भावप्रकाशः/पूर्वखण्डे परिभाषादिप्रकरणम् ०७

विकिस्रोतः तः
Jump to navigation Jump to search
भावप्रकाशः
पूर्वखण्डे द्वितीयो भागः
तत्र सप्तमं परिभाषादिप्रकरणम् ७

मानपरिभाषा प्रकरणम्[सम्पाद्यताम्]

न मानेन विना युक्तिर्द्र व्याणां जायते क्वचित्
अतः प्रयोगकार्यार्थं मानमत्रोच्यते मया १
चरकस्य मतं वैद्यैराद्यैर्यस्मान्मतं ततः
विहाय सर्वमानानि मागधं मानमुच्यते २
त्रसरेणुर्बुधैः प्रोक्तस्त्रिशता परमाणुभिः
त्रसरेणुस्तु पर्यायनाम्ना वंशी निगद्यते ३
जालान्तरगतैः सूर्यकरैर्वंशी विलोक्यते
षड्वंशीभिर्मरीचिः स्यात्ताभिः षड्भिश्च राजिका ४
तिसृभी राजिकाभिश्च्न सर्षपः प्रोच्यते बुधैः
यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम् ५
षड्भिस्तु रक्तिकाभिः स्यान्माषको हेमधानकौ
माषैश्चतुर्भिः शाणः स्याद्धरणः स निगद्यते ६
टङ्कः स एव कथितस्तद्द्वयं कोल उच्यते
क्षुद्र को वटकश्चैव द्र ङ्क्षणः स निगद्यते ७
कोलद्वयन्तुं कर्षः स्यात्स प्रोक्तः पाणिमानिका
अक्षः पिचुः पाणितलं किञ्चित्पाणिश्च तिन्दुकम् ८
विडालपदकं चैव तथा षोडशिका मता
करमध्यो हंसपदं सुवर्णं कवलग्रहः ९
उदुम्बरञ्च पर्यायैः कर्षमेव निगद्यते
स्यात्कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा १०
शुक्तिभ्याञ्च पलं ज्ञेयं मुष्टिराम्रं चतुर्थिका
प्रकुञ्चः षोडशी बिल्वं पलमेवात्र कीत्तर्यते ११
पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्च निगद्यते
प्रसृतिभ्यामञ्जलि स्यात्कुडवोऽद्धशरावकः १२
अष्टमानञ्च स ज्ञेयः कुडवाभ्याञ्च मानिका
शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः १३
शरावाभ्यां भवेत्प्रस्थश्चतुः प्रस्थस्तथाऽढकः
भाजनं कांस्यपात्रं च चतुःषष्टिपलश्च सः १४
चतुर्भिराढकैद्रो र्णः! कलशो नल्वणोऽमणः
उन्मानञ्चघटो राशिद्रो र्ण!पर्यायसंज्ञितः १५
द्रो णाभ्यां शूर्पकुम्भौ च चतुःषष्टिशरावकः
शूर्पाभ्याञ्च भवेद् द्रो णी वाहो गोणी च सा स्मृता १६
द्रो णीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः
चतुःसहस्रपलिका षण्णवत्यधिका च सा १७
पलानां द्विसहस्रञ्च भार एकः प्रकीर्त्तितः
तुलापलशतं ज्ञेयं सर्वत्रैवैष निश्चयः १८
माषटङ्काक्षबिल्वानि कुडवप्रस्थमाढकम्
राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणम् १९
गुञ्जाऽदिमानमारभ्य यावत्स्यात्कुडवस्थितिः
द्र वार्द्र शुष्कद्र व्याणां तावन्मानं समं मतम् २०
प्रस्थादिमानमारभ्य द्विगुणं तद् द्र वार्द्र योः
मानं तथा तुलायास्तु द्विगुणं न क्वचित्स्मृतम् २१
मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम्
विस्तीर्णञ्च तथोच्चञ्च तन्मानं कुडवं वदेत् २२
इति मागधमानं समाप्तम्
