेन नयने प्रत्यहं चक्षुषो हितम्
सर्वानक्षिविकारांस्तु हन्यादेतन्न संशयः २१५
शिलायां रसकं पिष्ट्वा सम्यगाप्लाव्य वारिणा
गृह्णीयात्तज्जलं सर्वं त्यजेच्चूर्णमधोगतम् २१६
शुष्कञ्च तज्जलं सर्व पर्पटीसन्निभं भवेत्
विचूर्ण्य भावयेत्सम्यक्त्रिवेलं त्रिफलारसैः २१७
कर्पूरस्य रजस्तत्र दशमांशेन निक्षिपेत्
अञ्जयन्नेयने तेन नेत्राखिलगदच्छिदा २१८
दक्षाण्डत्वक्छिलाकाचशङ्खचन्दनसैन्धवैः
चूर्णितैरञ्जनं प्रोक्तं पुष्पादीनां निकृन्तनम् २१९
मुक्ताकर्पूरकाचागुरुमरिचकणासैन्धवं सैलवालं
शुण्ठीकक्लोलकांस्यत्रपुरजनिशिलाशङ्खनाभ्यभ्रतुत्थम्
दक्षाण्डत्वक्च साक्षं क्षतजमथ शिवा क्लीतकं राजवर्त्त
जातीपुष्पं तुलस्याः कुसुममभिनवं बीजकं स्यात्तथैव २२०
पूतीकनिम्बार्जुनभद्र मुस्तं सताम्रसारं रसगर्भयुक्तम्
प्रत्येकमेषां खलु माषकैकं यत्नेन पिष्येन्मधुनाऽतिसूक्ष्मम् २२१
भवन्ति रोगा नयनाश्रिता ये नितान्तमात्रोपचिताश्च तेषाम्
विधीयते शान्तिरवश्यमेव मुक्ताऽदिनाऽनेन महाञ्जनेन २२२
कणा सलवणोषणा सहरसाञ्जना साञ्जना
सरित्पतिकफः सिता सितपुनर्नवासम्भवा
रजन्यरुणचन्दनं मधुकतुत्थपथ्याशिला
ह्यरिष्टदलशावरस्फटिकशङ्खनाभीन्दवः २२३
इमानि तु विचूर्णयेन्निबिडवाससा शोधयेत्
तथाऽयसि विमर्दयेत्समधु ताम्रखण्डेन तत्
इदं मुनिभिरीरितं नयनशोणनामाञ्जनं
करोति तिमिरक्षयं पटलपुष्पनाशं बलात् २२४
हरीतकी वचा कुष्ठं पिप्पली मरिचानि च
बिभीतकस्य मज्जा च शङ्खनाभिर्मनः शिला २२५
सर्वमेतत्समं कृत्वा गव्यक्षीरेण पेषयेत्
नाशयेत्तिमिरं कण्डूपटलान्यर्बुदानि च २२६
अपि त्रिवार्षिकं शुक्लं मासेनैकेन नाशयेत्
अधिकानि च मांसानि रात्रावन्धत्वमेव च २२७
रजनी निम्बपत्राणि पिप्पली मरिचानि च
विडङ्गं भद्र मुस्तं च सप्तमीत्वभया स्मृता २२८
अजामूत्रेण सम्पिष्य च्छायायां शोषयेद्वटीम्
वारिणा तिमिरं हन्ति गोमूत्रेण तु पिष्टकम् २२९
मधुना पटलं हन्ति नारीक्षीरेण पुष्पकम्
एषा चन्द्र प्रभा वर्त्तिः स्वयं रुद्रे ण निर्मिता २३०
कणा च्छागयकृन्मध्ये पक्त्वा तद्र सपेषिता
अचिराद्धन्ति नक्तान्ध्यं तद्वत्सक्षौद्र मूषणम् २३१
त्रिफलाया रसं प्रस्थं प्रस्थं भृङ्गरजस्य च
वृषस्य च रसं प्रस्थं शतावर्याश्च तत्समम् २३२
गुडूच्या आमलक्याश्च रसं छागीपयस्तथा
प्रस्थं प्रस्थं समाहृत्य सर्वैरेभिर्घृतं पचेत् २३३
कल्कः कणा सिता द्रा क्षा त्रिफला नीलमुत्पलम्
मधुकं क्षीरकाकोली मधुपर्णी निदिग्धिका २३४
तत्साधु सिद्धं विज्ञाय शुभे भाण्डे निधापयेत्
ऊर्द्ध्वं पानमधःपानं मध्ये पानं च शस्यते २३५
यावन्तो नेत्ररोगाः स्युस्तान्पानादपकर्षति
सरक्ते रक्तदुष्टे च रक्ते वा विस्रुते तथा २३६
नक्तान्ध्ये तिमिरे काचे नीलिकापटलार्बुदे
अभिष्यन्देऽधिमन्थे च पक्ष्मकोषे सुदारुणे २३७
नेत्ररोगेषु सर्वेषु दोषत्रयकृतेष्वपि
परं हितमिदं प्रोक्तं त्रिफलाऽद्य महाघृतम् २३८
शतमेकं हरीतक्या द्विगुणञ्च बिभीतकम्
चतुर्गुणं त्वामलकं वृषमार्कवयोः समम् २३९
चतुर्गुणोदकं दत्वा शनैर्मृद्वग्निना पचेत्
भागं चतुर्थं संरक्ष्य क्वाथं तमवतारयेत् २४०
शर्करा मधुकं द्रा क्षा मधुयष्टी निदिग्धिका
काकोली क्षीरकाकोली त्रिफला नागकेशरम् २४१
पिप्पली नन्दनं मुस्तं त्रायमाणा तथोत्पलम्
घृतप्रस्थं समं क्षीरं कल्कैरेतैः शनैः पचेत् २४२
हन्यात्सतिमिरं काचं नक्तान्ध्यं शुल्कमेव च
तथा स्रावं च कण्डूञ्च श्वयथुं च कषायताम् २४३
कलुषत्वं च नेत्रस्य बिन्द्वर्मपटलानि च
बहुनाऽत्र किमुक्तेन सर्वान्नेत्रामयान्हरेत् २४४
यस्य चोपहता दृष्टिः सूर्याग्निभ्यां प्रपश्यतः
तस्यैतद् भेषजं प्रोक्तं मुनिभिः परमं हितम् २४५
मार्जितं दर्पणं यद्वत्परां निर्मलतां व्रजेत्
तद्वदेतेन पीतेन नेत्रं निर्मलतामियात्
वारिद्रो णद्वयं चात्र बृषमार्कवयोस्तुले २४६
वासविश्वाऽमृतादार्वीरक्तचन्दनचित्रकैः
भूनिम्बनिम्बकटुकापटोलत्रिफलाऽम्बुदैः २४७
निशाकलिङ्गकुटजः क्वाथः सर्वाक्षिरोगहा
वैस्वर्यं पीनसं श्वासं कासं नाशयति ध्रुवम् २४७
इति त्रिषष्टितमो नेत्ररोगाधिकारः समाप्तः ६३

कर्णरोगाधिकारः[सम्पाद्यताम्]

अथ चतुःषष्टितमः कर्णरोगाधिकारः ६४
कर्णशूलः कर्णनादो बाधिर्यं क्ष्वेड एव च
कर्ण स्रावकर्णकण्डूः कर्णगूथस्तथैव च १
प्रतिनाहो जन्तुकर्णो विद्र धिर्द्विविधस्तथा
कर्णपाकःपूतिकर्णस्तथैवार्शश्चतुर्विधः २
तथाऽबुदं सप्तविधं शोफश्चापि चतुर्विधः
एते कर्णगता रोगा अष्टाविंशतिरीरिताः ३
समीरणः श्रोत्रगतोऽन्यथा चरन्समन्ततः शूलमतीव कर्णयोः
करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः ४
मूर्च्छा दाहो ज्वरः कासः श्वासोऽथ वमथुस्तथा
उपद्र वाः कर्णशूले भवन्त्येते मरिष्यतः ५
कर्णश्रोत्रस्थिते वाते शृणोति विविधान्स्वनान्
भेरीमृदङ्गशङ्खानां कर्णनादः स उच्यते ६
यदा शब्दवहं वायुः स्रोत आवृत्य तिष्ठति
शुद्धः श्लेष्मान्वितो वाऽपि बाधिर्य तेन जायते ७
बाधिर्यं बालवृद्धोत्थं चिरोत्थञ्च विवर्जयेत् ८
वायुः पित्तादिभिर्युक्तो वेणुघोषसमं स्वनम्
करोति कर्णयोः क्ष्वेडं कर्णक्ष्वेडः स उच्यते ९
शिरोऽभिघातादथ वा निमज्जतो जले प्रपातादथ वाऽपि विद्र धेः
स्रवेद्धि पूयं श्रवणोऽनिलार्दितः स कर्णसंस्राव इति प्रकीर्त्तितः १०
मारुतः कफसंयुक्तः कर्णे कण्डूं करोति हि ११
पित्तोष्मशोषितः श्लेष्मा कुरुते कर्णगूथकम् १२
स कर्णगूथो द्र वतां यदा गतो विलायितो घ्राणमुखं प्रपद्यते
तदा स कर्णप्रतिनाहसंज्ञितो भवेद्विकारः शिरसाऽद्धभेदकृत् १३
यदा तु मूर्च्छन्त्यथवा तु जन्तवः सृजन्त्यपत्त्यान्यथवाऽपि मक्षिकाः
तदञ्जनत्वाच्छ्रवणे निरुच्यते भिषग्भिराद्यैः कृमिकर्णको गदः १४
पतङ्गाः शतपद्यश्च कर्णस्रोतः प्रविश्य हि
अरतिं व्याकुलत्वञ्च भृशं कुर्वन्ति वेदनाम्
कर्णो निस्तुद्यते तस्य तथा च फर्फरायते
कीटे चरति रुक्तीव्रा निस्पन्दे मन्दवेदना १५
क्षताभिघातप्रभवस्तु विद्र धिर्भवेत्तथा दोषकृतोऽपरः पुनः
स रक्तपीतारुणमस्रमास्रवेत्प्रतोदधूमायनदाहचोषवान् १६
कर्णपाकस्तु पित्तेन कोथविक्लेदकृद्भवेत् १७
कर्णविद्र धपाकेन कर्णे वा वारिपूरणात्
पूयं स्रवति यः पूति स ज्ञेयः पूतिकर्णकः १८
कर्णशोथार्बुदार्शांसि जानीयादुक्तलक्षणैः १९
नादोऽतिरुक्कर्णमलस्य शोथः स्रावस्तनुश्चावणञ्च वातात् २०
शोथः सरागो दरणं विदाहः सपूतिपीतस्रवणञ्च पित्तात् २१
वैश्रुत्यकण्डूस्थिरशोथशुक्ल स्निग्धा स्रुतिः स्वल्परुजा कफाच्च २२
सर्वाणि रूपाणि च सन्निपातात्स्रावश्च तत्राधिकदोषवर्णः २३
अथ कर्णपालीरोगाः
सौकुमार्याच्चिरोत्सृष्टे सहसैवातिवर्धिते
कर्णे शोथो भवेत्पाल्यां सरुजः परिपोटवान्
कृष्णारुणनिभः स्तब्धः स वातात्परिपोटकः २४
गुर्वाभरण संयोगात्ताडनाद्घर्षणादपि
शोथः पाल्यां भवेच्छ्यावो दाहपाकरुजाऽन्वितः
रक्तो वा रक्तपित्ताभ्यामुत्पातः सगदः स्मृतः २५
कर्णं बलाद्वर्द्धयतः पाल्यां वायुः प्रकुप्यति
कफं संगृह्य कुरुते शोथं स्तब्धमवेदनम्
उन्मन्थकः सकण्डूको विकारः कफवातजः २६
संवर्ध्यमाने दुर्विद्धे कण्डूदाहरुजाऽन्वितः
शोथो भवति पाकश्च त्रिदोषो दुःखवर्द्धनः २७
कफासृक्कृमयः क्रुद्धाः सर्षपाभा विसारिणः
कुर्वन्ति पिडकां पाल्यां कण्डूदाहसमन्विताम्
कफासृक्कृमिसम्भूतः स विसर्पन्नितस्ततः
लिह्यात्सशष्कुलद्यं पालद्यं परिलेही च स स्मृतः २८
कर्णशूले कर्णनादे बाधिर्ये क्ष्वेड एव च
चतुर्ष्वपि च रोगेषु सामान्यं भेषजं स्मृतम्
शृङ्गवेरं सहमधु सैन्धवं तैलमेव च
कदुष्णं कर्णयोर्धार्यमेतत्स्याद् वेदनाऽपहम् २९
लशुनार्द्र कशिग्रूणां वारुण्या मूलकस्य च
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे ३०
अर्काङ्कुरानम्लपिष्टान्स तैललवणान्वितान्
सन्निदध्यात्सुधाकाण्डे कोरिते मृत्स्नयाऽवृते ३१
पुटपाकक्रमात्स्विन्नं पीडयेदारसागमात्
सुखोष्णं तद्र सं कर्णे प्रक्षिपेच्छूलशान्तये ३२
अर्कस्य पत्रं परिणामपीतमाज्येन लिप्तं शिखियोगतप्तम्
आपीड्य तस्याम्बु सुखोष्णमेव कर्णे निषिक्तं हरते हि शूलम् ३३
तीव्रशूलातुरे कर्णे सशब्दे क्लेदवाहिनि
छागमूत्रं प्रशंसन्ति कोष्णं सैन्धवसंयुतम् ३४
तैलं श्वेतार्कमूलेन मन्देऽग्नौ विधिना कृतम्
हरेदाशु त्रिदोषोत्थं कर्णशूलप्रपूरणात् ३५
हिङ्गुसैन्धवशुण्ठीभिस्तैलं सर्षपसम्भवम्
विपक्वं हरतेऽवश्यं कर्णशूलं प्रपूरणात् ३६
कर्णशूले कर्णनादे बाधिर्ये क्ष्वेड एव च
पूरणं कटुतैलेन हितं वातघ्नमौषधम् ३७
शिखरिक्षारजवारि तत्कृतकल्केन साधितं तैलम्
अपहरति कर्णनादं बाधिर्यं चापि पूरणतः ३८
गवां मूत्रेण बिल्वानि पिष्ट्वा तैलं विपाचयेत्
सजलञ्च सदुग्धञ्च तद्बाधिर्यहरं परम्
इति बिल्व तैलम्
कर्णस्रावे पूतिकर्णे तथैव कृमिकर्णके
सामान्यं कर्म कुर्वीत योगान्वैशेषिकानपि ४०
स्वर्जिकाचूर्णसंयुक्तं बीजपूररसं क्षिपेत्
कर्णस्रावरुजो दाहास्ते नश्यन्ति न संशयः ४१
आम्रजम्बूप्रवालानि मधुकस्य वटस्य च
एभिस्तु साधितं तैलं पूतिकर्णगदं हरेत् ४२
जातीपत्ररसैस्तैलं विपक्वं पूतिकर्णजित्
पिष्टं रसाञ्जनं नार्याः क्षीरेण क्षौद्र संयुतम्
प्रशस्यते चिरोत्थे तत्स्रावके पूतिकर्णके ४३
कुष्ठहिङ्गुबचा दारुशताह्वाविश्वसैन्धवैः
पूतिकर्णापहं तैलं बस्तमूत्रेण साधितम् ४४
शम्बूकस्य तु मांसेन कटुतैलं विपाचयेत्
तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति ४५
चूर्णेन गन्धकशिलारजनीभवेन मुष्ट्यंशकेन कटुतैलपलाष्टकन्तु
धत्तूरपत्ररसतुल्यमिदं विपक्वं नाडीं जयेच्चिरभवामपि कर्णजाताम् ४६
कृमिकर्णविनाशाय कृमिघ्नीं कारयेत्क्रियाम्
वार्त्ताकुधूमश्च हितःसार्षपः स्नेह एव च ४७
पूरणं हरितालेन गव्यमूत्रयुतेन च
धूपने कर्णदौर्गन्ध्ये गुग्गुलुः श्रेष्ठ उच्यते ४८
चिकित्सा कर्णशोथानां तथा कर्णार्शसामपि
कर्णार्बुदानां कुर्वीत शोथार्शोऽबुदवद्भिषक् ४९
पालीसंशोषणे कुर्याद्वातकर्णरुजः क्रियाः
स्वेदयेद्यत्नतस्तां च स्विन्नां संवर्धयेत्तिलैः ५०
शतावरीवाजिगन्धापय स्यैरण्डबीजकैः
तैलं विपक्वं सक्षीरं पालद्यं संवर्द्धयेत्सुखम् ५१
जीवनीयस्य कल्केन तैलं दुग्धेन पाचयेत्
चिकित्सेत्तेन तैलेन हृतास्रं परिपोटकम् ५२
शीतलेपैर्जलौकोभिरुत्पातं समुपाचरेत्
हलिनीसुरसाभ्यां च गोधाकङ्कवसाऽन्वितम् ५३
तैलञ्च पक्वमभ्यङ्गादुन्मन्थं नाशयेद् ध्रुवम्
दुःखवर्द्धनकं सिक्त्वा जम्ब्वाम्रबिल्वपत्रजैः ५४
क्वाथैस्तैलेन सुस्निग्धं तच्चूर्णैश्चावधूलयेत्
बहुशो गोमयैस्तप्तैः स्वेदितं परिलेहितम्
घनसारैः समालिम्पेदजामूत्रेण कल्कितैः ५५
इति चतुःषष्टितमः कर्णरोगाधिकारः समाप्तः ६४

नासारोगाधिकारः[सम्पाद्यताम्]

