भावप्रकाशः/पूर्वखण्डे प्रकरण ०१-०६
दिखावट
- श्रीमद्भावमिश्रप्रणीतः भाव प्रकाशः पूर्व खण्डम्
- गजमुखममरप्रवरं सिद्धिकरं विघ्नहर्तारम्
- गुरुमवगमनयनप्रदमिष्टकरीमिष्टदेवतां वन्दे १
- आयुर्वेदागमनं क्रमेण येनाभवद्भूमौ
- प्रथमं लिखामि तमहं नानातन्त्राणि संदृश्य २
- आयुर्हिताहितं व्याधेर्निदानं शमनं तथा
- विद्यते यत्र विद्वद्भिः स आयुर्वेद उच्यते ३
- अनेन पुरुषो यस्मादायुर्विन्दति वेत्ति च
- तस्मान्मुनिवरैरेष आयुर्वेद इति स्मृतः ४
- विधाताऽथर्वसर्वस्वमायुर्वेदं प्रकाशयन्
- स्वनाम्ना संहितां चक्रे लक्षश्लोकमयीमृजुम् ५
- ततः प्रजापतिं दक्षं दक्षं सकलकर्मसु
- विधिर्धीनीरधिः साङ्गमायुर्वेदमुपादिशत् ६
- अथ दक्षः क्रियादक्षः स्वर्वैद्यौ वेदमायुषः
- वेदयामास विद्वांसौ सूर्यांशौ सुरसत्तमौ ७
- दक्षादधीत्य दस्रौ वितनुतः संहितां स्वीयाम्
- सकलचिकित्सकलोकप्रतिपत्तिविवृद्धये धन्याम् ८
- स्वयम्भुवः शिरश्छिन्नं भैरवेण रुषाऽथ तत्
- अश्विभ्यां संहितं तस्मात्तौ जातौ यज्ञभागिनौ ९
- देवासुररणे देवा दैत्यैर्ये सक्षताः कृताः
- अक्षतास्ते कृताः सद्यो दस्राभ्यामद्भुतं महत् १०
- वज्रिणोऽभूद् भुजस्तम्भः स दस्राभ्यां चिकित्सितः
- सोमान्निपतितश्चन्द्र स्ताभ्यामेव सुखी कृतः ११
- विशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च
- शशिनो राजयक्ष्माऽभूदश्विभ्यां ते चिकित्सिताः १२
- भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः
- वीर्यवर्णस्वरोपेतः कृतोऽश्विभ्यां पुनर्युवा १३
- एतैश्चान्यैश्च बहुभिः कर्मभिर्भिषजां वरौ
- बभूवतुर्भृशं पूज्याविन्द्रा दीनां दिवौकसाम् १४
- संदृश्य दस्रयोरिन्द्र ः! कर्माण्येतानि यत्नवान्
- आयुर्वेदं निरुद्वेगं तौ ययाचे शचीपतिः १५
- नासत्यौ सत्यसन्धेन शक्रेण किल याचितौ
- आयुर्वेदं यथाऽधीतं ददतुः शतमन्यवे १६
- नासत्याभ्यामधीत्यैव आयुर्वेदं शतक्रतुः
- अध्यापयामास बहूनात्रेयप्रमुखान्मुनीन् १७
- एकदा जगदालोक्य गदाकुलमितस्ततः
- चिन्तयामास भगवानात्रेयो मुनिपुङ्गवः १८
- किं करोमि क्व गच्छामि कथं लोका निरामयाः
- भवन्ति सामयानेतान्न शक्नोमि निरीक्षितुम् १९
- दयालुरहमत्यर्थं स्वभावो दुरतिक्रमः
- एतेषां दुःखतो दुःखं ममापि हृदयेऽधिकम् २०
- आयुर्वेदं पठिष्यामि नैरुज्याय शरीरिणाम्
- इति निश्चित्य गतवानात्रेयस्त्रिदशालयम् २१
- तत्र मन्दिरमिन्द्र स्य गत्वा शक्रं ददर्श सः
- सिंहासनसमासीनं स्तूयमानं सुरर्षिभिः २२
- भासयन्तं दिशो भासा भास्करप्रतिमं त्विषा
- आयुर्वेदमहाचार्यं शिरोधार्यं दिवौकसाम् २३
- शक्रस्तु तं निरीक्ष्यैवं त्यक्तसिंहासनः स्थितः
- तमग्रे पूजयामास भृशं भूरितपःकृशम् २४
- कुशलं परिपप्रच्छ तथागमनकारणम्
- स मुनिर्वक्तुमारेभे निजागमनकारणम् २५
- देवराज न जानासि दिव एव यतो भवान्
- विधात्रा विहितो यत्नात्त्रिलोकीलोकपालकः २६
- व्याधिभिर्व्यथिता लोकाः शोकाकुलितचेतसः
- भूतले सन्ति सन्तापं तेषां हन्तुं कृपां कुरु २७
- आयुर्वेदोपदेशं मे कुरु कारुण्यतो नृणाम्
- तथेत्युक्त्वा सहस्राक्षोऽध्यापयामास तं मुनिम् २८
- मुनीन्द्र इन्द्र तः साङ्गमायुर्वेदमधीत्य सः
- अभिनन्द्य तमाशीर्भिराजगाम पुनर्महीम् २९
- अथात्रेयो मुनिश्रेष्ठो भगवान्करुणाकरः
- स्वनाम्ना संहितां चक्रे नरवर्गानुकम्पया ३०
- ततोऽग्निवेशं भेडञ्च जातूकर्णं पराशरम्
- क्षीरपाणिञ्च हारीतमायुर्वेदमपाठयत् ३१
- तन्त्रस्य कर्त्ता प्रथममग्निवेशोऽभवत्पुरा
- ततो भेडादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च ३२
- श्रावयामासुरात्रेयं मुनिवृन्देन वन्दितम्
- श्रुत्वा च तानि तन्त्राणि हृष्टोऽभूदत्रिनन्दनः ३३
- यथावत्सूत्रितं दृष्ट्वा प्रहृष्टा मुनयोऽभवन्
- दिवि देवर्षयो देवाः श्रुत्वा साध्विति चाब्रुवन् ३४
- एकदा हिमवत्पार्श्वे दैवादागत्य सङ्गताः
- मुनयो बहवस्तेषां नामभिः कथयाम्यहम् ३५
- भरद्वाजो मुनिवरः प्रथमं समुपागतः
- ततोऽङ्गिरास्ततो गर्गो मरीचिर्भृगुभार्गवौ ३६
- पुलस्त्योऽगस्तिरसितो वसिष्ठः सपराशरः
- हारीतो गौतमः सांख्यो मैत्रेयश्च्यवनोऽपि च ३७
- जमदग्निश्च गार्ग्यश्च कश्यपः काश्यपोऽपि च
- नारदो वामदेवश्च मार्कण्डेयः कपिञ्जलः ३८
- शाण्डिल्यः सहकौण्डिन्यः शाकुनेयश्चशौनकः
- आश्वलायनसांकृत्यौ विश्वामित्रः परीक्षकः ३९
- देवलो गालवो धौम्यः काप्यकात्यायनावुभौ
- काङ्कायनो वैजपेयः कुशिको बादरायणः ४०
- हिरण्याक्षश्च लौगाक्षिः शरलोमा च गोभिलः
- वैखानसा वालखिल्यास्तथैवान्ये महर्षयः ४१
- ब्रह्मज्ञानस्य निधयो यमस्य नियमस्य च
- तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः ४२
- सुखोपविष्टास्ते तत्र सर्वे चक्रुः कथामिमाम्
- धर्मार्थकाममोक्षाणां मूलमुक्तं कलेवरम्
- तच्च सर्वार्थसंसिद्ध्यै भवेद्यदि निरामयम् ४३
- तपः स्वाध्यायधर्माणां ब्रह्मचर्यव्रतायुषाम्
- हर्त्तारः प्रसृता रोगा यत्र तत्र च सर्वशः ४४
- रोगाः कार्श्यकरा बलक्षयकरा देहस्य चेष्टाहरा
- दृष्टा इन्द्रि यशक्तिसङ्क्षयकराः सर्वाङ्गपीडाकराः
- धर्मार्थाखिलकाममुक्तिषु महाविघ्नस्वरूपा बलात्
- प्राणानाशु हरन्ति सन्ति यदि ते क्षेमं कुतः प्राणिनाम् ४५
- तत्तेषां प्रशमाय कश्चन विधिश्चिन्त्यो भवद्भिर्बुधै-
- र्योग्यैरित्यभिधाय संसदि भरद्वाजं मुनिं तेऽब्रुवन्
- त्वं योग्यो भगवन् सहस्रनयनं याचस्व लब्धं क्रमा-
- दायुर्वेदमधीत्य यं गदभयान्मुक्ता भवामो वयम् ४६
- इत्थं स मुनिभिर्योग्यैः प्रार्थितो विनयान्वितैः
- भरद्वाजो मुनिश्रेष्ठो जगाम त्रिदशालयम् ४७
- तत्रेन्द्र भवनं गत्वा सुरर्षिगणमध्यगम्
- दृष्टवान् वृत्रहन्तारं दीप्यमानमिवानलम् ४८
- दृष्ट्वैव स मुनिं प्राह भगवान् मघवा मुदा
- धर्मज्ञ स्वागतं तेऽथ मुनिं तं समपूजयत् ४९
- सोऽभिगम्य जयाशीर्भिरभिनन्द्य सुरेश्वरम्
- ऋषीणां वचनं सम्यक् श्रावयामास तत्त्वतः ५०
- व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः
- तेषां प्रशमनोपायं यथावद्वक्तुमर्हसि ५१
- अपाठयन्मुनिं साङ्गमायुर्वेदं शतक्रतुः
- जीवेद्वर्षसहस्राणि देही नीरुङ् निशम्य यम् ५२
- सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामुनिः
- यथावदचिरात्सर्वं बुबुधे तन्मना मुनिः ५३
- तेनायुः सुचिरं लेभे भरद्वाजो निरामयम्
- अन्यानपि मुनींश्चक्रे नीरुजः सुचिरायुषः ५४
- तत्तन्त्रजनितज्ञानचक्षुषा ऋषयोऽखिलाः
- गुणान्द्र व्याणि कर्माणि दृष्ट्वा तद्विधिमाश्रिताः ५५
- आरोग्यं लेभिरे दीर्घमायुश्च सुखसंयुतम्
- आयुर्वेदोक्तविधिनाऽन्येऽपि स्युर्मुनयो यथा ५६
- यदा मत्स्यावतारेण हरिणा वेद उद्धृतः
- तदा शेषश्च तत्रैव वेदं साङ्गमवाप्तवान् ५७
- अथर्वान्तर्गतं सम्यगायुर्वेदं च लब्धवान्
- एकदा स महीवृत्तं द्र ष्टुं चर इवागतः ५८
- तत्रलोकान् गदैर्ग्रस्तान् व्यथया परिपीडितान्
- स्थलेषु बहुषु व्यग्रान् म्रियमाणांश्च दृष्टवान् ५९
- तान्दृष्ट्वातिदयायुक्तस्तेषां दुःखेन दुःखितः
- अनन्तश्चिन्तयामास रोगोपशमकारणम् ६०
- सञ्चिन्त्य स स्वयं तत्र मुनेः पुत्रो बभूव ह
- प्रसिद्धस्य विशुद्धस्य वेदवेदाङ्गवेदिनः ६१
- यतश्चर इवायातो न ज्ञातः केनचिद्यतः
- तस्माच्चरकनाम्नासौ ख्यातश्च क्षितिमण्डले ६२
- स भाति चरकाचार्यो देवाचार्यो यथा दिवि
- सहस्रवदनस्यांशो येन ध्वंसो रुजां कृतः ६३
- आत्रेयस्य मुनेः शिष्या अग्निवेशादयोऽभवन्
- मुनयो बहवस्तैश्च कृतं तन्त्रं स्वकं स्वकम् ६४
- तेषां तन्त्राणि संस्कृत्य समाहृत्य विपश्चिता
- चरकेणात्मनो नाम्ना ग्रन्थोऽय चरकः कृतः ६५
- एकदा देवराजस्य दृष्टिर्निपतिता भुवि
- तत्र तेन नरा दृष्टा व्याधिभिर्भृशपीडिताः ६६
- तान्दृष्ट्वा हृदयं तस्य दयया परिपीडितम्
- दयार्द्र हृदयः शक्रो धन्वन्तरिमुवाच ह ६७
- धन्वन्तरे सुरश्रेष्ठ भगवन् किञ्चिदुच्यते
- योग्यो भवसि भूतानामुपकारपरो भव ६८
- उपकाराय लोकानां केन किं न कृतं पुरा
- त्रैलोक्याधिपतिर्विष्णुरभून्मत्स्यादिरूपवान् ६९
- तस्मात्त्वं पृथिवीं याहि काशीमध्ये नृपो भव
- प्रतीकाराय रोगाणामायुर्वेदं प्रकाशय ७०
- इत्युक्त्वा सुरशार्दूलः सर्वभूतहितेप्सया
- समस्तमायुषो वेदं धन्वन्तरिमुपादिशत् ७१
- अधीत्य चायुषो वेदमिन्द्रा द्धन्वन्तरिः पुरा
- आगत्य पृथिवीं काश्यां जातो बाहुजवेश्मनि ७२
- नाम्ना तु सोऽभवत्ख्यातो दिवोदास इति क्षितौ
- बाल एव विरक्तोऽभूच्चचार सुमहत्तपः ७३
- यत्नेन महता ब्रह्मा तं काश्यामकरोन्नृपम्
- ततो धन्वन्तरिर्लोकैः काशीराजोऽभिधीयते ७४
- हिताय देहिनां स्वीया संहिता विहिताऽमुना
- अथ विद्यार्थिनो लोकान्संहितां तामपाठयत् ७५
- अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽविदन्
- अयं धन्वन्तरिः काश्यां काशिराजोऽयमुच्यते ७६
- विश्वामित्रो मुनिस्तेषु पुत्रं सुश्रुतमुक्तवान्
- वत्स वाराणसीं गच्छ त्वं विश्वेश्वरवल्लभाम् ७७
- तत्र नाम्ना दिवोदासः काशिराजोऽस्ति बाहुजः
- स हि धन्वन्तरिः साक्षादायुर्वेदविदां वरः ७८
- आयुर्वेदं पठस्व त्वं लोकोपकृतिहेतवे
- सर्वप्राणिदया तीर्थमुपकारो महामखः ७९
- पितुर्वचनमाकर्ण्य सुश्रुतः काशिकां गतः
- तेन सार्द्धं समध्येतुं मुनिसूनुशतं ययौ ८०
- अथ धन्वन्तरिं सर्वे वानप्रस्थाश्रमे स्थितम्
- भगवन्तं सुरश्रेष्ठं मुनिभिर्बहुभिः स्तुतम् ८१
- काशिराजं दिवोदासं तेऽपश्यन्विनयान्विताः
- स्वागतं च तदा चाह दिवोदासो यशोधनः ८२
- कुशलं परिपप्रच्छ तथागमनकारणम्
- ततस्ते सुश्रुतद्वारा कथयामासुरुत्तरम् ८३
- भगवन्मानवान्दृष्ट्वा व्याधिभिः परिपीडितान्
- क्रन्दतो म्रियमाणांश्च जातास्माकं हृदि व्यथा ८४
- आमयानां शमोपायं विज्ञातुं वयमागताः
- आयुर्वेदं भवानस्मानध्यापयतु यत्नतः ८५
- अङ्गीकृत्य वचस्तेषां नृपतिस्तानुपादिशत्
- व्याख्यातं तेन ते यत्नाज्जगृहुर्मुनयो मुदा ८६
- काशिराजं जयाशीर्भिरभिनन्द्य मुदान्विताः
- सुश्रुताद्याः सुसिद्धार्था जग्मुर्गेहं स्वकं स्वकम् ८७
- प्रथमं सुश्रुतस्तेषु स्वतन्त्रं कृतवान्स्फुटम्
- सुश्रुतस्य सखायोऽपि पृथक्तन्त्राणि तेनिरे ८८
- सुश्रुतेन कृतं तन्त्रं सुश्रुतं बहुभिर्यतः
- तस्मात्तत्सुश्रुतं नाम्ना विख्यातं क्षितिमण्डले ८९
- इति भावप्रकाशे पूर्वखण्डे आयुर्वेदप्रवक्तृप्रादुर्भावप्रकरणं समाप्तम् १
- अथ सृष्टिप्रकरणं ग्रन्थारम्भश्च २
- आयुर्वेदाब्धिमध्यादतिमतिमुनयो योगरत्नानि यत्नाल्लब्ध्वा स्वे स्वे निबन्धे दधुरखिलजनव्याधिविध्वंसनाय ।
- तत्तद्ग्रन्थाद् गृहीतैः सुवचनमणिभिर्भावमिश्रैश्चिकित्साशास्त्रे जाड्यान्धकारं प्रशमयितुमिमं संविधत्ते प्रकाशम् १
- श्रीपतिपदप्रसादादाशीर्भिर्भूमिदेवानाम्
- भावप्रकाशनाम्ना ग्रन्थोऽयं पठ्यतां सर्वैः २
- आत्मा ज्योतिश्चिदानन्दरूपो नित्यश्च निःस्पृहः
- निर्गुणः प्रकृतेर्योगात्सगुणः कुरुते जगत् ३
- सत्त्वं रजस्तमश्चेति गुणास्ते प्रकृतेः समाः
- सा जडापि जगत्कर्त्री परमात्मचिदव्ययात् ४
- प्रधानं प्रकृतिः शक्तिर्नित्या चाविकृतिस्तथा
- एतानि तस्या नामानि पुरुषं या समाश्रिता ५
- सत्त्वं रजस्तमस्त्रीणि विज्ञेयाः प्रकृतेर्गुणाः
- तैश्च युक्तस्य चित्तस्य कथयाम्यखिलान् गुणान् ६
- आस्तिक्यं प्रविभज्य भोजनमनुत्तापश्च तथ्यं वचो
- मेधाबुद्धिधृतिक्षमाश्च करुणा ज्ञानं च निर्दम्भता
- कर्मानिन्दितमस्पृहं च विनयो धर्मः सदैवादरा-
- देते सत्त्वगुणान्वितस्य मनसो गीता गुणा ज्ञानिभिः ७
- क्रोधस्ताडनशीलता च बहुलं दुःखं सुखेच्छाऽधिका-
- दम्भः कामुकताप्यलीकवचनं चाधीरताहङ्कृतिः
- ऐश्वर्यादभिमानितातिशयितानन्दोऽधिकश्चाटनं
- प्रख्याता हि रजोगुणेन सहितस्यैते गुणाश्चेतसः ८
- नास्तिक्यं सुविषण्णतातिशयितालस्यं च दुष्टा मतिः
- प्रीतिर्निन्दितकर्मशर्मणि सदा निद्रा लुताहर्निशम्
- अज्ञानं किल सर्वतोऽपि सततं क्रोधान्धता मूढता
- प्रख्याता हि तमोगुणेन सहितस्यैते गुणाश्चेतसः ९
- तत्र प्रभूतसत्त्वस्तु सात्त्विकः पुरुषः स्मृतः
- राजसस्तामसश्चैव त्रिविधस्तेन मानवः १०
- ततोऽभवन्महत्तत्त्वं बुद्धितत्त्वापराभिधम्
- त्रिगुणं सत्त्वबहुलं निर्मलं स्फटिकोपमम्
- चिच्छायाप्राप्तचैतन्यं तदिच्छामयमीरितम् ११
- महतस्त्रिगुणाज्जातोऽहङ्कारस्त्रिगुणान्वितः
- सात्त्विको राजसश्चापि तामसश्चेति स त्रिधा १२
- जातानि सात्त्विकात्तस्मादिन्द्रि याणि सराजसात्
- तानि श्रोत्रं त्वचो नेत्रं रसना नासिका तथा १३
- वाग्घस्तचरणोपस्थगुदान्येकादशं मनः
- पञ्च बुद्धीन्द्रि याण्याहुः प्राक्तनानीतराणि च १४
- कर्मेन्द्रि याणि पञ्चैव कथयन्ति विपश्चितः १५
- मनो बुद्धीन्द्रि यं विज्ञैः कर्मेन्द्रि यमपि स्मृतम्
- मनोऽधिष्ठितमेवेदमिन्द्रि यं यत्प्रवर्त्तते १६
- शब्दः स्पर्शश्च रूपश्च रसो गन्धो ह्यनुक्रमात्
- बुद्धीन्द्रि याणां विषयाः समाख्याता महर्षिभिः १७
- वाच्यं ग्राह्यञ्च गन्तव्यमानन्दं त्याज्यमेव च
- कर्मेन्द्रि याणां विषया ज्ञातव्य विषयो हृदः १८
- तामसादप्यहङ्कारस्तन्मात्राणि सराजसात्
- पञ्चाल्पसत्त्वसम्बन्धात्तल्लिङ्गानि भवन्ति हि १९
- शब्दतन्मात्रकं स्पर्शतन्मात्रं रूपमात्रकम्
- रसतन्मात्रकं गन्धतन्मात्रमिति तानि तु २०
- तन्मात्रेभ्यो वियद्वायुर्वह्निर्वारि वसुन्धरा
- एतानि पञ्च जायन्ते महाभूतानि तत्क्रमात् २१
- शब्दः श्रोत्रेन्द्रि यं वापि च्छिद्रा णि च विविक्तता
- वियतः कथिता एते गुणागुणविचारिभिः २२
- स्पर्शस्त्वगिन्द्रि यञ्चापि लघुता स्पन्दनं तनोः
- चेष्टा सर्वशरीरस्य वायोरेते गुणाः स्मृताः २३
- रूपं नेत्रेन्द्रि यं पाकः सन्तापस्तीक्ष्णता तथा
- वर्णो भ्राजिष्णुताऽमर्षः शौर्यं वह्नेर्गुणा अमी २४
- रसो रसेन्द्रि यं शैत्यं स्नेहश्च गुरुता तथा
- सर्वद्र वसमूहश्च शुक्रं वारिगुणाः स्मृताः २५
- गन्धो घ्राणेन्द्रि यं चापि काठिन्यं गौरवं तथा
- वसुन्धरागुणा एते गदिता गुणवेदिभिः २६
- शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च तत्क्रमात्
- तन्मात्राणां विशेषाः स्युः स्थूलभावमुपागताः २७
- प्रकृतेः कारणायोगान्मता प्रकृतिरेव सा
- महत्तत्त्वादयः सप्त शक्तेर्विकृतयः स्मृताः २८
- इन्द्रि याणां च भूतानां कारणत्वान्महर्षिभिः
- महत्तत्त्वादयः सप्त प्रोक्ताः प्रकृतयोऽपि च २९
- दशेन्द्रि याणि चित्तञ्च महाभूतानि पञ्च च
- एतानि सृष्टिं जानद्भिर्विकाराः षोडश स्मृताः ३०
- एवं चतुर्विंशतिभिस्तत्त्वैः सिद्धे वपुर्गृहे
- जीवात्मनियतेर्निघ्नो वसति स्वान्तदूतवान् ३१
- स देही कथ्यते पापपुण्यदुःखसुखादिभिः
- व्याप्तो बद्धश्च मनसा कृत्रिमैः कर्मबन्धनैः ३२
- इच्छाद्वेषसुखासुखानि विषयज्ञानं प्रयत्नो मनः
- सङ्कल्पश्च विचारणा स्मृतिरथो बुद्धिः कलाविज्ञता
- प्राणस्योपरियापनं गुदवशाद्वायोरधः प्रेरणं
- नेत्रोन्मेषनिमेषकृत्यकरणोत्साहाश्च जीवे गुणाः ३३
- इति श्री मिश्रलटकनतनय श्रीमन्मिश्रभावविरचिते भावप्रकाशे सृष्टिप्रकरणं समाप्तम् २
- अथ गर्भप्रकरणम् ३
- द्वादशाद्वत्सरादूर्ध्वमापञ्चाशत्समाः स्त्रियः
- मासि मासि भगद्वारा प्रकृत्यैवार्तवं स्रवेत् १
- आर्तवस्रावदिवसादृतुः षोडश रात्रयः
- गर्भग्रहणयोग्यस्तु स एव समयः स्मृतः २
- आर्तवस्रावदिवसादहिंसा ब्रह्मचारिणी
- शयीत दर्भशय्यायां पश्येदपि पतिं न च ३
- करे शरावे पर्णे वा हविष्यं त्र्! यहमाहरेत्
- अश्रुपातं नखच्छेदमभ्यङ्गमनुलेपनम् ४
- नेत्रयोरञ्जनं स्नानं दिवास्वापं प्रधावनम्
- अत्युच्चशब्दश्रवणं हसनं बहुभाषणम्
- आयासं भूमिखननं प्रवातञ्च विवर्जयेत् ५
- अज्ञानाद्वा प्रमादाद्वा लोभाद्वा दैवतश्च वा ६
- सा चेत्कुर्यान्निषिद्धानि गर्भो दोषांस्तदाऽप्नुयात्
- एतस्या रोदनाद्गर्भो भवेद्विकृतलोचनः ७
- नखच्छेदेन कुनखी कुष्ठी त्वभ्यङ्गतो भवेत्
- अनुलेपात्तथा स्नानाद् दुःखशीलोऽञ्जनाददृक् ८
- स्वापशीलो दिवास्वापाच्चञ्चलः स्यात्प्रधावनात्
- अत्युच्चशब्दश्रवणाद्बधिरः खलु जायते ९
- तालुदन्तौष्ठजिह्वासु श्यावो हसनतो भवेत्
- प्रलापी भूरिकथनादुन्मत्तस्तु परिश्रमात्
- स्खलते भूमिखननादुन्मत्तो वातसेवनात् १०
- पूर्वं पश्येदृतुस्नाता यादृशं नरमङ्गना
- तादृशं जनयेत्पुत्रं ततः पश्येत्पतिं प्रियम् ११
- प्रवहत्सलिले क्षिप्तं द्र व्यं गच्छत्यधो यथा
- तथा वहति रक्ते तु क्षिप्तं वीर्यमधो व्रजेत् १२
- आयुः क्षयभयाद्भर्त्ता प्रथमे दिवसे स्त्रियम्
- द्वितीयेऽपि दिने रत्यै त्यजेदृतुमतीं तथा १३
- तत्र यश्चाहितो गर्भो जायमानो न जीवति
- आहितो यस्तृतीयेऽह्नि स्वल्पायुर्विकलाङ्गकः १४
- अतश्चतुर्थी षष्ठी स्यादष्टमी दशमी तथा
- द्वादशी वापि या रात्रिस्तस्यां तां विधिना भजेत् १५
- अत्रोत्तरोत्तरं विद्यादायुरारोग्यमेव च
- प्रजासौभाग्यमैश्वर्यं बलञ्चाभिगमात् फलम् १६
- मनोभवागारमुखेऽबलानां तिस्रो भवन्ति प्रमदाजनानाम्
- समीरणा चन्द्र मसी च गौरी विशेषमासामुपवर्णयामि १७
- प्रधानभूता मदनातपत्रे समीरणा नाम विशेषनाडी
- तस्या मुखे यत् पतितं तु वीर्यं तन्निष्फलं स्यादिति चन्द्र मौलिः १८
