भावप्रकाशः/पूर्वखण्डे भावप्रकाशनिघण्टुः

विकिस्रोतः तः
Jump to navigation Jump to search
भावप्रकाशनिघण्टुः

हरीतक्यादिवर्गः[सम्पाद्यताम्]

दक्षं प्रजापतिं स्वस्थमश्विनौ वाक्यमूचतुः
कुतो हरीतकी जाता तस्यास्तु कति जातयः १
रसाः कति समाख्याताः कति चोपरसाः स्मृताः
नामानि कति चोक्तानि किं वा तासां च लक्षणम् २
के च वर्णा गुणाः के च का च कुत्र प्रयुज्यते
केन द्रव्येण संयुक्ता कांश्च रोगान्व्यपोहति ३
प्रश्नमेतद्यथा पृष्टं भगवन्वक्तुमर्हसि
अश्विनोर्वचनं श्रुत्वा दक्षो वचनमब्रवीत् ४
पपात बिन्दुर्मेदिन्यां शक्रस्य पिबतोऽमृतम्
ततो दिव्यात्समुत्पन्ना सप्तजातिर्हरीतकी ५
हरीतक्यभया पथ्या कायस्था पूतनाऽमृता
हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा ६
वयस्था विजया चापि जीवन्ती रोहिणीति च ७
विजया रोहिणी चैव पूतना चामृताऽभया
जीवन्ती चेतकी चेति पथ्यायाः सप्तजातयः ८
अलाबुवृत्ता विजया वृत्ता सा रोहिणी स्मृता
पूतनाऽस्थिमती सूक्ष्मा कथिता मांसलाऽमृताः ९
पञ्चरेखाऽभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी
त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः १०
विजया सर्वरोगेषु रोहिणी व्रणरोहिणी
प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता ११
अक्षिरोगेऽभयाशस्ता जीवन्ती सर्वरोगृहृत्
चूर्णार्थे चेतकी शस्ता यथायुक्तं प्रयोजयेत् १२
चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः
षडङ्गुलायता शुक्ला कृष्णा त्वेकाङ्गुला स्मृता १३
काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत्
काचित्स्पर्शेन दृष्ट्याऽन्या चतुर्द्धा भेदयेच्छिवा १४
चेतकीपादपच्छायामुपसर्पन्ति ये नराः
भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः १५
चेतकी तु घृता हस्ते यावत्तिष्ठति देहिनः
तावद्भिद्येत वेगैस्तु प्रभावान्नात्र संशयः १६
नृपाणां सुकुमाराणां कृशानां भेषजद्विषाम्
चेतकी परमा शस्ता हिता सुखविरेचनी १७
सप्तानामपि जातीनां प्रधाना विजया स्मृता
सुखप्रयोगा सुलभा सर्वरोगेषु शस्यते १८
हरीतकी पञ्चरसाऽलवणातुवरा परम्
रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी १९
चक्षुष्या लघुरायुष्या बृंहणी चानुलोमिनी
श्वासकासप्रमेहार्शः कुष्ठशोथोदरकृमीन् २०
वैस्वर्यग्रहणीरोगविबन्धविषमज्वरान्
गुल्माध्मानतृषाछर्दिहिक्काकण्डूहृदामयान् २१
कामलां शूलमानाहं प्लीहानञ्च यकृत्तथा
अश्मरीं मूत्रकृच्छ्रञ्च मूत्राघातञ्च नाशयेत् २२
स्वादुतिक्तकषायत्वात्पित्तहृत्कफहृत्तु सा
कटुतिक्तकषायत्वादम्लत्वाद्वातहृच्छिवा २३
पित्तकृत्कटुकाम्लत्वाद्वातकृन्न कथं शिवा २४
प्रभावाद्दोषहन्तृत्वं सिद्धं यत्तत्प्रकाश्यते
हेतुभिः शिष्यबोधार्थं नापूर्वं क्रियतेऽधुना २५
कर्मान्यत्वं गुणैः साम्यं दृष्टमाश्रयभेदतः
यतस्ततो नेति चिन्त्यं धात्रीलकुचयोर्यथा २६
पथ्याया मज्जनि स्वादुः स्नाय्वामम्लो व्यवस्थितः
वृन्ते तिक्तस्त्वचि कटुरस्थिस्थस्तुवरो रसः २७
नवा स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च याऽम्भसि
निमज्जेत्सा प्रशस्ता च कथिताऽतिगुणप्रदा २८
नवादिगुणयुक्तत्वं तथैवात्र द्विकर्षता
हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते २९
चर्विता वर्द्धयत्यग्निं पेषिता मलशोधिनी
स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोषनुत् ३०
उन्मीलिनी बुद्धिबलेन्द्रि याणां निर्मूलिनी पित्तकफानिलानाम्
विस्रंसिनी मूत्रशकृन्मलानां हरीतकी स्यात् सह भोजनेन ३१
अन्नपानकृतान्दोषान्वातपित्तकफोद्भवान्
हरीतकी हरत्याशु भुक्तस्योपरि योजिता ३२
लवणेन कफं हन्ति पित्तं हन्ति सशर्करा
घृतेन वातजान् रोगान्सर्वरोगान्गुडान्विता ३३
सिंधूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात्
वर्षादिष्वभया प्राश्या रसायनगुणैषिणा ३४
अध्वातिखिन्नो बलवर्जितश्च रूक्षः कृशो लङ्घनकर्शितश्च
पित्ताधिको गर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत् ३५
विभीतकस्त्रिलिङ्गं स्यादक्षः कर्षफलस्तु सः
कलिद्रुमो भूतवासस्तथा कलियुगालयः
विभीतकं स्वादुपाकं कषायं कफपित्तनुत्
उष्णवीर्यं हिमस्पर्शं भेदनं कासनाशनम् ३६
रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्यनाशनम्
विभीतमज्जातृट्छर्दिकफवातहरी लघुः
कषायो मदकृच्चाथ धात्रीमज्जाऽपि तद्गुणः ३७
वयस्यामलकी वृष्या जातीफलरसं शिवम्
धात्रीफलं श्रीफलं च तथामृतफलं स्मृतम्
त्रिष्वामलकमाख्यातं धात्री तिष्यफलाऽमृता ३८
हरीतकीसमं धात्रीफलं किन्तु विशेषतः
रक्तपित्तप्रमेहघ्नं परं वृष्यं रसायनम् ३९
हन्ति वातं तदम्लत्वात्पित्तं माधुर्यशैत्यतः
कफं रूक्षकषायत्वात्फलं धात्र्! यास्त्रिदोषजित् ४०
यस्य यस्य फलस्येह वीर्यं भवति यादृशम्
तस्य तस्यैव वीर्य्येण मज्जानमपि निर्दिशेत् ४१
पथ्याविभीतधात्रीणां फलैः स्यात्त्रिफला समैः
फलत्रिकञ्च त्रिफला सा वरा च प्रकीर्तिता ४२
त्रिफला कफपित्तघ्नी मेहकुष्ठहरा सरा
चक्षुष्या दीपनी रुच्या विषमज्वरनाशिनी ४३
शुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेषजम्
ऊषणं कटुभद्र ञ्च शृङ्गवेरं मह्षधम् ४४
शुण्ठी रुच्यामवातघ्नी पाचनी कटुका लघुः
स्निग्धोष्णा मधुरा पाके कफवातविबन्धनुत् ४५
वृष्या स्वर्य्यावमिश्वासशूलकासहृदामयान्
हन्ति श्लीपदशोथार्श आनाहोदरमारुतान् ४६
आग्नेयगुणभूयिष्ठात् तोयांशपरिशोषि यत्
संगृह्णाति मलं तत्तु ग्राहि शुण्ठ्यादयो यथा ४७
विबन्धभेदिनी या तु सा कथं ग्राहिणी भवेत्
शक्तिर्विबन्धभेदे स्याद्यतो न मलपातनो ४८
आर्द्र कं शृङ्गवेरं स्यात्कटुभद्रं तथाऽद्रि का
आर्द्रि का भेदिनी गुर्वीतीक्ष्णोष्णा दीपनी मता ४९
कटुका मधुरा पाके रूक्षा वातकफापहा
ये गुणाः कथिता शुण्ठ्यास्तेऽपि सन्त्यार्द्र केऽखिलाः ५०
भोजनाग्रे सदा पथ्यं लवणार्द्र कभक्षणम्
अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम् ५१
कुष्ठपाण्ड्वामये कृच्छ्रे रक्तपित्ते व्रणे ज्वरे
दाहे निदाघशरदोर्नैव पूजितमार्द्र कम् ५२
पिप्पली मागधी कृष्णा वैदेही चपला कणा
उपकुल्योषणा शौण्डी कोला स्यात्तीक्ष्णतण्डुला ५३
पिप्पली दीपना वृष्या स्वादुपाका रसायनी
अनुष्णा कटुका स्निग्धा वातश्लेष्महरी लघुः ५४
पिप्पली रेचनी हन्ति श्वासकासोदरज्वरान्
कुष्ठप्रमेहगुल्मार्शः प्लीहशूलाममारुतान् ५५
आद्रा र्! कफप्रदा स्निग्धा शीतला मधुरा गुरुः
पित्तप्रशमनी सा तु शुष्का पित्तप्रकोपिणी ५६
पिप्पली मधुसंयुक्ता मेदः कफविनाशिनी
श्वासकासज्वरहरी वृष्या मेध्याऽग्निवर्द्धिनी ५७
जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली
कासाजीर्णारुचिश्वासहृत्पाण्डुकृमिरोगनुत्
द्विगुणः पिप्पलीचूर्णाद् गुडोऽत्र भिषजां मतः ५८
मरिचं वेल्लजं कृष्णमूषणं धर्मपत्तनम् ५९
मरिचं कटुकं तीक्ष्णं दीपनं कफवातजित्
उष्णं पित्तकरं रूक्षं श्वासशूलकृमीन्हरेत् ६०
तदाद्र रं! मधुरं पाके नात्युष्णं कटुकं गुरु
किञ्चित्तीक्ष्णगुणं श्लेष्मप्रसेकि स्यादपित्तलम् ६१
विश्वोपकुल्या मरिचं त्रयं त्रिकटु कथ्यते
कटुत्रिकं तु त्रिकटु त्र्! यूषणं व्योष उच्यते ६२
त्र्! यूषणं दीपनं हन्ति श्वासकासत्वगामयान्
गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसान् ६३
ग्रन्थिकं पिप्पलीमूलमूषणं चटकाशिरः
दीपनं पिप्पलीमूलं कटूष्णं पाचनं लघु ६४
रूक्षं पित्तकरं भेदि कफवातोदरापहम्
आनाहप्लीहगुल्मघ्नं कृमिश्वासक्षयापहम् ६५
त्र्! यूषणं सकणामूलं कथितं चतुरूषणम्
व्योषस्येव गुणाः प्रोक्ता अधिकाश्चतुरूषणे ६६
भवेच्चव्यं तु चविका कथिता सा तथोषणा
कणामूलगुणं चव्यं विशेषाद्गुदजापहम् ६७
चविकायाः फलं प्राज्ञैः कथिता गजपिप्पली
कपिवल्ली कोलवल्ली श्रेयसीवशिरश्च सा ६८
गजकृष्णा कटुर्वातश्लेप्महृद्वह्निवर्धिनी
उष्णा निहन्त्यतीसारं श्वासकण्ठामयकृमीन् ६९
चित्रकोऽनलनामाच पाठी व्यालस्तथोषणः
चित्रकः कटुकः पाके वह्निकृत्पाचनो लघुः ७०
रूक्षोष्णो ग्रहणीकुष्ठशोथार्शः कृमिकासनुत्
वातश्लेष्महरो ग्राही वातघ्नः श्लेष्मपित्तहृत् ७१
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः
पञ्चभिः कोलमात्रं यत्पञ्चकोलं तदुच्यते ७२
पञ्चकोलं रसे पाके कटुकं रुचिकृन्मतम्
तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफवातनुत्
गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम् ७३
पञ्चकोलं समरिचं षडूषणमुदाहृतम्
पञ्चकोलगुणं तत्तु रूक्षमुष्णं विषापहम् ७४
यवानिकोग्रगन्धा च ब्रह्मदर्भाऽजमोदिका ७५
सैवोक्ता दीप्यका दीप्या तथा स्याद्यवसाह्वया
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः ७६
दीपनी च तथा तिक्ता पित्तला शुक्रशूलहृत्
वातश्लेष्मोदरानाहगुल्मप्लीहकृमिप्रणुत् ७७
अजमोदा खराश्वा च मायूरो दीप्यकस्तथा
तथा ब्रह्मकुशा प्रोक्ता कारवी लोचमस्तका ७८
अजमोदा कटुस्तीक्ष्णा दीपनी कफवातनुत्
उष्णा विदाहिनी हृद्या वृष्या बलकरी लघुः
नेत्रामय कृमिच्छर्दिहिक्कावस्तिरुजो हरेत् ७९
पारसीकयवानी तु यवानीसदृशी गुणैः
विशेषात्पाचनी रुच्या ग्राहिणी मादिनी गुरुः ८०
जीरको जरणोऽजाजी कणा स्याद्दीर्घजीरकः ८१
कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः
कालाजाजी तु सुषवी कालिका चोपकालिका ८२
पृथ्वीका कारवी पृथ्वी पृथुकृष्णोपकुञ्चिका
उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ८३
जीरकत्रितयं रूक्षं कटूष्णं दीपनं लघु
संग्राही पित्तलं मेध्यं गर्भाशयविशुद्धिकृत् ८४
ज्वरघ्नं पाचनं वृष्यं बल्यं रुच्यं कफापहम्
चक्षुष्यं पवनाघ्मानगुल्मच्छर्द्यतिसार हृत् ८५
धान्यकं धानकं धान्यं धाना धानेयकं तथा
कुनटी धेनुका छत्रा कुस्तुम्बुरु वितुन्नकम् ८६
धान्यकं तुवरं स्निग्धमवृष्यं मूत्रलं लघु
तिक्तं कटूष्णवीर्यञ्च दीपनं पाचनं स्मृतम् ८७
ज्वरघ्नं रोचकं ग्राहि स्वादुपाकि त्रिदोषनुत्
तृष्णादाहवमिश्वासकासकार्श्यकृमिप्रणुत्
आर्द्र न्तु तद्गुणं स्वादु विशेषात्पित्तनाशनम् ८८
शतपुष्पा शताह्वा च मधुरा कारवी मिसिः
अतिलम्बी सितच्छत्रा संहितच्छत्रिकाऽपि च ८९
छत्रा शालेयशालीनो मिश्रेया मधुरा मिसिः
शतपुष्पा लघुस्तीक्ष्णा पित्तकृद्दीपनी कटुः ९०
उष्णा ज्वरानिलश्लेष्मव्रणशूलाक्षिरोगहृत्
मिश्रेया तद्गुणा प्रोक्ता विशेषाद्योनिशूलनुत् ९१
अग्निंमान्द्यहरी हृद्या बद्धविट्कृमिशुक्रहृत्
रूक्षोष्णा पाचनी कासवमिश्लेष्मानिलान्हरेत् ९२
मेथिका मेथिनी मेथी दीपनी बहुपत्रिका
बोधिनी बहुबीजा च ज्योतिर्गन्धफला तथा ९३
वल्लरी चन्द्रि का मन्था मिश्रपुष्पा च कैरवी
कुञ्चिका बहुपर्णी च पीतबीजा मुनिच्छदा ९४
मेथिकावातशमनीश्लेष्मघ्नीज्वरनाशिनी
ततः स्वल्पगुणावन्या वाजिनां सा तु पूजिता ९५
चन्द्रि का चर्महन्त्री च पशुमेहनकारिका
नन्दिनी कारवी भद्रा वासपुष्पा सुवासरा ९६
चन्द्र शूरं हितं हिक्कावातश्लेष्मातिसारिणाम्
असृग्वातगदद्वेषि बलपुष्टिविवर्द्धनम् ९७
मेथिका चन्द्र शूरश्च कालाऽजाजी यवानिका
एतच्चतुष्टयं युक्तं चतुर्बीजमिति स्मृतम् ९८
तच्चूर्णं भक्षितं नित्यं निहन्ति पवनामयम्
अजीर्णं शूलमाध्मानं पार्श्वशूलं कटिव्यथाम् ९९
सहस्रवेधि जतुकं बाह्लीकं हिङ्गु रामठम् १००
हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातबलासनुत्
शूलगुल्मोदरानाहकृमिघ्नं पित्तवर्द्धनम् १०१
वचोग्रगन्धा षड्र्गन्था गोलोमी शतपर्विका
क्षुद्र पत्री च मङ्गल्या जटिलोग्रा च लोमशा १०२
वचोग्रगन्धा कटुका तिक्तोष्णा वान्तिवह्निकृत्
विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी
अपस्मारकफोन्मादभूतजन्त्वनिलान्हरेत् १०३
पारसीक वचा शुक्ला प्रोक्ता हैमवतीति सा
हैमवत्युदिता तद्वद्वातं हन्ति विशेषत १०४
सुगन्धाऽप्युग्रगन्धा च विशेषात्कफकासनुत्
सुस्वरत्वकरी रुच्या हृत्कण्ठमुखशोधिनी १०५
स्थूलग्रन्थिः सुगन्धा स्यात्ततो हीनगुणा स्मृता १०६
द्वीपान्तरवचा किञ्चित्तिक्तोष्णा वह्निदीप्तिकृत्
विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी १०७
वातव्याधीनपस्मारमुन्मादं तनुवेदनाम्
व्यपोहति विशेषेण फिरङ्गामयनाशिनी १०८
हपुषा हबुषा विस्रा पराऽश्वत्थफला मता
मत्स्यगन्धाप्लीहहन्त्री विषघ्नी ध्वांक्षनाशिनी १०९
हपुषा दीपनी तिक्ता मृदूष्णा तुवरा गुरुः
पित्तोदरसमीरार्शोग्रहणीगुल्मशूलहृत्
पराऽप्येतद्गुणा प्रोक्ता रूपभेदो द्वयोरपि ११०
पुंसि क्लीवे विडङ्गः स्यात्कृमिघ्नो जन्तुनाशनः
तण्डुलश्च तथा वेल्लममोघा चित्रतण्डुलः १११
विडङ्गं कटु तीक्ष्णोष्णं रूक्षं वह्निकरं लघु
शूलाध्मानोदरश्लेष्मकृमिवातविबन्धनुत् ११२
नाडी हिङ्गु पलाशाख्या जन्तुका रामठी च सा
वंशपत्री च पिण्डाह्वा सुवीर्य्या हिङ्गुनाडिका
तुम्बुरुः सौरभः सौरो वनजः सानुजोऽन्धकः ११३
तुम्बुरु प्रथितं तिक्तं कटुपाकेऽपि तत्कटु
रूक्षोष्णं दीपनं तीक्ष्णं रुच्यं लघु विदाहि च ११४
वातश्लेष्माक्षिकर्णौष्ठशिरोरुग्गुरुताकृमीन्
कुष्ठशूलारुचिश्वासप्लीहकृच्छ्राणि नाशयेत् ११५
स्याद्वंशरोचना वांशी तुगाक्षीरी तुगा शुभा
त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी च वैणवी ११६
वंशजा वृंहणी वृष्या बल्या स्वाद्वी च शीतला
तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः
हरेत्कुष्ठं व्रणं पाण्डुं कषाया वातकृच्छ्रजित् ११७
समुद्र फेनः फेनश्च हिण्डीरोऽब्धिकफस्तथा ११८
समुद्र फेनश्चक्षुष्यो लेखनः शीतलश्च सः
कषायो विषपित्तघ्नः कर्णरुक्कफहृत्सरः ११९
जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके १२०
अष्टवर्गोऽष्टभिर्द्र व्यैः कथितश्चरकादिभिः १२१
अष्टवर्गो हिमः स्वादुर्बृंहणः शुक्रलो गुरुः
भग्नसन्धानकृत्कामबलासबलवर्द्धनः
वातपित्तास्रतृड्दाहज्वरमेहक्षयप्रणुत् १२२
जीवकर्षभकौ ज्ञेयौ हिमाद्रि शिखरोद्भवौ
रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ १२३
जीवकः कूर्चकाकार ऋषभो वृष शृङ्गवत्
जीवको मधुरः शृङ्गो ह्रस्वाङ्गः कूर्चशीर्षकः १२४
जीवकर्षभकौ बल्यौ शीतौ शुक्रकफप्रदौ
मधुरौ पित्तदाहास्रकार्श्यवातक्षयापहौ १२५
महामेदाऽभिधः कन्दो मोरङ्गादौ प्रजायते १२६
महामेदा वनीमेदा स्यादित्युक्तं मुनीश्वरैः १२७
शुक्लार्द्र कनिभः कन्दो लताजातः सुपाण्डुरः
महामेदाभिधो ज्ञेयो मेदालक्षणमुच्यते १२८
शुक्लकन्दो नखच्छेद्यो मेदोधातुमिव स्रवेत्
यः स मेदेति विज्ञेयो जिज्ञासातत्परैर्जनैः १२९
शल्यपर्णी मणिच्छिद्रा मेदा मेदाभवाध्वरा
महामेदा वसुच्छिद्रा त्रिदन्ती देवतामणिः १३०
मेदायुगं गुरु स्वादु वृष्यं स्तन्यकफावहम्
वृंहणं शीतलं पित्तरक्तवातज्वरप्रणुत् १३१
जायते क्षीरकाकोली महामेदोद्भवस्थले १३२
यत्र स्यात्क्षीरकाकोली काकोली तत्र जायते
पीवरीसदृशः कन्दः सक्षीरः प्रियगन्धवान् १३३
सा प्रोक्ताक्षीरकाकोली काकोलीलिङ्गमुच्यते
यथास्यात्क्षीरकाकोली काकोल्यपि तथा भवेत् १३४
एषा किञ्चिद्भवेत्कृष्णा भेदोऽयमुभयोरपि
काकोली वायसोली च वीरा कायस्थिका तथा १३५
सा शुक्ला क्षीरकाकोली वयस्था क्षीरवल्लिका
कथिता क्षीरिणी धीरा क्षीरशुक्ला पयस्विनी १३६
काकोलीयुगलं शीतं शुक्रलं मधुरं गुरु
वृंहणं वातदाहास्रपित्तशोषज्वरापहम् १३७
ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशलेऽचले
श्वेतलोमान्वितः कन्दो लताजातः सरन्ध्रकः १३८
स एव ऋद्धिर्वृद्धिश्च भेदमप्येतयोर्ब्रुवे
तूलग्रन्थिसमा ऋद्धिर्वामावर्त्तफला च सा १३९
वृद्धिस्तु दक्षिणावर्त्तफला प्रोक्ता महर्षिभिः
ऋद्धिर्योग्यं सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे १४०
ऋद्धिर्बल्या त्रिदोषघ्नी शुक्रला मधुरा गुरुः
प्राणैश्वर्यकरी मूर्च्छारक्तपित्तविनाशिनी १४१
वृद्धिर्गर्भप्रदा शीता वृंहणी मधुरा स्मृता
वृष्या पित्तास्रशमनी क्षतकासक्षयापहा १४२
राज्ञामप्यष्टवर्गस्तु यतोऽयमतिदुर्लभः
तस्मादस्य प्रतिनिधिं गृह्णीयात्तद्गुणं भिषक् १४३
मेदा जीवक काकोली ऋद्धि द्वन्द्वेऽपि चासति
वरीविदार्यश्वगन्धावाराहींश्च क्रमात् क्षिपेत् १४४
यष्टीमधु तथा यष्टीमधुकं क्लीतकं तथा
अन्यत्क्लीतनकं तत्तु भवेत्तोये मधूलिका १४५
यष्टी हिमा गुरुः स्वाद्वी चक्षुष्या बलवर्णकृत्
सुस्निग्धा शुक्रला केश्या स्वर्या पित्तानिलास्रजित्
व्रण शोथ विष च्छर्दि तृष्णाग्लानिक्षयापहा १४६
काम्पिल्लः कर्कशश्चन्द्रो रक्ताङ्गो रोचनोऽपि च
काम्पिल्लः कफपित्तास्रकृमिगुल्मोदरव्रणान्
हन्ति रेची कटूष्णश्च मेहानाहविषाश्मनुत् १४७
आरग्बवधो राजवृक्षः शम्पाकश्चतुरङ्गुलः
आरेवतो व्याधिघातः कृतमालः सुवर्णकः १४८
कर्णिकारो दीर्घफलः स्वर्णाङ्गः स्वर्णभूषणः
आरग्वधोगुरुःस्वादुः शीतलः स्रंसनोत्तमः १४९
ज्वरहृद्रो गापित्तास्रवातोदावर्त्तशूलनुत्
तत्फलं स्रंसनं रुच्यं कुष्ठपित्तकफापहम्
ज्वरे तु सततं पथ्यं कोष्ठशुद्धिकरं परम् १५०
कट्वी तु कटुका तिक्ता कृष्णभेदा कटम्भरा
अशोका मत्स्यशकला चक्राङ्गी शकुलादनी
मत्स्यपित्ता काण्डरुहा रोहिणी कटुरोहिणी १५१
कट्वी तु कटुका पाके तिक्ता रूक्षा हिमा लघुः
भेदिनी दीपनी हृद्या कफपित्तज्वरापहा
प्रमेहश्वासकासास्रदाहकुष्ठकृमिप्रणुत् १५२
किराततिक्तः कैरातः कटुतिक्तः किरातकः १५३
काण्डतिक्तोऽनार्यतिक्तो भूनिम्बो रामसेनकः
किरातकोऽन्यो नैपालः सोऽद्धतिक्तो ज्वरान्तकः १५४
किरातः सारको रूक्षः शीतलस्तिक्तको लघुः
सन्निपातज्वरश्वासकफपित्तास्रदाहनुत्
कासशोथतृषाकुष्ठज्वरव्रणकृमिप्रणुत् १५५
उक्तं कुटजबीजं तु यवमिन्द्र यवं तथा
कलिङ्गं चापि कालिङ्गं तथा भद्र यवा अपि १५६
क्वचिदिन्द्र स्य नामैव भवेत्तदभिधायकम्
फलानीन्द्र यवास्तस्य तथा भद्र यवा अपि १५७
इन्द्र यवं त्रिदोषघ्नं संग्राहि कटु शीतलम् १५८
ज्वरातीसाररक्तार्शोवमिवीसर्पकुष्ठनुत्
दीपनं गुदकीलास्रवातास्रश्लेष्मशूलजित् १५९
मदनश्छर्दनः पिण्डो नटः पिण्डीतकस्तथा
करहाटो मरुवकः शल्यको विषपुष्पकः १६०
मदनो मधुरस्तिक्तो वीर्योष्णो लेखनो लघुः
वान्तिकृद्विद्र धिहरः प्रतिश्यायव्रणान्तकः
रूक्ष कुष्ठकफानाहशोथगुल्मव्रणापहः १६१
रास्ना युक्तरसा रस्या सुवहा रसना रसा
एलापर्णी च सुरसा सुगन्धा श्रेयसी तथा १६२
रास्नाऽमपाचिनी तिक्ता गुरूष्णा कफवातजित् १६३
शोथश्वाससमीरास्रवातशूलोदरापहा
कासज्वरविषाशीतिवातिकामयसिध्महृत् १६४
नाकुली सुरसा नागसुगन्धा गन्धनाकुली
नकुलेष्टा भुजङ्गाक्षी सर्पाङ्गी विषनाशिनी १६५
नाकुली तुवरा तिक्ता कटुकोष्णा विनाशयेत्
भोगिलूतावृश्चिकाखुविषज्वरकृमिव्रणान् १६६
माचिकाप्रस्थिकाऽम्बष्ठा तथा चाम्बालिकांऽबिका
मयूरविदला केशीसहस्रा बालमूलिका १६७
माचिकाऽम्ला रसे पाके कषाया शीतला लघुः
पक्वातीसारपित्तास्रकफकण्ठामयापहा १६८
तेजस्विनी तेजवती तेजोह्वा तेजनी तथा १६९
तेजस्विनी कफश्वासकासास्यामयवातहृत्
पाचन्युष्णाकटुस्तिक्तारुचिवह्निप्रदीपिनी १७०
ज्योतिष्मती स्यात्कटभी ज्योतिष्का कङ्गुनीति च
पारावतपदी पिण्या लता प्रोक्ता ककुन्दनी १७१
ज्योतिष्मती कटुस्तिक्ता सरा कफसमीरजित्
अत्युष्णा वामनी तीक्ष्णा वह्निबुद्धिस्मृतिप्रदा १७२
कुष्ठं रोगाह्वयं वाप्यं पारिभव्यं तथोत्पलम्
कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु
हन्ति वातास्रवीसर्पकासकुष्ठमरुत्कफान् १७३
उक्तं पुष्करमूलं तु पौष्करं पुष्करञ्च तत्
पद्मपत्रञ्च काश्मीरं कुष्ठभेदमिमं जगुः १७४
पौष्करं कटुकं तिक्तमुक्तं वातकफज्वरान्
हन्ति शोथारुचिश्वासान्विशेषात्पार्श्वशूलनुत् १७५
कटुपर्णी हैमवती हेमक्षीरी हिमावती
हेमाह्वा पीतदुग्धा च तन्मूलं चोकमुच्यते १७६
हेमाह्वा रेचनी तिक्ता भेदिन्युत्क्लेशकारिणी
कृमिकण्डूविषानाहकफपित्तास्रकुष्ठनुत् १७७
शृङ्गी कर्कटशृङ्गी च स्यात्कुलीरविषाणिका
अजशृङ्गी च चक्रा च कर्कटाख्या च कीर्त्तिता १७८
शृङ्गी कषाया तिक्तोष्णा कफवातक्षयज्वरान्
श्वासोर्ध्ववाततृट्कासहिक्काऽरुचिवमीन्हरेत् १७९
कट्फलः सोमवल्कश्च कैटर्य्यः कुम्भिकाऽपि च
श्रीपर्णिका कुमुदिका भद्रा भद्र वतीति च १८०
कट्फलस्तुवरस्तिक्तः कटुर्वातकफज्वरान्
हन्ति श्वासप्रमेहार्शः कासकण्ठामयारुचीः १८१
भार्गी भृगुभवा पद्मा फञ्जी ब्राह्मणयष्टिका
ब्राह्मण्यङ्गारवल्ली च खरशाकश्च हञ्जिका १८२
भार्गी रूक्षा कटुस्तिक्ता रुच्योष्णा पाचनी लघुः
दीपनी तुवरा गुल्मरक्तनुन्नाशयेद् ध्रुवम्
शोथकासकफश्वासपीनसज्वरमारुतान् १८३
पाषाणभेदकोऽश्मघ्नो गिरिभिद्भिन्नयोजिनी
अश्मभेदो हिमस्तिक्तः कषायो वस्तिशोधनः १८४
भेदनो हन्ति दोषार्शोगुल्मकृच्छ्राश्महृद्द्रुजः
योनि रोगान्प्रमेहांश्च प्लीह शूल व्रणानि च १८५
धातकी धातुपुष्पी च ताम्रपुष्पी च कुञ्जरा
सुभिक्षा बहुपुष्पी च वह्निज्वाला च सा स्मृता १८६
धातकी कटुका शीता मृदुकृत्तुवरा लघुः
तृष्णाऽतीसारपित्तास्रविषकृमिविसर्पजित् १८७
मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका १८८
मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि
रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका १८९
भण्डीतकी च गण्डीरी मञ्जूषा वस्त्ररञ्जिनी
मञ्जिष्ठा मधुरा तिक्ता कषाया स्वरवर्णकृत् १९०
गुरुरुष्णा विषश्लेष्मशोथयोन्यक्षिकर्णरुक्
रक्तातीसार कुष्ठास्र वीसर्पव्रणमेहनुत् १९१
स्यात्कुसुम्भं वह्निशिखं वस्त्ररञ्जकमित्यपि
कुसुम्भं वातलं कृच्छ्ररक्तपित्तकफापहम् १९२
लाक्षा पलंकषालक्तो यावो वृक्षामयो जतुः
लाक्षा वर्ण्या हिमा बल्या स्निग्धा च तुवरा लघुः १९३
ब्रिआ!ह्मण्यङ्गारवल्ली च खरशाखा च हञ्जिका
अनुष्णा कफपित्तास्रहिक्काकासज्वरप्रणुत् १९४
व्रणोरःक्षतवीसर्पकृमिकुष्ठगदापहा
अलक्तको गुणैस्तद्वद्विशेषाद्व्यङ्गनाशनः १९५
हरिद्रा काञ्चनी पीता निशाऽख्या वरवर्णिनी
कृमिघ्नी हलदी योषित्प्रिया हट्टविलासिनी १९६
हरिद्रा कटुका तिक्ता रूक्षोष्णा कफपित्तनुत्
वर्ण्या त्वग्दोषमेहास्रशोथपाण्डुव्रणापहा १९७
दार्वी मेदाऽम्रगन्धा च सुरभीदारु दारु च
कर्पूरा पद्मपत्रा स्यात्सुरीमत्सुरतारका १९८
आम्रगंधिर्हरिद्रा या सा शीता वातला मता
पित्तहृन्मधुरा तिक्ता सर्वकण्डूविनाशिनी १९९
अरण्यहलदीकन्दः कुष्ठवातास्रनाशनः २००
दार्वी दारुहरिद्रा च पर्जन्या पर्जनीति च
कटङ्कटेरी पीता च भवेत्सैव पचम्पचा
सैव कालीयकः प्रोक्तस्तथा कालेयकोऽपि च २०१
पीतद्रुश्च हरिद्रुश्च पीतदारु च पीतकम्
दार्वी निशागुणा किन्तु नेत्र कर्णास्यरोगनुत् २०२
दार्वीक्वाथसमं क्षीरं पादं पक्त्वा यदा घनम्
तदा रसाञ्जनाख्यं तन्नेत्रयोः परमं हितम् २०३
रसाञ्जनं तार्क्ष्यशैलं रसगर्भश्च तार्क्ष्यजम्
रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत् २०४
उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत् २०५
अवल्गुजो वाकुची स्यात्सोमराजी सुपर्णिका
शशिलेखा कृष्णफला सोमा पूतिफलीति च २०६
सोमवल्ली कालमेषी कुष्ठघ्नी च प्रकीर्त्तिता
बाकुची मधुरा तिक्ता कटुपाका रसायनी २०७
विष्टम्भहृद्धिमा रुच्या सरा श्लेष्मास्रपित्तनुत्
रूक्षा हृद्या श्वासकुष्ठमेहज्वरकृमिप्रणुत् २०८
तत्फलं पित्तलं कुष्ठकफानिलहरं कटु
केश्यं त्वच्यं कृमिश्वासकासशोथामपाण्डुनुत् २०९
चक्रमर्दः प्रपुन्नाटो दद्रुघ्नो मेषलोचनः
पद्माटः स्यादेडगजश्चक्री पुन्नाट इत्यपि ११०
चक्रमर्दो लघुः स्वादू रूक्षः पित्तानिलापहः
हृद्यो हिमः कफश्वासकुष्ठदद्रुकृमीन्हरेत् २११
हन्त्युष्णं तत्फलं कुष्ठकण्डूदद्रुविषानिलान्
गुल्मकासकृमिश्वासनाशनं कटुकं स्मृतम् २१२
विषा त्वतिविषा विश्वा शृङ्गी प्रतिविषाऽरुणा
शुक्लकन्दा चोपविषा भङ्गुरा घुणवल्लभा २१३
विषा सोष्णा कटुस्तिक्ता पाचनी दीपनी हरेत्
कफपित्तातिसारामविषकासवमिकृमीन् २१४
लोध्रस्तिल्वस्तिरीटश्च शावरो गालवस्तथा
द्वितीयः पट्टिकालोध्रः क्रमुकः स्थूलवल्कलः
जीर्णपत्रो बृहत्पत्रः पट्टी लाक्षाप्रसादनः २१५
लोध्रो ग्राही लघुः शीतश्चक्षुष्यः कफपित्तनुत्
कषायो रक्तपित्तासृग्ज्वरातीसारशोथहृत् २१६
लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम्
अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः २१७
यदाऽमृतं वैनतेयो जहार सुरसत्तमात्
तदा ततोऽपतद् विन्दुः स रसोनोऽभवद्भुवि २१८
पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः
तस्माद्र सोन इत्युक्तो द्र व्याणां गुणवेदिभिः २१९
कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः
नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः
बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः २२०
रसोनो वृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः
रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः २२१
भग्नसन्धानकृत्कण्ठ्यो गुरुः पित्तास्रवृद्धिदः
बलवर्णकरो मेधाहितो नेत्र्! यो रसायनः २२२
हृद्रो गजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान्
दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति २२३
मद्यं मांसं तथाऽम्लञ्च हितं लशुनसेविनाम्
व्यायाममातपं रोषमतिनीरं पयो गुडम् २२४
रसोनमश्नन् पुरुषस्त्यजेदेतान् निरन्तरम् २२५
पलाण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः
पलाण्डुस्तु बुधैर्ज्ञेयो रसोनसदृशो गुणैः २२६
स्वादुः पाके रसेऽनुष्णः कफकृन्नातिपित्तलः
हरते केवलं वातं बलवीर्यकरो गुरुः २२७
भल्लातकं त्रिषु प्रोक्तमरुष्कोरुष्करोऽग्निकः
तथैवाग्निमुखी भल्ली वीरवृक्षश्च शोफकृत् २२८
भल्लातकफलं पक्वं स्वादुपाकरसं लघु
कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेदनम् २२९
मेध्यं वह्निकरं हन्ति कफवातव्रणोदरम्
कुष्ठार्शोग्रहणीगुल्मशोफानाहज्वरकृमीन् २३०
तन्मज्जा मधुरा वृष्या बृंहणी वातपित्तहा
वृन्तमारुष्करं स्वादु पित्तघ्नं केश्यमग्निकृत् २३१
भल्लातकः कषायोष्णः शुक्रलो मधुरो लघुः
वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान्
हन्ति गुल्मज्वरश्वित्रवह्निमान्द्यकृमिव्रणान् २३२
भङ्गा गञ्जा मातुलानी मादिनी विजया जया २३३
भङ्गा कफ हरी तिक्ता ग्राहिणी पाचनी लघुः
तीक्ष्णोष्णा पित्तला मोहमदवाग्वह्निवर्द्धिनी २३४
तिलभेदः खसतिलः खाखसश्चापि स स्मृतः
स्यात् खाखसफलोद्भूतं वल्कलं शीतलं लघु २३५
ग्राहि तिक्तं कषायञ्च वातकृत् कफकासहृत् २३६
धातूनां शोषकं रूक्षंमदकृद्वाग्विवर्धनम्
मुहुर्मोहकरं रुच्यं सेवनात्पुंस्त्वनाशनम् २३७
उक्तं खसफलक्षीरमाफूकमहिफेनकम्
आफूकं शोषणं ग्राहि श्लेष्मघ्नं वातपित्तलम्
तथा खसफलोद्भूतवल्कलप्रायमित्यपि २३८
उच्यन्ते खसबीजानि ते खाखसतिला अपि २३९
खसबीजानिबल्यानि वृष्याणि सुगुरूणि च
जनयन्ति कफं तानि शमयन्ति समीरणम् २४०
सैन्धवोऽस्त्री शीतशिवं मणिमन्थञ्च सिन्धुजम्
सैन्धवं लवणं स्वादु दीपनं पाचनं लघु
स्निग्धं रुच्यं हिमं वृष्यं सूक्ष्मं नेत्र्! यं त्रिदोषहृत् २४१
शाकम्भरीयं कथितं गडाख्यं रोमकं तथा २४२
गडाख्यं लघु वातघ्नमत्युष्णं भेदिपित्तलम्
तीक्ष्णोष्णं चापि सूक्ष्मञ्चाभिष्यन्दिकटुपाकि च २४३
सामुद्रं यत्तुलवणमक्षीवं वशिरञ्च तत्
समुद्र जं सागरजं लवणोदधिसम्भवम् २४४
सामुद्रं मधुरं पाके सतिक्तं मधुरं गुरु
नात्युष्णं दीपनं भेदि सक्षारमविदाहि च
श्लेष्मलं वातनुत्तीक्ष्णमरूक्षं नातिशीतलम् २४५
बिडं पाक्यञ्च कृतकं तथा द्रा विडमासुरम्
बिडं सक्षारमूर्ध्वाधः कफवातानुलोमनम् २४६
दीपनं लघु तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि च
विबन्धानाहविष्टम्भहृद्रुग्गौरवशूलनुत् २४७
सौवर्चलं स्याद्रुचकं मन्थपाकञ्च तन्मतम्
रुचकं रोचनं भेदि दीपनं पाचनं परम् २४८
सस्नेहं वातनुन्नातिपित्तलं विशदं लघु
उद्गारशुद्धिदं सूक्ष्मं विबन्धानाहशूलजित् २४९
औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयम्
क्षारं गुरु कटु स्निग्धं शीतलं वातनाशनम् २५०
चणकाम्लकमत्युष्णं दीपनं दन्तहर्षणम्
लवणानुरसं रुच्यं शूलाजीर्णविबन्धनुत् २५१
पाक्यं क्षारो यवक्षारो यावशूको यवाग्रजः
स्वर्जिकाऽपि स्मृतः क्षारः कापोतः सुखवर्चकः २५२
कथितः स्वर्जिकाभेदो विशेषज्ञैः सुवर्चिका
यवक्षारो लघुः स्निग्धः सुसूक्ष्मो वह्निदीपनः २५३
निहन्ति शूलवातामश्लेष्मश्वासगलामयान्
पाण्ड्वर्शोग्रहणीगुल्मानाहप्लीहहृदामयान् २५४
स्वर्जिकाऽल्पगुणा तस्माद्विज्ञेया गुल्मशूलहृत्
सुवर्चिका स्वर्जिकावद् बोद्धव्या गुणतो जनैः २५५
सौभाग्यं टङ्कणं क्षारं धातुद्रा वकमुच्यते
टङ्कणं वह्निकृद्रू क्षं कफहृद्वातपित्तकृत् २५६
स्वर्जिका यावशूकश्च क्षारद्वयमुदाहृतम्
टङ्कणेन युतं तत्तु क्षारत्रयमुदीरितम् २५७
मिलितं तूक्तगुणकृद्विशेषाद्गुल्महृत्परम्
पलाश वज्रि शिखरि चिञ्चाऽकतिलनालजाः २५८
यवजः स्वर्जिका चेति क्षाराष्टकमुदाहृतम्
क्षारा एतेऽग्निना तुल्या गुल्मशूलहरा भृशम् २५९
चुक्रंसहस्रवेधि स्याद्र साम्लं शुक्तमित्यपि
चुक्रमत्यम्लमुष्णञ्च दीपनं पाचनं परम् २६०
शूलगुल्मविबन्धामवातश्लेष्महरं सरम्
वमितृष्णाऽस्यवैरस्यहृत्पीडावह्निमान्द्यहृत् २६१
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे द्वितीयो हरीतक्यादिवर्गः समाप्तः

कर्पूरादिवर्गः[सम्पाद्यताम्]