अथ पञ्चषष्टितमो नासारोगाधिकारः ६५
आदौ च पीनसः प्रोक्तः पूतिनस्यस्ततः परम्
नासापाकोऽत्र गणितः पूयशोणितमेव च १
क्षवथुर्भ्रंशथुर्दीप्तिः प्रतीनाहः परिस्रवः
नासाशोषः प्रतिश्यायाः पञ्च सप्तार्बुदानि च २
चत्वार्यर्शांसि चत्वारः शोथाश्चत्वारि तानि च
रक्तपित्तानि नासायां चतुस्त्रिंशद्गदाः स्मृताः ३
आनह्यते शुष्यति यस्य नासा प्रक्लेदमायाति तु धूप्यते च
न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येदिह पीनसेन ४
तं चानिलश्लेष्मभवं विकारं ब्रूयात्प्रतिश्यायसमानलिङ्गम् ५
दोषैर्विदग्धैर्गलतालुमूले सन्दूषितो यस्य समीरणस्तु
निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनस्यं प्रवदन्ति रोगम् ६
घ्राणाश्रितं पित्तमरूषि कुर्याद्यस्मिन्विकारे बलवांश्च पाकः
तं नासिकापाकमिति व्यवस्येद्विक्लेदकोथावथवाऽपि यत्र ७
दोषैर्विदग्धैरथवाऽपि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तैः
नासा स्रवेत्पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् ८
घ्राणाश्रिते मर्मणि सम्प्रदुष्टो यस्यानिलो नासिकया निरेति
कफानुयातो बहुशोऽतिशब्दस्तं रोगमाहुः क्षवथुं गदज्ञाः ९
तीक्ष्णोपयोगादतिजिघ्रतो वा भावान्कटूनर्कनिरीक्षणाद्वा
सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्घर्षतेऽन्य क्षवथुर्निरेति १०
प्रभ्रश्यते नासिकया तु यस्य सान्द्रो विदग्धो लवणः कफस्तु
प्राक्सञ्चितो मूर्धनि पित्ततप्ते तं भ्रंशथुं व्याधिमुदाहारन्ति ११
घ्राणे भृशं दाहसमन्विते तु विनिःसरेद् धूम इवेह वायुः
नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिन्तु तं दीप्तिमुदाहरन्ति १२
उच्छ्वासमार्गन्तु कफः सवातो रुन्ध्यात्प्रतीनाहमुदाहरेत्तम् १३
घ्राणाद्घनः पीतसितस्तनुर्वा दोषः स्रवेत्स्रावमुदाहरेत्तम् १४
घ्राणाश्रिते श्लेष्मणि मारुतेन पित्तेन गाढं परिशोषिते च
कृच्छ्राच्छ्वसित्यूर्ध्वमधश्च जन्तुर्यस्मिन्स नासापरिशोष उक्तः १५
सन्धारणाजीर्णरसोऽतिभाष्यक्रोधर्त्तुवैषम्यशिरोऽभितापैः
सञ्जागरातिस्वपनाम्बुशीतावश्यायकैर्मैथुनवाष्पसेकैः
संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेत्तु १६
चयं गता मूर्द्धनि मारुतादयः पृथक्समस्ताश्च तथैव शोणितम्
प्रकुप्यमाणा विविधैः प्रकोपणैस्ततः प्रतिश्यायकरा भवन्ति हि १७
क्षवप्रवृत्तिः शिरसोऽभिपूर्णता स्तम्भोऽङ्गमर्दः परिहृष्टरोमता
उपद्र वाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः १८
आनद्धाऽपिहिता नासा तनुस्रावप्रसेकिनी
गलताल्वोष्टशोषश्च निस्तोदः शंङ्खयोस्तथा
क्षवप्रवृत्तिरत्यर्थं वक्त्रवैरस्यमेव च
भवेत्स्वरोपघातश्च प्रतिश्यायेऽनिलात्मके १९
उष्णः सपीतकः स्रावो घ्राणात्स्रवति पैत्तिके
कृशोऽतिपाण्डुः सन्तप्तो भवेदुष्णाभिपीडितः २०
घ्राणात्कफकृते श्वेतः कफः शीतः स्रवेद् बहुः २१
शुक्लावभासः शूनाक्षो भवेद् गुरुशिरा नरः
गलताल्वोष्ठशिरसां कण्डूभिरतिपीडितः २२
भूत्वा भूत्वा प्रतिश्यायो योऽकस्मात्सन्निवर्त्तते
सम्पक्वो वाऽप्यपक्वो वा स च सर्वभवः स्मृतः २३
प्रक्लिद्यते मुहुर्नासा पुनश्च परिशुष्यति
पुनरानह्यते वाऽपि पुनर्विव्रियते तथा २४
निश्वासो वाऽपि दुर्गन्धो नरो गन्धान्न वेत्ति च
एवं दुष्टं प्रतिश्यायं जानीयात्कृच्छ्रसाधनम् २५
रक्तजे तु प्रतिश्याये रक्तस्रावः प्रवर्त्तते
पित्तप्रतिश्यायकृतैर्लिङ्गैश्चापि समन्वितः २६
ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीडितः
दुर्गन्धोच्छ्वासवक्त्रश्च गन्धानपि न वेत्ति सः २७
सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः
दुष्टतां यान्ति कालेन तदाऽसाध्या भवन्ति च २८
मूर्च्छन्ति कृमयश्चात्र श्वेताः स्निग्धास्तथाऽणवः
कृमिजन्यशिरोरोगैस्तुल्यं तेनात्र लक्षणम् २९
बाधिर्यमान्ध्यमघ्रत्वं घोरांश्च नयनामयान्
शोषाग्निमान्द्यकासांश्च वृद्धाः कुर्वन्ति पीनसाः ३०
अर्बुदं सप्तधा शोथाश्चत्वारोऽशश्चतुर्विधम्
चतुर्विधं रक्तपित्तमुक्तं घ्राणेऽपि तद्विदुः ३१
शिरोगुरुत्वमरुचिर्नासास्रावस्तनुः स्वरः
क्षामःष्ठीवति चाभीक्ष्णमामपीनसलक्षणम् ३२
आमालिङ्गान्वितः श्लेष्मा घनः खेषु निमज्जति
स्वरवर्णविशुद्धिश्च पक्वपीनसलक्षणम् ३३
सर्वेषु सर्वकालं पीनसरोगेषु जातमात्रेषु
मरिचं गुडेन दध्ना भुञ्जीत नरः सुखं लभते ३४
कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी
एषांचूर्णं कषायं वा दद्यादार्द्र कजैः रसैः ३५
पीनसे स्वरभेदे च तमके च हलीमके
सन्निपाते कफे कासे ज्वरे श्वासे च शस्यते ३६
कलिङ्गहिङ्गुमरिचलाक्षासुरसकट्फलैः
कुष्ठोग्राशिग्रुजन्तुघ्नैरवपीडः प्रशस्यते ३७
व्योषचित्रकतालीसतिन्तिडीकाम्लवेतसम्
सचव्याजाजितुल्यांशमेलात्वक्पत्रपादिकम् ३८
व्योषादिकमिदं चूर्णं पुराणगुडमिश्रितम्
पीनसश्वासकासघ्नं रुचिस्वरकरं परम् ३९
व्याघ्रीदन्तीवचाशिग्रुसुरसाव्योषसिन्धुजैः
सिद्धं तैलं नासि क्षिप्तं पूतिनासागदापहम् ४०
शिग्रुसिंहीनिकुम्भानां बीजैः सव्योषसैन्धवैः
बिल्वपत्ररसैः सिद्धं तैलं स्यात्पूतिनस्यनुत् ४१
घृतगुग्गुलुमिश्रस्य सिक्थकस्य प्रयत्नतः
धूमं क्षवथुरोगघ्नं भ्रंशथुघ्नञ्च निर्दिशेत् ४२
शुण्ठीकुष्ठकणाबिल्वद्रा क्षाकल्ककषायवत्
तैलं पक्वमथाज्यं वा नस्यात्क्षवथुनाशनम् ४३
नस्यं हितं निम्बरसाञ्जनाभ्यां दीप्ते शिरः स्वेदनमल्पशस्तु
नस्ये कृते क्षीरजलावसेकाञ्छ्वसन्ति भुञ्जीत च मुद्गयूषैः ४४
नासास्रावे घ्राणयोश्चूर्णमुक्तं नाड्या देयं येऽवपीडाश्च पथ्याः
तीक्ष्णान्धूमान्देवदार्वग्निकाभ्यां मांसं त्वाजं पथ्यमत्रादिशन्ति ४५
प्रतिश्यायेषु सर्वेषु गृहं वातविवर्जितम्
वस्त्रेण गुरुणा तेन शिरसो वेष्टनं हितम् ४६
विडङ्गं सैन्धवं हिङ्गु गुग्गुलुः समनःशिलः
बचैतच्चूर्णमाघ्रातं प्रतिश्यायं विनाशयेत् ४७
घृततैलसमायुक्तं शक्तुधूमं पिबेन्नरः
सधूमः त्यात्प्रतिश्यायकासहिक्काहरः परः ४८
प्रतिश्याये पिबेद्धूमं सर्वगन्धसमायुतम्
चातुर्जातकचूर्णं वा घ्रेयं वा कृष्णजीरकम् ४९
पुटपक्वं जयापत्रं तैलंसैन्धवसंयुतम्
प्रतिश्यायेषु सर्वेषु शीलितं परमौषधम् ५०
पिप्पल्यः शिग्रुबीजानि विडङ्गमरिचानि च
अवपीडः प्रशस्तोऽय प्रतिश्यायनिवारणे ५१
शिरसोऽभ्यञ्जनैः स्वेदैर्नस्यैर्मन्दोष्णभोजनैः
वमनैर्घृतपानैश्च तान्यथास्वमुपाचरेत् ५२
कृमिघ्ना ये क्रमाः प्रोक्तास्तान्वै कृमिषु योजयेत्
नावनानि कृमिघ्नानि भेषजानि च बुद्धिमान् ५३
रक्तपित्तानि शोथांश्च तथाऽशास्यर्बुदानि च
नासिकायां स्युरेतेषां स्वं स्वं कुर्याच्चिकित्सितम् ५४
गृहधूमकणा दारुक्षारनक्ताह्वसैन्धवैः
सिद्धं शिखरिबीजैश्च तैलं नासाऽशसां हितम् ५५
इति पञ्चषष्टितमो नासारोगाधिकारः समाप्तः ६५

मुखरोगाधिकारः[सम्पाद्यताम्]