यतो मन्दाग्नयो ह्रस्वा हीनसत्त्वा नराः कलौ
अतस्तु मात्रा तद्योग्या प्रोच्यते सुज्ञसंमता २३
यवो द्वादशभिर्गौरसर्षपैः प्रोच्यते बुधैः
यवद्वयेन गुञ्जा स्यात्त्रिगुञ्जो वल्ल उच्यते २४
माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा भवेत्क्वचित्
चतुर्भिर्माषकैः शाणः स निष्कष्टङ्क एव च २५
गद्याणो माषकैः षड्भिः कर्षः स्याद्दशमाषकैः
चतुष्कर्षैः पलं प्रोक्तं दशशाणमितं बुधैः २६
चतुष्पलैश्च कुडवः प्रस्थाद्याः पूर्ववन्मताः
स्थितिर्नास्त्येव मात्रायाः कालमग्निं वयो बलम् २७
प्रकृतिं दोषदेशौ च दृष्ट्वा मात्रां प्रकल्पयेत्
नाल्पं हन्त्यौषधं व्याधिं यथाऽम्भोऽल्प महानलः
अतिमात्रं च दोषाय यथा शस्ये बहूदकम् २८
इति कालिङ्गमानं समाप्तम्
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे परिभाषादिप्रकरणे प्रथमं मानपरिभाषाख्यं प्रकरणं समाप्तम् १

भेषजविधानप्रकरणम्[सम्पाद्यताम्]

अथ द्वितीयं भेषजविधानप्रकरणम् २
स्वरसश्च तथा कल्कः क्वाथश्च हिमफाण्टकौ
ज्ञेयाः कषायाः पञ्चैते लघवः स्युर्यथोत्तरम् १
अहतात्तत्क्षणाकृष्टाद् द्र व्यात्क्षुण्णात्समुद्भवेत्
वस्त्रनिष्पीडितो यश्च स्वरसो रस उच्यते २
कुडवं चूर्णितं द्र व्यं क्षिप्तञ्च द्विगुणे जले
अहोरात्रं स्थितं तस्माद्भवेद्वा रस उत्तमः ३
आदाय शुष्कद्र व्यं वा स्वरसानामसंभवे
जलेऽष्टगुणिते साध्यं पादशिष्टं च गृह्यते ४
स्वरस्य गुरुत्वाच्च पलमर्द्धं प्रयोजयेत्
निशोषितं चाग्निसिद्धं पलमात्रं रसं पिबेत् ५
सितामधुगुडक्षाराञ्जीरकं लवणं तथा
घृतं तैलञ्च चूर्णादीन् कोलमात्रान् रसे क्षिपेत् ६
कण्डितं तण्डुलपलं जलेऽष्टगुणिते क्षिपेत्
भावयित्वा जलं ग्राह्यं देयं सर्वत्र कर्मसु ७
क्षुण्णं द्र व्यपलं सम्यक् षड्भिर्नीरपलैः प्लुतम्
निशोषितं हिमः स स्यात्तथा शीतकषायकः
तस्य मानं मतं पाने पलद्वयमितं बुधैः ८
जले चतुष्पले शीते क्षुण्णं द्र व्यपलं क्षिपेत्
मृत्पात्रे मन्थयेत् सम्यक् तस्माच्च द्विपलं पिबेत् ९
क्षुण्णे द्र व्यपले सम्यग्जलमुष्णं विनिक्षिपेत्
मृत्पात्रे कुडवोन्मानं ततस्तु स्रावयेत्पटात् १०
स स्याच्चूर्णद्र वः फाण्टस्तन्मानं द्विपलोन्मितम्
क्षौद्रं सितागुडादींस्तु कर्षमात्रान्विनिक्षिपेत् ११
द्र व्यमाद्र रं! शिलापिष्टं शुष्कं वा सजलं भवेत्
तदेव कल्को विज्ञेयस्तन्मानं कर्षसम्मितम् १२
कल्के मधुघृतं तैलं देयं द्बिगुणमात्रया
सितां गुडं समं दद्याद् द्र वो देयश्चतुर्गुणः १३
अत्यन्तशुष्कं यद् द्र व्यं सुपिष्टं वस्त्रगालितम्
तत्स्याच्चूर्णं रजः क्षोदस्तन्मात्रा कर्षसम्मिता १४
चूर्णे गुडः समो देयः शर्करा द्विगुणा मता
चूर्णेषु भर्जितं हिङ्गु देयं नोत्क्लेदकृद्भवेत् १५