अथ कर्पूरादिवर्गः
पुंसि क्लीबे च कर्पूरः सिताभ्रो हिमवालुकः
घनसारश्चन्द्र संज्ञो हिमनामाऽपि स स्मृतः १
कर्पूरः शीतलो वृष्यश्चक्षुष्यो लेखनो लघुः
सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः २
दाहतृष्णाऽस्यवैरस्यमेदोदौर्गन्ध्यनाशनः
कर्पूरो द्विविधः प्रोक्तः पक्वापक्वप्रभेदतः
पक्वात्कर्पूरतः प्राहुरपक्वं गुणवत्तरम् ३
चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः
कुष्ठकण्डूवमिहरस्तथा तिक्तरसश्च सः ४
मृगनाभिर्मृगमदः कथितस्तु सहस्रभित्
कस्तूरिका च कस्तूरी वेधमुख्या च सा स्मृता ५
कामरूपोद्भवा कृष्णा नैपाली नीलवर्णयुक्
काश्मीरी कपिलच्छाया कस्तूरी त्रिविधा स्मृता ६
कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत्
काश्मीरदेशसम्भूता कस्तूरी ह्यधमा मता ७
कस्तूरिका कटुस्तिक्ता क्षारोष्णा शुक्रला गुरुः
कफवातविषच्छर्दिशीतदौर्गन्ध्यशोषहृत् ८
लता कस्तूरिका तिक्ता स्वाद्वी वृष्या हिमा लघुः
चक्षुष्या छेदिनी श्लेष्मतृष्णाबस्त्यास्यरोगहृत् ९
गन्धमार्जारवीर्यन्तु वीर्यकृत्कफवातहृत्
कण्डूकुष्ठहरं नेत्र्! यं सुगन्धं स्वेदगन्धनुत् १०
श्रीखण्डं चन्दनं न स्त्री भद्र श्रीस्तैलपर्णिकः
गन्धसारो मलजयस्तथा चन्द्र द्युतिश्च सः ११
स्वादे तिक्तं कषे पीतं छेदे रक्तं तनौ सितम्
ग्रन्थिकोटरसंयुक्तं चन्दनं श्रेष्ठमुच्यते १२
चन्दनं शीतलं रूक्षं तिक्तमाह्लादनं लघु
श्रमशोषविषश्लेष्मतृष्णापित्तास्रदाहनुत् १३
कालीयकं तु कालीयं पीताभं हरिचन्दनम् १४
हरिप्रियं कालसारं तथा कालानुसार्यकम्
कालीयकं रक्तगुणं विशेषाद् व्यङ्गनाशनम् १५
रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्र चन्दनम्
तिलपर्णं रक्तसारं तत्प्रवालफलं स्मृतम् १६
रक्तं शीतं गुरु स्वादुच्छर्दितृष्णाऽस्रपित्तहृत्
तिक्तं नेत्रहितं वृष्यं ज्वरव्रणविषापहम् १७
पतङ्गं रक्तसारञ्च सुरङ्गं रञ्जनं तथा
पट्टरञ्जकमाख्यातं पत्तूरञ्च कुचन्दनम् १८
पतङ्गं मधुरं शीतं पित्तश्लेष्मव्रणास्रनुत्
हरिचन्दनवद्वेद्यं विशेषाद्दाहनाशनम् १९
चन्दनानि तु सर्वाणि सदृशानि रसादिभिः
गन्धेन तु विशेषोऽस्ति पूर्वः श्रेष्ठतमो गुणैः २०
अगुरु प्रवरं लोहं राजार्हं योगजं तथा
वंशिकं कृमिजं वाऽपि कृमिजग्धमनार्यकम् २१
अगुरूष्णं कटु त्वच्यं तिक्तं तीक्ष्णञ्च पित्तलम्
लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत् २२
कृष्णं गुणाधिकं तत्तु लोहवद्वारि मज्जति
अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः २३
देवदारु स्मृतं दारुभद्रं दार्विन्द्र दारु च
मस्तदारु द्रुकिलिमं किलिमं सुरभूरुहः २४
देवदारु लघु स्निग्धं तिक्तोष्णं कटुपाकि च
विबन्धाध्मानशोथामतन्द्रा हिक्काज्वरास्रजित्
प्रमेहपीनसश्लेष्मकासकण्डूसमीरनुत् २५
सरलः पीतवृक्षः स्यात्तथा सुरभिदारुकः
सरलो मधुरस्तिक्तो कटुपाकरसो लघुः २६
स्निग्धोष्णः कर्णकण्ठाक्षिरोगरक्षोहरः स्मृतः
कफानिलस्वेददाहकासमूर्छाव्रणापहः २७
कालानुसार्यं तगरं कुटिलं नहुषं नतम्
अपरं पिण्डतगरं दण्डहस्ती च बर्हिणम् २८
तगरद्वयमुष्णं स्यात्स्वादु स्निग्धं लघु स्मृतम्
विषापस्मारशूलाक्षिरोगदोषत्रयापहम् २९
पद्मकं पद्मगन्धि स्यात्तथा पद्माह्वयं स्मृतम्
पद्मकं तुवरं तिक्तं शीतलं वातलं लघु ३०
वीसर्पदाहविस्फोटकुष्ठश्लेष्मास्रपित्तनुत्
गर्भसंस्थापनं रुच्यं वमिव्रणतृषाप्रणुत् ३१
गुग्गुलर्देवधूपश्च जटायुः कौशिकः पुरः
कुम्भोलूखलकं क्लीबे महिषाक्षः पलङ्कषः ३२
महिषाक्षो महानीलः कुमुदः पद्म इत्यपि
हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्च जातयः ३३
भृङ्गाञ्जनसवर्णस्तु महिषाक्ष इति स्मृतः
महानीलस्तु विज्ञेयः स्वनामसमलक्षणः ३४
कुमुदः कुमुदाभः स्यात्पद्मो माणिक्यसन्निभः
हिरण्याख्यस्तु हेमाभः पञ्चानां लिङ्गमीरितम् ३५
महिषाक्षो महानीलो गजेन्द्रा णां हितावुभौ
हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ ३६
विशेषेण मनुष्याणां कनकः परिकीर्त्तितः
कदाचिन्महिषाक्षश्च मतः कैश्चिन्नृणामपि ३७
गुग्गुलुर्विशदस्तिक्तो वीर्योष्णः पित्तलः सरः
कषायः कटुकः पाके कटू रूक्षो लघुः परः ३८
भग्नसन्धानकृद् वृष्यः सूक्ष्मः स्वर्यो रसायनः
दीपनः पिच्छिलो बल्यः कफवातव्रणापचीः ३९
मेदोमेहाश्मवातांश्च क्लेदकुष्ठाममारुतान्
पिडकाग्रन्थिशोफार्श्गण्डमालाकृमीञ्जयेत् ४०
माधुर्याच्छमयेद्वातं कषायत्वाच्च पित्तहा
तिक्तत्वाद् कफजित्तेन गुग्गुलुः सर्वदोषहा ४१
स नवो बृंहणो वृष्यः पुराणस्त्वतिलेखनः ४२
स्निग्धः काञ्चनसङ्काशः पक्वजम्बूफलोपमः
नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः ४३
शुष्को दुर्गन्धकश्चैव त्यक्तप्रकृतिवर्णकः
पुराणः स तु विज्ञेयो गुग्गुलुर्वीर्यवर्जितः ४४
अम्लं तीक्ष्णमजीर्णञ्च व्यवायं श्रममातपम्
मद्यं रोषं त्यजेत्सम्यग् गुणार्थी पुरसेवकः ४५
श्रीवासः सरलस्रावः श्रीवेष्टो वृक्षधूपकः
श्रीवासो मधुरस्तिक्तः स्निग्धोष्णस्तुवरः सरः ४६
पित्तलो वातमूर्द्धाक्षिस्वररोगकफापहः
रक्षोघ्नः स्वेददौर्गन्ध्ययूकाकण्डूव्रणप्रणुत् ४७
रालस्तु शालनिर्यासस्तथा सर्ज्जरसः स्मृतः
देवधूपो यक्षधूपस्तथा सर्वरसश्च सः ४८
रालो हिमो गुरुस्तिक्तः कषायो ग्राहको हरेत्
दोषास्रस्वेदवीसर्पज्वरव्रणविपादिकाः
ग्रहभग्नाग्निदग्धांश्च शूलातीसारनाशनः ४९
कुन्दुरुस्तु मुकुन्दः स्यात्सुगन्धः कुन्द इत्यपि ५०
कुन्दुरुर्मधुरस्तिक्तस्तीक्ष्णस्त्वच्यः कटुर्हरेत्
ज्वरस्वेदग्रहालक्ष्मीमुखरोगकफानिलान् ५१
सिह्लकस्तु तुरुष्कः स्याद्यतो यवनदेशजः
कपितैलश्च संख्यातस्तथा च कपिनामकः ५२
सिह्लकःकटुकःस्वादुः स्निग्धोष्णःशुक्रकान्तिकृत्
वृष्यः कण्ठ्यः स्वेदकुष्ठज्वरदाहग्रहापहः ५३
जातीफलं जातिकोशं मालतीफलमित्यपि
जातीफलं रसे तिक्तं तीक्ष्णोष्णं रोचनं लघु
कटुकं दीपनं ग्राहि स्वर्यं श्लेष्मानिलापहम् ५४
निहन्ति मुखवैरस्यं मलदौर्गन्ध्यकृष्णताः
कृमिकासवमिश्वासशोषपीनसहृद्रुजः ५५
जातीफलस्य त्वक् प्रोक्ता जातीपत्री भिषग्वरैः ५६
जातीपत्री लघुः स्वादुः कटूष्णा रुचिवर्णकृत्
कफकासवमिश्वासतृष्णाकृमिविषापहा ५७
लवङ्गं देवकुसुमं श्रीसंज्ञं श्रीप्रसूनकम्
लवङ्गं कटुकं तिक्तं लघु नेत्रहितं हिमम् ५८
दीपनं पाचनं रुच्यं कफपित्तास्रनाशकृत्
तृष्णां छर्दिं तथाऽध्मानं शूलमाशु विनाशयेत्
कासं श्वासञ्च हिक्काञ्च क्षयं क्षपयति ध्रुवम् ५९
एला स्थूला च बहुला पृथ्वीका त्रिपुटाऽपि च ६०
भद्रै ला बृहदेला च चन्द्र बाला च निष्कुटिः
स्थूलैला कटुका पाके रसे चानलकृल्लघुः ६१
रूक्षोष्णा श्लेष्मपित्तास्रकण्डूश्वासतृषाऽपहा
हृल्लासविषबस्त्यास्यशिरोरुग्वमिकासनुत् ६२
सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी द्रा विडी त्रुटिः
एला सूक्ष्मा कफश्वासकासार्शोमूत्रकृच्छ्रहृत्
रसे तु कटुका शीता लघ्वी वातहरी मता ६३
त्वक्पत्रञ्च वराङ्गं स्याद् भृङ्गं चोचं तथोत्कटम्
त्वचं लघूष्णं कटुकं स्वादु तिक्तञ्च रूक्षकम् ६४
पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम्
हृद्बस्तिरोगवातार्शः कृमिपीनसशुक्रहृत् ६५
त्वक्स्वाद्वी तु तनुत्वक्स्यात्तथा दारुसिता मता ६६
उक्ता दारुसिता स्वाद्वी तिक्ताचानिलपित्तहृत्
सुरभिः शुक्रलाबल्या मुखशोषतृषापहा ६७
पत्रं तमालपत्रञ्च तथा स्यात्पत्रनामकम्
पत्रकं मधुरं किञ्चित्तीक्ष्णोष्णं पिच्छिलं लघु
निहन्ति कफवातार्शोहृल्लासारुचिपीनसान् ६८
नागपुष्प स्मृतो नागः केशरो नागकेशरः
चाम्पेयो नागकिञ्जल्कः कथितः काञ्चनाह्वयः ६९
नागपुष्पं कषायोष्णं रूक्षं लघ्वामपाचनम् ७०
ज्वरकण्डूतृषास्वेदच्छर्दिहृल्लासनाशनम्
दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहम् ७१
त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम्
नागकेशरसंयुक्तं चातुर्जातकमुच्यते ७२
तद् द्वयं रोचनं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत्
लघुपित्ताग्निकृद्वर्ण्यं कफवातविषापहम् ७३
कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम्
संकोचं पिशुनं धीरं बाह्लीकं शोणिताभिधम् ७४
काश्मीरदेशजे क्षेत्रे कुङ्कुमं यद्भवेद्धि तत्
सूक्ष्मकेशरमारक्तं पद्मगन्धि तदुत्तमम् ७५
बाह्लीकदेशसञ्जातं कुङ्कुमं पाण्डुरं स्मृतम्
केतकीगन्धयुक्तं तन्मध्यमं सूक्ष्मकेशरम् ७६
कुङ्कुमं पारसीकं यन्मधुगन्धि तदीरितम्
ईषत्पाण्डुरवर्णं तदधमं स्थूलकेशरम् ७७
कुङ्कुमं कटुकं स्निग्धं शिरोरुग्व्रणजन्तुजित्
तिक्तं वमिहरं वर्ण्यं व्यङ्गदोषत्रयापहम् ७८
गोरोचना तु मङ्गल्या वन्द्या गौरी च रोचना
गोरोचना हिमा तिक्ता वश्या मङ्गलकान्तिदा
विषालक्ष्मीग्रहोन्मादगर्भस्रावक्षतास्रहृत् ७९
नखं व्याघ्रनखं व्याघ्रायुधं तच्चक्रकारकम् ८०
नखं स्वल्पं नखी प्रोक्ता हनुर्हट्टविलासिनी
नखद्वयं ग्रहश्लेष्मवातास्रज्वरकुष्ठहृत् ८१
लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषापहम्
अलक्ष्मीमुखदौर्गन्ध्यहृत्पाकरसयोः कटुः ८२
बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च
बालकं शीतलं रूक्षं लघु दीपनपाचनम्
हृल्लासारुचिवीसर्पहृद्रो गामातिसारजित् ८३
स्याद्वीरणं वीरतरुर्वीरञ्च बहुमूलकम्
वीरणं पाचनं शीतं वान्तिहृल्लघु तिक्तकम् ८४
स्तम्भनं ज्वरनुद् भ्रान्तिमदजित्कफपित्तहृत्
तृष्णाऽस्रविषवीसर्पकृच्छ्रदाहव्रणापहम् ८५
वीरणस्य तु मूलं स्यादुशीरं नलदञ्च तत्
अमृणालञ्च सेव्यञ्च समगन्धिकमित्यपि ८६
उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकम् ८७
मधुरं ज्वरहृद्वान्तिमदनुत्कफपित्तहृत्
तृष्णाऽस्रविषवीसर्पदाहकृच्छ्र्रवणापहम् ८८
जटामांसी भूतजटा जटिला च तपस्विनी
मांसी तिक्ता कषाया च मेध्या कान्तिबलप्रदा
स्वाद्वी हिमा त्रिदोषास्रदाहवीसर्पकुष्ठनुत् ८९
शैलेयन्तु शिलापुष्पं वृद्धं कालानुसार्य्यकम् ९०
शैलेयं शीतलं हृद्यं कफपित्तहरं लघु
कण्डूकुष्ठाश्मरीदाहविष हृद् गुदरक्तहृत् ९१
मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकम्
कुरुविन्दश्च संख्यातोऽपरः क्रोडकसेरुकः ९२
भद्र मुस्तञ्च गुन्द्रा च तथा नागरमुस्तकः
मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनम् ९३
कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तुहृत्
अनूपदेशे यज्जातं मुस्तकं तत्प्रशस्यते
तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकम् ९४
कर्चूरो वेधमुख्यश्च द्रा विडः कल्पकः शटी
कर्चुरो दीपनो रुच्यः कटुकस्तिक्त एव च ९५
सुगन्धिः कटुपाकः स्यात्कुष्ठार्शोव्रणकासनुत्
उष्णो लघुर्हरेछ्वासं गुल्मवातकफकृमीन् ९६
मुरा गन्धकुटी दैत्या सुरभिः शालपर्णिका ९७
मुरा तिक्ता हिमा स्वाद्वी लघ्वी पित्तानिलापहा
ज्वरासृग्भूतरक्षोघ्नी कुष्ठकासविनाशिनी ९८
शठी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका
गन्धारिका गन्धवधूर्वधूः पृथुपलाशिका ९९
भवेद्गन्धपलाशी तु कषाया ग्राहिणी लघुः
तिक्ता तीक्ष्णा च कटुकाऽनुष्णाऽस्यमलनाशिनी
शोथकासव्रणश्वासशूलसिध्मग्रहापहा १००
प्रियङ्गुः फलिनी कान्ता लता च महिलाऽह्वया १०१
गुन्द्रा गन्धफला श्यामा विष्वक्सेनाङ्गनाप्रिया
प्रियङ्गुः शीतला तिक्ता तुवराऽनिलपित्तहृत् १०२
रक्तातीसारदौर्गन्ध्यस्वेददाहज्वरापहा
विआ!न्तिभ्रान्त्यतिसारघ्नी वक्त्रजाड्यविनाशिनी
गुल्मतृड्विषमोहघ्नी तद्वद् गन्धप्रियङ्गुका १०३
तत्फलं मधुरं रूक्षं कषायं शीतलं गुरु
विबन्धाध्मानबलकृत्संग्राहि कफपित्तजित् १०४
रेणुकाराजपुत्री च नन्दिनी कपिला द्विजा
भस्मगन्धा पाण्डुपुत्री स्मृता कौन्ती हरेणुका १०५
रेणुका कटुका पाके तिक्ताऽनुष्णा कटुर्लघुः
पित्तला दीपनी मेध्या पाचनी गर्भपातिनी
बलासवातकृच्चैव तृट्कण्डूविषदाहनुत् १०६
ग्रन्थिपर्णं ग्रन्थिकञ्च काकपुच्छञ्च गुच्छकम्
नीलपुष्पं सुगन्धञ्च कथितं तैलपर्णकम् १०७
ग्रन्थिपर्णं तिक्ततीक्ष्णं कटूष्णं दीपनं लघु
कफवातविषश्वासकण्डूदौर्गन्ध्यनाशनम् १०८
स्थौणेयकं बर्हिबर्हं शुक्रबर्हञ्च कुक्कुरम्
शीर्णरोमशुकञ्चापि शुकपुष्पं शुकच्छदम् १०९
स्थौणेयकं कटु स्वादु तिक्तं स्निग्धं त्रिदोषनुत् ११०
मेधाशुक्रकरं रुच्यं रक्षोघ्नं ज्वरजन्तुजित्
हन्ति कुष्ठास्रतृड्दाहदौर्गन्ध्यतिलकालकान् १११
निशाचरो धनहरः कितवो गणहासकः
चोरकः शङ्कितश्चण्डो दुष्पत्रः क्षेमको रिपुः
चोरको मधुरस्तिक्तः कटुः पाके कटुर्लघुः ११२
तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफानिलान्
रक्षोऽश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान् ११३
तालीसमुक्तं पत्राढ्यं धात्रीपत्रञ्च तत्स्मृतम् ११४
तालीसं लघु तीक्ष्णोष्णं श्वासकासकफानिलान्
निहन्त्यरुचिगुल्मामवह्निमांद्यक्षयामयान् ११५
कङ्कोलं कोलकं प्रोक्तं तथा कोषफलं स्मृतम्
कङ्कोलं लघु तीक्ष्णोष्णं तिक्तं हृद्यं रुचिप्रदम्
आस्यदौर्गन्ध्यहृद्रो गकफवातामयान्ध्यहृत् ११६
स्निग्धोष्णा कफहृत्तिक्ता सुगन्धा गन्धकोकिला
गन्धकोकिलया तुल्या विज्ञेया गन्धमालती ११७
लामज्जकं सुनालं स्यादमृणालं लवं लघु
इष्टकापथकं सेव्यं नलदञ्चावदातकम् ११८
लामज्जकं हिमं तिक्तं लघु दोषत्रयास्रजित्
त्वगामयस्वेदकृच्छ्रदाहपित्तास्ररोगनुत् ११९
एलवालुकमैलेयं सुगन्धि हरिवालुकम्
एलवालुकमेलालु कपित्थत्वचमीरितम् १२०
एलालु कटुकं पाके कषायं शीतलं लघु
हन्तिकण्डूव्रणच्छर्दितृट्कासारुचिहृद्रुजः
बलासविषपित्तास्रकुष्ठमूत्रगदकृमीन् १२१
कुटन्नटं दासपुरं बालेयं परिपेलवम्
प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च १२२
मुस्तावत्पेलवपुरं शुकाभं स्याद्बितुन्नकं १२३
वितुन्नकं हिमं तिक्तं कषायं कटु कान्तिदम्
कफपितास्रवीसर्पकुष्ठकण्डूविषप्रणुत् १२४
स्पृक्काऽसृग् ब्राह्मणी देवी मरुन्माला लता लघुः
समुद्रा न्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि १२५
स्पृक्का स्वाद्वी हिमा वृष्या तिक्ता निखिलदोषनुत्
कुष्ठकण्डूविषस्वेददाहाश्री ज्वररक्तहृत् १२६
पर्पटी रञ्जना कृष्णा जतुका जननी जनी
जतुकृष्णाऽग्निसंस्पर्शा जतुकृच्चक्रवर्त्तिनी १२७
पर्पटी तुवरा तिक्ता शिशिरा वर्णकृल्लघुः
विषव्रणहरी कण्डूकफपित्तास्रकुष्ठनुत् १२८
नलिका विद्रुमलता कपोतचरणा नटी
धमन्यञ्जनकेशी च निर्मध्या सुषिरा नली १२९
नलिका शीतला लघ्वी चक्षुष्या कफपित्तहृत्
कृच्छ्राश्मवाततृष्णाऽस्रकुष्ठकण्डूज्वरापहा १३०
प्रपौण्डरीकं पौण्डर्यं चक्षुष्यं पौण्डरीयकम्
पौण्डर्यं मधुरं तिक्तं कषायं शुक्रलं हिमम्
चक्षुष्यं मधुरं पाके वर्ण्यं पित्तकफप्रणुत् १३१
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे वर्गप्रकरणे तृतीयः कर्पूरादिवर्गः समाप्तः ३

गुडूच्यादिवर्गः[सम्पाद्यताम्]