अथ षट्षष्टितमो मुखरोगाधिकारः ६६
ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च
गलो मुखादि सकलं सप्ताङ्गं मुखमुच्यते १
स्युरष्टावोष्ठयोर्दन्तमूले तु दश षट् तथा
दन्तेष्वष्टौ च जिह्वायां पञ्च स्युर्नव तालुनि २
कण्ठे त्वष्टादश प्रोक्तास्त्रयः सर्वेषु च स्मृताः
एवं मुखामयाः सर्वे सप्तषष्टिर्मता बुधैः ३
आनूपपिशितक्षार दधिमाषादिसेवनात्
मुखमध्ये गदान्कुर्युः क्रुद्धा दोषाः कफोत्तराः ४
पृथग्दोषैः समस्तैश्च रक्तजो मांसजस्तथा
मेदोजश्चाभिघातोत्थ एवमष्टौष्ठजा गदाः ५
कर्कशौ परुषौ स्तब्धौ संप्राप्तानिलवेदनौ
दाल्येते परिपाट्येते ओष्ठौ मारुतकोपतः ६
चीयते पिडकाभिस्तु सरुजाभिः समन्ततः
सदाहपाकपिडकौ पीताभासौ च पित्ततः ७
सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ
कण्डूमन्तौ कफाच्छ्वेतौ पिच्छिलौ शीतलौ गुरु ८
सकृत्कृष्णौ सकृत्पीतौ सकृच्छ्वेतौ तथैव च
सन्निपातेन विज्ञेयावनेकपिडकाऽन्वितौ ९
खर्जूरफलवर्णाभिः पिडकाभिर्निपीडितौ
रक्तोपसृष्टौ रुधिरं स्रवन्तौ शोणितप्रभौ १०
मांसदुष्टौ गुरु स्थूलौ मांसपिण्डवदुद्गतौ
जन्तवश्चात्र मूर्च्छन्ति नरस्योभयतो मुखात् ११
सर्पिर्मण्डप्रतीकाशौ मेदसा कण्डुरौ मृदू
स्वच्छस्फटिकसंकाशमास्रावं स्रवतो भृशम् १२
क्षतजाभौ विदीर्येते पीड्येते चाभिघाततः
मथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ १३
गलदन्तमूलदशनच्छदेषु रोगाः कफास्रभूयिष्ठाः
तस्मादेतेष्वसकृद्रुधिरं विस्रावयेदुष्णम् १४
चतुर्विधेन स्नेहेन मधूच्छिष्टयुतेन च
वातजेऽभ्यञ्जनं कुर्यान्नाडीस्वेदञ्च बुद्धिमान् १५
वेधं शिराणां वमनं विरेकं तिक्तस्य पानं रसभोजनञ्च
शीताः प्रदेहाः परिषेचनञ्च पित्तोपसृष्टेष्वधरेषु कुर्यात् १६
शिरोविरेचनं धूमः स्वेदः कवल एव च
हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके
मेदोजे शोधिते स्विन्ने स्वेदिते कवलो हितः
प्रियङ्गुत्रिफलालोघ्रं सक्षौद्रं प्रतिसारणम् १८
दन्तजिह्वामुखानां यच्चूर्णकल्कावलेहकः
शनैर्घर्षणमङ्गुल्या तदुक्तं प्रतिसारणम् १९
ओष्ठरोगेष्वशेषेषु दृष्ट्वा दोषमुपाचरेत्
तेषु व्रणत्वं जातेषु व्रणवत्समुपाचरेत् २०
शीतादो गदितः पूर्वं दन्तपुप्पुटकस्तथा
दन्तवेष्टः सौषिरश्च महासौषिर एव च २१
ततः परिदरः प्रोक्तस्ततस्तूपकुशः स्मृतः
वैदर्भश्च ततः प्रोक्तः खल्लीवर्द्धन एव च २२
अधिमांसकनामा च दन्तनाड्यश्च पञ्च च
दन्तविद्र धिरप्यत्र दन्तवेष्टेषु षोडश २३
शोणितं दन्तवेष्टेभ्यो यस्याकस्मात्प्रवर्त्तते
दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च २४
दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम्
शीतादो नाम स व्याधिः कफशोणितसम्भवः २५
दन्तयोस्त्रिषु वाऽप्यत्र श्वयथुर्जायते महान्
दन्तपुप्पुटको नाम स व्याधिः कफरक्तजः २६
स्रवन्ति पूयं रुधिरं चला दन्ता भवन्ति च
दन्तवेष्टः स विज्ञेयो दुष्टशोणितसम्भवः २७
श्वयथुर्दन्तमूलेषु रुजावान्कफवातजः
लालास्रावी च कण्डूरः स ज्ञेयः सौषिरो गदः २८
दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते
दन्तमांसानि पच्यन्ते मुखञ्च परिपच्यते
यस्मिन्स सर्वजो व्याधिर्महासौषिरसंज्ञकः २९
दन्तमांसानि शीर्यन्ते यस्मिन्ष्ठीवति चाप्यसृक्
पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः ३०
वेष्टेषु दाहः पाकश्च ताभ्यां दन्ताश्चलन्ति च
आघटिट्ताः प्रस्रवन्ति शोणितं मन्दवेदनम्
आध्मायन्तेऽस्रुते रक्ते मुखं पूति च जायते
यस्मिन्नुपकुशः स स्यात्पित्तरक्तसमुद्भवः ३२
घृष्टेषु दन्तमूलेषु संरम्भो जायते महान्
चलन्ति च रदा यस्मिन्स वैदर्भोऽभिघातजः ३३
मारुतेनाधिको दन्तो जायते तीव्रवेदनः
खल्लीवर्द्धनसंज्ञोऽसौ सञ्जाते रुक्प्रशाम्यति ३४
हानव्ये पश्चिमे दन्ते महाशोथो महारुजः
लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः ३५
दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ३६
दन्तमांसमलैः सास्रैर्बाह्यान्तः श्वयथुर्महान्
सदाहरुक् स्रवेद्भिन्नः पूयास्रं दन्तविद्र धिः ३७
शीतादे हृतरक्ते तु तोये नागरसर्षपान्
निष्क्वाथ्य त्रिफलाञ्चापि कुर्याद्गण्डूषधारणम् ३८
कासीसलोध्रकृष्णा मनःशिला प्रियङ्गु तेजोह्वाः
एषां चूर्णं मधुयुक्छीतादे पूतिमांसहरम् ३९
तैलं घृतं वा वातघ्नं शीतादे सम्प्रशस्यते
दन्तपुप्पुटके कार्यं तरुणे रक्तमोक्षणम् ४०
सपञ्चलवणक्षारः सक्षौद्र ः! प्रतिसारणम्
शिरोविरेकश्च हितो नस्यं स्निग्धञ्च भोजनम् ४१
विस्राविते दन्तवेष्टे व्रणन्तु प्रतिसारयेत्
लोध्रपत्तङ्गमधुक लाक्षाचूर्णैर्मधुप्लुतैः ४२
गण्डूषे क्षीरिणो योज्याः सक्षौद्र घृतशर्कराः
चलदन्तस्थिरकरं कार्यं बकुलचर्वणम् ४३
भद्र मुस्ताऽभयाव्योषविडङ्गारिष्टपल्लवैः
गोमूत्रपिष्टैर्गुटिकां छायाशुष्कां प्रकल्पयेत् ४४
तां निधाय मुखे स्वप्याच्चलदन्तातुरो नरः
नातः परतरं किञ्चिच्चलदन्तस्य भेषजम् ४५
तुलावृतं नीलसहाचरन्तु द्रो णाम्भसा संश्रपयेद्यथावत्
ततश्चतुर्भागरसे तु तैलं पचेच्छनैरर्द्धपलप्रमाणैः ४६
कल्कैरनन्ताखदिरेरिमेदजम्ब्वाम्रयष्टीमधुकोत्पलानाम्
तत्तैलमाज्यञ्च धृतं मुखेन स्थैर्यं द्विजानां विदधाति सद्यः ४७
सौषिरे हृतरक्ते तु लोध्रमुस्तारसाञ्जनैः
सक्षौद्रै ः! शस्यते लेपो गण्डूषे क्षीरिणो हिताः ४८
क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षणः
संशोध्योभयतः कार्यं शिरश्चोपकुशे तथा ४९
काष्ठोदुम्बरिकापत्रैर्व्रणं विस्रावयेद्भिषक्
लवणैः क्षौद्र युक्तैश्च सव्योषैः प्रतिसारयेत् ५०
शास्त्रेणोद्धृत्य वैदर्भे दन्तमूलानि शोधयेत्
ततः क्षीरं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः ५१
उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत्
कृमिदन्तकवच्चात्र विधिः कार्या विजानता ५२
छित्वाऽधिमांसं सक्षौद्रै रेतैश्चूर्णैरुपाचरेत्
वचातेजोवतीपाठास्वर्जिकायावशूकजैः ५३
क्षौद्र द्वितीयाः पिप्पल्यः कवले चात्र कीर्त्तिताः
पटोलनिम्बत्रिफलाकषायश्चात्र धावने ५४
नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत्
यद्दन्तमध्ये जायेत नाडीदन्तं तदुद्धरेत् ५५
छित्वा मांसानि शस्त्रेण यदि नोपरिजो भवेत्
उद्धृत्य च दहेच्चापि क्षारेण ज्वलनेन वा ५६
भिनत्त्युपेक्षिते दन्ते हनुमस्थिगतिर्ध्रुवम्
समूलं दशनं तस्मादुद्धरेद्भग्नमस्थि च ५७
उद्धृते तूत्तरे दन्ते शोणितं प्रस्रवेदति
रक्ताभिषेकात्पूर्वोक्ता घोरा रोगा भवन्ति हि ५८
काणः सञ्जायते जन्तुरर्दितं तस्य जायते
चलमप्युत्तरं दन्तमतो नैवोद्धरेद्भिषक्
धावनं जातिमदनस्वादुकण्टकखादिरैः ५९
कषायैर्जातिमदनकण्टकीस्वादुकण्टकैः ६०
मञ्जिष्ठालोध्रखदिरयष्ट्याह्वैश्चापि यत्कृतम्
तैलं यत्साधितं तत्तु हन्याद् दन्तगतां गतिम् ६१
विद्र ध्युक्तं विधिं युक्तं विदध्याद् दन्तविद्र धौ
शस्त्रकर्म नरस्तत्र कुशलो नैव कारयेत् ६२
दालनः कथितः पूर्वं कृमिदन्तक एव च
प्रोक्तो भञ्जनको दन्तहर्षो वै दन्तशर्करा ६३
कपालिकाऽत्र कथिता श्यावदन्तक एव च
करालसंज्ञ इत्यष्टौ दन्तरोगाः प्रकीर्त्तिताः ६४
दीर्यमाणेष्विव रुजा यत्र दन्तेषु जायते
दालनो नाम स व्याधिः सदागतिनिमित्तजः ६५
कृष्णच्छिद्र श्चलः स्रावी ससंरम्भो महारुजः
अनिमित्तरुजो वातात्स ज्ञेयः कृमिदन्तकः ६६
वक्त्रं वक्रं भवेद्यत्र दन्तभङ्गश्च जायते
कफवातकृतो व्याधिः स भञ्जनकसंज्ञकः ६७
शीतरूक्षप्रवाताम्लस्पर्शानामसहा द्विजाः
तत्र स्युर्वातपित्ताभ्यां दन्तहर्षः स कीर्त्तितः ६८
मलो दन्तगतो यस्तु कफश्चानिलशोषितः
शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा ६९
कपालेष्विव दीर्यत्सु दन्तेषु समलेषु च
कपालिकेति विज्ञेया दन्तच्छिद् दन्तशर्करा ७०
योऽसृङ्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः
श्यावतां नीलतां वापि गतः स श्यावदन्तकः ७१
शनैः शनैः प्रकुरुते यत्र दन्ताश्रितोऽनिलः
करालान्विकटान्दन्तान्स करालो न सिद्ध्य्ति ७२
अथ दन्तरोगचिकित्सा
तैलं लाक्षारसं क्षारं पृथक्प्रस्थमितं पचेत्
द्र व्यैः पलमितैरेतैः क्वाथैश्चापि चतुर्गुणैः ७३
लोध्रकट्फल मञ्जिष्ठापद्मकेशरपद्मकैः
चन्दनोत्पलयष्ट्याह्वैस्तत्तैलं वदने धृतम् ७४
दालनं दन्तचालं च दन्तमोक्षं कपालिकाम्
शीतादं पूतिवक्त्रञ्च विरुचिं विरसास्यताम् ७५
हन्यादाशु गदानेतान्कुर्याद् दन्तानपि स्थिरान्
लाक्षादिकमिदं तैलं दन्तरोगेषु पूजितम् ७६
जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम्
तथाऽवपीडवातघ्नः स्नेहगण्डूषधारणैः ७७
भद्र दार्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः
कृमिदन्तापहं कोष्णं हिङ्गु दन्तान्तरे स्थितम् ७८
बृहतीभूमिकदम्बपञ्चाङ्गुलकण्टकारिकाक्वाथः
गण्डूषस्तैलयुतः कृमिदन्तकवेदनाशमनः ७९
नीलीवायसजङ्घाकटुतुम्बीमूलमेकैकम्
सञ्चूर्ण्य दशनविधृतं दशनकृमिनाशनं प्राहुः ८०
स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य च
निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः ८१
स्नैहिकोऽत्र हितो धूमो नस्यं स्नैहिकमेव च
पेया रसा यवाग्वश्च क्षीरसन्तानिकाघृतम्
शिरोवस्तिहितश्चापि क्रमो यश्चानिलापहः ८२
अच्छिन्दन्दन्तमूलानि शर्करामुद्धरेद्भिषक्
लाक्षाचूर्णैर्मधुयुतैस्ततस्तां प्रतिसारयेत्
दन्तहर्षक्रियां चात्र कुर्यान्निरवशेषतः
कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया मता ८४
फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम्
तथाऽतिकठिनं भक्ष्यं दन्तरोगी न भक्षयेत् ८५
वातजः पित्तजश्चापि कफजोऽलाससंज्ञकः
उपजिह्विका च गदा जिह्वायां पञ्च कीर्त्तिताः ८६
जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा ८७
पित्तात्सदाहैरुपचीयते च दीर्घैः सरक्तैरपि कण्टकैश्च ८८
कफेन गुर्वी बहुला चिता च मांसोच्छ्रयैः शाल्मलिकण्टकाभैः ८९
जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससंज्ञः कफरक्तमूर्त्तिः
जिह्वां स तु स्तम्भयति प्रवृद्धो मूले च जिह्वा भृशमेति पाकम् ९०
जिह्वाऽग्ररूपः श्वयथुर्हि जिह्वामन्नुम्य जातः कफरक्तयोनिः
प्रसेककण्डूपरिदाहयुक्तः प्रकथ्यतेऽसावुपजिह्विकेति ९१
जिह्वागतविकाराणां शस्तं शोणितमोक्षणम्
गुडूचीपिप्पलीनिम्बकवलः कटुभिः सुखः ९२
ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक्चिकित्सितम्
कण्टकेष्वनिलोत्थेषु तत्कार्यं भिषजा खलु ९२
पित्तजे परिघृष्टे तु निःसृते दुष्टशोणिते
प्रतिसारणगण्डूषनस्यञ्च मधुरं हितम् ९३
कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये
पिप्पल्यादिर्मधुयुतः कार्यस्तु प्रतिसारणे ९४
उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत्
शिरोविरेकगण्डूषधूमैश्चैनामुपाचरेत् ९५
व्योषक्षाराभयावह्नि चूर्णमेतत्प्रघर्षणम्
उपजिह्वाप्रशान्त्यर्थमेभिस्तैलञ्च पाचयेत् ९६
गलशुण्ठी तुण्डिकेर्यभ्रूषः कच्छप एव च
ताल्वर्बुदश्च कथितो मांससङ्घात एव च ९७
तालुपुप्पुटनामा च तालुशोषस्तथैव च
तालुपाकश्च कथितास्तालुरोगा अमी नव ९८
श्लेष्मासृग्भ्यांतालुमूलात्प्रवृद्धो दीर्घः शोथो ध्मातवस्तिप्रकाशः
तृष्णाकासश्वासकृत्तं वदन्ति व्याधिं वैद्याः कण्ठशुण्डीति नाम्ना ९९
शोथः स्थूलस्तोददाहप्रपाकी श्लेष्मासृग्भ्यां कीर्त्तिता तुण्डिकेरी १००
शोथः स्तब्धो लोहितः शोणितोत्थो ज्ञेयोऽभ्रूषः सज्वरस्तीव्ररुक्च १०१
कूर्मोत्सन्नोऽवेदनोऽशीघ्रजन्मा रोगो ज्ञेयः कच्छपः श्लेष्मणः स्यात् १०२
पद्माकारं तालुमध्ये तु शोथं विद्याद्र क्तादर्बुदं पित्तलिङ्गम् १०३
दुष्टं मांसश्लेष्मणा नीरुजञ्च ताल्वन्तःस्थं मांससंघातमाहुः १०४
नीरुक्स्थायी कोलमात्रः कफात्स्यान्मेदोयुक्तात् पुप्पुटस्तालुदेशे १०५
शोषोऽत्यर्थं दीर्यते वाऽपि तालु श्वासश्चोग्रस्तालुशोषोऽनिलाच्च १०६
पित्तं कुर्यात्पाकमत्यर्थघोरं तालुन्येवं तालुपाकं वदन्ति १०७
कुष्ठोषणवचासिन्धुकणापाठाप्लवैः सह
सक्षौद्रै र्भिषजा कार्यं गलशुण्डीप्रघर्षणम् १०८
अङ्गुष्ठाङ्गुलिसन्दंशेनाकृष्य गलशुण्डिकाम्
छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम् १०९
अत्यादानात्स्रवेद्र क्तं ततः स म्रियते नरः
हीनच्छेदाद्भवेच्छोथो लालास्रावो भ्रमस्तथा
तस्माद्वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः
गलशुण्डीं तु संच्छिद्य कुर्यात्प्राप्तमिमं क्रमम्
पिप्पल्यतिविषाकुष्ठवचामरिचनागरैः
क्षौद्र युक्तैः सलवणैस्ततस्तां प्रतिसारयेत्
वचामतिविषापाठारास्नाकटुकरोहिणीः
निक्वाथ्य पिचुमर्दञ्च कवलं तत्र कारयेत्
तुण्डिकेर्यभ्रुषे कूर्मे सङ्घाते तालुपुप्पुटे
एष एव विधिः कार्यो विशेषः शस्त्रकर्मणि ११०
तालुपाके तु कर्त्तव्यं विधानं पित्तनाशनम्
स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः १११
रोहिणी पञ्चधा प्रोक्ता कण्ठशालूक एव च
अधिजिह्वश्च वलयो बलासश्चैकवृन्दकः ११२
ततो वृन्दः शतघ्नी च गिलायुः कण्ठविद्र धिः
गलौघश्च स्वरघ्नश्च मांसतानस्तथैव च ११३
विदारी कण्ठदेशे तु रोगा अष्टादश स्मृताः ११४
गलेऽनिलः पित्तकफौ च मूर्च्छितौ प्रदूष्य मांसञ्च तथैव शोणितम्
गलोपसंरोधकरैस्तथाङ्कुरैर्निहन्त्यसून्व्याधिरयं च रोहिणी ११५
जिह्वासमन्ताद् भृशवेदनास्तु मांसाङ्कुराः कण्ठनिरोधनाः स्युः
सा रोहिणी वातकृता प्रदिष्टा वातात्मकोपद्र वगाढजुष्टा ११६
क्षिप्रोद्गमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजाता ११७
स्रोतोनिरोधिन्यपि मन्दपाका गुर्वी स्थिरा सा कफसम्भवा तु ११८
गम्भीरपाकिन्यनिवार्यवीर्या त्रिदोषलिङ्गा त्रिभवा भवेत्सा ११९
स्फोटैश्चिता पित्तसमानलिङ्गा साध्या प्रदिष्टा रुधिरात्मिका तु १२०
सद्यस्त्रिदोषजा हन्ति त्र्! यहात्कफसमुद्भवा
पञ्चाहात्पित्तसम्भूता सप्ताहात्पवनोत्थिता १२१
कोलास्थिगात्रः कफसम्भवो यो ग्रन्थिर्गले कण्टकशूकभूतः
खरः स्थिरः शस्त्रनिपातसाध्यस्तत्कण्ठशालूकमिति ब्रुवन्ति १२२
जिह्वाऽग्ररूपः श्वयथुः कफात्तु जिह्वोपरिष्टादसृजैव मिश्रात्
ज्ञेयोऽधिजिह्वः खलु रोग एव विवर्जयेदागतपाकमेनम् १२३
बलास एवागतमुन्नतञ्च शोथं करोत्यन्नगतिं निवार्य
तं सर्वथैवाप्रतिवार्यमेव विवर्जनीयं वलयं वदन्ति १२४
गले तु शोथं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम्
मर्मच्छिदं दुस्तरमेनमाहुर्बलाससंज्ञं भिषजो विकारम् १२५
वृत्तोन्नतोऽन्त श्वयथुः सदाहः सकण्डुरोऽपाक्यमृदुर्गुरुश्च
नाम्नैकवृन्दः परिकीर्त्तितोऽसौ व्याधिर्बलासक्षतजप्रसूतः १२६
समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति
तं चापि पित्तक्षतजप्रकोपाद्विद्यात्सतोदं पवनात्मकं तु १२७
वर्त्तिर्घना कण्ठनिरोधिनी तु चिताऽतिमात्रं पिशितप्ररोहैः
अनेकरुक्प्राणहरी त्रिदोषाज्ज्ञेया शतघ्नीसदृशी शतघ्नी १२८
ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽल्परुक्स्यात्कफरक्तमूर्त्तिः
संलक्ष्यते सक्तमिवाशितञ्च स शस्त्रसाध्यस्तु गिलायुसंज्ञः १२९
सर्वं गलं व्याप्य समुत्थितो यः शोथो रुजः सन्ति च यत्र सर्वाः
स सर्वदोषैर्गलविद्र धिस्तु तस्यैव तुल्यः खलु सर्वजस्य १३०
शोथो महान्यस्तु गलावरोधी तीव्रज्वरो वायुगतेर्निहन्ता
कफेन जातो रुधिरान्वितेन गले गलौधः परिकीर्त्तितोऽसौ १३१
यस्ताम्यमानः श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः
कफोपदुष्टेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात्स्वरघ्नः १३२
प्रतानवान्यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण
स मांसतानः कथितोऽवलम्बी प्राणप्रणुत्सर्वकृतो विकारः १३३
सदाहतोदं श्वयथुं सताम्रमन्तर्गले पूतिविशीर्णमांसम्
पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात्स तु येन शेते १३४
रोहिणीनान्तु साध्यानां हितं शोणितमोचनम्
वमनं धूमपानञ्च गण्डूषो नस्यकर्म च
वातजान्तु हृते रक्ते लवणैः प्रतिसारयेत्
सुखोष्णान्स्नेहगण्डूषान्धारयेच्चाप्यभीक्ष्णशः
विस्राव्य पित्तसम्भूतां सिताक्षौद्र प्रियङ्गुभिः
घर्षयेत्कवलो द्रा क्षापरुषैः क्वथितो हितः
आगारधूमकटुकैः कफजां प्रतिसारयेत् १३५
श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम्
नस्यकर्मणि दातव्यं कवलञ्च कफोच्छ्रये १३६
पित्तवत्साधयेद्वैद्यो रोहिणीं रक्तसम्भवाम्
विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् १३७
एककालं यवान्नञ्च भुञ्जीत स्निग्धमल्पशः
उपजिह्वकवच्चापि साधयेदधिजिह्वकम् १३८
एकवृन्दं तु विस्राव्य विधिं शोधनमाचरेत्
एकवृन्दमिव प्रायो वृन्दञ्च समुपाचरेत् १३९
गिलायुश्चापि यो व्याधिस्तञ्च शस्त्रेण साधयेत्
अमर्मस्थं सुसम्पक्वं छेदयेद्गलविद्र धिम् १४०
कण्ठरोगेष्वसृङ्मोक्षैस्तीक्ष्णैर्नस्यादिकर्मभिः
चिकित्सकश्चिकित्सान्तु कुशलोऽत्र समाचरेत् १४१
क्वाथं दद्याच्च दार्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजम्
हरीतकीकषायो वा हितो माक्षिकसंयुतः १४२
कटुकाऽतिविषादारुपाठामुस्तकलिङ्गकाः
गोमूत्रक्वथिताः पीता कण्ठरोगविनाशनाः १४३
मृद्वीका कटुका व्योषं दार्वीत्वक् त्रिफला घनम्
पाठा रसाञ्जनं दूर्वा तेजोह्वेति सुचूर्णितम् १४४
क्षौद्र युक्तं विधातव्यं गलरोगे महौषधम्
योगाश्चैते त्रयः प्रोक्ता वातपित्तकफापहाः १४५
यवाग्रजं तेजवताञ्च पाठां रसाञ्जनं दारुनिशां सकृष्णाम्
क्षौद्रे ण कुर्याद् गुटिकां मुखेन तां धारयेत्सर्वगलामयेषु १४६
पृथगदोषैस्त्रयो रोगाः समस्तमुखजाः स्मृताः १४७
स्फोटैः सतोदैर्वदनं समन्ताद्यत्राचितं सर्वसरः स वातात् १४८
रक्तैः सदाहैः पिडकैः सपीतैर्यत्राचितं चापि स पित्तकोपात् १४९
अवेदनैः कण्डुयुतैः सवणैर्यत्राचितं चापि स वै कफेन १५०
ओष्ठप्रकोपे वर्ज्यास्तु मांसरक्तत्रिदोषजाः
दन्तवेष्टेषु वर्ज्यौ तु त्रिलिङ्गगति सौषिरौ १५१
दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः
जिह्वारोगेष्वलासस्तु तालुजेष्वर्बुदं तथा
स्वरघ्नो वलयो बृन्दो बलासः स हि दारुणः च विदारिका
गलौघो मांसतानश्च शतघ्नी रोहिणी गले
असाध्याः कीर्त्तिता ह्येते रोगा दश नवोत्तराः
तेषु वाऽपि क्रियां वैद्यः प्रत्याख्याय समाचरेत् १५२
वातात्सर्वसरं चूर्णैर्लवणैः प्रतिसारयेत्
तैलं वातहरैः सिद्धं हितं कवलनस्ययोः १५३
पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः
सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः १५४
प्रतिसारणगण्डूषधूमसंशोधनानि च
कफात्मके सर्वसरे क्रमं कुर्यात्कफापहम् १५५
मुखपाके शिरावेधः शिरसश्च विरेचनम्
मधुमूत्रघृतक्षीरैः शीतैश्च कवलग्रहः १५६
जातीपत्रामृताद्रा क्षायासदार्वीफलत्रिकैः
क्वाथः क्षौद्र युतः शीतो गण्डूषो मुखपाकनुत् १५७
कार्यञ्च बहुधा नित्यं जातीपत्रस्य चर्वणम्
कृष्णजीरककुष्ठेन्द्र यवचर्वणतस्त्र्! यहात् १५८
मुखपाकव्रणक्लेद दौर्गन्ध्यमुपशाम्यति
पटोलनिम्बजम्ब्वाम्र मालतीनवपल्लवैः १५९
पञ्चपल्लवजः श्रेष्ठः कषायो मुखधावने
पञ्चवल्कलजः क्वाथस्त्रिफलासम्भवोऽथ वा १६०
मुखपाके प्रयोक्तव्यः सक्षौद्रो मुखधावने
स्वरसः क्वथितो दार्व्या घनीभूतो रसक्रिया
सक्षौद्रा मुखरोगा सृग्दोषनाडीव्रणापहा १६१
सप्तच्छदोशीरपटोलमुस्तहरीतकीतिक्तकरोहिणीभिः
यष्ट्याह्वराजद्रुमचन्दनैश्च क्वाथं पिबेत्पाकहरं मुखस्य १६२
तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च
क्षौद्रा ढ्या दग्धवक्त्रस्य गण्डूषो मुखपाकनुत् १६३
आस्वादिता सकृदपि मुखगन्धं सकलमपनयति
त्वग्बीजपूरफलजा पवनमपाच्यं वारयति १६४
हरिद्रा निम्बपत्राणि मधुकं नीलमुत्पलम्
तैलमेभिर्विपक्तव्यं मुखपाकहरं परम् १६५
यष्टीमधु पलमेकं त्रिंशन्नीलोत्पलस्य तैलस्य
प्रस्थं तद् द्विगुणपयोविधिनापक्वं तु नस्येन १६६
निशि वदनस्य स्रावं क्षपयति गात्रस्य दोषसंघातम्
कचघर्षत्वमवश्यं क्रमतोऽभ्यङ्गेन जन्तूनाम् १६७
इति षट्षष्टितमो मुख रोगाधिकारः समाप्तः ६६