- या चापरा चान्द्र मसी च नाडी कन्दर्पगेहे भवति प्रधाना
- सा सुन्दरी योषितमेव सूते साध्या भवेदल्परतोत्सवेषु १९
- गौरीति नाडी यदुपस्थगर्भे प्रधानभूता भवति स्वभावात्
- पुत्रं प्रसूते बहुधाङ्गना सा कष्टोपभोग्या सुरतोपविष्टा २०
- युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु २१
- स्नातश्चन्दनलिप्ताङ्गः सुगन्धसुमनोर्चितः
- भुक्तवृष्यः सुवसनः सुवेशः समलङ्कृतः २२
- ताम्बूलवदनस्तस्यामनुरक्तोऽधिकस्मरः
- पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे २३
- अत्याशितोऽधृतिः क्षुद्वान् सव्यथाङ्गः पिपासितः
- बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रो गी च मैथुनम् २४
- पुरुषस्य गुणैर्युक्ता विहिता न्यूनभोजना
- नारी ऋतुमती पुंसा सङ्गच्छेत्तु सुतार्थिनी २५
- रजस्वला व्याधिमती विशेषाद्योनिरोगिणी
- वयोऽधिका च निष्कामा मलिना गर्भिणी तथा
- एतासां सङ्गमात्पुंसां वैगुण्यानि भवन्ति हि २६
- कामान्मिथुनसंयोगे शुद्धशोणितशुक्रजः
- गर्भः सञ्जायते नार्याः स जातो बाल उच्यते २७
- दम्पत्योः कुष्ठबाहुल्याद्दुष्टशोणितशुक्रयोः
- यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितमिति २८
- ऋतौ स्त्रीपुंसयोर्योगे मकरध्वजवेगतः
- मेढ्रयोन्यभिसङ्घर्षाच्छरीरोष्मानिलाहतः २९
- पुंसः सर्वशरीरस्थं रेतो द्रा वयतेऽथ तत्
- वायुर्मेहनमार्गेण पातयत्यङ्गनाभगे ३०
- तत् संस्रुत्य व्यात्तमुखं याति गर्भाशयं प्रति
- तत्र शुक्रवदायातेनार्त्तवेन युतं भवेत् ३१
- शङ्खनाभ्याकृतिर्योनिस्त्र्! यावर्त्ता सा च कीर्तिता
- तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता ३२
- यथा रोहितमत्स्यस्य मुखं भवति रूपतः
- तत्संस्थानां तथा रूपां गर्भशय्यां विदुर्बुधाः ३३
- शुक्रार्त्तवसमाश्लेषो यदैव खलु जायते
- जीवस्तदैव विशति युक्तः शुक्रार्त्तवान्तरः ३४
- सूर्यांशोः सूर्यमणित उभयस्माद्युताद्यथा
- वह्निः सञ्जायते जीवस्तथा शुक्रार्तवाद्युतात् ३५
- आत्मानादिरनन्तश्चाव्यक्तो वक्तुं न शक्यते
- चिदानन्दैकरूपोऽयं मनसापि न गम्यते ३६
- एवम्भूतोऽपि जगतो भाविनी बलवत्तया
- अविद्यास्वीकृते कर्मवशो गर्भे विशत्यसौ ३७
- स एव वेत्ता रसनो द्र ष्टा घ्राता स्पृशत्यसौ
- श्रोता वक्ता च कर्त्ता च गन्ता रन्तोत्सृजत्यपि ३८
- दिने व्यतीते नियतं संकुचत्यम्बुजं यथा
- ऋतौ व्यतीते नार्यास्तु योनिः संव्रियते तथा ३९
- बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ
- यमावित्यभिधीयेते धर्मेतरपुरःसरौ ४०
- आधिक्ये रेतसः पुत्रः कन्या स्यादार्त्तवेऽधिके
- नपुंसकं तयोः साम्ये यथेच्छा पारमेश्वरी ४१
- एवं तामभिसङ्गम्य पुनर्मासाद्भजेदसौ ४१
- शुक्रशोणितयोर्योनेरस्रावोऽथ श्रमोद्भवः
- सक्थिसादः पिपासा च ग्लानिः स्फूर्त्तिर्भगे भवेत् ४२
- स्तनयोर्मुखकार्ष्ण्यं स्याद्रो मराज्युद्गमस्तथा
- अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः ४३
- छर्दयेत्पथ्यभुक्चापि गन्धादुद्विजते शुभात्
- प्रसेकः सदनं चैव गर्भिण्या लिङ्गमुच्यते ४४
- पुत्रगर्भयुतायास्तु नार्या मासि द्वितीयके
- गर्भो गर्भाशये लक्ष्यः पिण्डाकारोऽपरं शृणु ४५
- दक्षिणाक्षिमहत्वं स्यात् प्राक्क्षीरं दक्षिणे स्तने
- दक्षिणोरुः सुपुष्टः स्यात्प्रसन्नमुखवर्णता ४६
- पुन्नामधेयद्र व्येषु स्वप्नेष्वपि मनोरथः
- आम्रादिफलमाप्नोति स्वप्नेषु कमलादि च ४७
- कन्या गर्भवती गर्भे पेशी मासि द्वितीयके
- पुत्रगर्भस्य लिङ्गानि विपरीतानि चेक्षते ४८
- नपुंसकं यदा गर्भे भवेद् गर्भोऽबुदाकृतिः
- उन्नते भवतः पार्श्वे पुरस्तादुदरं महत् ४९
- आसेक्यश्च सुगन्धी च कुम्भीकश्चेष्यर्यकस्तथा
- अमी सशुक्रा बोद्धव्या अशुक्रः षण्ढसंज्ञकः ५०
- पित्रोस्तु स्वल्पवीर्यत्वादासेक्यः पुरुषो भवेत्
- स शुक्रं प्राश्य लभते ध्वजोन्नतिमसंशयम् ५१
- यः पूतियोनौ जायेत स हि सौगन्धिको भवेत्
- स योनिशेफसोर्गन्धमाघ्राय लभते बलम् ५२
- स्वे गुदेऽब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्त्तते
- स कुम्भीक इति ज्ञेयो गुदयोनिस्तु स स्मृतः ५३
- दृष्ट्वा व्यवायमन्येषां व्यावाये यः प्रवर्त्तते
- ईर्ष्यकः स तु विज्ञेयो दृष्टियोनिस्तु स स्मृतः ५४
- यो भार्यायामृतौ मोहादङ्गनेव प्रवर्त्तते
- तत्र स्त्रीचेष्टिताकारो जायते षण्ढसंज्ञकः ५५
- ऋतौ ॠतौ पुरुषवत् प्रवर्त्तेताङ्गना यदि
- तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता ५६
- यदा नार्यावुपेयातां वृषस्यन्त्यौ कथञ्चन
- मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते ५७
- ऋतुस्नाता तु या नारी स्वप्ने मैथुनमाचरेत्
- आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि ५८
- मासि मासिप्रवर्द्धेत स गर्भो गर्भलक्षणः
- कललं जायते तस्य वर्जितं पैतृकैर्गुणैः ५९
- सर्पवृश्चिककूष्माण्डाकृतयो विकृताश्च ये
- गर्भास्ते योषितस्ताश्च ज्ञेयाः पापकृतो भृशम् ६०
- गर्भो वातप्रकोपेण दोहदे चापमानिते
- भवेत् कुब्जः कुणिः पङ्गुर्मूको मिन्मिन एव च ६१
- आहाराचारचेष्टाभिर्यादृशीभिः समन्वितौ
- स्त्रीपुंसौ समुपेयातां तयोः पुत्रोऽपि तादृशः ६२
- गर्भाशयगतं शुक्रमार्त्तवं जीवसंज्ञकः
- प्रकृतिः सविकारा च तत्सर्वं गर्भसंज्ञकम् ६३
- कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः
- भवेत्तदा स मुनिभिः शरीरीति निगद्यते ६४
- तस्य त्वङ्गान्युपाङ्गानि ज्ञात्वा सुश्रुतशास्त्रतः
- मस्तकादभिधीयन्ते शिष्याः शृणुत यत्नतः ६५
- आद्यमङ्गं शिरः प्रोक्तं तदुपाङ्गानि कुन्तलाः
- तस्यान्तर्मस्तुलुङ्गं च ललाटं भ्रूयुगन्तथा ६६
- नेत्रद्वयं तयोरन्तर्वर्त्तेते द्वे कनीनिके
- दृष्टिद्वयं कृष्णगोलौ श्वेतभागौ च वर्त्मनी ६७
- पक्ष्माण्यपाङ्गौ शङ्खौ च कर्णौ तच्छष्कुलीद्वयम्
- पालिद्वयं कपोलौ च नासिका च प्रकीर्त्तिता ६८
- ओष्ठाधरौ च सृक्किण्यौ मुख तालु हनुद्वयम्
- दन्ताश्च दन्तवेष्टश्च रसना चिबुकङ्गलः ६९
- द्वितीयमङ्गं ग्रीवा तु यया मूर्द्धा विधार्यते
- तृतीयं बाहुयुगलं तदुपाङ्गान्यथ ब्रुवे ७०
- तत्रोपरि मतौ स्कन्धौ प्रगण्डौ भवतस्त्वधः
- कफोणियुग्मं तदधं प्रकोष्ठयुगलन्तथा ७१
- मणिबन्धौ तले हस्तौ तयोश्चाङ्गुलयो दश
- नखाश्च दश ते स्थाप्या दशच्छेद्याःप्रकीर्त्तिताः ७२
- चतुर्थमङ्गं वक्षस्तु तदुपाङ्गान्यथ ब्रुवे
- स्तनौ पुंसस्तथा नार्या विशेष उभयोरयम् ७३
- यौवनागमने नार्याः पीवरौ भवतः स्तनौ
- गर्भवत्या प्रसूतायास्तावेव क्षीरपूरितौ ७४
- हृदयं पुण्डरीकेण सदृशं स्यादधोमुखम्
- जाग्रतस्तद्विकसति स्वपतस्तु निमीलति ७५
- आशयस्तत्तु जीवस्य चेतनास्थानमुत्तमम्
- अतस्तस्मिंस्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि ७६
- कक्षयोर्वक्षसः सन्धी जत्रुणी समुदाहृते
- कक्षे उभे समाख्याते तयोः स्यातां च वङ्क्षणौ ७७
- उदरं पञ्चमञ्चाङ्गं षष्ठं पार्श्वद्वयं मतम्
- सपृष्ठवंशं पृष्ठं तु समस्तं सप्तमं स्मृतम् ७८
- उपाङ्गानि च कथ्यन्ते तानि जानीहि यत्नतः
- शोणिताज्जायते प्लीहा वामतो हृदयादधः ७९
- रक्तवाहिशिराणां स मूलं ख्यातो महर्षिभिः
- हृदयाद्वामतोऽधश्च फुप्फुसो रक्तफेनजः ८०
- अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः
- तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम् ८१
- अधस्तु दक्षिणे भागे हृदयात् क्लोम तिष्ठति
- जलवाहिशिरामूलं तृष्णाऽच्छादनकृन्मतम् ८२
- मेदः शोणितयोः साराद्वृक्कयोर्युगलं भवेत्
- तौ तु पुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः ८३
- अर्द्धव्यामेन हीनानि योषितोऽन्त्राणि निर्दिशेत्
- उक्ता सार्द्धास्त्रयो व्यामापुंसामन्त्राणि सूरिभिः ८४
- उन्दुकश्च कटी चापि त्रिकं वस्तिश्च वङ्क्षणौ
- कण्डराणां प्ररोहःस्यान्मेढ्रोऽध्वा वीर्यमूत्रयोः ८५
- स एव गर्भस्याधानं कुर्याद्गर्भाशये स्त्रियाः
- शङ्खनाभ्याकृतिर्योनिस्त्र्! यावर्त्ता सा च कीर्त्तिता ८६
- तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता
- वृषणौ भवतः सारात्कफासृङ्मांसमेदसाम् ८७
- वीर्यवाहिशिराधारौ तौ मतौ पौरुषावहौ
- गुदस्य मानं सर्वस्य सार्द्धं स्याच्चतुरङ्गुलम् ८८
- तत्र स्युर्वलयस्तिस्रः शङ्खावर्तनिभास्तु ताः
- प्रवाहिणी भवेत्पूर्वा सार्द्धाङ्गुलमिता मता ८९
- उत्सर्जनी तु तदधः सा सार्द्धाङ्गुलसम्मिता
- तस्याधः संवरणी स्यादेकाङ्गुलसमा मता ९०
- अर्द्धाङ्गुलप्रमाणं तु बुधैर्गुदमुखं मतम्
- मलोत्सर्गस्य मार्गोऽय पायुर्देहे विनिर्मितः ९१
- पुंसः प्रोथौ स्मृतौ यौ तु तौ नितम्बौ च योषितः
- तयोः कुकुन्दरे स्यातां सक्थिनोत्वङ्गमष्टमम् ९२
- तदुपाङ्गानि च ब्रूमो जानुनी पिण्डकाद्वयम्
- जंघे द्वे घुटिके पार्ष्णी तले च प्रपदे तथा ९३
- पादावङ्गुलयस्तत्र दश तासां नखा दश
- अथ दोषाः प्रवक्ष्यन्ते धातवस्तदनन्तरम् ९४
- आहारादेर्गतिस्तस्य परिणामश्च वक्ष्यते
- आर्त्तवं चाथ धातूनां मलास्तदुपधातवः ९५
- आशयाश्च कलाश्चापि मर्माण्यथ च सन्धयः
- शिराश्च स्नायवश्चापि धमन्यः कण्डरास्तथा ९६
- रन्ध्राणि भूरि स्रोतांसि जालैः कूर्च्चाश्च रज्जवः
- सेवन्यश्चाथ सङ्घाताः सीमान्ताश्च तथा त्वचः ९७
- लोमानि लोमकूपाश्च देह एतन्मयो मतः
- वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः ९८
- विकृताविकृता देहं घ्नन्ति ते वर्द्धयन्ति च
- ते व्यापिनोऽपि हृन्नाभ्योरधो मध्योर्ध्वसंश्रयाः
- वयोऽहोरात्रिभुक्तानामन्तमध्यादिगाः क्रमात् ९९
- धातवश्च मलाश्चापि दुष्यन्त्येभिर्यतस्ततः
- वातपित्तकफा एते त्रयो दोषा इति स्मृताः १००
- ते धातवोऽपि विद्वद्भिर्गदिता देहधारणात् १०१
- दोषधातुमलादीनां नेता शीघ्रः समीरणः
- रजोगुणमयः सूक्ष्मो रूक्षः शीतो लघुश्चलः १०२
- उत्साहोच्छ्वासनिःश्वासचेष्टावेगप्रवर्त्तनैः १०३
- सम्यग् गत्या च धातूनामन्द्रि याणाञ्च पाटवैः
- अनुगृह्णात्यविकृतो हृदयेन्द्रि यचित्तधृक् १०४
- रजोगुणमयः सूक्ष्मः शीतो रूक्षो लघुश्चलः
- खरो मृदुर्योगवाही संयोगादुभयार्थकृत् १०५
- दाहकृत् तेजसा युक्तः शीतकृत्सोमसंश्रयात्
- विभागकरणाद्वायुः प्रधानं दोषसंग्रहे १०६
- पक्वाशयकटीसक्थिश्रोत्रास्थिस्पर्शनेन्द्रि यम्
- स्थानं वातस्य तत्रापि पक्वाधानं विशेषतः १०७
- उदानस्तदनुप्राणः समानोऽपान एव च
- व्यानश्चैतानि नामानि वायोः स्थानप्रभेदतः १०८
- कण्ठे हृदि तथाऽधस्तात्कोष्ठवह्नेर्मलाशये
- सकलेऽपि शरीरेऽसौ क्रमेण पवनो वसेत् १०९
- उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः
- तेन भाषितगीतादिप्रवृत्तिः कुपितस्तु सः ११०
- ऊर्ध्वजत्रुगतान् रोगान्विदधाति विशेषतः
- यो वायुः प्राणनामाऽसौ मुखं गच्छति देहधृक् १११
- सोऽन्न प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते
- प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान् ११२
- आमपक्वाशयचरः समानो वह्निसङ्गतः
- सोऽन्न पचति तज्जांश्च विशेषान्विविनक्ति हि ११३
- स दुष्टो वह्निमान्द्यातिसारगुल्मान् करोति हि
- पक्वाशयालयोऽपानः काले कर्षति चाप्ययम् ११४
- समीरणः शकृन्मूत्रशुक्रगर्भार्त्तवान्यधः
- क्रुद्धस्तु कुरुते रोगान् घोरान्वस्तिगुदाश्रयान् ११५
- शुक्रदोषप्रमेहांश्च व्यानापानप्रकोपजान्
- कृत्स्नदेहचरो व्यानो रससंवाहनोद्यतः ११६
- स्वेदाऽसृक्स्रावणश्चापि पञ्चधा चेष्टयत्यपि
- प्रस्पन्दनञ्चोद्वहनं पूरणञ्च विरेचनम् ११७
- धारणञ्चेति पञ्चैताश्चेष्टाः प्रोक्ताः नभस्वतः
- गत्यपक्षेपणोत्क्षेपनिमेषोन्मेषणादिकाः
- प्रायः सर्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम् ११८
- क्रुद्धः सः कुरुते रोगान् प्रायशः सर्वदेहगान्
- युगपत् कुपिता एते देहं भिन्द्युरसंशयम् ११९
- पित्तमुष्णं द्र वं पीतं नीलं सत्त्वगुणोत्तरम्
- सरं कटु लघु स्निग्धं तीक्ष्णमम्लन्तु पाकतः १२०
- पाचकं रञ्जकञ्चापि साधकालोचके तथा
- भ्राजकञ्चेति पित्तस्य नामानि स्थानभेदतः १२१
- अग्न्याशये यकृत्प्लीह्नोर्हृदये लोचनद्वये
- त्वचि सर्वशरीरेषु पित्तं निवसति क्रमात् १२२
- पाचकं पचते भुक्तं शेषाग्निबलवर्द्धनम्
- रसमूत्रपुरीषाणि विरेचयति नित्यशः १२३
- इत्यलमप्रकृतिचिन्तनेन पुनः प्रकृतमनुसरति
- रञ्जकं नाम यत्पित्तं तद्र सं शोणितं नयेत्
- यत्तु साधकसंज्ञं तत्कुर्याद्बुद्धिं धृतिं स्मृतम् १२४
- यदालोचकसंज्ञं तद्रू पग्रहणकारणम्
- भ्राजकं कान्तिकारि स्याल्लेपाभ्यङ्गादिपाचकम् १२५
- श्लेष्माश्वेतो गुरुः स्निग्धः पिच्छिलः शीतलस्तथा
- तमोगुणाधिकः स्वादुर्विदग्धो लवणो भवेत् १२६
- कफस्यैतानि नामानि क्लेदनश्चावलम्बनः
- रसनः स्नेहनश्चापि श्लेषणः स्थानभेदतः १२७
- आमाशयेऽथ हृदये कण्ठे शिरसि सन्धिषु
- स्थानेष्वेषु मनुष्याणां श्लेष्मा तिष्ठत्यनुक्रमात् १२८
- क्लेदनः क्लेदयत्यन्नमात्मशक्त्याऽपराण्यपि
- अनुगृह्णाति च श्लेष्मस्थानान्युदककर्मणा १२९
- रसयुक्तात्मवीर्येण हृदयस्यावलम्बनम्
- त्रिकसन्धारणं चापि विदधात्यवलम्बनः १३०
- उभावपि ततः सौम्यौ तिष्ठतश्चान्तिके यतः
- यतो रसान्विजानीतो रसनारसनौ समौ १३१
- स्नेहनः स्नेहदानेन समस्तेन्द्रि यतर्पणः
- श्लेषणः सर्वसन्धीनां संश्लेषं विदधात्यसौ १३२
- एते सप्त स्वयं स्थित्वा देहं दधति यन्नृणाम्
- रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः १३३
- प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे
- गर्भोत्पादश्च कर्माणि धातूनां कथितानि हि १३४
- गत्यर्थो रस धातुर्यस्ततोऽभवदयं रसः
- सद्र वं सकलं देहे रसतीति रसः स्मृतः १३४
- सम्यक्पक्वस्य भुक्तस्य सारो निगदितो रसः
- स तु द्र वः सितः शीतः स्वादुः स्निग्धश्चलो भवेत् १३५
- सर्वदेहचरस्यापि रसस्य हृदयं स्थलम्
- समानमरुता पूर्वं यदयं हृदये धृतः १३६
- आरुह्य धमनीर्गत्वा धातून् सर्वानयं रसः
- पुष्णाति तदनु स्वीयैर्व्याप्नोति च तनुं गुणैः १३७
- मन्दवह्निविदग्धस्तु कटुर्वाऽम्लो भवेद्र सः
- स कुर्याद्बहुलान् रोगान् विषकृत्यं करोत्यपि १३८
- यदा रसो यकृद्याति तत्र रञ्जकपितत्तः
- रागंपाकं च सम्प्राप्य स भवेद्र क्तसंज्ञकः १३९
- रक्तं सर्वशरीरस्थं जीवस्याधारमुत्तमम्
- स्निग्धं गुरु चलं स्वादु विदग्धं पित्तवद्भवेत् १४०
- यकृत् प्लीहा च रक्तस्य मुख्यस्थानन्तयोः स्थितम्
- अन्यत्र संस्थितवतां रक्तानां पोषकं भवेत् १४१
- शोणितं स्वाग्निना पक्वं वायुना च घनीकृतम्
- तदेव मांसं जानीयात्तस्य भेदानपि ब्रुवे १४२
- यथाऽथमूष्मणा युक्तो वायुः स्रोतांसिदारयेत्
- अनुप्रविश्य पिशितं पेशीर्विभजते तथा १४३
- मांसपेश्यः समाख्याता नृणां पञ्च शतानि हि १४४
- तासां शतानि चत्वारि शाखासु कथितान्यथ
- कोष्ठे षडुत्तरा षष्टिः कथिता मुनिपुङ्गवैः
- ग्रीवाया ऊर्ध्वगास्तास्तु चतुस्त्रिंशत् प्रकीर्त्तिताः १४५
- स्त्रीणामपि भवन्त्येताः किन्तु विंशतिरुत्तराः
- गर्भाशये गर्भमार्गे योनौ च स्तनयोरपि १४६
- पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता मेहनमुष्कजाः
- स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः १४७
- शिरास्नाय्वस्थिपर्वाणि सन्धयश्च शरीरिणाम्
- पेशीभिःसंवृतान्येव बलवन्ति भवन्ति हि १४८
- यन्मांसं स्वाग्निना पक्वं तन्मेद इति कथ्यते
- तदतीव गुरु स्निग्धं बलकार्यतिबृंहणम् १४९
- मेदो हि सर्वभूतानामुदरेष्वस्थि संस्थितम्
- अत एवोदरे वृद्धिः प्रायो मेदस्विनो भवेत् १५०
- मेदो यत् स्वाग्निना पक्वं वायुना चातिशोषितम् १५१
- तदस्थिसंज्ञां लभते स सारः सर्वविग्रहे
- अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः १५२
- अस्थिसारैस्तथा देहा ध्रियन्ते देहिनो ध्रुवम्
- तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम्
- अस्थीनि न विनश्यन्ति सारा एतानि सर्वथा १५३
- शल्यतन्त्रेऽस्थिखण्डानांशतत्रयमुदाहृतम् १५४
- तान्येवात्र निगद्यन्ते तेषां स्थानानि यानि च
- सविंशतिशतं त्वस्थ्नां शाखासु कथितं बुधैः १५५
- पार्श्वयोः श्रोणिफलके वक्षःपृष्ठोदरेषु च
- जानीयाद्भिषगेतेषु शतं सप्तदशोत्तरम्
- ग्रीवायामूर्ध्वगां विद्यादस्थ्नां षष्टिंत्रिसंयुताम् १५६
- एतान्यस्थीनि पञ्चविधानि भवन्ति तानि यथा
- तरुणानि कपालानि रुचकानि भवन्ति हि
- वलयानीति तानि स्युर्नलकानि च कानि चित् १५७
- अक्षिकोश श्रुतिघ्राणग्रीवासु तरुणानि च १५८
- शिरः शङ्खकपोलेषु ताल्वं सप्रोथजानुषु
- कपालानि भवन्त्येषु दन्तेषु रुचकानि च १५९
- पार्ष्ण्योः पार्श्वयुगे पृष्ठे वक्षोजठरपायुषु
- पादयोर्वलयानि स्युर्नलकानि ब्रुवेऽधुना १६०
- हस्ते पादाङ्गुलितले कूर्च्चे च मणिबन्धके
- बाहूजङ्घाद्वये चापि जानीयान्नलकानि तु १६१
- मांसान्यन्त्राणि बद्धानि शिराभिः स्नायुभिस्तथा
- अस्थीन्यालम्बनं कृत्वा न दीर्यन्ते पतन्ति च १६२
- अस्थि यत् स्वाग्निना पक्वं तस्य सारो भवेद्घनः
- यः स्वेदवत् पृथग्भूतः स मज्जेत्यभिधीयते १६३
- स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तरे स्थितः १६४