लिहेच्चूर्णं द्र वैः सर्वैर्घृताद्यैर्द्विगुणोन्मितैः
पिबेच्चतुर्गुणैरेवं चूर्णमालोडितं द्र वैः १६
चूर्णावलेहगुटिकाकल्कानामनुपानकम्
पित्तवातकफातङ्के त्रिद्व्येकपलमाहरेत् १७
यथा तैलं जले क्षिप्तं क्षणेनैव विसर्पति
अनुपानबलादङ्गे तथा सर्पति भेषजम् १८
द्र वेण यावता सम्यक् चूर्णं सर्वं प्लुतं भवेत्
भावनायाः प्रमाणं तु चूर्णे प्रोक्तं भिषग्वरैः १९
पुटपाकस्य कल्कस्य स्वरसो गृह्यते यतः
अतस्तु पुटपाकानां युक्तिरत्रोच्यते मया २०
पुटपाकस्य पाकोऽय लेपस्याङ्गारवर्णता
लेपश्च द्व्यङ्गुलं स्थूलं कुर्याद् द्व्यङ्गुलमात्रकम् २१
काश्मरीवटजम्ब्वादिपत्रैर्वेष्टनमुत्तमम् २२
पलमात्रो रसो ग्राह्यः कर्षमानं मधु क्षिपेत्
कल्कचूर्णद्र वाद्यास्तु देयाः कोलमिता बुधैः २३
अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा
अथवा क्वथनेनैव सिद्धमुष्णोदकं भवेत् २४
श्लेष्मामवातमेदोघ्नं वस्तिशोधनदीपनम्
कासश्वासज्वरान् हन्ति पीतमुष्णोदकं निशि २५
क्षीरमष्टगुणं द्र व्यात्क्षीरान्नीरं चतुर्गुणम्
क्षीरावशेषं तत्पीतं शूलमामोद्भवं जयेत् २६
पानीयं षोडशगुणं क्षुण्णे द्र व्यपले क्षिपेत्
मृत्पात्रे क्वाथयेद् ग्राह्यमष्टमांशावशेषितम् २७
कर्षादौ तु पलं यावद् दद्यात्षोडशिकं जलम्
ततस्तु कुडवं यावत्तोयमष्टगुणं भवेत्
चतुर्गुणमतश्चोर्ध्वं यावत् प्रस्थादिकं जलम् २८
तज्जलं पाययेद्धीमान्कोष्णं मृद्वग्निसाधितम्
शृतः क्वाथः कषायश्च निर्यूहः स निगद्यते २९
मात्रोत्तमा पलेन स्यात्त्रिभिरक्षैस्तु मध्यमा
जघन्या च पलार्द्धेन स्नेहक्वाथौषधेषु च ३०
क्वाथ्यद्र व्यपले वारि द्विरष्टगुणमिष्यते
चतुर्भागावशिष्टन्तु पेयं जलचतुष्टयम् ३१
दीप्तानलं महाकायं पाययेदञ्जलि जलम्
अन्ये त्वर्द्धं परित्यज्य प्रसृतिं तु चिकित्सकाः ३२
क्वाथत्यागमनिच्छन्तस्त्वष्टभागावशेषितम्
पारम्पर्योपदेशेन वृद्धवैद्याः पलद्वयम् ३३
क्वाथे क्षिपेत्सितामंशैश्चतुर्थाष्टमषोडशैः
वातपित्तकफातङ्के विपरीतं लघु स्मृतम् ३४
जीरकं गुग्गुलं क्षारं लवणं च शिलाजतु
हिङ्गु त्रिकटुकञ्चैव क्वाथे शाणोन्मितं क्षिपेत् ३५
क्षीरं घृतं गुडं तैलं मूत्रं चान्यद् द्र वं तथा
कल्कं चूर्णादिकं क्वाथे निक्षिपेत् कर्षसम्मितम् ३६
तत्रोपविश्य विश्रान्तः प्रसन्नवदनेक्षणः
औषधं हेमरजतमृद्भाजनपरिस्थितम् ३७
पिबेत् प्रसन्नहृदयः पीत्वा पात्रमधोमुखम्
विधायाचम्य सलिलं ताम्बूलाद्युपयोजयेत् ३८
क्वाथादेर्यत्पुनः पाकाद् घनत्वं सा रसक्रिया
सोऽवलेहश्च लेहश्च तन्मात्रा स्यात्पलोन्मिता ३९
सिता चतुर्गुणा कार्या चूर्णाच्च द्विगुणो गुडः
द्र वं चतुर्गुणं दद्यादिति सर्वत्र निश्चयः ४०
सुपक्वे तन्तुमत्त्वं स्यादवलेहेऽप्सु मज्जनम्