विषाधिकारः[सम्पाद्यताम्]

अथ सप्तषष्टितमो विषाधिकारः ६७
स्थावरं जङ्गमञ्चैव द्विविधं विषमुच्यते
दशाधिष्ठानमाद्यं तु द्वितीयं षोडशाश्रयम् १
मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सारमेव च
निर्यासो धातवः कन्दः स्थावरस्याश्रया दश २
दृष्टिनिश्वासदंष्ट्राश्च नखमूलमलानि च
शुक्रं लालाऽत्तवस्पर्शसंदंशाश्चावमर्दितम्
गुदास्थिपित्तशूकानि दश षड् जङ्गमाश्रयाः ३
अथ स्थावरविषाणां सामान्यकार्याणि
उद्वेष्टनं मूलविषैर्मोहः प्रलपनं तथा ४
जृम्भणं वेपनं श्वासो नृणां पत्रविषैर्भवेत् ५
मुष्कशोथः फलविषैर्दाहो द्वेषश्च भोजने ६
भवेत्पुष्पविषैश्छर्दिराध्मानं मूर्च्छनं तथा ७
त्वक्सारनिर्यासविषैरुपभुक्तैर्भवन्ति हि
आस्यदौर्गन्ध्य पारुष्यशिरोरुक्कफसंस्रवाः ८
फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता ९
हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि
प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत् १०
कन्दजान्युग्रवीर्याणि यान्युक्तानि त्रयोदश
सर्वाण्येतानि कुशलैर्ज्ञेयानि दशभिर्गुणैः ११
स्थावरं जङ्गमं वाऽपि कृत्रिमं चापि यद्विषम्
सद्यो निहन्ति तत्सर्वं गुणैश्च दशभिर्युतम् १२
रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशु व्यवायि च
विकाशि विशदञ्चैव लघुपाकि च ते दश १३
तद्रौ क्ष्यात्कोपयेद्वायुमौष्ण्यात् पित्तं सशोणितम्
तैक्ष्ण्यान्मतिं मोहयति मर्मबन्धाञ्छिनत्ति हि
शरीरावयवान्सौक्ष्म्यात्प्रविशेद्विकरोति च
आशुत्वादाशु तत्प्रोक्तं व्यवायात्प्रकृतिं हरेत् १४
विकाशित्वात्क्षपयति दोषान्धातून्मलानपि
अतिरिच्यते वैशद्याद् दुश्चिकित्स्यं च लाघवात्
दुर्जरं चाविपाकित्वात्तस्मात्क्लेशयते चिरम् १५
सद्यः क्षतं पच्यते यस्य जन्तोः स्रवेद्र क्तं पच्यते चाप्यभीक्ष्णम्
कृष्णीभूतं क्लिन्नमत्यर्थपूति क्षतान्मांसं शीर्यते यस्य वाऽपि १६
तृष्णातापौ दाहमूर्च्छे च यस्य दिग्धं विद्धं तं मनुष्यं व्यवस्येत्
लिङ्गान्येतान्येव कुर्यादमित्रैर्दत्तः क्ष्वेडो वा व्रणे यस्य चापि १७
इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः
जानीयाद्विषदातारमेभिर्लिङ्गैश्च बुद्धिमान् १८
न ददात्युत्तरं पृष्टो विवक्षुर्मोहमेति च
अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत् १९
अङ्गुलद्यः स्फोटयेदुर्वीं विलिखेत्प्रहसेदपि
वेपथुश्चास्य भवति त्रस्तश्चैककमीक्षते २०
विवर्णवक्त्रो ध्यामश्च नखैः किञ्चिच्छिनत्ति च
आलभेतासकृद्दीनः करेण च शिरोरुहान्
निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः
वर्त्तते विपरीतं च विषदाता विचेतनः २२
निद्रा ं! तन्द्रा ं! क्लमं दाहं सम्पाकं लोमहर्षणम्
शोथं चैवातिसारं च कुरुते जङ्गमं विषम् २३
वातपित्तकफात्मानो भोगिमण्डलिराजिलाः
यथाक्रमं समाख्याता द्व्यन्तराद्वन्द्वरूपिणः २४
फणिनो भोगिनो ज्ञेयाः संख्यातास्तेऽत्र विंशतिः
मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः २५
षट् ते मण्डलिनो ज्ञेया ज्वलनार्कविषाः स्मृताः २६
स्निग्धा विविधवर्णाभिस्तिर्यगूर्ध्वञ्च राजिभिः
विचित्रा इव ये भान्ति राजिलास्ते हि तेऽपि षट् २७
दंशो भोगिकृतः कृष्णः सर्ववातविकारकृत्
पीतो मण्डलिनः शोथो मृदुः पित्तविकारवान् २८
राजिलोत्थो भवेद्दंशः स्थिरशोथश्च पिच्छिलः
पाण्डुः स्निग्धोऽतिसान्द्रा सृक्सर्वश्लेष्मविकारवान् २९
अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु
याम्ये च पित्र्! ये परिवर्जनीयाः ॠक्षे नरा मर्मसु ये च दष्टाः ३०
दर्वीकराणां विषमाशु हन्ति मेघानिलोष्णे द्विगुणीभवन्ति ३१
रथाङ्गलाङ्गलच्छत्रस्वस्ति काङ्कुशधारिणः
ज्ञेया दर्वीकराः सर्पाः फणिनः शीघ्रगामिनः ३२
अजीर्णपित्तातपपीडितेषु बालेषु वृद्धेषु बुभुक्षितेषु
क्षीणे क्षते मेहिनि कुष्ठजुष्टे रूक्षेऽबले गर्भवतीषु चापि ३३
शस्त्रक्षते यस्य न रक्तमस्ति राज्यो लताभिश्च न सम्भवन्ति
शीताभिरद्भिश्च न रोमहर्षो विषाभिभूतं परिवर्जयेत्तम्
जिह्मं मुखं यस्य च केशशातो नासाऽवसादश्च सकण्ठभङ्गः
कृष्णश्च रक्तः श्वयथुश्च दंशे हन्वोः स्थिरत्वञ्च विवर्जनीयः ३४
वान्तिर्घना यस्य निरेति वक्त्राद्र क्तं स्रवेदूर्ध्वमधश्च यस्य
दंष्ट्रानिपातांश्चतुरश्च पश्येद्यस्यापि वैद्यैः परिवर्जनीयः ३५
उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाऽप्यथवा विवर्णम्
सारिष्टमत्यर्थमवेगिनञ्च जह्यान्नरं तत्र न कर्म कुर्यात् ३६
जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा
स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति ३७
वीर्याल्पभावान्न निपातयेत्तत्कफान्वितं वर्षगणानुबन्धि
तेनार्दितो भिन्नपुरीषवर्णो विगन्धिवैरस्ययुतः पिपासी
मूर्च्छा भ्रमं गद्गदवाग्वमिञ्च विचेष्टमानोऽरतिमाप्नुयाद्वा ३८
आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी
भवेत्समुद्धस्तशिरोऽङ्गरुट्को विलूनपक्षश्च यथा विहङ्गः ३९
स्थितं रसादिष्वथ तद्यथोक्तान्करोति धातुप्रभवान्विकारान् ४०
कोपं पु शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तस्य रूपम् ४१
निद्रा गुरुत्वञ्च विजृम्भवच्च विश्लेषहर्षावथवाऽङ्गमर्दः ४२
ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठजन्म
मासक्षयं पाणिपदे प्रशोथं मूर्च्छां तथा छर्दिमथातिसारम्
दूषीविषं श्वासतृषाज्वरांश्च कुर्यात्प्रवृद्धिं जठरस्य चापि ४३
उन्मादमन्यज्जनयेत्तथाऽन्यदानाहमन्यत्क्षपयेच्च शुक्रम्
गाद्गद्यमन्मज्जनयेच्च कुष्ठं तांस्तान्विकारांश्च बहुप्रकारान् ४४
दूषितं देश कालान्नदिवास्वप्नैरभीक्ष्णशः
यस्मात्सन्दूषयेद्धातूंस्तस्माद् दूषीविषं स्मृतम् ४५
साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम्
दूषीविषमसाध्यं स्यात्क्षीणस्याहितसेविनः ४६
सौभाग्यार्थं स्त्रियः स्वेदं रजो नानाऽङ्गजान्मलान्
शत्रुप्रयुक्तांश्च गरान्प्रयच्छन्त्यन्नमिश्रितान् ४७
तैः स्यात्पाण्डुः कृशोऽल्पाग्निर्गरैश्चास्योपजायते
मर्मप्रधमनाध्मानं हस्तयोः शोथसम्भवः ४८
जठरं ग्रहणीदोषो यक्ष्मगुल्मक्षयज्वराः
एवंविधस्य चान्यस्य व्याधेर्लिङ्गानि दर्शयेत् ४९
यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः
तेभ्यो जातास्तथा लूता इति ख्यातास्तु षोडश ५०
विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम्
वसिष्ठं कोपयामास गत्वाऽश्रमपदं किल ५१
कुपितस्य मुनेस्तस्य ललाटात्स्वेदबिन्दवः
अपतन्दर्शनादेव ह्यधस्तात्तीव्रवर्चसः ५२
लूने तृणे महर्षेस्तु धेन्वर्थे सम्भृतेऽपि च
ततो जातास्त्विमे घोरा नानारूपा महाविषाः
तासामष्टौ कष्टसाध्या वर्ज्यास्तावत्य एव हि ५४
ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च
ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः ५५
पिडका विविधाकारा मण्डलानि महान्ति च
शोथा महान्तो मृदवो रक्ताः श्यावाश्चलास्तथा
सामान्यं सर्वलूतानामेतद् दंशस्य लक्षणम् ५६
दंशमध्ये तु यत्कृष्णं श्यावं वा जालकावृतम्
दग्धाकृति भृशं पाकक्लेदशोथज्वरान्वितम्
दूषीविषाभिर्लूताभिस्तद्दष्टमिति निर्दिशेत् ५७
शोथः श्वेताः सिता रक्ताः पीता वा पिडका ज्वरः
प्राणान्तकाश्च जायन्ते दाहहिक्काशिरोग्रहाः ५८
आदंशाच्छोणितं पाण्डु मण्डलानि ज्वरोऽरुचिः
लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्दिते ५९
मूर्च्छाऽङ्गशोथवैवर्ण्यं क्लेदो मन्दश्रुतिर्ज्वरः
शिरोगुरुत्वं लालाऽसृक्छर्दिश्चासाध्यमूषकात् ६०
शोथस्य कार्ष्ण्यमथवा नानावर्णत्वमेव च
मोहोऽथ वर्चसो भेदो दष्टस्य कृकलासकैः ६१
दहत्यग्निरिवादौ तु भिनत्तीवोर्द्ध्वमाशु च
वृश्चिकस्य विषं याति पश्चाद् दंशेऽवतिष्ठते ६२
दष्टोऽसाध्यैस्तु हृद्घ्राणरसनोपहतो नरः
मांसैः पतद्भिरत्यर्थ वेदनाऽत्तो जहात्यसून् ६३
विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि वा
लक्षणं कणभैर्दष्टे दंशश्चैव विशीर्यते ६४
कृष्णलोमोच्चिटिङ्गेन स्तब्धलिङ्गो भृशार्त्तिमान्
दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते ६५
एकदंष्ट्राऽदितः शूनःसरुजः पीतकः सतृट्
सनिद्र श्छर्दिमान्दष्टो मण्डूकैः सविषैर्भवेत् ६६
मत्स्यास्तु सविषाः कुर्युर्दाहं शोथं रुजं तथा ६७
कण्डूं शोथं ज्वरं मूर्च्छां सविषास्तु जलौकसः ६८
विदाहश्वयथुं तोदं प्रस्वेदं गृहगोधिकाः ६९
दंशे स्वेदं रुजं दाहं कुर्याच्छतपदीविषम् ७०
कण्डूमान्मशकैरीषच्छोथः स्यान्मन्दवेदनः ७१
असाध्यकीटसदृशमसाध्यं मशकक्षतम् ७२
सद्यः संस्राविणी श्यावा दाहमूर्च्छाज्वरान्विता
पिडका मक्षिकादंशे तासान्तु स्थगिकाऽसुहृत् ७३
चतुष्पाद्भिर्द्विपाद्भिर्वा नखैर्दन्तैश्च यत्कृतम्
शूयते पच्यते तत्तु स्रवति ज्वरयत्यपि ७४
प्रसन्नदोषं प्रकृतिस्थधातुमन्नाभिकामं सममूत्रविट्कम्
प्रसन्नवर्णेन्द्रि यचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ७५
स्थावरेण विषेणार्त्तं नरं यत्नेन वामयेत्
वमनेन समं नास्ति यतस्तस्य चिकित्सितम्
विषमत्यर्थमुष्णञ्च तीक्ष्णं च कथितं यतः
अतः सर्वविषेषूक्तः परिषेकस्तु शीतलः
औष्ण्यात्तैक्ष्ण्याद्विशेषेण विषं पित्तं प्रकोपयेत्
वमितं सेचयेत्तस्माच्छीतलेन जलेन च
पाययेन्मधुसर्पिर्भ्यां विषघ्नं भेषजं द्रुतम्
भोक्तुमम्लं रसं दद्याद्घर्षयेन्मरिचानि च ७६
यस्य यस्य च दोषस्य पश्येल्लिङ्गानि भूरिशः
तस्य तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम् ७७
शालयः षष्टिकाश्चैव कोरदूषाः प्रियङ्गवः
भोजनार्थं विषार्त्तानामूर्ध्वञ्चाधश्च शोधनम् ७८
मूलत्वक्पत्रपुष्पाणि बीजं चेति शिरीषतः
गवां मूत्रेण सम्पिष्टंलेपाद्विषहरं परम् ७९
दूषीविषार्त्तं सुस्निग्धमूर्ध्वञ्चाधश्च शोधनम्
पाययेदगदं मुख्यमिदं दूषीविषापहम् ८०
पिप्पली ध्यामकं मांसी लोध्रमेला सुवर्चिका
मरिचं बालकञ्चैला तथा कनकगैरिकम्
क्षौद्र युक्तः कषायोऽय दूषीविषमपोहति ८१
अभयां रोचनां कुष्ठमर्कपत्रं तथोत्पलम्
नलवेतसमूलानि गरलं सुरसां तथा ८२
सकलिङ्गां समञ्जिष्ठामनन्ताञ्च शतावरीम्
शृङ्गाटकं समङ्गां च पद्मकेशरमित्यपि ८३
कल्कीकृत्य पचेत्सर्पिः पयो दद्याच्चतुर्गुणम्
सम्यक्पक्वेऽवतीर्णे च शीते तस्मिन्विनिक्षिपेत् ८४
सर्पिस्तुल्यं भिषक्क्षौद्रं कृतरक्षं निधापयेत्
विषाणि हन्ति दुर्गाणि गरदोषकृतानि च ८५
स्पर्शाद्धन्ति विषं सर्वं गरैरुपहतां त्वचम्
योगजं तमकं कण्डूं मांसपादं विसंज्ञताम् ८६
नाशयत्यञ्जनाभ्यङ्गपानबस्तिषु योजितम्
सर्पकीटाखुलूताऽदिदष्टानां विषहृत्परम् ८७
धत्तरूस्य शिफा पेया क्षीरेण परिपेषिता
अङ्कोटवंशजा चापि श्वविषघ्नी प्रयत्नतः ८८
रजनीयुग्मपत्तङ्ग मञ्जिष्ठानागकेशरैः
शीताम्बुपिष्टैरालेपः सद्यो लूतां विनाशयेत् ८९
जीरकस्य कृतः कल्को घृतसैन्धवसंयुतः
सुखोष्णो मधुना लेपो वृश्चिकस्य विषं हरेत् ९०
गन्धमाघ्राय मृदितं सूर्यावर्त्तदलस्य तु
वृश्चिकेन नरो विद्धः क्षणाद्भवति निर्विषः ९१
इति सप्तषष्टितमो विषाधिकारः समाप्तः ६७