अथ गुडूच्यादिवर्गः
अथ लङ्केश्वरो मानी रावणो राक्षसाधिपः
रामपत्नीं बलात्सीतां जहार मदनातुरः १
ततस्तं वलवान् रामो रिपुं जायाऽपहारिणम्
वृतो बानरसैन्येन जघान रणमूर्धनि २
हते तस्मिन्सुरारातौ रावणे बलगर्विते
देवराजः सहस्राक्षः परितुष्टश्चराघवे ३
तत्र ये वानराः कैचिद्रा क्षसैर्निहता रणे
तानिन्द्रो जीवयामास संसिच्यामृतवृष्टिभिः ४
ततो येषु प्रदेशेषु कपिगात्रात्परिच्युताः
पीयूषबिन्दवः पेतुस्तेभ्यो जाता गुडूचिका ५
गुडूची मधुपर्णी स्यादमृताऽमृतवल्लरी
छिन्ना छिन्नरुहा छिन्नोद्भवा वत्सादनीति च ६
जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली
चक्रलक्षणिका धीरा विशल्या च रसायनी ७
चन्द्र हासा वयस्था च मण्डली देवनिर्मिता
गुडूची कटुका तिक्ता स्वादुपाका रसायनी ८
संग्राहिणी कषायोष्णा लघ्वी बल्याऽग्निदीपिनी
दोषत्रयामतृड्दाहमेहकासांश्च पाण्डुताम् ९
कामलाकुष्ठवातास्रज्वरकृमिवमीन्हरेत्
प्रिमेहश्वासकासार्शः कृच्छ्रहृद्रो गवातनुत् १०
ताम्बूलवल्ली ताम्बूली नागिनी नागवल्लरी
ताम्बूलं विशदं रुच्यं तीक्ष्णोष्णं तुवरं सरम् ११
वश्यं तिक्तं कटु क्षारं रक्तपित्तकरं लघु
बल्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम् १२
बिल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलावपि
श्रीफलस्तुवरस्तिक्तो ग्राही रूक्षोऽग्निपित्तकृत्
वातश्लेष्महरो बल्यो लघुरुष्णश्च पाचनः १३
गम्भारी भद्र पर्णी च श्रीपर्णी मधुपर्णिका
काश्मीरी काश्मरी हीरा काश्मर्यः पीतरोहिणी १४
कृष्णवृन्ता मधुरसा महाकुसुमिकाऽपि च
काश्मीरी तुवरा तिक्ता वीर्योष्णा मधुरा गुरुः १५
दीपनी पाचनी मेध्या भेदिनी भ्रमशोषजित्
दोषतृष्णाऽमशूलार्शोविषदाहज्वरापहा १६
तत्फलं बृंहणं वृष्यं गुरु केश्यं रसायनम्
वातपित्ततृषारक्तक्षयमूत्रविबन्धनुत् १७
स्वादु पाके हिमं स्निग्धं तुवराम्लं विशुद्धिकृत्
हन्याद्दाहतृषावातरक्तपित्तक्षतक्षयान् १८
पाटलि पाटलाऽमोघा मधुदूतो फलेरुहा
कृष्णवृन्ता कुबेराक्षी कालस्थाल्यलिवल्लभा १९
ताम्रपुष्पी च कथिताऽपरा स्यात्पाटला सिता
मुष्कको मोक्षको घण्टापाटलिकाष्टपाटला २०
पाटला तुवरा तिक्ताऽनुष्णा दोषत्रयापहा
अरुचिश्वासशोथास्रच्छर्दिहिक्कातृषाहरी २१
पुष्पं कषायं मधुरं हिमं हृद्यं कफास्रनुत्
पित्तातिसारहृत्कण्ठ्यं फलं हिक्काऽस्रपित्तहृत् २२
अग्निमन्थो जयः सस्याच्छ्रीपर्णी गणिकारिका
जया जयन्ती तर्कारी नादेयी वैजयन्तिका २३
अग्निमन्थः श्वयथुनुद्वीर्योष्णः कफवातहृत्
पाण्डुनुत्कटुकस्तिक्तस्तुवरो मधुरोऽग्निदः २४
श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्टुकाः
मण्डूकपर्णपत्रोर्णशुकनासकुटन्नटाः २५
दीर्घवृन्तोऽरलुश्चापि पृथुशिम्बः कटम्भरः
श्योनाको दीपनः पाके कटुकस्तुवरो हिमः
ग्राही तिक्तोऽनिलश्लेष्मपित्तकासप्रणाशनः २६
टुण्टुकस्य फलं बालं रूक्षं वातकफापहम् २७
हृद्यं कषायं मधुरं रोचनं लघु दीपनम्
गुल्मार्शःकृमिहृत् प्रौढं गुरु वातप्रकोपणम् २८
श्रीफलः सर्वतोभद्रा पाटला गणिकारिका
श्योनाकः पञ्चभिश्चैतैः पञ्चमूलं महन्मतम् २९
पञ्चमूलं महत् तिक्तं कषायँ कफवातनुत्
मधुरं श्वासकासघ्नमुष्णं लघ्वग्निदीपनम् ३०
शालपर्णी स्थिरा सौम्या त्रिपर्णी पीवरी गुहा
विदारिगन्धा दीर्घाङ्गी दीर्घपत्रांऽशुमत्यपि ३१
शालपर्णी गुरुश्छर्दिज्वरश्वासातिसारजित् ३२
शोषदोषत्रयहरी बृंहण्युक्ता रसायनी
तिक्ता विषहरी स्वादुः क्षतकासकृमिप्रणुत् ३३
पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यहिपर्ण्यपि
क्रोष्टुविन्ना सिंहपुच्छी कलशी धावनिर्गुहा ३४
पृश्निपर्णी त्रिदोषघ्नी वृष्योष्णा मधुराऽसरा
हन्ति दाहज्वरश्वासरक्तातीसारतृड्वमीः ३५
वार्त्ताकी क्षुद्र भण्टाकी महती बृहती कुली
हिङ्गुली राष्ट्रिका सिंही महोष्ट्री दुष्प्रधर्षिणी
बृहती ग्राहिणी हृद्या पाचनी कफवातहृत् ३६
कटुतिक्ताऽस्यवैरस्यमलारोचकनाशिनी
उष्णा कुष्ठज्वरश्वासशूलकासाग्निमान्द्यजित् ३७
कण्टकारी तु दुःस्पर्शा क्षुद्रा व्याघ्री निदिग्धिका
कण्टालिका कण्टकिनी धावनी बृहती तथा ३८
श्वेता क्षुद्रा चन्द्र हासा लक्ष्मणा क्षेत्रदूतिका
गर्भदा चन्द्र मा चन्द्री चन्द्र पुष्पा प्रियङ्करी ३९
कण्टकारी सरा तिक्ता कटुका दीपनी लघुः ४०
रूक्षोष्णा पाचनी कासश्वासज्वरकफानिलान्
निहन्ति पीनसं पार्श्वपीडाकृमिहृदामयान् ४१
तयोः फलं कटु रसे पाके च कटुकं भवेत्
शुक्रस्य रेचनं भेदि तिक्तं पित्ताग्निकृल्लघु
हन्यात्कफमरुत्कण्डूकासमेदः कृमिज्वरान् ४२
तद्वत्प्रोक्ता सिता क्षुद्रा विशेषाद् गर्भकारिणी ४३
गोक्षुरः क्षुरकोऽपि स्यात्त्रिकण्टः स्वादुकण्टकः
गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि ४४
पलङ्कषा श्वदंष्ट्रा च तथा स्यादिक्षुगन्धिका
गोक्षुरः शीतलःस्वादुर्बलकृद्बस्तिशोधनः ४५
मधुरो दीपनो वृष्यः पुष्टिदश्चाश्मरीहरः
प्रमेहश्वासकासार्शः कृच्छ्रहृद्रो गवातनुत् ४६
शालपर्णी पृश्निपर्णी वार्त्ताकी कण्टकारिका
गोक्षुरः पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकम् ४७
पञ्चमूलं लघु स्वादु बल्यं पित्तानिलापहम्
नात्युष्णं बृंहणं ग्राहि ज्वरश्वासाश्मरीप्रणुत् ४८
उभाभ्यां पञ्चमूलाभ्यां दशमूलमुदाहृतम्
दशमूलं त्रिदोषघ्नं श्वासकासशिरोरुजः
तन्द्रा शोथज्वरानाहपार्श्वपीडाऽरुचीर्हरेत् ४९
जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा
माङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी ५०
जीवन्ती शीतला स्वादुः स्निग्धा दोषत्रयापहा
रसायनी बलकरी चक्षुष्या ग्राहिणी लघुः ५१
मुद्गपर्णी काकपर्णी सूर्यपर्ण्यल्पिका सहा ५२
काकमुद्गा च सा प्रोक्ता तथा मार्जारगन्धिका
मुद्गपर्णी हिमा रूक्षा तिक्ता स्वादुश्च शुक्रला ५३
चक्षुष्या क्षतशोथघ्नी ग्राहिणी ज्वरदाहनुत्
दोषत्रयहरी लघ्वी ग्रहण्यर्शोऽतिसारजित् ५४
माषपर्णी सूर्यपर्णी काम्बोजी हयपुच्छिका
पाण्डुलोमशपर्णी च कृष्णवृन्ता महासहा ५५
माषपर्णी हिमा तिक्ता रूक्षा शुक्रबलासकृत्
मधुरा ग्राहिणी शोथवातपित्तज्वरास्रजित् ५६
अष्टवर्गः सयष्टीको जीवन्ती मुद्गपर्णिका
माषपर्णी गणोऽय तु जीवनीय इति स्मृतः ५७
जीवनो मधुरश्चापि नाम्ना स परिकीर्त्तितः
जीवनीयगणः प्रोक्तः शुक्रकृद् बृंहणो हिमः ५८
गुरुर्गर्भप्रदः स्तन्यकफकृत्पित्तरक्तहृत्
तृष्णां शोषं ज्वरं दाहं रक्तपित्तं व्यपोहति ५९
शुक्ल एरण्ड आमण्डश्चित्रो गन्धर्वहस्तकः
पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डो व्यडम्बकः ६०
वातारिस्तरुणश्चापि रुबूकश्च निगद्यते
रक्तोऽपरो रुबूकः स्यादुरुबूको रुबुस्तथा ६१
व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपत्रकः
एरण्डयुग्मं मधुरमुष्णं गुरु विनाशयेत् ६२
शूलशौथकटीबस्तिशिरःपीडोदरज्वरान्
व्रघ्नश्वासकफानाहकासकुष्ठाप्तमारुतान् ६३
एरण्डपत्रं वातघ्नं कफक्रिमिविनाशनम्
मूत्रकृच्छ्रहरं चापि पित्तरक्तप्रकोपणम्
वातार्यग्रदलं गुल्मबस्तिशूलहरं परम् ६४
कफवातकृमीन्हन्ति वृद्धिं सप्तविधामपि
एरण्डफलमत्युष्णं गुल्मशूलानिलापहम् ६५
यकृत्प्लीहोदरार्शोघ्नं कटुकं दीपनं परम्
तद्वन्मज्जा च विडभेदी वातश्लेष्मोदरापहः ६६
श्वेतार्को गणरूपः स्यान्मन्दारो वसुकोऽपि च
श्वेतपुष्पः सदापुष्पः स चालर्कः प्रतापसः ६७
रक्तोऽपरोऽकनामा स्यादर्कपर्णो विकीरणः
रक्तपुष्पः शुक्लफलस्तथाऽस्फोटः प्रकीर्त्तितः ६८
अर्कद्वयं सरं वातकुष्ठकण्डूविषव्रणान्
निहन्ति प्लीहगुल्मार्शःश्लेष्मोदरशकृत्कृमीन् ६९
अलर्ककुसुमं वृष्यं लघु दीपनपाचनम्
अरोचकप्रसेकार्शः कासश्वासनिवारणम् ७०
रक्तार्कपुष्पं मधुरं सतिक्तं कुष्ठकृमिघ्नं कफनाशनञ्च
अर्शो विषं हन्ति च रक्तपित्तं संग्राहि गुल्मे श्वयथौ हितं तत् ७१
क्षीरमर्कस्य तिक्तोष्णं स्निग्धं सलवणं लघु
कुष्ठगुल्मोदरहरं श्रेष्ठमेतद्विरेचनम् ७२
सेहुण्डः सिंहतुण्डः स्याद्वज्री वज्रद्रुमोऽपि च
सुधासमन्तदुग्धा च स्नुक्स्त्रियां स्यात्स्नुही गुडा ७३
सेहुण्डो रेचनस्तीक्ष्णो दीपनः कटुको गुरुः
शूलामाष्ठीलिकाऽध्मानकफगुल्मोदरानिलान् ७४
उन्मादमोहकुष्ठार्शः शोथमेदोऽश्मपाण्डुताः
व्रणशोथज्वरप्लीहविषदूषीविषं हरेत् ७५
उष्णवीर्यं स्नुहीक्षीरं स्निग्धञ्च कटुकं लघु
गुल्मिनां कुष्ठिनाञ्चापि तथैवोदररोगिणाम् ७६
हितमेतद्विरेकार्थं ये चान्ये दीर्घरोगिणः ७७
शातला सप्तला सारा विमला विदुला च सा
तथा निगदिता भूरिफेना चर्मकषेत्यपि ७८
शातला कटुका पाके वातला शीतला लघुः
तिक्ता शोथकफानाहपित्तोदावर्त्तरक्तजित् ७९
कलिहारी तु हलिनी लाङ्गली शक्रपुष्प्यपि
विशल्याऽग्निशिखाऽनन्तावह्निवक्त्रा च गर्भनुत्
कलिहारी सरा कुष्ठशोफार्शोव्रणशूलजित् ८०
सक्षारा श्लेष्मजित्तिक्ताकटुका तुवराऽपि च
तीक्ष्णोष्णा कृमिहृल्लघ्वी पित्तलागर्भपातिनी ८१
करवीरः श्वेतपुष्पः शतकुम्भोऽश्वमारकः
द्वितीयो रक्तपुष्पश्च चण्डातो लगुडस्तथा ८२
करवीरद्वयं तिक्तं कषायं कटुकञ्च तत्
व्रणलाघवकृन्नेत्रकोपकुष्ठव्रणापहम् ८३
वीर्योष्णं कृमिकण्डूघ्नं भक्षितं विषवन्मतम् ८४
धत्तूरधूर्त्तधुत्तूरा उन्मत्तः कनकाह्वयः
देवता कितवस्तूरी महामोही शिवप्रियः ८५
मातुलो मदनश्चास्य फले मातुलपुत्रकः
धत्तूरो मदवर्णाग्निवातकृज्ज्वरकुष्ठनुत् ८६
कषायो मधुरस्तिक्तो यूकालिक्षाविनाशकः
उष्णो गुरुर्व्रणश्लेष्मकण्डूकृमिविषापहः ८७
वासको वासिका वासा भिषङ्माता च सिंहिका
सिंहास्यो वाजिदन्ता स्यादाटरूषोऽटरूषकः ८८
अटरूषो वृषस्ताम्रः सिंहपर्णश्च स स्मृतः
वासको वातकृत्स्वर्यः कफपित्तास्रनाशनः ८९
तिक्तस्तुवरको हृद्यो लघुशीतस्तृडर्त्तिहृत्
श्वासकासज्वरच्छर्दिमेहकुष्ठक्षयापहः ९०
पर्पटो वरतिक्तश्च स्मृतः पर्पटकश्च सः
कथितः पांशुपर्यायस्तथा कवचनामकः ९१
पर्पटो हन्ति पित्तास्रभ्रमतृष्णाकफज्वरान्
संग्राही शीतलस्तिक्तो दाहनुद्वातलो लघुः ९२
निम्बः स्यात्पिचुमर्दश्च पिचुमन्दश्च तिक्तकः
अरिष्टः पारिभद्र श्च हिङ्गुनिर्यास इत्यपि ९३
निम्बः शीतो लघुर्ग्राही कटुपाकोऽग्निवातनुत्
अहृद्यः श्रमतृट्कासज्वरारुचिकृमिप्रणुत्
व्रणपित्तकफच्छर्दिकुष्ठहृल्लासमेहनुत् ९४
निम्बपत्रं स्मृतं नेत्र्! यं कृमिपित्तविषप्रणुत्
वातलं कटुपाकञ्च सर्वारोचककुष्ठनुत् ९५
निम्बफलं रसे तिक्तं पाके तु कटुभेदनम्
स्निग्धं लघूष्णं कुष्ठघ्नं गुल्मार्शःकृमिमेहनुत् ९६
महानिम्बः स्मृतो द्रे का रम्यको विषमुष्टिकः
केशमुष्टिर्निम्बकश्च कार्मुको जीव इत्यपि ९७
महानिम्बो हिमो रूक्षस्तिक्तो ग्राही कषायकः ९८
कफपित्तभ्रमच्छर्दिकुष्ठहृल्लासरक्तजित्
प्रमेहश्वासगुल्मार्शोमूषिकाविषनाशनः ९९
पारिभद्रो निम्बतरुर्मन्दारः पारिजातकः
पारिभद्रो ऽनिलश्लेष्मशोथमेदः कृमिप्रणुत्
तत्पत्रं पित्तरोगघ्नं कर्णव्याधिविनाशनम् १००
काञ्चनारः काञ्चनको गण्डारिः शोणपुष्पकः १०१
कोविदारश्च मरिकः कुद्दालो युगपत्रकः
कुण्डली ताम्रपुष्पश्चाश्मन्तकः स्वल्पकेशरी १०२
काञ्चनारो हिमो ग्राही तुवरः श्लेष्मपित्तनुत्
कृमिकुष्ठगुदभ्रंशगण्डमालाव्रणापहः १०३
कोविदारोऽपि तद्वत्स्यात्तयोः पुष्पं लघु स्मृतम्
रूक्षं संग्राहि पित्तास्रप्रदरक्षयकासनुत् १०४
शोभाञ्जनः शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः
तद्बीजं श्वेतमरिचंमधुशिग्रुः सलोहितः
शिग्रुः कटुः कटुः पाके तीक्ष्णोष्णो मधुरो लघुः १०५
दीपनो रोचनो रूक्षः क्षारस्तिक्तो विदाहकृत्
संग्राही शुक्रलो हृद्यः पित्तरक्तप्रकोपणः १०६
चक्षुष्यः कफवातघ्नो विद्र धिश्वयथुक्रिमीन्
मेदोऽपचीविषप्लीहगुल्मगण्डव्रणान्हरेत् १०७
श्वेतः प्रोक्तगुणो ज्ञेयो विशेषाद्दाहकृद्भवेत्
प्लीहानं विद्र धिं हन्ति व्रणघ्नः पित्तरक्तहृत्
मधुशिग्रुः प्रोक्तगुणो विशेषाद्दीपनः सरः १०८
शिग्रुवल्कलपत्राणां स्वरसः परमार्त्तिहृत् १०९
चक्षुष्यं शिग्रुजं बीजं तीक्ष्णोष्णं विषनाशनम्
अवृष्यं कफवातघ्नं तन्नस्येन शिरोऽत्तिनुत् ११०
आस्फोता गिरिकर्णीस्याद्विष्णुक्रान्ताऽपराजिता
अपराजिते कटू मेध्ये शीते कण्ठ्येसुदृष्टिदे १११
कुष्ठमूत्रत्रिदोषामशोथव्रणविषापहे
कषाये कटुके पाके तिक्ते च स्मृतिबुद्धिदे ११२
सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्दुवारकः
नीलपुष्पी तु निर्गुण्डी शेफाली सुवहा च सा ११३
सिन्दुकः स्मृतिदस्तिक्तः कषायः कटुको लघुः
केश्यो नेत्रहितो हन्ति शूलशोथाममारुतान्
कृमिकुष्ठारुचिश्लेष्मज्वरान्नीलापि तद्विधा ११४
सिन्दुवारदलं जन्तुवातश्लेष्महरं लघु ११५
कुटजः कूटजः कौटो वत्सको गिरिमल्लिका ११६
कालिङ्गः शक्रशाखी च मल्लिकापुष्प इत्यपि
इन्द्रो यवफलः प्रोक्तो वृक्षकः पाण्डुरद्रुमः ११७
कुटजः कटुको रूक्षो दीपनस्तुवरो हिमः
अर्शोऽतिसारपित्तास्नकफतृष्णाऽमकुष्ठनुत् ११८
करञ्जो नक्तमालश्च करजश्चिरबिल्वकः
घृतपूर्णकरञ्जोऽन्य प्रकीर्यः पूतिकोऽपि च ११९
स चोक्तः पूतिकरञ्जः सोमवल्कश्च स स्मृतः
करञ्जः कटुकस्तीक्ष्णो वीर्योष्णो योनिदोषहृत्
कुष्ठोदावर्त्तगुल्मार्शोव्रणक्रिमिकफापहः १२०
तत्पत्रं कफवातार्शः कृमिशोथहरं परम्
भेदनं कटुकं पाके वीर्योष्णं पित्तलं लघुः १२१
तत्फलं कफवातघ्नं मेहार्शःकृमिकुष्ठजित्
घृतपूर्णकरञ्जोऽपि करञ्जसदृशो गुणैः १२२
उदकीर्यस्तृतीयोऽन्य षड्ग्रन्था हस्तिवारुणी
मर्कटी वायसी चापि करञ्जी करभञ्जिका १२३
करञ्जी स्तम्भनी तिक्ता तुवरा कटुपाकिनी
वीर्योष्णा वमिपित्तार्शः कृमिकुष्ठप्रमेहजित् १२४
श्वेता गुञ्जोच्चटा प्रोक्ता कृष्णला चापि सा स्मृता
रक्ता सा काकचिञ्ची स्यात्काकणन्ती च रक्तिका १२५
काकादनी काकपीलुः सा स्मृता काकवल्लरी
गुञ्जाद्वयन्तु केश्यं स्याद्वातपित्तज्वरापहम् १२६
मुखशोषभ्रमश्वासतृष्णामदविनाशनम्
नेत्रामयहरं वृष्यं बल्यं कण्डूं व्रणं हरेत् १२७
कृमीन्द्र लुप्तकुष्ठानि रक्ता च धवलाऽपि च १२८
कपिच्छूरात्मगुप्ता वृष्या प्रोक्ता च मर्कटी
अजडा कण्डुरा व्यङ्गा दुःस्पर्शा प्रावृषायणी १२९
लाङ्गली शूकशिम्बी च सैव प्रोक्ता महर्षिभिः
कपिकच्छूर्भृशं वृष्या मधुरा बृंहणी गुरुः
तिक्ता वातहरी बल्या कफपित्तास्रनाशिनी १३०
तद्बीजं वातशमनं स्मृतं वाजीकरं परम् १३१
मांसरोहिण्यतिरुहा वृत्ता चर्मकषा वसा
प्रहारवल्ली विकशा वीरवत्यपि कथ्यते
स्यान्मांसरोहिणी वृष्या सरा दोषत्रयापहा १३२
चिह्लकोवातनिर्हारः श्लेष्मघ्नो धातुपुष्टिकृत्
आग्नेयो विषवद्यस्य फलं मत्स्यनिषूदनम् १३३
टङ्कारी वातजित्तिक्ता श्लेष्मघ्नी दीपनी लघुः
शोथोदरव्यथाहन्त्री हिता पीठविसर्पिणाम् १३४
वेतसो नम्रकः प्रोक्तो वानीरो वञ्जुलस्तथा
अभ्रपुष्पश्च विदुलो रथः शीतश्च कीर्त्तितः १३५
वेतसः शीतलो दाहशोथार्शोयोनिरुक्प्रणुत्
हन्ति वीसर्पकृच्छ्रास्रपित्ताश्मरिकफानिलान् १३६
निकुञ्जकः परिव्याधो नादेयो जलवेतसः
जलजो वेतसः शीतः कुष्ठहृद्वातकोपनः १३७
इज्जलो हिज्जलश्चापि निचुलश्चाम्बुजस्तथा
जलवेतसवद्वेद्यो हिज्जलोऽय विषापहः १३८
अङ्कोटो दीर्घकीलः स्यादङ्कोलश्च निकोचकः
अङ्कोटकः कटुस्तीक्ष्णः स्निग्धोष्णस्तुवरो लघुः १३९
रेचनः कृमिशूलामशोफग्रहविषापहः
विसर्पकफपित्तास्रमूषकाहिविषापहः १४०
तत्फलं शीतलं स्वादु श्लेष्मघ्नं बृंहणं गुरु
बल्यं विरेचनं वातपित्तदाहक्षयास्रजित् १४१
बलावाट्यालिका वाट्या सैव वाट्यालकाऽपि च
महाबला पीतपुष्पा सहदेवी च सा स्मृता १४२
ततोऽन्याऽतिबला ऋष्यप्रोक्ता कङ्कतिका च सा
गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका १४३
बलाचतुष्टयं शीतं मधुरं बलकान्तिकृत्
स्निग्धं ग्राहि समीरास्रपित्तास्रक्षतनाशनम् १४४
बलामूलत्वचश्चूर्णं पीतं सक्षीरशर्करम्
मूत्रातिसारं हरति दृष्टमेतन्न संशयः १४५
हरेन्महाबला कृच्छ्रम् भवेद्वातानुलोमिनी
हन्यादतिवला मेहं पयसा सितया समम् १४६
पुत्रकाकाररक्ताल्पबिन्दुभिर्लाञ्छितच्छदा १४७
लक्ष्मणा पुत्रजननी वस्तगन्धाकृतिर्भवेत्
कथिता पुत्रदाऽवश्या लक्ष्मणा मुनिपुङ्गवैः १४८
स्वर्णवल्लीरक्तफला काकायुः काकवल्लरी
स्वर्णवल्ली शिरः पीडां त्रिदोषान्हन्ति दुग्धदा १४९
कार्पासी तुण्डकेशी च समुद्रा न्ता चकथ्यते
कर्पासकी लघु कोष्णा मधुरा वातनाशिनी १५०
तत्पलाशं समीरघ्नं रक्तकृन्मूत्रवर्द्धनम्
तत्कर्णपिडकानादपूयास्रावविनाशनम् १५१
तद्बीजं स्तन्यदं वृष्यं स्निग्धं कफकरं गुरु १५२
वंशस्त्वक्सारकर्मारत्वचिसारतृणध्वजाः
शतपर्वा यवफलो वेणुमस्करतेजनाः १५३
वंशः सरो हिमः स्वादुः कषायो वस्तिशोधनः
छेदनः कफपित्तघ्नः कुष्ठास्रव्रणशोथजित् १५४
तत्करीरः कटुः पाके रसे रूक्षो गुरुः सरः
कषायः कफकृत्स्वादुर्विदाही वातपित्तलः १५५
तद्यवास्तु सरा रूक्षाः कषायाः कटुपाकिनः
वातपित्तकरा उष्णा बद्धमूत्राः कफापहाः १५६
नलः पोटगलः शून्यमध्यश्च धमनस्तथा
नलस्तुमधुरस्तिक्तः कषायः कफरक्तजित्
उष्णो हृद्वस्तियोन्यर्त्तिदाहपित्तविसर्पहृत् १५७
भद्र मुञ्जः शरो बाणस्तेजनश्चेक्षुवेष्टनः १५८
मुञ्जो मुञ्जातको बाणः स्थूलदर्भः सुमेखलः
मुञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा १५९
दाहतृष्णाविसर्पास्रमूत्रकृच्छ्राक्षिरोगजित्
दोषत्रयहरं वृष्यं मेखलासूपयुज्यते १६०
कासः कासेक्षुरुद्दिष्टः स स्यादिक्षुरसस्तथा
इक्ष्वालिकेक्षुगन्धा च तथा पोटगलः स्मृतः १६१
कासः स्यान्मधुरस्तिक्तः स्वादुपाको हिमः खरः
मूत्रकृच्छ्राश्मदाहास्रक्षयपित्तजरोगजित् १६२
गुन्द्र ः! पटेरको गुल्मः शृङ्गवेराभमूलकः
गुन्द्र ः! कषायो मधुरः शिशिरः पित्तरक्तजित्
स्तन्यशुक्ररजोमूत्रशोधनो मूत्रकृच्छ्रहृत् १६३
एरका गुन्द्र मूला च शिविर्गुन्द्रा शरीति च
एरका शिशिरा वृष्या चक्षुष्या वातकोपिनी
मूत्रकृच्छ्राश्मरीदाहपित्तशोणितनाशिनी १६४
कुशो दर्भस्तथा बर्हिः सूच्यग्रो यज्ञभूषणः
ततोऽन्यो दीर्घपत्रः स्यात्क्षुरपत्रस्तथैव च १६५
दर्भद्वयं त्रिदोषघ्नं मधुरं तुवरं हिमम्
मूत्रकृच्छ्राश्मरीतृष्णावस्तिरुक्प्रदरास्रजित् १६६
कत्तृणं रौहिषं देवजग्धं सौगन्धिकं तथा
भूतिकं ध्यामपौरञ्च श्यामकं धूपगन्धिकम् १६७
रौहिषं तुवरं तिक्तं कटुपाकं व्यपोहति
हृत्कण्ठव्याधिपित्तास्रशूलकासकफज्वरान् १६८
गुह्यबीजं तु भूतीकं सुगन्धं जम्बुकप्रियम्
भूतृणं तु भवेच्छत्रा मालातृणकमित्यपि १६९
भूतृणं कटुकं तिक्तं तीक्ष्णोष्णं रेचनं लघु
विदाहि दीपनं रूक्षमनेत्र्! यं मुखशोधनम् १७०
अवृष्यं बहुविट्कञ्च पित्तरक्तप्रदूषणम् १७१
नीलदूर्बा रुहाऽनन्ता भार्गवी शतपर्विका
शष्पं सहस्रवीर्या च शतवल्ली च कीर्त्तिता १७२
नीलदूर्वा हिमा तिक्ता मधुरा तुवरा हरेत्
कफपित्तास्रवीसर्पतृष्णादाहत्वगामयान् १७३
दूर्वा शुक्ला तु गोलोमी शतवीर्या च कथ्यते
श्वेता दूर्वा कषाया स्यात्स्वाद्वी व्रण्या च जीवनी
तिक्ता हिमा विसर्पास्रतृट्पित्तकफदाहहृत् १७४
गण्डदूर्वा तु गण्डाली मत्स्याक्षी शकुलादनी
गण्डदूर्वा हिमा लोहद्रा विणी ग्राहिणी लघुः १७५
तिक्ता कषाया मधुरा वातकृत्कटुपाकिनी
दाहतृष्णाबलासास्रकुष्ठपित्तज्वरापहा १७६
वाराहीकन्दसंज्ञस्तु पश्चिमे गृष्टिसंज्ञकः
वाराहीकन्द एवान्यैश्चर्मकारालुको मतः १७७
अनूपसम्भवे देशे वराह इव लोमवान्
वाराहवदना गृष्टिर्वरदेत्यपि कथ्यते १७८
वाराही तु रसे स्वाद्वी तिक्ता पाके पुनः कटुः
शुक्रायुःस्वरवर्णाग्निबलपित्तविवर्द्धिनी
कफकुष्ठमरुन्मेहकृमिहृच्च रसायनी १७९
विदारी स्वादुकन्दा च सा तु क्रोष्ट्रीसिता स्मृता
इक्षुगन्धा क्षीरवल्ली क्षीरशुक्ला पयस्विनी १८०
विदारी मधुरा स्निग्धा बृंहणी स्तन्यशुक्रदा १८१
शीता स्वर्या मूत्रला च जीवनी बलवर्णदा
गुरुः पित्तास्रपवनदाहान् हन्ति रसायनी १८२
तालमूली तु विद्वद्भिर्मुशली परिकीर्त्तिता
मुशली मधुरा वृष्या वीर्योष्णा बृंहणी गुरुः
तिक्ता रसायनी हन्ति गुदजान्यनिलं तथा १८३
शतावरी बुहसुता भीरुरिन्दीवरी वरी
नारायणी शतपदी शतवीर्या च पीवरी १८४
महाशतावरी चान्या शतमूल्यूर्ध्वकण्टिका
सहस्रवीर्या हेतुश्च ऋष्यप्रोक्ता महोदरी १८५
शतावरी गुरुः शीता तिक्ता स्वाद्वी रसायनी
मेधाऽग्निपुष्टिदा स्निग्धा नेत्र्! या गुल्मातिसारजित् १८६
शुक्रस्तन्यकरी बल्या वातपित्तास्रशोथजित्
महाशतावरी मेध्या हृद्या वृष्या रसायनी १८७
शीतवीर्या निहन्त्यर्शोग्रहणीनयनामयान्
तदङ्कुरस्रिदोषघ्नो लघुरर्शःक्षयापहा १८८
गन्धान्ता वाजिनामादिरश्वगन्धा हयाह्वया
वराहकर्णी वरदा बलदा कुष्ठगन्धिनी १८९
अश्वगन्धाऽनिलश्लेष्मश्वित्रशोथक्षयापहा
बल्या रसायनी तिक्ता कषायोष्णाऽतिशुक्रला १९०
पाठाऽम्बष्ठाऽम्बष्ठकी च प्राचीना पापचेलिका
एकाष्ठीला रसा प्रोक्ता पाठिका वरतिक्तिका १९१
पाठोष्णा कटुका तीक्ष्णा वातश्लेष्महरी लघुः
हन्ति शूलज्वरच्छर्दिकुष्ठातीसारहृद्रुजः
दाहकण्डूविषश्वासकृमिगुल्मगरव्रणान् १९३
श्वेता त्रिर्वृत् त्रिभण्डी स्यात् त्रिवृतात्रिपुटाऽपि च
सर्वानुभूतिः सरला निशोत्रा रेचनीति च १९३
श्वेता त्रिवृद्रे चनी स्यात्स्वादुरुष्णा समीरहृत्
रूक्षा पित्तज्वरश्लेष्मपित्तशोथोदरापहा १९४
त्रिवृच्छ्यामाऽद्धचन्द्रा च पालिन्दी च सुषेणिका
मसूरविदला काली कैषिका कालमेषिका १९५
श्यामा त्रिवृत्ततो हीनगुणा तीव्रविरेचिनी
मूर्च्छादाहमदभ्रान्तिकण्ठोत्कर्षणकारिणी १९६
लघुदन्ती विशल्या च स्यादुदुम्बरपर्ण्यपि
तथैरण्डफला शीघ्रा श्वेतघण्टा घुणप्रिया १९७
वाराहाङ्गी च कथिता निकुम्भश्च मकूलकः
द्र वन्ती शम्बरी चित्रा प्रत्यक्पर्ण्याखुपर्ण्यपि १९८
उपचित्रा श्रुतश्रोणी न्यग्रोधी च तथा वृषा
दन्तीद्वयं सरं पाकं रसे च कटु दीपनम् १९९
गुदाङ्कुराश्मशूलास्रकण्डूकुष्ठविदाहनुत्
तीक्ष्णोष्णं हन्ति पित्तास्रकफशोथोदरक्रिमीन् २००
क्षुद्र दन्तीफलं तु स्यान्मधुरं रसपाकयोः
शीतलं सृष्टविण्मूत्रं गरशोथकफापहम् २०१
जयपालो दन्तिबीजं विख्यातं तिन्तिडीफलम्
जयपालो गुरुः स्निग्धो रेची पित्तकफापहः २०२
अथेन्द्र वारुणी महेन्द्र वारुणी च
एन्द्री न्द्र वारुणी चित्रा गवाक्षी च गवादनी
वारुणी च पराऽप्युक्ता सा विशाला महाफला २०३
श्वेतपुष्पा मृगाक्षी च मृगैर्वारुर्मृगादनी
गवादनीद्वयं तिक्तं पाके कटु सरं लघु २०४
वीर्योष्णं कामलापित्तकफप्लीहोदरापहम् २०५
श्वासकासापहं कुष्ठगुल्मग्रन्थिव्रणप्रणुत्
प्रमेहमूढगर्भामगण्डामयविषापहम् २०६
नीली तु नीलिनी तूणी काला दोला च नीलिका
रञ्जनी श्रीफली तुच्छा ग्रामीणा मधुपर्णिका २०७
क्लीतका कालकेशी च नीलपुष्पा च सा स्मृता
नीलिनी रेचनी तिक्ता केश्या मोहभ्रमापहा २०८
उष्णा हन्त्युदरप्लीहवातरक्तकफानिलान्
आमवातमुदावर्त्तं मदं च विषमुद्धतम् २०९
शरपुङ्खः प्लीहशत्रुर्नीलीवृक्षाकृतिश्च सः
शरपुङ्खो यकृत्प्लीहगुल्मव्रणविषापहः
तिक्तः कषायः कासास्रश्वासज्वरहरो लघुः २१०
विऋ!द्धदारुक आवेगी छागान्त्री वृष्यगन्धिका
वृद्धद्वारुः कषायोष्णः कटुस्तिक्तो रसायनः १
वृष्यो वातामवातार्शः शोथमेहकफप्रणुत्
शुक्रायुर्बलमेधाऽग्निस्वरकान्तिकरःसरः २
थासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः
दुरालभा दुरालम्भा समुद्रा न्ता च रोदिनी २११
गान्धारी कच्छुराऽनन्ता काषाया हरिविग्रहा
यासः स्वादुः सरस्तिक्तस्तुवरः शीतलो लघुः २१२
कफमेदोमदभ्रान्तिपित्तासृक्कुष्ठकासजित्
तृष्णाविसर्पवातास्रवमिज्वरहरः स्मृतः २१३
यवासस्य गुर्णैस्तुल्या बुधैरुक्ता दुरालभा २१४
मुण्डी भिक्षुरपि प्रोक्ता श्रावणी च तपोधना
श्रवणाह्वा मुण्डतिका तथा श्रवणशीर्षका २१५
महाश्रावणिकाऽन्या तु सा स्मृता भूकदम्बिका
कदम्बपुष्पिका च स्यादव्यथाऽतितपस्विनी २१६
मुण्डतिका कटुः पाके वीर्योष्णा मधुरा लघुः
मेध्या गण्डापचीकृच्छ्रकृमियोन्यर्त्तिपाण्डुनुत् २१७
श्लीपदारुच्यपस्मारप्लीहमेदोगुदार्तिहृत्
महामुण्डी च तत्तुल्या गुणैरुक्ता महर्षिभिः २१८
अपामार्गस्तु शिखरी ह्यधः शल्यो मयूरकः
मर्कटी दुर्ग्रहा चापि किणिही खरमञ्जरी २१९
अपामार्गः सरस्तीक्ष्णो दीपनस्तिक्तकः कटुः
पाचनो रोचनश्छर्दिकफमेदोऽनिलापहः
निहन्ति हृद्रुजाध्मार्शः कण्डूशूलोदरापचीः २२०
रक्तोऽन्यो वशिरो वृत्तफलो धामार्गवोऽपि च
प्रत्यक्पर्णी केशपर्णी कथिता कपिपिप्पली २२१
अपामार्गोऽरुणो वातविष्टम्भी कफहृद्धिमः
रूक्षः पूर्वगुणैर्न्यूनः कथितो गुणवेदिभिः २२२
अपामार्गफलं स्वादु रसे पाके च दुर्जरम्
विष्टम्भि वातलं रूक्षं रक्तपित्तप्रसादनम् २२३
कोकिलाक्षस्तु काकेक्षुरिक्षुरः क्षुरकः क्षुरः
भिक्षुः काण्डेक्षुरप्युक्त इक्षुगन्धेक्षुबालिका २२४
क्षुरकः शीतलो वृप्यः स्वाद्वम्लः पिच्छिलस्तथा
तिक्तो वातामशोथाश्मतृष्णादृष्ट्यनिलास्रजित् २२५
ग्रन्थिमानस्थिसंहारीवज्राङ्गीवाऽस्थिशृङ्खला
अस्थिसंहारकः प्रोक्तो वातश्लेष्महरोऽस्थियुक् २२६
उष्णः सरः कृमिघ्नश्चदुर्नामघ्नोऽक्षिरोगजित्
रूक्षः स्वादुर्लघुर्वृष्यः पाचनः पित्तलः स्मृतः २२७
काण्डं त्वग्विरहितमस्थिशृङ्खलायामाषार्द्र द्विदलमकञ्चुकं तदर्द्धम्
संपिष्टं सुतनु ततस्तिलस्य तैलेसंपक्वं वटकमतीव वातहारि २२८
कुमारी गृहकन्या च कन्या घृतकुमारिका
कुमारी भेदनी शीता तिक्ता नेत्र्! या रसायनी २२९
मधुरा बृंहणी बल्या वृष्या वातविषप्रणुत्
गुल्मप्लीहयकृद्वृद्धिकफज्वरहरी हरेत्
ग्रन्थ्यग्निदग्धविस्फोटपित्तरक्तत्वगामयान् २३०
पुनर्नवा श्वेतमूला शोथघ्नी दीर्घपत्रिका
कटु कषायानुरसा पाण्डुघ्नी दीपनी परा
शोफानिलगरश्लेष्महरी ब्रघ्नोदरप्रणुत् २३१
पुनर्नवाऽपरा रक्ता रक्तपुष्पा शिलाटिका
शोथघ्नी क्षुद्र वर्षाभूर्वर्षकेतुः कठिल्लकः २३२
पुनर्नवाऽरुणा तिक्ता कटुपाका हिमा लघुः
वातला ग्राहिणी श्लेष्मपित्तरक्तविनाशिनी २३३
प्रसारणी राजबला भद्र पर्णी प्रतानिनी
सरणी सारणी भद्रा बला चापि कटम्भरा २३४
प्रसारणी गुरुर्वृष्या वलसन्धानकृत्सरा
वीर्योष्णा वातहृत्तिक्ता वातरक्तकफापहा २३५
कृष्णा तु शारिवा श्यामा गोपी गोपवधूश्च सा २३६
धवला शारिवा गोपा गोपकन्या कृशोदरी
स्फोटा श्यामा गोपवल्ली लताऽस्फोता च चन्दना २३७
सारिवायुगलं स्वादु स्निग्धं शुक्रकरं गुरु
अग्निमान्द्यारुचिश्वासकासामविषनाशनम्
दोषत्रयास्रप्रदरज्वरातीसारनाशनम् २३८
भृङ्गराजो भृङ्गरजो मार्कवो भृङ्ग एव च
अङ्गारकः केशराजो भृङ्गारः केशरञ्जनः २३९
भृङ्गारः कटुकस्तीक्ष्णो रूक्षोष्णः कफवातनुत् २४०
केश्यस्त्वच्यः कृमिश्वासकासशोथामपाण्डुनुत्
दन्त्यो रसायनो बल्यः कुष्ठनेत्रशिरोऽत्तिनुत् २४१
शणपुष्पी स्मृता घण्टा शणपुष्पसमाकृतिः
शणपुष्पी कटुस्तिक्ता वामिनी कफपित्तजित् २४२
बलभद्रा त्रायमाणा त्रायन्ती गिरिजाऽनुजा
त्रायन्ती तुवरा तिक्ता सरा पित्तकफापहा
ज्वरहृद्रो गगुल्मार्शोभ्रमशूलविषप्रणुत् २४३
मूर्वा मधुरसा देवी मोरटा तेजनी स्रुवा
मधुलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि २४४
मूर्वा सरा गुरुः स्वादुस्तिक्ता पित्तास्रमेहनुत्
त्रिदोषतृष्णाहृद्रो गकण्डूकुष्ठज्वरापहाः २४५
काकमाची ध्वाङ्क्षमाची काकाह्वा चैव वायसी
काकमाची त्रिदोषघ्नी स्निग्धोष्णा स्वरशुक्रदा २४६
तिक्ता रसायनी शोथकुष्टार्शोज्वरमेहजित्
कटुर्नेत्रहिता हिक्काच्छर्दिहृद्रो गनाशिनी २४७
काकनासा तु काकाङ्गी काकतुण्डफला च सा २४८
काकनासा कषायोष्णा कटुका रसपाकयोः
कफघ्नी वामनी तिक्ता शोथार्शश्वित्रकुष्ठहृत् २४९
काकजङ्घा नदीकान्ता काकतिक्ता सुलोमशा
पारावतपदी दासी काका चापि प्रकीर्त्तिता २५०
काकजंघा हिमा तिक्ता कषाया कफपित्तजित्
निहन्ति ज्वरपित्तास्रव्रणकण्डूविषक्रिमीन् २५१
नागपुष्पी श्वेत पुष्पा नागिनी रामदूतिका
नागिनी रोचनी तिक्ता तीक्ष्णोष्णा कफपित्तनुत्
विनिहन्ति विषं शूलं योनिदोषवमिक्रिमीन् २५२
मेषशृङ्गी विषाणी स्यान्मेषवल्ल्यजशृङ्गिका
मेषशृङ्गी रसे तिक्ता वातला श्वासकासहृत् २५३
रूक्षा पाके कटुः पित्तव्रणश्लेष्माक्षिशूलनुत् २५४
मेषशृङ्गीफलं तिक्तं कुष्ठमेहकफप्रणुत्
दीपनं स्रंसनं कासक्रिमिव्रणविषापहम् २५५
हंसपादी हंसपदी कीटमाता त्रिपादिका
हंसपादी गुरुः शीता हन्ति रक्तविषव्रणान्
विसर्पदाहातीसारलूताभूताग्निरोहिणीः २५६
सोमवल्ली सोमलता सोमक्षीरी द्विजप्रिया
सोमवल्ली त्रिदोषघ्नी कटुस्तिक्ता रसायनी २५७
आकाशवल्ली तु बुधैः कथिताऽमरवल्लरी २५८
खवल्ली ग्राहिणी तिक्ता पिच्छिलाऽक्ष्यामयापहा
तुवराऽग्निकरी हृद्या पित्तश्लेष्मामनाशिनी २५९
छिलिहिण्टो महामूलःपातालगरुडाह्वयः
छिलिहिण्टः परं वृष्यः कफघ्नः पवनापहः २६०
वन्दा वृक्षादनी वृक्षभक्ष्या वृक्षरुहाऽपि च
वन्दाकः स्याद्धिमस्तिक्तः कषायो मधुरो रसे
मङ्गल्यः कफवातास्ररक्षोव्रणविषापहः २६१
वटपत्री तु कथिता मोहिन्यैरावती बुधैः
वटपत्री कषायोष्णा योनिमूत्रगदापहा २६२
हिङ्गुपत्री तु कवरी पृथ्वीका पृथुका पृथुः २६३
हिङ्गुपत्री भवेद्रुच्या तीक्ष्णोष्णा पाचनी कटुः
हृद्बस्तिरुग्विबन्धार्शःश्लेष्मगुल्मानिलापहा २६४
वंशपत्री वेणुपत्री पिण्डा हिङ्गुशिवाटिका
हिङ्गुपत्रीगुणा विज्ञैर्वंशपत्री च कीर्त्तिता २६५
मत्स्याक्षी बाह्लिका मत्स्यगन्धा मत्स्यादनीति च
मत्स्याक्षी ग्राहिणी शीतकुष्ठपित्तकफास्रजित्
लघुस्तिक्ता कषाया च स्वाद्वी कटुविपाकिनी २६६
सर्पाक्षी स्यात्तु गण्डाली तथा नाडीकलापकः २६७
सर्पाक्षी कटुका तिक्ता सोष्णा कृमिनिकृन्तनी
वृश्चिकोन्दुरुसर्पाणां विषघ्नी व्रणरोपिणी २६८
शङ्ख्नपुष्पी तु शङ्खाह्वा मङ्गल्यकुसुमाऽपि च
शङ्खपुष्पी सरा मेध्या वृष्या मानसरोगहृत् २६९
रसायनी कषायोष्णा स्मृतिकान्तिबलाग्निदा
दोषापस्मारभूताश्रीकुष्ठक्रिमिविषप्रणुत् २७०
अर्कपुष्पी क्रूरकर्मा पयस्या जलकामुका
अर्कपुष्पी कृमिश्लेष्ममेहपित्तविकारजित् २७१
लज्जालुः स्वाच्छमीपत्रा समङ्गा जलकारिका
रक्तपादी नमस्कारी नाम्ना खदिरकेत्यपि २७२
लज्जालुः शीतला तिक्ता कषाया कफपित्तजित्
रक्तपित्तमतीसारं योनिरोगान् विनाशयेत् २७३
अलम्बुषा खरत्वक् च तथा मेदोगला स्मृता
अलम्बुषा लघुः स्वादुः क्रिमिपित्तकफापहा २७४
दुग्धिका स्वादुपर्णी स्यात्क्षीरा विक्षीरिणी तथा
दुग्धिकोष्णा गुरू रूक्षा वातलागर्भकारिणी २७५
स्वादुक्षीरा कटुस्तिक्ता सृष्टमूत्रा मलापहा
स्वादुविष्टम्भिनी वृष्या कफकुष्ठक्रिमिप्रणुत् २७६
भूम्यामलकिका प्रोक्ता शिवा तामलकीति च
बहुपत्रा बहुफला बहुवीर्याऽजटाऽपि च २७७
भूधात्री वातकृत्तिक्ता कषाया मधुरा हिमा
पिपासाकासपितास्रकफकण्डूक्षतापहा २७८
ब्राह्मी कपोतवङ्का च सोमवल्ली सरस्वती
मण्डूकपर्णी माण्डूकी त्वाष्ट्री दिव्या महौषधी २७९
ब्राह्मी हिमा सरा तिक्ता लघुर्मध्या च शीतला
कषाया मधुरा स्वादुपाकाऽयुष्या रसायनी २८०
स्वर्या स्मृतिप्रद्रा कुष्ठपाण्डुमेहास्रकासजित्
विषशोथज्वरहरी तद्वन्मण्डूकपर्णिनी २८१
द्रो णा च द्रो णपुष्पी च फलेपुष्पा च कीर्त्तिता
द्रो णपुष्पी गुरुः स्वादू रूक्षोष्णा वातपित्तकृत् २८२
सतीक्ष्णलवणा स्वादुपाका कट्वी च भेदिनी
कफामकामलाशोथतमकश्वासजन्तुजित् २८३
सुवर्चला सूर्यभक्ता वरदा बदराऽपि च
सूर्यावर्त्ता रविप्रीताऽपरा ब्रह्मसुदुर्लभा २८४
सुवर्चला हिमा रूक्षा स्वादुपाका सरा गुरुः
अपित्तला कटुः क्षारा विष्टम्भकफवातजित् २८५
अन्या तिक्ता कषायोष्णा सरा रुक्षा लघुः कटुः
निहन्ति कफपित्तास्रश्वासकासारुचिज्वरान्
विस्फोटकुष्ठमेहास्रयोनिरुक्कृमिपाण्डुताः २८६
वन्ध्याकर्कोटकी देवी कन्या योगीश्वरीति च
नागरिर्नक्रदमनी विषकण्टकिनी तथा २८७
बन्ध्याकर्कोटकी लघ्वी कफनुद् व्रणशोधिनी
सर्पदर्पहरी तीक्ष्णा विसर्पविषहारिणी २८८
मार्कण्डिका भूमिवल्ली मार्कण्डी मृदुरेचनी २८९
मार्कण्डिका कुष्ठहरी ऊर्ध्वाधःकायशोधिनी
विषदुर्गंन्धकासघ्नी गुल्मोदरविनाशिनी २९०
देवदाली यु वेणी स्यात्कर्कटी च गरागरी
देवताडो वृत्तकोशस्तथा जीमूत इत्यपि २९१
पीता परा खरस्पर्श विषघ्नी गरनाशिनी
देवदाली रसे तिक्ता कफार्शःशोफपाण्डुताः
नाशयेद्वामनी तीक्ष्णा क्षयहिक्काकृमिज्वरान् २९२
देवदालीफलं तिक्तं कृमिश्लेष्मविनाशनम्
स्रंसनं गुल्मशूलघ्नमर्शोघ्नं वातजित्परम् २९३
जलपिप्पल्यभिहिता शारदी शकुलादनी
मत्स्यादनी मत्स्यगन्धा लाङ्गलीत्यपि कीर्त्तिता २९४
जलपिप्पलिका हृद्या चक्षुष्या शुक्रला लघुः २९५
संग्राहिणी हिमा रूक्षा रक्तदाहव्रणापहा
कटुपाकरसा रुच्या कषाया वह्निवर्द्धिनी २९६
गोजिह्वा गोजिका गोभी दार्विका खरपर्णिनी
गोजिह्वा वातला शीता ग्राहिणी कफपित्तनुत् २९७
हृद्या प्रमेहकासास्रव्रणज्वरहरी लघुः
कोमला तुवरा तिक्ता स्वादुपाकरसा स्मृता २९८
विज्ञेया नागदमनी बलमोदा विषापहा
नागपुष्पी नागपत्रा महायोगेश्वरीति च २९९
बलामोटा कटुस्तिक्ता लघुः पित्तकफापहा
मूत्रकृच्छ्रव्रणान् रक्षो नाशयेज्जालगर्दभम् ३००
सर्वग्रहप्रशमनी निःशेषविषनाशिनी
जयं सर्वत्र कुरुते धनदासुमतिप्रदा ३०१
वेल्लन्तरो जगति वीरतरुः प्रसिद्धः श्वेतासितारुणविलोहितनीलपुष्पः
स्याज्जातितुल्यकुसुमः शमिसूक्ष्मपत्रः स्यात्कण्टकी विजलदेशज एव वृक्षः ३०२
वेल्लन्तरो रसे पाके तिक्तस्तृष्णाकफापहः
मूत्राघाताश्मजिद्ग्राही योनिमूत्रानिलार्त्तिजित् ३०३
छिक्क्नी क्षवकृत्तीक्ष्णा छिक्किका घ्राणदुःखदा
छिक्कनी कटुका रुक्ष्या तीक्ष्णोष्णावह्निपित्तकृत्
वातरक्तहरी कुष्ठक्रिमिवातकफापहा ३०४
कुकुन्दर स्ताम्रचूडः सूक्ष्मपत्रो मृदुच्छदः ३०५
कुकुन्दरः कटुस्तिक्तो ज्वररक्तकफापहः
तन्मूलमाद्र रं! निक्षिप्तं वदने मुखशोषहृत् ३०६
सुदर्शना सोमवल्ली चक्राह्वा मधुपर्णिका
सुदर्शना स्वादुरुष्णा कफशोथास्रवातजित् ३०७
आखुकर्णी त्वाखुपर्णी पर्णिका भूदरीभवा
आखुकर्णी कटुस्तिक्ता कषाया शीतला लघुः
विपाके कटुका मूत्रकफामयकृमिप्रणुत् ३०८
मयूराह्वशिखा प्रोक्ता सहस्राहिर्मधुच्छदा
नीलकण्ठशिखा लघ्वी पित्तश्लेष्मातिसारजित् ३०९
इति श्रीमिश्रलटकनतनयश्रीमिश्रभावविरचिते भावप्रकाशे पूर्वखण्डे मिश्रप्रकरणे चतुर्थो गुडूच्यादिवर्गः समाप्तः ४

पुष्पवर्गः[सम्पाद्यताम्]

अथ पुष्पवर्गः
वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्
सहस्रपत्रं कमलं शतपत्रं कुशेशयम् १
पङ्केरुहं तामरसं सारसं सरसीरुहम्
बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च २
कमलं शीतलं वर्ण्यं मधुरं कफपित्तजित्
तृष्णादाहास्रविस्फोटविषवीसर्पनाशनम् ३
विशेषतः सितं पद्मं पुण्डरीकमिति स्मृतम्
रक्तं कोकनदं ज्ञेयं नीलमिन्दीवरं स्मृतम् ४
धवलं कमलं शीतं मधुरं कफपित्तजित्
तस्मादल्पगुणं किञ्चिदन्यद्र क्तोत्पलादिकम् ५
मूलनालदलोत्फुल्लफलैः समुदिता पुनः
पद्मिनी प्रोच्यते प्राज्ञैर्बिसिन्यादि च सा स्मृता ६
पद्मिनी शीतला गुर्वी मधुरा लवणा च सा
पित्तासृक्कफनुद्रू क्षा वातविष्टम्भकारिणी ७
संवर्त्तिका नवदलं बीजकोशस्तु कर्णिका
किञ्जल्कः केशरः प्रोक्तो मकरन्दो रसः स्मृतः
पद्मनालं मृणालं स्यात्तथा बिसमिति स्मृतम् ८
संवर्त्तिका हिमा तिक्ता कषाया दाहतृट्प्रणुत्
मूत्रकृच्छ्रगुदव्याधिरक्तपित्तविनाशिनी ९
पद्मस्य कर्णिका तिक्ता कषाया मधुरा हिमा
मुखवैशद्यकृल्लघ्वी तृष्णाऽस्रकफपित्तनुत् १०
किञ्जल्कः शीतलो वृष्यः कषायो ग्राहकोऽपिसः
कफपित्ततृषादाहरक्तार्शोविषशोथजित् ११
मृणालं शीतलं वृष्यं पित्तदाहास्रजिद् गुरु १२
दुर्जरं स्वादुपाकञ्च स्तन्यानिलकफप्रदम्
संग्राहि मधुरं रूक्षं शालूकमपि तद्गुणम् १३
पद्मचारिण्यतिचराऽव्यथा पद्मा च शारदा
पद्माऽनुष्णा कटुस्तिक्ता कषाया कफवातजित्
मूत्रकृच्छ्श्मशूलघ्नो श्वासकासविषापहा १४
श्वेतं कुवलयं प्रोक्तं कुमुदं कैरवं तथा
कुमुदं पिच्छिलं स्निग्धं मधुरं ह्लादि शीतलम् १५
कुमुद्वती कैरविका तथा कुमुदिनीति च १६
सा तु मूलादिसर्वाङ्गैरुक्ता समुदिता बुधैः
पद्मिन्या ये गुणाः प्रोक्ताः कुमुदिन्याश्च ते स्मृताः १७
सौगन्धिकं तु कल्हारं हल्लकं रक्तसन्ध्यकम्
कल्हारं शीतलं ग्राहि विष्टम्भि गुरु रूक्षणम् १८
वारिपर्णी कुम्भिका स्याद्वारिमूली खमूलिका
शैवालं जलनीली स्याच्छैवलं जलजञ्च तत् १९
वारिपर्णी हिमा तिक्ता लघ्वी स्वाद्वी सरा कटुः
दोषत्रयहरी रूक्षा शोणितज्वरशोषकृत् २०
शैवालं तुवरं तिक्तं मधुरं शीतलं लघु
स्निग्धं दाहतृषापित्तरक्तज्वरहरं परम् २१
शतपत्री तरुण्युक्ता कर्णिका चारुकेशरा
महाकुमारी गन्धाढ्या लाक्षापुष्पा ऽतिमञ्जुला २२
शतपत्री हिमा हृद्या ग्राहिणी शुक्रला लघुः
दोषत्रयास्रजिद्वर्ण्या कट्वी तिक्ता च पाचनी २३
नेपाली कथिता तज्ज्ञैः सप्तला नवमालिका
वासन्ती शीतला लघ्वी तिक्ता दोषत्रयास्रजित् २४
श्रीपदी षट्पदानन्दा वार्षिकी मुक्तबन्धना २५
वार्षिकी शीतला लघ्वी तिक्ता दोषत्रयापहा
कर्णाक्षिमुखरोगघ्नी तत्तैलं तद्गुणं स्मृतम् २६
जातिर्जाती च सुमना मालती राजपुत्रिका
चेतिका हृद्यगन्धा च सा पीता स्वर्णजातिका २७
जातीयुगं तिक्तमुष्णं तुवरं लघु दोषजित्
शिरोऽक्षिमुखदन्तार्त्तिविषकुष्ठानिलास्रजित् २८
यूथिका गणिकाऽम्बष्ठा सा पीता हेमपुष्पिका
यूथीयुगं हिमं तिक्तं कटुपाकरसं लघु २९
मधुरं तुवरं हृद्यं पित्तघ्नं कफवातलम्
व्रणास्रमुखदन्ताक्षिशिरोरोगविषापहम् ३०
चाम्पेयश्चम्पकः प्रोक्तोहेमपुष्पश्च स स्मृतः
एतस्य कलिका गन्धफलेति कथिता बुधैः ३१
चम्पकः कटुकस्तिक्तः कषायो मधुरो हिमः
विषक्रिमिहरः कृच्छ्रकफवातास्नपित्तजित् ३२
बकुलो मधुगन्धश्च सिंहकेसरकस्तथा
बकुलस्तुवरोऽनुष्णः कटुपाकरसो गुरुः
कफपित्तविषश्वित्रकृमिदन्तगदापहः ३३
शिवमल्ली पाशुपत एकाष्ठीलो वको वसुः ३४
वकोऽनुष्णः कटुस्तिक्तः कफपित्तविषापहः
योनिशूलतृषादाहकुष्ठशोथास्रनाशनः ३५
कदम्बः प्रियको नीपो वृत्तपुष्पो हलिप्रियः
कदम्बो मधुरः शीतः कषायो लवणो गुरुः
सरो विष्टम्भकृद्रू क्षः कफस्तन्यानिलप्रदः ३६
कुब्जको भद्र तरुणी वृत्तपुष्पोऽतिकेसरः
महासहा कण्टकाढ्या नीलालिकुलसंकुला ३७
कुब्जकः सुरभिः स्वादुः कषायानुरसः सरः
त्रिदोषशमनो वृष्यः शीतहर्त्ता च स स्मृतः ३८
मल्लिका मदयन्ती च शीतभीरुश्च भूपदी ३९
मल्लिकोष्णा लघुर्वृष्या तिक्ता च कटुका हरेत्
वातपित्तास्यदृग्व्याधिकुष्ठारुचिविषव्रणान् ४०
माधवी स्यात्तु वासन्ती पुण्ड्रको मण्डकोऽपि च
अतिमुक्तो विमुक्तश्च कामुको भ्रमरोत्सवः
माधवी मधुरा शीता लघ्वी दोषत्रयापहा ४१
केतकः सूचिकापुष्पो जम्बुकः क्रकचच्छदः
सुवर्णकेतकी त्वन्या लघुपुष्पा सुगन्धिनी ४२
केतकः कटुकः स्वादुर्लघुस्तिक्तः कफापहः
उष्णा तिक्तरसा ज्ञेया चक्षुष्या हेमकेतकी ४३
किङ्किरातो हेमगौरः पीतकः पीतभद्र कः ४४
किङ्किरातो हिमस्तिक्तः कषायश्च हरेदसौ
कफपित्तपिपासाऽस्रदाहशोषवमिक्रिमीन् ४५
कर्णिकारः परिव्याधः पादपोत्पल इत्यपि
कर्णिकारः कटुस्तिक्तस्तुवरो शोधनो लघुः
रञ्जनः सुखदः शोथश्लेष्मास्रव्रणकुष्ठजित् ४६
अशोको हेमपुष्पश्च वञ्जुलस्ताम्रपल्लवः
कङ्केलि पिण्डपुष्पश्च गन्धपुष्पो नटस्तथा ४७
अशोकः शीतलस्तिक्तो ग्राही वर्ण्यः कषायकः
दोषापचीतृषादाहकृमिशोषविषास्रजित् ४८
अम्लातोऽम्लाटनः प्रोक्तस्तथाऽम्लातक इत्यपि ४९
कुरण्टको वर्णपुष्पः स एवोक्तो महासहः
अम्लाटनः कषायोष्णः स्निग्धः स्वादुश्च तिक्तकः ५०
सैरेयकः श्वेतपुष्पः सैरेयः कटसारिका
सहाचरः सहचरः स च भिन्द्यपि कथ्यते ५१
कुरण्टकोऽत्रपीते स्याद्र क्त कुरबकः स्मृतः
नीले बाणा द्वयोरुक्तो दासी चार्त्तगलश्च सः ५२
र्स्यैः! कुष्ठवातास्रकफकण्डूविषापहः
तिक्तोष्णो मधुरोऽनम्लः सुस्निग्धः केशरञ्जनः ५३
कुन्दं तु कथितं माध्यं सदापुष्पञ्च तत्स्मृतम्
कुन्दं शीतं लघु श्लेष्मशिरोरुग्विषपित्तहृत् ५४
मुचुकुन्दः क्षत्रवृक्षश्चित्रकः प्रतिविष्णुकः
मुचुकुन्दः शिरःपीडापित्तास्रविषनाशनः ५५
तिलकः क्षुरकः श्रीमान्पुरुषश्छिन्नपुष्पकः
तिलकः कटुकः पाके रसे चोष्णो रसायनः
कफकुष्ठक्रिमीन्वस्तिमुखदन्तगदान्हरेत् ५६
बन्धूको बन्धुजीवश्च रक्तो माध्याह्निकोऽपि च
बन्धूकः कफकृद् ग्राही वातपित्तहरो लघुः ५७
ओड्रपुष्पं जपा चाथ त्रिसन्ध्या साऽरुणा सिता
जपा संग्राहिणी केश्या त्रिसन्ध्या कफवातजित् ५८
सिन्दूरी रक्तबीजा च रक्तपुष्पा सुकोमला
सिन्दूरी विषपित्तास्रतृष्णावान्तिहरी हिमा ५९
अथागस्त्यो वङ्गसेनो मुनिपुष्पो मुनिद्रुमः ६०
अगस्तिः पित्तकफजिच्चातुर्थिकहरो हिमः
रूक्षो वातकरस्तिक्तः प्रतिश्यायनिवारणः ६१
तुलसी सुरसा ग्राम्या सुलभा बहुमञ्जरी
अपेतराक्षसी गौरी भूतघ्नी देवदुन्दभिः ६२
तुलसी कटुका तिक्ता हृद्योष्णा दाहपित्तकृत्
दीपनी कुष्ठकृच्छ्रास्रपार्श्वरुक्कफवातजित्
शुक्ला कृष्णा च तुलसी गुणैस्तुल्या प्रकीर्त्तिता ६३
मारुतोऽसौ मरुबको मरुन्मरुरपि स्मृतः
फणी फणिज्जकश्चापि प्रस्थपुष्पः समीरणः ६४
मरुदग्निप्रदो हृद्यस्तीक्ष्णोष्णः पित्तलो लघुः६५
वृश्चिकादिविषश्लेष्मवातकुष्ठक्रिमिप्रणुत्
कटुपाकरसो रुच्यस्तिक्तो रूक्षः सुगन्धिकः ६६
उक्तो दमनको दान्तो मुनिपुत्रस्तपोधनः
गन्धोत्कटो ब्रह्मजटो विनीतः कलपत्रकः ६७
दमनस्तुवरस्तिक्तो हृद्यो वृष्यः सुगन्धिकः
ग्रहणाद् विषकुष्ठास्रक्लेदकण्डूत्रिदोषजित् ६८
बर्बरी तुवरी तुङ्गी खरपुष्पाऽजगन्धिका
पर्णाशस्तत्र कृष्णे तु कठिल्लककुठेरकौ ६९
तत्र शुक्लेऽजकः प्रोक्तो वटपत्रस्ततोऽपरः
बर्बरीत्रितयं रूक्षं शीतं कटु विदाहि च ७०
तीक्ष्णं रुचिकरं हृद्यं दीपनं लघुपाकि च
पित्तलं कफवातास्रकण्डूकृमिविषापहम् ७१
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे पञ्चमः पुष्पवर्गः समाप्तः५

वटादिवर्गः[सम्पाद्यताम्]