स्थिरत्वं पीडिते मुद्रा गन्धवर्णरसोद्भवः ४१
दुग्धमिक्षुरसं यूषं पञ्चमूलकषायकम्
वासाक्वाथं यथायोग्यमनुपानं प्रशस्यते ४२
वटका अथ कथ्यन्ते तन्नाम गुटिका वटी
मोदको वटिका पिण्डी गुडो वर्त्तिस्तथोच्यते ४३
लेहवत्साध्यते वह्नौ गुडो वा शर्कराऽथवा
गुग्गुल्लुर्वा क्षिपेत्तत्र चूर्णं तन्निर्मिता वटी ४४
कुर्यादवह्निसिद्धेन क्वचिद् गुग्गुलुना वटीम्
द्र वेण मधुना वाऽपि गुटिकां कारयेद् बुधः ४५
सिता चतुर्गुणा देया वटीषु द्विगुणो गुडः
चूर्णे चूर्णसमः कार्यो गुग्गुलुर्मधु तत्समम् ४६
द्र वं तु द्विगुणं देयं मोदकेषु भिषग्वरैः ४७
कर्षप्रमाणं तन्मात्रा बलं दृष्ट्वा प्रयुज्यते ४८
कल्काच्चतुर्गुणीकृत्य घृतं वा तैलमेव च
चतुर्गुणद्र वे साध्यं तस्य मात्रा पलोन्मिता ४९
निक्षिप्य क्वाथयेत्तोयं क्वाथ्यद्र व्याच्चतुर्गुणम्
पादशिष्टं गृहीत्वा तु स्नेहं तेनैव साधयेत् ५०
चतुर्गुणं मृदुद्र व्ये कठिनेऽष्टगुणं जलम्
मृद्वादिक्वाथ्यसंघाते दद्यादष्टगुणं पयः
अत्यन्त कठिने द्र व्ये नीरं षोडशिकं मतम् ५१
प्रस्थादितः क्षिपेन्नीरं खारीं यावच्चतुर्गुणम् ५२
अम्बुक्वाथरसैर्यत्र पृथक् स्नेहस्य साधनम्
कल्कस्यांशं तत्र दद्याच्चतुर्थ षष्ठमष्टमम् ५३
दुग्धेदध्नि रसे तक्रे कल्को देयोऽष्टमांशकः
कल्काच्च सम्यक् पाकार्थं तोयमत्र चतुर्गुणम् ५४
द्र वाणि यत्र स्नेहेषु पञ्चादीनि भवन्ति हि
तत्र स्नेहसमान्याहुर्यथापूर्वं चतुर्गुणम् ५५
द्र व्येण केवलेनैव स्नेहपाको भवेद् यदि
तत्राम्बुपिष्टः कल्कः स्याज्जलं चात्र चतुर्गुणम् ५६
क्वाथेन केवलेनैव पाको यत्रोदितः क्वचित्
क्वाथ्यद्र व्यस्य कल्कोऽपि तत्र स्नेहे प्रयुज्यते ५७
कल्कहीनस्तु यः स्नेहः स साध्यः केवले द्र वे ५८
पुष्पकल्कस्तु यः स्नेहस्तत्र तोयं चतुर्गुणम्
स्नेहात् स्नेहाष्टमांशश्च पुष्पकल्कः प्रयुज्यते ५९
वर्त्तिवत्स्नेहकल्कः स्याद् यदाऽङ्गुल्या विवर्त्तितः
शब्दहीनोऽग्निनिक्षिप्तःस्नेहः सिद्धो भवेत्तदा ६०
यदा फेनोद्गमस्तैले फेनशान्तिश्च सर्पिषि
वर्णगन्धरसोत्पत्तिः स्नेहः सिद्धो भवेत्तदा ६१
स्नेहपाकस्त्रिधा प्रोक्तो मृदुर्मध्यः खरस्तथा
ईषत्सरसकल्कस्तु स्नेहपाको मृदुर्भवेत् ६२
मध्यपाकस्य सिद्धिश्च कल्के नीरसकोमले
ईषत्कठिनकल्कश्च स्नेहपाको भवेत्खरः ६३
तदूर्ध्वं दग्धपाकः स्याद्दाहकृन्निष्प्रयोजनः
आमपाकश्च निर्वीर्यो वह्निमान्द्यकरो गुरुः ६४
नस्यार्थं स्यान्मृदुः पाको मध्यमः सर्वकर्मसु
अभ्यङ्गार्थः खरः प्रोक्तो युञ्ज्यादेवं यथोचितम् ६५
घृततैलगुडादींश्च साधयेन्नैकवासरे
प्रकुर्वुन्त्युषितास्त्वेते विशेषाद् गुणसञ्चयम् ६६
द्र वेषु चिरकालस्थं द्र व्यं यत्सन्धितं भवेत्
आसवारिष्टभेदैस्तु प्रोच्यते भेषजोचितम् ६७
यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः
अरिष्टः क्वाथसाध्यः स्यात्तयोर्मानं पलोन्मितम् ६८
अनुक्तमानारिष्टेषु द्र वाद् द्रो णं गुडात्तुलाम्
क्षौद्रं क्षिपेद् गुडादर्द्धं प्रक्षेपं दशमांशिकम् ६९
ज्ञेयः शीतरसः सीघुरपक्वमधुरद्र वैः
सिद्धः पक्वरसः सीधुः सम्पक्वमधुरद्र वैः ७०
परिपक्वान्नसन्धानात्समुत्पन्नां सुरां जगुः
सुरामण्डः प्रसन्ना स्यात्ततः कादम्वरी घना ७१
तदधो जगलो ज्ञेयो मेदको जगलाद्घनः
वक्कसो हृतसारः स्यात्सुराबीजं तु किण्वकम् ७२
यत्तालखर्जूररसैः सन्धिता सा हि वारुणी ७३
कन्दमूलफलादीनि सस्नेहलवणानि च
यत्र द्र वेऽभिषूयन्ते तच्छुक्तमभिधीयते ७४
विनष्टमम्लतां यातं मद्यं वा मधुरद्र वः
विनष्टः सन्धितो यस्तु तच्चुक्रमभिधीयते ७५
गुडाम्बुना सतैलेन कन्दशाकफलैस्तथा
संधितं चाम्लतां यातं गुडचुक्रं प्रचक्ष्यते
एवमेव हि शुक्तं स्यान्मृद्वीकासम्भवं तथा ७६
तुषाम्बु सन्धितं ज्ञेयमामैर्विदलितैर्यवः
यवैस्तु निस्तुषैः पक्वैः सौवीरं साधितं भवेत् ७७
आरनालन्तु गोधूमैरामैः स्यान्निस्तुस्तुषीकृतैः
पक्वैर्वा संहितं तत्तु सौवीरसदृशं गुणैः ७८
कुल्माषधान्यमण्डादिसहितं काञ्जिकं विदुः
शिण्डाकी संहिता ज्ञेया मूलकैः सर्षपादिभिः ७९
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे परिभाषादिप्रकरणे द्वितीयं भेषजविधानप्रकरणं समाप्तम् २

धात्वादिशोधनमारण विधिप्रकरणम्[सम्पाद्यताम्]

अथ तृतीयं धात्वादिशोधनमारण विधिप्रकरणम् ३
दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम्
तारशुल्बोज्झितं स्निग्धं कोमलं गुरु हेम सत् १
तच्छेदे कठिनं रूक्षं विवर्णं समलं दलम्
दाहे छेदे सितं श्वेतं कषे स्फुटं लघु त्यजेत् २
पत्तलीकृतपत्राणि हेम्नो वह्नौ प्रतापयेत्
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ३
गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा
एवं हेम्नः परेषाञ्च धातूनां शोधनं भवेत् ४
बलं सवीर्य्यं हरते नराणां रोगव्रजं पोषयतीह काये
असौख्यकार्येव सदा सुवर्णमशुद्धमेतन्मरणञ्च कुर्यात् ५
स्वर्णस्य द्विगुणं सूतमम्लेन सह मर्दयेत्
तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ६
गोलकञ्च ततो रुद्ध्वा शरावदृढसम्पुटे
त्रिंशद्वनोपलैर्दद्यात्पुटान्येवं चतुर्दश
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ७
काञ्चने गलिते नागं षोडशांशेन निक्षिपेत्
चूर्णयित्वा तथाम्लेन घृष्ट्वा कृत्वा तु गोलकम् ८
गोलकेन समं गन्धं दत्त्वा चैवाधरोत्तरम् ९
शरावसम्पुटे धृत्वा पुटेत् त्रिंशद्वनोपलैः
एवं सप्तपुटैर्हेम निरुत्थं भस्म जायते १०
काञ्चनाररसैर्घृष्ट्वा समसूतकगन्धयोः
कज्जलद्यं हेमपत्राणि लेपयेत्समया तथा ११