स्त्रीरोगाणामधिकाराः[सम्पाद्यताम्]

अथ स्त्रीरोगाणामधिकाराः ६८
विरुद्धमद्याध्यशनादजीर्णाद्गर्भप्रपातादतिमैथुनाच्च
यानाध्वशोकादतिकर्षणाच्च भाराभिघाताच्छयनाद्दिवा च १
तं श्लेष्मपित्तानिलसन्निपातैश्चतुष्प्रकारं प्रदरं वदन्ति २
असृग्दरं भवेत्सर्वं साङ्गमर्दं सवेदनम् ३
आमं सपिच्छाप्रतिमं सपाण्डुं पुलाकतोयप्रतिमं कफात्तु ४
सपीतनीलासितरक्तमुष्णं पित्तार्त्तियुक्तं भृशवेगि पित्तात् ५
रूक्षारुणं फेनिलमल्पमल्पं वातात्सतोदं पिशितोदकाभम् ६
सक्षौद्र सर्पिर्हरितालवर्णं मज्जप्रकाशं कुणपं त्रिदोषम्
तच्चाप्यसाध्यं प्रवदन्ति तज्ज्ञा न तत्र कुर्वीत भिषक्चिकित्साम् ७
तस्यातिवृत्तौ दौर्बल्यं श्रमो मूर्च्छा मदस्तृषा
दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः ८
शश्वत्स्त्रवन्तीमास्रावं तृष्णादाहज्वरान्विताम्
दुर्बलां क्षीणरक्ताञ्च तामसाध्यां विवर्जयेत् ९
मासान्निष्पिच्छदाहार्त्ति पञ्चरात्रानुबन्धि च
नैवातिबहु नात्यल्पमार्त्तवं शुद्धमादिशेत् १०
दध्ना सौवर्चलं जाजी मधुकं नीलमुत्पलम्
पिबेत्क्षौद्र युतं नारी वातासृग्दरशान्तये ११
मधुकं कर्षमेकं तु कर्षकाञ्च सितां तथा
तण्डुलोदकसम्पिष्टां लोहित प्रदरे पिबेत्
बलां कङ्कतिकाऽख्या या तस्या मूलं सुचूर्णितम्
लोहितप्रदरे खादेच्छर्करामधुसंयुतम्
शुचिस्थाने व्याघ्रनख्या मूलमुत्तरदिग्भवम्
नीतमुत्तरफल्गुन्यां कटिबद्धं हरेदसृक् १२
रसाञ्जनं तण्डुलकस्य मूलं क्षौद्रा न्वितं तण्डुलतोयपीतम्
असृग्दरं सर्वभवं निहन्ति श्वासञ्च भार्गी सह नागरेण १३
अशोकवल्कलक्वाथशृतं दुग्धं सुशीतलम्
यथाबलं पिबेत्प्रातस्तीव्रासृग्दरनाशनम् १४
कुशमूलं समुद्धृत्य पेषयेत्तडुलाम्बुना
एतत्पीत्वा त्र्! यहं नारी प्रदरात्परिमुच्यते १५
क्षौद्र युक्तं फलरसमौदुम्बरभवं पिबेत्
असृग्दरविनाशाय सशर्करपयोऽन्नभुक् १६
अलाबुफलचूर्णस्य शर्करासहितस्य च
मधुना मोदकं कृत्वा खादेत्प्रदरशान्तये १७
दार्वीरसाञ्जनकिरातवृषाब्दबिल्वसक्षौद्र चन्दनदिनेशभवप्रसूनैः
क्वाथः कृतो मधुयुतो विधिना निपीतो रक्तं सितञ्च सरुजं प्रदरं निहन्ति
रक्तपित्ताधिकारोक्तं हितं कूष्माण्डखण्डकम् १८
इत्यष्टषष्टितमः प्रदराधिकारः समाप्तः ६८

सोमरोगाधिकारः[सम्पाद्यताम्]

अथैकोनसप्ततितमः सोमरोगाधिकारः ६९
स्त्रीणामतिप्रसङ्गेन शोकाच्चापि श्रमादपि
आभिचारिकयोगाद्वा गरयोगात्तथैव च १
आपः सर्वशरीरस्थाः क्षुभ्यन्ति प्रस्रवन्ति च
तस्यास्ताः प्रच्युताः स्थानान्मूत्रमार्ग व्रजन्ति हि २
प्रसन्ना विमलाः शीता निर्गन्धा नीरुजाः सिताः
स्रवन्ति चातिमात्रं ताः सा न शक्नोति दुर्बला ३
वेगं धारयितुं तासां न विन्दति सुखं क्वचित्
शिरः शिथिलता तस्य मुखं तालु च शुष्यति ४
मूर्च्छा जृम्भा प्रलापश्च त्वग्रूक्षा चातिमात्रतः
भक्ष्यैर्भोज्यैश्च पेयैश्च न तृप्तिं लभते सदा ५
सन्धारणाच्छरीरस्य ता आपः सोमसंज्ञिताः
ततः सोमक्षयात्स्त्रीणां सोमरोग इति स्मृताः ६
कदलीनां फलं पक्वं धात्रीफलरसं मधु
शर्करासहितं खादेत् सोमधारणमुत्तमम् ७
माषचूर्णं समधुकं विदारीं मधुशर्कराम्
पयसा पाययेत्प्रातः सोमधारणमुत्तमम् ८
स एव सरुजः सोमः स्रवेन्मूत्रेण चेन्मुहुः
तत्रैलापत्रचूर्णेन पाययेद्वारुणीं सुराम् ९
जलेनामलकी बीजकल्कं समधुशर्करम्
पिबेद्दिनत्रयेणैव श्वेतप्रदरनाशनम् १०
तक्रौदनाहाररता सम्पिबेन्नागकेशरम्
त्र्! यहं तक्रेण सम्पिष्टं श्वेतप्रदरशान्तये ११
सोमरोगे चिरं जाते यदा मूत्रमतिस्रवेत्
मूत्रातिसारं तं प्राहुर्बलविध्वंसनं परम् १२
इत्यैकोनसप्ततितमः सोमरोगाधिकारः समाप्तः ६९

योनिरोगाधिकारः[सम्पाद्यताम्]