- रसाद्र क्तं ततो मांसं मांसान्मेदः प्रजायते
- मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रस्य सम्भवः १६५
- यात्यामाशयमाहारः पूर्वं प्राणानिलेरितः
- माधुर्यं फेनभावं च षड्रसोऽपि लभेत सः १६६
- षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता
- आमपक्वाशयान्तःस्था ग्रहणी साऽभिधीयते १६७
- तत्रग्रहण्यामामाशयपक्वाशयमध्यवर्त्तिपाचकाख्यपित्ताधिष्ठानेनाग्निनाऽहारः
- पच्यते स कटुश्च भवतीत्याहग्रहण्यां पच्यते कोष्ठे वह्निना जायते कटुः इति १६८
- भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः
- पञ्चाहारगुणान् स्वान् स्वान्पार्थिवादीन् पचन्त्यनु १६९
- पञ्च भूतात्मके देहे आहारः पाञ्चभौतिकः
- विपक्वः पञ्चधा सम्यग्गुणान्स्वानभिवर्द्धयेत् इति १७०
- मिष्टः पटुश्च मधुरमम्लोऽम्ल पच्यते रसः
- कटुतिक्तकषायाणां विपाको जायते कटुः इति १७१
- आहारस्य रसः सारः सार हीनो मलद्र वः
- शिराभिस्तज्जलं नीतं वस्तिं मूत्रत्वमाप्नुयात् १७२
- शेषं किट्टञ्च यत्तस्य तत्पुरीषं निगद्यते
- समानवायुना नीतन्तत्तिष्ठति मलाशये १७३
- मूत्रञ्चोपस्थमार्गेण पुरीषं गुदमार्गतः
- अपानवायुना क्षिप्तं बहिर्याति शररीतः १७४
- रसस्तु हृदयं याति समानमरुतेरितः
- स तु व्यानेन विक्षिप्तः सर्वान् धातून् विवर्द्धयेत् १७५
- केदारेषु यथा कुल्याः पुष्णन्ति विविधौषधीः
- तथा कलेवरे धातून् सर्वान् वर्द्धयते रसः १७६
- स्थूलः सूक्ष्मस्तन्मलश्च तत्र तत्र त्रिधा रसः
- स्वं स्थूलॐऽश परं सूक्ष्मस्तन्मलो याति तन्मलम् १७७
- धातौ रसादौ मज्जान्ते प्रत्येकं क्रमतो रसः
- अहोरात्रात्स्वयं पञ्च सार्द्धदण्डं च तिष्ठति १७८
- स्वाग्निभिः पच्यमानेषु मज्जान्तेषु रसादिषु
- षट्सु धातुषु जायन्ते मलानि मुनयो जगुः १७९
- यथा सहस्रधा ध्माते न मलं किल काञ्चने
- तथा रसे मुहुः पक्वे न मलं शुक्रताङ्गते १८०
- ओजः सर्वशरीरस्थं स्निग्धं शीतं स्थिरं सितम्
- सोमात्मकं शरीरस्य बलपुष्टिकरं मतम् १८१
- गुरु शीतं मृदु स्निग्धं सान्द्रं स्वादु स्थिरं तथा
- प्रसन्नं पिच्छिलं सूक्ष्ममोजो दशगुणं स्मृतम् १८२
- अष्टविन्दुप्रमाणं तदीषद्र क्तं सपीतकम्
- अग्नीषोमात्मकत्वेन द्विरूपं वर्णितन्तु तत् १८३
- ओजश्च तेजो धातूनां शुक्रान्तानां परं स्मृतम्
- हृदयस्थमपि व्यापि देहस्थितिनिबन्धनम् १८४
- यस्य प्रवृद्धौ देहस्य तुष्टिपुष्टिबलोदयाः
- यन्नाशे नियतो नाशो यस्मिंस्तिष्ठति जीवनम् १८५
- निष्पद्यन्ते यतो भावा विविधा देहसंश्रयाः
- उत्साहप्रतिभाधैर्यलावण्यसुकुमारताः १८६
- ततः स्थूलो भागो रसो मासेन पुंसां शुक्रं स्त्रीणान्त्वार्त्तवं शुक्रञ्च भवति
- उक्तञ्च सुश्रुते
- एवं मासेन रसः शुक्रो भवति स्त्रीणामार्त्तवञ्चेति चकारात् स्त्रीणामपि शुक्रं
- भवति
- अत एवोक्तं सुश्रुते
- योषितोऽपि स्रवत्येव शुक्रं पुंसः समागमे
- तत्र गर्भस्य किञ्चित्तुन करोतीति न चिन्त्यते १८७
- स्त्रीणां गर्भोपयोगि स्यादार्त्तवं सर्वसम्मतम्
- तासामपि बलं वर्णं शुक्रं पुष्टिं करोति हि १८८
- रसाद्र क्तं ततो मांसं मांसान्मेदः प्रजायते
- मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रस्य सम्भवः १८९
- रसः शरीरे शब्दार्च्चिर्जलसन्तानवत् त्रिधा
- सञ्चरत्यनुरूपोऽय नित्यमेव हि देहिनाम् १९०
- वाजीकरिण्य ओषध्यः स्वप्रभावगुणोच्छ्रयात्
- विरेचयन्ति ताः शुक्रं विरेकिद्र व्यवन्नृणाम् १९१
- दुग्धं माषाश्च भल्लात फलमज्जामलानि च
- जनकानि निगद्यन्ते रेचनानि च रेतसः १९२
- बालानां शुक्रमस्त्येव किन्तु सौक्ष्म्यान्न दृश्यते
- पुष्पाणां मुकुले गन्धो यथा सन्नपि नाप्यते १९३
- तेषां तदेव तारुण्ये पुष्टत्वाद्व्यक्तिमेति हि
- कुसुमानां प्रफुल्लानां गन्धः प्रादुर्भवेद्यथा १९४
- रोमराज्यादयः पुंसां नारीणामपि यौवने
- जायतेऽत्र च यो भेदो ज्ञेयो व्याख्यानतः स च १९५
- वार्द्धके वर्द्धमानेन वायुना रसशोषणात्
- न तथा धातुवृद्धिः स्यात्ततस्तत्रानिलं जयेत् १९६
- शुक्रं सौम्यं सितं स्निग्धं बलपुष्टिकरं स्मृतम्
- गर्भबीजं वपुःसारो जीवस्याश्रय उत्तमः १९७
- जीवो वसति सर्वस्मिन्देहे तत्र विशेषतः
- वीर्ये रक्ते मले यस्मिन् क्षीणे याति क्षयं क्षणात् १९८
- स्फटिकाभं द्र वं स्निग्धं मधुरं मधुगन्धि च
- शुक्रमिच्छन्ति केचित्तु तैलक्षौद्र निभञ्च तत् १९९
- यथा पयसि सर्पिस्तु गूढश्चेक्षौ रसो यथा
- एवं हि सकले काये शुक्रं तिष्ठति देहिनाम् २००
- द्व्यङ्गुले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्यधः
- मूत्रस्रोतःपथाच्छुक्रं पुरुषस्य प्रवर्त्तते २०१
- कृत्स्नदेहस्थितं शुक्रं प्रसन्नमनसस्तथा
- स्त्रीषु व्यायच्छतश्चापि हर्षात्तत् सम्प्रवर्त्तते २०२
- शुक्रं कामेन कामिन्या दर्शनात् स्पर्शनादपि
- शब्दसंश्रवणाद्ध्य्नाआ!त् संयोगाच्च प्रवर्त्तते २०३
- रसादेव रजः स्त्रीणां मासि मासि त्र्! यहं स्रवेत्
- तद्वर्षाद् द्वादशादूर्ध्वं याति पञ्चाशतः क्षयम् २०४
- मासेनोपचितं काले धमनीभ्यस्तदार्त्तवम्
- ईषद्विवर्णं कृष्णञ्च वायुर्योनिमुखं नयेत् २०५
- शशासृक्प्रतिमं यच्च यद्वा लाक्षारसोपमम्
- तदार्त्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत् २०६
- अतिरिक्ता गुणा रक्ते बह्नेर्मांसे तु पार्थिवाः
- मेदस्यपां भुवश्चास्थ्नि पृथिव्यनिलतेजसाम् २०७
- मज्ज्ञि शुक्रे च सोमस्य मूत्रे च शिखिनोगुणाः
- भुवस्तथाऽत्तवे त्वग्ने रसे क्षीरे तथाऽम्भसः २०८
- कफः पित्तं मलः खेषु प्रस्वेदो नखलोम च
- नेत्रविट्त्वक्षु च स्नेहो धातूनां क्रमशो मलाः २०९
- वनितानां प्रसूतानां धमनीभ्यां स्तनौ गतात्
- रसादेव हि जायेत स्तन्यं स्तनयुगाशयम् २१०
- शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्त्तिता
- मेदसस्ताप्यमानस्य स्नेहो वा कथिता वसा २११
- स्तन्यं रजो वसा स्वेदो दन्ताः केशास्तथैव च
- ओजश्च सप्तधातूनां क्रमात् सप्तोपधातवः २१२
- उरोरक्ताशयस्तस्मादधः श्लेष्माशयः स्मृतः
- आमाशयस्तु तदधस्तल्लिङ्गं चरकोऽवदत् २१३
- आमाशयादधः पक्वाशयादूर्ध्वन्तु या कला
- ग्रहणी नामिका सैव कथितः पाचकाशयः २१४
- ऊर्ध्वमग्न्याशयो नाभेर्मध्यभागे व्यवस्थितः
- तस्योपरि तिलं ज्ञेयं तदधः पवनाशयः २१५
- पक्वाशयस्तुतदधः स एव तु मलाशयः
- तदधः कथितो वस्तिः स हि मूत्राशयो मतः २१६
- कफाऽमपित्तवातानामाशया मलमूत्रयोः
- पुरुषेभ्योऽधिकाश्चान्ये नारीणामाशयास्त्रयः २१७
- धरा गर्भाशयः प्रोक्तः पित्तपक्वाशयान्तरे
- स्तनौ प्रवृद्धौ तावेव बुधैः स्तन्याशयौ मतौ २१८
- स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा
- श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान्विदुः २१९
- धात्वाशयान्तरे धातोर्यः क्लेदस्त्वधितिष्ठति
- देहोष्मणाऽभिपक्वश्च सा कलेत्यभिधीयते २२०
- आद्या मांसधरा प्रोक्ता द्वितीया रक्तधारिणी
- मेदोधरा तृतीया तु चतुर्थी श्लेष्मधारिणी २२१
- पञ्चमी तु मलं धत्ते षष्ठी पित्तधरा मता
- रेतोधरा सप्तमी स्यादिति सप्त कलाः स्मृताः २२२
- सन्निपातः शिरास्नायुसन्धिमांसास्थिसम्भवः
- मर्माणि तेषु तिष्ठन्ति प्राणाः खलु विशेषतः २२३
- सप्तोत्तरशतं सन्ति देहे मर्माणि देहिनाम्
- तान्येकादश मांसे स्युरष्टावस्थिषु सन्ति हि २२४
- सन्धीनां विंशतिस्तानि स्नायूनां सप्तविंशतिः
- चत्वारिंशतत्तथैकञ्च शिरामर्माणि तत्र तु २२५
- द्वाविंशतिः सक्थियुगे तावत्येव भुजद्वये
- द्वादशोरसि कुक्षौ च पृष्ठदेशे चतुर्दश २२६
- ग्रीवायामूर्ध्वभागे तु सप्तत्रिंशन्मतानि हि
- मर्माणि तानि सन्तीह पञ्चधा च भवन्ति हि २२७
- सद्यः प्राणहराणि स्युर्मर्माण्येकोनविंशतिः
- मर्मदेशास्त्रयस्त्रिंशत् स्युः कालान्तरमारकाः २२८
- चत्वारिंशच्च चत्वारि वैकल्यं जनयन्ति हि
- मर्माष्टकं रुजाकारि विशल्यघ्नं त्रिकं मतम् २२९
- शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठशिरा गुदम्
- हृदयं वस्तिनाभी च सद्यो घ्नन्ति हतानि चेत् २३०
- वक्षोमर्माणि सीमन्ततलक्षिप्रेन्द्र वस्तयः
- वृहत्यौ पार्श्वयोः सन्धी कटीकतरुणे च ये
- नितम्बाविति चैतानि कालान्तरहराणि तु २३१
- लोहिताक्षाणिजानूर्वी कूर्चा विटपकूर्पराः
- कुकुन्दरे कक्षधरे विधुरे सकृकाटिके २३२
- अंसांसफलकापाङ्गा नीले मन्ये फणे तथा
- वैकल्यकरणान्याहुरावर्त्तौ द्वौ तथैव च २३३
- गुल्फौ द्वौ मणिबन्धौ द्वौ तथा कूर्चशिरांसि च
- रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् २३४
- उत्क्षेपौ स्थपनी चैव विशल्यघ्नं त्रिकम्मतम् २३५
- सप्तरात्रान्तरे हन्युः सद्यः प्राणहराणि हि
- कालान्तरप्राणहरं पक्षे मासे च मारकम् २३६
- सद्यः प्राणहरञ्चान्ते विद्धं कालेन मारयेत्
- कालान्तरप्राणहरमन्ते विद्धन्तु दुःखदम् २३७
- मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम्
- प्रायेण ते कृच्छ्रतमा भवन्ति वैद्येन यत्नैरपि साध्यमानाः २३८
- अथ सन्धयः
- ते द्विविधाश्चेष्टावन्तः स्थिराश्च
- शाखासु हन्वोः कट्याञ्च चेष्टावन्तो भवन्ति हि
- शेषास्तु सन्धयः सर्वे स्थिरास्तज्ज्ञैरुदाहृताः २३९
- कथिता देहिनां देहे सन्धयो द्वे शते दश
- शाखासु तेऽष्टषष्टिश्च कोष्ठे त्वेकोनषष्टिका २४०
- ग्रीवाया ऊर्ध्वदेशे तु त्र्! यशीतिस्ते प्रकीर्त्तिताः
- प्रथमं परिगण्यन्ते तेषु शाखागता इह २४१
- कोरोदूखलसामुद्गाः प्रतरस्तूणसेवनी
- काकतुण्डं मण्डलञ्च शङ्खावर्त्तोऽष्टसन्धयः २४२
- अस्थ्नां तु सन्धयो ह्येते केवलाः समुदाहृताः
- पेशीस्नायु शिराणान्तु सन्धिसंख्या न विद्यते २४३
- सन्धिबन्धनकारिण्यो दोषधातुवहाः शिराः
- नाभ्यां सर्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः २४४
- शरीरं सकलञ्चैतच्छिराभिः पोष्यते सदा
- प्रणालीभिरिवारामाः कुल्याभिः क्षेत्रधान्यवत् २४५
- प्रसारणाकुञ्चनादिक्रियाभिः सततं तनौ
- शिरा एवोपकुर्वन्ति ताः स्युः सप्तशतानि तु २४६
- यथा द्रुमदले साक्षाद् दृश्यन्ते प्रतताः शिराः
- तथैव दैहिनो देहे वर्त्तन्ते सकले शिराः २४७
- नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिरुपाश्रिता
- शिराभिरावृता नाभिश्चक्रनाभिरिवारकैः २४८
- क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम्
- करोत्यन्यान् गुणांश्चापि स्वाः शिराः पवनश्चरन् २४९
- यदा तु कुपितो वायुः स्वाः शिराः प्रतिपद्यते
- तदाऽस्य विविधा रोगा जायन्ते वातसम्भवाः २५०
- भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम्
- करोत्यन्यान् गुणांश्चापि पित्तमात्मशिराश्चरद् २५१
- यदा तु कुपितं पित्तं सेवते स्ववहाः शिराः
- तदाऽस्यविविधा रोगा जायन्ते पित्तसम्भवाः २५२
- स्नेहमङ्गेषु सन्धीनां स्थैर्यं बलमरोगाताम्
- करोत्यन्यान् गुणांश्चापि वलासःस्वाःशिराश्चरन् २५३
- यदा तु कुपितः श्लेष्मा स्वाः शिराः प्रतिपद्यते
- तदाऽस्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः २५४
- धातूनां पूरणं वर्णस्पर्शज्ञानमसंशयम्
- स्वशिरासु चरद्र क्तं कुर्याच्चान्यान् गुणानपि २५५
- यदा तु कुपितं रक्तं सेवते स्ववहाः शिराः
- तदाऽस्य विविधा रोगा जायन्ते रक्तसम्भवाः २५६
- तत्रारुणा वातवहाः पूर्यन्ते वायुना शिराः
- पित्तादुष्णाश्च नीलाश्च शीता गौर्यः स्थिराः कफात्
- असृग्धरास्तु ता रक्ताः स्युश्च नात्युष्णशीतलाः २५७
- मेदसः स्नेहमादाय शिरा स्नायुत्वमाप्नुयात्
- शिराणां हि मृदुः पाकः स्नायूनान्तु ततः खरः २५८
- स्नायवो बन्धनानिस्युर्देहमांसास्थिमेदसाम्
- सन्धीनामपि यत्तास्तु शिराभ्यः सुदृढाः स्मृताः २५९
- नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता
- नियुक्ताऽगाधसलिले भवेद्भारसहा भृशम् २६०
- एवमेव शरीरेस्मिन्यावन्तः सन्धयः स्मृताः
- स्नायुभिर्बहुभिर्बद्धास्तेन भारसहा नराः २६१
- शतानि नव जायन्ते शरीरे स्नायवो नृणाम्
- तासां विवरणं ब्रूमः शिष्याः शृणुत यत्नतः २६२
- शाखासु षट्शतानि स्युः कोष्ठे त्रिंशच्छतद्वयम्
- ग्रीवाया ऊर्ध्वदेशे तु स्नायूनां सप्ततिः समृता २६३
- धमन्यो नाभितो जाताश्चतुर्विंशतिसंख्यया
- दशोर्ध्वगा दशाधोगाः शेषास्तिर्यग्गताः स्मृता २६४
- यथा स्वभावतः खानि मृणालेषु विसेषु च
- धमनीनां तथा खानि रसो यैरभितश्चरेत् २६५
- पञ्चाभिभूतास्त्वथ पञ्चकृत्वः पञ्चेन्द्रि यं पञ्चसु भाबयन्ति
- पञ्चेन्द्रि यं पञ्चसु भावयित्वा पञ्चत्वमायान्ति विनाशकाले २६६
- महत्यः स्नायवः प्रोक्ताः कण्डरास्तास्तु षोडश
- प्रसारणाकुञ्चनयोर्दृष्टं तासां प्रयोजनम् २६७
- चतस्रो हस्तयोस्तासां तावत्यः पादयोः स्मृताः
- ग्रीवायामपि तावत्यस्तावत्यः पृष्ठसङ्गताः २६८
- नेत्रश्रवणनासानां द्वे द्वे रन्ध्रे प्रकीर्त्तिते
- मुखमेहनपायूनामेकैकं रन्ध्रमुच्यते २६९
- दशमं मस्तके प्रोक्तं रन्ध्राणीति नृणां विदुः
- स्त्रीणामन्यानि च त्रीणि स्तनयोर्गर्भवर्त्मनि २७०
- मनः प्राणान्नपानीयदोषधातूपधातवः
- धातूनां च मला मूत्रं मलमित्यादयस्तनौ २७१
- सञ्चरन्ति हि यैर्मागैस्तानि स्रोतांसि सञ्जगुः
- बहूनि तानि संख्याय शक्यन्ते नैव भाषितुम् २७२
- जालानि तु शिरास्नायुमांसास्थ्नामुद्भवन्ति हि
- तानि चत्वारि चत्वारि सर्वाण्येव च षोडश २७३
- कूर्चा स्युर्हस्तयोर्द्वौ तु तावन्तौ पादयोरपि
- ग्रीवायामेक एकस्तु मेढ्रे सर्वेऽपि षट् स्मृताः २७४
- पृष्ठवंशस्योभयत्र महत्यो मांसरज्जवः
- चतस्रो मांसपेशीनां बन्धनं तत्प्रयोजनम् २७५
- सेवन्यः सप्त तासां तु भवेयुः पञ्च मस्तके
- एका शेफसि जिह्वायामेका विध्येन्न ताः क्वचित् २७६
- चतुर्दशास्थ्नां सङ्घातास्तेषां त्रयो गुल्फजानुवंक्षणेषु
- एतेनेतरसक्थिबाहू च व्याख्यातौ त्रिकशिरसोरेकैकम् २७७
- चतुर्दशैव सीमन्ताः कथिता मुनिपुङ्गवैः
- सङ्घाताः सीविता यैस्तु सीमन्तास्ते प्रकीर्त्तिताः २७८
- क्षीरस्य पच्यमानस्य यथा सन्तानिका भवेत्
- पच्यमानस्य शुक्रस्य रजसश्च तथा त्वचः
- पूर्वावभासिनी तासां सिध्मस्थानं च सा स्मृता २७९
- द्वितीया लोहिता ज्ञेया तिलकालकजन्मभूः २८०
- तृतीया तु भवेच्छ्वेता स्थानं चर्मदलस्य सा २८१
- ताम्रा चतुर्थी विज्ञेया किलासश्वित्रभूमिका २८२
- पिञ्चमी वेदिनी नाम्ना पञ्चभागप्रमाणिका
- विसर्पकुष्ठाधिष्ठाना ज्ञेया षष्ठी तु रोहिणी
- विख्याता रोहिणी षष्ठी ग्रन्थिगण्डापचीस्थितिः २८३
- स्थूला त्वक्सप्तमी ख्याता विद्र ध्यादेः स्थितिश्च सा २८४
- अस्थ्नो मलानि लोमानि चासंख्यानि भवन्ति हि
- सन्ति यावन्ति लोमानि तावन्तो लोमकूपकाः २८५
- अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते
- सन्निवेशश्च गात्राणां नात्रास्ते कारणान्तरम् २८६
- अङ्गप्रत्यङ्गनिर्वृत्तौ ये भवन्यगुणा गुणाः
- ते ते गर्भस्य विज्ञेया धर्माधर्मनिमित्तजाः २८७
- दन्तानां पतनं जन्म पुनः पाते त्वसम्भवः
- तलेष्वनुद्भवो लोम्नामेतत्सर्वं स्वभावतः २८८
- गर्भाशये निपतितं यादृक्शुक्रं तथाऽतवम्
- तादृगेव द्र वीभूतं प्रथमे मासि तिष्ठति २८९
- मरुत्पित्तकफैस्तत्स्थैः पच्यमानो द्वितीयके
- कललस्थमहाभूतसमुदायो घनीभवेत् २९०
- तृतीये मासि शिरसो हस्तयोः पादयोस्तथा
- पिण्डकाः पञ्च सिध्यन्ति सूक्ष्माङ्गावयवास्तनोः २९१
- सर्वाण्यङ्गान्युपाङ्गानि चतुर्थे स्युः स्फुटानि हि
- हृदयव्यक्तभावेन व्यज्यते चेतनाऽपि च २९२
- तस्माच्चतुर्थे गर्भस्तु नाना वस्तूनि वाञ्छति
- ततो द्विहृदया यत्स्यान्नारी दौहृदिनी मता २९३
- दौहृदावज्ञया कुब्जं कुणिं षण्ढं च वामनम्
- विकृताक्षमनक्षं वा पुत्रं नारी प्रसूयते २९४
- यतः स्त्री दौहृदं प्राप्य वीर्यवन्तं चिरायुषम्
- पुत्रं प्रसूयते तस्मात्तस्यै वाच्छितमर्पयेत् २९५
- इन्द्रि यार्थांस्तु यान्यान्सा भोक्तुमिच्छति गर्भिणी
- गर्भबाधाभयात्तांस्तान्भिषगाहृत्य दापयेत् २९६
- सा प्राप्तदौहृदा पुत्रं जनयेत्तु गुणान्वितम्
- अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम् २९७
- येषु येष्विन्द्रि यार्थेषु दौहृदे साऽवमानिता
- प्रसूयते सुतं सार्तिं तस्मिंस्तस्मिंस्तदिन्द्रि ये २९८
- राजसन्दर्शने यस्या दौहृदंजायते स्त्रियाः
- अर्थवन्तं महाभागं कुमारं सा प्रसूयते २९९
- दुकूलपट्टकौशेयभूषणादिषु दौहृदात्
- अलङ्कारैषिणं पुत्रं ललितं सा प्रसूयते ३००
- आश्रमे संयतात्मानं धर्मशीलं प्रसूयते
- देवताप्रतिमायां तु प्रसूते पार्षदोपमम् ३०१
- दर्शने व्यालजातीनां हिंसाशीलं प्रसूयते
- रक्ताक्षं लोमशं शूरं महिषामिषदौहृदात् ३०२
- वाराहमांसे स्वप्नालुं शूरं सञ्जनयेत्सुतम्
- मृगमांसे तु जङ्घालं विक्रान्तं वनचारिणम् ३०३
- अतोऽनुक्तेषु या नारी दौहृदं विदधाति हि
- शरीराचारशीलैः सा समानं जनयिष्यति ३०४
- पञ्चमे मानसं षष्ठे बुद्धिश्चातिप्रबुद्ध्य्ते
- सर्वाण्यङ्गान्युपाङ्गानि भृशं व्यक्तानि सप्तमे ३०५
- ओजोऽष्टमे सञ्चरति माता पुत्रौ मुहुः क्रमात्
- तेन तौम्लानमुदितौ स्यातां जातो न जीवति ३०६
- न जीवत्यष्टमे जातस्तत्रौजो न स्थिरं यतः
- तथा नेरृत्यभागत्वाद्दापयेत्तद्वलि ततः ३०७