अथ वटादिवर्गः
वटो रक्तफलः शृङ्गीन्यग्रोधः स्कन्धजो ध्रुवः
क्षीरी वैश्रवणो वासो बहुपादो वनस्पतिः १
वटः शीतो गुरुर्ग्राही कफपित्तव्रणापहः
वर्ण्यो विसर्पदाहघ्नः कषायो योनिदोषहृत् २
बोधिद्रुः पिप्पलोऽश्वत्थश्चलपत्रो गजाशनः
पिप्पलो दुर्जरः शीतःपित्तश्लेष्मव्रणास्रजित्
गुरुस्तुवरको रूक्षो वर्ण्यो योनिविशोधनः ३
पारीषोऽन्य पलाशश्च कपिचूतः कमण्डलुः
गर्दभाण्डः कन्दरालः कपीतनसुपार्श्वकौ ४
पारीषो दुर्जरः स्निग्धः कृमिशुक्रकफप्रदः
फलेऽम्लो मधुरो मूले कषायस्वादुमज्जकः ५
नन्दीवृक्षोऽश्वत्थभेदः प्ररोही गजपादपः
स्थालीवृक्षः क्षयतरुः क्षीरी च स्याद्वनस्पतिः ६
नन्दीवृक्षो लघुः स्वादुस्तिक्तस्तुवर उष्णकः
कटुपाकरसो ग्राही विषपित्तकफास्रजित् ७
उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ८
उदुम्बरो हिमो रूक्षो गुरुः पित्तकफास्रजित्
मधुरस्तुवरो वर्ण्यो व्रणशोधनरोपणः ९
काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला
मलयुः स्तम्भकृत्तिक्ता शीतला तुवरा जयेत्
कफपित्तव्रणश्वित्रकुष्ठपाण्ड्वर्शकामलाः १०
प्लक्षो जटी पर्करी च पर्कटी च स्त्रियामपि ११
प्लक्षः कषायः शिशिरो व्रणयोनिगदापहः
दाहपित्तकफास्रघ्नः शोथहा रक्तपित्तहृत् १२
शिरीषो भण्डिलो भण्डी भण्डीरश्च कपीतनः
शुकपुष्पः शुकतरुर्मृदुपुष्पः शुकप्रियः १३
शिरीषो मधुरोऽनुष्णस्तिक्तश्च तुवरो लघुः
दोषशोथविसर्पघ्नः कासव्रणविषापहः १४
अथ क्षीरिवृक्षपञ्चकं त्वक्पञ्चकञ्च
न्यग्रोधोदुम्बराश्वत्थपारीषप्लक्षपादपाः
पञ्चैते क्षीरिणो वृक्षास्तेषां त्वक्पञ्चवल्कलम् १५
क्षीरिवृक्षा हिमा वर्ण्या योनिरोगव्रणापहाः
रूक्षाः कषाया मेदोघ्ना विसर्पामथनाशनाः १६
शोथपित्तकफास्रघ्नाः स्तन्या भग्नास्थियोजकः
त्वक्पञ्चकं हिमं ग्राहि व्रणशोथविसर्पजित् १७
तेषां पत्रं हिमं ग्राहि कफवातास्रनुल्लघु
विष्टम्भाघ्मानजित्तिक्तं कषायं लघु लेखनम् १८
शालस्तु सर्जकार्श्याश्वकर्णकाः शस्यशम्बरः
अश्वकर्णः कषायः स्याद् व्रणस्वेदकफक्रिमीन्
ब्रध्नविद्र धिबाधिर्ययोनिकर्णगदान् हरेत् १९
सर्जकोऽन्योऽजकर्णः स्याच्छालो मरिचपत्रकः २०
अजकर्णः कटुस्तिक्तः कषायोष्णो व्यपोहति
कफपाण्डुश्रुतिगदान् मेहकुष्ठविषव्रणान् २१
शल्लकी गजभक्ष्या च सुवहा सुरभी रसा
महेरुणा कुन्दुरुकी वल्लकी च बहुस्रवा २२
शल्लकी तुवरा शीता पित्तश्लेष्मातिसारजित्
रक्तपित्तव्रणहरी पुष्टिकृत्समुदीरिता २३
शिंशपा पिच्छिला श्यामा कृष्णसारा च सा गुरु
कपिला सैव मुनिभिर्भस्मगर्भेतिकीर्त्तिता २४
शिंशपा कटुका तिक्ता कषाया शोषहारिणी
उष्णवीर्या हरेन्मेदः कुष्ठश्वित्रवमिक्रिमीन्
बस्तिरुग्व्रणदाहास्रबलासान् गर्भपातिनी २५
ककुभोऽजुननामाख्यो नदीसर्जश्च कीर्त्तितः
इन्द्र द्रुर्वीरवृक्षश्च वीरश्च धवलः स्मृतः २६
कुकुभः शीतलो हृद्यः क्षतक्षयविषास्रजित्
मेदोमेहव्रणान् हन्ति तुवरः कफपित्तहृत् २७
बीजकः पीतसारश्च पीतशालक इत्यपि
बन्धूकपुष्पः प्रियकः सर्जकश्चासनः स्मृतः २८
बीजकः कुष्ठवीसर्पश्वित्रमेहगुद क्रिमीन्
हन्ति श्लेष्मास्रपित्तञ्च त्वच्यः केश्यो रसायनः २९
खदिरो रक्तसारश्च गायत्री दन्तधावनः
कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः ३०
खदिरः शीतलो दन्त्यः कण्डूकासारुचिप्रणुत् ३१
तिक्तः कषायो मेदोघ्नः कृमिमेहज्वरव्रणान्
श्वित्रशोथामपित्तास्रपाण्डुकुष्ठकफान् हरेत् ३२
खदिरः श्वेतसारोऽन्य कदरः सोमवल्कलः
कदरो विशदो वर्ण्यो मुखरोगकफास्रजित् ३३
इरिमेदो विट्खदिरः कालस्कन्धोऽरिमेदकः
इरिमेदः कषायोष्णो मुखदन्तगदास्रजित्
हन्ति कण्डूविषश्लेष्मकृमिकुष्ठविषव्रणान् ३४
रोहीतको रोहितको रोही दाडिमपुष्पकः
रोहीतकः प्लीहघाती रुच्यो रक्तप्रसादनः ३५
बब्बूलः किङ्किरातः स्यात्किङ्किराटः सपीतकः ३६
स एव कथितस्तज्ज्ञैराभाषट्पदमोदिनी
बब्बूलः कफनुद् ग्राही कुष्ठक्रिमिविषापहः ३७
अरिष्टकस्तु मङ्गल्यः कृष्णवर्णोऽथसाधनः
रक्तबीजः पीतफेनः फेनिलो गर्भपातनः
अरिष्टकस्त्रिदोषघ्नो ग्रहजिद् गर्भपातनः ३८
पुत्रजीवो गर्भकरो यष्टीपुष्पोऽथसाधकः ३९
पुत्रजीवी गुरुर्वृष्यो गर्भदः श्लेष्मवातहृत्
सृष्टमूत्रमलो रूक्षो हिमः स्वादुः पटुः कटुः ४०
इङ्गुदोऽङ्गारवृक्षश्च तिक्तकस्तापसद्रुमः
इङ्गुदः कुष्ठभूतादिग्रहव्रणविषक्रिमीन्
हन्त्युष्णः श्वित्रशूलघ्नस्तिक्तकः कटुपाकवान् ४१
जिङ्गिनी झिङ्गिनी झिङ्गी सुनिर्यासा प्रमोदिनी ४२
जिङ्गिनी मधुरा सोष्णा कषाया योनिशोधिनी
कटुका व्रणहृद्रो गवातातीसारहृत् पटुः ४३
तमाल उक्तस्तापिच्छः कालस्कन्धोऽमितद्रुमः
लोकस्कन्धो नीलध्वजो नीलतालश्च स स्मृतः
तमालः शालवद्वेद्यो दाहविस्फोटहृत् पुनः ४४
तूणी तुन्नक आपीनस्तुणिकः कच्छकस्तथा
कुठेरकः कान्तलको नन्दीवृक्षश्च नन्दकः ४५
तूणी रक्तः कटुः पाके कषायो मधुरो लघुः
तिक्तो ग्राही हिमो वृष्यो व्रणकुष्ठास्रपित्तजित् ४६
भूर्जपत्रः स्मृतो भूर्जश्चर्मी बहुलवल्कलः
भूर्जो भूतग्रहश्लेष्मकर्णरुक्पित्तरक्तजित् ४७
कषायो राक्षसघ्नश्च मेदोविषहरः परः ४८
पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः
क्षारश्रेष्ठो वातपोथो ब्रह्मवृक्षः समिद्वरः ४९
पलाशो दीपनो वृष्यः सरोष्णो व्रणगुल्मजित्
भग्नसंधानकृद् दोषग्रहण्यर्शः क्रिमीन् हरेत् ५०
तत्पुष्पं स्वादु पाके तु कटु तिक्तं कषायकम् ५१
वातलं कफपित्तास्रकृच्छ्रजिद् ग्राहि शीतलम्
तृड्दाहशमकं वातरक्तकुष्ठहरं परम् ५२
फलं लघूष्णं मेहार्शःकृमिवातकफापहम्
विपाके कटुकं रूक्षं कुष्ठं गुल्मोदरप्रणुत् ५३
शाल्मलिस्तु भवेन्मोचा पिच्छिला पूरणीति च
रक्तपुष्पा स्थिरायुश्च कण्टकाढ्या च तूलिनी ५४
शाल्मली शीतला स्वाद्वी रसे पाके रसायनी
श्लेष्मला पित्तवातास्रहारिणी रक्तपित्तजित् ५५
निर्यासः शाल्मलेः पिच्छा शाल्मलीवेष्टकोऽपि च
मोचास्रावोमोचरसो मोचनिर्यास इत्यपि ५६
मोचास्रावो हिमो ग्राही स्निग्धो वृष्यः कषायकः
प्रवाहिकाऽतिसारामकफपित्तास्रदाहनुत् ५७
कुत्सितः शाल्मलि प्रोक्तो रोचनः कूटशाल्मलि
कूटशाल्मलिकस्तिक्तः कटुकः कफवातनुत् ५८
भेद्युष्णः प्लीहजठरयकृद्गुल्मविषापहः
भूतानाहविबन्धास्रमेदः शूलकफापहः ५९
धवो धटो नन्दितरुः स्थिरो गौरो धुरन्धरः
धवः शीतः प्रमेहार्शः पाण्डुपित्तकफापहः
मधुरस्तुवरस्तस्य फलञ्च मधुरं मनाक् ६०
धन्वङ्गस्तु धनुर्वृक्षो गोत्रवृक्षः सुतेजनः ६१
धन्वङ्गः कफपित्तास्रकासहृत्तुवरो लघुः
बृंहणो बलकृद्रू क्षः सन्धिकृद् व्रणरोपणः ६२
करीरः क्रकरीपत्रो ग्रन्थिलो मरुभूरुहः
करीरः कटुकस्तिक्त स्वेद्युष्णो भेदनः स्मृतः
दुर्नामकफवातामगरशोथव्रणप्रणुत् ६३
शाखोटः पीतफलको भूतावासः खरच्छदः
शाखोटो रक्तपित्तार्शोवातश्लेष्मातिसारजित् ६४
वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः
वरुणः पित्तलो भेदीश्लेष्मकृच्छ्राश्ममारुतान् ६५
निहन्ति गुल्मवातास्रकृमींश्चोष्णोऽग्निदीपनः
कषायो मधुरस्तिक्तः कटुकोरूक्षको लघुः ६६
कटभी स्वादुपुष्पश्च मधुरेणुः कटम्भरः
कटभी तु प्रमेहार्शोनाडीव्रणविषक्रिमीन् ६७
हन्त्युष्णा कफकुष्ठघ्नी कटू रूक्षा च कीर्तिता
तत्फलं तुवरं ज्ञेयं विशेषात्कफशुक्रहृत् ६८
मोक्षस्तु मोक्षकोऽपि स्याद् गोलीढोगोलिहस्तथा
क्षारश्रेष्ठः क्षारवृक्षो द्विविधः श्वेतकृष्णकः ६९
मोक्षकः कटुकस्तिक्तो ग्राह्युष्णः कफवातहृत्
विषमेदोगुल्मकण्डूबस्तिरुक्कृमिशुक्रनुत् ७०
शिरीषिका टिण्टिनिका दुर्बलाऽम्बुशिरीषिका
त्रिदोषविषकुष्ठार्शोहरी वारिशिरीषिका ७१
शमी शक्तुफला तुङ्गा केशहन्त्री शिवाफला
मंगल्या च तथा लक्ष्मीः शमीरः साऽल्पिका स्मृता ७२
शमी तिक्ता कटुः शीता कषाया रेचनी लघुः
कफकासभ्रमश्वासकुष्ठार्शः कृमिजित् स्मृता ७३
सप्तपर्णो विशालत्वक् शारदो विषमच्छदः ७४
सप्तपर्णो व्रणश्लेष्मवातकुष्ठास्रजन्तुजित्
दीपनः श्वासगुल्मघ्नः स्निग्धोष्णस्तुवरः सरः ७५
तिनिशः स्यन्दनो नेमी रथद्रुर्वञ्जुलस्तथा
तिनिशः श्लेष्मपित्तास्रमेदःकुष्ठप्रमेहजित्
तुवरः श्वित्रदाहघ्नो व्रणपाण्डुकृमिप्रणुत् ७६
भूमीसहो द्वारदारुर्वरदारुः खरच्छदः
भूमीसहस्तु शिशिरो रक्तपित्तप्रसादनः ७७
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे षष्ठो वटादिवर्गः समाप्तः ६

आम्रादिफलवर्गः[सम्पाद्यताम्]

अथ आम्रादिफलवर्गः
आम्रश्चूतो रसालश्च सहकारोऽतिसौरभः
कामाङ्गो मधुदूतश्च माकन्दः पिकवल्लभः १
आम्रपुष्पमतीसारककफपित्तप्रमेहनुत्
असृग्दुष्टिहरं शीतं रुचिकृद् ग्राहि वातलम् २
आमं बालं कषायाम्लं रुच्यं मारुतपित्तकृत्
तरुणं तु तदत्यम्लं रूक्षं दोषत्रयास्रकृत् ३
आम्रमामं त्वचाहीनमातपेऽतिविशोषितम्
अम्लं स्वादु कषायं स्याद्भेदनं कफवातजित् ४
पक्वं तु मधुरं वृष्यं स्निग्धं बलसुखप्रदम्
गुरु वातहरं हृद्यं वर्ण्यं शीतमपित्तलम्
कषायानुरसं वह्निश्लेश्मशुक्रविवर्द्धनम् ५
तदेव वृक्षसम्पक्वं गुरु वातहरं परम्
मधुराम्लरसं किञ्चिद्भवेत्पित्तप्रकोपणम् ६
आम्रं कृत्रिमपक्वञ्च तद्भवेत्पित्तनाशनम्
रसस्याम्लस्य हीनस्तु माधुर्याच्च विशेषतः ७
चूषितं तत्परं रुच्यं बलवीर्यकरं लघु
शीतलं शीघ्रपाकि स्याद्वातपित्तहरं सरम् ८
तद्र सो गालितो बल्यो गुरुर्वातहरः सरः
अहृद्यस्तर्पणोऽतीव बृंहणः कफवर्द्धनः ९
तस्य खण्डं गुरु परं रोचनं चिरपाकि च
मधुरं बृंहणं बल्यं शीतलं वातनाशनम् १०
वातपित्तहरं रुच्यं बृंहणं बलवर्द्धनम्
वृष्यं वर्णकरं स्वादु दुग्धाम्र गुरु शीतलम् ११
मन्दानलत्वं विषमज्वरं च रक्तामयं बद्धगुदोदरं च
आम्रातियोगो नयनामयं वा करोति तस्मादति तानि नाद्यात् १२
एतदम्लाम्रविषयं मधुराम्लपरं न तु
मधुरस्य परं नेत्रहितत्वाद्या गुणा यतः १३
शुण्ठ्यम्भसोऽनुपानं स्यादाम्राणामतिभक्षणे
जीरकं वा प्रयोक्तव्यं सह सौवर्चलेन च १४
पक्वस्य सहकारस्य पटे विस्तारितो रसः
घर्मशुष्को मुहुर्दत्त आम्रावर्त्त इति स्मृतः १५
आम्रावर्त्तस्तृषाच्छर्दि वातपित्तहरः सरः
रुच्यः सूर्यांशुभिः पाकाल्लघुश्च स हि कीर्त्तितः १६
आम्रबीजं कषायं स्याच्छर्द्यतीसारनाशनम्
ईषदम्लञ्च मधुरं तथा हृदयदाहनुत् १७
आम्रस्य पल्लवो रुच्यः कफपित्तविनाशनः १८
आम्रातकः पीतनश्च मर्कटाम्रः कपीतनः
आम्रातमम्लं वातघ्नं गुरूष्णं रुचिकृत्सरम् १९
पक्वन्तु तुवरं स्वादु रसे पाके हिमं स्मृतम्
तर्पणं श्लेष्मलं स्निग्धं वृष्यं विष्टम्भि बृंहणम्
गुरु बल्यं मरुत्पित्तक्षतदाहक्षयास्रजित् २०
राजाम्रष्टङ्क आम्रातः कामाह्वो राजपुत्रकः २१
राजाम्रं तुवरं स्वादु विशदं शीतलं गुरु
ग्राहि रूक्षं विबन्धाध्मवातकृत्कफपित्तनुत् २२
कोशाम्र उक्तः क्षुद्रा म्रः कृमिवृक्षः सुकोशकः
कोशाम्रः कुष्ठशोथास्रपित्तव्रणकफापहः २३
तत्फलं ग्राहि वातघ्नमम्लोष्णं गुरु पित्तलम्
पक्वन्तु दीपनं रुच्यं लघूष्णं कफवातनुत् २४
पनशः कण्टकिफलः पलसोऽतिबृहत्फलः
पनसं शीतलं पक्वं स्निग्धं पित्तानिलापहम् २५
तर्पणं बृंहणं स्वादु मांसलं श्लेष्मलंभृशम्
बल्यं शुक्रपदं हन्ति रक्तपित्तक्षतव्रणान् २६
आमं तदेव विष्टम्भि वातलं तुवरं गुरु
दाहकृन्मधुरं बल्यं कफमेदोविवर्द्धनम् २७
पनसोद्भूतबीजानि वृष्याणि मधुराणि च
गुरूणि बद्धविट्कानि सृष्टमूत्राणि संवदेत् २८
मज्जा पनसजो वृष्यो वातपित्तकफापहः
विशेषात्पनसो वर्ज्यो गुल्मिभिर्मन्दवह्निभिः २९
लकुचः छुद्र पनसो लिकुचो डहुर्रित्यपि
आमं लकुचमुष्णञ्च गुरु विष्टम्भकृत्तथा ३०
मधुरश्च तथाऽम्लञ्च दोषत्रितयरक्तकृत्
शुक्राग्निनाशनं वाऽपि नेत्रयोरहितं स्मृतम् ३१
सुपक्वं तत्तु मधुरमम्लं चानिलपित्तहृत्
कफवह्निकरं रुच्यं वृष्यं विष्टम्भकञ्च तत् ३२
कदली वारणा मोचाऽम्बुसारांऽशुमतीफला
मोचाफलं स्वादु शीतं विष्टम्भि कफकृद् गुरु ३३
स्निग्धं पित्तास्रतृड्दाहक्षतक्षयसमीरजित्
पक्वं स्वादु हिमं पाके स्वादु वृष्यञ्च बृंहणम्
क्षुत्तृष्णानेत्रगदहृन्मेहघ्नं रुचिमांसकृत् ३४
माणिक्यमर्त्यामृतचम्पकाद्या भेदाः कदल्या बहवोऽपि सन्ति
उक्ता गुणास्तेष्वधिका भवन्ति निर्दोषता स्याल्लघुता च तेषाम् ३५
चिर्भिटं धेनुदुग्धं च तथा गोरक्षकर्कटी ३६
चिर्भिटं मधुरं रूक्षं गुरु पित्तकफापहम्
अनुष्णं ग्राहि विष्टम्भि पक्वं तूष्णञ्च पित्तलम् ३७
नारिकेलो दृढफलो लाङ्गली कूर्चर्श्षकः
तुङ्गः स्कन्धफलश्चैव तृणराजः सदाफलः ३८
नारिकेलफलं शीतं दुर्जरं बस्तिशोधनम्
विष्टम्भि बृंहणं बल्यं वातपित्तास्रदाहनुत् ३९
विशेषतः कोमलनारिकेलं निहन्ति पित्तज्वरपित्तदोषान्
तदेव जीर्णं गुरु पित्तकारि विदाहि विष्टम्भि मतं भिषग्भिः ४०
तस्याम्भः शीतलं हृद्यं दीपनं शुक्रलं लघु
पिपासापित्तजित्स्वादु बस्तिशुद्धिकरं परम् ४१
नारिकेलस्य तालस्य खर्जूरस्य शिरांसि तु
कषायस्निग्धमधुरबृंहणानि गुरूणि च ४२
कालिन्दं कृष्णबीजं स्यात्कालिङ्गञ्च सुवर्त्तुलम्
कालिन्दं ग्राहि दृक्पित्त शुक्र हृच्छीतलं गुरु
पक्वन्तु सोष्णं सक्षारं पित्तलं कफवातजित् ४३
दशाङ्गुलं तु खर्बूजं कथ्यन्ते तद्गुणा अथ ४४
खर्बूजं मूत्रलं बल्यं कोष्ठशुद्धिकरं गुरु
स्निग्धं स्वादुतरं शीतं वृष्यं पित्तानिलापहम् ४५
तेषु यच्चाम्लमधुरं सक्षारञ्च रसाद्भवेत्
रक्तपित्तकरं तत्तु मूत्रकृच्छ्रकरं परम् ४६
त्रपुसं कण्टकिफलं सुधावासः सुशीतलम्
त्रपुसं लघु नीलञ्च नवं तृट्क्लमदाहजित् ४७
स्वादु पित्तापहं शीतं रक्तपित्तहरं परम्
तत्पक्वमम्लमुष्णं स्यात्पित्तलं कफवातनुत्
तद्बीजं मूत्रलं शीतं रूक्षं पित्तास्रकृच्छ्रजित् ४८
घोरण्टः पूगी पूगश्च गुवाकः क्रमुकोऽस्य तु
फलं पूगीफलं प्रोक्तमुद्वेगं च तदीरितम् ४९
पूगं गुरु हिमं रूक्षं कषायं कफपित्तजित्
मोहनं दीपनं रुच्यमास्यवैरस्यनाशनम् ५०
आद्र रं! तद् गुर्वभिष्यन्दि वह्निदृष्टिहरं स्मृतम्
स्विन्नं दोषत्रयच्छेदि दृढमध्यं तदुत्तमम् ५१
तालस्तु लेख्यपत्रः स्यात्तृणराजो महोन्नतः ५२
पक्वं तालफलं पित्तरक्तश्लेष्मविवर्द्धनम्
दुर्जरं बहुमूत्रञ्च तन्द्रा ऽभिष्यन्दशुक्रदम् ५३
तालमज्जा तु तरुणः किञ्चिन्मदकरो लघुः
श्लेष्मलो वातपित्तघ्नः सस्नेहो मधुरः सरः ५४
तालजं तरुणं तोयमतीव मदकृन्मतम्
अम्लीभूतं तदा तु स्यात्पित्तकृद्वातदोषहृत् ५५
बिल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलावपि
बालं बिल्बफलं बिल्वकर्कटी बिल्वपेशिका
ग्राहिणी कफवातामशूलघ्नी बिल्वपेषिका ५६
बालं बिल्वफलं ग्राहि दीपनं पाचनं कटु
कषायोष्णं लघु स्निग्धं तिक्तं वातकफापहम् ५७
पक्वं गुरु त्रिदोषं स्याद् दुर्जरं पूतिमारुतम्
विदाहि विष्टम्भकरं मधुरं वह्निमान्द्यकृत् ५८
फलेषु परिपक्वं यद् गुणवत्तदुदाहृतम् ५९
बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणाधिकम्
द्रा क्षाबिल्वशिवाऽदीनां फलं शुष्कं गुणाधिकम् ६०
कपित्थस्तु दधित्थः स्यात्तथा पुष्पफलः स्मृतः
कपिप्रियो दधिफलस्तथा दन्तशठोऽपि च ६१
कपित्थमामं संग्राहि कषायं लघु लेखनम्
पक्वं गुरु तृषाहिक्काशमनं वातपित्तजित्
स्यादम्लं तुवरं कण्ठशोधनं ग्राहि दुर्जरम् ६२
नारङ्गो नागरङ्गः स्यात्त्वक्सुगन्धो मुखप्रियः ६३
नारङ्गो मधुराम्लः स्याद्रो चनो वातनाशनः
अपरं त्वम्लमत्युष्णं दुर्जरं वातहृत् सरम् ६४
तिन्दुकः स्फूर्जकः कालस्कन्धश्चासितकारकः
स्यादामं तिन्दुकं ग्राहि वातलं शीतलं लघु
पक्वं पित्तप्रमेहास्रश्लेष्मघ्नं मधुरं गुरु ६५
तिन्दुको यस्तु कथितो जलदो दीर्घपत्रकः ६६
कुपीलुः कुलकः काकतिन्दुकः काकपीलुकः
काकेन्दुर्विषतिन्दुश्च तथा मर्कटतिन्दुकः ६७
कुपीलुः शीतलं तिक्तं वातलं मदकृल्लघु
परं व्यथाहरं ग्राहि कफपित्तास्रनाशनम् ६८
फलेन्द्रा कथिता नन्दी राजजम्बूर्महाफला
तथा सुरभिपत्रा च महाजम्बूरपि स्मृता
राजजम्बूफलं स्वादु विष्टम्भि गुरु रोचनम् ६९
क्षुद्र जम्बुः सूक्ष्मपत्रा नादेयी जलजम्बुका
जम्बूः संग्राहिणी रूक्षा कफपित्तास्रदाहजित् ७०
पुंसि स्त्रियाञ्च कर्कन्धूर्बदरी कोलमित्यपि ७१
फेनिलं कुवलं घोण्टा सौवीरं बदरं महत्
अजप्रिया कुहा कोली विषमोभयकण्टका ७२
पच्यमानं सुमधुरं सौवीरं बदरं महत्
सौवीरं बदरं शीतं भेदनं गुरु शुक्रलम् ७३
बृंहणं पित्तदाहास्रक्षयतृष्णानिवारणम्
सौवीरं लघु सम्पक्वं मधुरं कोलमुच्यते ७४
कोलन्तु बदरं ग्राहि रुच्यमुष्णञ्च वातहृत्
कफपित्तकरं चापि गुरु सारकमीरितम् ७५
कर्कन्धूः क्षुद्र वदरं कथितं पूर्वसूरिभिः
अम्लं स्यात्क्षुद्र वदरं कषायं मधुरं मनाक् ७६
स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम्
शुष्कं भेद्यग्निकृत्सर्वं लघु तृष्णाक्लमास्रजित् ७७
प्राचीनामलकं लोके पानीयामलकं स्मृतम्
प्राचीनामलकं दोषत्रयजिज्ज्वरघाति च ७८
सुगन्धमूला लवली पाण्डुः कोमलवल्कला ७९
लवलीफलमश्मार्शःकफपित्तहरं गुरु
विशदं रोचनं रूक्षं स्वाद्वम्लं तुवरं रसे ८०
करमर्दः सुषेणः स्यात्कृष्णपाकफलस्तथा
तस्माल्लघुफला या तु सा ज्ञेया करमर्दिका ८१
करमर्दद्वयं त्वाममम्लं गुरु तृषाहरम्
उष्णं रुचिकरं प्रोक्तं रक्तपित्तकफप्रदम्
तत्पक्वं मधुरं रुच्यं लघु पित्तसमीरजित् ८२
प्रियालस्तु खरस्कन्धश्चारो बहुलवल्कलः
राजादनस्तापसेष्टः सन्नकद्रुर्धनुष्पटः ८३
चारः पित्तकफास्रघ्नस्तत्फलं मधुरं गुरु
स्निग्धं सरं मरुत्पित्तदाहज्वरतृषाऽपहम् ८४
प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः
हृद्योऽतिदुर्जरः स्निग्धो विष्टम्भी चामवर्द्धनः ८५
राजादनः फलाध्यक्षो राजन्या क्षीरिकाऽपि च ८६
क्षीरिकायाः फलं वृष्यं बल्यं स्निग्धं हिमं गुरु
तृष्णामूर्च्छामदभ्रान्तिक्षयदोषत्रयास्रजित् ८७
विकङ्कतः स्रुवावृक्षो ग्रन्थिलः स्वादुकण्टकः
स एव यक्षवृक्षश्च कण्टकी व्याघ्रपादपि
विकङ्कतफलं पक्वं मधुरं सर्वदोषजित् ८८
पद्मबीजं तु पद्माक्षं गालोड्यं पद्मकर्कटी
पद्मबीजं हिमं स्वादु कषायं तिक्तकं गुरु ८९
विष्टम्भि वृष्यं रूक्षञ्च गर्भसंस्थापकं परम्
कफवातकरं बल्यं ग्राहि पित्तास्रदाहनुत् ९०
मखान्नं पद्मबीजाभं पानीयफलमित्यपि
मखान्नं पद्मबीजस्य गुणैस्तुल्यं विनिर्दिशेत् ९१
शृङ्गाटकं जलफलं त्रिकोणफलमित्यपि ९२
शृङ्गाटकं हिमं स्वादु गुरु वृष्यं कषायकम्
ग्राही शुक्रानिलश्लेष्मप्रदं पित्तास्रदाहनुत् ९३
उक्तं कुमुदबीजन्तु बुधैः कैरविणीफलम्
भवेत्कुमुद्वतीबीजं स्वादु रूक्षं हिमं गुरु ९४
मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुस्रवः
वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः ९५
मधूकपुष्पं मधुरं शीतलं गुरु बृंहणम्
बलशुक्रकरं प्रोक्तं वातपित्तविनाशनम् ९६
फलं शीतं गुरु स्वादु शुक्रलं वातपित्तनुत्
अहृद्यं हन्ति तृष्णाऽस्रदाहश्वासक्षतक्षयान् ९७
परूषकं तु परुषमल्पास्थि च परापरम्
परूषकं कषायाम्लमामं पित्तकरं लघु ९८
तत्पक्वं मधुरं पाके शीतं विष्टम्भि बृंहणम्
हृद्यन्तु पित्तदाहास्रज्वरक्षयसमीरहृत् ९९
तूतस्तूलश्च पूगश्च क्रमुको ब्रह्मदारु च
तूतं पक्वं गुरु स्वादु हिमं पित्तानिलापहम्
तदेवामं गुरु सरमम्लोष्णं रक्तपित्तकृत् १००
दाडिमः करको दन्तबीजो लोहितपुष्पकः
तत्फलं त्रिविधं स्वादु स्वाद्वम्लं केवलाम्लकम् १०१
तत्तु स्वादु त्रिदोषघ्नं तृड्दाहज्वरनाशनम्
हृत्कण्ठमुखगन्धघ्नं तर्पणं शुक्रलं लघु १०२
कषायानुरसं ग्राहि स्निग्धं मेधाबलावहम् १०३
स्वाद्वम्लं दीपनं रुच्यं किञ्चित्पित्तकरं लघु
अम्लन्तु पित्तजनकमामं वातकफापहम् १०४
अथ बहुवारः इ!लिसोडांइ! तस्य नामानि
बहुवारस्तु शीतः स्यादुद्दालो बहुवारकः
शेलुः श्लेष्मातकश्चापि पिच्छिलो भूतवृक्षकः १०५
बहुवारो विषस्फोटव्रणवीसर्पकुष्ठनुत्
मधुरस्तुवरस्तिक्तः केश्यश्च कफपित्तहृत् १०६
फलमामन्तु विष्टम्भि रूक्षं पित्तकफास्रजित्
तत्पक्वं मधुरं स्निग्धं श्लेष्मलं शीतलं गुरु १०७
पयः प्रसादी कतकः कतकं तत्फलं च तत्
कतकस्य फलं नेत्र्! यं जलनिर्मलताकरम्
वातश्लेष्महरं शीतं मधुरं तुवरं गुरु १०८
द्रा क्षास्वादुफला प्रोक्ता तथा मधुरसाऽपि च
मृद्वीका हारहूरा च गोस्तनी चापि कीर्त्तिता १०९
द्रा क्षा पक्वा सरा शीता चक्षुष्या बृंहणी गुरुः
स्वादुपाकरसा स्वर्या तुवरा सृष्टमूत्रविट् ११०
कोष्ठमारुतकृद् वृष्या कफपुष्टिरुचिप्रदा १११
हन्ति तृष्णाज्चरश्वासवातवातास्रकामलाः
कृच्छ्रास्रपित्तसंमोहदाहशोषमदात्ययान् ११२
आमा स्वल्पगुणा गुर्वी सैवाम्ला रक्तपित्तकृत्
वृष्या स्याद् गोस्तनी द्रा क्षा गुर्वी च कफपित्तनुत् ११३
अबीजाऽन्या स्वल्पतरा गोस्तनीसदृशी गुणैः
द्रा क्षा पर्वतजा लघ्वी साऽम्ला श्लेष्माम्लपित्तकृत्
द्रा क्षा पर्वतजा यादृक् तादृशी करमर्दिका ११४
भूमिखर्जूरीका स्वाद्वी दुरारोहाः मृदुच्छदा
तथा स्कन्धफला काककर्कटी स्वादुमस्तका ११५
पिण्डखर्जूरिका त्वन्या सा देशे पश्चिमे भवेत्
खर्जुरी गोस्तनाकारा परद्वीपादिहागता ११६
जायते पश्चिमे देशे सा छोहारेति कीत्तर्यते
खर्जूरीत्रितयं शीतं मधुरं रसपाकयोः ११७
स्निग्धं रुचिकरं हृद्यं क्षतक्षयहरं गुरु
तर्पणं रक्तपित्तघ्नं पुष्टिविष्टम्भशुक्रदम् ११८
कोष्ठमारुतहृद् बल्यं वान्तिवातकफापहम्
ज्वरातिसारक्षुत्तृष्णाकासश्वासनिवारकम् ११९
मदमूर्च्छामरुत्पित्तमद्योद्भूतगदान्तकृत्
महतीभ्यां गुणैरल्पास्वल्पखर्जूरिका स्मृता १२०
खर्जूरीतरुतोयं तु मदपित्तकरं भवेत्
वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत् १२१
सुलेमानी तु मृदुला दलहीनफला च सा
सुलेमानी श्रमभ्रान्तिदाहमूर्च्छाऽस्रपित्तहृत् १२२
वातादौ वातवैरी स्यान्नेत्रोपमफलस्तथा
वातादः उष्णः सुस्निग्धो वातघ्नः शुक्रकृद् गुरुः १२३
वातादमज्जा मधुरो वृष्यः पित्तानिलापहः
स्निग्धोष्णः कफकृन्नेष्टो रक्तपित्तविकारिणाम् १२४
मुष्टिप्रमाणं बदरं सेवं सिवितिकाफलम् १२५
सेवं समीरपित्तघ्नं बृंहणं कफकृद् गुरु
रसे पाके च मधुरं शिशिरं रुचिशुक्रकृत् १२६
अमृतफलं लघु वृष्यं सुस्वादु त्रीन्हरेद्दोषान्
देशेषु मुद्गलानां-बहुलं तल्लभ्यते लोकैः १२७
पीलुर्गुडफलः स्रंसी तथा शीतफलोऽपि च
पीलु श्लेष्मसमीरघ्नं पित्तलं भेदि गुल्मनुत्
स्वादु तिक्तञ्च यत्पीलु तन्नात्युष्णं त्रिदोषहृत् १२८
पीलुः शैलभवोऽक्षोटः कर्परालश्च कीर्तितः
अक्षोटकोपि वातादसदृशः कफपित्तकृत् १२९
बीजपूरो मातुलुङ्गो रुचकः फलपूरकः
बीजपूरफलं स्वादु रसेऽम्ल दीपनं लघु १३०
रक्तपित्तहरं कण्ठजिह्वाहृदयशोधनम्
श्वासकासारुचिहरं हृद्यं तृष्णाहरं स्मृतम् १३१
बीजपूरोऽपरः प्रोक्तो मधुरो मधुकर्कटी १३२
मधुकर्कटिका स्वाद्वी रोचनी शीतला गुरुः
रक्तपित्तक्षयश्वासकासहिक्काभ्रमापहा १३३
स्याज्जम्बीरो दन्तशठो जम्भजम्भीरजम्भलाः
जम्बीरमुष्णं गुर्वम्लं वातश्लेष्मविबन्धनुत् १३४
शूलकासकफोत्क्लेशच्छर्दितृष्णाऽमदोषजित्
आस्यवैरस्यहृत्पीडावह्निमान्द्यक्रिमीन् हरेत्
स्वल्पजम्बीरिका तद्वत्तृष्णाच्छर्दिनिवारिणी १३५
निम्बूः स्त्री निम्बुकं क्लीबे निम्बूकमपि कीर्त्तितम्
निम्बूकमम्लं वातघ्नं दीपनं पाचनं लघु १३६
निम्बुकं कृमिसमूहनाशनं तीक्ष्णमम्लमुदरग्रहापहम्
वातपित्तकफशूलिने हितं कष्टनष्टरुचिरोचनं परम् १३७
त्रिदोषवह्निक्षयवातरोगनिपीडितानां विषविह्वलानाम्
मन्दानले बद्धगुदे प्रदेयं विषूचिकायां मुनयो वदन्ति १३८
मिष्टनिम्बूफलं स्वादु गुरु मारुतपित्तनुत् १३९
गलरोगविषध्वंसिकफोत्क्लेशि च रक्तहृत्
शोषारुचितृषाच्छर्दिहरं बल्यञ्च बृंहणम् १४०
कर्मरङ्गं शिरालं च बृहदम्लं रुजाकरम्
कर्मरङ्गं हिमं ग्राहि स्वाद्वम्लं कफवातहृत् १४१
अम्लिका चुक्रिकाऽम्ली च चुका दन्तशठाऽपि च
अम्ला च चिञ्चिका चिञ्चा तिन्तिडीका च तिन्तिडी १४२
अम्लिकाऽम्ला गुरुर्वातहरी पित्तकफास्रकृत्
पक्वा तु दीपनी रूक्षा सरोष्णा कफवातनुत् १४३
स्यादम्लवेतसश्चुक्रं शतवेधि सहस्रनुत्
अम्लवेतसमत्यम्लं भेदनं लघु दीपनम् १४४
हृद्रो गशूलगुल्मघ्नं पित्तलं लोमहर्षणम्
रूक्षं विण्मूत्रदोषघ्नं प्लीहोदावर्त्तनाशनम् १४५
हिक्काऽनाहारुचिश्वासकासाजीर्णवमिप्रणुत्
कफवातामयध्वंसिच्छागमांसद्र वत्वकृत्
चणकाम्लगुणं ज्ञेयं लोहसूचीद्र वत्वकृत् १४६
वृक्षाम्लं तिन्तिडीकञ्चचुक्रं स्यादम्लवृक्षकम्
वृक्षाम्लमाममम्लोष्णं वातघ्नं कफपित्तलम् १४७
पक्वन्तु गुरु संग्राहि कटुकं तुवरं लघु १४८
अम्लोष्णं रोचनं रूक्षं दीपनं कफवातकृत्
तृष्णाऽशोग्रहणीगुल्मशूलहृद्रो गजन्तुजित् १४९
अम्लवेतसवृक्षाम्लबृहज्जम्बीरनिम्बुकैः
चतुरम्लं हि पञ्चाम्लं बीजपूरयुतैर्भवेत् १५०
फलेषु परिपक्वं यद् गुणवत्तदुदाहृतम्
बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणाधिकम्
फलेषु सरसं यत्स्याद् गुणवत्तदुदाहृतम् १५१
द्रा क्षाबिल्वशिवाऽदीनां फलं शुष्कं गुणाधिकम्
फलतुल्यगुणं सर्वं मज्जानमपि निर्दिशेत् १५२
फलं हिमाग्निदुर्वातव्यालकीटादिदूषितम्
अकालजं कुभूमीजं पाकातीतं न भक्षयेत् १५३
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे सप्तम आम्रादिफलवर्गः समाप्तः ७

धातूपधातुरसोपरसरत्नोपरत्नविषोपविषवर्गः[सम्पाद्यताम्]