अथ सप्ततितमो योनिरोगाधिकारः ७०
मिथ्याऽहारविहाराभ्यां दुष्टैर्दोषैः प्रदूषिताम्
आर्त्तवाद्बीजतश्चापि दैवाद्वा स्युर्भगे गदाः १
उदावर्त्ता तथा वन्ध्या विप्लुता च परिप्लुता
वातला योनिजो रोगो वातदोषेण पञ्चधा २
पञ्चधा पित्तदोषेण तत्रादौ लोहितक्षरा
प्रस्रंसिनी वामनी च पुत्रघ्नी पित्तला तथा ३
अत्यानन्दा कर्णिनी च चरणानन्दपूर्विका
अतिपूर्वाऽपि सा ज्ञेया श्लेष्मला च कफादिमाः ४
षण्ढ्यण्डिनी च महती सूचीवक्त्रा त्रिदोषिणी
पञ्चैता योनयः प्रोक्ताः सर्वदोषप्रकोपतः ५
सफेनिलमुदावर्त्ता रजः कृच्छ्रेण मुञ्चति
बन्ध्या निरार्त्तवा ज्ञेया विप्लुता नित्यवेदना ६
परिप्लुतायां भवति ग्राम्यधर्मरुजा भृशम्
वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता
चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ७
सदाहं क्षरते रक्तं यस्याः सा लोहितक्षरा
प्रस्रंसिनी स्रंसते च क्षोभिता दुष्प्रजायिनी ८
सवातमुद्गिरद्बीजं वामनी रजसा युतम्
स्थितं हि पातयेद्गर्भं पुत्रघ्नी रक्तसंस्रवात् ९
अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता
चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत् १०
अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण विन्दति
कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते ११
मैथुने चरणा पूर्वं पुरुषादतिरिच्यते
बहुशश्चातिचरणा तयोर्बीजं न तिष्ठति १२
श्लेष्मला पिच्छिला योनिः कण्डूयुक्ताऽतिशीतला
चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रयो भवेत् १३
अनार्त्तवाऽस्तनी षण्ढी खरस्पर्शा च मैथुने
महामेढ्रगृहीतायाबालायास्त्वण्डिनी भवेत् १४
विवृताऽतिमहायोनिः सूचीवक्त्राऽतिसंवृता १५
सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा
चतसृष्वपि चाद्यासु सर्वलिङ्गनिदर्शनम् ६६
पञ्चासाध्या भवन्तीह योनयः सर्वदोषजाः १७
दिवास्वप्नादतिक्रोधाद् व्यायामादतिमैथुनात्
क्षताच्च नखदन्ताद्यैर्वाताद्याः कुपिता यथा १८
पूयशोणितसङ्काशं लकुचाकृतिसन्निभम्
जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः १९
रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्दिशेत्
दाहरागज्वरयुतं विद्यात्पित्तात्मकं तु तम् २०
तिलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम्
सर्वलिङ्गसमायुक्तं सन्निपातात्मकं वदेत् २१
आर्त्तवादर्शने नारी मत्स्यान्सेवेत नित्यशः
काञ्जिकं च तिलान्माषानुदश्विच्च तथा दधि २२
इक्ष्वाकुबीजदन्तीचपलागुडमदनकिण्वयवशूकैः
सस्नुक्क्षीरैर्वर्त्तिर्योनिगता कुसुमसञ्जननी २३
पीतं ज्योतिष्मतीपत्रं स्वर्जिकोग्रासनं त्र्! यहम्
शीतेन पयसा पिष्टं कुसुमं जनयेद् ध्रुवम् २४
बला सिता सातिबला मधूकं वटस्य शुङ्गं गजकेशरं च
एतन्मधुक्षीरघृतैर्निपीतं वन्ध्या सुपुत्रं नियतं प्रसूते २५
अश्वगन्धाकषायेण सिद्धं दुग्धं घृतान्वितम्
ॠतुस्नाताऽङ्गना प्रातः पीत्वा गर्भं दधाति हि २६
पुष्योद्धृतं लक्ष्मणाया मूलं दुग्धेन कन्यया
पिष्टं पीत्वा ॠतुस्नाता गर्भं धत्ते न संशयः २७
कुरण्टमूलं धातक्याः कुसुमानि वटाङ्कुराः
नीलोत्पलं पयोयुक्तमेतद् गर्भप्रदं ध्रुवम् २८
याऽबला पिबति पार्श्वपिप्पलं जीरकेण सहितं हिताशिनी
श्वेतया विशिखपुङ्खया युतं सा सुतं जनयतीह नान्यथा २९
पत्रमेकं पलाशस्य पिष्ट्वा दुग्धेन गर्भिणी
पीत्वा पुत्रमवाप्नोति वीर्यवन्तं न संशयः ३०
शूकरशिम्बीमूलं मध्यं वा दधिफलस्य सपयस्कम्
पीत्वाऽथो भवलिङ्गीबीजं कन्यां न सूते स्त्री ३१
पुत्रकमञ्जरिमूलं विष्णुक्रान्तेशलिङ्गिनी सहिता
एतद्गर्भेऽष्टदिनं पीत्वा कन्यां न सर्वथा सूते ३२
पिप्पलिविडङ्गटङ्कणसमचूर्णं या पिबेत्पयसा
ॠतुसमये न हि तस्या गर्भः सञ्जायते क्वापि ३३
आरनालपरिपेषितं त्र्! यहं या जपाकुसुममत्ति पुष्पिणी
सत्पुराणगुडमुष्टिसेविनी सन्दधाति न हि गर्भमङ्गना ३४
तासु योनिषु चाद्यासु स्नेहादिक्रम इष्यते
वस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम् ३५
नतवार्त्ताकिनी कुष्ठसैन्धवामरदारुभिः
तिलतैलं पचेन्नारी पिचुमस्य विधारयेत्
विप्लुतायां सदा योनौ व्यथा तेन प्रशाम्यति ३६
वातलां कर्कशां स्तब्धामल्पस्पर्शां तथैव च
कुम्भीस्वेदैरुपचरेदन्तर्वेश्मनि संवृते
धारयेद्वा पिचुं योनौ तिलतैलस्य सा सदा ३७
पित्तलानां च योनीनां सेकाभ्यङ्गपिचुक्रियाः
शीताः पित्तहराः कार्याःस्नेहनार्थं घृतानि च ३८
प्रस्रसिनीं घृताभ्यक्तां क्षीरस्विन्नां प्रवेशयेत्
पिधाय वेशवारेण ततो बन्धं समाचरेत् ३९
शुण्ठीमरिचकृष्णा भिर्धान्यकाजाजिदाडिमैः
पिप्पलीमूलसंयुक्तैर्वेशवारः स्मृतो बुधैः ४०
धात्रीरसं सितायुक्तं योनिदाहे पिबेत्सदा
सूर्यकान्ता भवं मूलं पिबेद्वा तण्डुलाम्बुना ४१
योन्यां तु पूयस्राविण्यां शोधनद्र व्यनिर्मितैः
सगोमूत्रैः सलवणैः पिण्डैः सम्पूरणं हितम् ४२
दुर्गन्धां पिच्छिलां वाऽपि चूर्णैः पञ्चकषायजैः
पूरयेद्धारयेद्रा जवृक्षादिक्वथिताम्बुना ४३
पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः
वर्त्तिस्तुल्या प्रदेशिन्या योनौ श्लेष्मविशोधिनी ४४
कर्णिन्यां वर्त्तयो देयाः शोधनद्र व्यनिर्मिताः ४५
गुडूची त्रिफलादन्तीक्वथितोदकधारया
योनिं प्रक्षालयेत्तेन तत्र कण्डूः प्रशाम्यति ४६
मुद्गयूषं सखदिरं पथ्यां जातीफलं तथा
निम्बं पूगञ्च सञ्चूर्ण्य वस्त्रपूतं क्षिपेद्भगे ४७
योनिर्भवति सङ्कीर्णा न स्रवेच्च जलं ततः
कपिकच्छूभवं मूलं क्वाथयेद्विधिना भिषक्
योनिः सङ्कीर्णतां याति क्वाथेनानेन धावने ४८
जीरकद्वितयं कृष्णं सुषवी सुरभिर्वचा
वासकः सैन्धवश्चापि यवक्षारो यवानिका ४९
एषां चूर्णं घृते किञ्चिद्भृष्ट्वा खण्डेन मोदकम्
कृत्वा खादेद्यथावह्नि योनिरोगाद्विमुच्यते ५०
मूषकक्वाथसंसिद्धतिलतैलकृतः पिचुः
नाशयेद् योनिरोगांस्तान्धृतो योनौ न संशयः ५१
त्रिफलां द्वौ सहचरौ गुडूचीं सपुनर्नवाम्
शुकनासां हरिद्रे द्वे रास्नां मेदां शतावरीम् ५२
कल्कीकृत्य घृतप्रस्थं पचेत्क्षीरे चतुर्गुणे
तत्सिद्धं पाययेन्नारी योनिरोगप्रशान्तये ५३
मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला
मेदे पयस्याकाकोल्यौ मूलं चैवाश्वगन्धजम् ५४
अजमोदा हरिद्रे द्वे प्रियङ्गुः कटुरोहिणी
उत्पलं कुमुदं द्रा क्षा काकोल्यौ चन्दनद्वयम् ५५
एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत्
शतावरीरसं क्षीरं घृताद्देयं चतुर्गुणम् ५६
सर्पि रेतन्नरः पीत्वा स्त्रीषु नित्यं वृषायते
पुत्राञ्जनयते वीरान्मेधाऽढ्यान्प्रियदर्शनान् ५७
या चैवास्थिरगर्भा स्यात्पुत्रं वा जनयेन्मृतम्
अल्पायुषं वा जनयेद्या च कन्यां प्रसूयते ५८
योनिरोगे रजोदोषे परिस्रावे च शस्यते
प्रजावर्धनमायुष्यं सर्वग्रहनिवारणम् ५९
नाम्ना फलघृतं ह्येतदश्विभ्यां परिकीर्त्तितम्
अनुक्तं लक्ष्मणामूलं क्षिपन्त्यत्र चिकित्सकाः ६०
जीवद्वत्सैकवर्णाया घृतं तत्र प्रयुज्यते
आरण्यगोमयेनैव वह्निज्वाला च दीयते ६१
गैरिकाम्रास्थिजन्तुघ्नरजन्यञ्जनकट्फलाः
पूरयेद्योनिमेतेषां चूर्णैः क्षौद्र्रसमन्वितैः ६२
त्रिफलायाः कषायेण सक्षौद्रे ण च सेचयेत्
प्रमदा योनिकन्देन व्याधिना परिमुच्यते ६३
तत्र चलितगर्भस्थापने ह्रीवेरादिक्वाथः
ह्रीवेरातिविषामुस्तमोचशक्रैश्शृतं जलम्
दद्याद् गर्भे प्रचलिते प्रदरे कुक्षिरुज्यपि ६४
मधुकं चन्दनो शीरसारिवापद्मपत्रकैः
शर्करामधुसंयुक्तैः कषायो गर्भिणीज्वरे ६५
चन्दनं सारिवालोध्रमृद्वीकाशर्कराऽन्वितम्
क्वाथं कृत्वा प्रदद्याच्च गर्भिणीज्वरशान्तये
पीतं विश्वमजाक्षीरैर्नाशयेद्विषमज्वरम् ६६
आम्रजम्बूत्वचः क्वाथैर्लेहयेल्लाजशक्तुकम्
अनेनालीढमात्रेण गर्भिणी ग्रहणीं जयेत् ६७
ह्रीबेरारलुरक्तचन्दनबलाधान्याकवत्सादनी
मुस्तोशीरयवासपर्पटविषाक्वाथं पिबेद् गर्भिणी
नानाव्याधिरुजाऽतिसारगदके रक्तस्रुतौ वा ज्वरे
योगोऽय मुनिभिः पुरा निगदितः सूत्यामयेऽप्युत्तमः ६८
ग्राम्यधर्माध्व गमनयानायासप्रपीडनैः
ज्वरोपवासोत्पतन प्रहाराजीर्णधावनैः ६९
वमनाच्च विरेकाच्च कुन्थनाद् गर्भपातनात्
तीक्ष्णक्षारोष्णकटुकतिक्तरूक्षनिषेवणात् ७०
वेगाभिघाताद्विषमादासनाच्छयनाद्भयात्
गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत् ७१
आ चतुर्थात्ततो मासात्प्रस्रवेद् गर्भविद्र वः
ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ७२
गर्भोऽभिघात विषमासनपीडनाद्यैः
पक्वं द्रुमादिव फलं पतति क्षणेन ७३
गुर्विण्या गर्भतो रक्तं स्रवेद्यदि मुहुर्मुहुः
तन्निरोधाय सा दुग्धमुत्पलादिशृतं पिबेत् ७४
उत्पलं नीलमारक्तं कह्लारं कुमुदं तथा
श्वेताम्भोजञ्च मधुकमुत्पलादिरयं गणः ७५
संशीलितो हरत्येव दाहं तृष्णां हृदामयम्
रक्तपित्तञ्च मूर्च्छां च तथा छर्दिमरोचकम् ७६
प्रस्रंसमाने गर्भे स्याद्दाहः शूलञ्च पार्श्वयोः
पृष्ठरुक्प्रदरानाहौ मूत्रसङ्गश्च जायते ७७
स्थानात्स्थानान्तरं तस्मिन्प्रयात्यपि च जायते
आमपक्वाशयादौ तु क्षोभः पूर्वेऽप्युपद्र वाः ७८
स्निग्धशीतक्रियास्तेषु दाहादिषु समाचरेत्
कुशकाशोरुबूकाणां मूलैर्गोक्षुरकस्य च ७९
शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलहृत्परम्
श्वदंष्ट्रामधुकक्षुद्रा ऽम्लानैः सिद्धं पयः पिबेत्
शर्करामधुसंयुक्तं गर्भिणीवेदनापहम् ८०
मृत्कोष्ठागारिकागेहसम्भवा नवमल्लिका
समङ्गा धातकीपुष्पं गैरिकं च रसाञ्जनम् ८१
तथा सर्जरसश्चैतान्यथालाभं विचूर्णयेत्
तच्चूर्णं मधुना लिह्याद् गर्भपातप्रशान्तये ८२
कशेरूत्पलशृङ्गाटकल्कं वा पयसा पिबेत्
पक्वं वचारसोनाभ्यां हिङ्गुसौवर्चलान्वितम्
आनाहे तु पिबेद् दुग्धं गुर्विणी सुखिनी भवेत् ८३
तृणपञ्चकमूलानां कल्केन विपचेत्पयः
तत्पयो गर्भिणी पीत्वा मूत्रसङ्गाद्विमुच्यते ८४
शालीक्षुकुशकाशैः स्याच्छरेण तृणपञ्चकम्
एषां मूलं तृषादाहपित्तासृङ्मूत्रसङ्गहृत् ८५
मधुकं शाकबीजं च पयस्या सुरदारु च
अश्मन्तकस्तिलाः कृष्णस्ताम्रवल्ली शतावरी ८६
वृक्षादनी पयस्या च प्रियङ्गूत्पलसारिवाः
अनन्ता सारिवा रास्ना पद्मा मधुकमेव च ८७
बृहत्यौ काश्मरी चापि क्षीरिशुङ्गास्त्वचो घृतम्
पृश्निपर्णी वचा शिग्रुः श्वदंष्ट्रा मधुपर्णिका ८८
शृङ्गाटकं विषं द्रा क्षा कशेरु मधुकं सिता
वत्सैते सप्त योगाः स्युरर्द्धश्लोकसमापनाः ८९
यथासंख्यं प्रयोक्तव्या गर्भस्रावे पयोयुता
एवं गर्भो न पतति गर्भशूलञ्च शाम्यति ९०
कपित्थबृहतीबिल्वपटोलेक्षुनिदिग्धिकाः
मूलानि क्षीरसिद्धानि दापयेद्भिषगष्टमे ९१
नवमे मधुकानन्तापयस्यासारिवा पिबेत् ९२
क्षीरं शुण्ठीपयस्याभ्यां सिद्धं स्याद्दशमे हितम्
सक्षीरं वा हिता शुण्ठी मधुकं सुरदारु च ९३
क्षीरिकामुत्पलं दुग्धं समङ्गामूलकं शिवाम्
पिबेदेकादशे मासि गर्भिणीशूलशान्तये ९४
सिता विदारी काकोली क्षीरी चैव मृणालिका
गर्भिणी द्वादशे मासि पिबेच्छूलघ्नमौषधम् ९५
एवमाप्यायते गर्भस्तीव्रा रूक् चोपशाम्यति ९६
गर्भो वातेन संशुष्को नोदरं पूरयेद्यदि
सा बृंहणीयैः संसिद्धं दुग्धं मांसरसं पिबेत् ९७
शुष्कार्त्तवमजाताङ्गं संशुष्कं मरुताऽदितम्
त्यक्तं जीवेन तत्तस्मात्कठिनं चावतिष्ठते ९८
शुक्रार्त्तवार्दको वायुरुदराध्मानकृद् भवेत्
कदाचिच्चेत्तदाऽध्मानं स्वयमेव प्रशाम्यति ९९
नैगमेयेन गर्भोऽय हृतो लोकध्वनिस्तदा
स एवाल्पप्रवृत्त्या चेल्लघुर्भूत्वाऽवतिष्ठते १००
नवमे दशमे मासि नारी गर्भं प्रसूयते
एकादशे द्वादशे वा ततोऽन्यत्र विकारतः १०२
वातेन गर्भसङ्कोचात्प्रसूतिसमयेऽपि या
गर्भं न जनयेन्नारी तस्याः शृणु चिकित्सितम् १०३
कुट्टयेन्मुशलेनैषा कृत्वा धान्यमुलूखले
विषमं चासनं यानं सेवेत प्रसवार्थिनी १०४
प्रसवस्य विलम्बे तु धूपयेदभितो भगम्
कृष्णसर्पस्य निर्मोकैस्तथा पिण्डीतकेन वा १०५
तन्तुना लाङ्गलीमूलं बध्नीयाद्धस्तपादयोः
सुवर्चलां विशल्यां वा धारयेदाशु सूयते १०६
करङ्कीभूतगोमूर्द्धा सूतिकाभवनोपरि
स्थापितस्तत्क्षणान्नार्याः सुखं प्रसवकारकः १०७
पोतकामूलकल्केन तिलतैलयुतेन च
योनेरभ्यन्तरं लिप्त्वा सुखं नारी प्रसूयते १०८
कृष्णा वचा चापि जलेन पिष्टा सैरण्डतैला खलु नाभिलेपात्
सुखं प्रसूतिं कुरुतेऽङ्गनानां निपीडितानां बहुभिः प्रमादैः १०९
मातुलुङ्गस्य मूलं तु मधुकेन युतं तथा
घृतेन सहितं पीत्वा सुखं नारी प्रसूयते ११०
इक्षोरुत्तरमूलं निजतनुमानेन तन्तुना बद्ध्वा
कटिविषये गर्भवती सुखेन सूतेऽविलम्बेन १११
तालस्य चोत्तरं मूलं स्वप्रमाणेन तन्तुना
बद्ध्वा कट्यान्तु नियतं सुखं नारी प्रसूयते ११२
मूढः करोति पवनः खलु मूढगर्भशूलञ्च योनिजठरादिषु मूत्रसङ्गम्
भुग्नोऽनिलेन विगुणेन ततः स गर्भः संख्यामतीत्य बहुधा समुपैति योनिम् ११३
संकीलकः प्रतिखुरः परिघोऽथ बीजस्तेषूर्ध्वबाहुचरणैः शिरसा च योनौ
सङ्गी च यो भवति कीलकवत्स कीलो
दृश्यैः खुरैः प्रतिखुरः स हि कायसङ्गी ११४
द्वारं निरुद्ध्य् शिरसा जठरेण कश्चित् कश्चिच्छरीरपरिवर्त्तितकुब्जकायः
एकेन कश्चिदपरस्तु भुजद्वयेन तिर्यग्गतो भवति कश्चिदवाङ्मुखोऽन्य
पार्श्वापवृत्तगतिरेति तथैव कश्चिदित्यष्टधा भवति गर्भगतिः प्रसूतौ ११५
अपविद्धशिरा या तु शीताङ्गी निरपत्रपा
नीलोद्गतशिरा हन्ति सा गर्भं स च तां तथा ११६
गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता
भवेदुच्छ्वासपूतित्वं शूलं चान्तर्मृते शिशो ११७
मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः
गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः ११८
योनिसंवरणं सङ्गः कुक्षौ मक्कल्ल एव च
हन्युः स्त्रियं मूढगर्भो यथोक्ताश्चाप्युपद्र वाः ११९
याभिः सङ्कटकालेऽपि बह्व्यो नार्यः प्रसाविताः
सम्यग्लब्धं यशस्तास्तु नार्यः कुर्युरिमां क्रियाम् १२०
गर्भे जीवति मूढे तु गर्भं यत्नेन निर्हरेत्
हस्तेन सर्पिषाऽक्तेन योनेरन्तर्गतेन सा १२१
मृते तु गर्भे गर्भिण्या योनौ शस्त्रं प्रवेशयेत्
शस्त्रशास्त्रार्थविदुषी लघुहस्ता भयोज्झिता १२२
सचेतनं तु शस्त्रेण न कथञ्चन दारयेत्
स दीर्यमाणो जननीमात्मानं चापि मारयेत् १२३
नोपेक्षेत मृतं गर्भं मुहूर्त्तमपि पण्डितः
तदाशु जननीं हन्ति प्रभूतान्नं यथा पशुम् १२४
यद्यदङ्गं हि गर्भस्य योनौ सक्तं तु तद्भिषक्
सम्यग्विनिर्हरेच्छित्वा रक्षेन्नारीं प्रयत्नतः १२५
एवं निर्हृतशल्यां तां सिञ्चेदुष्णेन वारिणा
ततोऽभ्यक्तशरीरायां योनौ स्नेहं विधारयेत् १२६
एवं मृद्वी भवेद्योनिस्तच्छूलं चोपशाम्यति १२७
तुम्बीपत्रं तथा लोध्रं समभागं सुपेषयेत्
तेन लेपो भगे कार्यः शीघ्रंस्याद्योनिरक्षता १२८
पलाशोदुम्बरफलं तिलतैलसमन्वितम्
योनौ विलिप्तं मधुना गाढीकरणमुत्तमम् १२९
प्रसूता वनिता वृद्धकुक्षिह्रासाय सम्पिबेत्
प्रातर्मथितसंमिश्रां त्रिसप्ताहात्कणाजटाम् १३०
प्रसूताया न पतिता जठरादपरा यदि
तदा सा कुरुते शूलमाध्मानं वह्निमन्दताम् १३१
केशवेष्टितयाऽङ्गुल्या तस्याः कण्ठं प्रघर्षयेत्
निर्मोककटुकाऽलाबू कृतबन्धनसर्षपः
चूर्णितैः कटुतैलाक्तैर्धूपयेदभितो भगम् १३२
लाङ्गलीमूलकल्केन पाणिपादतलानि हि १३३
प्रलिम्पेत्सूतिका योषिदपरापातनाय वै
हस्तं छिन्ननखं स्निग्धं सूतायोनौ शनैः क्षिपेत् १३४
अपरां तेन हस्तेन जनयित्री विनिर्हरेत्
एवं निर्हृतशल्यां तां सिञ्चेदुष्णेन वारिणा
ततोऽभ्यक्तशरीराया योनौ स्नेहं निधापयेत् १३५
वनितायाः प्रसूताया वातो रूक्षेण वर्द्धितः
तीक्ष्णोष्णशोषितं रक्तं रुद्ध्वा ग्रन्थिं करोति हि १३६
नाभ्यधः पार्श्वयोर्वस्तौ वस्तिमूर्द्धनि चापि वा
ततश्च नाभौ वस्तौ च भवेच्छूलं तथोदरे १३७
भवेत्पक्वाशयाध्मानं मूत्रसङ्गश्च जायते
एतद्भिषग्भिरुदितं मक्कल्लामयलक्षणम् १३८
सुचूर्णितं यवक्षारं पिबेत्कोष्णेन वारिणा
सर्पिषा वा पिबेन्नारी मक्कल्लस्य निवृत्तये १३९
पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली
नागरं चित्रकं चव्यं रेणुकैलाऽजमोदिकाः १४०
सर्षपो हिङ्गु भार्गी च पाठेन्द्र यवजीरकाः
महानिम्बश्च मूर्वा च विषा तिक्ता विडङ्गकम् १४१
पिप्पल्यादिर्गणो ह्येष कफमारुतनाशनः
क्वाथमेषां पिबेन्नारी लवणेन समन्वितम् १४२
गुल्मशूलज्वरहरं दीपनञ्चामपाचनम्
मक्कल्लशूलगुल्मघ्नं कफानिलहरं परम् १४३
त्रिकटुकचातुर्जातककुस्तुम्बुरुचूर्णसंयुक्तम्
खादेद् गुडं पुराणं नित्यं मक्कल्लदलनाय १४४
प्रसूता युक्तमाहारं विहारं च समाचरेत्
व्यायामं मैथुनं क्रोधं शीतसेवाञ्च वर्जयेत् १४५
मिथ्याचारात्सूतिकाया यो व्याधिरुपजायते
स कृच्छ्रसाध्योऽसाध्यो वा भवेत्तत्पथ्यमाचरेत् १४६
मिथ्योपचारात्संक्लेशाद्विषमाजीर्णभोजनात्
सूतिकायास्तु ये रोगा जायन्ते दारुणाश्च ते १४७
अङ्गमर्दो ज्वरः कासः पिपासा गुरुगात्रता
शोथः शूलातिसारौ च सूतिकारोगलक्षणम् १४८
ज्वरातीसारशोथाश्च शूलानाहबलक्षयाः
तन्द्रा ऽरुचिप्रसेकाद्या वातश्लेष्मसमुद्भवाः १५९
कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबलाश्रिताः
ते सर्वे सूतिकानाम्ना रोगास्ते चाप्युपद्र वाः १५०
सूतिकारोगशान्त्यर्थं कुर्याद्वातहरीं क्रियाम्
दशमूलकृतं क्वाथं कोष्णं दद्याद् घृतान्वितम् १५१
अमृतानागरसहचरभद्रो त्कटपञ्चमूलकं जलदम्
शृतशीतं मधुयुक्तं शमयत्यचिरेण सूतिकाऽतङ्कम् १५२
देवदारु वचा कुष्ठं पिप्पली विश्वभेषजम्
भूनिम्बः कट्फलं मुस्तं तिक्ता धान्यहरीतकी १५३
गजकृष्णा सदुःस्पर्शा गोक्षुरुर्धन्वयासकः
बृहत्यतिविषा छिन्ना कर्कटः कृष्णजीरकः १५४
समभागान्वितैरेतैः सिन्धुरामठसंयुतम्
क्वाथमष्टावशेषं तु प्रसूतां पाययेत् स्त्रियम् १५५
शूलकासज्वरश्वासमूर्च्छाकम्पशिरोऽत्तिभिः
युक्तं प्रलापतृड्दाहतन्द्रा ऽतीसारवान्तिभिः १५६
निहन्ति सूतिकारोगं वातपित्तकफोद्भवम्
कषायो देवदार्वादिः सूतायाः परमौषधम् १५७
जीरकं स्थूलजीरश्च शतपुष्पाद्वयं तथा
यवानी चाजमोदा च धान्यकं मेथिकाऽपि च १५८
शुण्ठी कृष्णा कणामूलं चित्रकं हपुषाऽपि च
बदरी गजचूर्णञ्च कुष्ठं कम्पिल्लकं तथा १५९
एतानि पलमात्राणि गुडं पलशतं मतम्
क्षीरप्रस्थद्वयं दद्यात्सर्पिषः कुडवं तथा १६०
पञ्चजीरकपाकोऽय प्रसूतानां प्रशान्तये
युज्यते सूतिकारोगे योनिरोगे ज्वरे क्षये १६१
कासे श्वासे पाण्डुरोगे कार्श्ये वातामयेषु च १६२
आज्यं स्यात्पलयुग्ममत्र पयसः प्रस्थद्वयं खण्डतः
पञ्चाशत्पलमत्र चूर्णितमथो प्रक्षिप्यते नागरम्
प्रस्थार्धं गुडवद्विपाच्य विधिना मुष्टित्रयं धान्यका
न्मिश्याः पञ्चपलं पलं कृमिरिपोः साजाजिजीरादपि १६३
व्योषाम्भोददलोरगेन्द्र सुमनस्त्वग्द्रा विडीनां पलं
पक्वं नागरखण्डसंज्ञकमिदं तत्सूतिकारोगहृत्
तृटछर्दिज्वरदाहशोषशमनं सश्वासकासापहं
प्लीहव्याधिविनाशनं कृमिहरं मन्दाग्निसन्दीपनम् १६४
सर्वशः परिशुद्धा स्यात्स्निग्धपथ्याल्पभोजना
स्वेदाभ्यङ्गपरा नित्यं भवेन्मासमतन्द्रि ता १६५
सक्षीरौ वाऽप्यदुग्धौ वा दोषः प्राप्य स्तनौ स्त्रियाः
रक्तं मांसञ्च संदूष्य स्तनरोगाय कल्पते
धमन्यः संवृतद्वाराः कन्यानां स्तनसंश्रिताः
दोषाविसरणास्तासां न भवन्ति स्तनामयाः १६९
तासामेव प्रसूतानां गर्भिणीनाञ्च ताः पुनः
स्वभावादेव विवृता जायन्ते संस्रवन्त्यतः १७०
पञ्चानामपि तेषां तु हित्वा शोणितविद्र धिम्
लक्षणानि समानानि ब्राह्यविद्र धिलक्षणैः १७१
शोथं स्तनोत्थितमवेक्ष्य भिषग्विदध्याद्यद्विद्र धावभिहितं बहुधा विधानम्
आमे विदाहिनि तथैव च तस्य पाके
यस्याः स्तनौ सततमेव च निग्रहात् तौ १७२
पित्तघ्नानि तु शीतानि द्र व्याण्यत्र प्रयोजयेत्
जलौकोभिर्हरेद्र क्तं न स्तनावुपनाहयेत् १७३
लेपो विशालामूलेन हन्ति पीडां स्तनोत्थिताम्
निशाकनककल्काभ्यां लेपः प्रोक्तः स्तनार्त्तिहा १७४
लेपो निहन्ति मूलं वन्ध्याकर्कोटिकाभवं शीघ्रम् १७५
इति सप्ततितमो योनिरोगाधिकारः समाप्तः ७०
इति स्त्रीणां रोगाधिकाराः समाप्तः