- नवमे दशमे मासि नारी बालं प्रसूयते
- एकादशे द्वादशे वा ततोऽन्यत्र विकारतः ३०८
- शिरो भवति चाङ्गस्य पूर्वमित्याह शौनकः
- शिरस्येवोपजायन्ते प्रधानानीन्द्रि याणि यत् ३०९
- हृदयं जायते पूर्वं कृतवीर्योऽवदन्मुनिः
- बुद्धेश्च मनसश्चापि यतस्तत्स्थानमीरितम् ३१०
- पाराशर्य इति प्राह पूर्वं नाभिसमुद्भवः
- प्राणो यत्र स्थितो देहं वर्द्धयत्यूष्मसंयुतः ३११
- पाणिपादं भवेत्पूर्वं मार्कण्डेयमुनेर्मतम्
- देहिनः सकलाश्चेष्टाः पाणिपादाश्रया यतः ३१२
- प्रथमं जायते कोष्ठं ततः सर्वांगसम्भवः
- एतत्तुं कथयामास गौतमो मुनिपुंगवः ३१३
- सर्वाण्यङ्गान्युपाङ्गानि युगपत्सम्भवन्ति हि
- सूक्ष्मत्वान्नोपलभ्यन्ते मतं धन्वन्तरेरिदम् ३१४
- आम्रस्याणुफले भवन्ति युगपन्मांसास्थिमज्जादयो
- लक्ष्यन्ते न पृथक्पृथक्तनुतया पुष्टास्त एव स्फुटाः
- एवं गर्भसमुद्भवे त्ववयवाः सर्वे भवन्त्येकदा
- लक्ष्याः सूक्ष्मतया न ते प्रकटतामायान्ति वृद्धिं गताः ३१५
- अथ शरीरे पितृज-मातृज-रसजात्मजा भागा उच्यन्ते तत्र
- केशाःश्मश्रु च लोमानि नखा दन्ताः शिरास्तथा
- धमन्यः स्नायवः शुक्रमेतानि पितृजानि हि ३१६
- मांसासृङ्मज्जमेदांसि यकृत्प्लीहान्त्रनाभयः
- हृदयं च गुदं चापि भवन्त्येतानि मातृतः ३१७
- शरीरोपचयो वर्णो बलं देहस्थितिस्तथा
- रसादेतानि जायन्ते भिषजो मुनयो जगुः ३१८
- ज्ञानं विज्ञानमायुश्च सुखदुःखादिकं तथा
- इन्द्रि याणि च सर्वाणि भवन्त्येतानि चात्मनः ३१९
- अग्नीषोमौ मही वायुर्नभः सत्त्वं रजस्तमः
- पञ्चेन्द्रि याणि भूतात्मा गर्भं सञ्जीवयन्ति हि ३२०
- गर्भस्य नाभिनाड्या तु नाडी रसवहा स्त्रियाः
- संलग्ना तेन गर्भस्य वृद्धिर्भवति नित्यशः ३२१
- निःश्वासोच्छ्वाससंक्षोभस्वप्नांशान्सोऽधिगच्छति
- मातुर्निःश्वसितोच्छ्वाससंक्षोभस्वप्नसंभवान् ३२२
- गर्भस्य नाभिमध्ये तु ज्योतिःस्थानं ध्रुवं स्मृतम्
- तदाधमति वातश्च देहस्तेनास्य वर्धते ३२३
- ऊष्मणा सहिताश्चापि दारयत्यस्य मारुतः
- ऊर्ध्वं तिर्यगधस्ताच्च स्रोतांसि तु यथा तथा ३२४
- दृष्टिश्च रामकूपाश्च न वर्धन्ते कदा च न
- ध्रुवाण्येतानि मर्त्यानामिति धन्वन्तरेर्मतम् ३२५
- शरीरे क्षीयमाणेऽपि वर्धेते द्वाविमौ सदा
- स्वभावं प्रकृतिं कृत्वा नखकेशाविति स्थितिः ३२६
- चेतनानामधिष्ठानं मनो देहश्च सेन्द्रि यः
- केशलोमनखाग्रान्नमलद्र वगुणैर्विना ३२७
- वाताल्पत्वादयोगाच्च वायोः पक्वाशयस्य च
- वातमूत्रपुरीषाणि गर्भस्थो न विमुञ्चति ३२८
- जरायुणा मुखे छन्ने कण्ठे च कफवेष्टिते
- वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति ३२९
- गर्भिणी प्रथमादह्नः प्रहृष्टा भूषिता शुचिः
- भवेच्छुक्लाम्बरधरा गुरुविप्रार्चने रता ३३०
- भोज्यं तु मधुरप्रायं स्निग्धं हृद्यं द्र वं लघु
- सस्कृतं दीपनीयं तु नित्यमेवोपयोजयेत् ३३१
- गर्भिणी न तु कुर्वीत व्यायाममपतर्पणम्
- व्यवायं च न सेवेत न कुर्यादतितर्पणम् ३३२
- रात्रौ जागरणं शोकं यानस्यारोहणं तथा
- रक्तमोक्षं वेगरोधं न कुर्यादुत्कटासनम् ३३३
- दोषाभिघातैर्गर्भिण्या यो यो भागः प्रपीड्यते
- स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते ३३४
- मलिनां विकृताकारां हीनाङ्गीं न स्पृशेत्स्त्रियम्
- न जिघ्रेदपि दुर्गन्धं न पश्येन्नयनाप्रियम् ३३५
- वचांसि नापि शृणुयात्कर्णयोरप्रियाणि च
- नान्नं पर्युषितं शुष्कं भुञ्जीत क्वथितं न च ३३६
- चैत्यश्मशानवृक्षांश्च भावांश्चाप्ययशस्करान्
- बहिर्निष्क्रमणं क्रोधं शून्यागारं च वर्जयेत् ३३७
- नोच्चैर्ब्रूयान्न तत्कुर्याद्येन गर्भो विनश्यति
- तैलाभ्यङ्गोद्वर्तनं च नात्यर्थं कारयेदपि ३३८
- नामृद्वास्तरणं कुर्यान्नात्युच्चं शयनासनम्
- एतांस्तु नियमान्सर्वान्यत्नात्कुर्वीत गर्भिणी ३३९
- नवमे दशमे मासि नारी गर्भं प्रसूयते
- एकादशे द्वादशे वा ततोऽन्यत्र विकारतः ३४०
- अष्टहस्तायतं चारु चतुर्हस्तविशालकम्
- प्राचीद्वारमुदग्द्वारं विदध्यात्सूतिकागृहम् ३४१
- जाते हि शिथिले कुक्षौ मुक्ते हृदयबन्धने
- सशूले जघने नारी विज्ञेया प्रसवोत्सुका ३४२
- आसन्नप्रसवायास्तु कटीपृष्ठं तु सव्यथम्
- भवेन्मुहुः प्रवृत्तिश्च मूत्रस्य च मलस्य च ३४३
- तैलेनाभ्यक्तगात्रान्तां संस्नातामुष्णवारिणा
- यवागूं पाययेत्कोष्णां मात्रया घृतसंयुताम् ३४४
- कृतोपधाने मृदुनि विस्तीर्णे शयने शनैः
- अभुग्नसक्थी चोत्ताना नारी तिष्ठेद्व्यथाऽन्विता ३४५
- चतस्रोऽशकनीयाश्च स्रावणे कुशला हिताः
- वृद्धाः परिचरेयुस्ताः सम्यक्छिन्ननखाः स्त्रियः ३४६
- अपत्यमार्गं तैलेन समभ्यज्य समन्ततः
- एका तु तासु सुभगे प्रवाहस्वेति तां वदेत् ३४७
- अव्यथा मा प्रवाहिष्ठाः प्रावहेथा व्यथा यदि
- प्रवाहेथाः शनैः पूर्वंप्रगाढं च ततः परम् ३४८
- ततो गाढतमं गर्भे योनिद्वारमुपागते
- अपरासहितो गर्भो यावत्पतति भूतले ३४९
- मूकं वा बधिरं कुब्जं श्वासकासक्षयान्वितम्
- सूते स्रस्ततनुं बालमकाले तु प्रवाहणात् ३५०
- इति श्रीमिश्रलटकन तनय श्रीमन्मिश्रभाव विरचिते भावप्रकाशे गर्भप्रकरणं तृतीयम् ३
- अथ चतुर्थं बालप्रकरणम् ४
- अथ बाले समुत्पन्ने विदधीत विधिं तथा
- यथैव कुलवृद्धस्त्रीव्यवहारपरम्परा १
- प्रसूता हितमाहारं विहारं च समाचरेत्
- व्यायामं मैथुनं क्रोधं शीतसेवां विवर्जयेत् २
- मिथ्याचारात्सूतिकाया यो व्याधिरुपजायते
- स कृच्छ्रसाध्योऽसाध्यो वा भवेत्तत्पथ्यमाचरेत् ३
- सर्वतः परिशुद्धा स्यात्स्निग्धपथ्याऽल्पभोजना
- स्वेदाभ्यङ्गपरा नित्यं भवेन्मासमतन्द्रि ता ४
- प्रसूता सार्धमासान्ते दृष्टे वा पुनरार्त्तवे
- सूतिकानामहीना स्यादिति धन्वन्तरेर्मतम् ५
- व्युपद्र वां विशुद्धां च विज्ञाय वरवर्णिनीम्
- ऊर्ध्वं चतुर्भ्यो मासेभ्यो नियमं परिहारयेत् ६
- रसप्रसादो मधुरः पक्वाहारनिमित्तजः
- कृत्स्नाद्देहात्स्तनौ प्राप्तः स्तन्यमित्यभिधीयते ७
- स्तन्यं त्रिरात्रात्स्त्रीणां वा चतूरात्रादनन्तरम्
- प्रवर्त्तयन्ति विवृता धमन्यो हृदये स्थिताः ८
- पयः पुत्रस्य संस्पर्शाद्दर्शनात्स्मरणादपि
- ग्रहणादप्युरोजस्य शुक्रवत्सम्प्रवर्त्तते
- स्नेहो निरन्तरस्तस्य प्रवाहे हेतुरुच्यते ९
- अवात्सल्याद्भयाच्छोकात्क्रोधादत्यपतर्पणात्
- स्त्रीणां स्तन्यं भवेत्स्वल्पं गर्भान्तरविधारणात् १०
- शालिषष्टिकगोधूमान्मांसक्षुद्र झषानपि
- कालशाकमलाबूं च नारिकेलं कसेरुकम् ११
- शृङ्गाटकं वरीं चापि विदारीकन्दमेव च
- लशुनं दुग्धवृद्धयै स्त्री सेवेत सुमना भवेत् १२
- कलमस्य तण्डुलानां कल्कं या क्षीरपेषितं पिबति
- सा भवति भृशं तरुणी क्षीरभरेणैव तुङ्गकुचयुगला १३
- कलमः कलिविख्यातो जायते स बृहद्ध्रदे
- काश्मीरदेश एवोक्तो महातण्डुलसंज्ञकः १४
- विदारिकन्दस्य रसं पिबेत्स्तन्यस्य वृद्धये
- तच्चूर्णं तस्य वृर्द्ध्य्थं पिबेद्वा क्षीरसंयुतम् १५
- धात्र्! या गुरुभिराहारैर्विहारैर्दोषलैस्तथा
- देहे दोषाः प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति १६
- मिथ्याऽहारविहारिण्या दुष्टा वातादयः स्त्रियाः
- दूषयन्ति पयस्तेन शरीरं व्याधयः शिशोः १७
- कषायं सलिलप्लावि स्तन्यं मारुतदूषितम्
- पित्तादम्लं च कटुकं राज्योऽम्भसि तु पीतिकाः १८
- कफदुष्टं तु यत्तोये निमज्जति च पिच्छिलम्
- द्वन्द्वजं तु द्विलिङ्गं स्यात्त्रिलिङ्गं सान्निपातिकम् १९
- धात्री क्षीरविशुर्द्ध्य्थं मुद्गयूषरसाशिनी
- भार्ङ्गीदारुवचाः पिष्ट्वा पिबेत्साऽतिविषास्तथा २०
- पाठामूर्वाऽब्दभूनिम्बदारुशुण्ठीकलिङ्गकैः
- सारिवामत्स्यपित्ताऽख्यै क्वाथः स्तन्यविशोधनः २१
- पटोलनिम्बासनदारुपाठा मूर्वां गुडूचीं कटुरोहिणीं च
- सनागरां च क्वथितां च तोये धात्री पिबेत्स्तन्यविशुद्धिहेतोः २२
- नीरे स्यन्यं यदेकि स्वादविवर्णमतन्तुमत्
- पाण्डुरं तनु शीतं च तद्दुग्धं शुंद्धमादिशेत् २३
- पीताय यदि बालस्य विदध्यादुपमातरम्
- सुविचार्य गुणान्दोषान्कुर्याद्धात्रीं तदेदृशीम् २४
- सवर्णां मध्यवयसां सच्छीलां मुदितां सदा
- शुद्धदुग्धां बहुक्षीरां सवत्सामतिवत्सलाम् २५
- स्वाधीनामल्पसन्तुष्टां कुलीनां सज्जनात्मजाम्
- कैतवेन परित्यक्तां निजपुत्रशदृशं शिशौ २६
- शोकाकुलाक्षु धार्ता च श्रान्ता व्याधिमती सदा
- अत्युच्चा नितरां नीचा स्थूलातीव भृशं कृशा २७
- गर्भिणी ज्वरिणी चापि लम्बोन्नतपयोधरा
- अजीर्णभोजिनी चापि तथा पथ्यविवर्जिता २८
- आसक्ता क्षुद्र कार्येषु दुःखार्ता चञ्चलाऽपि च
- एतासां स्तन्यपानेन शिशुर्भवति सामयः २९
- तत्र माता प्रशस्ताङ्गी चारुवस्त्रा पुरोमुखी
- उपविश्यासने सम्यग्दक्षिणं स्तनमम्बुना ३०
- प्रक्षाल्येषत्परिस्राव्य मन्त्राभ्यामभिमन्त्रितम्
- उदङ्मुखं शिशुं क्रोडे शनैः सन्धाय पाययेत् ३१
- अस्रावितं स्तनं बालः पिबन्स्तन्येन भूयसा
- पूर्णस्रोता वमीकासश्वासैर्भवति पीडितः ३२
- क्षीरनीरनिधिस्तेऽस्तु स्तनयोः क्षीरपूरकः
- सदैव सुभगो बालो भवत्वेष महाबलः ३३
- पयोऽमृतसमं पीत्वा कुमारस्ते शुभानने
- दीर्घमायुरवाप्नोतु देवाः प्राप्यामृतं यथा ३४
- क्षीरसात्म्यतया क्षीरमाजं गव्यमथापि वा
- दद्यादास्तन्यपर्याप्तेर्बालेभ्यो वीक्ष्य मात्रया ३५
- यथोक्तविधिना बालं मासि षष्ठेऽष्टमेऽपि च
- अन्नं सम्प्राशयेत्किञ्चित्ततस्तद्वर्धयेत्क्रमात् ३६
- बालमङ्के सुखं दध्यान्न चैनं तर्जयेत्क्वचित्
- सहसा बोधये न्नैव नायोग्यमुपवेशयेत् ३७
- नाकृष्य स्थापयेत्क्रोडे न क्षिप्रं शयने क्षिपेत्
- रोदयेन्न क्वचित्कार्ये विधिमावश्यकं विना ३८
- तच्चित्तमनुवर्त्तेत तं सदैवानुमोदयेत्
- विआ!तातपतडिद्वृष्टिधूमानलजलादितः
- निम्नोच्चस्थानतश्चापि रक्षेद्बालं प्रयत्नतः ३९
- अभ्यङ्गोद्वर्त्तन स्नानं नेत्रयोरञ्जनं तथा
- वसनं मृदु यत्तच्च तथा मृद्वनुलेपनम्
- जन्मप्रभृति पथ्यानि बालस्यैतानि सर्वथा ४०
- कवलः पञ्चमाद्वर्षादष्टमान्नस्यकर्म च
- विरेकः षोडशाद्वर्षाद्विंशतेश्चैव मैथुनम् ४१
- वयस्तु त्रिविधं बाल्यं मध्यमं वार्धकं तथा
- ऊनषोडशवर्षस्तु नरो बालो निगद्यते ४२
- त्रिविधः सोऽपि दुग्धाशी दुग्धान्नाशी तथाऽन्नभुक्
- दुग्धाशी वर्षपर्यन्तं दुग्धान्नाशी शरद्द्वयम् ४३
- तदुत्तरं स्यादन्नाशी एवं बालस्त्रिधा मतः
- मध्ये षोडशसप्तत्योर्मध्यमः कथितो बुधैः ४४
- चतुर्धा मध्यमं वृद्धियुवपूर्णक्षयान्वितम्
- भवेदाविंशतेर्वृद्धिर्युवा त्वान्त्रिंशतो मतः ४५
- चत्वारिंशत्समा यावत्तिष्ठेद्वीर्यादिपूरितः
- ततः क्रमेण क्षीणः स्याद्यावद्भवति सप्ततिः ४६
- ततस्तु सप्ततेरूर्ध्वं क्षीणधातुरसादिकः
- क्षीयमाणेन्द्रि यबलः क्षीणरेता दिने दिने ४७
- बलीपलितखालित्ययुक्तः कर्मसु चाक्षमः
- कासश्वासादिभिः क्लिष्टो वृद्धो भवति मानवः ४८
- बाल्ये विवर्धते श्लेष्मा पित्तं स्यान्मध्यमेऽधिकम्
- वार्धके वर्द्धते वायुर्विचार्यैतदुपक्रमेत् ४९
- बाल्यं वृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ
- बुद्धिः कर्मेन्द्रि यं चेतो जीवितं दशतो ह्रसेत् ५०
- सप्त प्रकृतयो नॄणां वातात्पित्तात्कफात्तथा
- संसर्गात्सन्निपाताच्च भवन्ति भिषजां मते ५१
- शुक्रशोणितसंयोगे यो दोषस्तूत्कटो भवेत्
- प्रकृतिर्जायते तेन तस्या लक्षणमुच्यते ५२
- शुक्रासृग्गर्भिणीभोज्यचेष्टागर्भाशयार्त्तिषु
- यः स्याद्दोषोऽधिकस्तेन प्रकृतिः सप्तधोदिता ५३
- जागरूकोऽल्पकेशश्च स्फुटितांघ्रिकरः कृशः
- शीघ्रगो बहुवाग्रूक्षः स्वप्ने वियति गच्छति
- एवंविधः स विज्ञेयो वातप्रकृतिको नरः ५४
- पित्तप्रकृतिको लोको यादृशोऽथ निगद्यते
- अकालपलितो गौरः क्रोधी स्वेदी च बुद्धिमान् ५५
- बहुभुक्ताम्रनेत्रश्च स्वप्ने ज्योतींषि पश्यति
- एवंविधो भवेद्यस्तु पित्तप्रकृतिको नरः ५६
- श्यामकेशः क्षमी स्थूलो बहुवीर्यो महाबलः
- स्वप्ने जलाशयालोकी श्लेष्मप्रकृतिको नरः ५७
- दृश्यते प्रकृतौ यत्र रूपं दोषद्वयस्य तु
- द्विसंसर्गेण जानीयात्सर्वलिङ्गैस्त्रिदोषजम् ५८
- विभुत्वादाशुकारित्वाद्वलित्वादन्यकोपनात्
- स्वातन्त्र्! याद्बहुरोगत्वाद्दोषाणां प्रबलोऽनिलः ५९
- प्रायोऽत एव पवनाध्युषिता मनुष्या दोषात्मकाः स्फुटितधूसरकेशगात्राः
- शीतद्विषश्चलधृतिस्मृतिबुद्धिचेष्टासौहार्ददृष्टिगतयोऽतिबहुप्रलापाः ६०
- अल्पपित्तबलजीवितनिद्रा ः! सन्नसक्तचलजर्जरवाचः
- नास्तिका बहुभुजः सविलासा गीतहास्यमृगयाकलिलोलाः ६१
- मधुराम्लपटूष्णसात्म्यकांक्षाः कृशदीर्घाकृतयः सशब्दयाताः
- न दृढा न जितेन्द्रि या न चार्या न च कान्तादयिता बहुप्रजा वा ६२
- नेत्राणि चैषां खरधूसराणि वृत्तान्यचारूणि मृतोपमानि
- उन्मीलितानीव भवन्ति सुप्ते शैलद्रुमांस्ते गगनं च यान्ति ६३
- अधन्या मत्सराध्माताः स्तेना प्रोद्बद्धपिण्डिकाः
- श्वशृगालोष्ट्रगृध्राखुकाकानूकाश्च वातिकाः ६४
- पित्तं वह्निर्वह्निजं वा यदस्मात्पित्तोद्रि क्तस्तीक्ष्णतृष्णाबुभुक्षः
- गौरोष्णाङ्गस्ताम्रहस्ताङ्घ्रिवक्त्रः शूरो मानी पिङ्गकेशोऽल्परोमा ६५
- दयितमाल्यविलेपनमण्डनः सुचरितः शुचिराश्रितवत्सलः
- विभवसाहसबुद्धिबलान्वितो भवति भीषु गतिर्द्विषतामपि ६६
- मेधावी प्रशिथिलसन्धिबन्धमांसो नारीणामनभिमतोऽल्पशुक्रकामः
- आवासः पलिततरंगनीलिकानां भुक्तान्नं मधुरकषायतिक्तशीतम् ६७
- धर्मद्वेषी स्वेदनः पूतिगन्धिर्भूर्युच्चारक्रोधपानाशनेर्ष्यः
- सुप्तं पश्येत्कर्णिकारान् पलाशान् दिग्दाहोल्काविद्युदर्कानलांश्च ६८
- तनूनि पिङ्गानि चलानि चैषां तन्वल्पपक्ष्माणि हिमप्रियाणि
- क्रोधेन मद्येन रवेश्च भासा रागं व्रजन्त्याशु विलोचनानि ६९
- मध्यायुषो मध्यबलाः पण्डिताः क्लेशभीरवः
- व्याघ्रर्क्षकपिमार्जारवृकानूकाश्च पैत्तिकाः ७०
- श्लेष्मा सोमं श्लेष्मलस्तेन सौम्यो गूढस्निग्धश्लिष्टसन्ध्यस्थिमांसः
- क्षुत्तृड्दुःखक्लेशधर्मैरतप्तो बुद्ध्या युक्तः सात्त्विकः सत्यसन्धः ७१
- प्रियंगुदूर्वाशरकाण्डदर्भगोरोचनापद्मसुवर्णवर्णः
- प्रलम्बबाहुः पृथुपीनवक्षा महाललाटो घननीलकेशः ७२
- मृद्वङ्गः समसुविभक्तचारुदेहो बह्वोजोरतिरसशुक्रपुत्रभृत्यः
- धर्मात्मा वदति न निष्ठुरं च जातु प्रच्छन्नं वहति दृढं चिरं च वैरम् ७३
- समदद्विरदेन्द्र तुल्ययातो जलदाम्भोधिमृदङ्गसिंहघोषः
- स्मृतिमानभियोगवान्विनीतो न च बाल्येऽप्यतिरोदनो न लोलः ७४
- तिक्तं कषायं कटुकोष्णरूक्षमल्पं स भुंक्ते बलवांस्तथाऽपि
- रक्तान्तसुस्निग्धविशालदीर्घसुव्यक्तशुक्लासितपक्ष्मलाक्षः ७५
- अल्पव्याहारक्रोधपानाशनेर्ष्यः प्राज्यायुर्वित्तो दीर्घदर्शी वदान्यः
- श्राद्धो गम्भीरः स्थूललक्ष्यः क्षमावानार्योनिद्रा लुर्दीर्घसूत्रः कृतज्ञः ७६
- ऋजुर्विपश्चित्सुभगः सलज्जो भक्तो गुरूणां स्थिरसौहृदश्च
- स्वप्ने सपद्मान्सविहङ्गमालांस्तोयाशयान्पश्यति तोयदांश्च ७७
- ब्रह्मरुद्रे न्द्र वरुणतार्क्ष्यहंसगजाधिपैः
- श्लेष्मप्रकृतयस्तुल्यास्तथा सिंहाश्वगोवृषैः ७८
- विषजातो यथा कीटो न विषेण प्रबाध्यते
- तद्वत्प्रकृतयो मर्त्यं शक्नुवन्ति न बाधितुम् ७९
- प्रकोपो वाऽन्यभावो वा शमो वा नोपजायते
- प्रकृतीनां स्वभावेन जायते तु गतायुषः ८०
- इति श्रीमिश्रलटकन तनय श्रीमन्मिश्रभाव विरचिते भावप्रकाशे बालप्रकरणं चतुर्थम् ४
- अथ पञ्चमं दिनचर्यादिप्रकरणम् ५
- भूमिदेशस्त्रिधाऽनूपो जांगलो मिश्रलक्षणः १
- नदीपल्वलशैलाढ्यः फुल्लोत्पलकुलैर्युतः
- हंससारसकारंडचक्रवाकादिसेवितः २
- शशवाराहमहिषरुरुरोहिकुलाकुलः
- प्रभूतद्रुमपुष्पाढ्यो नीलशस्यफलान्वितः ३
- अनेकशालिकेदारकदलीक्षुविभूषितः
- अनूपदेशो ज्ञातव्यो वातश्लेष्मामयार्त्तिमान् ४
- आकाशसम उच्चश्च स्वल्पपानीयपादपः
- शमीकरीरबिल्वार्कपीलुकर्कंधुसङ्कुलः ५
- हरिणैणर्क्षपृषतगोकर्णखरसङ्कुलः
- सुस्वादुफलवान्देशो वातलो जाङ्गलः स्मृतः ६
- बहूदकनगोऽनूपः कफमारुतरोगवान्
- जाङ्गलोऽल्पाम्बुशाखी च पित्तासृङ्मारुतोत्तरः ७
- संसृष्टलक्षणो यस्तु देशः साधारणो मतः
- समाः सधारणे यस्माच्छीतवर्षोष्णमारुताः
- समता तेन दोषाणां तस्मात्साधारणो वरः ८
- उचिते वर्तमानस्य नास्ति दुर्देशजं भयम्
- आहारस्वप्नचेष्टाऽदौ तद्देशस्य कृते सति ९
- यस्य देशस्य यो जन्तुस्तज्जं तस्यौषधं हितम्
- देशादन्यत्र वसतस्तत्तुल्यगुणमौषधम् १०
- स्वे देशेनिचिता दोषा अन्यस्मिन्कोपमागताः
- बलवन्तस्तथा न स्युर्जलजाः स्थलजास्तथा ११
- मानवो येन विधिना स्वस्थस्तिष्ठति सर्वदा
- तमेव कारयेद्वैद्यो यतः स्वास्थ्यं सदेप्सितम् १२
- दिनचर्यां निशाचर्यामृतुचर्यां यथोदिताम्
- आचरन्पुरुषः स्वस्थः सदा तिष्ठति नान्यथा १३
- समदोषः समाग्निश्च समधातुमलक्रियः
- प्रसन्नात्मेन्द्रि यमनाः स्वस्थ इत्यभिधीयते १४
- ब्राह्मे मुहूर्ते बुध्येत स्वस्थो रक्षाऽथमायुषः
- तत्र सर्वाघशान्त्यर्थं स्मरेद्धि मधुसूदनम् १५
- दध्याज्यादर्शसिद्धार्थं बिल्वगोरोचनस्रजाम्
- दर्शनं स्पर्शनं कार्यं प्रबुद्धेन शुभावहम् १६
- स्वमाननं घृते पश्येद् यदीच्छेच्चिरजीवितम्
- आयुष्यमुषसि प्रोक्तं मलादीनां विसर्जनम्
- तदन्त्रकूजनाध्मानोदरगौरववारणम् १७
- आटोपशूलौ परिकर्त्तिका च सङ्गः पुरीषस्य तथोर्ध्ववातः
- पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य १८
- वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा
- जठरे वातजाश्चान्येरोगाः स्युर्वातनिग्रहात् १९
- बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा
- विनामो वङ्क्षणानाहः स्यालिङ्गं मूत्रनिग्रहे २०
- न वेगितोऽन्यकार्यः स्यान्न वेगानीरयेद्बलात्
- कामशोकभयक्रोधान्मनोवेगान्विधारयेत् २१
- गुदादिमलमार्गाणां शौचं कान्तिबलप्रदम्
- पवित्रकरमाख्यातमलक्ष्मीकलिपापहृत् २२
- प्रक्षालनं मतं पाण्योः पादयोः शुद्धिकारणम्
- मलश्रमहरं वृष्यं चक्षुष्यं राजसापहम् २३
- भक्षयेद्दन्तपवनं द्वादशाङ्गुलमायतम्
- कनिष्ठिकाऽग्रवत्स्थूलमृज्वग्रन्थिं तथाऽव्रणम् २४
- एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन तु
- दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन् २५
- क्षौद्र त्रिकटुकाक्तेन तैलसिन्धुभवेन वा
- चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत् २६
- मधुको मधुरे श्रेष्ठः करञ्जः कटुके तथा
- निम्बः स्यात्तिक्तके श्रेष्ठः कषाये खदिरस्तथा २७
- समयं तु समालोक्य दोषं च प्रकृतिं तथा
- यथोचितै रसैर्वीर्यैर्युक्तं द्र व्यं प्रयोजयेत् २८
- तेनास्य मुखवैरस्यदन्तजिह्वाऽस्यजा गदाः
- रुचिवैशद्यलघुता न भवन्ति भवन्ति च २९
- अर्के वीर्यं वटे दीप्तिः करञ्जे विजयो भवेत्
- प्लक्षे चैवार्थसम्पत्तिर्वैदर्यां मधुरोध्वनिः ३०
- खदिरे मुखसौगन्ध्यं बिल्वे तु विपुलं धनम्
- उदुम्बरे तु वाक्सिद्धिराम्रे त्वारोग्यमेव च ३१
- कदम्बे तु धृतिर्मेधा चम्पके च दृढा मतिः
- शिरीषे कीर्त्तिसौभाग्यमायुरारोग्यमेव च ३२
- अपामार्गे धृतिर्मेधा प्रज्ञाशक्तिस्तथाऽसने
- दाडिम्यां सुन्दराकारः ककुभे कुटजे तथा ३३
- जातीतगरमन्दारैर्दुःस्वप्नं च विनश्यति ३४
- गुर्वाकस्तालहिन्तालौ केतकश्च बृहत्तृणः
- खर्जूरं नारिकेलं च सप्तैते तृणराजकाः ३५
- तृणराजसमुत्पन्नं यः कुर्याद्दन्तधावनम्
- नरश्चाण्डालयोनिः स्याद्यावद्गङ्गां न पश्यति ३६
- न खादेद्गलताल्वोष्ठजिह्वादन्तगदेषु तत्
- मुखस्य पाके शोथे च श्वासकासवमीषु च ३७
- दुर्बलोऽजीर्णभुक्तश्च हिक्कामूर्च्छामदान्वितः
- शिरोरुजार्तस्तृषितः श्रान्तः पानक्लमान्वितः ३८
- अर्दितः कर्णशूली च नेत्ररोगी नवज्वरी
- वर्जयेद्दन्तकाष्ठं तु हृदामययुतोऽपि च ३९
- जिह्वानिर्लेखनं हैमं राजतं ताम्रजं तथा
- पाटितं मृदु तत्काष्ठं मृदुपत्रमयं तथा ४०
- दशाङ्गुलं मृदु स्निग्धं तेन जिह्वां लिखेत्सुखम्
- तज्जिह्वामलवैरस्यदुर्गन्धजडताहरम् ४१
- गण्डूषमपि कुर्वीत शीतेन पयसा मुहुः
- कफतृष्णामलहरं मुखान्तःशुद्धिकारकम् ४२
- सुखोष्णोदकगण्डूषः कफारुचिमलापहः
- दन्तजाड्यहरश्चापि मुखलाघवकारकः ४३
- विषमूर्च्छामदार्त्तानां शोषिणां रक्तपित्तिनाम्
- कुपिताक्षिमलक्षीणरूक्षाणां स न शस्यते ४४
- मुखप्रक्षालनं शीतपयसा रक्तपित्तजित्
- मुखस्य पिडिकाशोषनीलिकाव्यङ्गनाशनम् ४५
- कुर्याद्वाऽपि कदुष्णेन पयसाऽस्यविशोधनम्
- कफवातहरं स्निग्धं मुखशोषविनाशनम् ४६
- कटुतैलादि नस्यार्थे नित्याभ्यासेन योजयेत्
- प्रातः श्लेष्मणि मध्याह्ने पित्ते सायं समीरणे ४७
- सुगन्धवदनाः स्निग्धनिःस्वना विमलेन्द्रि याः
- निर्बलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः ४८
- सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्
- लोचने भवतस्तेन मनोज्ञे सूक्ष्मदर्शने ४९
- स्रोतोऽञ्जनं मतं श्रेष्ठं विशुद्धं सिन्धुसम्भवम्
- दृष्टेः कण्डूमलहरं दाहक्लेदरुजापहम् ५०
- अक्ष्णो रूपावहं चैव सहते मारुतातपौ
- नेत्रे रोगा न जायन्ते तस्मादञ्जनमाचरेत् ५१
- रात्रौ जागरितः श्रान्तश्छर्दितो भुक्तवांस्तथा
- ज्वरातुरः शिरः स्नातो नाक्ष्णोरञ्जनमाचरेत् ५२
- पञ्चरात्रान्नखश्मश्रुकेशरोमाणि कर्त्तयेत्
- केशश्मश्रुनखादीनां कर्त्तनं सम्प्रसाधनम्
- पौष्टिकं धन्यमायुष्यं शौचकान्तिकरं परम् ५३
- उत्पाटयेत्तु लोमानि नासाया न कदाचन
- तदुत्पाटनतो दृष्टेर्दौर्बल्यं त्वरया भवेत् ५४
- केशपाशे प्रकुर्वीत प्रसाधन्या प्रसाधनम्
- केशप्रसाधनं केश्यं रजोजन्तुमलापहम् ५५
- आदर्शालोकनं प्रोक्तं मङ्गल्यं कान्तिकारम्
- पौष्टिकं बल्यमायुष्यं पापालक्ष्मीविनाशनम् ५६
- लाघवं कर्मसमर्थ्यं विभक्तघनगात्रता
- दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ५७
- व्यायामदृढगात्रस्य व्याधिर्नास्ति कदाचन
- विरुद्धं वा विदग्धं वा भुक्तं शीघ्रं विपच्यते ५८
- भवन्ति शीघ्रं नैतस्य देहे शिथिलतादयः
- न चैवं सहसाऽक्रम्य जरा समधिरोहति ५९
- न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षकम्
- स सदा गुणमाधत्ते बलिनां स्निग्धभोजिनाम् ६०
- वसन्ते शीतसमये सुतरां स हितो मतः
- अन्यदाऽपि च कर्त्तव्यो बलार्धेन यथा बलम् ६१
- हृदयस्थो यदा वायुर्वक्त्रं शीघ्रं प्रपद्यते
- मुखं च शोषं लभते तद्बलार्धस्य लक्षणम् ६२
- किं वा ललाटे नासायां गात्रसन्धिषु कक्षयोः
- यदा सञ्जायते स्वेदो बलार्धं तु तदादिशेत् ६३
- भुक्तवान्कृतसम्भोगः कासी श्वासी कृशः क्षयी
- रक्तपित्ती क्षती शोषी न तं कुर्यात्कदाचन ६४
- अतिव्यायामतः कासो ज्वरश्छर्दिं श्रमः क्लमः
- तृष्णा क्षयः प्रतमको रक्तपित्तं च जायते ६५
- अभ्यङ्गं कारयेन्नित्यं सर्वेष्वङ्गेषु पुष्टिदम्
- शिरः श्रवणपादेषु तं विशेषेण शीलयेत् ६६
- सार्षपं गन्धतैलं च यत्तैलं पुष्पवासितम्
- अन्यद्र व्ययुतं तैलं न दुष्यति कदाचन ६७
- अभ्यङ्गो वातकफहृच्छ्रमशान्तिबलं सुखम्
- निद्रा वर्णमृदुत्वायुष्कुरुते देहपुष्टिकृत् ६८
- अभ्यङ्गः शीलितो मूर्ध्नि सकलेन्द्रि यतर्पकः
- दृष्टितुष्टिकरो हन्ति शिरोभूमिगतान्गदान् ६९
- केशानां बहुतां दार्ढ्यं मृदुतां दीर्घतां तथा
- कृष्णतां कुरुते कुर्याच्छिरसःपूर्णतामपि ७०
- न कर्णरोगा न मलं न च मन्याहनुग्रहः
- नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णपूरणात् ७१
- रसाद्यैः पूरणं कर्णे भोजनात्प्राक्प्रशस्यते
- तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते ७२
- पादाभ्यङ्गश्च तत्स्थैर्यनिद्रा दृष्टिप्रसादकृत्
- पादसुप्तिश्रमस्तम्भसङ्कोचस्फुटनप्रणुत् ७३
- व्यायामक्षुण्णवपुषं पद्भ्यां सम्मर्दितं तथा
- व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः ७४
- लोमकूपशिराजालधमनीभिः कलेवरे
- तर्पयेद्बलमाधत्ते स्नेहयुक्तेऽवगाहने ७५
- अद्भिः संसिक्तमूलानां तरूणां पल्लवादयः
- वर्द्धन्ते हि तथा नॄणां स्नेहसंसिक्तधातवः ७६
- नवज्वरी अजीर्णी च नाभ्यक्तव्यः कथञ्चन
- तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः ७७
- पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा
- शेषाणां च त्विह प्रोक्ता वह्निसादादयो गदाः ७८
- उद्वर्त्तनं कफहरं मेदोघ्नं शुक्रदं परम्
- बल्यं शोणितकृच्चापि त्वक्प्रसादमृदुत्वकृत् ७९
- मुखलेपादृढं चक्षुः पीनो गण्डस्तथाऽननम्
- कान्तमव्यङ्गपिडकं भवेत्कमलसन्निभम् ८०
- दीपनंवृष्यमायुष्यं स्नानमोजोबलप्रदम्
- कण्डूमलश्रमस्वेदतन्द्रा तृड्दाहपाप्मनुत् ८१
- बाह्यैश्च सेकैः शीताद्यैरूष्माऽन्तर्याति पीडितः
- नरस्य स्नानमात्रस्य दीप्यते तेन पावकः ८२
- शीतेन पयसा स्नानं रक्तपित्तप्रशान्तिकृत्
- तदेवोष्णेन तोयेन बल्यं वातकफापहम् ८३
- शिरः स्नानमचक्षुष्यमत्युष्णेनाग्बुना सदा
- वातश्लेष्मप्रकोपे तु हितं तच्च प्रकीर्त्तितम् ८४
- अशीतेनाम्भसा स्नानं पयःपानं नवाःस्त्रियः
- एतद्वो मानवाः पथ्यं स्निग्धमल्पं च भोजनम् ८५
- यः सदाऽमलकैः स्नानं करोति स विनिश्चितम्
- बलीपलितनिर्मुक्तो जीवेद्वर्षशतं नरः ८६
- स्नानं ज्वरेऽतिसारे च नेत्रकर्णानिलार्तिषु
- आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम् ८७
- स्नानस्यानन्तरं सम्यग्वस्त्रेणाङ्गस्य मार्जनम्
- कान्तिप्रदं शरीरस्य कण्डूत्वग्दोषनाशनम् ८८
- कौशेयौर्णिकवस्त्रं च रक्तवस्त्रं तथैव च
- वातश्लेष्महरं तत्तु शीतकाले विधारयेत् ८९
- मेध्यं सुशीतं पित्तघ्नं कषायं वस्त्रमुच्यते
- तद्धारयेदुष्णकाले तत्रापि लघु शस्यते ९०
- शुक्लं तु शुभदं वस्त्रं शीतातपनिवारणम्
- न चोष्णं न च वा शीतं तत्तुवर्षासु धारयेत् ९१
- यशस्यं काम्यमायुष्यं श्रीमदानन्दवर्धनम्
- त्वच्यं वशीकरं रुच्यं नवनिर्मलमम्बरम् ९२
- कदाऽपि न जनैः सद्भिर्धार्यं मलिनमम्बरम्
- तत्तु कण्डूकृमिकरं ग्लान्यलक्ष्मीकरं परम् ९३
- कुङ्कुमं चन्दनं चापि कृष्णागुरु च मिश्रितम्
- उष्णं वातकफध्वंसि शीतकाले तदिष्यते ९४
- चन्दनं घनसारेण बालकेन च मिश्रितम्
- सुगन्धि परमं शीतमुष्णकाले प्रशस्यते ९५
- चन्दनं घुसृणोपेतं मृगनाभिसमायुतम्
- न चोष्णं न च वा शीतं वर्षाकाले तदिष्यते ९६
- अनुलेपस्तृषामूर्च्छादुर्गन्धस्वेददाहजित्
- सौभाग्यतेजस्त्वग्वर्णप्रीत्यौजोबलवर्धनः
- स स्नानानर्हलोकानाममुलेपोऽपि नो हितः ९७
- सुगन्धिपुष्पपत्राणां धारणं कान्तिकारकम्
- पापरक्षोग्रहहरं कामदं श्रीविवर्द्धनम् ९८
- भूषणैर्भूषयेदङ्गं यथायोग्यं विधानतः
- शुचिसौभाग्यसन्तोषदायकं काञ्चनं स्मृतम् ९९
- ग्रहदृष्टिहरं पुष्टिकरं दुःस्वप्ननाशनम्
- पापदौर्भाग्यशमनं रत्नाभरणधारणम् १००
- माणिक्यं तरणेः सुजातममलं मुक्ताफलं शीतगो
- र्माहेयस्य च विद्रुमो निगदितः सौम्यस्य गारुत्मतम्
- देवेज्यस्य च पुष्परागमसुराचार्यस्य वज्रं शने
- र्नीलं निर्मलमन्ययोश्च गदिते गोमेदवैदूर्यके १०१
- वासःशृङ्गाररत्नानां धारणं प्रीतिबर्धकम्
- रक्षोघ्नमर्थ्यमोजस्यं सौभाग्यकरमुत्तमम् १०२
- सततं सिद्धमन्त्रस्य महौषध्यास्तथैव च
- रोचनासर्षपादीनां मङ्गल्यानां च धारणम् १०३
- आयुर्लक्ष्मीकरं रक्षोहरं मङ्गलदं शुभम्
- हिंस्नादिभयविध्वंसि वशीकरणकारणम् १०४
- ततो भोजनवेलायां कुर्यान्मङ्गल्यदर्शनम्
- तस्य प्रदर्शनं नित्यमायुर्धर्मविवर्धनम् १०५
- लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः
- पुष्पस्रक्सर्पिरादित्य आपो राजा तथाऽष्टमः १०६
- पादुकाधारणं कुर्यात्पूर्वं भोजनतः परम्
- पादरोगहरं वृष्यं चक्षुष्यं चायुषो हितम् १०७
- शरीरे जायते नित्यं वाञ्छा नॄणां चतुर्विधः
- बुभुक्षा च पिपासा च सुषुप्सा च रतिस्पृहा १०८
- भोजनेच्छाविघातात्स्यादङ्गमर्दोऽरुचिः श्रमः
- तन्द्रा लोचनदौर्बल्य धातुदाहो बलक्षयः १०९
- विघातेन पिपासायाः शोषः कण्ठास्ययोर्भवेत्
- श्रवणस्यावरोधश्च रक्तशोषो हृदि व्यथा ११०
- निद्रा विघाततो जृम्भा शिरोलोचनगौरवम्
- अङ्गमर्दस्तथा तन्द्रा स्यादन्नापाक एव च १११
- बुभुक्षितो न योऽश्नाति तस्याहारेन्धनक्षयात्
- मन्दीभवति कायाग्निर्यथा चाग्निर्निरिन्धनः ११२
- आहारं पचति शिखी दोषानाहारवर्जितः
- पचेद् दोषक्षये धातून्प्राणान्धातुक्षयेऽपि च ११३
- आहारः प्रीणनः सद्यो बलकृद् देहधारणः
- स्मृत्यायुःशक्तिवर्णौजःसत्त्वशोभाविवर्धनः ११४
- यथोक्तगुणसम्पन्नं नरः सेवेत भोजनम्
- विचार्य दोषकालादीन्कालयोरुभयोरपि ११५
- सायं प्रातर्मनुष्याणामशनं श्रुतिबोधितम्
- नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ११६
- याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेत्
- याममध्ये रसोत्पत्तिर्यामयुग्माद्बलक्षयः ११७
- क्षुत्सम्भवति पक्वेषु रसदोषमलेषु च
- काले वा यदि वाऽकाले सोऽन्नकाल उदाहृतः ११८
- उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः
- लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् ११९
- आहारं तु रहः कुर्यान्निर्हारमपि सर्वदा
- उभाभ्यां लक्ष्म्युपेतः स्यात्प्रकाशे हीयते श्रिया १२०
- आहारनिर्हारविहारयोगाः सदैव सद्भिर्विजने विधेयाः १२१
- पितृमातृसुहृद्वैद्यपाककृद्धंसबर्हिणाम्
- सारसस्य चकोरस्य भोजने दृष्टिरुत्तमा १२२
- दीनहीनक्षुधाऽत्तानां पापपाषण्डरोगिणाम्
- कुक्कुटादेः शुनो दृष्टिर्भोजने नैव शोभना १२३
- दोषहृद् दृष्टिदं पथ्यं हैमं भोजनभाजनम्
- रौप्यं भवति चक्षुष्यं पित्तहृत्कफवातकृत् १२४
- कांस्यं बुद्धिप्रदं रुच्यं रक्तपित्तप्रसादनम्
- पैत्तलं वातकृद्रू क्षमुष्णं कृमिकफप्रणुत् १२५
- आयसे काचपात्रे च भोजनं सिद्धिकारकम्
- शोथपाण्डुहरं बल्यं कामलाऽपहमुत्तमम् १२६
- शैलेये मृण्मये पात्रे भोजनं श्रीनिवारणम्
- दारूद्भवे विशेषेण रुचिदं श्लेष्मकारि च
- पात्रं पत्रमयं रुच्यं दीपनं विषपापनुत् १२७
- जलपात्रं तु ताम्रस्य तदभावे मृदो हितम् १२८
- पवित्रं शीतलं पात्रं रचितं स्फटिकेन यत्
- काचेन रचितं तद्वत्तथा वैदूर्यसम्भवम् १२९
- भोजनाग्रे सदा पथ्यं लवणार्द्र कभक्षणम्
- अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम् १३०
- अन्नं ब्रह्मा रसो विष्णुर्भोक्ता देवो महेश्वरः
- इति सञ्चिन्त्य भुञ्जानं दृष्टिदोषो न बाधते १३१
- अञ्जनागर्भसम्भूतं कुमारं ब्रह्मचारिणम्
- दृष्टिदोषविनाशाय हनुमन्तं स्मराम्यहम् १३२
- अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम्
- मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान् १३३
- फलान्यादौ समश्नीयाद्दाडिमादीनि बुद्धिमान्
- विना मोचफलं तद्वद्वर्जनीया च कर्कटी १३४
- मृणालबिसशालूककन्देक्षुप्रभृतीनपि
- पूर्वमेव हि भोज्यानि न तु भुक्त्वा कदाचन १३५
- गुरु पिष्टमयं द्र व्यं तण्डुलान्पृथुकानपि
- न जातु भुक्तवान्खादेन्मात्रां खादेद्बुभुक्षितः १३६
- घृतपूर्वं समश्नीयात्कठिनं प्राक् ततो मृदु
- अन्ते पुनर्द्र वाशी तु बलाद्रो गेण मुञ्चति १३७
- यद्यत्स्वादुतरं तत्तद्विदध्यादुत्तरोत्तरम्
- भुक्त्वा यत्प्रार्थ्यते भूयस्तदुक्तं स्वादु भोजनम् १३८
- सौमनस्यं बलं पुष्टिमुत्साहं वृद्धिमायुषः
- स्वादु सञ्जनयत्यन्नमस्वादु च विपर्ययम् १३९
- अत्युष्णान्नं बलं हन्ति शीतं शुष्कं च दुर्जरम्
- अतिक्लिन्नं ग्लानिकरं युक्तियुक्तं हि भोजनम् १४०
- अतिद्रुताशिताहारे गुणान्दोषान्न विन्दति
- भोज्यं शीतमहृद्यं च स्याद्विलम्बितमश्नतः १४१
- मन्दानलो नरो द्र व्यं मात्रागुरु विवर्जयेत्
- स्वभावतश्च गुरु यत्तथा संस्कारतो गुरु १४२
- मात्रागुरुस्तु मुद्गादिर्माषादिः प्रकृतेर्गुरुः
- संस्कारगुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम् १४३
- आहारं षड्विधं चूष्यं पेयं लेह्यं तथैव च
- भोज्यं भक्ष्यं तथा चर्व्यं गुरु विद्याद्यथोत्तरम् १४४
- गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते
- द्र वो द्र वोत्तरश्चापि न मात्रागुरुरिष्यते १४५
- विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति १४६
- शुष्कं निरुद्धं विष्टम्भि वह्निव्यापादकृद्भवेत् १४७
- न भुक्त्वा न रदैश्छित्त्वा न निशायां न वा बहून्
- न जलान्तरितानद्भिः सक्तूनद्यान्न केवलान् १४८
- पुनर्दानं पृथक्पानं सामिषं पयसा निशि
- सदन्तच्छेदमुष्णं च सप्त सक्तुषु वर्जयेत् १४९
- सक्तूनामाशु जीर्येत मृदुत्वादवलेहिका १५०
- यथाकालेऽतिमात्रं यत् तद्भवेद्विषमाशनम्
- बहुस्तोकमकाले वा ज्ञेयं तद्विषमाशनम् १५१
- आलस्यगौरवाटोपसादांश्च कुरुतेऽधिकम्
- हीनमात्रं तनोःकार्श्यं करोति च बलक्षयम् १५२
- अप्राप्तकाले भुञ्जानो ह्यसमर्थतनुर्नरः
- तांस्तान् व्याधीनवाप्नोति मरणं चाधिगच्छति १५३
- कालेतीतेश्नतो जन्तोर्वायुनोपहतेऽनले
- कृच्छ्राद्विपच्यते भुक्तं न स्याद्भोक्तुं पुनः स्पृहा १५४
- कुक्षेर्भागद्वयं भोज्यैस्तृतीये वारि पूरयेत्
- वायोः सञ्चारणार्थाय चतुर्थमवशेषयेत् १५५
- रसेनान्नस्य रसना प्रथमेनोपतर्पिता
- न तथा स्वादमाप्नोति ततः शोध्याम्बुनान्तरा १५६
- अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच्च स एव दोषः
- तस्मान्नरो वह्निविवर्धनाय मुहुर्मुहुर्वारि पिबेदभूरि १५७
- भुक्तस्यादौ जलं पीतं कार्श्यमन्दाग्निदोषकृत्
- मध्येऽग्निदीपनं श्रेष्ठमन्ते स्थौल्यकफप्रदम् १५८
- समस्थूलकृशा भुक्तमध्यान्तप्रथमाम्बुपाः १५९
- तृषितस्तु न चाश्नीयात्क्षुधितो न पिबेज्जलम्
- तृषितस्तु भवेद्गुल्मी क्षुधितस्तु जलोदरी १६०
- अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम्
- मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान् १६१
- दुग्धं स्वादुरसं स्निग्धमोजस्यं धातुवर्धनम्
- वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम् १६२
- विदाहीन्यन्नपानानि यानि भुंङ्क्ते हि मानवः
- तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिबेत् १६३
- कुर्यात्क्षीरान्तमाहारं न दध्यन्तं कदाचन
- लवणाम्लकटूष्णानि विदाहीन्यत्ति यानि तु
- तद्दोषं हर्तुमाहारं मधुरेण समापयेत् १६४
- बलवच्छत्रुविनाशनेन शत्रुहन्तुः क्षीणता च दृश्यते तथा च
- नाशनात्प्रत्यनीकस्य स्वयं च क्षीयते यथा
- वह्निसन्तप्तलोहस्य तप्ततां नाशयेज्जलम् १६५
- ननु भोजनावसानसमये प्रयुक्ताः कटुतिक्तकषायरसाः कफं
- शमयिष्यन्ति वातस्य वृद्धिं विधास्यन्तीति चेतै तन्न
- कट्वादीनां क्षीणशक्तित्वात् तथा च
- यदेकं नाशयेद्दोषं तदन्यं वर्धयेत्कुतः