अथाष्टमो धात्वादिवर्गोपरनामको धातूपधातुरसोपरसरत्नोपरत्नविषोपविषवर्गः
स्वर्णं रूप्यञ्च ताम्रं च रङ्गं यशदमेव च
सीसं लौहञ्च सप्तैते धातवो गिरिसम्भवः १
वली पलित खालित्य कार्श्याबल्य जरामयान्
निवार्य देहं दधति नृणां तद्धातवो मताः २
पुरा निजाश्रमस्थानां सप्तर्षीणां जितात्मनाम्
पत्नीर्विलोक्य लावण्यलक्ष्मीसम्पन्नयौवनाः ३
कन्दर्पदर्पविध्वस्तचेतसो जातवेदसः
पतितं यद्धरापृष्ठे रेतस्तद्धेमतामगात्
कृत्रिमञ्चापि भवति तद्र सेन्द्र स्य वेधतः ४
स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् ५
तपनीयं च गाङ्गेयं कलधौतञ्च काञ्चनम्
चामीकरं शातकुम्भं तथा कार्त्तस्वरं च तत् ६
जाम्बूनदं जातरूपं महारजतमित्यपि ७
दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम्
तारशुल्वोज्झितं स्निग्धं कोमलं गुरु हेम सत् ८
तच्छ्वेतं कठिनं रूक्षं विवर्णं समलं दलम्
दाहे छेदेऽसितं श्वेतं कषे त्याज्यं लघु स्फुटम् ९
सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम्
स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम् १०
पवित्रं बृंहणं नेत्र्! यं मेधास्मृतिमतिप्रदम्
हृद्यमायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत्
विषद्वयक्षयोन्मादत्रिदोषज्वरशोषजित् ११
बलं सवीर्यं हरते नराणां रोगव्रजान् पोषयतीह काये
असौख्यकृच्चापि सदा सुवर्णमशुद्धमेतन्मरणञ्च कुर्यात् १२
असम्यङ्मारितं स्वर्णं बलं वीर्य्यञ्च नाशयेत्
करोति रोगान् मृत्युं च तद्धन्याद्यत्नतस्ततः १३
त्रिपुरस्य वधार्थाय निर्निमेषैर्विलोचनैः
निरीक्षयामास शिवः क्रोधेन परिपूरितः १४
अग्निस्तत्कालमपतत्तस्यकस्माद्विलोचनात्
ततो रुद्र ः! समभवद् वैश्वानर इव ज्वलन् १५
द्वितीयादपतन्नेत्रादश्रुबिन्दुस्तु वामकात्
तस्माद्र जतमुत्पन्नमुक्तकर्मसु योजयेत् १६
कृत्रिमं च भवेत्तद्धि वङ्गादिरसयोगतः १७
रूप्यं तु रजतं तारं चन्द्र कान्ति सितप्रभम् १८
गुरु स्निग्धं मृदु श्वेतं दाहे छेदे घनक्षमम्
वर्णाढ्यं चन्द्र वत्स्वच्छं रूप्यं नवगुणं शुभम्
कठिनं कृत्रिमं रूक्षं रक्तं पीतदलं लघु
दाहच्छेदघनैर्नष्टं रूप्यं दुष्टं प्रकीर्त्तितम् १९
रूप्यं शीतं कषायाम्लं स्वादुपाकरसं सरम्
वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित्
प्रमेहादिकरोगांश्च नाशयत्यचिराद् ध्रुवम् २०
तारं शरीरस्य करोति तापं विध्वंसनं यच्छति शुक्रनाशम्
वीर्यं बलं हन्ति तनोश्च पुष्टिं महागदान्पोषयति ह्यशुद्धम् २१
शुक्रं यत् कार्त्तिकेयस्य पतितं धरणीतले
तस्मात्ताम्रं समुत्पन्नमिदमाहुः पुराविदः २२
ताम्रमौदुम्बरं शुल्वमुदुम्बरमपि स्मृतम्
रविप्रियं म्लेच्छमुखं सूर्यपर्यायनामकम् २३
जपाकुसुमसङ्काशं स्निग्धं मृदु घनक्षमम्
लौहनागोज्झितं ताम्रं मारणाय प्रशस्यते २४
कृष्णं रूक्षमतिस्तब्धं श्वेतञ्चापि घनासहम्
लौहनागयुतञ्चेति शुल्बं दुष्टं प्रकीर्त्तितम् २५
ताम्रं कषायं मधुरं च तिक्तमम्लं च पाके कटु सारकं च
पित्तापहं श्लेष्महरं च शीतं तद्रो पणं स्याल्लघु लेखनञ्च २६
पाण्डूदरार्शोज्व्रकुष्ठकासश्वासक्षयान् पीनसमम्लपित्तम्
शोथं कृमिं शूलमपाकरोति प्राहुः परे बृंहणमल्पमेतत् २७
एको दोषो विषे ताम्रेत्वसम्यङ्मारितेऽष्टते
दाहः स्वेदोऽरुचिर्मूर्च्छाक्लेदो रेको वमिर्भ्रमः २८
रङ्गं वङ्गं त्रपु प्रोक्तं तथा पिच्चटमित्यपि
क्षुरकं मिश्रकं चापि द्विविधं वङ्ग मुच्यते २९
उत्तमं क्षुरकं तत्र मिश्रकं त्ववरं मतम् ३०
रङ्गं लघु सरं रूक्षमुष्णं मेहकफक्रिमीन्
निहन्ति पाण्डुं सश्वासं चक्षुष्यं पित्तलं मनाक् ३१
सिंहो यथा हस्तिगणं निहन्ति तथैव वङ्गोऽखिलमेहवर्गम्
देहस्य सौख्यं प्रबलेन्द्रि यत्वं नरस्य पुष्टिं विदधाति नूनम् ३२
यशदं रङ्गसदृशं रीतिहेतुश्च तन्मतम्
यशदं तुवरं तिक्तं शीतलं कफपित्तहृत्
चक्षुष्यं परमं मेहान् पाण्डुं श्वासं च नाशयेत् ३३
दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तुमुमोच यत्
वीर्यं जातस्ततो नागः सर्वरोगापहा नृणाम् ३४
सीसं ब्रध्नं च वप्रं च योगेष्टं नागनामकम् ३५
सीसं रङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम् ३६
नागस्तु नागशततुल्यबलं ददाति व्याधिं विनाशयति जीवनमातनोति
बह्निं प्रदीपयति कामबलं करोति मृत्युं च नाशयति सन्ततसेवितः सः३७
पाकेन हीनौ किल वङ्गनागौ कुष्ठानि गुल्मांश्च तथाऽतिकष्टान्
कण्डूप्रमेहानिलसादशोथभगन्दरादीन् कुरुतः प्रयुक्तौ ३८
पुरा लोमिनदैत्यानां निहतानां सुरैर्युधि
उत्पन्नानि शरीरेभ्यो लोहानि विविधानि च
लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी ३९
गुरुता दृढतोत्क्लेदः कश्मलं दाहकारिता
अश्मदोषः सुदुर्गन्धो दोषाः सप्तायसस्य तु ४०
लोहं तिक्तं सरं शीतं मधुरं तुवरं गुरु
रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् ४१
कफं पित्तं गरं शूलं शोथार्शः प्लीहपाण्डुताः
मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्वदेव हि ४२
षण्ढत्वकुष्ठामयमृत्युदं भवेद् हृद्रो गशूलौ कुरुतेऽश्मरीञ्च
नानारुजानाञ्च तथा प्रकोपं करोति हृल्लासमशुद्धलोहम् ४३
जीवहारि मदकारि चायसं चेदशुद्धिमदसंस्कृतं ध्रुवम्
पाटवं न तनुते शरीरके दारुणां हृदि रुजाञ्च यच्छति ४४
कूष्माण्डं तिलतैलञ्च माषान्नं राजिकां तथा
मद्यम्लरसं चापि त्यजेल्लोहस्य सेवकः ४५
क्षमाभृच्छिखराकाराण्यङ्गान्यम्लेन लेपिते
लौहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते
लौहं साराह्वयं हन्याद् ग्रहणीमतिसारकम् ४६
अर्द्धं सर्वाङ्गजं वातं शूलं च परिणामजम्
छर्दिं च पीनसं पित्तं श्वासं कासं व्यपोहति ४७
यत्पात्रे न प्रसरति जले तैलविन्दुः प्रतप्ते
हिङ्गुर्गन्धं त्यजति च निजं तिक्ततां निम्बवल्कः
तप्तं दुग्धं भवति शिखराकारकंनैति भूमिं
कृष्णाङ्गः स्यात् सजलचणकः कान्तलोहंतदुक्तम् ४८
गुल्मोदरार्शःशूलाममामवातं भगन्दरम्
कामलाशोथकुष्ठानि क्षयं कान्तमयो हरेत् ४९
प्लीहानमम्लपित्तञ्च यकृच्चापि शिरोरुजम् ५०
सर्वान् रोगान् विजयते कान्तलोहं न संशयः
बलं वीर्यं वपुःपुष्टिं कुरुतेऽग्नि विवर्द्धयेत् ५१
ध्मायमानस्य लोहस्य मलं मण्डूर मुच्यते
लोहसिंहानिका किट्टी सिंहानञ्च निगद्यते
यल्लोहं यद्गुणंप्रोक्तं तत्किट्टमपि तद्गुणम् ५२
सप्तोपधातवः स्वर्णमाक्षिकं तारमाक्षिकं
तुत्थं कांस्यं च रीतिश्च सिन्दूरञ्च शिलाजतु ५३
उपधातुषु सर्वेषु तत्तद्धातुगुणा अपि
सन्ति किन्त्वेषु ते गौणास्तत्तदंशाल्पभावतः ५४
स्वर्णमाक्षिकमाख्यातं तापीजं मधुमाक्षिकम् ५५
ताप्यं माक्षिकधातुश्च मधुधातुश्च स स्मृतः
किञ्चित्सुवर्णं साहित्यात्स्वर्णमाक्षिकमीरितम् ५६
उपधातुः सुवर्णस्य किञ्चित्स्वर्णगुणान्वितम्
तथा च काञ्चनाभावे दीयते स्वर्णमाक्षिकम् ५७
किन्तु तस्यानुकल्पत्वात्किञ्चिदूनगुणास्ततः
न केवलं स्वर्णगुणा वर्त्तन्ते स्वर्णमाक्षिके ५८
द्र व्यान्तरस्य संसर्गात्सन्त्यन्येऽपि गुणा यतः
सुवर्णमाक्षिकं स्वादु तिक्तं वृष्यं रसायनम् ५९
चक्षुष्यं बस्तिरुक्कुष्ठपाण्डुमेहविषोदरान्
अर्शः शोथं विषं कण्डूं त्रिदोषमपि नाशयेत् ६०
मन्दानलत्वं बलहानिमुग्रां विष्टम्भितां नेत्रगदान्सकुष्ठान्
तथैव मालां व्रणपूर्विकां च करोति तापीजमशुद्धमेतत् ६१
तारमाक्षिकमन्यत्तु तद्भवेद्र जतोपमम्
किञ्चिद्र जतसाहित्यात्तारमाक्षिकमीरितम् ६२
अनुकल्पतया तस्य ततो हीनगुणाः स्मृताः
न केवलं रूप्यगुणा यतः स्यात्तारमाक्षिकम् ६३
स्वादु पाके रसे किञ्चित्तिक्तं वृष्यं रसायनम्
चक्षुष्यं वस्तिरुक्कुष्ठपाण्डुमेहविषोदरान्
अर्शः शोथं क्षयङ्कण्डूं त्रिदोषमपि नाशयेत् ६४
मन्दानलत्वं बलहानिमुग्रां विष्टग्भितां नेत्रगदान्सकुष्ठान्
तथैव मालां व्रणपूर्विकाञ्च करोति तापीजमिदञ्च तद्वत् ६५
तुत्थं वितुन्नकं चापि शिखिग्रीवं मयूरकम्
तुत्थं ताम्रोपधातुर्हि किञ्चित्ताम्रेण तद्भवेत् ६६
किञ्चित्ताम्रगुणं तस्माद्वक्ष्यमाणगुणं च तत्
तुत्थकं कटुकं क्षारं कषायं वामकं लघु ६७
लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत्
विषाश्मकुष्ठकण्डूघ्नं खर्परं चापि तद्गुणम् ६८
ताम्रत्रपुजमाख्यातं कांस्यं घोषं च कंसकम्
उपधातुर्भवेत्कांस्यं द्वयोस्तरणिरङ्गयोः ६९
कांस्यस्य तु गुणा ज्ञेयाः स्वयोनिसदृशाजनैः
संयोगजप्रभावेण तस्यान्येऽपि गुणाः स्मृताः ७०
कांस्यं कषायं तिक्तोष्णं लेखनं विशदं सरम्
गुरु नेत्रहितं रूक्षं कफपित्तहरं परम् ७१
पित्तलं त्वारकूटं स्यादारो रीतिश्च कथ्यते
राजरीतिर्ब्रह्मरीतिः कपिला पिङ्गलापि च ७२
रीतिरप्युपधातुः स्यात्ताम्रस्य यशदस्य च
पित्तलस्य गुणा ज्ञेयाः स्वयोनिसदृशा जनैः ७३
संयोगजप्रभावेण तस्याप्यन्ये गुणाः स्मृताः ७४
रीतिकायुगलं रूक्षं तिक्तञ्च लवणं रसे
शोधनं पाण्डुरोगघ्नं कृमिघ्नं नातिलेखनम् ७५
सिन्दूरं रक्तरेणुश्च नागगर्भश्च सीसजम्
सीसोपधातुः सिन्दूरं गुणैस्तत्सीसवन्मतम् ७६
संयोगजप्रभावेण तस्यान्येऽपि गुणाः स्मृताः
सिन्दूरमुष्णं वीसर्पकुष्ठकण्डूविषापहम्
भग्नसन्धानजननं व्रणशोधनरोपणम् ७७
निदाघे घर्मसन्तप्ता धातुसारं धराधराः
निर्यासवत्प्रमुञ्चन्ति तच्छिलाजतु कीर्त्तितम् ७८
सौवर्णं राजतं ताम्रमायसं तच्चतुर्विधम्
शिलाजत्वद्रि जतु च शैलनिर्यास इत्यपि ७९
गैरेयमश्मजं चापि गिरिजं शैलधातुजम्
शिलाजं कटु तिक्तोष्णं कटुपाकं रसायनम् ८०
छेदि योगवहं हन्ति कफमेहाश्मशर्कराः
मूत्रकृच्छ्रं क्षयं श्वासं वातार्शांसि च पाण्डुताम् ८१
अपस्मारं तथोन्मादं शोथकुष्ठोदरकृमीन् ८२
सौवर्णं तु जपापुष्पवर्णं भवति तद्र सात्
मधुरं कटु तिक्तं च शीतलं कटुपाकि च ८३
राजतं पाण्डुरं शीतं कटुकं स्वादुपाकि च
ताम्रं मयूरकण्ठाभं तीक्ष्णमुष्णं च जायते ८४
लौहं जटायुपक्षाभं सत्तिक्तं लवणं भवेत्
विपाके कटुकं शीतं सर्वं श्रेष्ठमुदाहृतम् ८५
रसायनार्थिभिर्लोकैः पारदो रस्यते यतः
ततो रस इति प्रोक्तः स च धातुरपि स्मृतः ८६
शिवाङ्गात्प्रच्युतं रेतः पतितं धरणीतले
तद्देहसारजातत्वाच्छुक्लमच्छमभूच्च तत् ८७
क्षेत्रभेदेन विज्ञेयं शिववीर्यं चतुर्विधम्
श्वेतं रक्तं तथा पीतं कृष्णं तत्तु भवेत्क्रमात्
ब्राह्मणः क्षत्रियो वैश्यः शूद्र श्च खलु जातितः ८८
श्वेतं शस्तं रुजां नाशे रक्तं किल रसायने
धातुवादे तु तत्पीतं खे गतौ कृष्णमेव च ८९
पारदो रसधातुश्च रसेन्द्र श्च महारसः ९०
चपलः शिववीर्यश्च रसः सूतः शिवाह्वयः
पारदः षड्रसः स्निग्धस्त्रिदोषघ्नो रसायनः ९१
योगवाही महावृष्यः सदा दृष्टिबलप्रदः
सर्वामयहरः प्रोक्तो विशेषात्सर्वकुष्ठनुत् ९२
स्वस्थो रसो भवेद् ब्रह्मा बद्धो ज्ञेयो जनार्दनः
रञ्जितः कामितश्चापि साक्षाद्देवो महेश्वरः ९३
मूर्च्छितो हरति रुजं बन्धनमनुभूय खे गतिं कुरुते
अजरीकरोति हि मृतः कोऽन्य करुणाऽकरः सूतात् ९४
असाध्यो यो भवेद्रो गो यस्य नास्ति चिकित्सितम्
रसेन्द्रो हन्ति तं रोगं नरकुञ्जरवाजिनाम् ९५
मलं विषं वह्निगिरित्वचापलं नैसर्गिकं दोषमुशन्ति पारदे
उपाधिजौ द्वौ त्रपुनागयोगजौ दोषौ रसेन्द्रे कथितौ मुनीश्वरैः ९६
मलेन मूर्च्छा मरणं विषेण दाहोऽग्निना कष्टतरः शरीरे
देहस्य जाड्यं गिरिणा सदा स्युश्चाञ्चल्यतो वीर्यहृतिश्च पुंसाम्
वङ्गेन कुष्ठं भुजगेन षण्ढो भवेदतोऽसौ परिशोधनीयः ९७
वह्निर्विषं मलं चेति मुख्या दोषास्त्रयो रसे
एते कुर्वन्ति सन्तापं मृतिं मूर्च्छां नृणां क्रमात् ९८
अन्येऽपि कथिता दोषा भिषग्भिः पारदे यदि
तथाऽप्येते त्रयो दोषाहरणीया विशेषतः ९९
संस्कारहीनं खलु सूतराजं यः सेवते तस्य करोति बाधाम्
देहस्य नाशं विदधाति नूनं कष्टांश्च रोगाञ्जनयेन्नराणाम् १००
गन्धो हिङ्गुलमभ्रतालकशिलाः स्रोतोऽञ्जनं टङ्कणं
राजावर्तकचुम्बकौ स्फटिकया शङ्खः खटी गैरिकम्
कासीसं रसकं कपर्दसिकताबोलाश्च कुङ्कष्ठकं
सौराष्ट्री च मता अमी उपरसाः सूतस्य किञ्चिद्गुणैः १०१
हिङ्गुलं दरदं म्लेच्छमिङ्गुलं चूर्णपारदम्
दरदस्त्रिविधः प्रोक्तश्चर्मारः शुकतुण्डकः १०२
हंसपादस्तृतीयः स्याद् गुणवानुत्तरोत्तरम् १०३
चर्मारः शुक्लवर्णः स्यात्स पीतः शुकतुण्डकः
जपाकुसुमसङ्काशो हंसपादो महोत्तमः १०४
तिक्तं कषायं कटु हिङ्गुलं स्यान्नेत्रामयघ्नं कफपित्तहारि
हृल्लासकुष्ठज्वरकामलाश्च प्लीहामवातौ च गरं निहन्ति १०५
उर्ध्वपातनयुक्त्या तु डमरुयंत्रपाचितम्
हिङ्गुलं तस्य सूतं तु शुद्धमेव न शोधयेत् १०६
श्वेतद्वीपे पुरा देव्याः क्रीडन्त्या रजसाऽप्लुतम्
दुकूलं तेन वस्त्रेण स्नातायाः क्षीरनीरधौ १०७
प्रसृतं यद्र जस्तस्माद्गन्धकः समभूत्ततः
गन्धको गान्धिकश्चापि गन्धपाषाण इत्यपि १०८
सौगन्धिकश्च कथितो बलिर्बलरसोऽपि च
चतुर्धा गन्धकः प्रोक्तो रक्तः पीतः सितोऽसितः १०९
रक्तो हेमक्रियासूक्तः पीतश्चैव रसायने
व्रणादिलेपने श्वेतः कृष्णः श्रेष्ठः सुदुर्लभः ११०
गन्धकः कटुकस्तिक्तो वीर्योष्णस्तुवरः सरः
पित्तलः कटुकः पाके जन्तुकण्डूविसर्पजित्
हन्ति कुष्ठक्षयप्लीहकफवातान् रसायनः १११
अशोधितो गन्धक एव कुष्ठं करोति तापं विषमं शरीरे
सौख्यं च रूपं च वलं तथौजः शुक्रं निहन्त्येव करोति चास्रम् ११२
पुरा वधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम्
विस्फुलिङ्गास्ततस्तस्य गगने परिसर्पिताः ११३
ते निपेतुर्घनध्वानाच्छिखरेषु महीभृताम्
तेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकम् ११४
तद्वज्रं वज्रजातत्वादभ्रमभ्ररवोद्भवात्
गगनात्स्खलितं यस्माद्गगनं च ततो मतम् ११५
विप्रक्षत्रियविट्शूद्र भेदात्तत्स्याच्चतुर्विधम्
क्रमेणैव सितं रक्तं पीतं कृष्णं च वर्णतः ११६
प्रशस्यते सितं तारे रक्तं तत्तु रसायने
पीतं हेमनि कृष्णं तु गदेषु द्रुतयेऽपि च ११७
पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम्
मुच्चत्यग्नौ विनिक्षिप्तं पिनाकं दलसञ्चयम् ११८
अज्ञानाद्भक्षणं तस्य महाकुष्ठप्रदायकम्
दुर्दरं त्वग्निनिक्षिप्तं कुरुते दुर्दरध्वनिम् ११९
गोलकान्बहुशः कृत्वा स स्यान्मृत्युप्रदायकः
नागं तु नागवद्बह्वौ फूत्कारं परिमुञ्चति १२०
तद्भक्षितमवश्यं तु विदधाति भगन्दरम्
वज्रं तु वज्रवत्तिष्टेत्तन्नाग्नौ विकृतिं व्रजेत् १२१
सर्वाभ्रेषु वरं वज्रं व्याधिवार्द्धक्यमृत्युहृत् १२२
अभ्रमुत्तरशैलोत्थं बहुसत्त्वं गुणाधिकम्
दक्षिणाद्रि भवं स्वल्पसत्वमल्पगुणप्रदम् १२३
अभ्रं कषायं मधुरं सुशीतमायुष्करं धातुविवर्द्धनं च
हन्यात्त्रिदोषं व्रणमेहकुष्टप्लीहोदरग्रन्थिविषकृमींश्च १२४
रोगान्हन्ति द्र ढयति वपुर्वीर्यवृद्धिं विधत्ते
तारुण्याढ्यं रमयति शतं योषितां नित्यमेव
दीर्घायुष्काञ्जनयति सुतान्विक्रमैः सिंहतुल्यान्
मृत्योर्भीतिं हरति सततं सेव्यमानं मृताभ्रम् १२५
पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं पाण्डुगदं च शोथम्
हृत्पार्श्वपीडां च करोत्यशुद्धमभ्रं त्वसिद्धं गुरु तापदं स्यात् १२६
हरितालं तु तालं स्यादालं तालकमित्यपि
हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् १२७
तयोराद्यं गुणैः श्रेष्ठं ततो हीनगुणं परम्
स्वर्णवर्णं गुरु स्निग्धं सपत्रं चाभ्रपत्रवत् १२८
पत्राख्यं तालकं विद्याद् गुणाढ्यं तद्र सायनम्
निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु १२९
स्त्रीपुष्पहारकं स्वल्पगुणं तत्पिण्डतालकम्
हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम्
कण्डूकुष्ठास्यरोगास्रकफपित्तकचव्रणान् १३०
हरति च हरितालं चारुतां देहजातां
सृजति च बहुतापञ्चाङ्गसङ्कोचपीडाम्
वितरति कफवातौ कुष्ठरोगं विदध्यात्
इदमशितमशुद्धं मारितं चाप्यसम्यक् १३१
मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका
नैपाली कुनटी गोला शिला दिव्यौषधिः स्मृता १३२
मनःशिला गुरुर्वर्ण्या सरोष्णा लेखनी कटुः
तिक्ता स्निग्धा विषश्वासकासभूतकफास्रनुत् १३३
मनः शिला मन्दबलं करोति जन्तुं ध्रुवं शोधनमन्तरेण
मलानुबन्धं किल मूत्ररोधं सशर्करं कृच्छ्रगदं च कुर्यात् १३४
अञ्जनं यामुनं चापि कापोताञ्जनमित्यपि
तत्तु स्रोतोऽञ्जनं कृष्णं सौवीरं श्वेतमीरितम् १३५
वल्मीकशिखराकारे भिन्नमञ्जनसन्निभम्
घृष्टं तु गैरिकाकारमेतत्स्रोतोऽञ्जनं स्मृतम् १३६
स्रोतोऽञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डुरम्
स्रोतोऽञ्जनं स्मृतं स्वादु चक्षुष्यं कफपित्तनुत् १३७
कषायं लेखनं स्निग्धं ग्राहि च्छर्दिविषापहम्
सिध्मक्षयास्रहृच्छीतं सेवनीयं सदा बुधैः १३८
स्रोतोऽञ्जनगुणाः सर्वे सौवीरेऽपि मता बुधैः
किन्तु द्वयोरञ्जनयोः श्रेष्ठं स्रोतोऽञ्जनं स्मृतम् १३९
टङ्कणोऽग्निकरो रूक्षः कफघ्नो वातपित्तकृत् १४०
स्फटी च स्फटिका प्रोक्ता श्वेता शुभ्रा च रङ्गदा
दृढरङ्गा रङ्गदृढा रङ्गाङ्गापि च कथ्यते १४१
स्फटिका तु कषायोष्णा वातपित्तकफव्रणान्
निहन्ति श्वित्रवीसर्पान् योनिसङ्कोचकारिणी १४२
राजावर्त्तो नृपावर्त्तो राजन्यावर्त्तकस्तथा
आवर्त्तमणिसंज्ञश्च ह्यावर्त्तोऽपि तथैव च १४३
राजावर्त्तं कटुस्तिक्तः शिशिरः पित्तनाशनः
राजावर्त्तः प्रमेहघ्नश्छर्दिहिक्कानिवारणः १४४
चुम्बकः कान्तपाषाणोऽयस्कान्तो लौहकर्षकः
चुम्बको लेखनः शीतो मेदोविषगरापहः १४५
गैरिकं रक्तधातुश्च गैरेयं गिरिजं तथा
सुवर्णगैरिकं त्वन्यत्ततो रक्ततरं हि तत् १४६
गैरिकद्वितयं स्निग्धं मधुरं तुवरं हिमम्
चक्षुष्यं दाहपित्तास्रकफहिक्काविषापहम् १४७
खटिका कठिनी चापि लेखनी च निगद्यते
खटी दाहास्रजिच्छीता मधुरा विषशोथजित् १४८
लेपादेतद्गुणा प्रोक्ता भक्षिता मृत्तिकासमा
खटी गौरखटी द्वे च गुणैस्तुल्ये प्रकीर्त्तिते १४९
बालुका सिकता प्रोक्ता शर्करा रेतजाऽपि च
वालुका लेखनी शीता व्रणोरःक्षतनाशिनी १५०
खर्परी तुत्थकं तुत्थादन्यत्तद्र सकं स्मृतम्
ये गुणास्तुत्थके प्रोक्तास्ते गुणा रसके स्मृता १५१
काशीशं धातुकाशीशं पांशुकाशीशमित्यपि
तदेव किञ्चित्पीतं तु पुष्पकाशीशमुच्यते १५२
काशीशमम्लमुष्णं च तिक्तञ्च तुवरं तथा
वातश्लेष्महरं केश्यं नेत्रकण्डूविषप्रणुत्
मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकीर्त्तितम् १५३
सौराष्ट्री तुवरी काली मृत्तालकसुराष्ट्रजे १५४
आढकी चापि सा ख्याता मृत्स्ना च सुरमृत्तिका
स्फटिकायागुणाः सर्वे सौराष्ट्र्या अपि कीर्त्तिताः १५५
मृन्मृदा मृत्तिका मृत्स्ना क्षेत्रजा कृष्णमृत्तिका
कृष्णमृत् क्षतदाहास्रप्रदरश्लेष्मपित्तनुत् १५६
पङ्कस्तु जलकल्कश्च चुलुकः कर्दमो मलः
चिकिलः पलितो द्रा पः पललश्च निषद्वरः
कर्दमो दाहपित्तास्रशोथघ्नः शीतलः सरः १५७
कपर्दको वराटश्च कपर्दी च वराटिका
कर्णस्रावाग्निमान्द्यघ्नी पित्तास्रकफनाशिनी १५८
शङ्खः समुद्र जः कम्बुः सुनादः पावनध्वनिः
शङ्खो नेत्र्! यो हिमः शीतो लघुः पित्तकफास्रजित् १५९
बोलगन्धरसप्राणपिण्डगोपरसाः समाः
बोलं रक्तहरं शीतं मेध्यं दीपनपाचनम्
मधुरं कटु तिक्तं च दाहस्वेदत्रिदोषजित्
ज्वरापस्मारकुष्ठघ्नं गर्भाशयविशुद्धिकृत् १६०
हिमवत्पादशिखरे कङ्कुष्ठमुपजायते
तत्रैकं रक्तकालं स्यात्तदन्यद्दण्डकं स्मृतम् १६१
पीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कुष्ठमादिमम्
श्यामं पीतं लघु त्यक्तसत्त्वं नेष्टं तथाऽण्डकम् १६२
कङ्कुष्टं काककुष्ठं च विरङ्गं कोलकाकुलम् १६३
कङ्कुष्ठं रेचनं तिक्तं कटूष्णं वर्णकारकम्
कृमिशोथोदराध्मानगुल्मानाहकफापहम् १६४
धनार्थिनो जनाःसर्वे रमन्तेऽस्मिन्नतीव यत्
ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः १६५
रत्नं क्लीबे मणिः पुंसि स्त्रियामपि निगद्यते
तत्तु पाषाणभेदोऽस्ति मुक्तादि च तदुच्यते १६६
रत्नं गारुत्मतं पुष्परागो माणिक्यमेव च
इन्द्र नीलश्च गोमेदस्तथा वैदूर्यमित्यपि
मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै नव १६७
मुक्ताफलं हीरकं च वैदूर्यं पद्मरागकम् १६८
पुष्परागं च गोमेदं नीलं गारुत्मतं तथा
प्रवालयुक्तान्येतानि महारत्नानि वै नव १६९
हीरकः पुंसि वज्रोऽस्त्री चन्द्रो मणिवरश्च सः
स तु श्वेतः स्मृतो विप्रो लोहितः क्षत्रियः स्मृतः
पीतो वैश्योऽसितः शूद्र श्चतुर्वर्णात्मकश्च सः १७०
रसायने मतो विप्रः सर्वसिद्धिप्रदायकः
क्षत्रियो व्याधिविध्वंसी जरामृत्युहरः स्मृतः १७१
वैश्यो धनप्रदः प्रोक्तस्तथा देहस्यदार्ढ्यकृत्
शूद्रो नाशयति व्याधीन् वयःस्तम्भं करोति च १७२
अथ पुंस्त्रीनपुंसकभेदात् त्रिविधस्य तस्य
पुंस्त्रीनपुंसकानीह लक्षणीयानि लक्षणैः
सुवृत्ताः फलसम्पूर्णास्तेजोयुक्ता बृहत्तराः १७३
पुरुषास्ते समाख्याता रेखाविन्दु विवर्जिताः
रेखाविन्दुसमायुक्ताः षडस्रास्ते स्त्रियः स्मृताः १७४
त्रिकोणाश्च सुदीर्घास्ते विज्ञेयाश्च नपुंसकाः
तेषु स्युः पुरुषाः श्रेष्ठा रसबन्धनकारिणः १७५
स्त्रियः कुर्वन्ति कायस्य कान्तिं स्त्रीणां सुखप्रदाः
नपुंसकास्त्ववीर्याः स्युरकामा सत्ववर्जिताः१७६
स्त्रियः स्त्रीभ्यः प्रदातव्याः क्लीबं क्लीबे प्रयोजयेत्
सर्वेभ्यः सर्वदादेयाः पुरुषा वीर्यवर्धनाः १७७
अशुद्धं कुरुते वज्रं कुष्ठं पार्श्वव्यथां तथा
पाण्डुतां पङ्गुलत्वं च तस्मात्संशोध्य मारयेत् १७८
आयुः पुष्टिं बलं वीर्यं वर्णं सौख्यं करोति च
सेवितं सर्वरोगघ्नं मृतं वज्रं न संशयः १७९
गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः १८०
माणिक्यं पद्मरागः स्याच्छोणरत्नञ्च लोहितम् १८१
पुष्परागो मञ्जुमणिः स्याद्वाचस्पतिवल्लभः १८२
नीलं तथेन्द्र नीलञ्च गोमेदः पीतरत्नकम् १८३
वैदूर्यं दूरजं रत्नं स्यात्केतुग्रहवल्लभम् १८४
मौक्तिकं शौतिक्तं मुक्ता तथा मुक्ताफलञ्च तत्
शुक्तिः शङ्खो गजः क्रोडः फणी मत्स्यश्च दर्दुरः
वेणुरेते समाख्यातास्तज्ज्ञैर्मौक्तिकयोनयः
मौक्तितं शीतलं वृष्यं चक्षुष्यं बलपुष्टिदम् १८५
पुंसि क्लीबे प्रवालः स्यात्पुमानेव तु विद्रुमः १८६
रत्नानि भक्षितानि स्युर्मधुराणि सराणि च
चक्षुष्याणि च शीतानि विषघ्नानि धृतानि च
मङ्गल्यानि मनोज्ञानि ग्रहदोषहराणि च १८७
किं रत्नं कस्य ग्रहस्य प्रीतिकारित्वेन दोषहरं भवतीति प्रश्ने
तदुत्तरमाहै रत्नमालायाम्
माणिक्यं तरणेः सुजातममलं मुक्ताफलं शीतगो
र्माहेयस्य तु विद्रुमो निगदितः सौम्यस्य गारुत्मतम्
देवेज्यस्य च पुष्परागमसुराचार्यस्य वज्रं शने
र्नीलं निर्मलमन्ययोर्निगदिते गोमेदवैदूर्यके १८८
उपरत्नानि काचश्च कर्पूराश्मा तथैव च
मुक्ताशुक्तिस्तथा शङ्ख इत्यादीनि बहून्यपि १८९
गुणा यथैव रत्नानामुपरत्नेषु ते तथा
किन्तु किञ्चित्ततो हीना विशेषोऽयमुदाहृतः १९०
विषं तु गरलः क्षवेडस्तस्य भेदानुदाहरे
वत्सनाभः सहारिद्र ः! सक्तुकश्च प्रदीपनः
सौराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैव च
हालाहलो ब्रह्मपुत्रो विषभेदा अमी नव १९१
सिन्दुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा
यत्पार्श्वे न तरोर्वृद्धिर्वत्सनाभः स भाषितः १९२
हरिद्रा तुल्यमूलो यो हारिद्र ः! स उदाहृतः १९३
यद्ग्रन्थिः सक्तुकेनैव पूर्णमध्यः स सक्तुकः १९४
वर्णतो लोहितो यः स्याद्दीप्तिमान् दहनप्रभः
महादाहकरः पूर्वैः कथितं स प्रदीपनः १९५
सुराष्ट्रविषये यः स्यात्स सौराष्ट्रिक उच्यते १९६
यस्मिन् गोशृङ्गके बद्धे दुग्धं भवति लोहितम्
स शृङ्गिक इति प्रोक्तो द्र व्यतत्त्वविशारदैः १९७
देवासुररणे देवैर्हतस्य पृथुमालिनः
दैत्यस्य रुधिराज्जातस्तरुरश्वत्थसन्निभः
निर्यासः कालकूटोऽस्य मुनिभिः परिकीर्त्तितः
सोऽहिक्षेत्रे शृङ्गवेरे कोङ्कणे मलये भवेत् १९८
गोस्तनाभफलो गुच्छस्तालपत्रच्छदस्तथा
तेजसा यस्य दह्यन्ते समीपस्था द्रुमादयः
असौ हालाहलो ज्ञेयः किष्किन्धायां हिमालये
दक्षिणाब्धितटे देशे कोङ्कणेऽपि च जायते १९९
वर्णतः कपिलो यः स्यात्तथा भवति सारतः
ब्रह्मपुत्रः सविज्ञेयो जायते मलयाचले २००
ब्राह्मणः पाण्डुरस्तेषु क्षत्रियो लोहितप्रभः
वैश्यः पीतोऽसितः शूद्रो विष उक्तश्चतुर्विधः २०१
रसायने विषं विप्रं क्षत्रियं देहपुष्टये
वैश्यं कुष्ठविनाशाय शूद्रं दद्याद्वधाय हि २०२
विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च
आग्नेयं वातकफहृद्योगवाहि मदावहम् २०३
तदेव युक्तियुक्तं तु प्राणदायि रसायनम्
योगवाहि त्रिदोषघ्नं बृंहणं वीर्यवर्द्धनम् २०४
ये दुर्गुणा विषेऽशुद्धे ते स्युर्हीना विशोधनात्
तस्माद्विषं प्रयोगेषु शोधयित्वा प्रयोजयेत् २०५
अर्कक्षीरं स्नुहीक्षीरं लाङ्गली करवीरकः
गुञ्जाऽहिफेनो धत्तूरः सप्तोपविषजातयः २०६
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे अष्टमः धात्वादिवर्गः समाप्तः ८

धान्यवर्गः[सम्पाद्यताम्]

अथ नवमो धान्यवर्गः
शालिधान्यं व्रीहिधान्यं शूकधान्यं तृतीयकम्
शिम्बीधान्यं क्षुद्र धान्यमित्युक्तं धान्यपञ्चकम् १
शालयो रक्तशाल्याद्या व्रीहयः षष्टिकादयः
यवादिकं शूकधान्यं मुद्गाद्यंशिम्बिधान्यकम्
कङ्ग्वादिकं क्षुद्र धान्यं तृणधान्यञ्च तत्स्मृतम् २
कण्डनेन विना शुक्ला हैमन्ताः शालयः स्मृताः३
रक्तशालि सकलमः पाण्डुकः शकुनाहृतः
सुगन्धकः कर्दमको महाशालिश्च दूषकः ४
पुष्पाण्डकः पुण्डरीकस्तथा महिषमस्तकः
दीर्घशूकः काञ्चनको हायनो लोध्रपुष्पकः ५
इत्याद्याः शालयः सन्ति बहवो बहुदेशजाः
ग्रन्थविस्तरभीतेस्ते समस्ता नात्र भाषिताः ६
शालयो मधुरा स्निग्धा बल्या बद्धाल्पवर्चसः
कषाया लघवो रुच्याः स्वर्या वृष्याश्च बृंहणाः
अल्पानिलकफाः शीताः पित्तघ्ना मूत्रलास्तथा ७
शालयो दग्धमृज्जाताः कषाया लघुपाकिनः
सृष्टमूत्रपुरीषाश्च रूक्षाः श्लेष्मापकर्षणाः ८
कैदारा वातपित्तघ्ना गुरवः कफशुक्रलाः
कषायाश्चाल्पवर्चस्का मेध्याश्चैव बलावहाः ९
स्थलजाः स्वादवः पित्तकफघ्ना वातपित्तदाः
किञ्चित्तिक्ताः कषायाश्च विपाके कटुका अपि १०
वापिता मधुरा वृष्या बल्याः पित्तप्रणाशनाः
श्लेष्मलाश्चाल्पवर्चस्काः कषाया गुरवो हिमाः ११
वापितेभ्यो गुणैः किञ्चिद्धीनाः प्रोक्ता अवापिताः १२
रोपितास्तु नवा वृष्या पुराणा लघवः स्मृताः
तेभ्यस्तुरोपिता भूयः शीघ्रपाका गुणाधिकाः १३
छिन्नरूढा हिमा रूक्षा बल्याः पित्तकफापहाः
बद्धविट्काः कषायाश्च लघवश्चाल्पतिक्तकाः १४
रक्तशालिर्वरस्तेषु बल्यो वर्ण्यस्त्रिदोषजित्
चक्षुष्यो मूत्रलः स्वर्यः शुक्रलस्तृड्ज्वरापहः १५
विषव्रणश्वासकासदाहनुद् वह्निपुष्टिदः
तस्मादल्पान्तरगुणाः शालयो महदादयः १६
वार्षिकाः कण्डिताः शुक्ला व्रीहयश्चिरपाकिनः
कृष्णव्रीहिः पाटलश्च कुक्कुटाण्डक इत्यपि १७
शालामुखो जतुमुख इत्याद्या व्रीहयः स्मृताः
कृष्णब्रीहिः स विज्ञेयो यत्कृष्णतुषतण्डुलः १८
पाटलः पाटलापुष्पवर्णको ब्रीहिरुच्यते
कुक्कुटाण्डाकृतिव्रीहिः कुक्कुटाण्डक उच्यते १९
शालामुखः कृष्णशूकः कृष्णतण्डुल उच्यते
लाक्षावर्णं मुखं यस्य ज्ञेयो जतुमुखस्तु सः २०
व्रीहयः कथिताः पाके मधुरा वीर्यतो हिमाः
अल्पाभिष्यदिनो बद्धवर्चस्काः षष्टिकैः समाः
कृष्णव्रीहिर्वरस्तेषां तस्मादल्पगुणाः परे २१
गर्भस्था एव ये पाकं यान्ति ते षष्टिका मताः २२
षष्टिकः शतपुष्पश्च प्रमोदकमुकुन्दकौ
महाषष्टिक इत्याद्याः षष्टिकाः समुदाहृताः
एतेऽपि व्रीहयः प्रोक्ता व्रीहिलक्षणदर्शनात् २३
षष्टिका मधुरा शीता लघवो बद्धवर्चसः
वातपित्तप्रशमनाः शालिभिः सदृशा गुणैः २४
षष्टिका प्रवरा तेषां लघ्वी स्निग्धा त्रिदोषजित् २५
स्वाद्वी मृद्वी ग्राहिणी च बलदा ज्वरहारिणी
रक्तशालिगुणैस्तुल्या ततः स्वल्पगुणाः परे २६
यवस्तु सितशूकः स्यान्निःशूकोऽतियवः स्मृतः
तोक्यस्तद्वत्स हरितस्ततः स्वल्पश्च कीर्त्तितः २७
यवः कषायो मधुरः शीतलो लेखनो मृदुः
व्रणेषु तिलवत्पथ्यो रूक्षो मेधाऽग्निवर्धनः २८
कटुपाकोऽनभिष्यन्दी स्वर्यो बलकरो गुरुः
बहुवातमलो वर्णस्थैर्यकारी च पिच्छिलः २९
कण्ठत्वगामयश्लेष्मपित्तमेदःप्रणाशनः
पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत्
अस्मादतियवो न्यूनस्तोक्यो न्यूनतरस्ततः ३०
गोधूमः सुमनोऽपि स्यात्त्रिविधः स च कीर्त्तितः
महागोधूम इत्याख्यः पश्चाद्देशात्समागतः ३१
मधूली तु ततः किञ्चिदल्पा सा मध्यदेशजा
निः शूको दीर्घगोधूमः क्वचिन्नन्दीमुखाभिघः ३२
गोधूमः मधुरः शीतो वातपित्तहरो गुरुः
कफशुक्रप्रदो बल्यः स्निग्धः सन्धानकृत्सरः ३३
जीवनो बृंहणो वर्ण्यो व्रण्यो रुच्यः स्थिरत्वकृत् ३४
मधूली शीतला स्निग्धा पित्तघ्नी मधुरा लघुः
शुक्रला वृंहणी पथ्या तद्वन्नन्दीमुखः स्मृतः ३५
शमीजाः शिम्बिजाः शिम्बीभवाः सूप्याश्च वैदलाः ३६
वैदला मधुरा रूक्षाः कषायाः कटुपाकिनः
वातलाः कफपित्तघ्ना बद्धमूत्रमला हिमाः
ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारिणः ३७
मुद्गो रूक्षो लघुर्ग्राही कफपित्तहरो हिमः
स्वादुरल्पानिलो नेत्र्! यो ज्वरघ्नो वनजस्तथा ३८
मुद्गो बहुविधः श्यामो हरितः पीतकस्तथा
श्वेतो रक्तश्च तेषान्तु पूर्वः पूर्वो लघुः स्मृतः ३९
सुश्रुतेन पुनः प्रोक्तो हरितः प्रवरो गुणैः
चरकादिभिरप्युक्त एष एव गुणाधिकः ४०
माषो गुरुः स्वादुपाकः स्निग्धो रुच्योऽनिलापहः
स्रंसनस्तर्पणो बल्यः शुक्रलो वृंहणः परः ४१
भिन्नमूत्रमलः स्तन्यो मेदःपित्तकफप्रदः
गुदकीलार्दितश्वासपक्तिशूलानि नाशयेत् ४२
कफपित्तकरा माषाः कफपित्तकरं दधि
कफपित्तकरा मत्स्या वृन्ताकं कफपित्तकृत् ४३
राजमाषो महामाषश्चपलश्च बलः स्मृतः
राजमाषो गुरुः स्वादुस्तुवरस्तर्पणः सरः ४४
रूक्षो वातकरो रुच्यः स्तन्यो भूरिबलप्रदः
श्वेतो रक्तस्तथा कृष्णस्त्रिविधः स प्रकीर्त्तितः
यो महांस्तेषु भवति स एवोक्तो गुणाधिकः ४५
निष्पावो राजशिम्बिः स्याद्वल्लकः श्वेतशिम्बिकः
निष्पावो मधुरो रूक्षो विपाकेऽम्लो गुरुः सरः ४६
कषायः स्तन्यपित्तास्रमूत्रवातविबन्धकृत्
विदाह्युष्णो विषश्लेष्मशोथहृच्छुक्रनाशनः ४७
मकुष्ठो वनमुद्गः स्यान्मकुष्ठकमुकुष्ठकौ ४८
मकुष्ठो वातलो ग्राही कफपित्तहरो लघुः
वह्निजिन्मधुरः पाके कृमिकृज्ज्वरनाशनः ४९
मङ्गल्यको मसूरः स्यान्मङ्गल्या च मसूरिका
मसूरो मधुरः पाके संग्राही शीतलो लघुः
कफपित्तास्रजिद्रू क्षो वातलो ज्वरनाशनः ५०
आढकी तुवरी चापि सा प्रोक्ता शणपुष्पिका ५१
आढकी तुवरा रूक्षा मधुरा शीतला लघुः
ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित् ५२
चणको हरिमन्थः स्यात्सकलप्रिय इत्यपि
चणकः शीतलो रूक्षः पित्तरक्तकफापहः
लघुः कषायो विष्टम्भी वातलो ज्वरनाशनः ५३
स चाङ्गारेण सम्भृष्टस्तैलभृष्टश्च तद्गुणः
आर्द्र भृष्टो बलकरो रोचनश्च प्रकीर्त्तितः ५४
शुष्कभृष्टोऽतिरूक्षश्च वातकुष्ठप्रकोपणः
स्विन्नः पित्तकफौ हन्यात् सूपः क्षोभकरो मतः ५५
आद्रो र्!ऽतिकोमलो रुच्यः पित्तशुक्रहरो हिमः
कषायो वातलो ग्राही कफपित्तहरो लघुः ५६
कलायो वर्त्तुलः प्रोक्तः सतीनश्च हरेणुकः
कलायो मधुरः स्वादुः पाके रूक्षश्च शीतलः ५७
त्रिपुटः खण्डिकोऽपि स्यात्कथ्यन्ते तद्गुणा अथ
त्रिपुटो मधुरस्तिक्तस्तुवरो रूक्षणो भृशम् ५८
कफपित्तहरो रुच्यो ग्राहकः शीतलस्तथा
किन्तु खञ्जत्वपङ्गुत्वकारी वातातिकोपनः ५९
कुलत्थिका कुलत्थश्च कथ्यन्ते तद्गुणा अथ ६०
कुलत्थः कटुकः पाके कषायः पित्तरक्तकृत्
लघुर्विदाही वीर्योष्णः श्वासकासकफानिलान् ६१
हन्ति हिक्काऽश्मरीशुक्रदाहानाहान् सपीनसान्
स्वेदसंग्राहको मेदोज्वरकृमिहरः सरः ६२
तिलः कृष्णः सितो रक्तः स वन्योऽल्पतिलःस्मृतः
तिलो रसे कटुस्तिक्तो मधुरस्तुवरो गुरुः ६३
विपाके कटुकः स्वादुः स्निग्धोष्णः कफपित्तनुत्
बल्यः केश्यो हिमस्पर्शस्त्वच्यः स्तन्यो व्रणे हितः ६४
दन्त्योऽल्पमूत्रकृद् ग्राही वातघ्नोऽग्निमतिप्रदः
कृष्णः श्रेष्ठतमस्तेषु शुक्रलो मध्यमः सितः
अन्ये हीनतराः प्रोक्तास्तज्ज्ञै रक्तादयस्तिलाः ६५
अतसी नीलपुष्पी च पार्वती स्यादुमा क्षुमा ६६
अतसी मधुरा तिक्ता स्निग्धा पाके कटुर्गुरुः
उष्णा दृक्छुक्रवातघ्नी कफपित्तविनाशिनी ६७
तुवरी ग्राहिणी प्रोक्ता लघ्वी कफविषास्रजित्
तीक्ष्णोष्णा वह्निदा कण्डूकुष्ठकोष्ठकृमिप्रणुत् ६८
सर्षपः कटुकः स्नेहस्तुन्तुभश्च कदम्बकः
गौरस्तु सर्षपः प्राज्ञैः सिद्धार्थ इति कथ्यते ६९
सर्षपस्तु रसे पाके कटुः स्निग्धः सतिक्तकः
तीक्ष्णोष्णः कफवातघ्नो रक्तपित्ताग्निवर्धनः ७०
रक्षोहरो जयेत्कण्डूं कुष्ठकोष्ठकृमिग्रहान्
यथा रक्तस्तथा गौरः किन्तु गौरो वरो मतः ७१
राजीतु राजिका तीक्ष्णगन्धा क्षुज्जनिकाऽसुरी
क्षवः क्षुताभिजनकः कृष्णीका कृष्णसर्षपः ७२
राजिका कफपित्तघ्नी तीक्ष्णोष्णा रक्तपित्तकृत्
किञ्चित् रूक्षाऽग्निदा कण्डूकुष्ठकोष्ठकृमीन्हरेत्
अतितीक्ष्णा विशेषेण तद्वत्कृष्णाऽपि राजिका ७३
क्षुद्र धान्यं कुधान्यं च तृणधान्यमिति स्मृतम्
क्षुद्र धान्यमनुष्णं स्यात्कषायं लघु लेखनम् ७४
मधुरं कटुकं पाके रूक्षं च क्लेदशोषकम्
वातकृद् बद्धविट्कं च पित्तरक्तकफापहम् ७५
स्त्रियां कङ्गुप्रियङ्गु द्वे कृष्णारक्ता सिता तथा
पीता चतुर्विधा कङ्गुस्तासां पीता वरा स्मृता ७६
कङ्गुस्तु भग्नसन्धानवातकृद् बृंहणी गुरुः
रूक्षा श्लेष्महराऽतीव वाजिनां गुणकृद् भृशम् ७७
चीनाकः काककङ्गुश्च सुश्लक्ष्णः श्लक्ष्णकः स्मृतः
चीनाकः कङ्गुभेदोऽस्ति स ज्ञेयः कङ्गुवद् गुणैः ७८
श्यामाकः श्यामकः श्यामास्त्रिबीजः स्यादविप्रियः
सुकुमारो राजधान्यं तृणबीजोत्तमश्च सः
श्यामाकः शोषणो रूक्षो वातलः कफपित्तहृत् ७९
कोद्र वः कोरदूषः स्यादुद्दालो वनकोद्र वः
कोद्र वो वातलो ग्राही हिमः पित्तकफापहः
उद्दालस्तु भवेदुष्णो ग्राही वातकरो भृशम् ८०
चारुकः शरबीजः स्यात्कथ्यन्ते तद्गुणा अथ
चारुको मधुरो रूक्षो रक्तपित्तकफापहः
शीतलो लघुवृष्यश्च कषायो वातकोपनः ८१
यवा वंशभवा रूक्षाः कषायाः कटुपाकिनः
बद्धमूत्राः कफघ्नाश्च वातपित्तकराः सराः ८२
कुसुम्भबीजं वरटा सैव प्रोक्ता वरट्टिका ८३
वरटा मधुरा स्निग्धा रक्तपित्तकफापहा
कषाया शीतला गुर्वी स्यादवृष्याऽनिलापहा ८४
गवेधुका तु विद्वद्भिर्गवेधुः कथिता स्त्रियाम्
गवेधुः कटुका स्वाद्वी कार्श्यकृत्कफनाशिनी ८५
प्रसाधिका तु नीवारस्तृणान्नमिति च स्मृतम्
नीवारः शीतलो ग्राही पित्तघ्नः कफवातकृत् ८६
यावनालो हिमः स्वादुर्लोहितः श्लेष्मपित्तजित्
अवृष्यस्तुवरो रूक्षः क्लेदकृत्कथितो लघुः ८७
धान्यं सर्वं नवं स्वादु गुरु श्लेष्मकरं स्मृतम्
तत्तु वर्षोषितं पथ्यं यतो लघुतरं हि तत् ८८
वर्षोषितं सर्वधान्यं गौरवं परिमुञ्चति
न तु त्यजति वीर्यं स्वं क्रमान्मुञ्चत्यतः परम् ८९
एतेषु यवगोधूमतिलमाषा नवा हिताः
पुराणा विरसा रूक्षा न तथा गुणकारिणः ९०
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे नवमो धान्यवर्गः समाप्तः ९

शाकवर्गः[सम्पाद्यताम्]