बालरोगाधिकारः[सम्पाद्यताम्]

अथैकसप्ततितमो बालरोगाधिकारः ७१
बालग्रहा अनाचारात्पीडयन्ति शिशुं यतः
तस्मात्तदुपसर्गेभ्यो रक्षेद्बालं प्रयत्नतः १
स्कन्दग्रहस्तु प्रथमः स्कन्दापस्मार एव च
शकुनी रेवती चैव पूतना चान्धपूतना २
पूतना शीतपूर्वा च तथैव मुखमण्डिका
नवमो नैगमेयश्च प्रोक्ता बालग्रहा अमी ३
नव स्कन्दादयः प्रोक्ता बालानां ये ग्रहा अमी
श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः ४
एते स्कन्दस्य रक्षाऽथ कृत्तिकोमाऽग्निशूलिभिः
सृष्टाः शरवणस्थस्य रक्षितस्य स्वतेजसा ५
स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा
बिभर्ति चापरां संज्ञां कुमार इति स ग्रहः ६
स्कन्दापस्मारसंज्ञो यः सोऽग्निना तत्समद्युतिः
स च स्कन्दसखो नाम्ना विशाख इति चोच्यते ७
ग्रहाः स्त्रीविग्रहा एते नानारूपाः प्रकीर्त्तिताः
गङ्गोमाकृत्तिकानां ते भागा राजसतामसाः ८
नैगमेयस्तु पार्वत्या सृष्टो मेषाननो ग्रहः
कुमारधारी देवस्य गुहस्यात्मसमोऽस्ति वै ९
ततो भगवता स्कन्दे सुरसेनापतौ कृते
उपतस्थुर्ग्रहा एते दीप्तशक्तिधरं गुहम् १०
ऊचुः प्राञ्जलयश्चैनं वत्तिर्नो दीयतामिति
तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत् ११
ततो ग्रहांस्तानुवाच भगवान्भगनेत्रहृत्
तैर्यग्योनिं मानुषं च दैवञ्च त्रितयं जगत् १२
परस्परोपकारेण वर्त्तते धार्यते तथा
देवा नरान्प्रीणयन्ति तैर्यग्योनींस्तथैव च १३
यथाकालं प्रवृत्तैस्तु ऊष्मवर्षहिमानिलैः
इज्याऽञ्जलिनमस्कारैर्जपहोमैस्तथैव च १४
सम्यक्प्रयुक्तैश्च नराः प्रीणयन्त्यपि देवताः
भागधेयविभक्तञ्च शेषं किञ्चिन्न विद्यते १५
तद्युष्माकं शुभा वृत्तिर्बालेष्वेव भविष्यति १६
कुलेषु येषु नेज्यन्ते देवाः पितर एव च
ब्राह्मणः साधवो वाऽपि गुरवोऽतिथयस्तथा १७
निवृत्तशौचाचारेषु तथा कुत्सितवृत्तिषु
निवृत्तभिक्षाबलिषु भग्नकांस्यगृहेषु वा १८
ते वै बालांश्च तांस्तान् हि ग्रहा हिंसन्त्यशङ्किताः
तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति १९
एवं ग्रहाः समुत्पन्ना बालान् हिंसन्ति चाप्यतः
ग्रहोपसृष्टा बालाः स्युर्दुश्चिकित्स्यतमास्ततः २०
क्षणादुद्विजते बालः क्षणात् त्रस्यति रोदिति
नखैर्दन्तैर्दारयति धात्रीमात्मानमेव च २१
ऊर्ध्वं निरीक्षते दन्तान्खादेत्कूजति जृम्भते
भ्रुवौ क्षिपति दष्टौष्ठः फेनं वमति चासकृत् २२
क्षामोऽति निशि जागर्त्ति शूनाङ्गो भिन्नविट्स्वरः
मत्स्यशोणितगन्धश्च न चाश्नाति यथा पुरा २३
दुर्बलो मलिनाङ्गश्च नष्टसंज्ञः प्रजायते
सामान्यग्रहजुष्टस्य लक्षणं समुदाहृतम् २४
स्रस्ताङ्गः क्षतजसगन्धिकस्तनद्विड् वक्रास्यो हतचलितैकपक्ष्मनेत्रः
उद्विग्नः ससलिलचक्षुरल्परोदी स्कन्दार्त्तो भवति च गाढमुष्टिवर्चाः २५
निःसंज्ञो भवति पुनर्लभेत संज्ञां संस्तब्धः करचरणैश्च नृत्यतीव
विण्मूत्रे सृजति चिरेण जृम्भमाणः फेनं वा सृजति च तत्सखाभिजुष्टः २६
स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः सास्रवव्रणपरिपीडितः समन्तात्
स्फोटैश्च प्रचिततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या २७
रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा मुखकरपाकवेदनाऽत्त
गृह्णाति व्यथिततनुश्च कर्णनासं रेवत्या भृशमभिपीडितः कुमारः २८
विट्स्रावी स्वपिति न वासरे न रात्रौ विड्भिन्नं विसृजति काकतुल्यगन्धः
छर्द्यार्त्तो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति च पूतनागृहीतः २९
योद्वेष्टि स्तनमतिसारकासहिक्काछर्दीभिर्ज्वरसहिताभिरर्द्यमानः
दुर्वर्णः सततमथापि योऽस्रगन्धिस्तं ब्रूयाद्भिषगथ चान्धपूतनाऽत्तम् ३०
आक्रन्दत्यभिचकितं सुवेपमानः संलीनो भवति व्यथाऽन्त्रकूजयुक्तः
स्रस्ताङ्गो भृशमतिशीर्यते च शीतात् तं ब्रूयाद्भिषगथ शीतपूतनाऽत्तम् ३१
म्लानाङ्गः सरुधिरपाणिपादवक्त्रो बह्वाशी कलुषशिरावृतोदरो यः
सोद्वेगो भवति च मूत्रतुल्यगन्धिः स ज्ञेयः शिशुरथ वक्त्रमण्डिकाऽत्त ३२
यः फेनं वमति विनम्यते च मध्ये सोद्वेगो विहसति चोर्ध्वमीक्षमाणः
कूजेच्च प्रततमथो वसासगन्धिर्निःसंज्ञो भवति स नैगमेयजुष्टः ३३
सहामुण्डितिकोदीच्यक्वाथस्नानं ग्रहापहम् ३४
सप्तच्छदामय निशाचन्दनैश्चानुलेपनम्
सर्पत्वग्लशुनं मूर्वा सर्षपारिष्टपल्लवाः ३५
विडालविडजालोम मेषशृङ्गी वचा मधु
धूपः शिशोर्ज्वरघ्नोऽयमशेषग्रहनाशनः
बालशान्तीष्टकर्माणि कार्याणि ग्रहशान्तये ३६
वचा कुष्ठं तथा ब्राह्मी सिद्धार्थकमथापिच
सारिवा सैन्धवं चैव पिप्पली घृतमष्टमम्
सिद्धं घृतमिदं मेध्यं पिबेत्प्रातर्दिने दिने
दृढस्मृतिः क्षिप्रमेधाः कुमारो बुद्धिमान्भवेत् ३७
न पिशाचा न रक्षांसि न भूता न च मातरः
न भवन्ति कुमाराणां पिबतामष्टमङ्गलम् ३८
विशिष्टग्रहजुष्टबालकचिकित्सा
स्कन्दग्रहोपसृष्टस्य कुमारस्य प्रशान्तये
वातघ्नद्रुमपत्राणां क्वाथेन परिषेचनम् ३९
देवदारुणि रास्नायां मधुरेषु गणेषु च
सिद्धं सर्पिश्च सक्षीरं पातुमस्मै प्रदापयेत् ४०
सर्षपाः सर्पनिर्मोको वचा काकादनी घृतम्
उष्ट्राजाविगवां चापि रोमाण्युद्धूपनं भवेत् ४१
सोमवल्लीमिन्द्र वृक्षं वन्दाकं बिल्वजं शमीम्
मृगादन्याश्च मूलानि ग्रथितानि विधारयेत् ४२
रक्तानि माल्यानि तथा पताका रक्ताश्च गन्धान् विविधांश्च भक्ष्यान्
घण्टां च देवाय बलि निवेद्य सकुक्कुटं स्कन्दगृहे हिताय ४३
स्नानं त्रिरात्रं निशि चत्वरेषु कुर्यात्परं शालियवैर्नवैस्तु अं
गायत्रिपूताभिरथाद्भिरग्निं प्रज्वालयेदाहुतिभिश्च धीमान् ४४
रक्षामतः प्रवक्ष्यामि बालानां पापनाशिनीम्
अहन्यहनि कर्त्तव्या या भिषग्भिरतन्द्रि तैः ४५
तपसां तेजसां चैव यशसां वपुषां तथा
निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु ४६
ग्रहः सेनापतिर्देवो देवसेनापतिर्विभुः
देवसेनारिपुहरः पातु त्वां भगवान्गुहः ४७
देवदेवस्य महतः पावकस्य च यः सुतः
गङ्गोमाकृत्तिकानां च स ते शर्म प्रयच्छतु ४८
रक्तमाल्याम्बरधरो रक्तचन्दनभूषितः
रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः ४९
बिल्वः शिरीषो गोलोमी सुरसाऽदिश्च यो गणः
परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये ५०
सुरसा श्वेतसुरसा पाठा फज्जी फणिज्जकः
सौगन्धिकं भूस्तृणको राजिका श्वेतबर्बरी ५१
कट्फलं खरपुष्पा च कासमर्दश्च शल्लकी
विडङ्गमथ निर्गुण्डी कर्णिकार उदुम्बरः ५२
बला च काकमाची च तथा च विषमुष्टिका
कफकृमिहरः ख्यातः सुरसाऽदिरयं गणः ५३
अष्टमूत्रविपक्वं च तैलमभ्यञ्जने हितम् ५४
गोऽजाविमहिषाश्वानां खरोष्ट्रकरिणां तथा
मूत्राष्टकमिदं ख्यातं सर्वशास्त्रेषु सम्मतम् ५५
क्षीरवृक्षकषायेण काकोल्यादिगणेन च
विपक्तव्यं घृतं पश्चाद्दातव्यं पयसा सह ५६
काकोली क्षीरकाकोली जीवकर्षभकौ तथा
ॠद्धिर्वृद्धिस्तथा मेदा महामेदा गुडूचिका ५७
मुद्गपणी माषपर्णी पद्मकं वंशलोचना
शृङ्गी प्रपौण्डरीकञ्च जीवन्ती मधुयष्टिका ५८
द्रा क्षा चेति गणो नाम्ना काकोल्यादिरुदीरितः
स्तन्यकृद् बृंहणो वृष्यः पित्तरक्तमलापहः ५९
उत्सादनं वचा हिङ्गुयुक्तमत्र प्रकीर्त्तितम्
गृध्रोलूकपुरीषाणि केशा हस्तिनखो घृतम् ६०
वृषभस्य च रोमाणि योज्यान्युद्धूपने सदा
अनन्तां कुक्कुटीं बिम्बीं मर्कटीञ्चापि धारयेत् ६१
पक्वापक्वानि मांसानि प्रसन्ना रुधिरं पयः
मुद्गौदनं निवेद्याथ स्कन्दापस्मारिणे वटे ६२
चतुष्पथे कारयेच्च स्नानं तेन ततः पठेत् ६३
स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा
विशाखः स शिशोरस्य शिवायास्तु शुभाननः ६४
शकुनिग्रहजुष्टस्य कार्यं वैद्येन जानता
वेतसाम्रकपित्थानां क्वाथेन परिषेचनम् ६५
ह्रीवेरमधुकोशीरसारिवोत्पलपद्मकैः
लोध्रप्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम् ६६
स्कन्दग्रहोक्ता धूपाश्च हिता अत्र भवन्ति हि
स्कन्दापस्मारशमनं घृतमत्रापि पूजितम् ६७
शतावरीमृगैर्वारुनागदन्तीनिदिग्धिकाम्
लक्ष्मणां सहदेवीं च बृहतीं चापि धारयेत् ६८
तिलतण्डुलकं माल्यं हरितालं मनः शिला
बलिरेष करञ्जेतु निवेद्यो नियतात्मना ६९
निकुञ्जे च प्रयोक्तव्यं स्नानमस्य यथाविधि
श्वेताशिरीषगन्धाश्मधवगुग्गुलुसर्षपैः ७०
सिद्धमभ्यञ्जने तैलं धारणं पूर्वमेव तु
शुकुनिग्रहशान्त्यर्थं प्रदेहं कारयेद्धितम् ७१
कुर्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः
निकुम्भोक्तेन विधिना स्नापयेत्तं ततः पठेत् ७२
अन्तरिक्षचरा देवी सर्वालङ्कारभूषिता
अधोमुखी सूक्ष्मतुण्डा शकुनी ते प्रसीदतु ७३
दुर्दर्शना महामाया पिङ्गाङ्गी भैरवस्वरा
लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु ७४
अश्वगन्धाऽजशृङ्गी च सारिवाऽथ पुनर्नवा
सहा विदारी ह्येतासां क्वाथेन परिषेचनम् ७५
तैलमभ्यञ्जने कार्यं कुष्ठे सर्जरसे तथा
पलङ्कषायां नलदे तथा गौरकदम्बके ७६
धवाश्वकर्णककुभशल्लकीतिन्दुकेषु च
काकोल्यादौ गणे चापि सिद्धं सर्पिः पिबेच्छिशुः ७७
कुलत्थं शङ्खचूर्णञ्च प्रदेहः साश्वगन्धिकः
गृध्रोलूकपुरीषाणि यवान् यवफलो घृतम्
सन्ध्ययोरुभयोः कार्यमेतदुद्धूपनं शिशोः ७८
शुक्लाः सुमनसो लाजाः पयः शाल्योदनं दधि
बलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना ७९
स्नानं धात्रीकुमाराभ्यां सङ्गमे कारयेद्भिषक्
नानाशस्त्रधरा देवी चित्रमाल्यानुलेपना ८०
चॄलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु
उपासते यां सततं देव्यो विविधभूषणाः ८१
लम्बा कराला विनता तथैव बहुपुत्रिका
रेवती शुष्कनासा च तुभ्यं देवी प्रसीदतु ८२
कपोतवङ्का श्योनाको वरुणः पारिभद्र कः
आस्फोता चैव योज्याः स्युर्बालानां परिषेचने ८३
नवा पयस्या गोलोमी हरितालं मनः शिला
कुष्ठं सर्जरसश्चैव तैलार्थे कल्क इष्यते ८४
हितं घृतं तुगाक्षीर्या संसिद्धं मधुकेन च
कुष्ठंतालीसखदिराः स्पन्दनोऽजुन एव च ८५
पनसः ककुभश्चापि मज्जानो बदरस्य च
कुंक्कुटास्थि घृतं चापि धूपनं सह सर्षपैः ८६
काकादनीं चित्रफलां बिम्बीं गुञ्जाञ्च धारयेत् ८७
मत्स्यौदनं बलि दद्यात्कृशरां पललं तथा
शरावसम्पुटे कृत्वा तस्य शून्ये गृहे भिषक् ८८
उत्सृष्टान्नाभिषिक्तस्य शिशोः स्नपनमिष्यते
कुष्ठतालीसखदिरं चन्दनं स्पन्दनं तथा ८९
देवदारु वचा हिङ्गु कुष्ठं गिरिकदम्बकम्
एला हरेणवश्चापि योज्या उद्धूपने सदा ९०
मलिनाम्बरसंवीता मलिना रूक्षमूर्द्धजा
शून्यागारस्थिता देवी दारकं पातु पूतना ९१
तिक्तद्रुमाणां पत्रेषु क्वाथः कार्योऽभिषेचने ९२
निम्बः पटोलः क्षुद्रा च गुडूची वासकस्तथा
विसर्पकुष्ठनुत्ख्यातो गणोऽय पञ्चतिक्तकः ९३
पिप्पली पिप्प्पलीमूलं चित्रको मधुको मधु
शालिपर्णी बृहत्यौ च घृतार्थं च समाहरेत्
सर्वगन्धः प्रदेहश्च गात्रे चाक्ष्णोश्च शीतलैः ९४