- नाशने ह्येकदोषस्य यतस्तत्क्षीणशक्तिकम् १६६
- जग्धाः सर्वेऽपि गच्छन्ति बलिनो वश्यतां रसाः
- यथा प्रकुपिता दोषा वशं यान्ति बलीयसः १६७
- एवं भुक्त्वा समाचामेद्रू क्षग्रहणपूर्वकम्
- भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत् १६८
- दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः
- कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम् १६९
- दन्तलग्नमनिर्हार्यं लेपं मन्येत दन्तवत्
- न तत्र बहुशः कुर्याद्यत्नं निर्हरणं प्रति १७०
- आचम्य जलयुक्ताभ्यां पाणिभ्यां चक्षुषी स्पृशेत्
- भिउ!क्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते
- अचिरेणैव तद्वारि तिमिराणि व्यपोहति १७१
- भुक्त्वा च संस्मरेन्नित्यमगस्त्यादीन्सुखावहान् १७२
- विष्णुरात्मा तथैवान्नं परिणामश्च वै यथा
- सत्येन तेन मद्भुक्तं जीर्यत्वन्नमिदं तथा १७३
- अगस्तिरग्निर्वडवानलश्च भुक्तं ममान्नं जरयन्त्वशेषम्
- सुखं च मे तत्परिणामसम्भवं यच्छन्त्वरोगं मम चास्तु देहम् १७४
- अङ्गारकमगस्तिं च पावकं सूर्यमश्विनौ
- पञ्चैतान्संस्मरेन्नित्यं भुक्तं तस्याशु जीर्यति १७५
- इत्युच्चार्य स्वहस्तेन परिमार्ज्य तथोदरम्
- अनायासप्रदायीनि कुर्यात्कर्माण्यतन्द्रि तः १७६
- जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेधते
- भुक्तमात्रे कफश्चापि क्रमोऽय भोजनोपरि १७७
- धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः
- पूगैः कर्पूरकस्तूरीलवंगसुमनः फलैः १७८
- फलैः कटुकषायैर्वा मुखवैशद्यकारिभिः
- ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः १७९
- रतौ सुप्तोत्थिते स्नाते भुक्तेवान्ते च संगरे
- सभायां विदुषां राज्ञां कुर्यात्ताम्बूलचर्वणम् १८०
- ताम्बूलमुक्तं तीक्ष्णोष्णं रोचनं तुवरं सरम्
- तिक्तं क्षारोषणं कामरक्तपित्तकरं लघु १८१
- वश्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम्
- मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम् १८२
- हनुदन्तमलध्वंसि जिह्वेन्द्रि यविशोधनम्
- मुखप्रसेकशमनं गलामयविनाशनम् १८३
- नवं तदेव मधुरं कषायानुरसं गुरु
- बलासजननंप्रायः पत्रशाकगुणं स्मृतम् १८४
- वङ्गदेशोद्भवं पर्णं परं कटुरसं सरम्
- पाचनं पित्तजनकमुष्णं कफहरं स्मृतम् १८५
- पर्णं पुराणमकटु क्षुल्लकं तनु पाण्डुरम्
- विशेषाद्गुणवद्वेद्यमन्वद्धीनगुणं स्मृतम् १८६
- पूगं गुरु हिमं रूक्षं कषायं कफपित्तनुत्
- मोहनं दीपनं रुच्यमास्यवैरस्यनाशनम् १८७
- पूगं स्यात् दृढमध्यं यत्स्विन्नं वाऽपि त्रिदोषनुत्
- सरसङ्गुर्वभिष्यन्दि तद् भृशं वह्निनाशनम् १८८
- खदिरं कफपित्तघ्नश्चूर्णं वातबलासनुत्
- संयोगतस्त्रिदोषघ्नं सौमनस्यं करोति च १८९
- मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम्
- प्रभाते पूगमधिकं मध्याह्ने खदिरं तथा
- निशासु चूर्णमधिकं ताम्बूलं भक्षयेत्सदा १९०
- आयुरग्रे यशो मूले लक्ष्मीर्मध्ये व्यवस्थिता
- तस्मादग्रं तथा मूलं मध्यं पर्णस्य वर्जयेत् १९१
- पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसम्भवः
- पर्णमध्यं हरत्यायुः शिरा बुद्धि विनाशिनी १९२
- आद्यं विषोपमं पीतं द्वितीयं भेदि दुर्जरम्
- तृतीयादनुपातव्यं सुधातुल्यं रसायनम् १९३
- ताम्बूलं नातिसेवेत न विरिक्तो बुभुक्षितः १९४
- देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः
- शोषः पित्तानिलास्रं स्यादतिताम्बूलचर्वणात् १९५
- ताम्बूलं न हितं दन्तदुर्बलेक्षणरोगिणाम्
- विषमूर्च्छामदार्त्तानां क्षयिणां रक्तपित्तिनाम् १९६
- भुक्त्वा शतपदं गच्छेच्छनैस्तेन तु जायते
- अन्नसंघातशैथिल्यं ग्रीवाजानुकटीषु च १९७
- भुक्त्वोपविशतस्तन्द्रा शयानस्य तु पुष्टता
- आयुश्च्रंकममाणस्य मृत्युर्धावति धावतः १९८
- श्वासानष्टौ समुत्तानस्तान् द्विःपार्श्वे तु दक्षिणे
- ततस्तद्द्विगुणान्वामे पश्चात्स्वप्याद्यथासुखम् १९९
- वामदिशायामनलो नाभेरूर्ध्वेऽस्ति जन्तूनाम्
- तस्मात्तु वामपार्श्वे शयीत भुक्तप्रपाकार्थम् २००
- त्रिदोषशमनी षट्वा तूली वातकफापहा
- भूशय्या वृंहणी वृष्या काष्ठपट्टी तु वातला २०१
- भूशय्या वातलाऽतीवरूक्षा पित्तास्रनाशिनी
- सुशय्याशयनं हृद्यं पुष्टिनिद्रा धृतिप्रदम्
- श्रमानिलहरं वृष्यं विपरीतमतोऽन्यथा २०२
- संवाहनं मांसरक्तत्वक्प्रसादकरं परम्
- प्रीतिनिद्रा करं वृष्यं कफवातश्रमापहम् २०३
- प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपित्तनुत्
- स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा २०४
- सुखं प्रवातं सेवेत ग्रीष्मे शरदि चान्तरा
- निर्वातमायुषे सेव्यमारोग्याय च सर्वदा २०५
- पूर्वाऽनिलो गुरुः सोष्णः स्निग्धः पित्तास्नदूषकः
- विदाही वातलः श्रान्तिकफशोषवतां हितः २०६
- स्वादुः पटुरभिष्यन्दी त्वग्दोषार्शोविषकृमीन्
- सन्निपातं ज्वरं श्वासमामवातं च कोपयेत् २०७
- दक्षिणः पवनः स्वादुः पित्तरक्तहरो लघुः
- वीर्येण शीतलो बल्यश्चक्षुष्यो न तु वातलः २०८
- पश्चिमः पवनस्तीक्ष्णः शोषणो बलहृल्लघुः
- मेदः पित्तकफध्वंसी प्रभञ्जनविवर्धनः २०९
- उत्तरो मारुतः शीतः स्निग्धो दोषप्रकोपकृत्
- क्लेदनः प्रकृतिस्थानां बलदो मधुरो मृदुः २१०
- आग्नेयो दाहकृद्रू क्षो नैरृतो न विदाहकृत्
- वायव्यस्तु भवेत्तिक्त एशानः कटुकः स्मृतः २११
- विष्वग्वायुरनायुष्यः प्राणिनां बहुरोगकृत्
- अतस्तं नैव सेवेत सेवितः स्यान्न शर्मणे २१२
- व्यजनस्यानिलो दाहस्वेदमूर्च्छाश्रमापहः
- तालवृन्तभवो वातस्त्रिदोषशमको मतः २१३
- वंशब्यजनजस्तूष्णो रक्तपित्तप्रकोपणः
- चामरो वस्त्रसम्भूतो मायूरो वेत्रजस्तथा २१४
- पूते दोषजिता वाताः स्निग्धाः हृद्याः सुपूजिताः २१५
- दिवा स्वापं न कुर्वीत यतोसौ स्यात्कफावहः
- ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नो निषिध्यते २१६
- उचितो हि दिवास्वप्नो नित्यं येषां शरीरिणाम्
- वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा २१७
- व्यायामप्रमदाऽध्ववाहनरतान् क्लान्तानतीसारिणः
- शूलश्वासवतस्तृषापरिगतान् हिक्कामरुत्पीडितान्
- क्षीणान् क्षीणकफाञ्छिशून्मदहतान्वृद्धान् रसाजीर्णिनो
- रात्रौ जागरितान्नरान्निरशनान्कामं दिवा स्वापयेत् २१८
- दिवा वा यदि वा रात्रौ निद्रा सात्मीकृता तु यैः
- न तेषां स्वपतां दोषो जाग्रतां चोपजायते २१९
- भोजनानन्तरं निद्रा वातं हरति पित्तहृत्
- कफं करोति वपुषः पुष्टिं सौख्यं तनोति हि २२०
- शयनं पित्तनाशाय वातनाशाय मर्दनम्
- वमनं कफनाशाय ज्वरनाशाय लङ्घनम् २२१
- आसीनं घूर्णितं यत्तु नाभिष्यन्दि न रूक्षणम् २२२
- शब्दान् स्पर्शांश्च रूपाणि रसान्गन्धान्मनःप्रियान्
- भुक्तवानपि सेवेत तेनान्नं साधु तिष्ठति २२३
- शब्दः स्पर्शस्तथा रूपं रसो गन्धो जुगुप्सितः
- भुक्तमप्रयतं चान्नमतिहास्यं च वामयेत् २२४
- शयनं चाशनं चाति न भजेन्न द्र वाधिकम्
- नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम् २२५
- व्यायामं च व्यवायं च धावनं यानमेव च
- युंद्धं गीतं च पाठं च मुहूर्त्तं भुक्तवांस्त्यजेत् २२६
- अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्नविपर्ययाच्च
- कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य २२७
- ईर्ष्याभय क्रोधसमन्वितेन लुब्धेन रुग्दैन्यनिपीडितेन
- विद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक्परिपाकमेति २२८
- अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते २२९
- प्राग्भुक्ते चानले मन्दे द्विरह्नि न समाहरेत् २३०
- पूर्व भुक्ते विदग्धेऽन्ने भुञ्जानो हन्ति पावकम् २३१
- सायमाशे त्वजीर्णे तु प्रातर्भुक्तं विषोपमम् २३२
- भवेद्यदि प्रातरजीर्णशङ्का तदाऽभयां नागरसैन्धवाभ्याम्
- विचूर्णितां शीतजलेन भुक्त्वा भुञ्जीत चान्नं मितमन्नकाले २३३
- आयुःक्षयभयाद्विद्वान्नाह्नि सेवेत कामिनीम्
- अवशो यदि सेवेत तदा ग्रीष्मवसन्तयोः २३४
- आस्या वर्णकफस्थौल्यसौकुमार्यसुखप्रदा
- अध्वा वर्णकफस्थौल्यसौकुमार्यविनाशनः २३५
- यत्तु चंक्रमणं नातिदेहपीडाकरं भवेत्
- तदायुर्बलमेधाऽग्निप्रदमिन्द्रि यबोधनम् २३६
- उष्णीषं कान्तिकृत्केश्यं रजोवातकफापहम्
- लघु यच्छस्यते तस्माद् गुरु पित्ताक्षिरोगकृत् २३७
- उपानद्धारणं नेत्र्! यमायुष्यं पादरोगहृत्
- सुखप्रचारमोजस्यं वृष्यं च परिकीर्तितम् २३८
- पादाभ्यामनुपानद्भ्यां सदा चंक्रमणं नृणाम्
- अनारोग्यमनायुष्यमिन्द्रि यघ्नमदृष्टिदम् २३९
- छत्रस्य धारणं वर्षातपवातरजोऽपहम्
- हिमघ्नं हितमक्ष्णोश्च मङ्गल्यमपि कीर्त्तितम् २४०
- सत्त्वोत्साहवलस्थैर्यधैर्यतेजोविवर्धनम्
- अवष्टम्भकरं चापि भयघ्नं दण्डधारणम् २४१
- ऊर्ध्वाच्छादनसंयुक्ता शिबिका सर्ववल्लभा
- तस्यामारोहणं नॄणां त्रिदोषशमकं मतम् २४२
- वातश्लेष्मगदार्त्तानामहिता भ्रमकृत्तरिः
- पित्तानिलकरो हस्ती लक्ष्म्यायुःपुष्टिवर्द्धनः २४३
- घोटकारोहणं वातपित्ताग्निश्रमकृन्मतम्
- मेदोवर्णकफघ्नं च हितं तद्वलिनां परम् २४४
- आतपः स्वेदमूर्च्छाऽस्रपित्ततृष्णाक्लमश्रमान्
- दाहं विवर्णतां कुर्यादेतांश्छाया व्यपोहति २४५
- वृष्टिर्वृष्या हिमा बल्या निद्रा ऽलस्यविधायिनी
- भयावहा मोहकरी कुहेलि कफवातला २४६
- अग्निर्वातकफस्तम्भशीतवेपथुनाशनः
- आमाभिष्यन्दशमनो रक्तपित्तप्रकोपणः २४७
- सद्यः श्लेष्मकरो धूमो नेत्रयोरहितो भृशम्
- शिरोगौरवकृच्चापि वातपित्तं च कोपयेत् २४८
- मैत्री सद्भिः समं कुर्यात्स्नेहं सत्सु तु सर्वथा
- संसर्गं साधुभिः कुर्यादसत्सङ्गं परित्यजेत् २४९
- सेवेत देवभूदेववृद्धवैद्यनृपातिथीन्
- विमुखान्नार्थिनः कुर्यान्नावमन्येत कानपि २५०
- गुरूणां सन्निधौ तिष्ठेत्सदैव विनयान्वितः
- पादप्रसारणादीनि तत्र नैव समाचरेत् २५१
- अपकारपरेऽपि स्यादुपकारपरः पुमान्
- आत्मवत्सकलान्पश्येद्वैरिणो दूरतो वसेत् २५२
- न कञ्चिदात्मनः शत्रुं नात्मानं कस्यचिद्रि पुम्
- प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः २५३
- नात्मानमुदके पश्येन्न नग्नः प्रविशेज्जलम्
- तथा नाज्ञातगाम्भीर्यं न हिंस्रप्राणिसेवितम् २५४
- काले हितं मितं सत्यं संवादि मधुरं वदेत्
- भुञ्जीत मधुरप्रायं स्निग्धं काले हितं मितम् २५५
- न रात्रौ दधि भुञ्जीत न च निर्लवणं तथा
- नामुद्गसूपं नाक्षौद्रं न चाप्यघृतशर्करम् २५६
- जनस्याशयमालक्ष्य यो यथा परितुष्यति
- तं तथैवानुवर्तेत पराराधनपण्डितः २५७
- नैकः सुखी न सर्वत्र विश्वस्तो न च शङ्कितः
- नोद्यमेविरमेत्क्वापि हेतावीर्ष्येत्फले न तु २५८
- वेगान्न धारयेज्जातु मनोवेगान्विधारयेत्
- न पीडयेदिन्द्रि याणि न चैतान्यतिलालयेत् २५९
- वर्षाऽतपादिषु च्छत्री दण्डी रात्रौ भयेषु च
- सोपानत्कस्तनुं रक्षेद्विचरेद्युगमात्रदृक् २६०
- नदीं तरेन्न बाहुभ्यां नाग्निस्कन्धमभिव्रजेत्
- सन्दिग्धनावं वृक्षं च नारोहेद्दुष्टयानकम् २६१
- नासंवृतमुखः कुर्यात्सभायां च विचक्षणः
- कासं हासं तथोद्गारं जृम्भणं क्षवथुं तथा २६२
- नासिकां न विकुष्णीयान्नासीतोत्कटकः क्वचित्
- नोर्ध्वजानुश्चिरं तिष्ठेन्न नखेन लिखेद्भुवम् २६३
- सम्मार्जनीरजो नैव देहे दद्यात्कदाचन
- न नखेन तृणं छिन्द्यान्नोच्छिष्टो ब्राह्मणं स्पृशेत् २६४
- नोपरक्तं न चोद्यन्तं नास्तं यातं दिवाकरम्
- सर्वथा न समीक्षेत न जले प्रतिबिम्बितम् २६५
- नेक्षेत सततं सूक्ष्मं दीप्तामेध्याप्रियाणि च
- पौरन्दरं धनुर्नैव दर्शयेत्कमपि क्वचित् २६६
- नेच्छेद्बलवता युद्धं न भारं शिरसा वहेत्
- गात्रं न वादयेत्केशान्हस्तेन धुनुयान्न च २६७
- न गच्छेत्पूज्ययोर्मध्ये दम्पत्योरन्तरेण च
- रिपोरन्नं न भुञ्जीत गणिकाऽन्नमपि क्वचित् २६८
- प्रतिभूर्न भवेत्क्वापि न च साक्षी वृथा भवेत् २६९
- स्थागं न धारयेज्जातु द्यूतं दूरात्परित्यजेत् २७०
- विश्वासं नाचरेत्स्त्रीणां ताः स्वतंत्रा न चारयेत्
- रक्षणीयाः सदा यत्नाद्यौवने तु विशेषतः २७१
- न भिन्ने शयने स्वप्यान्नानेकविवरेऽपि च
- नैको देवालये नैव रात्रौ तरुतलेऽपि च २७२
- एवं दिनानि गमयेत्सदाचारपरः सदा
- ततो रात्रिप्रयुक्तानि कुर्यात्कर्माणि मानवः २७३
- इत्याचारं समासेन भाषितं यः समाचरेत्
- स विंदत्यायुरारोग्यं प्रीतिं धर्मं धनं यशः २७४
- एतानि पञ्च कर्माणि सन्ध्यायां वर्जयेद् बुधः
- आहारं मैथुनं निद्रा ं! संपाठं गतिमध्वनि २७५
- भोजनाज्जायते व्याधिर्मैथुनाद्गर्भवैकृतिः
- निद्र या निःस्वता पाठादायुर्हानिर्गतेर्भयम् २७६
- ज्योत्स्ना शीता स्मरानन्दप्रदा तृट्पित्तदाहहृत्
- ततो हीनगुणः कुर्यादवश्यायोऽनिलं कफम् २७७
- तमो भयावहं मोहदिङ्मोहजनकं भवेत्
- पित्तहृत्कफहृत्कामवर्धनं क्लमकृच्च तत् २७८
- रात्रौ च भोजनं कुर्यात्प्रथमप्रहरान्तरे
- किञ्चिदूनं समश्नीयाद् दुर्जरं तत्र वर्जयेत् २७९
- शरीरे जायते नित्यं देहिनः सुरतस्पृहा
- अव्यवायान्मेहमेदोवृद्धिः शिथिलता तनोः २८०
- बालेति गीयते नारी यावद्वर्षाणि षोडश
- ततस्तु तरुणी ज्ञेया द्वात्रिंशद्वत्सरावधि २८१
- तदूर्ध्वमधिरुढा स्यात्पञ्चाशद्वत्सरावधि
- वृद्धा तत्परतो ज्ञेया सुरतोत्सववर्जिता २८२
- निदाघशरदोर्वाला हिता विषयिणां मता
- तरुणी शीतसमये प्रौढा वर्षावसन्तयोः २८३
- नित्यं बाला सेव्यमाना नित्यं वर्धयते वलम्
- तरुणी ह्रासयेच्छक्तिं प्रौढोद्भावयते जराम् २८४
- सद्यो मांसं नवं चान्नं वाला स्त्री क्षीरभोजनम्
- घृतमुष्णोदके स्नानं सद्यः प्राणकराणिषट् २८५
- पूतिमांसं स्त्रियो वृद्धा बालाऽकस्तरुणं दधि
- प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् २८६
- वृद्धोऽपि तरुणीं गत्वा तरुणत्वमवाप्नुयात्
- वयोधिकां स्त्रियं गत्वा तरुणः स्थविरायते २८७
- आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः
- स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः २८८
- सेवेत कामतः कामं बलाद्वाजीकृतो हिमे
- प्रकामं तु निषेवेत मैथुनं शिशिरागमे २८९
- त्र्! यहाद्वसन्तशरदोः पक्षाद् वृष्टिनिदाघयोः २९०
- त्रिभिस्त्रिभिरहोभिर्हि समेयात्प्रमदां नरः
- सर्वेष्वृतुषु घर्मे तु पक्षात्पक्षाद् व्रजेद् बुधः २९१
- शीते रात्रौ दिवा ग्रीष्मे वसन्ते तु दिवा निशि
- वर्षासु वारिदध्वाने शरत्सु सरसः स्मरः २९२
- उपेयात्पुरुषो नारीं संध्ययोर्न च पर्वसु
- गोसर्गे चार्द्धरात्रे च तथा मध्यदिनेऽपि च २९३
- विहारं भार्यया कुर्याद् देशेऽतिशयसंवृते
- रम्ये श्राव्याङ्गनागाने सुगन्धे सुखमारुते २९४
- देशे गुरुजनासन्ने विवृतेऽतित्रपाकरे
- श्रूयमाणे व्यथाहेतुवचने न रमेत ना २९५
- स्नातचन्दनलिप्ताङ्गः सुगन्धः सुमनोऽन्वितः
- भुक्तवृष्यः सुवसनः सुवेषः समलंकृतः २९६
- ताम्बूलवदनः पत्न्यामनुरक्तोऽधिकस्मरः
- पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे २९७
- अत्याशितोऽधृतिः क्षुद्वान्सव्यथाङ्गः पिपासितः
- बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रो गी च मैथुनम् २९८
- भार्यां रूपगुणोपेतां तुल्यशीलां कुलोद्भवाम्
- अतिकामोऽभिकामां तु हृष्टो हृष्टामलंकृताम्
- सेवेत प्रमदां युक्त्या वाजीकरणवृंहितः २९९
- रजस्वलामकामां च मलिनामप्रियां तथा ३००
- वर्णबृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम्
- हीनाङ्गीं गर्भिणीं द्वेष्यां योनिरोगसमन्विताम् ३०१
- सगोत्रां गुरुपत्नीं च तथा प्रव्रजितामपि
- नाधिगच्छेत् पुमान्नारीं भूरिवैगुण्यशङ्कया ३०२
- रजस्वलां गतवतो नरस्यासंयतात्मनः
- दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत् ३०३
- लिगिनीं गुरुपत्नीं च सगोत्रामथ पर्वसु
- वृद्धां च सन्ध्ययोश्चापि गच्छतो जीवनक्षयः ३०४
- गर्भिण्यां गर्भपीडा स्याद्व्याधितायां बलक्षयः ३०५
- हीनाङ्गीं मलिनां द्वेष्यां क्षामां वन्ध्यामसंवृते
- देशेऽभिगच्छतो रेतः क्षीणं म्लानं मनो भवेत् ३०६
- क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः
- स्थितस्य हानिं शुक्रस्य वायोः कोपं च विन्दति ३०७
- व्याधितस्य रुजा प्लीहा मूर्च्छा मृत्युश्च जायते
- प्रत्यूषे चार्धरात्रे च वातपित्ते प्रक्प्यतः ३०८
- तिर्यग्योनावयोनौ वा दुष्टयोनौ तथैव च
- उपदंशस्तथा वायोः कोपः शुक्रसुखक्षयः ३०९
- उच्चारिते मूत्रिते च रेतसश्च विधारणे
- उत्ताने च भवेच्छीघ्रं शुक्राश्मर्यास्तु सम्भवः ३१०
- सर्वमेतत्त्यजेत्तस्माद्यतो लोकद्वयाहितम्
- शुक्रं तूपस्थितं मोहान्न सन्धार्यं कदा चन ३११
- स्नानं सशर्करं क्षीरं भक्ष्यमैक्षवसंस्कृतम्
- वातो मांसरसः स्वप्नः सुरतान्ते हिता अमी ३१२
- शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः
- अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः ३१३
- रोत्रौ जागरणं रूक्षं कफदोषविषार्तिजित्
- निद्रा तु सेविताकाले धातुसाम्यमतन्द्रि ताम् ३१४
- पुष्टिं वर्णं बलोत्साहं वह्निदीप्तिं करोति हि ३१५
- यो लेढि शयनसमये मधुमिश्रं बीजपूरदलचूर्णम्
- स तु लज्जाकरवातप्रसरनिरोधात्सुखं स्वपिति ३१६