अथ शाकवर्गः
पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा
शाकं षड्विधमुदृष्टं गुरुं विद्याद्यथोत्तरम् १
प्रायः शाकानि सर्वाणि विष्टम्भीनि गुरूणि च
रूक्षाणि बहुवर्चांसि सृष्टविण्मारुतानि च २
शाकं भिनत्ति वपुरस्थि निहन्ति नेत्रं वर्णं विनाशयति रक्तमथापि शुक्रम्
प्रज्ञाक्षयं च कुरुते पलितं च नूनं हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः३
शाकेषु सर्वेषु वसन्ति रोगास्ते हेतवो देहविनाशनाय
तस्माद् बुधः शाकविवर्जनं तु कुर्यात्तथाऽम्लेषु स एव दोषः ४
वास्तूकं वास्तुकं च स्यात्क्षारपत्रं च शाकराट्
तदेव तु बृहत्पत्रं रक्तं स्याद्गौडवास्तुकम् ५
प्रायशो यवमध्ये स्याद्यवशाकमतः स्मृतम्
वास्तूकद्वितयं स्वादु क्षारं पाके कटूदितम् ६
दीपनं पाचनं रुच्यं लघु शुक्रबलप्रदम्
सरं प्लीहास्रपित्तार्शः कृमिदोषत्रयापहम् ७
पोतक्युपोदिका सा तु मालवाऽमृतवल्लरी
पोतकी शीतला स्निग्धा श्लेष्मला वातपित्तनुत् ८
अकण्ठ्या पिच्छिला निद्रा शुक्रदा रक्त पित्तजित्
बलदा रुचिकृत्पथ्या बृंहणी तृप्तिकारिणी ९
मारिषो वाष्पको मार्ष श्वेतो रक्तश्च संस्मृतः
मारिषो मधुरः शीतो विष्टम्भी पित्तनुद् गुरुः १०
वातश्लेष्मकरो रक्तपित्तनुद् विषमाग्निजित्
रक्तमार्षो गुरुर्नाति सक्षारो मधुरः सरः
श्लेष्मलः कटुकः पाके स्वल्पदोष उदीरितः ११
तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः
भण्डीरस्तण्डुलीबीजो विषघ्नश्चाल्पमारिषः १२
तण्डुलीयो लघुः शीतो रूक्षः पित्तकफास्रजित्
सृष्टमूत्रमलो रुच्यो दीपनो विषहारकः १३
पानीयतण्डुलीयं तु कञ्चटं समुदाहृतम्
कञ्चटं तिक्तकं रक्तपित्तानिलहरं लघु १४
पलक्या वास्तुकाकारा छुरिका चीरितच्छदा १५
पलक्या वातला शीता श्मेष्मला भेदिनी गुरुः
विष्टम्भिनी मदश्वासपित्तरक्तकफापहा १६
नाडिकं कालशाकं च श्राद्धशाकं च कालकम्
कालशाकं सरं रुच्यं वातकृत्कफशोथहृत्
बल्यं रुचिकरं मेध्यं रक्तपित्तहरं हिमम् १७
पट्टशाकस्तु नाडीको नाडीशाकश्च स स्मृतः
नाडीको रक्तपित्तघ्नो विष्टम्भो वातकोपनः १८
कलम्बी शतपर्वी च कथ्यन्ते तद्गुणा अथ
कलम्बी स्तन्यदा प्रोक्ता मधुरा शुक्रकारिणी १९
लोणालोणी च कथिता वृहल्लोणी तु घोटिका
लोणी रूक्षा स्मृता गुर्वी वातश्लेष्महरी पटुः २०
अर्शोघ्नी दीपनी चाम्ला मन्दाग्निविषनाशिनी
घोटिकाऽम्ला सराचोष्णा वातकृत्कफपित्तहृत् २१
वाग्दोषव्रणगुल्मघ्नी श्वासकासप्रमेहनुत्
शोथे लोचनरोगे च हिता तज्ज्ञैरुदाहृता २२
चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाऽम्ललोणिका
अश्मन्तकस्तु शफरी कुशली चाम्लपत्रकः २३
चाङ्गेरी दीपनी रुच्या रुक्षोष्णा कफवातनुत्
पित्तलाऽम्ला ग्रहण्यर्शः कुष्ठातीसारनाशिनी २४
चुक्रिका स्यात्तु पत्राम्ला रोचनी शतवेधिनी २५
चुक्रा त्वम्लतरा स्वाद्वी वातघ्नी कफपित्तकृत्
रुच्या लघुतरा पाके वृन्ताकेनातिरोचनी २६
चिञ्चा चञ्चुश्चञ्चुकी च दीर्घपत्रा सतिक्तका
चञ्चुः शीता सरा रुच्या स्वाद्वी दोषत्रयापहा
धातुपुष्टिकरी बल्या मेध्या पिच्छिलका स्मृता २७
ब्राह्मी शङ्खधराऽचारी मत्स्याक्षी हिलमोचिका
शोथं कुष्ठं कफं पित्तं हरते हिलमोचिका २८
शितिवारः शितिवरः स्वस्तिकः सुनिषण्णकः
श्रीवारकः सूचिपत्रः पर्णकः कुक्कुटः शिखी २९
चाङ्गेरीसदृशः पत्रैश्चतुर्दल इतीरितः
शाको जलान्विते देशे चतुष्पत्रीति चोच्यते ३०
सुनिषण्णो हिमो ग्राही मेदोदोषत्रयापहः ३१
अविदाही लघुः स्वादुः कषायो रूक्षदीपनः
वृष्यो रुच्योज्वरश्वासमेहकुष्ठभ्रम प्रणुत् ३२
पाचनं लघु रुच्योष्णं पत्रं मूलकजं नवम्
स्नेहसिद्धं त्रिदोषघ्नमसिद्धं कफपित्तकृत् ३३
द्रो णपुष्पीदलं स्वादु रूक्षं गुरु च पित्तकृत्
भेदनं कामलाशोथमेहज्वरहरं कटु ३४
यवानीशाकमाग्नेयं रुच्यं वातकफप्रणुत्
उष्णं कटु च तिक्तं च पित्तलं लघु शूलहृत् ३५
दद्रुघ्नपत्रं दोषघ्नमम्लं वातकफापहम्
कण्डूकासक्रिमिश्वासदद्रुकुष्ठप्रणुल्लघु ३६
सेहुण्डस्य दलं तीक्ष्णं दीपनं रेचनं हरेत्
आध्मानाष्ठीलिकागुल्मशूलशोथोदराणि च ३७
पर्पटो हन्ति पित्तास्रज्वरतृष्णाकफभ्रमान्
संग्राही शीतलस्तिक्तो दाहनुद्वातलो लघुः ३८
गोजिह्वा कुष्ठमेहास्रकृच्छ्रज्वरहरी लघुः ३९
पटोलपत्रं पित्तघ्नं दीपनं पाचनं लघु
स्निग्धं वृष्यं तथोष्णं च ज्वरकासक्रिमिप्रणुत् ४०
गुडूचीपत्रमाग्नेयं सर्वज्वरहरं लघु
कषायं कटुतित्तं च स्वादुपाकं रसायनम् ४१
बल्यमुष्णं च संग्राहि हन्याद्दोषत्रयं तृषाम्
दाहप्रमेहवातासृक्कामलाकुष्ठपाण्डुताः ४२
कासमर्दोऽरिमर्दश्च कासारिः कर्कशस्तथा
कासमर्ददलं रुच्यं वृष्यं कासविषास्रनुत् ४३
मधुरं कफवातघ्नं पाचनं कण्ठशोधनम्
विशेषतः कासहरं पित्तघ्नं ग्राहकं लघु ४४
रुच्यं चणकशाकं स्याद् दुर्जरं कफवातकृत्
अम्लं विष्टम्भजनकं पित्तनुदृन्तशोथहृत् ४५
कलायशाकं भेदि स्याल्लघु तिक्तं त्रिदोषजित् ४६
कटुकं सार्षपं शाकं बहुमूत्रमलं गुरु
अम्लपाकं विदाहि स्यादुष्णं रूक्षं त्रिदोषकृत्
सक्षारलवणं तीक्ष्णं स्वादु शाकेषु निन्दितम् ४७
अगस्तिकुसुमं शीतं चातुर्थिकनिवारणम्
नक्तान्ध्यनाशनं तिक्तं कषायं कटुपाकि च
पीनसश्लेष्मपित्तघ्नं वातघ्नं मुनिभिर्मतम् ४८
कदल्याः कुसुमं स्निग्धं मधुरं तुवरं गुरु
वातपित्तहरं शीतं रक्तपित्तक्षयप्रणुत् ४९
शिग्रोः पुष्पं तु कटुकं तीक्ष्णोष्णं स्नायुशोथनुत्
कृमिहृत्कफवातघ्नं विद्र धिप्लीहगुल्मजित्
मधु शिग्रोस्त्वक्षिहितं रक्तपित्तप्रसादनम् ५०
शाल्मलीपुष्पशाकं तु घृतसैन्धवसाधितम्
प्रदरं नाशयत्येव दुःसाध्यं च न संशयः ५१
रसे पाके च मधुरं कषायं शीतलं गुरु
कफपित्तास्रजिद् ग्राहि वातलं च प्रकीर्त्तितम् ५२
इति पुष्पशाकानि
अथ फलशाकानि
कूष्माडं स्यात्पुष्पफलं पीतपुष्पं बृहत्फलम् ५३
कूष्माण्डं बृंहणं वृष्यं गुरु पित्तास्रवातनुत्
बालं पित्तापहं शीतं मध्यमं कफकारकम् ५४
बृद्धंनातिहिमं स्वादु सक्षारं दीपनं लघु
बस्तिशुद्धिकरं चेतोरोगहृत्सर्वदोषजित् ५५
कूष्माण्डी तु भृशं लघ्वी कर्कारुरपि कीर्त्तिता
कर्कारुग्राहिणी शीता रक्तपित्तहरा गुरुः
पक्वा तिक्ताऽग्निजननी सक्षारा कफवातनुत् ५६
अलाबूः कथिता तुम्बी द्विधा दीर्घा च वर्तुला ५७
मिष्टतुम्बीफलं हृद्यं पित्तश्लेष्मापहं गुरु
वृष्यं रुचिकरं प्रोक्तं धातु पुष्टिविवर्धनम् ५८
इक्ष्वाकुः कटुतुम्बी स्यात्सा तूम्बी च महाफला
कटुतुम्बी हिमा हृद्या पित्तकासविषापहा
तिक्ता कटुर्विपाके च वातपित्तज्वरान्तकृत् ५९
एर्वारुः कर्कटी प्रोक्ता कथ्यन्ते तद्गुणा अथ ६०
कर्कटी शीतला रूक्षा ग्राहिणी मधुरा गुरुः
रुच्या पित्तहरा सामा पक्वा तृष्णाऽग्निपित्तकृत् ६१
चिचिण्डः श्वेतराजिः स्यात्सुदीर्घो गृहकूलकः
चिचिण्डो वातपित्तघ्नो बल्यः पथ्यो रुचिप्रदः
शोषणोऽतिहितः किञ्चिद् गुणैर्न्यूनः पटोलतः ६२
कारवेल्लं कटिल्लं स्यात्कारवेल्ली ततोलघुः
कारवेल्लं हिमं भेदि लघुतिक्तमवातलम् ६३
ज्वरपित्तकफास्रघ्नं पाण्डुमेहकृमीन् हरेत्
तद्गुणा कारवेल्ली स्याद्विशेषाद्दीपनी लघुः ६४
महाकोशातकी प्रोक्ता हस्तिघोषा महाफला ६५
धामार्गवो घोषकश्च हस्तिपर्णश्च स स्मृतः
महाकोशातकीस्निग्धा रक्तपित्तानिलापहा ६६
धामार्गवः पीतपुष्पो जालिनी कृतवेधना
राजकोशातकी चेति तथोक्ता राजिमत्फला ६७
राजकोशातकी शीता मधुरा कफवातकृत्
पितघ्नी दीपनी श्वासज्वरकासकृमिप्रणुत् ६८
पटोलः कुलकस्तिक्तः पाण्डुकः कर्कशच्छदः
राजीफलः पाण्डुफलो राजेयश्चामृतफलः ६९
बीजगर्भः प्रतीकश्च कुष्ठहा कासभञ्जनः
पटोलं पाचनं हृद्यं वृष्यं लघ्वग्निदीपनम्
स्निग्धोष्णं हन्ति कासास्रज्वरदोषत्रयक्रिमीन् ७०
पटोलस्य भवेन्मूलं विरेचनकरं सुखात् ७१
नालं श्लेष्महरं पत्रं पित्तहारी फलं पुनः
दोषत्रयहरं प्रोक्तं तद्वतिक्ता पटोलिका ७२
बिम्बी रक्तफला तुण्डी तुण्डीकेरी च बिम्बिका
ओष्ठोपमफला प्रोक्ता पीलुपर्णी च कथ्यते ७३
बिम्बीफलं स्वादु शीतं गुरु पित्तास्रवातजित्
स्तभनं लेखनं रुच्यं विबन्धाध्मानकारकम् ७४
शिम्बिः शिम्बी पुस्तशिम्बी तथा पुस्तकशिम्बिका
शिम्बीद्वयं च मधुरं रसे पाके हिमं गुरु
बल्यं दाहकरं प्रोक्तं श्लेष्मलं वातपित्तजित् ७५
कोलशिम्बिः कृष्णफला तथा पर्यङ्कपट्टिका ७६
कोलशिम्बिः समीरघ्नी गुर्व्युष्णा कफपित्तकृत्
शुक्राग्निसादकृत् वृष्या रुचिकृद् बद्धविड् गुरुः ७७
शोभाञ्जनफलं स्वादु कषायं कफपित्तनुत्
शूलकुष्ठक्षयश्वासगुल्महृद् दीपनं परम् ७८
वृन्ताकं स्त्री तु वार्त्ताकुर्भण्टाकी भाण्टिकाऽपि च
वृन्ताकं स्वादु तीक्ष्णोष्णं कटुपाकमपित्तलम्
ज्वरवातबलासघ्नं दीपनं शुक्रलं लघु ७९
तद्बालं कफपित्तघ्नं वृद्धं पित्तकरं गुरु ८०
वृन्ताकं पित्तलं किञ्चिदङ्गारपरिपाचितम्
कफमेदोऽनिलामघ्नमत्यर्थं लघु दीपनम् ८१
तदेव हि गुरु स्निग्धं सतैलं लवणान्वितम्
अपरं श्वेतवृन्ताकं कुक्कुटाण्डसमं भवेत्
तदर्शःसु विशेषेण हितं हीनं च पूर्वतः ८२
डिण्डिशो रोमशफलो मुनिनिर्मित इत्यपि ८३
डिण्डिशो रुचिकृद्भेदी पित्तश्लेष्मापहः स्मृतः
सुशीतो वातलो रूक्षो मूत्रलश्चाश्मरीहरः ८४
पिण्डारं शीतलं बल्यं पित्तघ्नंरुचिकारकम्
पाके लघु विशेषेण विषशान्तिकरं स्मृतम् ८५
कर्कोटकी पीतपुष्पा महाजालीति चोच्यते
कर्कोटी मलहृत्कुष्ठहृल्लासारुचिनाशिनी
श्वासकासज्वरान्हन्ति कटुपाका च दीपनी ८६
डोडिका विषमुष्टिश्च डोडित्यपि सुमुष्टिका ८७
डोडिका पुष्टिदा वृष्या रुच्या वह्निप्रदा लघुः
हन्ति पित्तकफार्शांसि कृमिगुल्मविषामयान् ८८
कण्टकारीफलं तिक्तं कटुकं दीपनं लघु
रूक्षोष्णं श्वासकासघ्नं ज्वरानिलकफापहम् ८९
इति फल शाकानि
तीक्ष्णोष्णं सार्षपं नालं वातश्लेष्मव्रणापहम्
कण्डूकृमिहरं दद्रुकुष्ठघ्नं रुचिकारकम् ९०
इति नालशाकानि
अथ कन्दशाकानि
सूरणः कन्द ओलश्च कन्दलोऽशोघ्न इत्यपि
सूरणो दीपनो रूक्षः कषायः कण्डुकृत् कटुः ९१
विष्टम्भी विशदो रुच्यः कफार्शः कृन्तनो लघुः
विशेषादर्शसे पथ्यः प्लीहगुल्मविनाशनः ९२
सर्वेषां कन्दशाकानां सूरणः श्रेष्ठ उच्यते
दद्रू णां कुष्ठिनां रक्तपित्तिनां न हितो हि सः
सन्धानयोगं सम्प्राप्तः सूरणो गुणवत्तरः ९३
आरूकं वीरसेनञ्च वीरं वीरारुकं तथा
आरुकमप्यालुकं तत्कथितं वीरसेनकम् ९४
काष्ठालुकशङ्खालुकहस्त्यालुकानि कथ्यन्ते
पिण्डालुकमघ्वालुक रक्तालुकानि चोक्तानि ९५
आलुकं शीतलं सर्वं विष्टम्भि मधुरं गुरु ९६
सृष्टमूत्रमलं रूक्षं दुर्जरं रक्तपित्तनुत्
कफानिलकरं बल्यं वृष्यं स्वल्पाग्निवर्द्धनम् ९७
रक्तालुभेदो या दीर्घा तन्वी च प्रथिताऽलुकी
आलुकी बलकृत्स्निग्धा गुर्वी हृत्कफनाशिनी
विष्टम्भकारिणी तैले तलिताऽतिरुचिप्रदा ९८
मूलकं द्विविधं प्रोक्तं तत्रैकं लघुमूलकम्
शालामर्कटकं विस्रं शालेयं मरुसम्भवम् ९९
चाणक्यमूलकं तीक्ष्णं तथा मूलकपोतिका
नेपालमूलकं चान्यत्तद्भवेद्गजदन्तवत् १००
लघुमूलं कटूष्णं स्याद्रुच्यं लघु च पाचनम्
दोषत्रयहरं स्वर्यं ज्वरश्वासविनाशनम् १०१
नासिकाकण्ठरोगघ्नं नयनामयनाशनम् १०२
महत्तदेव रूक्षोष्णं गुरु दोषत्रयप्रदस्
स्नेहसिद्धं तदेव स्याद् दोषत्रयविनाशनम् १०३
गृञ्जनं गाजरं प्रोक्तं तथा नारङ्गवर्णकम्
गाजरं मधुरं तीक्ष्णं तिक्तोष्णं दीपनं लघु
संग्राहि रक्तपित्तार्शोग्रहणीकफवातजित् १०४
शीतलः कदलीकन्दो बल्यः केश्योऽम्लपित्तजित्
वह्निकृद्दाहहारी च मधुरो रुचिकारकः १०५
मानकः स्यान्महापत्रः कथ्यन्ते तद्गुणा अथ
मानकः शोथहृच्छीतो रक्तपित्तहरो लघुः १०६
वाराही पित्तला बल्या कट्वी तिक्ता रसायनी
आयुःशुक्राग्निकृन्मेहकफकुष्ठानिलापहा १०७
गजकर्णा तु तिक्तोष्णा तथा वातकफाञ्जयेत्
शीतज्वरहरी स्वादुः पाके तस्यास्तु कन्दकः १०८
पाण्डुशोथकृमिप्लीहगुल्मानाहोदरापहः
ग्रहण्यर्शोविकारघ्नी वनसूरणकन्दवत् १०९
केमुकं कटुकं पाके तिक्तं ग्राहि हिमं लघु ११०
दीपनं पाचनं हृद्यं कफपित्तज्वरापहम्
कुष्ठकासप्रमेहास्रनाशनं वातलं कटु १११
कसेरु द्विविधं तत्तु महद्रा जकसेरुकम्
मुस्ताकृति लघु स्याद्यत्तच्चिचोढमिति स्मृतम् ११२
कसेरुकद्वयं शीतं मधुरं तुवरं गुरु
पित्तशोणितदाहघ्नं नयनामयनाशनम्
ग्राहि शुक्रानिलश्लेष्मारुचिस्तन्यकरं स्मृतम् ११३
पद्मादिकन्दः शालूकं करहाटश्च कथ्यते ११४
मृणालमूलं भिस्साण्डं जलालूकञ्च कथ्यते
शालूकं शीतलं वृष्यं पित्तदाहास्रनुद् गुरु ११५
दुर्जरं स्वादुपाकश्च स्तन्यानिलकफप्रदम्
संग्राहि मधुरं रूक्षं भिस्साण्डमपि तद्गुणम् ११६
बालं ह्यनार्त्तवं जीर्णं व्याधितं कृमिभक्षितम्
कन्दं विवर्जयेत्सर्वं यद्वाऽग्न्यादिविदूषितम्
अतिजीर्णमकालोत्थं रूक्षसिद्धमदेशजम् ११७
कर्कशं कोमलं चातिशीतव्यालादिदूषितम्
संशुष्कं सकलं शाकं नाश्नीयान्मूलकं विना ११८
इति कन्द शाकानि
उक्तं संस्वेदजं शाकं भूमिच्छत्रं शिलीन्ध्रकम्
क्षितिगोमयकाष्ठेषु वृक्षादिषु तदुद्भवेत् ११९
सर्वे संस्वेदजाः शीता दोषलाः पिच्छिलाश्च ते
गुरवश्छर्द्यतीसारज्वरश्लेष्मामयप्रदाः १२०
श्वेताशुचिस्थलीकाष्ठवंशगोमयसम्भवाः
नातिदोषकरास्ते स्युः शेषास्तेभ्यो विगर्हिताः १२१
इति श्रीलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिस्रप्रकरणे दशमः शाकवर्गं समाप्तः १०

मांसवर्गः[सम्पाद्यताम्]

अथैकादशो मांसवर्गः
मासं तु पिशितं क्रव्यमामिषं पललं पलम्
मांसं वातहरं सर्वं बृंहणं बलपुष्टिकृत्
प्रीणनं गुरु हृद्यञ्च मधुरं रसपाकयोः १
मांसवर्गो द्विधा ज्ञेयो जाङ्गलानूपभेदतः २
मांसवर्गेऽत्र जङ्घाला बिलस्थाश्च गुहाशयाः
तथा पर्णमृगा ज्ञेया विष्किराः प्रतुदस्तथा ३
प्रसहा अथ च ग्राम्या अष्टौ जाङ्गलजातयः
जाङ्गला मधुरा रूक्षास्तुवरा लघवस्तथा ४
बल्यास्ते बृंहणं वृष्या दीपना दोषहारिणः
मूकतां मिन्मिनत्वं च गद्गदत्वार्दिते तथा ५
बाधिर्य्यमरुचिच्छर्दिप्रमेहमुखजान् गदान्
श्लीपदं गलगण्डञ्च नाशयत्यनिलामयान् ६
कूलेचराः प्लवाश्चापि कोशस्थाः पादिनस्तथा
मत्स्या एते समाख्याताः पञ्चधाऽनूपजातयः ७
अनूपा मधुराः स्निग्धा गुरवो वह्निसादनाः
श्लेष्मलाः पिच्छिलाश्चापि मांसपुष्टिप्रदा भृशम्
तथाऽभिष्यन्दिनस्ते हि प्रायः पथ्यतमाः स्मृताः ८
हरिणैणकुरङ्गर्ष्यपृषतन्यङ्कुशम्बराः ९
राजीवोऽपि च मुण्डी चेत्याद्या जङ्घालसंज्ञकाः
हरिणस्ताम्रवर्णः स्यादेणः कृष्णः प्रकीर्त्तितः १०
कुरङ्गईषत्ताम्रः स्यादेणतुल्याकृतिर्महान्
ऋष्यो नीलाङ्गको लोके स रोझ इति कीर्त्तितः ११
पृषतश्चन्द्र बिन्दुः स्याद्धरिणात्किञ्चिदल्पकः
न्यङ्कुर्बहुविषाणोऽथ शम्बरो गवयो महान् १२
राजीवस्तु मृगो ज्ञेयो राजिभिः परितोवृतः
यो मृगः शृङ्गहीनः स्यात्स मुण्डीति निगद्यते १३
जङ्घालाः प्रायशः सर्वे पित्तश्लेष्महराः स्मृतः
किञ्चिद्वातकराश्चापि लघवो बलवर्द्धनाः १४
गोधाशशभुजङ्गाखुशल्लक्याद्या बिलेशयाः
बिलेशया वातहरा मधुरा रसपाकयोः
बृंहणा बद्धविण्मूत्रा वीर्योष्णाश्च प्रकीर्त्तिताः १५
सिंहव्याघ्रवृका ॠक्षतरक्षुद्वीपिनस्तथा
बभ्रुजम्बूकमार्जारा इत्याद्याः स्युर्गुहाशयाः १६
गुहाशया वातहरा गुरूष्णा मधुराश्च ते
स्निग्धा बल्या हिता नित्यं नेत्र गुद विकारिणाम् १७
अथ पर्णमृगाः तेषां गणनां (वृक्ष पर चढने वाले प्राणी)
वनौका वृक्षमार्जारो वृक्षमर्कटिकाऽदयः
एते पर्णमृगाः प्रोक्ताः सुश्रुताद्यैर्महर्षिभिः १८
स्मृताः पर्ण मृगा वृष्याश्चक्षुष्या शोषिणे हिताः
श्वासार्शः कास शमनाः सृष्ट मूत्र पुरीषकाः १९
वर्त्तका लाववर्त्तीरकपिञ्जलकतित्तिराः
कुलिङ्गकुक्कुटाद्याश्च विष्किरा समुदाहृताः २०
विकीर्य भक्षयन्त्येते यस्मात्तस्माद्धि विष्किराः
कपिञ्जल इति प्राज्ञैः कथितो गौरतित्तिरिः २१
विष्किरा मधुराः शीताः कषायाः कटुपाकिनः
बल्या वृष्यास्रिदोषघ्नाः पथ्यास्ते लघवः स्मृताः २२
कालकण्ठकहारीतकपोतशतपत्रकाः
पारावतः खञ्जरीटः पिकाद्याः प्रतुदाः स्मृताः
प्रतुद्य भक्षयन्त्येते तुण्डेन प्रतुदास्ततः २३
प्रतुदा मधुराः पित्तकफघ्नास्तुवरा हिमाः
लघवो बद्धवर्चस्काः किञ्चिद्वातकराःस्मृताः २४
काको गृध्र उलूकश्च चिल्लश्च शशघातकः
चाषो भासश्च कुरर इत्याद्याः प्रसहाः स्मृताः २५
प्रसहाः कीर्त्तिता एते प्रसह्याच्छिद्य भक्षणात् २६
प्रसहाः खलु वीर्योष्णास्तन्मांसं भक्षयन्ति ये
ते शोषभस्मकोन्मादशुक्रक्षीणा भवन्ति हि २७
छागमेषवृषाश्वाद्या ग्राम्याः प्रोक्ता महर्षिभिः
ग्राम्या वातहराः सर्वे दीपनाः कफपित्तलाः
मधुरा रसपाकाभ्यां बृंहणा बलवर्द्धनाः २८
लुलायगण्डवाराहचमरीवारणादयः
एते कूलेचराः प्रोक्ता यतः कूले चरन्त्यपाम् २९
कूलेचरा मरुत्पित्तहरा वृष्या बलावहाः
मधुराः शीतलाः स्निग्धामूत्रलाः श्लेष्म वर्धना ३०
हंससारसकारण्डबकक्रौञ्चशरारिकाः ३१
नन्दीमुखी सकादम्बा बलाकाद्याः प्लवाः स्मृताः
प्लवन्ति सलिले यस्मादेते तस्मात्प्लवाः स्मृताः ३२
प्लवाः पित्तहराः स्निग्धा मधुरा गुखो हिमाः
वात श्लेष्म प्रदाश्चापि बल शुक्र कराः सराः ३३
शङ्खः शङ्खनखश्चापिशुक्तिशम्बूककर्कटाः
जीवा एवंविधाश्चान्येकोशस्थाः परिकीर्त्तिताः ३४
कोशस्था मधुराःस्निग्धा वातपित्तहरा हिमाः
बृंहणा बहुवर्चस्का वृष्याश्च बलवर्द्धनाः ३५
कुम्भीरकूर्मनक्राश्च गोधामकरशङ्कव
घण्टिकः शिशुमारश्चेत्यादयः पादिनः स्मृताः ३६
पादनोऽपि च ये तेतु कोशस्थानां गुणैः समाः ३७
मत्स्यो मीनो विसारश्च झषो वैसारिणोऽण्डजः
शकुली पृथुरोमा च स सुदर्शन इत्यपि ३८
रोहिताद्यास्तु ये जीवास्ते मत्स्याः परिकीर्त्तिताः
मत्स्याः स्निग्धोष्णमधुरा गुरवः कफपित्तलाः ३९
वातघ्ना बृंहणा वृष्या रोचका बलवर्द्धनाः
मद्यव्यवायसक्तानां दीप्ताग्नीनाञ्च पूजिताः ४०
हरिणः शीतलो बद्धविण्मूत्रो दीपनो लघुः
रसे पाके च मधुरः सुगन्धिः सन्निपातहा ४१
एणः कषायो मधुरः पित्तासृक्कफवातहृत्
संग्राही रोचनो बल्यो ज्वरप्रशमनः स्मृतः ४२
कुरङ्गो बृंहणो बल्यः शीतलः पित्तहृद् गुरुः
मधुरो वातहृद् ग्राही किञ्चित्कफकरः स्मृतः ४३
ऋष्यो नीलाण्डकश्चापि गवयो रोझ इत्यपि
गवयो मधुरो बल्यः स्निग्धोष्णः कफपित्तलः ४४
पृषतस्तु भवेत्स्वादुर्ग्राहकः शीतलो लघुः
दीपनो रोचनः श्वासज्वरदोषत्रयास्रजित् ४५
न्यङ्कुः स्वादुर्लघुर्बल्यो वृष्यो दोषत्रयापहः ४६
साबरं पललं स्निग्धं शीतलं गुरु च स्मृतम्
रसे पाके च मधुरं कफदं रक्तपित्तहृत् ४७
राजीवस्तु गुणैर्ज्ञेयः पृषतेन समो जनैः ४८
मुण्डी तु ज्वरकासास्रक्षयश्वासापहो हिमः ४९
लम्बकर्णः शशः शूली लोमकर्णो बिलेशयः
शशः शीतो लघुर्ग्राही रूक्षः स्वादुः सदा हितः
वह्निकृत्कफपित्तघ्नो वातसाधारणः स्मृतः
ज्वरातीसारशोषास्रश्वासामयहरश्च सः ५०
सेधा तु शल्यकः श्वावित्कथ्यन्ते तद्गुणा अथ
शल्यकः श्वासकासास्रशोषदोषत्रयापहः ५१
पक्षी खगो विहङ्गश्च विहगश्च विहङ्गमः
शकुनिर्विः पतत्री च विष्किरो विकिरोऽण्डजः
धान्याङ्कुरचरा येऽत्र तेषां मांसं लघूत्तमम्
आनूपं बलकृन्मांसं स्निग्धं गुरुतरं स्मृतम् ५२
वर्तीको वर्त्तकश्चित्रस्ततोऽन्या वर्त्तका स्मृता
वर्त्तकोऽग्निकरः शीतो ज्वरदोषत्रयापहः
सुरुच्यः शुक्रदो बल्यो वर्त्तकाऽल्पगुणा ततः ५३
लावा विष्करवर्गेषु ते चतुर्धा मता बुधैः ५४
पांशुलोगौरकोऽन्यस्तु पौण्ड्रको दर्भरस्तथा
लावा वह्निकराः स्निग्धा गरघ्ना ग्राहका हिताः ५५
पांशुलः श्लेष्मलस्तेषु वीर्योऽष्णोनिलनाशनः
गौरोलघुतरो रूक्षो वह्निकारी त्रिदोषजित् ५६
पौण्ड्रकः पित्तकृत्किञ्चिल्लघुर्वातकफापहः
दर्भरो रक्तपित्तघ्नो हृदामयहरो हिमः ५७
वर्त्तीको वर्त्तिचटको वार्त्तीकश्चैव स स्मृतः
वर्त्तीको मधुरः शीतो रूक्षश्च कफपित्तनुत् ५८
तित्तिरिः कृष्णवर्णः स्यात्स तु गौरः कपिञ्जलः
तित्तिरिर्बलदो ग्राही हिक्कादोषत्रयापहः
श्वासकासज्वरहरस्तस्माद्गौरोऽधिको गुणैः ५९
चटकः कलविङ्कः स्यात्कुलिङ्गः कालकण्ठकः ६०
कुलिङ्गः शीतलः स्निग्धः स्वादुः शुक्रकफप्रदः
सन्निपातहरो वेश्मचटकश्चातिशुक्रलः ६१
कुक्कुटः कृकवाकुः स्यात्कालज्ञश्चरणायुधः
ताम्रचूडस्तथा दक्षो यामनादी शिखण्डिकः ६२
कुक्कुटो बृंहणः स्निग्धो वीर्योष्णोऽनिलहृद् गुरुः
चक्षुष्यः शुक्रकफकृद् बल्यो वृष्यः कषायकः ६३
आरण्यकुक्कुटः स्निग्धो बृंहणः श्लेष्मलो गुरुः
वातपित्तक्षयवमिविषमज्वरनाशनः ६४
हारीतो रक्तपीतः स्याद्धरितोऽपि स कथ्यते
हारीतो रूक्ष उष्णश्च रक्तपित्तकफापहः
स्वेदस्वरकरः प्रोक्तः ईषद्वातकरश्च सः ६५
पाण्डुस्तु द्विविधो ज्ञेयश्चित्रपक्षः कलध्वनिः ६६
द्वितीयो धवलः प्रोक्तः स कपोतः स्फुटध्वनिः
चित्रपक्षः कफहरो वातघ्नो ग्रहणीप्रणुत् ६७
धवलः पाण्डुरुद्दिष्टो रक्तपित्तहरो हिमः
रसे पाके च मधुरः संग्राही वातशान्तिकृत् ६८
मयूरश्चन्द्र की केकी मेघरावो भुजङ्गभुक्
शिखी शिखावलो बर्ही शिखण्डी नीलकण्ठकः ६९
शुक्लापाङ्गः कलापी च मेघनादानुलास्यपि
रसे पाके च मधुरः संग्राही वातशान्तिकृत् ७०
पारावतः कलरवः कपोतो रक्तलोचनः
पारावतो गुरुः स्निग्धो रक्तपित्तानिलापहः
संग्राही शीतलस्तज्ज्ञैः कथितो वीर्यवर्द्धनः ७१
नातिस्निग्धानि वृष्याणि स्वादुपाकरसानि च
वातघ्नान्यतिशुक्राणि गुरूण्यण्डानि पक्षिणाम् ७२
छागलो बर्करश्छागो बस्तोऽजश्छेलकः स्तुभः ७३
अजा छागी स्तुभा चापि छेलिका च गलस्तनी
छागमांसं लघु स्निग्धं स्वादुपाकं त्रिदोषनुत् ७४
नातिशीतमदाहि स्यात्स्वादु पीनसनाशनम्
परं बलकरं रुच्यं बृहणं वीर्यवर्द्धनम् ७५
अजायास्त्वप्रसूताया मांसं पीनसनाशनम्
शुष्ककासेऽरुचौ शोषे हितमग्नेश्च दीपनम् ७६
अजासुतस्य बालस्य मांसं लघुतरं स्मृतम्
हृद्यं ज्वरहरं श्रेष्ठं सुखदं बलदं भृशम् ७७
मासंनिष्कासिताण्डस्य छागस्य कफकृद् गुरु
स्रोतःशुद्धिकरं बल्यं मांसदं वातपित्तनुत् ७८
वृद्धस्य वातलं रूक्षं तथा व्याधिमृतस्य च
ऊर्ध्वजत्रुविकारघ्नं छागमुण्डं रुचिप्रदम् ७९
अथ मेषः मिए!ढाइ! तस्य नामान्यण्डविहीनस्य तस्य च
मेढ्रो मेढो हुडो मेष उरणोऽप्येडकोऽपि च
अविर्वृष्णिस्तथोर्णायुः कथ्यन्ते तद्गुणा अथ ८०
मेषस्य मांसं पुष्टौ स्यात्पित्तश्लेष्मकरं गुरु
तस्यैवाण्डविहीनस्य मांसं किञ्चिल्लघु स्मृतम् ८१
अथैडकः दिउ!म्बा मेढाइ! तस्य नामानि तद्भेदस्य च
एडकः पृथुशृङ्गः स्यान्मेदः पुच्छस्तु दुम्बकः
एडकस्य पलं ज्ञेयं मेषामिषसमं गुणैः ८२
मेदः पुच्छोद्भवं मांसं हृद्यं वृष्यं श्रमापहम्
पित्तश्लेष्मकरं किञ्चिद्वातव्याधिविनाशानम् ८३
बलीवर्दस्तु वृषभः ऋषभश्च तथा वृषः
अनड्वान्सौरभेयोऽपि गौरुक्षा भद्र इत्यपि ८४
सुरभिः सौरभेयी च माहेयी गौरुदाहृता
गोमांसं सुगुरु स्निग्धं पित्तश्लेष्मविवर्द्धनम्
बृंहणं वातहृत् बल्यमपथ्यं पीनसप्रणुत् ८५
घोटकेऽप्यश्वतुरगास्तुरङ्गमाश्च तुरङ्गाः
बाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः ८६
अश्वमांसन्तु तुवरं वह्निकृत्कफपित्तलम्
वातहृद् बृहणं बल्यं चक्षुष्यं मधुरं लघु ८७
महिषो घोटकारिः स्यात्कासरश्च रजस्वलः ८८
पीनस्कन्धः कृष्णकायो लुलायो यमवाहनः
महिषस्यामिषं स्वादु स्निग्धोष्णं वातनाशनम् ८९
निद्रा शुक्रप्रदं बल्यं तनुदार्ढ्यकरं गुरु
वृष्यञ्च सृष्टविण्मूत्रं वातपित्तास्रनाशनम् ९०
मण्डूकः प्लवगो भेको वर्षाभूर्दर्दुरो हरिः
मण्डूकः श्लेष्मलो नातिपित्तलो बलकारकः ९१
कच्छपो गूढपात्कूर्मः कमठो दृढपृष्ठकः
कच्छपो बलदो वातपित्तनुत्पुंस्त्वकारकः ९२
सद्योहतस्य मांसं स्थाद्व्याधिघाति यथाऽमृतम्
वयस्यं बृंहणं सात्म्यमन्यथा तद् विवर्जयेत् ९३
स्वयं मृतस्य चाबल्यमतीसारकरं गुरु ९४
वृद्धानां दोषलं मांसं बालानां बलदं लघु ९५
सर्पदष्टस्य मांसञ्च शुष्कमांस त्रिदोषकृत्
त्रिदोषकृद् व्यालदष्टं शुष्कं शूलकरं परम् ९६
विषाम्बुरुङ्मृतस्यैतन्मृत्युदोषरुजाकरम्
क्लिन्नमुत्क्लेशजनकं कृशं वातप्रकोपणम्
तोयपूर्णं शिराराजं मृतमप्सु त्रिदोषकृत् ९७
विहङ्गेषु पुमाञ्छ्रेष्ठः स्त्री चतुष्पदजातिषु
परार्द्धं लघु पुंसां स्यात्स्त्रीणां पूर्वार्द्धमादिशेत्
देहमध्यं गुरुप्रायं सर्वेषां प्राणिनां स्मृतम् ९८
पक्षक्षेपाद्विहङ्गानां तदेव लघु कथ्यते
गुरूण्यण्डानि सर्वेषां गुर्वी ग्रीवा च पक्षिणाम् ९९
उरः स्कन्धोदरं कुक्षी पादौ पाणी कटी तथा
पृष्ठत्वग्यकृदन्त्राणि गुरूणीह यथोत्तरम् १००
लघुवातकरं मांसं खगानां धान्यचारिणाम्
मत्स्याशिनां पित्तकरं वातघ्नं गुरु कीर्त्तितम् १०१
फलाशिनां श्लेष्मकरं लघु रूक्षमुदीरितम्
बृंहणं गुरु वातघ्नं तेषामेव पलाशिनाम् १०२
तुल्यजातिष्वल्पदेहा महादेहेषु पूजिताः
अल्पदेहेषु शस्यन्ते तथैव स्थूलदेहिनाः १०३
रक्तोदरो रक्तमुखो रक्ताक्षो रक्तपक्षतिः
कृष्णपुच्छो झषः श्रेष्ठो रोहितः कथितो बुधैः १०४
रोहितः सर्वमत्स्यानां वरो वृष्योऽदितार्त्तिजित्
कषायानुरसः स्वादुर्वातघ्नो नातिपित्तकृत्
ऊर्ध्वजत्रुगतान् रोगान् हन्याद्रो हितमुण्डकम् १०५
शिलीन्ध्रः श्लेष्मलो बल्यो विपाके मधुरो गुरुः
वातपित्तहरो हृद्यः आमवातकरश्च सः १०६
भाकुरो मधुरः शीतो वृष्यः श्लेष्मकरो गुरुः
विष्टम्भजनकश्चापि रक्तपित्तहरः स्मृतः १०७
मोचिका वातहृद् बल्या बृंहणी मधुरा गुरुः
पित्तहृत्कफकृद्रुच्या वृष्या दीप्ताग्नये हिता १०८
पाठीनः श्लेष्मलो बल्यो निद्रा लुः पिशिताशनः
दूषयेद्रुधिरं पित्तं कुष्ठरोगं करोति च १०९
शृङ्गी तु वातशमनी स्निग्धा श्लेष्मप्रकोपणी
रसे तिक्ता कषाया च लघ्वी रुच्या स्मृताबुधैः ११०
इल्लीसो मधुरः स्निग्धो रोचनो वह्निवर्द्धनः
पित्तहृत्कफकृत्किञ्चिल्लघुर्वृष्योऽनिलापहः १११
शष्कुली ग्राहिणी हृद्या मधुरा तुवरा स्मृता ११२
गर्गरः पित्तलः किञ्चिद्वातजित्कफकोपनः ११३
कविका मधुरा स्निग्धा कफघ्नी रुचिकारिणी
कञ्चित्पित्तकरी वातनाशिनी वह्निवर्द्धिनी ११४
वर्मिमत्स्यो हरेद्वातं पित्तं रुचिकरो लघुः ११५
दण्डमत्स्यो रसे तिक्तः पित्तरक्तं कफं हरेत्
वातसाधारणः प्रोक्तः शुक्रलो बलवर्द्धनः ११६
एरङ्गो मधुरः स्निग्धो विष्टम्भी शीतलो लघुः ११७
महाशफरसंज्ञस्तु तिक्तः पित्तकफापहः
शिशिरो मधुरो रुच्यो वातसाधारणः स्मृतः ११८
गरघ्नी मधुरा तिक्ता तुवरा वातपित्तहृत्
कफघ्नी रुचिकृल्लघ्वी दीपनी बलवीर्यकृत् ११९
मद्गुरो वातहृद् बल्यो वृष्यः कफकरो लघुः १२०
सपादमत्स्यो मेधाकृन्मेदः क्षयकरश्च सः
वातपित्तकरश्चापि रुचिकृत्परमो मतः १२१
प्रोष्ठी तिक्ता कटुः स्वादुः शुक्रदा कफवातजित्
स्निग्धाऽस्यकण्ठरोगघ्नी रोचनी च लघुः स्मृता १२२
क्षुद्र मत्स्याः स्वादुरसा दोषत्रयविनाशनाः
लघुपाका रुचिकरा बलदास्ते हिता मताः १२३
अतिसूक्ष्माः पुंस्त्वहरा रुच्याः कासानिलापहाः १२४
मत्स्यगर्भो भृशं वृष्यः स्निग्धः पुष्टिकरो लघुः
कफमेदःप्रदो बल्यो ग्लानिकृन्मेहनाशनः १२५
शुष्कमत्स्या नवा बल्या दुर्जरा विड्विबन्धिनः १२६
दग्धमत्स्यो गुणैः श्रेष्ठः पुष्टिकृद् बलवर्द्धनः १२७
कौपमत्स्याः शुक्रमूत्रकुष्ठश्लेष्मविवर्द्धनाः
सरोजा मधुराः स्निग्धा बल्या वातविनाशनाः
नादेया बृंहणा मत्स्या गुरवोऽनिलनाशनाः
रक्तपित्तकरा वृष्याः स्निग्धोष्णाः स्वल्पवर्चसः
चौञ्ज्याः पित्तकराः स्निग्धा मधुरा लघवो हिमाः
तडागा गुरवो वृष्याः शीतला मलमूत्रदाः
ताडागवन्निर्झरजा बलायुर्मतिदृक्कराः १२८
हेमन्ते कूपजा मत्स्याः शिशिरे सारसा हिताः
वसन्ते ते तु नादेया ग्रीष्मे चौञ्ज्यसमुद्भवाः
तडागजाता वर्षासु तास्वपथ्या नदीभवाः
नैर्झरा शरदि श्रेष्ठा विशेषोऽयमुदाहृतः १२९
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे एकादशो मांसवर्गः समाप्तः ११

कृतान्नवर्गः[सम्पाद्यताम्]