पुरीषं कौक्कुटं केशाश्चर्म सर्पभवं तथा
जीर्णं चाभीक्ष्णशो वासो धूपनायोपकल्पयेत् ९५
कुक्कुटीं मर्कटीं बिम्बीमनन्तां चापि धारयेत्
मांसं सामं तथा पक्वं शोणितं च चतुष्पथे ९६
निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः
शिशोश्च स्नपनं कुर्यात्सर्वगन्धोदकैः शुभः
कराला पिङ्गला मुण्डा कषायाम्बरसंवृता
देवी बालमिमं प्रीता रक्ष त्वं गन्धपूतने ९७
गोमूत्रं चाश्वमूत्रञ्च मुस्तां चामरदारु च
कुष्ठञ्च सर्वगन्धांश्च तैलार्थमवधारयेत् ९८
रोहिणीनिम्बखदिरपलाशककुभत्वचः
निक्वाथ्य तस्मिन्निक्वाथे सक्षीरे विपचेद् घृतम् ९९
गृध्रोलूकपुरीषाणि बस्तगन्धामहित्वचम्
निम्बपत्राणि च तथा धूपनार्थं समाहरेत् १००
धारयेदपि गुञ्जां च बलां काकादनीं तथा
नद्यां मुद्गौदनैश्चापि तर्पयेच्छीतपूतनाम् १०१
जलाशयान्ते बालस्य स्नपनं चोपदिश्यते १०२
देव्यै देयश्चोपहारो वारुणी रुधिरं तथा
मुद्गौदनाशिनी देवी सुराशोणितपायिनी
जलाशयरता नित्यं पातु त्वां शीतपूतना १०३
कपित्थं बिल्वतर्कारीवासा गन्धर्वहस्तकः
कुबेराक्षी च योज्याः स्युर्बालानां परिषेचने १०४
स्वरसैर्भृङ्गवृक्षाणां तथैव हयगन्धया
तैलं वसां च संयोज्य पचेदभ्यञ्जनं शिशोः १०५
बचा सर्जरसं कुष्ठं सर्पिश्चोद्धूपने हितम्
वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा १०६
मनः शिलां चोपहरेद् गोष्ठमध्ये बलि ततः १०७
पायसं सपुरोडाशं तद्वल्यर्थमुपाहरेत्
मन्त्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम् १०८
अलङ्कृता कामवती सुभगा कामरूपिणी
गोष्ठमध्यालया या तु पातु त्वां मुखमण्डिका १०९
बिल्वाग्निमन्थपूतीकैः कार्यं स्यात्परिषेचितम् ११०
प्रियङ्गुसरलानन्ताशतपुष्पाकुटन्नटैः
पचेत्तैलं सगोमूत्रं दधिमस्त्वम्लकाञ्जिकैः १११
वचां वयस्यां जटिलां गोलोमीञ्चापि धारयेत् ११२
उत्सादनं हितञ्चात्र स्कन्दापस्मारनाशनम्
मर्कटोलूकगृध्राणां पुरीषाणि प्रधूपनम्
धूमः सुप्तजने कार्यो बालस्य हितमिच्छता
तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि
कौमारभृत्ये मेषाय प्लक्षमूले निवेदयेत् ११३
अधस्तात्क्षीरवृक्षस्य स्नपनञ्चोपदिश्यते ११४
अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः
बालपालयिता देवो नैगमेयोऽभिरक्षतु ११५
धात्र्! यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा
दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति ११६
मिथ्याऽहारविहारिण्या दुष्टा वातादयस्त्रयः
दूषयन्ति पयस्तेन जायन्ते व्याधयः शिशोः ११७
वातदुष्टं शिशुः स्तन्यं पिबन्वातगदातुरः
क्षामस्वरः कृशाङ्गः स्याद् बद्धविण्मूत्रमारुतः ११८
स्विन्नो भिन्नमलो बालः कामलापित्तरोगवान्
तृष्णालुरुष्णसर्वाङ्गः पित्तदुष्टं पयः पिबन् ११९
श्लेष्मदुष्टं पिबन्क्षीरं लालालुः श्लेष्मरोगवान्
निद्रा ऽदितो जडः शूनो रक्ताक्षश्छर्दनः शिशुः १२०
द्वन्द्वजे द्वन्द्वजं रूपं सर्वजे सर्वलक्षणम् १२१
ज्वराद्या व्याधयः सर्वे महतां ये पुरेरिताः
बालानामपि ते तद्वत् बोद्धव्या भिषगुत्तमैः १२२
बालानामेव ये रोगा भवन्ति महतां न च
तालुकण्टकमुख्यांस्तानवधारय यत्नतः १२३
तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम्
तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते १२४
तालुपातः स्तनद्वेषः कृच्छ्रात्पानं शकृद्द्र वम्
तृडक्षिकण्ठास्यरुजा ग्रीवादुर्बलता वमिः १२५
वीसर्पस्तु शिशोः प्राणनाशनः शीर्षवस्तिजः
पद्मवर्णो महापद्मरोगो दोषत्रयोद्भवः
शङ्खाभ्यां हृदयं याति हृदयाच्च गुदं व्रजेत् १२६
कुकूणकं क्षीरदोषाच्छिशूनामेव वर्त्मनि
जायते सरुजं नेत्रं कण्डूरं प्रस्रवेद् बहु १२७
शिशुः कुर्याल्ललाटाक्षिकूटनासाप्रघर्षणम्
शक्तो नार्कप्रभां द्र ष्टुं न चाक्ष्युन्मीलनक्षमः १२८
वातेनाध्मापिता नाभिः सरुजा तुण्डिरुच्यते
बालस्य गुदपाकाख्यो ब्याधिः पित्तेन जायते १२९
शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत्
स्विन्ने वास्नाप्यमानस्य कण्डू रक्तकफोद्भवा १३०
कण्डूयनात्ततः क्षिप्रं स्फोटाः स्रावश्च जायते
एकीभूतं व्रणं घोरं तं विद्यादहिपूतनम् १३१
स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा
कफवातोत्थिता ज्ञेया बालानामजगल्लिका १३२
मातुः कुमारो गर्भिण्याःस्तन्यं प्रायः पिबन्नपि
कासाग्निसादवमथुतन्द्रा कार्श्यारुचिभ्रमैः १३३
युज्यते कोष्ठवृद्ध्या च तमाहुः पारिगर्भिकम्
रोगं परिभवाख्यं च तत्र युञ्जीत दीपनम् १३४
दन्तोद्भेदः शिशोः सर्वरोगाणां कारणं स्मृतम्
विशेषाज्वरविड्भेदकासच्छर्दिशिरोरुजाम् १३५
अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते १३६
भैषज्यं पूर्वमुद्दिष्टं महतां यज्ज्वरादिषु
तदेव कार्यं बालानां किन्तु दाहादिकं विना १३७
त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च ते
अतस्तदेव भैषज्यं मात्रा तत्र कनीयसी १३८
बालस्य कनीयसी मात्रामाह विश्वामित्रः
विडङ्गफलमात्रं तु जातमात्रस्य भेषजम्
अनेनैव प्रमाणेन मासि मासि प्रवर्द्धयेत् १३९
प्रथमे मासि बालाय देया भैषज्यरक्तिका
अवलेह्या तु कर्त्तव्या मधुक्षीरसिताघृतैः १४०
एकैकां वर्द्धयेत्तावद्यावत्संवत्सरो भवेत्
तदूर्ध्वं माषवृद्धिः स्याद्यावत्षोडश वत्सराः १४१
ततः स्थिरा भवेत्तावद्यावद्वर्षाणि सप्ततिः
ततो बालकवन्मात्रा ह्रासनीया शनैः शनैः १४२
चूर्णकल्कावलेहानामियं मात्रा प्रकीर्त्तिता
कषायस्य पुनः सैव विज्ञातव्या चतुर्गुणा १४३
क्षीरपस्य शिशोर्देयमौषधं क्षीरसर्पिषा
धात्र्! यास्तु केवलं देयं न क्षीरेणापि सर्पिषा १४४
येषां गदानां ये योगाः प्रवक्ष्यन्तेऽगदङ्कराः
तेषु तत्कल्पसंलिप्तौ पाययेत्तं शिशुं स्तनौ १४५
अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते
मुहुर्मुहुः स्पृशति तं स्पृश्यमानेन रोदिति १४६
निमीलिताक्षो मूर्द्धस्थे रोगे नो धारयेच्छिरः
वस्तिस्थे मूत्रसङ्गार्त्तः क्षुधा तृडपि गच्छति १४७
विण्मूत्रसङ्गवैकल्याच्छर्द्याध्मानान्त्रकूजनैः
कोष्ठे व्याधीन्विजानीयात्सर्वत्रस्थांश्च रोदनैः १४८
सर्वं निवार्यते बाले स्तन्यं नैव निवार्यते
मात्रया लङ्घयेद्धात्रीं शिशोरेतद्धि लङ्घनम् १४९
भद्र मुस्ताऽभयानिम्बपटोलमधुकैः कृतः
क्वाथः कोष्णः शिशोरेष निःशेषज्वरनाशनः १५०
वनकृष्णाऽरुणाशृङ्गीचूर्णं क्षौद्रे ण संयुतम्
शिशोर्ज्वरातिसारघ्नं कासं श्वासं वमिं हरेत् १५१
बिल्वं च पुष्पाणि च धातकीनां जलं सलोध्रं गजपिप्पलद्यं च
क्वाथावलेहौ मधुना विमिश्रौ बालेषु योज्यावतिसारितेषु
समङ्गाधातकीलोध्रसारिवाभिः शृतं जलम्
दुर्धरेऽपि शिशोर्देयमतीसारे समाक्षिकम् १५३
विडङ्गान्यजमोदा च पिप्पलीतण्डुलानि च
एषामालोड्य चूर्णानि सुखं तप्तेन वारिणा
आमे प्रवृत्तेऽतीसारे कुमारं पाययेद्भिषक् १५४
मोचारसः समङ्गा च धातकी पद्मकेशरम्
पिष्टैरेतैर्यवागूः स्याद्र क्तातीसारनाशिनी १५५
नागरातिविषामुस्तबालकेन्द्र यवैः शृतम्
कुमारं पाययेत्प्रातः सर्वातीसारनाशनम् १५६
लाजा सयष्टी मधुका शर्करा क्षौद्र मेव च
तण्डुलोदकयोगेन क्षिप्रं हन्ति प्रवाहिकाम् १५७
रजनी सरलो दारु बृहती गजपिप्पली
पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा १५८
दीपनं ग्रहणी हन्ति मारुतार्त्तिं सकामलाम्
ज्वरातीसारपाण्डघ्नुं बालानां सर्वरोगनुत् १५९
मुस्तकातिविषावासाकणाशृङ्गीरसं लिहेत्
मधुना मुच्यते बालः कासैः पञ्चभिरुत्थितैः १६०
व्याघ्रीसुमनसं जातीकेशरैरवलेहिका
मधुना चिरसञ्जाताञ्छिशोः कासान्व्यपोहति १६१
धान्यं च शर्करायुक्तं तण्डुलोदकसंयुतम्
पानमेतत्प्रदातव्यं कासश्वासापहं शिशोः १६२
द्रा क्षावासाऽभयाकृष्णाचूर्णं क्षौद्रे ण सर्पिषा
लीढं श्वासं निहन्त्याशु कासञ्च तमकं तथा १६३
चूर्णं कटुकरोहिण्या मधुनासह योजयेत्
हिक्कां प्रशमयेत्क्षिप्रं छर्दिं चापि चिरोत्थिताम् १६४
आम्रास्थिलाजसिन्धूत्थं सक्षौद्रं छर्दिनुद्भवेत् १६५
छर्द्यां पीतं तु मेध्यन्तु स्तन्येन मधुसर्पिषा
द्विवार्त्ताकीफलरसं पञ्चकोलञ्च लेहयेत् १६६
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् १६७
घृतेन सिन्धुविश्वैलाहिङ्गुभार्गीरजो लिहन्
आनाहं वातिकं शूलं हन्यात्तोयेन वा शिशुः १६८
कणोषणासिताक्षौद्र सूक्ष्मैलासैन्धवैः कृतः
मूत्रग्रहे प्रयोक्तव्यः शिशूनां लेह उत्तमः १६९
यदा तु दुर्बलो बालः खादन्नपि च वह्निमान्
विदारीकन्दगोधूमयवचूर्णं घृतप्लुतम्
खादयेत्तदनु क्षीरं शृतं समधुशर्करम् १७०
मुस्तं कूष्माण्डबीजानि भद्र दारुकलिङ्गकान्
पिष्ट्वा तोयेन संलिप्तं लेपोऽय शोथहृच्छिशोः १७१
पटोलत्रिफलाऽरिष्टहरिद्रा क्वथितं पिबेत्
क्षतवीसर्पविस्फोटज्वराणां शान्तये शिशुः १७२
सारिवातिललोध्राणां कषायो मधुकस्य च
संस्राविणि मुखे शस्तो धावनार्थं शिशोः सदा १७३
अश्वत्थत्वग्दलक्षौद्रै र्मुखपाके प्रलेपनम् १७४
पिप्पलीत्रिफलाचूर्णं घृतक्षौद्र परिप्लुतम्
बालो रोदिति यस्तस्मै लीढं दद्यात्सुखावहम् १७५
हरीतकी वचा कुष्ठं कल्कं माक्षिकसंयुतम्
पीत्वा कुमारः स्तन्येन मुच्यते तालुकण्टकात् १७६
फलत्रिकं लोध्रपुनर्नवे च सशृङ्गबेरं बृहतीद्वयं च
आलेपनं श्लेष्महरं सुखोष्णं कुकूणके कार्यमुदाहरन्ति १७७
मृत्पिण्डेनाग्नितप्तेन क्षीरसिक्तेन सोष्मणा
स्वेदयेदुत्थितां नाभिं शोथस्तेनोपशाम्यति १७८
नाभिपाके निशालोध्रप्रियंगुमधुकैः शृतम्
तैलमभ्यञ्जने शस्तमेभिश्चाप्यवधूलनम् १७९
दग्धेन छागशकृता नाभिपाकेऽवचूर्णनम्
त्वक्चूर्णैः क्षीरिणा वाऽपि कुर्याच्चन्दनरेणुना १८०
गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम्
रसाञ्जनं विशेषेण पानालेपनयोर्हितम्
शङ्खयष्ट्यञ्जनैश्चूर्णं शिशूनां गुदपाकनुत् १८१
शङ्खसौवीरयष्ट्याह्वैर्लेपो देयोऽहिपूतने १८२
पारिगर्भिकरोगे तु युज्यते वह्निदीपनम् १८३
दन्तपालद्यं तु मधुना चूर्णेन प्रतिसारयेत्
धातकीपुष्पपिप्पल्योर्धात्रीफलरसेन वा १८४
दन्तोत्थानभवा रोगाः पीडयन्ति न बालकम्
जाते दन्ते हि शाम्यन्ति यतस्तद्धेतुका गदाः १८५
सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतं वचा
मत्स्याक्षकं शङ्खपुष्पी मधु सर्पिः सकाञ्चनम्
अर्कपुष्पी मधु घृतं चूर्णितं कनकं वचा
सहेमचूर्णं कैटर्यं श्वेता दूर्वा घृतं मधु १८६
चत्वारोऽभिहिताः प्राशा अर्द्धश्लोकसमापनाः
कुमाराणां वपुर्मेधाबलपुष्टिकराः स्मृताः १८७
लाक्षारसे समे तैलं मस्तुन्यथ चतुर्गुणे
रास्नाचन्दनकुष्टाह्वावाजिगन्धानिशायुतैः १८८
शताह्वादारुयष्ट्याह्व मूर्वातिक्ताहरेणुभिः
संसिद्धं ज्वररक्षोघ्नं बलवर्णकरं शिशोः १८९
बालरोगाधिकारः समाप्तः
समाप्तञ्चेदं मध्यखण्डम्