- सवितुः समुदयकाले प्रसृतीः सलिलस्य यः पिबेदष्टौ
- रोगजरापरिमुक्तो जीवेद्वत्सरशतं साग्रम् ३१७
- अर्शःशोथग्रहण्यो ज्वरजठरजराकुष्ठमेदोविकाराः
- मूत्राघातास्रपित्तश्रवणगलशिरःश्रोणिशूलाक्षिरोगाः
- ये चान्ये वातपित्तक्षतजकफकृता व्याधयः सन्ति जन्तो
- स्तांस्तानभ्यासयोगादपहरति पयः पीतमन्ते निशायाः ३१८
- विगतघननिशीथे प्रातरुत्थाय नित्यं पिबति खलु नरो यो घ्राणरन्ध्रेण वारि
- स भवति मतिपूर्णश्चक्षुषा तार्क्ष्यतुल्यो वलिपलितविहीनः सर्वरोगैर्विमुक्तः ३१९
- पातव्यं नासया नीरं प्रसृतित्रयमात्रया ३२०
- व्यङ्गवलीपलितघ्नंपीनसवैस्वर्यकासशोथहरम्
- रजनीक्षयेऽम्बुनस्यं रसायनं दृष्टिसञ्जननम् ३२१
- स्नेहे पीते क्षते शुद्धावाध्माने स्तिमितोदरे
- हिक्कायां कफवातोत्थे व्याधौ तद्वारि वारयेत् ३२२
- चयकोपशमा यस्मिन्दोषाणां सम्भवन्ति हि
- ऋतुषट्कं तदाख्यातं रवेः राशिषु संक्रमात् ३२३
- ग्रीष्मो मेषबृषौ प्रोक्तः प्रावृण्मिथुनकर्कटौ
- सिंहकन्ये स्मृता वर्षा तुलावृश्चिकयोः शरत् ३२४
- धनुर्ग्राहौ च हेमन्तो वसन्तः कुम्भमीनयोः ३२५
- शिशिरः पुष्पसमयो ग्रीष्मो वर्षा शरद्धिमाः
- माघादिमासयुग्मं स्युरृतवः षट् क्रमादमी ३२६
- गङ्गाया दक्षिणे देशे वृष्टेर्बहुलभावतः
- उभौ मुनिभिराख्यातौ प्रावृड्वर्षाभिधावृतू ३२७
- तिस्याएवोत्तरेदेशे हिमप्रचुरभावतः
- एतावुभौ समाख्यातौ हेमन्तशिशिरावृतू ३२८
- उत्तरायणमाद्यैस्तैः परैः स्याद्दक्षिणायनम्
- आद्यमुष्णं बलहरं ततोऽन्यद्बलदं हिमम् ३२९
- हेमन्तं शीतलः स्निग्धः स्वादुर्जठरवह्निकृत्
- शिशिरः शीतलोऽतीव रूक्षो वाताग्निवर्धनः ३३०
- वसन्तो मधुरः स्निग्धः श्लेष्मवृद्धिकरश्च सः
- ग्रीष्मो रूक्षोऽतिकटुकः पित्तकृत्कफनाशनः ३३१
- वर्षाः शीता विदाहिन्यो वह्निमान्द्यानिलप्रदाः
- शरदुष्णा पित्तकर्त्री नृणां मध्यबलावहा ३३२
- चयप्रकोपोपशमा वायोर्ग्रीष्मादिषु त्रिषु
- वर्षाऽदिषु च पित्तस्य श्लेष्मणः शिशिरादिषु ३३३
- चीयते लघुरूक्षाभिरोषधीभिः समीरणः
- तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्न कुप्यति ३३४
- अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम्
- पित्तं याति चयं कोपं न तु कालस्य शैत्यतः ३३५
- चीयते स्निग्धशीताभिरुदकौषधिभिः कफः
- तुल्ये च काले देहे च स्कन्नत्वान्न प्रकुप्यति ३३६
- हिमे याति शमं पित्तं वायुः श्लेष्मा च चीयते
- स वायुः शिशिरे कोपं यात्येवोपचितः कफः ३३७
- हेमन्ते सञ्चितः श्लेष्मा शिशिरे त्वतिचीयते
- शीतस्निग्धगुरुद्र व्यैः शैत्यस्कन्नो न कुप्यति ३३८
- इति कालस्वभावोऽयमाहारादिवशात्पुनः
- चयादीन् यान्ति सद्योऽपि दोषाः काले विशेषतः ३३९
- चयकोपमशमान्दोषा विहाराहारसेवनैः
- समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्ययम् ३४०
- स्वस्थानस्थस्य दोषस्य वृद्धिः स्यात्स्तब्धकोषता
- पीतावभासता वह्निमन्दता चाङ्गगौरवम् ३४१
- आलस्यं चयहेतौ तु द्वेषश्च चयलक्षणम्
- सञ्चये ऽपहृता दोषा लभन्ते नोत्तरां गतिम् ३४२
- ते तूत्तरासु गतिषु भवन्ति बलवत्तराः ३४३
- वर्षासुप्रबलो वायुस्तस्मान्मिष्टादयस्त्रयः
- रसाः सेव्या विशेषेण पवनस्योपशान्तये ३४४
- भवेद्वर्षासु वपुषः क्लिन्नत्वं यद्विशेषतः
- तत्क्लेदशान्तये सेव्या अपि कट्वादयस्त्रयः ३४५
- स्वेदनं मर्दनं सेव्यं दध्युष्णंजाङ्गलामिषम्
- शालयो यवगोधूमा जलं कौपं जलं च्युतम् ३४६
- न भजेत्पूर्वपवनं वृष्टिं घर्मं हिमं श्रमम्
- नदीतीरं दिवास्वप्नं रूक्षं नित्यं च मैथुनम् ३४७
- सर्पिः स्वादुकषायतिक्तकरसा यच्छीतलं यल्लघु
- क्षीरं स्वच्छसितैक्षवः पटुरसः स्वल्पं पलं जाङ्गलम्
- गोधूमा यवमुद्गशालिसहिता नादेयमंशूदकं
- चन्द्र श्चन्दनमिन्दुरादिरजनी माल्यं पटो निर्मलः ३४८
- दिविसेऽककरैर्जुष्टं निशि शीतकरांशुभिः
- ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम्
- विश्रामः सुहृदां गणेषु मधुरा वाचः सरः क्रीडनं
- पित्तानां च विरेचनं बलवतो युक्तं शिरामोक्षणम्
- एतान्यत्र घनावसानसमयेपथ्यानिऐ! मुञ्चेद्दधिव्यायामाम्लकटूष्णतीक्ष्ण दिवसस्वप्नं हिमञ्चातपम् ३४९
- इक्षवः शालयो मुद्गाः सरोऽम्भ क्वथितं पयः
- शरद्येतानि पथ्यानि प्रदोषे चेन्दुरश्मयः ३५०
- प्रातर्भोजनमम्लमिष्टलवणानभ्यङ्गघर्मश्रमान्
- गोधूमैक्षवशालिमाषपिशितं पिष्टं नवान्नं तिलान्
- कस्तूरीं वरकुङ्कुमागुरुयुतामुष्णाम्बुशौचं तथौ स्निग्धं स्त्रीषु सुखं गुरूष्णवसनं सेवेत हेमन्तके ३५१
- शिशिरे शीतमधिकं रौक्ष्यं चादानकालजम्
- विशेषतस्ततस्तत्र हेमन्तस्य मतो विधिः ३५२
- वान्तिं नस्यमथाभयां च मधुना व्यायाममुद्वर्त्तनं
- संसेवेत मधौ कफघ्नकवलं शूल्यं पलं जाङ्गलम्
- गोधूमान्बहुशालिभेदसहितान्मुद्गान्यवान्षष्टिकां
- ल्लेपञ्चन्दनकुङ्कुमागुरुकृतं रूक्षं कटूष्णं लघु ३५३
- मिष्टमम्लं दधिस्निग्धं दिवास्वप्नं च दुर्जरम्
- अवश्यायमपि प्राज्ञो वसन्ते परिवर्जयेत् ३५४
- स्वादुस्निग्धहिमं लघु द्र वमयं द्र व्यं रसालां सितां-
- सक्तुंक्षीरमजाङ्गलानि सितया शालि रसं मांसजम्
- शीतांशुं शयनं दिवा मलयजं शीतं पयः पानकं
- सेवेतोष्णदिने त्यजेत्तु कटुकक्षाराम्लघर्मश्रमान् ३५५
- ॠतुष्वेषु य एतैस्तु विधिभिर्वर्त्तते नरः
- दोषानृतुकृतान्नैव लभते स कदाचन ३५६
- इति श्रीलटकन तनय श्रीमन्मिश्रभाव विरचिते भावप्रकाशे दिनचर्यादिप्रकरणं पञ्चमम् ५
- अथ षष्ठं मिश्रप्रकरणम् ६
- रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता
- रोगा दुःखस्य दातारो ज्वरप्रभृतयो हि ते १
- ते च स्वाभाविकाः केचित्केचिदागन्तवः स्मृताः
- मानसाः केचिदाख्याताः कथिताः केऽपि कायिकाः २
- कर्मजाः कथिताः केचिद्दोषजाः सन्ति चापरे
- कर्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविधाः स्मृताः ३
- कर्मक्षयात्कर्मकृता दोषजाः स्वस्वभेषजैः
- कर्मदोषोद्भवा यान्ति कर्मदोषक्षयात् क्षयम् ४
- साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाः स्मृताः
- सुखसाध्यः कष्टसाध्यो द्विविधः साध्य उच्यते ५
- यापनीयं तु तं विद्यात्क्रिया धारयते हि यम्
- क्रियायां तु निवृत्तायां सद्यो यश्च विनश्यति ६
- प्राप्ता क्रिया धारयति सुखिनं याप्यमातुरम्
- प्रपतिष्यदिवागारं स्तम्भो यत्नेन योजितः ७
- साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा
- घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ८
- रोगारम्भकदोषस्य प्रकोपादुपजायते
- योऽन्यो विकारः स बुधैरुपद्र व इहोदितः ९
- रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते
- तल्लक्षणमरिष्टं स्याद्रि ष्टं चापि तदुच्यते १०
- या क्रिया व्याधिहरणी सा चिकित्सा निगद्यते
- दोषधातुमलानां या साम्यकृत्सैव रोगृहृत् ११
- याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः
- सा चिकित्सा विकाराणां कर्म तद्भिषजां मतम् १२
- या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च
- सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत् १३
- जातमात्रश्चिकित्स्यः स्यान्नोपेक्ष्योऽल्पतया गदः
- वह्निशत्रुविषैस्तुल्यः स्वल्पोऽपि विकरोत्यसौ १४
- रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्
- ततः कर्म भिषक् पश्चाज्ज्ञानपूर्वं समाचरेत् १५
- यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक्
- अप्यौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया १६
- भेषजं केवलं कर्तुं यो जानाति न चामयम्
- वैद्यकर्म स चेत्कुर्याद्वधमर्हति राजतः १७
- यस्तु केवलरोगज्ञो भेषजेष्वविचक्षणः
- तं वैद्यं प्राप्य रोगी स्याद्यथा नौर्नाविकं विना १८
- यस्तु केवलशास्त्रज्ञः क्रियास्वकुशलो भिषक्
- स मुह्यत्यातुरं प्राप्य तथा भीरुरिवाहवम् १९
- यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः
- देश कालविभागज्ञस्तस्य सिद्धिर्न संशयः २०
- आदावन्ते रुजां ज्ञाने प्रयतेत चिकित्सकः
- भेषजानां विधानेन ततः कुर्याच्चिकित्सतम् २१
- विकारनामाकुशलो न जिह्रीयात्कदाचन
- न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः २२
- नास्ति रोगो विना दोषैर्यस्मात्तस्माच्चिकित्सकः
- अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् २३
- ये न कुर्वन्त्यसाध्यानां चिकित्सां ते भिषग्वराः
- अतो वैद्यैः श्रमः कार्यः साध्यासाध्यपरीक्षणे २४
- शीते शीतप्रतीकारमुष्णे तूष्णनिवारणम्
- कृत्वा कुर्यात्क्रियां प्राप्तां क्रियाकालं न हापयेत् २५
- अप्राप्ते वा क्रियाकाले प्राप्ते वा न क्रिया कृता
- क्रियाहीनाऽतिरिक्ता च साध्येष्वपि न सिध्यति २६
- विकारेऽल्पे महत्कर्म क्रिया लघ्वी गरीयसि
- द्वयमेतदकौशल्यं कौशल्यं युक्तकर्मता २७
- क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत्
- पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः २८
- क्रियाभिस्तुल्यरूपाभिर्न क्रियासङ्करो हितः
- ताभिस्तु भिन्नरूपाभिः साङ्कर्यं नैव दुष्यति २९
- न चैकान्तेन निर्दिष्टे शास्त्रे निविशते बुधः
- स्वयमप्यत्र भिषजा तर्कणीयं चिकित्सता ३०
- उत्पद्यते च साऽवस्था दोषकालबलं प्रति
- यस्यां कार्यमकार्यं स्यात्कर्म कार्यं विवर्जितम् ३१
- क्वचिदर्थः क्वचिन्मैत्री क्वचिद्धर्मः क्वचिद्यशः
- कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला ३२
- आयुर्वेदोदितां युक्तिं कुर्वाणाश्च हिताय ये
- पुण्यायुर्वृद्धिसंयुक्ता नीरोगाश्च भवन्ति ते ३३
- नैव कुर्वीत लोभेन चिकित्सापुण्यविक्रयम्
- ईश्वराणां वसुमतां लिप्सेतार्थं तु वृत्तये ३४
- चिकित्सितं शरीरं यो न निष्क्रीणाति दुर्मतिः
- स यत्करोति सुकृतं सर्वं तद्भिषगश्नुते ३५
- न देशो मनुजैर्हीनो न मनुष्या निरामयाः
- ततः सर्वत्र वैद्यानां सुसिद्धा एव वृत्तयः ३६
- रोगी दूतो भिषग्दीर्घमायुर्द्र व्यं सुसेवकः
- सदौषधं चिकित्साया इत्यङ्गानि बुधा जगुः ३७
- रोगो यस्यास्तिरोगी स सचिकित्स्यस्तु यादृशः
- यादृशश्चाचिकित्स्योऽपि वक्ष्यमाणो निशम्यताम् ३८
- निजप्रकृतिवर्णाभ्यां युक्तः सत्त्वेन चक्षुषा
- चिकित्स्यो भिषजां रोगी वैद्यभक्तो जितेन्द्रि यः ३९
- आयुष्मान्सत्त्ववान्साध्यो द्र व्यवान्मित्रवानपि
- चिकित्स्यो भिषजां रोगी वैद्यवाक्यकृदास्तिकः ४०
- चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च
- शोकाकुलो मुमूर्षुश्च विहीनः करणैश्चः यः ४१
- वैरी वैद्यविदग्धश्च श्रद्धाहीनश्च शङ्कितः
- भिषजामविधेयः स्युर्नोपक्रम्या भिषग्विधाः ४२
- एतानुपाचरन् वैद्यो वहून् दोषानवाप्नुयात् ४३
- यश्चिकित्सकमानेतुं याति दूतः स कथ्यते
- स च यादृक् समुचितस्तादृगत्र निगद्यते ४४
- दूताः सुजातयोऽव्यङ्गाः पटवो निर्मलाम्बराः
- सुखिनोऽश्ववृषारूढाः शुभ्रपुष्पफलैर्युताः ४५
- सजातयः सुचेष्टाश्च सजीवदिशि सङ्गताः
- भिषजं समये प्राप्ता रोगिणः सुखहेतवे ४६
- वैद्याह्वानाय दूतस्य गच्छतो रोगिणः कृते
- न शुभं सौम्यशकुनं प्रदीप्तं तु सुखावहम् ४७
- तथाहि रिक्तहस्तो न पश्येत्तुराजानं भिषजं गुरुम्
- दैवज्ञं देवतां मित्रं फलेन फलमादिशेत् ४८
- चिकित्सां कुरुते यस्तु स चिकित्सक उच्यते
- स च यादृक्समीचीनस्तादृशोऽपि निगद्यते ४९
- तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयंकृती
- लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः ५०
- प्रत्युत्पन्नमतिर्धीमान् व्यवसाथी प्रियंवदः
- सत्यधर्मपरो यश्च वैद्य ईदृक् प्रशस्यते ५१
- कुचैलः कर्कशः स्तब्धो ग्रामीणः स्वयमागतः
- पञ्च वैद्या न पूज्यन्ते धन्वन्तरिसमा यदि ५२
- व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः
- एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ५३
- भिषगादौ परीक्षेत रुग्णस्यायुः प्रयत्नतः
- तत आयुषि विस्तीर्णे चिकित्सा सफला भवेत् ५४
- सौम्या दृष्टिर्भवेद्यस्य श्रोत्रं वक्त्रं तथैव च
- स्वादु गन्धं विजानाति स साध्यो नात्र संशयः ५५
- पाणिपादौ च यस्योष्णौ दाहः स्वल्पतरो भवेत्
- जिह्वातु कोमला यस्य स रोगी न विनश्यति ५६
- स्वेदहीनो ज्वरो यस्य श्वासो नासिकया चरेत्
- कण्ठश्च कफहीनः स्यात्स रोगी जीवति ध्रुवम् ५७
- यस्य निद्रा सुखेन स्याच्छरीरं द्युतिमद्भवेत्
- इन्द्रि याणि प्रसन्नानि स रोगी नैव नश्यति ५८
- शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत्
- तदरिष्टं समासेन व्यासतश्च निबोध मे ५९
- शृणोति विविधाञ्छब्दान्विपरीताञ्छृणोति च
- यो न शृणोति चाकस्मात्तं वदन्ति गतायुषम् ६०
- यस्तूष्णमिव गृह्णाति शीतमुष्णं च शीतवत्
- उष्णगात्रोऽतिमात्रं यो भृशं शीतेन कम्पते ६१
- प्रहारं नैव जानाति योऽङ्गच्छेदमथापि वा
- पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते ६२
- वर्णान्यता वा राज्यो वा यस्य गात्रे भवन्ति हि
- स्नातानुलिप्तं यं चापि भजन्ते नीलमाक्षिकाः ६३
- विपरीतेन गृह्णाति रसान्यश्चोपयोजितान्
- यो वा रसान्न संवेत्ति तं गतासुं प्रचक्षते ६४
- सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धं च सुगन्धवत्
- गृह्णाति योऽन्यथा गन्धं शान्ते दीपे निरामयः ६५
- रात्रौ सूर्यं ज्वलन्तं वा दिवा वा चन्द्र वर्चसम्
- दिवा ज्योतींषि यश्चापि ज्वलितानीव पश्यति ६६
- विद्युत्वतोऽसितान्मेघान् गगने निर्घने घनान्
- विमानयानप्रासादैर्यश्च सङ्कुलमम्बरम् ६७
- यश्चानिलं मूर्त्तिमन्तमन्तरिक्षेऽवलोकते
- धूमनीहारवासोभिरावृतामिव मेदिनीम् ६८
- प्रदीप्तमिव यो लोकं यो वाप्लुतमिवाम्भसा
- भूमिमष्टापदाकारां लेखाभिर्यश्च पश्यति ६९
- यो न पश्यति ॠक्षाणि यश्च देवीमरुन्धतीम्
- ध्रुवमाकाशगङ्गां च तं वदन्ति गतायुषम् ७०
- आदर्शेऽम्बुनि घर्मे वा छायां यश्च न पश्यति
- पश्यत्येकाङ्गहीनां वा विकृतां वाऽन्यसत्वजाम् ७१
- श्वकाककङ्कगृध्राणां प्रेतानां यक्षरक्षसाम्
- आतुरो लभते मृत्युं स्वस्थो व्याधिमवाप्नुयात् ७२
- ह्रीश्रियौ नश्यतो यस्य तेज ओजः स्मृतिः प्रभा
- अकस्माच्च भजन्ते यं स गतासुरसंशयम् ७३
- यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः
- उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम् ७४
- आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा
- खञ्जनप्रतिभा वापि तं गतायुषमादिशेत् ७५
- कृष्णा तथाऽनुलिप्ता च जिह्वा शून्या च यस्य वै
- कर्कशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून् ७६
- कुटिला स्फुटिता वाऽपि शुष्का वा यस्य नासिका
- अवस्फूर्जति भग्ना वा स न जीवति मानवः ७७
- संक्षिप्ते विषमे स्तब्धे रूक्षे सास्रे च लोचने
- स्यातां परिश्रुते यस्य स गतायुर्नरो ध्रुवम् ७८
- केशा सीमन्तिनो यस्य संक्षिप्ते विनते भ्रुवौ
- लुठन्ति चाक्षिपक्ष्माणि सोऽचिराद्याति मृत्यवे ७९
- नाहरत्यन्नमास्यस्थं न धारयति यः शिरः
- एकाग्रदृष्टिर्मूढात्मा सद्यः प्राणान्विमुञ्चति ८०
- उत्थाप्यमानो बहुशः संमोहं योऽधिगच्छति
- बलवान्दुर्बलो वापि तं पक्वं भिषगादिशेत् ८१
- निद्रा निरन्तरं यस्य यो जागर्त्ति च सर्वदा
- मुह्येद्वा वक्तुकामश्च प्रत्याख्येयः स जानता ८२
- उत्तरौष्ठं च यो लिह्यादुत्करांश्च करोतिः यः
- प्रेतैर्वा भाषते सायं प्रेतरूपं तमादिशेत् ८३
- खेभ्यश्च रोमकूपेभ्यो यस्य रक्तं प्रवर्तते
- पुरुषस्याविषार्तस्य स सद्यो जीवितं त्यजेत् ८४
- सम्यक् चिकित्स्यमानस्य विकारो योऽभिवर्धते
- प्रक्षीणबलमांसस्य लक्षणं तद्गतायुषः ८५
- भूताः प्रेताः पिशाचाश्च रक्षांसि विविधानि च
- मरणाभिमुखं जन्तुमुपसृत्य च नित्यशः ८६
- तानि भेषजवीर्याणि प्रतिघ्नन्ति जिघांसया
- तस्मान्मोघाः क्रियाः सर्वा भवन्त्येव गतायुषः ८७
- सर्वे द्र व्यमपेक्षन्ते रोगिप्रभृतयो यतः
- विना वित्तं न भैषज्यं चिकित्साऽङ्ग ततो धनम् ८८
- स्निग्धोऽजुगुप्सुर्बलवान्युक्तो व्याधितरक्षणे
- वैद्यवाक्यकृदश्रान्तो युज्यते परिचारकः ८९
- वैद्यो व्याधिं हरेद्येन तद्द्र व्यं प्रोक्तमौषधम्
- तद्यादृशमवश्यं स्याद्रो गघ्नं तादृशं ब्रुवे ९०
- प्रशस्तदेशे सञ्जातं प्रशस्तेऽहनि चोद्धृतम्
- अल्पमात्रं बहुगुणं गन्धवर्णरसान्वितम् ९१
- दोषघ्नमग्लानिकरमधिकं न विकारि यत्
- समीक्ष्य काले दत्तं च भेषजं स्याद् गुणावहम् ९२
- आग्नेया विन्ध्यशैलाद्या सौम्यो हिमगिरिः स्मृतः
- अतस्तदौषधानि स्युरनुरूपाणि हेतुभिः ९३
- अन्येष्वपि प्ररोहन्ति वनेषूपवनेषु च
- गृह्णीयात्तानि सुमनाः शुचिः प्रातः सुवासरे ९४
- आदित्यसम्मुखो मौनी नमस्कृत्य शिवं हृदि
- साधारणधराद्र व्यं गृह्णीयादुत्तराश्रितम् ९५
- वल्मीककुत्सितानूपश्मशानोषरमार्गजाः
- जन्तुवह्निहिमव्याप्ता नौषध्यः कार्यसाधिकाः ९६
- शरद्यखिलकार्यार्थं ग्राह्यंसरसमौषधम्
- विरेकवमनार्थं तु वसन्तान्ते समाहरेत् ९७
- अतिस्थूलजटा याः स्युस्तासां ग्राह्यास्त्वचो ध्रुवम्
- गृह्णीयात्सूक्ष्ममूलानि सकलान्यपि बुद्धिमान् ९८
- महान्ति येषां मूलानि काष्ठगर्भाणि सर्वतः