अथ द्वादशः कृतान्नवर्गः
समवायिनि हेतौ ये मुनिभिर्गणिता गुणाः
कार्येऽपि तेऽखिलाज्ञेयाः परिभाषेति भाषिताः १
क्वचित्संस्कारभेदेन गुणभेदो भवेद्यतः
भक्तं लघु पुराणस्यशालेस्तच्चिपिटो गुरुः २
क्वचिद्योगप्रभावेण गुणान्तरमपेक्षते
कदन्नं गुरु सर्पिश्च तद्युक्तं सुपचं भवेत् ३
भक्तमन्नं तथाऽन्धश्च क्वचित्कूरं च कीर्त्तितम्
ओदनोऽस्त्री स्रियां भिस्सा दीदिविः पुंसि भाषितः ४
सुधौतांस्तण्डुलान् स्फीतांस्तोये पञ्चगुणे पचेत्
तदुक्तं प्रस्रुतं चोष्णं विशदं गुणवन्मतम् ५
भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु
अधौतमस्रुतं शीतं गुर्वरुच्यं कफप्रदम् ६
दलितन्तु शमीधान्यं दालिर्दाली स्त्रियामुभे
दाली तु सलिले सिद्धा लवणार्द्र कहिङ्गुभिः ७
संयुक्ता सूपनाम्नी स्यात्कथ्यन्ते तद्गुणा अथ
सूपो विष्टम्भको रूक्षः शीतस्तु स विशेषतः
निस्तुषो भृष्टसंसिद्धो लाघवं सुतरां व्रजेत् ८
तण्डुला दालिसंमिश्रा लवणार्द्र कहिङ्गुभिः
संयुक्ताः सलिले सिद्धाः कृशरा कथिता बुधैः ९
कृशरा शुक्रला बल्या गुरुः पित्तकफप्रदा
दुर्जरा बुद्धिविष्टम्भमलमूत्रकरी स्मृता १०
वृते हरिद्रा संयुक्ते माषजा भर्जयेद्वटीम् ११
तण्डुलांश्चापि निर्धौतान्सहैव परिभर्जयेत्
सिद्धयोग्यं जलं तत्र प्रक्षिप्य कुशलः पचेत् १२
लवणार्द्र कहिङ्गूनि मात्रया तत्र निक्षिपेत्
एषा सिद्धि समायाता प्रोक्ता तापहरी बुधैः १३
भवेत्तापहरी बल्या वृष्या श्लेष्माणमाचरेत्
बृंहणी तर्पणी रुच्या गुर्वी पित्तहरी स्मृता १४
पायसं परमान्नं स्यात्क्षीरिकाऽपि तदुच्यते
शुद्धेर्द्धऽपक्वे दुग्धे तु घृताक्तांस्तण्डुलान्पचेत् १५
ते सिद्धाः क्षीरिका ख्याताः ससिताऽज्ययुतोत्तमा
क्षीरिका दुर्जरा प्रोक्ता बृंहणी बलवर्द्धिनी
विष्टम्भिनी हरेत् पित्तं रक्तपित्ताग्निमारुतान् १६
नारिकेरं तनूकृत्य छिन्नं पयसि गोः क्षिपेत्
सितागव्याज्यसंयुक्ते तत्पचेन्मृदुनाऽग्निना १७
नारिकेरोद्भवा क्षीरी स्निग्धा शीताऽतिपुष्टिदा
गुर्वी सुमधुरावृष्या रक्तपित्तानिलापहा १८
समितावर्त्तिकाः कृत्वा सुसूक्ष्मा यवसन्निभा
शुष्काः क्षीरेणसंसाध्या भोज्यावृत्तसिताऽन्विताः १९
सेविका तर्पणी बल्या गुर्वी पित्तानिलापहा
ग्राहिणी सन्धिकृद्रुच्या तां खादेन्नातिमात्रया २०
गोधूमा धवला धौताः कुट्टिताः शोषितास्ततः
प्रोक्षितायन्त्रनिष्पष्टाश्चालिताः समिताः स्मृताः २१
वारिणा कोमलां कृत्वा समितां साधु मर्दयेत्
हस्तचालनया तस्या लोप्त्रद्यं सम्यक्प्रसारयेत् २२
अधोमुखघटस्यैतद्बिस्तृतं प्रक्षिपेद् बहिः
मृदुना वह्निना साध्या सिद्धो मण्डक उच्यते २३
दुग्धेन साज्यखण्डेन मण्डकं भक्षयेन्नरः
अथवा सिद्धमांसेन सतक्रवटकेन वा २४
मण्डको बृंहणो वृष्यो बल्यो रुचिकरो भृशम्
पाकेऽपि मधुरो ग्राही लघुर्दोषत्रयापहः२५
कुर्यात्समितयाऽतीव तन्वी पर्पटिका ततः २६
स्वेदयेत्तप्तके तां तु पोलिकां जगदुर्बुधाः
तां खादेल्लप्सिकायुक्तां तस्या मण्डकवद् गुणाः २७
समितां सर्पिषा भृष्टां शर्करां पयसि क्षिपेत्
तस्मिन्घनीकृते न्यस्येल्लवङ्गं मरिचादिकम्
सिद्धषा लप्सिका ख्याता गुणानस्या वदाम्यहम् २८
लप्सिका बृंहणी वृष्या बल्या पित्तानिलापहा
स्निग्धा श्लेष्मकरी गुर्वी रोचनी तर्पणी परम् २९
शुष्कगोधूमचूर्णेन किञ्चित्पुष्टाञ्च पोलिकाम् ३०
तप्तके स्वेदयेत्कृत्वा भूर्यङ्गारेऽपि तां पचेत्
सिद्धैषारोटिका प्रोक्ता गुणानस्याः प्रचक्ष्महे ३१
रोटिका बलकृद्रुच्या बृंहणी धातुवर्द्धनी
वातघ्नी कफकृद् गुर्वी दीप्ताग्नीनां प्रपूजिता ३२
शुष्कगोधूमचूर्णन्तु साम्बु गाढं विमर्दयेत्
विधाय वटकाकारं निर्धूमेऽग्नौ शनैः पचेत् ३३
अङ्गारकर्कटी ह्येषा बृंहणी शुक्रला लघुः
दीपनी कफकृद्बल्या पीनसश्वासकासजित् ३४
यवजारोटिका रुच्या मधुरा विशदा लघुः
मलशुक्रानिलकरी बल्या हन्ति कफामयान् ३५
चूर्ण यच्छुष्कमाषाणां चमसी साऽभिधीयते
चमसीरचिता रोटी कथ्यते बलभद्रि का
रूक्षोष्णा वातला बल्या दीप्ताग्नीनां सुपूजिता ३६
माषाणां दालयस्तोये स्यापितास्त्यक्तकञ्चुकाः
आतपे शोषिता यन्त्रे पिष्टास्ता धूमसी स्मृता ३७
धूमसीरचिता चैव प्रोक्ता झर्झरिका बुधैः
झर्झरी कफपित्तघ्नी किञ्चिद्वातकरी स्मृता ३८
चणक्या रोटिका रूक्षा श्लेष्मपित्तास्रनुद्गुरुः
विष्टम्भिनी न चक्षुष्या तद्गुणा चापि शष्कुली ३९
दालि संस्थापिता तोये ततोऽपहृतकञ्चुका
शिलायां साधु सम्पिष्टा पिष्टिका कथिता बुधैः ४०
माषपिष्टिकया पूर्णगर्भा गोधूमचूर्णतः
रचिता रोटिका सैव प्रोक्ता बेढमिका बुधैः ४१
भवेद्बेढमिका बल्या वृष्या रुच्याऽनिलापहा
उष्णा सन्तर्पणी गुर्वी बृंहणी शुक्रला परम् ४२
भिन्नमूत्रमला स्तन्यमेदःपित्तकफप्रदा
गुदकीलार्दितश्वासपक्तिशूलानि नाशयेत् ४३
धूमसीरचिता हिङ्गुहरिद्रा लवणैर्युताः
जीरकस्वर्जिकाभ्याञ्च तनूकृत्य च वेल्लिताः ४४
पर्पटास्ते सदाऽङ्गारभृष्टाः परमरोचकाः
दीपनाः पाचनाः रूक्षा गुरवः किञ्चिदीरिताः ४५
मौद्गाश्च तद्गुणाः प्रोक्ता विशेषाल्लघवो हिताः ४६
चणकस्य गुणैर्युक्ताः पर्पटाश्चणकोद्भवाः
स्नेहभृष्टास्तु ते सर्वे भवेयुर्मध्यमा गुणैः ४७
माषाणां पिष्टिकां पूर्याल्लवणार्द्र कहिङ्गुभिः
तया पिष्टिकया पूर्णा समिता कृत पोलिका ४८
ततस्तैलेन पक्वा सा पूरिका कथिता बुधैः
रुच्या स्वादी गुरुः स्निग्धा बल्या पितास्रदूषिका ४९
चक्षुस्तेजोहरी चोष्णा पाके वातविनाशिनी
तथैव घृतपक्वाऽपि चक्षुष्या रक्तपित्तहृत् ५०
अथ वटकः शुष्कः सरसश्च सूखा व रसदार बरा
माषाणांपिष्टिकां युक्तां लवणार्द्र कहिङ्गुभिः
कृत्वा विदध्याद्वटकांस्तांस्तैलेषु पचेच्छनैः ५१
विशुष्का वटका बल्या बृंहणा वीर्य्यवर्द्धनाः
वातामयहरा रुच्या विशेषादर्दितापहाः ५२
विबन्धभेदिनः श्लेष्मकारिणोऽत्यग्निपूजिताः
संचूर्ण्यनिक्षिपेत्तक्रे भृष्टं जीरकहिङ्गु च ५३
लवणं तत्र वटकान्सकलानपि मज्जयेत्
शुक्रलस्तत्र वटको बलकृद्रो चनो गुरुः ५४
विबन्धहृद्विदाही च श्लेष्मलः पवनापहः
राज्यक्तयाऽतिरोचन्या पाचन्या तांस्तु भक्षयेत् ५५
मन्थनी नूतना धार्या कटुतैलेन लेपिता
निर्मलेनाम्बुनाऽपूर्य तस्यां चूर्णं विनिक्षिपेत्
राजिकाजीरकलवणहिङ्गुशुण्ठीनिशाकृतम् ५६
निक्षिपेद्वटकांस्तत्र भाण्डस्यास्यञ्च मुद्र येत्
ततो दिनत्रयादूर्ध्वमम्लाः स्युर्वटका ध्रुवम् ५७
काञ्जिकावटको रुच्यो वातघ्नः श्लेष्मकारकः
शूलघ्नोऽजीर्णदाहनुद् नेत्ररोगे तु नो हितः ५८
अम्लिकां स्वेदयित्वा तु जलेन सह मर्दयेत्
तन्नीरे कृतसंस्कारे वटकान्मज्जयेज्जनः ५९
अम्लिकावटकास्ते तु रुच्या वह्निप्रदीपनाः
वटकस्य गुणैः पूर्वै रेतेऽपि च समन्विताः ६०
मुद्गानां वटकास्तक्रे मज्जिता लघवो हिमाः
संस्कारजप्रभावेण त्रिदोषशमना हिताः ६१
माषाणां पिष्टिका हिङ्गुलवणार्द्र कसंस्कृता
तया विरचिता वस्त्रे वटिकाः साधु शोषिताः ६२
भर्जितास्तप्ततैलैस्ता अथवाऽम्बुप्रयोगतः
वटकस्य गुणैर्युक्ता ज्ञातव्या रोचना भृशम् ६३
कूष्माण्डकवटी ज्ञेया पूर्वोक्तवटिकागुणा
विशेषात्पित्तरक्तघ्नी लघ्वी च कथिता बुधैः ६४
मूद्गानां वटिका तद्वद्र चिता साधिता तथा
पथ्या रुच्या तथा लघ्वी मुद्गसूपगुणा स्मृता ६५
माषपिष्टिकया लिप्तं नागवल्लीदलं महत् ६६
तत्तु संस्वेदयेद्युक्त्या स्थाल्यामास्तारकोपरि
ततो निष्कास्य तं खण्ड्यं ततस्तैलेन भर्जयेत् ६७
अलीकमत्स्य उक्तोऽय प्रकारः पाक पण्डितैः
तं वृन्ताक भटित्रेण वास्तूकेन च भक्षयेत् ६८
स्थाल्यां घृते वा तैले वा हरिद्रा ं! हिङ्गु भर्जयेत्
अवलेहनसंयुक्तं तक्रं तत्रैव निक्षिपेत्
एषा सिद्धा समरिचा क्वथिता कथिता बुधैः ६९
क्वथिता पाचनी रुच्या लघ्वी वह्निप्रदीपनी
कफानिलाविबन्धघ्नी किञ्चित्पित्तप्रकोपणी ७०
अलीकमत्स्याः शुष्का वा किं वा क्वथितया पुनः
बृंहणा रोचना वृष्या बल्या वातगदापहः ७१
कोष्ठशुद्धिकराः शुष्काः किञ्चित्पित्तप्रकोपणाः
अर्दिते सहनुस्तम्भे विशेषेण हिताः स्मृताः ७२
मुद्गपिष्टीविरचितान् वटकांस्तैलपाचितान्
हस्तेन चूर्णयेत्सम्यक् तस्मिंश्चूर्णं विनिक्षिपेत् ७३
भृष्टं हिङ्ग्वार्द्र कं सूक्ष्मं मरिचं जीरकं तथा
निम्बूरसं यवानीं च युक्त्या सर्वं विमिश्रयेत् ७४
मुद्गपिष्टि पचेत्सम्यक् स्थाल्याभास्तारकोपरि
तस्यास्तु गोलकं कुर्यात्तन्मध्ये पूरण क्षिपेत् ७५
तैले तान्गोलकान्पक्त्वा क्वथितायां निमज्जयेत्
गोलकाःपाचक्! प्रोक्तास्ते त्वार्द्र कवटा अपि ७६
मुद्गार्द्र कवटा रुच्या लघ्वो बलकारकाः
दीपनास्तर्पणाः पथ्यास्त्रिषु दोषेषु पूजिताः ७७
दालयश्चणकानां तु निस्तुषा यन्त्रपेषिताः
तच्चूर्णं वेसनं प्रोक्तं पाकशास्त्रविशारदैः ७८
वटिकावेसनस्यापि क्वथितायां निमज्जिता
रुच्या विष्टम्भजननी बल्या पुष्टिकरी स्मृता ७९
पाकपात्रे घृतं दद्यात्तैलञ्च तदभावतः
तत्र हिङ्गुहरिद्रा ं! च भर्जयेत्तदनन्तरम् ८०
छागादेरस्थिरहितं मांसं तत्खण्डितं ध्रुवम्
धौतं निर्गालितं तस्मिन्घृते तद्भर्जयेच्छनैः ८१
सिद्धयोग्यं जलं दत्वा लवणन्तु पचेत्ततः
सिद्धे जलेन सम्पिष्य वेशवारं परिक्षिपेत् ८२
द्र व्याणि वेशवारस्य नागवल्लीदलानि च
तण्डुलाश्च लवङ्गानि मरिचानि समासतः ८३
अनेन विधिना सिद्धं शुद्धमांसमिति स्मृतम् ८४
शुद्धमांसं परं वृष्यं बल्यं रुच्यञ्च बृंहणम्
त्रिदोषशमनं श्रेष्ठं दीपनं धातुवर्द्धनम् ८५
छागादेर्मांसमूर्वादेः कुट्टितं खण्डितं पुनः
शुद्धमांसविधानेन पचेदेतत्सहद्र कम्
सहद्र कं गुणैर्ग्रन्थे शुद्धमांसगुणं स्मृतम् ८६
पाकपात्रे घृतं दत्त्वा हरिद्रा ं! हिङ्गु भर्जयेत्
छागादेः सकलस्यापि खण्डान्यपि च भर्जयेत् ८७
सिद्धयोग्यं जलं दत्त्वा पचेन्मृदुतरं तथा
जीरकादियुते तक्रे मांसखण्डानि भावयेत् ८८
तक्रमांसन्तु वातघ्नं लघु रुच्यं बलप्रदम्
कफघ्नं पित्तलं किञ्चित्सर्वाहारस्य पाचनम् ८९
पाकपात्रे तु बृहति मांसखण्डानि निक्षिपेत्
पानीयं प्रचुरं सर्पिः प्रभूतं हिङ्गु जीरकम् ९०
हरिद्रा मार्द्र कं शुण्ठीं लवणं मरिचानि च
तण्डुलांश्चापि गोधूमाञ्जम्बीराणां रसान् बहून् ९१
यथा सर्वाणि वस्तूनि सुपक्वानि भवन्ति हि
तथा पचेत्तु निपुणो बहुमण्डस्थितिर्यथा ९२
एषा हरीसा बलकृद्वातपित्तापहा गुरुः
शीतोष्णा शुक्रदा स्निग्धा सरा सन्धानकारिणी ९३
शुद्धमांसविधानेन मांसं सम्यक्प्रसाधितम्
पुनस्तदाज्ये सम्भृष्टं तलितं प्रोच्यते बुधैः ९४
तलितं बलमेधाऽग्निमांसौजःशुक्रवृद्धिकृत्
तर्पणं लघु सुस्निग्धं रोचनं दृढताकरम् ९५
कालखण्डादिमांसानि ग्रथितानि शलाकया
घृतं सलवणं दत्त्वा निर्धूमे दहने पचेत् ९६
तत्तु शूल्यमिति प्रोक्तं पाककर्मविचक्षणैः ९७
शूल्यं पलं सुधातुल्यं रुच्यं बह्निकरं लघु
कफवातहरं बल्यं किञ्चित्पित्तकरं हि तत् ९८
शुद्धमांसं तनूकृत्य कर्त्तितं स्वेदितं जले
लवङ्गहिङ्गुलवणमरिचार्द्र कसंयुतम् ९९
एलाजीरकधान्याकनिम्बूरससमन्वितम्
घृते सुगन्धे तद् भृष्टं पूरणं प्रोच्यते बुधैः १००
शृङ्गाटकं समितया कृतं पूरणपूरितम्
पुनः सर्पिषि सभृष्टं मांसशृङ्गाटकं वदेत् १०१
मांसशृङ्गाटकं रुच्यं बृंहणं बलकृद् गुरु
वातपित्तहरं वृष्यं कफघ्नं वीर्यवर्धनम् १०२
सिद्धमांसरसो रुच्यः श्रमश्वासक्षयापहः
प्रीणनो वातपित्तघ्नः क्षीणानामल्परेतसाम्
विश्लिष्टभग्नसन्धीनां शुद्धानां शुद्धिकाङ्क्षिणाम् १०३
स्मृत्योजोबलहीनानां ज्वरक्षीणक्षतोरसाम्
शस्यते स्वरहीनानां दृष्ट्यायुःश्रवणार्थिनाम् १०४
प्रकाराः कथिताः सन्ति बहवो मांससम्भवाः
ग्रन्थविस्तरभीतेस्ते मया नात्र प्रकीर्त्तिताः १०५
हिङ्गुजीरयुते तैले क्षिपेच्छाकं सुखण्डितम् १०६
लवणं चात्र चूर्णादि सिद्धे हिङ्गूदकं क्षिपेत्
इत्येवं सर्वशाकानां साधनेऽभिहितो विधिः १०७
समितां मर्दयेदाज्यैर्जलेनापि च सन्नयेत्
तस्यास्तु वटिकां कृत्वा पचेत्सर्पिषि नीरसम्
एलालवङ्गकर्पूरमरिचाद्यैरलङ्कृते १०८
मज्जयित्वा सितापाके ततस्तञ्च समुद्धरेत्
अयं प्रकारः संसिद्धौ मण्ठ इत्यभिधीयते १०९
मण्ठस्तु बृंहणो वृष्यो बल्यः सुमधुरो गुरुः
पित्तानिलहरो रुच्यो दीप्ताग्नीनां सुपूजितः ११०
समिताशर्करासर्पिर्निर्मिता अपरेऽपि ये
प्रकारा अमुना तुल्यास्तेऽपि चेत्तद्गुणाः स्मृताः १११
पर्पट्यः साज्यसमिता निर्मिता घृतभर्जिताः
कुट्टिताश्चालिताः शुद्धशर्कराभिर्विमर्दिताः ११२
तत्र चूर्णं क्षिपेदेलालवङ्गमरिचानि च
नारिकेरं सकर्पूरं चारबीजान्यनेकधा ११३
घृताक्तसमिता पुष्टरोटिका रचिता ततः
तस्यान्तःपूरणं तस्य कुर्यान्मुद्रा ं! दृढां सुधीः ११४
सर्पिषि प्रचुरे तान्तु सुपचेन्निपुणो जनः
प्रकारज्ञैः प्रकारोऽय सम्पाव इति कीर्त्तितः ११५
मण्ठकेन समो ज्ञेयः सम्पावोऽपि गुणैर्जनैः ११६
घृताढ्यया समितया लम्बं कृत्वा पुटं ततः
लवङ्गोषणकर्पूरयुतया सितयाऽन्वितम् ११७
पचेदाज्येन सिद्धैषा ज्ञेया कर्पूरनालिका
सम्पावसदृशा ज्ञेया गुणैः कर्पूरनालिका ११८
समिताया घृताढ्याया वर्त्तीर्दीर्घाः समाचरेत्
तास्तु सन्निहिता दीर्घाः पीठस्योपरि धारयेत् ११९
वेल्लयेद्वेल्लनेनैता यथैका पर्पटी भवेत्
ततश्छुरिकया तान्तु संलग्नामेव कर्त्तयेत् १२०
ततस्तु वेल्लयेद्भूयः सट्टकेन च लेपयेत्
शालिचूर्णं घृतं तोयं मिश्रितं सट्टकं वदेत् १२१
ततः संवृत्य तल्लोप्त्रद्यं विदधीत पृथक्पृथक्
पुनस्तां वेल्लययेल्लोप्त्रद्यं यथा स्यान्मण्डलाकृतिः १२२
ततस्तां सुपचेदाज्ये भवेयुश्च स्फुटाः स्फुटाः
सुगन्धया शर्करया तद्धूलनमाचरेत् १२३
सिद्धैषा फेनिकानाम्नी मण्ठकेन समा गुणैः
ततः किञ्चिल्लघुरियं विशेषोऽयमुदाहृतः १२४
समिताया घृताक्ताया लोप्त्रद्यं कृत्वा च वेल्लयेत्
आज्ये तां भर्जयेत्सिद्धा शष्कुली फेनिकागुणा १२५
वृताढ्यया समितया कृत्वा सूत्राणि तानि तु
निपुणो भर्जयेदाज्ये खण्डपाकेन योजयेत्
युक्तेन मोदकान् कुर्यात्ते गुणैर्मण्ठका यथा १२६
मुद्गानां धूमसीं सम्यग्घोलयेन्निर्मलाऽम्बुना १२७
कटाहस्य घृतस्योर्ध्वं झर्झरं स्थापयेत्ततः
घूमसीन्तु द्र वीभूतां प्रक्षिपेज्झर्झरोपरि १२८
पतन्ति बिन्दवस्तस्मात्तान्सुपक्वान्समुद्धरेत्
सितापाकेन संयोज्य कुर्याद्धस्तेन मोदकान् १२९
लघुर्ग्राही त्रिदोषघ्नः स्वादुः शीतो रुचिप्रदः
चक्षुष्यो ज्वरहृद्बल्यस्तर्पणो मुद्गमोदकः १३०
एवमेव प्रकारेण कार्या वेसनमोदकाः १३१
ते बल्या लघवः शीताः किञ्चिद्वातकरास्तथा
विष्टम्भिनो ज्वरघ्नाश्च पित्तरक्तकफापहाः १३२
तण्डुलचूर्णविमिश्रितनष्टक्षीरेण सान्द्र पिष्टेन
दृढकूपिकां विदध्यात्ताञ्च पचेत्सर्पिषा सम्यक् १३३
अथ तां कोरितमध्यां घनपयसा पूर्णगर्भाञ्च
सट्टकमुद्रि तवदनां तप्तघृते सुपक्ववदनाञ्च
अथ पाण्डुखण्डपाके स्नपयेत्कर्पूरवासिते कुशलः
अथ दुग्धकूपिका सा बल्या पित्तानिलापहाचैव १३४
वृष्या शीता गुर्वी शुक्रकरी च तर्पणी रुच्या
विदधाति कायपुष्टिं दृष्टिं दूरप्रसारिणीं सुचिरम् १३५
नूतनं घटमानीय तस्यान्तः कुशलो जनः
प्रस्थार्द्धपरिमाणेन दध्नाऽम्लेन प्रलेपयेत् १३७
द्विप्रस्थां समितां तत्र दध्यम्ल प्रस्थसम्मितम्
घृतमर्द्धशरावञ्च घोलयित्वा घटे क्षिपेत् १३८
आतपे स्थापयेत्तावद् यावद्याति तदम्लताम्
ततस्तत्प्रक्षिपेत्पात्रे सच्छिद्रे भाजने तु तत् १३९
परिभ्राम्य परिभ्राम्य सुसन्तप्ते घृते क्षिपेत्
पुनः पुनः स्तदावृत्त्या विदध्यान्मण्डलाकृतिम् १४०
तां सुपक्वां घृतान्नीत्वा सितापाके तनुद्र वे
कर्पूरादिसुगन्धे च स्नापयित्वोद्धरेत्ततः १४१
एषा कुण्डलिनी नाम्ना पुष्टिकान्तिबलप्रदा
धातुवृद्धिकरी वृष्या रुच्या चेन्द्रि यतर्पणी १४२
आदौ माहिषमम्लमम्बुरहितं दध्याढकं शर्करां
शुभ्रां प्रस्थयुगोन्मितां शुचिपटे किञ्चिच्च किञ्चित्क्षिपेत्
दुग्धेनार्द्धघटेन मृण्मयनवंस्थाल्यां दृढं स्रावये
देलाबीजलवङ्गचन्द्र मरिचैर्योग्यैश्च तद्योजयेत् १४३
भीमेन प्रियभोजनेन रचिता नाम्ना रसाला स्वयं
श्रीकृष्णेन पुरा पुनः पुनरियं प्रीत्या समास्वादिता
एषा येन वसन्तवर्जितदिने संसेव्यते नित्यश
स्तस्य स्यादतिवीर्य्यवृद्धिरनिशं सर्वेन्द्रि याणां बलम् १४४
ग्रीष्मे तथाशरदि ये रविशोषिताङ्गा ये च प्रमत्तवनितासुरतातिखिन्नाः
ये चापि मार्गपरिसर्पणशीर्णगात्रास्तेषामियं वपुषि पोषणमाशु कुर्यात् १४५
रसाला शुक्रला वल्या रोचनी वातपित्तजित् १४६
दीपनी बृंहणी स्निग्धा मधुरा शिशिरा सरा
रक्तपित्तं तृषां दाहं प्रतिश्यायं विनाशयेत् १४७
जलेन शीतलेनैव घोलिता शुभ्रशर्करा
एलालवङ्गकर्पूरमरिचैश्च समन्विता १४८
शर्करोदकनाम्ना तत्प्रसिद्धं विदुषां मुखैः
शर्करोदकमाख्यातं शुक्रलं शिशिरं सरम् १४९
बल्यं रुच्यं लघु स्वादु वातपित्तप्रणाशनम्
मूर्च्छाछर्दितृषादाहज्वरशान्तिकरं परम् १५०
आम्रमामं जले स्विन्नं मर्दितं दृढपाणिना
सिताशीताम्बुसंयुक्तं कर्पूरमरिचान्वितम् १५१
प्रपाणकमिदं श्रेष्ठं भीमसेनेन निर्मितम्
सद्यो रुचिकरं बल्यं शीघ्रमिन्द्रि वतर्पणम् १५२
अम्लिकायाः फलं पक्वं मर्दितं वारिणा दृढम्
शर्करामरिचैर्मिश्रं लवङ्गेन्दुसुवासितम् १५३
अम्लिकाफलसम्भूतं पानकं वातनाशनम्
पित्तश्लेष्मकरं किञ्चित्सुरुच्यं वह्निबोधनम् १५४
भागैकं निम्बुजं तोयं षड्भागं शर्करोदकम्
लवङ्गमरिचैर्मिश्रं पानं पानकमुत्तमम् १५५
निम्बूकफलभवं पानमत्यम्लं वातनाशनम्
वह्निदीप्तिकरं रुच्यं समस्ताहारपाचकम् १५६
शिलायां साधु सम्पिष्टं धान्याकं वस्त्रगालितम्
शर्करोदकसंयुक्तं कर्पूरादिसुसंस्कृतम्
नूतने मृण्मये पात्रे स्थितं पित्तहरं परम् १५७
काञ्जिकं रोचनं रुच्यं पाचनं वह्निदीपनम् १५८
शूलाजीर्णविबन्धघ्नं कोष्ठशुद्धिकरं परम्
न भवेत्काञ्जिकं यत्र तत्र जालि प्रदीयते १५९
आममाम्रफलं पिष्टं राजिकालवणान्वितम्
मृष्टहिङ्गुयुतं पूतं घोलितं जालिरुच्यते १६०
जालिर्हरति जिह्वायाः कुण्ठत्वं कण्ठशोधिनी
मन्दं मन्दन्तु पीता सा रोचनी वह्निबोधिनी १६१
तुर्यांशेन जलेन संयुतमतिस्थूलं सदम्लं दधि
प्रायोमाहिषमम्बुकेन विमले मृद्भाजने गालयेत्
भृष्टं हिंगुच जीरकञ्चलवणं राजीञ्च किञ्चिन्मितां
पिष्टां तत्र विमिश्रयेद्भवति तत्तक्रं न कस्य प्रियम् १६२
तक्रं रुचिकरं वह्निदीपनं पाचनं परम्
उदरे ये गदास्तेषां नाशनं तृप्तिकारकम् १६३
विदाहीन्यन्नपानानि यानि भुङ्क्ते हि मानवः
तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिबेत् १६४
धान्यानि भ्राष्ट्रभृष्टानि यन्त्रपिष्टानि सक्तवः १६५
यवजाः सक्तवः शीता दीपना लघवः सराः
कफपित्तहरा रूक्षा लेखनाश्च प्रकीर्त्तिताः १६६
ते पीता बलदा वृष्या बृंहणा भेदनास्तथा
तर्पणा मधुरा रुच्याः परिणामे बलावहाः १६७
कफपित्तश्रमक्षुत्तृड्व्रणनेत्रामयापहाः
प्रशस्ता घर्मदाहाध्वव्यायामार्त्तशरीरिणाम् १६८
निस्तुषैश्चणकैर्भृष्टैस्तुर्यांशैश्च यवैः कृताः
सक्तवः शर्करासर्पिर्युक्ता ग्रीष्मेऽपि पूजिता १६९
सक्तवः शालिसम्भूता वह्निदा लघवो हिमाः
मधुरा ग्राहिणो रुच्याः पथ्याश्च बलशुक्रदा १७०
न भुक्त्वा न रदैश्छित्वा न निशायां न वा बहून्
नजलान्तरितानद्भिः सक्तूनद्यान्न केवलान् १७१
पृथक्पानं पुनर्दानं सामिषं पयसा निशि
दन्तच्छेदनमुष्णञ्च सप्त सक्तुषु वर्जयेत् १७२
यवास्तु निस्तुषा भृष्टाः स्मृता धाना इति स्त्रियाम्
धानाः स्युर्दुर्जरा रुक्षास्तृट्प्रदा गुरवश्च ताः
तथा मेहकफच्छर्दिनाशिन्यः सम्प्रकीर्त्तिताः १७३
येषां स्युस्तण्डुलास्तानि धान्यानि सतुषाणि च
भृष्टानि स्फुटितान्याहुर्लाजा इति मनीषिणः १७४
लाजाः स्युर्मधुराः शीता लघवो दीपनाश्च ते
स्वल्पमूत्रमला रूक्षा बल्याः पित्तकफच्छिदः
छर्द्यतीसारदाहास्रमेहमेदस्तृषाऽपहाः १७५
शालयः सतुषा आद्रा र्! भृष्टा अस्फुटितास्ततः
कुट्टिताश्चिपिटाःप्रोक्तास्ते स्मृताः पृथुका अपि १७६
पृथुका गुरवो वातनाशनाः श्लेष्मला अपि
सक्षीरा बृंहणा वृष्या बल्या भिन्नमलाश्च ते १७७
अर्द्धपक्वैः शमीधान्यैस्तृणभृष्टैश्च होलकः
होलकोऽल्पानिलोः मेदः कफदोषत्रयापहः
भवेद् यो होलको यस्य स च तत्तद्गुणो भवेत् १७८
मञ्जरी त्वर्द्धपक्वा वा यवगोधूमयोर्भवेत्
तृणानलेन संभृष्टा बुधैरूचीति सा स्मृता
ऊची कफप्रदा बल्या लघ्वी पित्तानिलापहा १७९
अर्धस्विन्नास्तु गोधूमा अन्येऽपि चणकादयः १८०
कुल्माषा इति कथ्यन्ते शब्दशास्त्रेषु पण्डितैः
कुल्माषागुरवो रूक्षा वातला भिन्नवर्चसः १८१
पललन्तु समाख्यातं सैक्षवं तिलपिष्टकम्
पललं मलकृद् वृष्यं वातघ्नं कफपित्तकृत्
बृंहणं च गुरु स्निग्धं मूत्राधिक्यनिवर्त्तकम् १८२
तिलकिट्टन्तु पिण्याकस्तथा तिलखलि स्मृता
पिण्याको लेखनो रूक्षो विष्टम्भी दृष्टिदूषणः १८३
तुण्डुलो मेहजन्तुघ्नः स नवस्त्वतिदुर्जरः १८४
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे द्वादशः कृतान्नवर्गः समाप्तः १२

वारिवर्गः[सम्पाद्यताम्]

अथ वारिवर्गः
पानीयं सलिलं नीरं कीलालं जलमम्बु च
आपो वार्वारि कं तोयं पयः पाथस्तथोदकम्
जीवनं वनमम्भोऽणोऽमृतं घनरसोऽपि च १
पानीयं श्रमनाशनं क्लमहरं मूर्च्छापिपासापहं
तन्द्रा च्छर्दिविबन्धहृद्बलकरं निद्रा हरं तर्पणम्
हृद्यं गुप्तरसं ह्यजीर्णशमकं नित्यं हितं शीतलं
लघ्वच्छं रसकारणं निगदितं पीयूषवज्जीवनम् २
पानीयं मुनिभिः प्रोक्तं दिव्यं भौममिति द्विधा ३
दिव्यं चतुर्विधं प्रोक्तं धाराजं करकाभवम्
तौषारञ्च तथा हैमं तेषु धारं गुणाधिकम् ४
धाराभिः पतितं तोयं गृहीतं स्फीतवाससा
शिलायां वसुधायां वा धौतायां पतितञ्च तत् ५
सौवर्णे राजते ताम्रे स्फाटिके काचनिर्मिते
भाजने मृण्मये वाऽपि स्थापितं धारमुच्यते ६
धारं नीरं त्रिदोषघ्नमनिर्देश्यरसं लघु
सौम्यं रसायनं बल्यं तर्पणं ह्लादि जीवनम् ७
पाचनं मतिकृन्मूर्च्छातन्द्रा दाहश्रमक्लमान्
तृष्णां हरति तत् पथ्यं विशेषात्प्रावृषि स्मृतम् ८
धाराजलं च द्विविधं गाङ्गसामुद्र भेदतः ९
आकाशगङ्गासम्बन्धिजलमादाय दिग्गजाः
मेघैरन्तरिता वृष्टिं कुर्वन्तीति वचः सताम् १०
गाङ्गमाश्वयुजे मासि प्रायो वर्षति वारिदः
सर्वथा तज्जलं ज्ञेयं तथैव चरके वचः ११
स्थापिते हेमजे पात्रे राजते मृण्मयेऽपि वा
शाल्यन्नं येन संसिक्तं भवेदक्लेदि वर्णवत् १२
तद्गाङ्गं सर्वदोषघ्नं ज्ञेयं सामुद्र मन्यथा
तत्तु सक्षारलवणं शुक्रदृष्टिबलापहम् १३
विस्रञ्च दोषलं तीक्ष्णं सर्वकर्मसु नो हितम्
सामुद्रं त्वाश्विने मासि गुणैर्गाङ्गवदादिशेत् १४
यतोऽगस्त्यस्य दिव्यर्षेरुदयात्सकलं जलम्
निर्मलं निर्विषं स्वादु शुक्रलं स्याददोषलम् १५
फूत्कारविषवातेन नागानां व्योमचारिणाम्
वर्षासु सविषं तोयं दिव्यमप्याश्विनं विना १६
अनार्त्तवं प्रमुञ्चन्ति वारि वारिधरास्तु यत्
तत्त्रिदोषाय सर्वेषां देहिनां परिकीर्त्तितम् १७
दिव्यवाय्वग्निसंयोगात् संहताः खात् पतन्ति याः
पाषाणखण्डवच्चापस्ताः कारक्योऽमृतोपमाः १८
करकाजं जलं रूक्षं विशदं गुरु च स्थिरम्
दारुणं शीतलं सान्द्रं पित्तहृत्कफवातकृत् १९
अपि नद्याः समुद्रा न्ते वह्निरापस्तदुद्भवाः
धूमावयवनिर्मुक्तास्तुषाराख्यास्तु ताः स्मृताः २०
अपथ्याः प्राणिनां प्रायो भूरुहाणान्तु ता हिताः
तुषाराम्बु हिमं रूक्षं स्याद्वातलमपित्तलम्
कफोरुस्तम्भकण्ठाग्निमेहगण्डादिरोगनुत् २१
हिमवच्छिखरादिभ्यो द्र वीभूयाभिवर्षति
यत्तदेव हिमं हैमं जलमाहुर्मनीषिणः
हिमाम्बु शीतं पित्तघ्नं गुरु वातविवर्द्धनम् २२
और्वानलधूमेरितमम्बु समुद्र स्य यद्घनीभूतम्
पवनानीतमुदीच्यां तद्धिममिति कथ्यते सद्भिः २३
हिमन्तु शीतलं रूक्षं दारुणं सूक्ष्ममित्यपि
न तद् दूषयते वातं न च पित्तं न वा कफम् २४
भौममम्भो निगदितं प्रथमं त्रिविधं बुधैः
जाङ्गलं परमानूपं ततः साधारणं क्रमात् २५
अल्पोदकोऽल्पवृक्षश्च पित्तरक्तामयान्वितः
ज्ञातव्यो जाङ्गलो देशस्तत्रत्यं जाङ्गलं जलम् २६
वह्वम्बुर्बहुवृक्षश्च वातश्लेष्मामयान्वितः
देशोऽनूप इति ख्यात आनूपं तद्भवं जलम् २७
मिश्रचिह्नस्तु यो देशः स हि साधारणः स्मृतः
तस्मिन्देशे यदुदकं तत्तु साधारणं स्मृतम् २८
जाङ्गलं सलिलं रूक्षं लवणं लघु पित्तनुत्
वह्निकृत्कफहृत्पथ्यं विकारान्हरते बहून् २९
आनूपं वार्यभिष्यन्दि स्वादु स्निग्धं घनं गुरु
वह्निहृत्कफकृद्हृद्यं विकारान्कुरुते बहून् ३०
साधारणं तु मधुरं दीपनं शीतलं लघु
तर्पणं रोचनं तृष्णादाहदोषत्रयप्रणुत् ३१
नद्या नदस्य वा नीरं नादेयमिति कीर्त्तितम् ३२
नादेयमुदकं रूक्षं वातलं लघु दीपनम्
अनभिष्यन्दि विशदं कटुकं कफपित्तनुत् ३३
नद्यः शीघ्रवहा लघ्व्यः सर्वा याश्चामलोदकाः
गुर्व्यः शैवलसंछन्ना मन्दगाः कलुषाश्च याः ३४
हिमवत्प्रभवाः पथ्या नद्योऽश्माहतपाथसः
गङ्गाशतद्रुसरयूयमुनाऽद्या गुणोत्तमाः ३५
सह्यशैलभवा नद्यो वेणागोदावरीमुखाः
कुर्वन्ति प्रायशः कुष्ठमीषद्वातकफावहाः ३६
नदीसरस्तडागस्थे कूपप्रस्रवणादिजे
उदके देशभेदेन गुणान्दोषांश्च लक्षयेत् ३७
विदार्य भूमिं निम्नां यन्महत्या धारया स्रवेत्
तत्तोयमौद्भिदं नाम वदन्तीति महर्षयः ३८
औद्भिदं वारि पित्तघ्नमविदाह्यतिशीतलम्
प्रीणनं मधुरं बल्यमीषद्वातकरं लघु ४९
शैलसानुस्रवद्वारिप्रवाहो निर्झरो झरः
स तु प्रस्रवणश्चापि तत्रत्यं नैर्झरं जलम् ४०
नैर्झरं रुचिकृन्नीरं कफघ्नं दीपनं लघु
मधुरं कटुपाकं च वातलं स्यादपित्तलम् ४१
नद्याः शैलादिरुद्धायाः यत्र संस्रुत्य तिष्ठति
तत्सरो जलजच्छन्नं तदम्भः सारसं स्मृतम् ४२
सारसं सलिलं बल्यं तृष्णाघ्नं मधुरं लघु
रोचनं तुवरं रूक्षं बद्धमूत्रमलं स्मृतम् ४३
प्रशस्तभूमिभागस्थो बहुसंवत्सरोषितः
जलाशयस्तडागः स्यात्ताडागं तज्जलं स्मृतम् ४४
ताडागमुदकं स्वादु कषायं कटुपाकि च
वातलं बद्धविण्मूत्रमसृक्पित्तकफापहम् ४५
पाषाणैरिष्टकाभिर्वा बद्धः कूपो बृहत्तरः
ससोपानो भवेद्वापी तज्जलं वाप्यमुच्यते ४६
वाप्यं वारि यदि क्षारं पित्तकृत्कफवातहृत्
तदेव मिष्टं कफकृद्वातपित्तहरं भवेत् ४७
भूमौ खातोऽल्पविस्तारो गम्भीरो मण्डलाकृतिः
बद्धोऽबद्धः स कूपः स्यात्तदम्भः कौपमुच्यते ४८
कौपं पयो यदि स्वादु त्रिदोषघ्नं हितं लघु
तत्क्षारं कफवातघ्नं दीपनं पित्तकृत्परम् ४९
शिलाकीर्णं स्वयं श्वभ्रं नीलाञ्जनसमोदकम्
लतावितानसंच्छन्नं चौञ्ज्यमित्यभिधीयते ५०
अश्मादिभिरबद्धं यत्तच्चौञ्ज्यमिति वा परे
तत्रत्त्यमुदकं चौञ्ज्यं मुनिभिस्तदुदाहृतम् ५१
चौञ्ज्यं वह्निकरं नीरं रूक्षं कफहरं लघु
मधुरं पित्तनुद्रुच्यं पाचनं विशदं स्मृतम् ५२
अल्पं सरः पल्वलं स्याद्यत्र चन्द्र र्क्षगे रवौ ५३
न तिष्ठति जलं किञ्चित्तत्रत्यं वारि पाल्वलम्
पाल्वलं वार्यभिष्यन्दि गुरु स्वादु त्रिदोषकृत् ५४
नद्यादिनिकटे भूमिर्या भवेद्वालुकामयी
उद्भाव्यते ततो यत्तु तज्जलं विकिरं विदुः ५५
विकिरं शीतलं स्वच्छं निर्दोषं लघु च स्मृतम्
तुवरं स्वादु पित्तघ्नं क्षारं तर्त्पित्तलं मनाक् ५६
केदारः क्षेत्रमुद्दिष्टं कैदारं तज्जलं स्मृतम्
कैदारं वार्यभिष्यन्दि मधुरं गुरु दोषकृत् ५७
वार्षिकं तदहर्वृष्टं भूमिस्थमहितं जलम्
त्रिरात्रमुषितं तत्तु प्रसन्नममृतोपमम् ५८
हेमन्ते सारसं तोयं ताडागं वा हितं स्मृतम्
हेमन्ते विहितं तोयं शिशिरेऽपि प्रशस्यते ५९
वसन्तग्रीष्मयोः कौपं वाप्यं वा नैर्झरं जलम्
नादेयं वारि नादेयं वसन्तग्रीष्मयोर्बुधैः ६०
विषवद्वनवृक्षाणां पत्राद्यैर्दूषितं यतः
औद्भिदं वाऽन्तरिक्षं वा कौपं वा प्रावृषि स्मृतम्
शस्तं शरदि नादेयं नीरमंशूदकं परम् ६१
दिवा रविकरैर्जुष्टं निशि शीतकरांशुभिः
ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम् ६२
अनभिष्यन्दि निर्दोषमान्तरिक्षजलोपमम्
बल्यं रसायनं मेध्यं शीतं लघु सुधासमम् ६३
शरदि स्वच्छमुदयादगस्त्यादखिलं हितम् ६४
पौषे वारि सरोजातं माघे तत्तु तडागजम्
फाल्गुने कूपसम्भूतं चैत्रे चौञ्ज्यं हितम् मतम् ६५
वैशाखे नैर्झरं नीरं ज्येष्ठे शस्तं तथौद्भिदम्
आषाढे शस्यते कौपं श्रावणे दिव्यमेव च ६६
भाद्रे कौपं पयः शस्तमाश्विने चौञ्ज्यमेव च
कार्त्तिके मार्गशीर्षे च जलमात्रं प्रशस्यते ६७
भौमानामम्भसां प्रायो ग्रहणं प्रातरिष्यते
शीतत्वं निर्मलत्वञ्च यतस्तेषां मतो गुणः ६८
अत्यम्बुपानान्न पिच्यतेऽन्न निरम्बुपानाच्च स एव दोषः
तस्मान्नरो वह्निविवर्द्धनाय मुहुर्मुहुर्वारि पिबेदभूरि ६९
मूर्च्छापित्तोष्ण दाहेषु विषे रक्ते मदात्यये
श्रमे भ्रमे विदग्धेऽन्नेतमके वमथौ तथा
ऊर्ध्वगे रक्त पित्ते च शीतमम्भः प्रशस्यते ७०
पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे
आध्माने स्तिमिते कोष्ठे सद्यःशुद्धौ नवज्वरे ७१
अरुचिग्रहणीगुल्मश्वासकासेषु विद्र धौ
हिक्कायां स्नेहपाने च शीताम्बु परिवर्जयेत् ७२
अरोचके प्रतिश्याये मन्देऽग्नौ श्वयथौ क्षये
मुखप्रसेके जठरे कुष्ठे नेत्रामये ज्वरे
व्रणे च मधुमेहे च पिबेत्पानीयमल्पकम् ७३
जीवनं जीविनां जीवो जगत् सर्वन्तु तन्मयम्
नातोऽत्यन्तनिषेधेन कदाचिद्वारि वार्य्यते ७४
तृष्णा गरीयसी घोरा सद्यःप्राणविनाशिनी
तस्माद् देयं तृषाऽत्ताय पानीयं प्राणधारणम् ७५
तृषितो मोहमायाति मोहात्प्राणान्विमुञ्चति
अतः सर्वास्ववस्थासु न क्वचिद्वारि वारयेत् ७६
अगन्धमव्यक्तरसं सुशीतं तर्षनाशनम्
स्वच्छं लघु च हृद्यञ्च तोयं गुणवदुच्यते ७७
पिच्छिलं कृमिलं क्लिन्नं वर्णशैवालकर्दमैः
विवर्णं विरसं सान्द्रं दुर्गन्धं न हितं जलम् ७८
कलुषं छन्नमम्भोजपर्णनीलीतृणादिभिः
दुःस्पर्शनमसंस्पृष्टं सौरचान्द्र मरीचिभिः ७९
अनार्त्तवं वार्षिकं तु प्रथमं तच्च भूमिगम्
व्यापन्नं परिहर्त्तव्यं सर्वदोषप्रकोपणम् ८०
तत् कुर्यात्स्नानपानाभ्यां तृष्णाऽध्मानचिरज्वरान्
कासाग्निमान्द्याभिष्यन्दकण्डूगण्डादिकं तथा ८१
निन्दितं चापि पानीयं क्वथितं सूर्यतापितम्
सुवर्णं रजतं लौहं पाषाणं सिकतामपि ८२
भृशं सन्ताप्य निर्वाप्य सप्तधा साधितं तथा
कर्पूरजातिपुन्नागपाटलादिसुवासितम् ८३
शुचिसान्द्र पटस्रावि क्षुद्र जन्तुविवर्जितम्
स्वच्छं कनकमुक्ताऽद्यै शुद्धं स्याद्दोषवर्जितम् ८४
पर्णमूलविसग्रन्थिमुक्ताकनकशैवलैः
गोमेदेन च वस्त्रेण कुर्य्यादम्बुप्रसादनम् ८५
पीतं जलं जीर्य्यति यामयुग्माद्यामैकमात्राच्छृतशीतलञ्च
तदर्धमात्रेण शृतं कदुष्णं पयःप्रपाके त्रय एव कालाः ८६
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकणे त्रयोदशो वारिवर्गः समाप्त १३

दुग्धवर्गः[सम्पाद्यताम्]

अथ दुग्धवर्गः
दुग्धं क्षीरं पयः स्तन्यं बालजीवनमित्यपि
दुग्धं सुमधुरं स्निग्धं वातपित्तहरं सरम् १
सद्यः शुक्रकरं शीतं सात्म्यं सर्वशरीरिणाम्
जीवनं बृहणं बल्यं मेध्यं वाजीकरं परम्
वयःस्थापनमायुष्यं सन्धिकारि रसायनम् २
विरेकवान्तिवस्तीनां सेव्यमोजोविवर्द्धनम् ३
जीर्णज्वरे मनोरोगे शोषमूर्च्छाभ्रमेषु च
ग्रहण्यां पाण्डुरोगे च दाहे तृषि हृदामये ४
शूलोदावर्त्तगुल्मेषु वस्तिरोगे गुदाङ्कुरे
रक्तपित्तेऽतिसारे च योनिरोगे श्रमे क्लमे ५
गर्भस्रावे च सततं हितं मुनिवरैः स्मृतम्
बालवृद्धक्षतक्षीणाः क्षुद्व्यवायकृशाश्च ये
तेभ्यः सदाऽतिशयितं हितमेतदुदाहृतम् ६
गव्यं दुग्धं विशेषेण मधुरं रसपाकयोः
दोषधातुमलस्रोतः किञ्चित्क्लेदकरं गुरु ७
शीतलं स्तन्यकृत्स्निग्धं वातपित्तास्रनाशनम्
जरासमस्तरोगाणां शान्तिकृत् सेविनां सदा ८
कृष्णाया गोर्भवेद् दुग्धं वातहारि गुणाधिकम् ९
पीताया हरते पित्तं तथा वातहरं भवेत्
श्लेष्मलं गुरु शुक्लाया रक्ता चित्रा च वातहृत् १०
बालवत्सविवत्सानां गवां दुग्धं त्रिदोषकृत् ११
वष्कयिण्यास्त्रिदोषघ्नं तर्पणं बलकृत्पयः १२
जाङ्गलानूपशैलेषु चरन्तीनां यथोत्तररम्
पयो गुरुतरं स्नेहो यथाऽहारं प्रवर्त्तते १३
स्वल्पान्नभक्षणाज्जातं क्षीरं गुरु कफप्रदम्
तत्तु बल्यं परं वृष्यं स्वस्थानां गुणदायकम्
पलालतृणकार्पासबीजजं रोगिणे हितम् १४
माहिषं मधुरं गव्यात्स्निग्धं शुक्रकरं गुरु
निद्रा करमभिष्यन्दि क्षुधाऽधिक्यहरं हिमम् १५
छागं कषायं मधुरं शीतं ग्राहि तथा लघु
रक्तपित्तातिसारघ्नं क्षयकासज्वरापहम् १६
अजानामल्पकायत्वात्कटुतिक्तनिषेवणात्
स्तोकाम्बुपानाद्व्यायामात्सर्वरोगापहं पयः १७
मृगीणां जाङ्गलोत्थानामजाक्षीरगुणं पयः १८
आविकं लवणं स्वादु स्निग्धोष्णं चाश्मरीप्रणुत्
अहृद्यं तर्पणं केश्यं शुक्रपित्तकफप्रदम्
गुरु कासानिलोद्भूते केवले चानिले वरम् १९
रूक्षोष्णं वडवाक्षीरं बल्यं शोषानिलापहम्
अम्लं पटु लघु स्वादु सर्वमेकशफं तथा २०
औष्ट्रं दुग्धं लघु स्वादु लवणं दीपनं तथा
कृमिकुष्ठकफानाहशोथोदरहरं सरम् २१
बृंहणं हस्तिनीदुग्धं मधुरं तुवरं गुरु
वृष्यं बल्यं हिमं स्निग्धं चक्षुष्यं स्थिरताकरम् २२
भार्या लघु पयः शीतं दीपनं वातपित्तजित्
चक्षुः शूलाभिवातघ्नं नस्याश्च्योतनयोर्वरम् २३
धारोष्णं गोपयो बल्यं लघु शीतं सुधासमम्
दीपनञ्च त्रिदोषघ्नं तद्धाराशिशिरं त्यजेत् २४
धारोष्णं शस्यते गव्यं धाराशीतन्तु माहिषम्
शृतोष्णमाविकं पथ्यं शृतशीतमजापयः २५
आमं क्षीरमभिष्यन्दि गुरु श्लेष्मामवर्द्धनम्
ज्ञेयं सर्वमपथ्यं तु गव्यमाहिषवर्जितम् २६
नारीक्षीरं त्वाममेव हितं न तु शृतं हितम्
शृतोष्णं कफवातघ्नं शृतशीतन्तु पित्तनुत् २७
अर्द्धोदकं क्षीरशिष्टमामाल्लघुतरं पयः
जलेन रहितं दुग्धमतिपक्वं यथा यथा
तथा तथा गुरु स्निग्धं वृष्यं बलविवर्धनम् २८
क्षीरं तत्कालसूताया घनं पीयूषमुच्यते
नष्टदुग्धस्य पक्वस्य पिण्डः प्रोक्तः किलाटकः २९
अपक्वमेव यन्नष्टं क्षीरशाकं हि तत्पयः ३०
दघ्ना तक्रेण वा नष्टं दुग्धं बद्धं सुवाससा
द्र वभावेन सहितं तक्रपिण्डः स उच्यते ३१
नष्टदुग्धभवं नीरं मोरटं जेज्जटोऽब्रवीत्
पीयूषञ्च किलाटञ्च क्षीरशाकं तथैव च ३२
तक्रपिण्ड इमे वृष्या बृंहणा बलवर्द्धनाः
गुरवः श्लेष्मला हृद्या वातपित्तविनाशनाः ३३
दीप्ताग्नीनां विनिद्रा णां विद्र धौ चाभिपूजिताः
मुखशोष तृषा दाह रक्त पित्त ज्वरप्रणुत्
लघुर्बलकरो रुच्यो मोरटः स्यात्सितायुतः ३४
सन्तानिका गुरुः शीता वृष्या पित्तास्रवातनुत्
तर्पणी वृंहणी स्निग्धा बलासबलशुक्रला ३५
खण्डेन सहितं दुग्धं कफकृत्पवनापहम्
सितासितोपलायुक्तं शुक्रलं त्रिमलापहम्
सगुडं मूत्रकृच्छ्रघ्नं पित्तश्लेष्मकरं परम् ३६
रात्रौ चन्द्र गुणाधिक्याद्व्यायामाकरणात्तथा
प्राभातिकं पयः प्रायः प्रादोषाद् गुरु शीतलम् ३७
दिवाकरकराघाताद्व्यायामानिलसेवनात्
प्राभातिकात्तु प्रादोषं लघु वातकफापहम् ३८
वृष्यं बृंहणमग्निदीपनकरं पूर्वाह्नकाले पयो
मध्याह्ने तु बलावहं कफहरं पित्तापहं दीपनम्
बाले बृद्धिकरं क्षयेऽक्षयकरं वृद्धेषु रेतोवहं
रात्रौ पथ्यमनेकदोषशमनं चक्षुर्हितं संस्मृतम् ३९
वदन्ति पेयं निशि केवलं पयो भोज्यं न तेनेह सहौदनादिकम्
भवत्यजीर्णं न शयीत शर्वरीं क्षीरस्य पीतस्य न शेषमुत्सृजेत् ४०
विदाहीन्यन्नपानानि दिवा भुङ्क्ते हि यन्नरः
तद्विदाहप्रशान्त्यर्थं रात्रौ क्षीरं सदा पिबेत् ४१
दीप्तानले कृशे पुंसि बाले वृद्धे पयःप्रिये
मतं हिततमं दुग्धं सद्यःशुक्रकरं यतः ४२
क्षीरं गव्यमथाजं वा कोष्णं दण्डाहतं पिबेत्
लघु वृष्यं ज्वरहरं वातपित्तकफापहम् ४३
गोदुग्धप्रभवं किं वा छागीदुग्धसमुद्भवम्
भवेत् फेनं त्रिदोषघ्नं रोचनं बलवर्द्धनम् ४४
वह्निबृद्धिकरं वृष्यं सद्यस्तृप्तिकरं लघु
अतीसारेऽग्निमान्द्ये च ज्वरे जीर्णे प्रशस्यते ४५
विवर्णं विरसं चाम्लं दुर्गन्धं ग्रथितं पयः
वर्जयेदम्ललवणयुक्तं कुष्ठादिकृद् यतः ४६
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे चतुर्दशो दुग्धवर्गः समाप्तः १४

दधिवर्गः[सम्पाद्यताम्]

अथ दधिवर्गः
दध्युष्णं दीपनं स्निग्धं कषायानुरसं गुरु
पाकेऽम्ल ग्राहि पित्तास्रशोथमेदः कफप्रदम् १
मूत्रकृच्छ्रे प्रतिश्याये शीतगे विषमज्वरे
अतीसारेऽरुचौ कार्श्ये शस्यते बलशुक्रकृत् २
आदौ मन्दं ततः स्वादु स्वाद्वम्लञ्च ततःपरम्
अम्लं चतुर्थमत्यम्लं पञ्चमं दधि पञ्चधा ३
मन्दं दुग्धवदव्यक्तरसं किञ्चिद्घनं भवेत्
मन्दं स्यात्सृष्टविण्मूत्रं दोषत्रयविदाहकृत् ४
यत्सम्यग्घनतां यातं व्यक्तस्वादुरसं भवेत्
अव्यक्ताम्लरसं तत्तु स्वादु विज्ञैरुदाहृतम् ५
स्वादु स्यादत्यभिष्यन्दि वृष्यं मेदःकफावहम्
वातघ्नं मधुरं पाके रक्तपित्तप्रसादनम् ६
स्वाद्वम्लं सान्द्र मधुरं कषायानुरसं भवेत्
स्वाद्वम्लस्य गुणा ज्ञेया सामान्यदधिवज्जनैः ७
यत्तिरोहितमाधुर्यं व्यक्ताम्लत्वं तदम्लकम्
अम्लं तु दीपनं पित्तरक्तश्लेष्मविवर्द्धनम् ८
तदत्यम्लं दन्तरोमहर्षकण्ठादिदाहकृत्
अत्यम्लं दीपनं रक्तवातपित्तकरं परम् ९
गव्यं दधि विशेषेण स्वाद्वम्लं च रुचिप्रदम्
पवित्रं दीपनं हृद्यं पुष्टिकृत्पवनापहम्
उक्तं दध्नामशेषाणां मध्ये गव्यं गुणाधिकम् १०
माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत्
स्वादुपाकमभिष्यन्दि वृष्यं गुर्वस्रदूषकम् ११
आजं दध्युत्तमं ग्राहि लघु दोषत्रयापहम्
शस्यते श्वासकासार्शः क्षयकार्श्येषु दीपनम् १२
पक्वदुग्धभवं रुच्यं दधि स्निग्धं गुणोत्तमम्
पित्तानिलापहं सर्वधात्वग्निबलवर्द्धनम् १३
असारं दधि सङ्ग्राहि शीतलं वातलं लघु
विष्टम्भि दीपनं रुच्यं ग्रहणीरोगनाशनम् १४
गालितं दधि सुस्निग्धं वातघ्नं कफकृद् गुरु
बलपुष्टिकरं रुच्यं मधुरं नातिपित्तकृत् १५
सशर्करं दधि श्रेष्ठं तृष्णापित्तास्रदाहजित्
सगुडं वातनुद् वृष्यं बृंहणं तर्पणं गुरु १६
न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम्
नामुद्गसूपं नाक्षौद्रं नोष्णं नामलकैर्विना १७
हेमन्ते शिशिरे चापि वर्षासु दधि शस्यते
शरद्ग्रीष्मवसन्तेषु प्रायशस्तद्विगर्हितम् १८
ज्वरासृक्पित्त वीसर्पकुष्ठपाण्ड्वामयभ्रमान्
प्राप्नुयात्कामलां चोग्रां विधिं हत्वा दधिप्रियः १९
दध्नस्तूपरि यो भागो घनः स्नेहसमन्वितः
स लोके सर इत्युक्तो दध्नो मण्डस्तु मस्त्विति २०
सरः स्वादुर्गुरुर्वृष्यो वातवह्निप्रणाशनः
सोऽम्लो वस्तिप्रशमनः पित्तश्लेष्मविवर्द्धनः २१
मस्तु क्लमहरं बल्यं लघु भक्ताभिलाषकृत् २२
स्रोतोविशोधनं ह्लादि कफतृष्णानिलापहम्
अवृष्यं प्रीणनं शीघ्रं भिनत्ति मलसञ्चयम् २३
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे पञ्चदशो दधिवर्गः समाप्तः १५

तक्रवर्गः[सम्पाद्यताम्]

अथ तक्रवर्गः
घोलं तु मथितं तक्रमुदश्विच्छच्छिकाऽपि च
ससरं निर्जलं घोलं मथितं त्वसरोदकम् १
तक्रं पादजलं प्रोक्तमुदश्वित्त्वर्द्धवारिकम्
छच्छिका सारहीना स्यात्स्वच्छा प्रचुरवारिका
घोलं तु शर्करायुक्तं गुणैर्ज्ञेयं रसालवत् २
वातपित्तहरं ह्लादि मथितं कफपित्तनुत् ३
तक्रं ग्राहि कषायाम्लं स्वादुपाकरसं लघु
वीर्योष्णं दीपनं वृष्यं प्रीणनं वातनाशनम् ४
ग्रहण्यादिमतां पथ्यं भवेत्संग्राहि लाघवात्
किञ्च स्वादुविपाकित्वान्न च पित्तप्रकोपणम् ५
अम्लोष्णं दीपनं वृष्यं प्रीणनं वातनाशनम्
कषायोष्णविकाशित्वाद्रौ क्ष्याच्चापि कफापहम् ६
न तक्रसेवी व्यथते कदाचिन्न तक्रदग्धाः प्रभवन्ति रोगाः
यथा सुराणाममृतं सुखाय तथा नराणां भुवि तक्रमाहुः ७
उदश्वित् कफकृद् बल्यमामघ्नं परमं मतम्
छच्छिका शीतला लघ्वी पित्तश्रमतृषाहरी
वातनुत् कफकृत् सा तु दीपनी लवणान्विता ८
समुद्धृतघृतं तक्रं पथ्यं लघु विशेषतः ९
स्तोकोद्धृतघृतं तस्माद् गुरु वृष्यं कफापहम्
अनुद्धृतघृतं सान्द्रं गुरुपुष्टिकफप्रदम् १०
वातेऽम्ल शस्यते तक्रं शुण्ठीसैन्धवसंयुतम्
पित्ते स्वादु सितायुक्तं व्योषक्षारयुतं कफे ११
हिङ्गुजीरयुतं घोलं सैन्धवेन च संयुतम्
भवेदतीव वातघ्नमर्शोऽतीसारहृत्परम् १२
रुचिदं पुष्टिदं बल्यं वस्तिशूलविनाशनम्
मूत्रकृच्छ्रे तु सगुडं पाण्डुरोगे सचित्रकम् १३
तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति च
पीनसश्वासकासादौ पक्वमेव प्रयुज्यते १४
शीतकालेऽग्निमान्द्ये च तथा वातामयेषु च
अरुचौ स्रोतसां रोधे तक्रं स्यादमृतोपमम्
तत्तु हन्ति गरच्छर्दिप्रसेकविषमज्वरान्
पाण्डुमेदोग्रहण्यर्शोमूत्रग्रहभगन्दरान् १५
मेहं गुल्ममतीसारं शूलप्लीहोदरारुचीः
श्वित्रकोष्ठगतव्याधीन् कुष्ठशोथतृषाकृमीन् १६
नैव तक्रं क्षये दद्यान्नोष्णकाले न दुर्बले
न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपित्तजे १७
यान्युक्तानि दधीन्यष्टौ तद्गुणं तक्रमादिशेत् १८
इति श्रीमिश्रलटक नतनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे षोडशस्तक्रवर्गः समाप्तः १६

नवनीत वर्गः[सम्पाद्यताम्]

अथ नवनीत वर्गः
म्रक्षणं सरजं हैयङ्गवीनं नवनीतकम्
नवनीतं हितं गव्यं वृष्यं वर्णबलाग्निकृत् १
संग्राहि वातपित्तासृक्क्षयार्शोऽदितकासहृत्
तद्धितं बालके वृद्धे विशेषादमृतं शिशोः २
नवनीतं महिष्यास्तु वातश्लेष्मकरं गुरु
दाहपित्तश्रमहरं मेदः शुक्रविवर्द्धनम् ३
दुग्धोत्थं नवनीतं तु चक्षुष्यं रक्तपित्तनुत्
वृष्यं बल्यमतिस्निग्धं मधुरं ग्राहि शीतलम् ४
नवनीतं तु सद्यस्कं स्वादु ग्राहि हिमं लघु
मेध्यं किञ्चित्कषायाम्लमीषत्तक्रांश सङ्क्रमात् ५
सक्षारकटुकाम्लत्वाच्छर्द्यर्शःकुष्ठकारकम्
श्लेष्मलं गुरु मेदस्यं नवनीतं चिरन्तनम् ६
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे सप्तदशो नवनीतवर्गः समाप्तः १७

घृतवर्गः[सम्पाद्यताम्]

अथ घृतवर्गः
घृतमाज्यं हविः सर्पिः कथ्यन्ते तद्गुणा अथ
घृतं रसायनं स्वादु चक्षुष्यं वह्निदीपनम् १
शीतवीर्यविषालक्ष्मीपापपित्तानिलापहम्
अल्पाभिष्यन्दि कान्त्योजस्तेजोलावण्यवृद्धिकृत् २
स्वरस्मृतिकरं मेध्यमायुष्यं बलकृद्गुरु
उदावर्त्तज्वरोन्मादशूलानाहव्रणान् हरेत्
स्निग्धं कफकरं रक्षःक्षयवीसर्परक्तनुत् ३
गव्यं घृतं विशेषेण चक्षुष्यं वृष्यमग्निकृत्
स्वादु पाककरं शीतं वातपित्तकफापहम् ४
मेधालावण्यकान्त्योजस्तेजोवृद्धिकरं परम्
अलक्ष्मीपापरक्षोघ्नं वयसः स्थापकं गुरु ५
बल्यं पवित्रमायुष्यं सुमङ्गल्यं रसायनम्
सुगन्धं रोचनं चारु सर्वाज्येषु गुणाधिकम् ६
माहिषन्तु घृतं स्वादु पित्तरक्तानिलापहम्
शीतलं श्लेष्मलं वृष्यं गुरु स्वादु विपच्यते ७
आजमाज्यं करोत्यग्निं चक्षुष्यं बलवर्द्धनम्
कासे श्वासे क्षये चापि हितं पाके भवेत् कटु ८
औष्ट्रं कटु घृतं पाके शोषकृमिविषापहम्
दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ९
पाके लघ्वाविकं सर्पिः सर्वरोगविनाशनम् १०
वृद्धिं करोति चास्थ्नां वा अश्मरीशर्कराऽपहम्
चक्षुष्यमग्निसंधुक्ष्यं वातदोषनिवारणम् ११
कफेऽनिले योनिदोषे पित्ते रक्ते च तद्धितम्
चज्ञुष्यमाज्यं स्त्रीणां वा सर्पिः स्यादमृतोपमम् १२
वृद्धिं करोति देहाग्नेर्लघु पाके विषापहम्
तर्पणं नेत्ररोगघ्नं दाहनुद् वडवाघृतम् १३
घृतं दुग्धभवं ग्राहि शीतलं नेत्ररोगहृत्
निहन्ति पित्तदाहास्रमदमूर्च्छाभ्रमानिलान् १४
हविर्ह्यस्तनदुग्धोत्थं तत्स्याद्धैयङ्गवीनकम्
हैयङ्गवीनं चक्षुष्यं दीपनं रुचिकृत्परम्
बलकृद् बृंहणं वृष्यं विशेषाज्ज्वरनाशनम् १५
बर्षादूर्ध्वं भवेदाज्यं पुराणं तत् त्रिदोषनुत्
मूर्च्छाकुष्ठविषोन्मादापस्मारतिमिरापहम् १६
यथा यथा ऽखिलं सर्पिः पुराणमधिकं भवेत्
तथा तथा गुणैः स्वैः स्वैरधिकं तदुदाहृतम् १७
योजयेन्नवमेवाज्यं भोजने तर्पणे श्रमे
बलक्षये पाण्डुरोगे कामलानेत्ररोगयोः १८
राजयक्ष्मणि बाले च वृद्धे श्लेष्मकृते गदे १९
रोगे सोमे विषूच्याञ्च विबन्धे च मदात्यये
ज्वरे च दहने मन्दे न सर्पिर्बहु मन्यते २०
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणेऽष्टादशो घृतवर्गः समाप्तः १८

मूत्रवर्गः[सम्पाद्यताम्]

अथ मूत्रवर्गः
गोमूत्रं कटु तीक्ष्णोष्णं क्षारं तिक्तकषायकम्
लघ्वग्निदीपनं मेध्यं पित्तकृत्कफवातहृत् १
शूलगुल्मोदरानाहकण्ड्वक्षिमुखरोगजित्
किलासगदवातामवस्तिरुक्कुष्ठनाशनम्
कासश्वासापहं शोथकामलापाण्डुरोगहृत् २
कण्डूकिलासगदशूलमुखाक्षिरोगान्गुल्मातिसारमरुदामयमूत्ररोधान्
कासं सकुष्ठजठरकृमिपाण्डुरोगान्गोमूत्रमेकमपि पीतमपाकरोति ३
सर्वेष्वपि च मूत्रेषु गोमूत्रं गुणतोऽधिकम्
अतोऽविशेषात्कथने मूत्रं गोमूत्रमुच्यते ४
प्लीहोदरश्वासकासशोथवर्चोग्रहापहम् ५
शूलगुल्मरुजाऽनाहकामलापाण्डुरोगहृत्
कषायं तिक्ततीक्ष्णं च पूरणात्कर्णशूलहृत् ६
नरमूत्रं गरं हन्ति सेवितं तद्र सायनम्
रक्तपामाहरं तीक्ष्णं सक्षारलवणं स्मृतम् ७
गोऽजाऽविमहिषीणां तु स्त्रीणां मूत्रं प्रशस्यते
खरोष्ट्रेभनराश्वानां पुंसां मूत्रं हितं स्मृतम् ८
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे एकोनिविंशो मूत्रवर्गः समाप्तः १९

तैलवर्गः[सम्पाद्यताम्]

अथ तैलवर्गः
तिलादिस्निग्धवस्तूनां स्नेहस्तैलमुदाहृतम्
तत्तु वातहरं सर्वं विशेषात्तिलसम्भवम् १
तिलतैलं गुरु स्थैर्यबलवर्णकरं सरम्
वृष्यं विकाशि विशदं मधुरं रसपाकयोः २
सूक्ष्मं कषायानुरसं तिक्तं वातकफापहम्
वीर्येणोष्णं हिमं स्पर्शे बृंहणं रक्तपित्तकृत् ३
लेखनं बद्धविण्मूत्रं गर्भाशयविशोधनम्
दीपनं बुद्धिदं मेध्यं व्यवायि व्रणमेहनुत् ४
श्रोत्रयोनिशिरःशूलनाशनं लघुताकरम्
त्वच्यं केश्यं च चक्षुष्यमभ्यङ्गे भोजनेऽन्यथा ५
छिन्नभिन्नच्युतोत्पिष्टमथितक्षतपिच्चिते
भग्नस्फुटितविद्धाग्निदग्धविश्लिष्टदारिते ६
तथाऽभिहतनिर्भुग्नमृगव्याघ्रादिविक्षते
वस्तौ पानेऽन्नसंस्कारे नस्ये कर्णाक्षिपूरणे
सेकाभ्यङ्गावगाहेषु तिलतैलं प्रशस्यते ७
रूक्षादिदुष्टः पवनः स्रोतः संकोचयेद् यदा
रसोऽसम्यग्वहन् कार्श्यं कुर्याद्र क्तान्यवर्द्धयन् ८
तेषु प्रवेष्टुं सरतासौक्ष्म्यस्निग्धत्वमार्दवैः
तैलं क्षमं रसं नेतुं कृशानां तेन बृंहणम् ९
व्यवायिसूक्ष्मतीक्ष्णोष्णसरत्वैर्मेदसः क्षयम्
शनैः प्रकुरुते तैलं तेन लेखनमीरितम् १०
द्रुतं पुरीषं बध्नाति स्खलितं तत्प्रवर्त्तयेत्
ग्राहकं सारकञ्चापि तेन तैलमुदीरितम् ११
घृतमब्दात्परं पक्वं हीनवीर्यं प्रजायते
तैलं पक्वमपक्वं वा चिरस्थायि गुणाधिकम् १२
दीपनं सार्षपं तैलं कटुपाकरसं लघु
लेखनं स्पर्शवीर्य्योष्णं तीक्ष्णं पित्तास्रदूषकम् १३
कफमेदोऽनिलार्शोघ्नं शिरःकर्णामयापहम्
कण्डूकुष्ठकृमिश्वित्रकोठदुष्टकृमिप्रणुत् १४
तद्वद्रा जिकयोस्तैलं विशेषान्मूत्रकृच्छ्रकृत् १५
तीक्ष्णोष्णं तुवरी तैलं लघु ग्राहि कफास्रजित्
बह्निकृद्विषहृत्कण्डूकुष्ठकोठकृमिप्रणुत्
मेदोदोषापहं चापि व्रणशोथहरं परम् १६
अतसीतैलमाग्नेयं स्निग्धोष्णं कफपित्तकृत्
कटुपाकमचक्षुष्यं बल्यं वातहरं गुरु १७
मलकृद्र सतः स्वादु ग्राहि त्वग्दोषहृद् घनम् १८
वस्तौ पाने तथाऽभ्यङ्गे नस्ये कर्णस्य पूरणे
अनुपानविधौ चापि प्रयोज्यं वातशान्तये १९
कुसुम्भतैलमम्लं स्यादुष्णं गुरुविदाहि च
चक्षुर्भ्यामहितं बल्यं रक्तपित्तकफप्रदम् २०
तैलं तु खसबीजानां बल्यं वृष्यं गुरुस्मृतम्
वातहृत्कफहृच्छीतं स्वादुपाकरसं च तत् २१
एरण्डतैलं तीक्ष्णोष्णं दीपनं पिच्छिलं गुरु
वृष्यं त्वच्यं वयःस्थापि मेधाकान्तिबलप्रदम् २२
कषायानुरसं सूक्ष्मं योनिशुक्रविशोधनम्
विस्रं स्वादु रसे पाके सतिक्तं कटुकं रसम् २३
बिषमज्वरहृद्रो गपृष्ठगुह्यादिशूलनुत्
हन्ति वातोदरानाहगुल्माष्ठीलाकटिग्रहान् २४
वातशोणितविड्बन्धव्रघ्नशोथामविद्र धीन्
आमवातगजेन्द्र स्य शरीरवनचारिणः
एक एव निहन्ताऽयमैरण्डस्नेहकेसरी २५
तैलं सर्जरसोद्भूतं विस्फोटव्रणनाशनम्
कुष्ठपामाकृमिहरं वातश्लेष्मामयापहम् २६
तैलं स्वयोनिगुणकृद्वाग्भटेनाखिलं मतम्
अतः शेषस्य तैलस्य गुणा ज्ञेयाः स्वयोनिवत् २७
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे विंशस्तैलवर्गः समाप्तः २०

सन्धानवर्गः[सम्पाद्यताम्]

अथ सन्धानवर्गः
सन्धितं धान्यमण्डादि काञ्जिकं कथ्यते जनैः
काञ्जिकं भेदि तीक्ष्णोष्णं रोचनं पाचनं लघु १
दाहज्वरहरं स्पर्शात्पानाद्वातकफापहम्
माषादिवटकैर्यत्तु क्रियते तद् गुणाधिकम् २
लघु वातहरं तत्तु रोचनं पाचनं परम्
शूलाजीर्णविबन्धामनाशनं वस्तिशोधनम् ३
शोषमूर्च्छाभ्रमार्त्तानां मदकण्डूविशोषिणाम्
कुष्ठिनां रक्तपित्तीनां काञ्जिकं न प्रशस्यते ४
पाण्डुरोगे यक्ष्मणि च तथा शोषातुरेषु च
क्षतक्षीणे तथा श्रान्ते मन्दज्वरनिपीडिते
एतेषां न हितं प्रोक्तं काञ्जिकं दोषकारकम् ५
तुषोदकं यवैरामैः सतुषैः शकलीकृतैः ६
तुषाम्बु दीपनं हृद्यं पाण्डुकृमिगदापहम्
तीक्ष्णोष्णं पाचनं पित्तरक्तकृद्वस्तिशूलनुत् ७
सौवीरं तु यवैरामैः पक्वैर्वा निस्तुषैः कृतम्
गोधूमैरपि सौवीरमाचार्याः केचिदूचिरे ८
सौवीरं तु ग्रहण्यर्शःकफघ्नं भेदि दीपनम्
उदावर्त्ताङ्गमर्दास्थिशूलानाहेषु शस्यते ९
आरनालं तु गोधूमैरामैः स्यान्निस्तुषीकृतैः
पक्वैर्वा सन्धितैस्तत्तु सौवीरसदृशं गुणैः १०
धान्याम्लं शालिचूर्णं च कोद्र वादिकृतं भवेत्
धान्याम्लं धान्ययोनित्वात्प्रीणनं लघु दीपनम्
अरुचौ वातरोगेषु सर्वेष्वास्थापने हितम् ११
शिण्डाकी राजिकायुक्तैः स्यान्मूलकदलद्र वैः
सर्षपस्वरसैर्वाऽपि शालिपिष्टकसंयुतैः १२
शिण्डाकी रोचनी गुर्वी पित्तश्लेष्मकरी स्मृता १३
कन्दमूलफलादीनि सस्नेहलवणानि च
यत्र द्र वेऽभिषूयन्ते तच्छुक्तमभिधीयते १४
शुक्तं कफघ्नं तीक्ष्णोष्णं रोचनं पाचनं लघु
पाण्डुकृमिहरं रूक्षं भेदनं रक्तपित्तकृत् १५
कन्दमूलफलाढ्यं यत्तत्तु विज्ञेयमासुतम्
तद्रुच्यं पाचनं वातहरं लघु विशेषतः १६
मद्यन्तु सीधुमैरेयमिरा च मदिरा सुरा
कादम्बरी वारुणी च हालाऽपि बलवल्लभा १७
पेयं यन्मादकं लोकैस्तन्मद्यमभिधीयते
यथाऽरिष्टं सुरा सीधुरासवाद्यमनेकधा १८
मद्यं सर्वं भवेदुष्णं पित्तकृद्वातनाशनम्
भेदनं शीघ्रपाकं च रूक्षं कफहरं परम् १९
अम्लं च दीपनं रुच्यं पाचनं चाशुकारि च
तीक्ष्णं सूक्ष्मं च विशदं व्यवायि च विकाशि च २०
पक्वौषधाम्बुसिद्धं यन्मद्यं तत्स्यादरिष्टकम् २१
अरिष्टं लघुपाकेन सर्वतश्च गुणाधिकम्
अरिष्टस्य गुणा ज्ञेया बीजद्र व्यगुणैः समाः २२
शालिषष्टिकपिष्टादिकृतं मद्यं सुरा स्मृता
सुरा गुर्वी बलस्तन्यपुष्टिमेदःकफप्रदा
ग्राहिणी शोथगुल्मार्शोग्रहणीमूत्रकृच्छ्रनुत् २३
पुनर्नवाशिलापिष्टैर्विहिता वारुणी स्मृता
संहितैस्तालखर्जूररसैर्या साऽपि वारुणी
सुरावद्वारुणी लघ्वी पीनसाध्मानशूलनुत् २४
इक्षोः पक्वै रसैः सिद्धः सीधुः पक्वरसश्च सः
आमैस्तैरेव यः सीधुः स च शीतरसः स्मृतः २५
सीधुः पक्वरसः श्रेष्ठः स्वराग्निबलवर्णकृत्
वातपित्तकरः सद्यः स्नेहनो रोचनो हरेत् २६
विबन्धमेदः शोफार्शः शोफोदरकफामयान्
तस्मादल्पगुणः शीतरसः संलेखनः स्मृतः २७
यदपक्व्षधाम्बुभ्यां सिद्धं मद्यं स आसवः २८
आसवस्य गुणा ज्ञेया बीजद्र व्यगुणैः समाः २९
मद्यं नवमभिष्यन्दि त्रिदोषजनकं सरम्
अहृद्यं बृंहणं दाहि दुर्गन्धं विशदं गुरु ३०
जीर्णं तदेव रोचिष्णु कृमिश्लेष्मानिलापहम्
हृद्यं सुगन्धि गुणवल्लघु स्रोतोविशोधनम् ३१
सात्त्विकेगीतहास्यादि राजसे साहासादिकम्
तामसे निन्द्यकर्माणि निद्रा ञ्च मदिराऽचरेत् ३२
विधिना मात्रया काले हितैरन्नैर्यथाबलम्
प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा ३३
किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम्
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम् ३४
मुस्तैलवालुगदजीरकधान्यकैला यश्चर्वयन्सदसि वाचमभिव्यनक्ति
स्वाभाविकं मुखजमुञ्झति पूतिगन्धं गन्धञ्च मद्यलशुनादि भवञ्च नूनम् ३५
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे एकविंशः सन्धानवर्गः समाप्तः २१

मधुवर्गः[सम्पाद्यताम्]

अथ मधुवर्गः
मधु माक्षिक माध्वीकक्षौद्र सारघमीरितम्
मक्षिकावरटीभृङ्गवान्तं पुष्परसोद्भवम् १
मधु शीतं लघु स्वादु रूक्षं ग्राहि विलेखनम्
चक्षुष्यं दीपनं स्वर्यं व्रणशोधनरोपणम् २
सौकुमार्यकरं सूक्ष्मं परं स्रोतोविशोधनम्
कषायानुरसं ह्लादि प्रसादजनकं परम् ३
वर्ण्यं मेधाकरं वृष्यं विशदं रोचनं हरेत्
कुष्ठार्शःकास पित्तास्र कफ मेह क्लमकृमीन् ४
मेदस्तृष्णा वमिश्वास हिक्काऽतीसारविड्ग्रहान्
दाहक्षतक्षयांस्तत्तु योगवाह्यल्पवातलम् ५
माक्षिकं भ्रामरं क्षौद्रं पौत्तिकंछात्रमित्यपि
आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ६
मक्षिकाः पिङ्गवर्णास्तु महत्यो मधुमक्षिकाः
ताभिः कृतं तैलवर्णं माक्षिकं परिकीर्त्तितम् ७
माक्षिकं मधुषु श्रेष्ठं नेत्रामयहरं लघु
कामलाऽशक्षतश्वासकासक्षयविनाशनम् ८
किञ्चित्सूक्ष्मैः प्रसिद्धेभ्यः षट्पदेभ्योऽलिभिश्चितं
निर्मलं स्फटिकाभं यत्तन्मधु भ्रामरं स्मृतम् ९
भ्रामरं रक्तपित्तघ्नं मूत्रजाड्यकरं गुरु
स्वादुपाकमभिष्यन्दि विशेषात्पिच्छिलं हिमम् १०
मक्षिकाःकपिलाः सूक्ष्माः क्षुद्रा ऽख्यास्तत्कृतं मधु
मुनिभिः क्षौद्र मित्युक्तंतद्वर्णात्कपिलं भवेत्
गुणैर्माक्षिकवत्क्षौद्रं विशेषान्मेहनाशनम् ११
कृष्णा या मशकोपमा लघुतराः प्रायो महापीडिका
वृक्षाणां पृथुकोटरान्तरगताः पुष्पासवं कुर्वते
तास्तज्ज्ञैरिह पुत्तिका निगदितास्ताभिः कृतं सर्पिषा
तुल्यं यन्मधु तद्वनेचरजनैः संकीर्तितं पौत्तिकम् १२
पौत्तिकं मधु रूक्षोष्णं पित्तदाहास्रवातकृत्
विदाहि मेहकृच्छ्रघ्नं ग्रन्थ्यादिक्षतशोषि च १३
वरटाः कपिलाः पीताः प्रायो हिमवतो वने १४
कुर्वन्ति च्छत्रकाकारं तज्जं छात्रं मधु स्मृतम्
छात्रं कपिलपीतं स्यात्पिच्छिलं शीतलं गुरु १५
स्वादुपाकं कृमिश्वित्ररक्तपित्तप्रमेहजित्
भ्रमतृण्मोहविषहृत्तर्पणञ्चगुणाधिकम् १६
मधूकवृक्षनिर्यासं जरत्कार्वाश्रभोद्भवम्
स्रवत्यार्घ्यं तदाख्यातं श्वेतकं मालवे पुनः १७
तीक्ष्णतुण्डास्तु याः पीता मक्षिकाः षट्पदोपमाः
अर्घ्यास्तास्तत्कृतं यत्तदार्घ्यमित्यपरे जगुः १८
आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परम्
कषायं कटुकं पाके तिक्तञ्च बलपुष्टिकृत् १९
प्रायो वल्मीकमध्यस्थाः कपिलाः स्वल्पकीटकाः
कुर्वन्ति कपिलं स्वल्पं तत्स्यादौद्दालकं मधु २०
औद्दालकं रुचिकरं स्वर्यं कुष्ठविषापहम्
कपायमुष्णमम्लञ्च कटुपाकञ्च पित्तकृत् २१
संस्रुत्य पतितं पुष्पाद्यत्तु पत्रोपरि स्थितम्
मधुराम्लकषायञ्च तद्दालं मधु कीर्त्तितम् २२
दालं मधु लघु प्रोक्तं दीपनीयं कफापहम्
कषायानुरसं रूक्षं रुच्यं छर्दिप्रमेहजित् २३
अधिकं मधुरं स्निग्धं बृंहणं गुरु भारिकम् २४
नवं मधुभवेत्पुष्टयै नातिश्लेष्महरं सरम्
पुराणं ग्राहकं रूक्षं मेदोघ्नमतिलेखनम् २५
मधुनः शर्करायाश्च गुडस्यापि विशेषतः
एकसंवत्सरे वृत्ते पुराणत्वं स्मृतं बुधैः २६
विषपुष्पादपि रसं सविषा भ्रमरादयः
गृहीत्वा मधु कुर्वन्ति तच्छीतं गुणवन्मधु २७
विषान्वयात्तदुष्णन्तु द्र व्येणोष्णेन वा सह
उष्णार्त्तस्योष्णकाले च स्मृतं विषसमं मधु २८
मयनं तु मधूच्छिष्टं मधुशेषं च सिक्थकम्
मध्वाधारो मदनकं मधूषितमति स्मृतम् २९
मदनं मृदु सुस्निग्धं भूतघ्नं व्रणरोपणम्
भग्नसन्धान्कृद्वातकुष्ठवीसर्परक्तजित् ३०
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे द्वाविंशो मधुवर्गः समाप्तः २२

इक्षुवर्गः[सम्पाद्यताम्]

अथ इक्षुवर्गः
इक्षुर्दीर्घच्छदः प्रोक्तस्तथा भूरिरसोऽपि च
गुडमूलोऽसिपत्रश्च तथा मधुतृणः स्मृतः १
इक्षवो रक्तपित्तघ्ना बल्या वृष्याः कफप्रदाः
स्वादुपाकरसाः स्निग्धाः गुरवो मूत्रला हिमाः २
पौण्ड्रको भीरुकश्चापि वंशकः शतपोरकः
कान्तारतापसेक्षुश्च काण्डेक्षुः सूचिपत्रकः ३
नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत्
मनोगुप्ता च इत्येता जातयस्तत्र कीर्त्तिताः ४
वातपित्तप्रशमनो मधुरो रसपाकयोः
सुशीतो वृंहणो बल्यः पौण्ड्रको भीरुकस्तथा ५
कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः ६
कान्तारेक्षुर्गुरुर्वृष्यः श्लेष्मलो वृंहणः सरः ७
दीर्घपोरः सुकठिनः सक्षारो वंशकः स्मृतः ८
शतपर्वा भवेत्किञ्चित्कोशकारगुणान्वितः
विशेषात्किञ्चिदुष्णश्च सक्षारः पवनापहः ९
तापसेक्षुर्भवेन्मृद्वी मधुरा श्लेष्मकोपनी
तर्पणी रुचिकृच्चापि वृष्या च बलकारिणी १०
एवं गुणैस्तु काण्डेक्षुः स तु वातप्रकोपणः ११
सूचीपत्रो नीलपोरो नैपालो दीर्घपत्रकः
वातलाः कफपित्तघ्नाः सकषाया विदाहिनः १२
मनोगुप्ता वातहरी तृष्णाऽमयविनाशिनी
सुशीता मधुराऽतीव रक्तपित्तप्रणाशिनी १३
बालइक्षुः कफं कुर्य्यान्मेदोमेहकरश्च सः
युवा तु वातहृत् स्वादुरीषत्तीक्ष्णश्च पित्तनुत्
रक्तपित्तहरो वृद्धः क्षतहृद्बलवीर्यकृत् १४
मूले तु मधुरोऽत्यर्थं मध्येऽपि मधुरः स्मृतः
अग्रे ग्रन्थिषु विज्ञेय इक्षुः पटुरसोजनैः १५
दन्तनिष्पीडितस्येक्षो रसः पित्तास्रनाशनः
शर्करासमवीर्यः स्यादविदाही कफप्रदः १६
मूलाग्रजन्तुग्रन्थ्यादिपीडनान्मलसङ्कराद्
किञ्चित्कालविधृत्या च विकृतिं याति यान्त्रिकः
तस्माद्विदाही विष्टम्भी गुरुः स्याद्यान्त्रिको रसः १७
रसः पर्युषितो नेष्टो ह्यम्लो वातापहो गुरुः
कफपित्तकरः शोषी भेदनश्चातिमूत्रलः १८
पक्वो रसो गुरुः स्निग्धः सुतीक्ष्णः कफवातनुत्
गुल्मानाहप्रशमनः किञ्चित्पित्तकरः स्मृतः १९
इक्षोर्विकारास्तृड्दाहमूर्छापित्तास्रनाशनः
गुरवो मधुरा बल्याः स्निग्धा वातहराः सराः
वृष्या मोहहराः शीता वृंहणा विषहारिणः २०
इक्षो रसस्तु यः पक्वः किञ्चिद्गाढो बहुद्र वः
स एवेक्षुविकारेषु ख्यातः फाणितसंज्ञया
फाणितं गुर्वभिष्यन्दि वृंहणं कफशुक्रकृत्
वातपित्तश्रमान्हन्ति मूत्रवस्तिविशोधनम् २१
इक्षो रसो यः सम्पक्वो घनः किञ्चिद्द्र वान्वितः २२
मन्दं यत्स्यन्दते तस्मात्तन्मत्स्यण्डी निगद्यते
मत्स्यण्डी भेदिनी बल्या लघ्वी पित्तानिलापहा
मधुरा बृंहणी वृष्या रक्तदोषापहा स्मृता २३
इक्षो रसो यः सम्पन्नो जायते लोष्टवद् दृढः २४
स गुडो गौडदेशे तु मत्स्यण्ड्येव गुडो मतः
गुडो वृष्यो गुरुः स्निग्धो वातघ्नो मूत्रशोधनः
नातिपित्तहरो मेदःकफकृमिबलप्रदः २५
गुडो जीर्णो लघुः पथ्योऽनभिष्यन्द्यग्निपुष्टिकृत्
पित्तघ्नो मधुरो वृष्यो वातघ्नोऽसृक्प्रसादनः २६
गुडो नवः कफश्वासकासकृमिकरोऽग्निकृत् २७
श्लेष्माणमाशु विनिहन्ति सहार्द्र केण पित्तं निहन्ति च तदेव हरीतकीभिः
शुण्ठ्या समं हरति वातमशेषमित्थं दोषत्रयक्षयकराय नमो गुडाय २८
खण्डन्तु मधुरं वृष्यं चक्षुष्यं बृंहणं हिमम्
वातपित्तहरं स्निग्धं बल्यं वान्तिहरं परम् २९
खण्डन्तु सिकतारूपं सुश्वेतं शर्करा सिता
सिता सुमधुरा रुच्या वातपित्तास्रदाहहृत्
मूर्च्छाच्छर्दिज्वरान्हन्ति सुशीता शुक्रकारिणी ३०
भवेत्पुष्पसिता शीता रक्तपित्तहरी लघुः
सितोपला सरा लघ्वी वातपित्तहरी हिमा ३१
मधुजा शर्करा रूक्षा कफपित्तहरा गुरुः
छर्द्यतीसारतृड्दाहरक्तहृत्तुवरा हिमा ३२
यथा यथैषां नैर्मल्यं मधुरत्वं यथा यथा
स्नेहलाघवशैत्यादि सरत्वञ्च तथा तथा ३३
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे त्रयोविंश इक्षुवर्गः समाप्तः २३

अनेकार्थवर्गः[सम्पाद्यताम्]

अक्षशब्दः स्मृतोऽष्टासु सौवर्चलबिभीतके
कर्षपद्माक्षरुद्रा क्षशकटेन्द्रि यपाशके १
काकाख्यः काकमाची च काकोली काकणन्तिका
काकजङ्घा काकनासा काकोदुम्बरिकाऽपि च
सप्तस्वर्थेषु कथितः काकशब्दो विचक्षणैः २
सर्पद्विरदमेषेषु सीसके नागकेसरे
नागबल्ल्यां नागदन्त्यां नागशब्दः प्रयुज्यते ३
मांसेद्र वे चेक्षुरसे पारदे मधुरादिषु
बोले रागे विषे नीरे रसो नवसु वर्त्तते ४
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे चतुर्विंशोऽनेकार्थवर्गःसमाप्तः २४
इति भावप्रकाशे पूर्वखण्डे प्रथमभागे द्रव्यगुणप्रकरणापरनामकं षष्ठं मिश्रप्रकरणं समाप्तम् ६
समाप्तश्चायं निघण्टुभागः