- तेषां तु वल्कलं ग्राह्यं ह्रस्वमूलानि सर्वशः ९९
- न्यग्रोधादेस्त्वचो ग्राह्या सारःस्याद्वीजकादितः
- तालीसादेश्च पत्राणि फलं स्यात् त्रिफलादितः १००
- क्वचिन्मूलं क्वचित्कन्दः क्वचित्पत्रं क्वचित्फलम्
- क्वचित्पुष्पं क्वचित्सर्वं क्वचित्सारः क्वचित्त्वचः १०१
- चित्रकं सूरणं निम्बो वासा च त्रिफला क्रमात्
- धातकी कण्टकारी च खदिरः क्षीरपादपः १०२
- क्वचिन्निम्बस्य गृह्णीयात्पत्राभावे त्वचामपि
- बालं फलं तु बिल्वस्य पक्वमारग्वधस्य च १०३
- अङ्गेऽनुक्ते जटा ग्राह्या भागेऽनुक्तेऽखिलं समम्
- पात्रेऽनुक्ते मृदः पात्रं कालेऽनुक्ते त्वहर्मुखम् १०४
- नवान्येव हि योज्यानि द्र व्याण्यखिलकर्मसु
- विना विडङ्गकृष्णाभ्यां गुडधान्याज्यमाक्षिकैः १०५
- पुराणन्तु प्रशस्तं स्यात्ताम्बूलं काञ्जिकं तथा
- शुष्कं नवीनद्र व्यं तु योज्यं सकलकर्मसु १०६
- आद्र रं! तु द्विगुणं युञ्ज्यादेष सर्वत्र निश्चयः
- गुडूची कुटजो वासा कूष्माण्डश्च शतावरी १०७
- अश्वगन्धा सहचरः शतपुष्पा प्रसारिणी
- प्रयोक्तव्याः सदैवाद्रा र्! द्विगुणं नैव कारयेत् १०८
- वासानिम्बपटोलकेतकबलाकूष्माण्डकेन्दीवरी-
- वर्षाभूकुटजाश्च कन्दसहिता सा पूतिगन्धाऽमृता
- एन्द्री नागबला कुरुण्टकपुरच्छत्राऽमृताः सर्वदा
- साद्रा र्! एव तु न क्वचिद् द्विगुणिताः कार्येषु योज्या बुधैः १०९
- घृतं तैलं च पानीयं कषायं व्यञ्जनादिकम्
- पक्त्वा शीतीकृतं चोष्णं तत्सर्वं स्याद्विषोपमम् ११०
- सूक्ष्मास्थिमांसला पथ्या सर्वकर्मणि पूजिता
- क्षिप्ताऽम्भसि निमज्जेद्याः भल्लातक्यस्तथोत्तमाः १११
- वराहमूर्द्धवत्कन्दो वाराहीकन्दसंज्ञकः
- सौवर्चलं तु काचाभं सैन्धवं स्फटिकप्रभम् ११२
- सुवर्णच्छविकं ज्ञेयं स्वर्णमाक्षिकमुत्तमम्
- ओड्रपुष्पप्रतीकाशा मनोह्वा चोत्तमा मता ११३
- श्रेष्ठं शिलाजतु ज्ञेयं प्रक्षिप्तं न विशीर्यते
- तोयपूर्णे कांस्यपात्रे प्रतानेन विवर्धते ११४
- कर्पूरस्तुवरः स्निग्धः एला सूक्ष्फला वरा
- श्वेतचन्दनमत्यन्तं सुगन्धि गुरुपूजितम् ११५
- रक्तचन्दनमत्यन्तं लोहितं प्रवरं मतम्
- काकतुण्डनिभः स्निग्धो गुरुः श्रेष्ठो गुरुर्मतः ११६
- सुगन्धि लघु रूक्षं च सुरदारु वरं मतम्
- सरलं स्निग्धमत्यर्थं सुगन्धि च गुणावहम् ११७
- अतिपीता प्रशस्ता तु ज्ञेया दारुनिशा बुधैः
- जातीफलं गुरु स्निग्धं समं शुभ्रान्तरं वरम् ११८
- मृद्वीका सोत्तमा ज्ञेया या स्याद्गोस्तनसन्निभा
- करमर्दफलाकारा मध्यमा सा प्रकीर्त्तिता ११९
- खण्डं तु विमलं श्रेष्ठं चन्द्र कान्तसमप्रभम्
- गव्याज्यसदृशं रुच्यं गन्धं मधु वरं मतम् १२०
- शालीनां लोहितः शालि षष्टिकेषु च षष्टिकः
- शूकधान्येष्वपि यवो गोधूमः प्रवरो मतः १२१
- शिम्बीधान्ये वरो मुद्गो मसूरश्चाढकी तथा
- रसेषु मधुरः श्रेष्ठो लवणेषु च सैन्धवः १२२
- दाडिमामलकं द्रा क्षा खर्जूरं च परूषकम्
- राजादनं मातुलुंगं फलवर्गेषु शस्यते १२३
- पत्रशाकेषु वास्तूकं जीवन्ती पोतिका वरा
- पटोलं फलशाकेषु कन्दशाकेषु सूरणम् १२४
- एणः कुरङ्गो हरिणो जाङ्गलेषु प्रशस्यते
- पक्षिणां तित्तिरिर्लावो वरो मत्स्येषु रोहितः १२५
- हरिणस्ताम्रवर्णः स्यादेणः कृष्णतया मतः
- कुरङ्गस्ताम्र उद्दिष्टो हरिणाकृतिको महान् १२६
- जलेषु दिव्यं दुग्धेषु गव्यमाज्येषु गोभवम्
- तैलेषु तिलजं तैलमैक्षवेषु सिता हिता १२७
- शिम्वीषु माषान्ग्रीष्मर्तौ लवणेष्वौषरं त्यजेत्
- फलेषु लकुचं शाके सार्षपं न हितं मतम् १२८
- गोमांसं ग्राम्यमांसेषु न हितं महिषीवसा
- मेषीपयः कुसुम्भस्य तैलं त्याज्यं च फाणितम् १२९
- मत्स्यमानूपमांसं च दुग्धयुक्तं विवर्जयेत्
- कपोतं सर्षपस्नेहभर्जितं परिवर्जयेत् १३०
- मत्स्यानिक्षोर्विकारेण तथा क्षौद्रे ण वर्जयेत्
- सक्तून्मांसपयोयुक्तानुष्णैर्दधि विवर्जयेत् १३१
- उष्णैर्नभोऽम्बुना क्षौद्रं पायसं कृसरान्वितम्
- रम्भाफलं त्यजेत्तक्रदधिबिल्वफलान्वितम् १३२
- दशाहमुषितं सर्पिः कांस्ये मधुघृतं समम्
- कृतान्नं च कषायं च पुनरुष्णीकृतं त्यजेत् १३३
- एकत्र बहुमांसानि विरुध्यन्ते परस्परम्
- मधु सर्पिर्वसा तैलं पानीयं वा पयस्तथा १३४
- लवणं सैन्धवं प्रोक्तंचन्दनं रक्तचन्दनम्
- चूर्णलेहासवस्नेहाः साध्या धवलचन्दनैः
- कषायलेपयोः प्रायो युज्यते रक्तचन्दनम् १३५
- अन्तः सम्मार्जने ज्ञेया ह्यजमोदा यवानिका
- बहिः सम्मार्जने सैव विज्ञातव्याऽजमोदिका १३६
- पयः सर्पिः प्रयोगेषु गव्यमेव हि गृह्यते
- शकृद्र सो गोमयको मूत्रं गोमूत्रमुच्यते १३७
- चित्रकाभावतोदन्ती क्षारः शिखरिजोऽथवा
- अभावे धन्वयासस्य प्रेक्षेप्यातु दुरालभा १३८
- तगरस्याप्यभावे तु कुष्ठं दद्याद्भिषग्वरः
- मूर्वाऽभावे त्वचो ग्राह्या जिङ्गिनीप्रभवा बुधैः १३९
- अहिंस्रया अभावे तु मानकन्दः प्रकीर्त्तितः
- लक्ष्मणाया अभावे तु नीलकण्ठशिखा मता १४०
- वकुलाभावतो देयं कह्लारोत्पलपङ्कजम्
- नीलोत्पलस्याभावे तु कुमुदं देयमिष्यते १४१
- जातीपुष्पं न यत्रास्ति लवंगं तत्र दीयते
- अर्कपर्णादिपयसो ह्यभावे तद्र सो मतः १४२
- पौष्करा भावतः कुष्ठं तथा लाङ्गल्यभावतः
- स्थौणेयकस्याभावे तु मिषग्भिर्दीयते गदः १४३
- चविकागजपिप्पल्यौ पिप्लीमूलवत्स्मृतौ १४४
- अभावे सोमराज्यास्तु प्रपुन्नाडफलं मतम्
- यदि न स्याद्दारुनिशा तदा देया निशा बुधैः १४५
- रसाञ्जनस्याभावे तु दार्वीक्वाथः प्रयुज्यते
- सौराष्ट्र्यभावतो देया स्फटिका तद्गुणा जनैः १४६
- तालीसपत्रकाभावे स्वर्णताली प्रशस्यते
- भार्ङ्ग्यभावे तु तालीसं कण्टकारीजटाऽथवा १४७
- रुचकाभावतो दद्याल्लवणं पांशुपूर्वकम्
- अभावे मधुयष्ट्यास्तु धातकीं च प्रयोजयेत् १४८
- अम्लवेतसकाभावे चुक्रं दातव्यमिष्यते
- द्रा क्षा यदि न लभ्येत प्रदेयं काश्मरीफलम् १४९
- तयोरभावे कुसुमं मधूकस्य मतं बुधैः
- लवङ्गकुसुमं देयं नखस्याभावतः पुनः १५०
- कस्तूर्यभावे कङ्कोलं क्षेपणीयं विदुर्बुधाः
- कङ्कोलस्याप्यभावे तु जातीपुष्पं प्रदीयते १५१
- सुगन्धिमुस्तकं देयं कर्पूराभावतो बुधैः
- कर्पूराभावतो देयं ग्रन्थिपर्णं विशेषतः १५२
- कुङ्कुमाभावतो दद्यात्कुसुम्भकुसुमं नवम्
- श्रीखण्डचन्दनाभावे कर्पूरं देयमिष्यते १५३
- अभावे त्वेतयोर्वैद्यः प्रक्षिपेद्र क्तचन्दनम्
- रक्तचन्दनकाभावे नवोशीरं विदुर्बुधाः १५४
- मुस्ता चातिविषाभावे शिवाऽभावे शिवा मता
- अभावे नागपुष्पस्य पद्मकेशरमिष्यते १५५
- मेदाजीवककाकोलीऋद्धिद्वन्द्वेऽपि वाऽसति
- दरीविदार्यश्वगन्धावाराहीश्च क्रमात् क्षिपेत् १५६
- वाराह्याश्च तथाऽभावे चर्मकारालुको मतः
- वाराहीकन्दसंज्ञस्तु पश्चिमे गृष्टिसंज्ञकः १५७
- वारीहीकन्द एवान्यश्चर्मकारालुको मतः
- अनूपसम्भवे देशे वराह इव लोमवान् १५८
- भल्लातकासहत्वे तु रक्तचन्दनमिष्यते
- भल्लाताभावतश्चित्रं नलश्चेक्षोरभावतः १५९
- सुवर्णाभावतः स्वर्णमाक्षिकं प्रक्षिपेद् बुधः
- श्वेतं तु माक्षिकं ज्ञेयं बुधै रजतवद् ध्रुवम् १६०
- माक्षिकस्याप्यभावे तु प्रदद्यात्स्वर्णगैरिकम्
- सुवर्णमथ वा रौप्यं मृतं यत्र न लभ्यते १६१
- तत्र कान्तेन कर्माणि भिषक्कुर्याद्विचक्षणः
- कान्ताभावे तीक्ष्णलोहं योजयेद्वैद्यसत्तमः १६२
- अभावे मौक्तिकस्यापि मुक्ताशुक्तिं प्रयोजयेत्
- मधु यत्र न लभ्येत तत्र जीर्णगुडो मतः १६३
- मत्स्यण्ड्यभावतो दद्युर्भिषजः सितशर्कराम्
- असम्भवे सितायास्तु बुधैः खण्डं प्रयुज्यते १६४
- क्षीराभावे रसो मौद्गो मासूरो वा प्रदीयते
- अत्र प्रोक्तानि वस्तूनि यानि तेषु च तेषु च १६५
- योज्यमेकतराभावे परं वैद्येन जानता
- रसवीर्यविपाकाद्यैः समं द्र व्यं विचिन्त्य च १६६
- युञ्ज्यात्तद्विधमन्यच्च द्र व्याणां तु रसादिवित्
- योगे यदप्रधानं स्यात्तस्य प्रतिनिधिर्मतः १६७
- यत्तु प्रधानं तस्यापि सदृशं नैव गृह्यते
- व्याधेरयुक्तं यद्द्र व्यं गणोक्तमपि तत्त्यजेत्
- अनुक्तमपि युक्तं यद्योजयेत्तद्र सादिवित् १६८
- द्र व्ये रसो गुणो वीर्यं विपाकः शक्तिरेव च
- पदार्थाः पञ्च तिष्ठन्ति स्वं स्वं कुर्वन्ति कर्म च १६९
- रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः
- षड् द्र व्यमाश्रितास्ते च यथापूर्वं बलावहाः १७०
- तत्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम्
- कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते १७१
- ये रसा वातशमना भवन्ति यदि तेषु वै
- रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम् १७२
- ये रसा पित्तशमना भवन्ति यदि तेषु वै
- तीक्ष्णोष्णलघुताश्चैव नैते तत्कर्मकारिणः १७३
- ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै
- स्नेहगौरवशैत्यानि न ते हन्युः कफं तदा १७४
- मधुरो हि रसः शीतो धातुस्तन्यबलप्रदः
- चक्षुष्यो वातपित्तघ्नः कुर्यात्स्थौल्यमलकृमीन् १७५
- विषघ्नः पिच्छिलश्चापि स्निग्धः प्रीत्यायुषोर्हितः
- बालबृद्धक्षतक्षीणवर्णकेशेन्द्रि यौजसाम् १७६
- प्रशस्तो बृंहणः कण्ठ्यो गुरुः सन्धानकृन्मतः १७७
- सोऽतियुक्तो ज्वरश्वासगलगण्डार्बुदकृमीन्
- स्थौल्याग्निमान्द्यमेहांश्च कुर्यान्मेदःकफामयान् १७८
- रसोऽम्ल पाचनो रुच्यः पित्तश्लेष्मास्रदो लघुः
- लेखितोष्णो बहिः शीतः क्लेदनः पवनापहः १७९
- स्निग्धस्तीक्ष्णः सरः शुक्रविबन्धानाहदृष्टिहा
- हर्षणो रोमदन्तानामक्षिभ्रूविनिकोचनः १८०
- सोऽतियुक्तो भ्रमं कुर्यात्तृड्दाहतिमिरज्वरान्
- कण्डूपाण्डुत्ववीसर्पशोथविस्फोटकुष्ठकृत् १८१
- लवणः शोधनो रुच्यः पाचनः कफपित्तदः
- पुंस्त्ववातहरः कायशैथिल्यमृदुताकरः
- बलघ्न आस्यजलदः कपोलगलदाहकृत् १८२
- सोऽति युक्तो ऽक्षिपाकास्रपित्त कोठक्षतादिकृत्
- वलीपलितखालित्यकुष्ठवीसर्पतृट्प्रदः १८३
- कटुरुष्णश्च तीक्ष्णश्च विशदो वातपित्तकृत्
- श्लेष्महृल्लघुराग्नेयः कृमिकण्डूविषापहः १८४
- शुक्रस्तन्यहरश्चापि मेदःस्थौल्यापकर्षणः
- अश्रुदो नासिकाऽस्याक्षिजिह्वाऽग्रोद्वेजको मतः १८५
- दीपनः पाचनो रुच्यो नासिकाशोषणो भृशम्
- क्लेदमेदोवसामज्जशकृन्मूत्रोपशोषणः १८६
- स्रोतः प्रकाशको रूक्षः मेध्यो वर्चोविबन्धकृत् १८७
- सोऽतियुक्तो भ्रान्तिदाहमुखताल्वोष्ठशोषकृत्
- कण्ठादिपीडामूर्च्छाऽन्तर्दाहदो बलकान्तिहृत् १८८
- तिक्तः शीतस्तृषामूर्च्छाज्वरपित्तकफाञ्जयेत्
- कृमिकुष्ठविषोत्क्लेददाहरक्तगदापहः १८९
- रुच्यः स्वयमरोचिष्णुः कण्ठस्तन्यविशोधनः
- वातलोऽग्निकरो नासाशोषणो रूक्षणो लघुः १९०
- सोऽतियुक्तः शिरःशूलमन्यास्तम्भश्रमार्त्तिकृत्
- कम्पमूर्च्छातृषाकारी बलशुक्रक्षयप्रदः १९१
- कषायो रोपणो ग्राही स्तम्भनः शोधनस्तथा
- लेखनः पीडनः सौम्यः शोषणो वातकोपनः १९२
- कफशोणितपित्तघ्नो रूक्षः शीतो लघुर्मतः
- त्वक्प्रसाधन आमस्य स्तम्भनो विशदो मतः
- जिह्वायां जाड्यकृत्कण्ठस्रोतसां च विबन्धकृत् १९३
- सोऽतियुक्तो ग्रहाध्मानहृत्पीडाक्षेपणादिकृत् १९४
- मधुरं श्लेष्मलंप्रायो जीर्णशालियवादृते
- मुद्गाद्गोधूमतः क्षौद्रा त्सिताया जाङ्गलामिषात् १९५
- अम्लं पित्तकरं प्रायो विना धात्रीं च दाडिमीम्
- लवणं प्रायशो द्वेषि नेत्रयोः सैन्धवं विना १९६
- प्रायः कटु तथा तिक्तमवृष्यं वातकोपनम्
- शुण्ठी कृष्णारसोनानि पटोलममृतां विना १९७
- पिप्पलीनागरं वृष्यं कटु चावृष्यमुच्यते
- प्रायशः स्तम्भनं प्रोक्तं कषायमभयां विना १९८
- सामान्येनात्र निर्दिष्टा गुणाः षड्रससम्भवाः
- रसानां योगतस्तु स्यादन्य एव गुणोदयः १९९
- संयोगाद्विषतां याति सममाज्येन माक्षिंकम्
- अमृतत्वं विषं याति सर्पदष्टस्य वै यथा २००
- लघुर्गुरुस्तथा स्निग्धो रूक्षस्तीक्ष्ण इति क्रमात्
- नभोभूवारिवातानां वह्नेरेते गुणाःस्मृताः २०१
- लघु पथ्यं परं प्रोक्तं कफघ्नं शीघ्रपाकि च २०२
- गरु वातहरं पुष्टिश्लेष्मकृच्चिरपाकि च
- स्निग्धं वातहरं श्लेष्मकारि वृष्यं बलावहम्
- रूक्षं समीरणकरं परं कफहरं मतम् २०३
- तीक्ष्णं पित्तकरं प्रायो लेखनं कफवातहृत्
- सुश्रुते तु गुणा एते विंशतिस्तान्ब्रुवे शृणु २०४
- गुरुर्लघुः स्निग्धरूक्षौ तीक्ष्णः श्लक्ष्णः स्थिरः सरः
- पिच्छिलो विशदः शीत उष्णश्च मृदुकर्कशौ
- स्थूलः सूक्ष्मो द्र वः शुष्क आशुर्मन्दः स्मृता गुणाः २०५
- श्लक्ष्णः स्नेहं विनाऽपि स्यात्कठिनोऽपि हि चिक्कणः २०६
- स्थिरो वातमलस्तम्भी सरस्तेषां प्रवर्तकः
- पिच्छिलस्तन्तुलो बल्यः सन्धानः श्लेष्मलो गुरुः २०७
- क्लेदच्छेदकरः ख्यातो विशदो व्रणरोपणः
- शीतस्तु ह्लादनःस्तम्भी मूर्च्छातृटस्वेददाहनुत्
- उष्णो भवति शीतस्य विपरीतश्च पाचनः २०८
- स्थूलः स्थौल्यकरो देहे स्रोतसामवरोधकृत् २०९
- देहस्य सूक्ष्मच्छिद्रे षु विशेद्यत्सूक्ष्ममुच्यते
- द्र वः क्लेदकरो व्यापी शुष्कस्तद्विपरीतकः २१०
- आशुराशुकरो देहे धावत्यम्भसि तैलवत्
- मन्दः सकलकार्येषु शिथिलोऽल्पोऽपि कथ्यते २११
- पचेन्नामं वह्निकृद्यद्दीपनं तद्यथा मिसिः २१२
- पचत्यामं न वह्निं च कुर्याद्यत्तद्धि पाचनम्
- नागकेशरवद्विद्याच्चित्रोदीपनपाचनः २१३
- नशोधयति यद्दोषान्समान्नोदीरयत्यपि
- समीकरोति विषमाञ्छमनं तद्यथाऽमृता २१४
- कृत्वा पाकं मलानां च भित्वा बन्धमधो नयेत्
- तच्चानुलोमनं ज्ञेयं यथा प्रोक्ता हरीतकी २१५
- पक्तव्यं यदपक्त्वैव श्लिष्टं कोष्ठे मलादिकम्
- नयत्यधः स्रंसनं तद्यथा स्यात्कृतमालकम् २१६
- मलादिकमबद्धं यद्बद्धं वा पिण्डितं मलैः
- भित्वाऽध पातयति यद्भेदनं कटुकी यथा २१७
- विपक्वं यदपक्वं वा मलादि द्र वतां नयेत्
- रेचयत्यपि तज्ज्ञेयं रेचनं त्रिवृता यथा २१८
- अपक्वं पित्तश्लेष्मान्नं बलादूर्ध्वं नयेत्तु यत्
- वमनं तद्धि विज्ञेयं मदनस्य फलं यथा २१९
- स्थानाद्वहिर्नयेदूर्ध्वमधो वा मलसञ्चयम्
- देहसंशोधनं तत्स्याद् देवदालीफलं यथा २२०
- दीपनं पाचनं यत्स्यादुष्णत्वाद्द्र वशोषकम्
- ग्राहि तच्च यथा शुण्ठी जीरकं गजपिप्पली २२१
- रौक्ष्याच्छैत्यात्कषायत्वाल्लघुपाकाच्च यद्भवेत्
- वातकृत्स्तम्भनं तत्स्याद्यथा वत्सकटुण्टुकौ २२२
- श्लिष्टान्कफादिकान्दोषानुन्मूलयति यद्वलात्
- छेदनं तद्यथा क्षारा मरिचानि शिलाजतु २२३
- धातून्मलान् वा देहस्य विशोध्योल्लेखयेच्च यत्
- लेखनं तद्यथा क्षौद्रं नीरमुष्णं वचा यवाः २२४
- यस्माद् द्र व्याद्भवेत्स्त्रीषु हर्षो वाजीकरं हि तत्
- यथाऽश्वगन्धामुसली शर्करा च शतावरी २२५
- यस्माच्छुक्रस्य वृद्धिः स्याच्छुक्रलं हि तदुच्यते
- यथा नागबलाऽद्या स्युर्बीजं च कपिकच्छुजम् २२६
- दुग्धं माषाश्च भल्लातफलमज्जामलानि च
- एतानि जनकानि स्यू रेचकानि च रेतसः २२७
- प्रवर्तिनी स्त्री शुक्रस्य रेचनं बृहतीफलम्
- जातीफलं स्तम्भकं स्यात्कालिङ्गं क्षयकारि च २२८
- रसायनन्तु तज्ज्ञेयं यज्जराव्याधिनाशनम्
- यथा हरीतकी दन्ती गुग्गुलुश्च शिलाजतु २२९
- पूर्वं व्याप्याखिलं कायं ततः पाकञ्च गच्छति
- व्यवायि तद् यथा भङ्गा फेनञ्चाहि समुद्भवम् २३०
- सन्धिबन्धांस्तु शिथिलान्यत्करोति विकाशि तत्
- विशोष्यौजश्च धातुभ्यो यथा क्रमुककोद्र वौ २३१
- बुद्धिं लुम्पति यद् द्र व्यं मदकारि तदुच्यते
- तमोगुणप्रधानञ्च यथा मद्यं सुराऽदिकम् २३२
- व्यवायि च विकाशि स्याच्छ्लेष्मच्छेदि मदावहम्
- आग्नेयं जीवितहरं योगवाहि स्मृतं विषम् २३३
- निजवीर्य्येण यद् द्र व्यं स्रोतोभ्यो दोषसञ्चयम्
- निरस्यति प्रमाथि स्यात्तद्यथा मरिचं वचा २३४
- पैच्छिल्याद्गौरवाद् द्र व्यं रुद्ध्वा रसवहाः शिराः
- धत्ते यद्गौरवं तत्स्यादभिष्यन्दि यथा दधि २३५
- विदाहि द्र व्यमुद्गारमम्लं कुर्यात्तथा तृषाम्
- हृदि दाहं च जनयेत्पाकं गच्छति तच्चिरात् २३६
- गृह्णाति योगवाहि द्र व्यं संसर्गिवस्तुगुणान्
- पच्यमानं यथैतन्मधुजलतैलाज्यसूतलोहादिः २३७
- उष्णशीतगुणोत्कर्षाद् बुधैवीर्यं द्विधा स्मृतम्
- यत्सर्वमग्निषोमीयं दृश्यते भुवनत्रयम् २३८
- उष्णं वातकफौ हन्यात् पित्तं तु तनुते जराम्
- शीतं वातकफातङ्कान्कुरुते पित्तहृत्परम् २३९
- तत्रोष्णं भ्रमतृड्ग्लानिस्वेददाहाशुपाकताम्
- शमञ्च वातकफयो करोति शिशिरं पुनः
- ह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः २४०
- जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्
- रसानां परिणामान्ते स विपाक इति स्मृतः २४१
- मिष्टः पटुश्च मधुरमम्लोऽम्ल पच्यते रसः
- कटुतिक्तकषायाणां पाकः स्यात्प्रायशः कटुः २४२
- श्लेष्मकृन्मधुरः पाको वातपित्तहरो मतः
- अम्लस्तु कुरुते पित्तं वातश्लेष्मगदापहः २४३
- कटुः करोति पवनं कफं पित्तञ्च नाशयेत्
- विशेष एवं रसतो विपाकानां निदर्शितः २४४
- रसादिसाम्ये यत्कर्म विशिष्टं तत्प्रभावजम्
- दन्ती रसाद्यैस्तुल्यापि चित्रकस्य विरेचनी २४५
- मधूकस्य च मृद्वीका घृतं क्षीरस्य दीपनम्
- प्रभावस्तु यथा धात्री लकुचस्य रसादिभिः २४६
- समाऽपि कुरुते दोषत्रितयस्य विनाशनम् २४७
- क्वचित्तुकेवलं द्र व्यं कर्म कुर्यात्प्रभावतः
- ज्वरं हन्ति शिरोबद्धा सहदेवीजटा यथा २४८
- विरुद्धगुणसंयोगे भूयसाऽल्प हि जीयते
- रसं विपाकस्तौ वीर्यं प्रभावस्तान्व्यपोहति २४९
- इति मिश्रप्रकरणे मिश्रवर्गः प्रथमः समाप्तः १