काञ्चनारत्वचः कल्कैर्मूषायुग्मं प्रकल्पयेत्
धृत्वा तत्संपुटे गोलं मृण्मूषासम्पुटे च तत् १२
निधाय सन्धिरोधं च कृत्वा संशोष्य गोलकम्
वह्निं खरतरं कुर्यादेवं दत्त्वा पुटत्रयम् १३
निरुत्थं जायते भस्म सर्वकर्मसु योजयेत्
काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम् १४
ज्वालामुखी तथा हन्याद् यथा हन्ति मनःशिला १५
शिलासिन्दूरयोश्चूर्णं समयोरर्कदुग्धकैः
सप्तधा भावनां दद्याच्छोषयेच्च पुनः पुनः १६
ततस्तु गलिते हेम्नि कल्कोऽय दीयते समः
पुनर्धमेदतितरां यथा कल्को विलीयते
एवं वेलात्रयं दद्यात्कल्कं हेममृतिर्भवेत् १७
सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम्
स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम् १८
पवित्रं बृंहणं नेत्र्! यं मेधास्मृतिमतिप्रदम्
हृद्यामायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत्
विषद्वयक्षयोन्मादत्रिदोषज्वरशोषजित् १९
असम्यङ्मारितं स्वर्णं बलं वीर्यं च नाशयेत्
करोति रोगान् मृत्युं च तद्धन्याद् यत्नतस्ततः २०
लोहादेरनपुनर्भावस्तद्गुणत्वं गुणाढ्यता
सलिले तरणं चापि तत्सिद्धिः पुटनाद्भवेत् २१
गम्भीरे विस्तृते कुण्डे द्विहस्ते चतुरस्रके
वनोपलसहस्रेण पूरिते पुटनौषधम् २२
कोष्ठे रुद्धं प्रयत्नेन गोविष्ठोपरि धारयेत्
वनोपलसहस्रार्द्धं कोष्ठिकोपरि निक्षिपेत् २३
वह्निं विनिक्षिपेत्तत्र महापुटमिति स्मृतम् २४
सपादहस्तमानेन कुण्डे निम्ने तथाऽयते
वनोपलसहस्रेण पूर्णे मध्ये विधारयेत् २५
पुटनद्र व्यसंयुक्तां कोष्टिकां मुद्रि तां मुखे
अधोऽधानि करण्डानि अर्धान्युपरि निक्षिपेत्
एतद्गजपुटं प्रोक्तं ख्यातं सर्वपुटोत्तमम् २६
अरत्निमात्रके कुण्डे पुटं वाराहमुच्यते
वितस्तिमात्रके खाते कथितं कौक्कुटं पुटम् २७
षोडशाङ्गुलके खाते कस्यचित्कौक्कुटं पुटम् २८
यत्पुटं दीयते खाते ह्यष्टसंख्यैर्वनोपलैः
कपोतपुटमेतत्तु कथितं पुटपण्डितैः २९
गोष्ठान्तर्गोखुरक्षुण्णं शुष्कं चूर्णितगोमयम्
गोबरं तत्समाख्यातं वरिष्ठं रससाधने ३०
बृहद्भाण्डस्थितैर्यत्र गौबरैर्दीयते पुटम्
तद् गोबरपुटं प्रोक्तं भिषग्भिः सूतभस्मनि ३१
बृहद्भाण्डे तुषैः पूर्णे मध्ये मूषां विधारयेत्
क्षिप्त्वाऽग्नि मुद्र येद्भाण्डं तद्भाण्डपुटमुच्यते ३२
भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके
कूपिकाकण्ठपर्यन्तं वालुकाभिश्च पूरिते ३३
भेषजं कूपिकासंस्थं वह्निना यत्र पच्यते
बालुकायन्त्रमेतद्धि यन्त्रं तत्र बुधैः स्मृतम् ३४
निबद्धमौषधं सूतं भूर्जे तत्त्रिगुणे वरे
रसपोटलिकां काष्ठे दृढं बद्ध्वा गुणेन हि ३५
सन्धानपूर्णकुम्भान्तःस्वावलम्बनसन्धितम्
अधस्ताज्ज्वालयेदग्निं तत्तदुक्तक्रमेण हि
दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि ३६
साम्बुस्थालीमुखे बद्धे वस्त्रे स्वेद्यं निधाय च
पिधाय पच्यते तत्र तद् यन्त्रं स्वेदनं स्मृतम् ३७
अधःस्थाल्यां रसं क्षिप्त्वा विदध्यात्तन्मुखोपरि
स्थालीमूर्ध्वमुखीं सम्यङ्निरुध्य मृदुमृत्स्नया ३८
ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा चुल्ल्यामारोप्य यत्नतः
अधस्ताज्ज्वालयेदग्निं यावत्प्रहरपञ्चकम् ३९
स्वाङ्गशीतं ततो यन्त्राद् गृह्णीयाद्र समुत्तमम्
विद्याधराभिधं यन्त्रमेतत्तज्ज्ञैरुदाहृतम् ४०
बालुकाभिः समस्ताङ्गं गर्त्ते मूषां रसान्विताम्
दीप्तोपलैः संवृणुयाद् यन्त्रं भूधरनामकम् ४१
यन्त्रं डमरुसंज्ञं स्यात्तत्स्थाल्या मुद्रि ते मुखे ४२
गुरु स्निग्धं मृदु श्वेतं दाहे छेदे घनक्षमम्
वर्णाढ्यं चन्द्र वत् स्वच्छं तारं नवगुणं शुभम् ४३
कठिनं कृत्रिमं रूक्षं रक्तं पीतदलं लघु
दाहच्छेदघनैर्नष्टं रूप्यं दुष्टं प्रकीर्त्तितम् ४४
पत्तलीकृतपत्राणि तारस्याग्नौ प्रतापयेत्
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ४५
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा
एवं रजतपत्राणां विशुद्धिः संप्रजायते ४६
रूप्यं त्वशुद्धं प्रकरोति तापं विबन्धकं वीर्यबलक्षयं च
देहस्य पुष्टिं हरते तनोति रोगांस्ततः शोधनमस्य कुर्यात् ४७
भागैकं तालकं मर्द्यं याममम्लेन केनचित्
तेन भागत्रयं तारपत्त्राणि परिलेपयेत् ४८
धृत्वा मूषापुटे रुद्ध्वा पुटेत्त्रिंशद्वनोपलैः
समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटे पचेत्
एवं चतुर्दशपुटैस्तारं भस्म प्रजायते ४९
स्नुहीक्षीरेण सम्पिष्टं माक्षिकं तेन लेपयेत् ५०
तालकस्य प्रकारेण तारपत्राणि बुद्धिमान्
पुटेच्चतुर्दशपुटैस्तारं भस्म प्रजायते ५१
रौप्यं शीतं कषायं च स्वादुपाकरसं सरम्
वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित्
प्रमेहादिकरोगांश्च नाशयत्यचिराद्र् ध्रुवम् ५२
जपाकुसुमसङ्काशं स्निग्धं गुरु घनक्षमम्
लोहनागोज्झितं ताम्रं मारणाय प्रशस्यते ५३
कृष्णं रूक्षमतिस्वच्छं श्वेतं चापि घनासहम्
लोहनागयुतं चेति शुल्वं दुष्टं प्रकीर्त्तितम् ५४
पत्तलीकृतपत्राणि ताम्रस्याग्नौ प्रतापयेत्
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ५५
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा
एवं ताम्रस्य पत्राणां विशुद्धिः संप्रजायते ५६
एको दोषो विषे ताम्रे त्वशुद्धेऽष्टौ भ्रमो वमिः
विरेकस्वेद उत्क्लेदो मूर्च्छा दाहोऽरुचिस्तथा ५७
न विषं विषमित्याहुस्ताम्रन्तु विषमुच्यते
एको दोषो विषे ताम्रे त्वष्टौ दोषाः प्रकीर्त्तिताः ५८
सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद् बुधः
वासरत्रयमम्लेन ततः खल्वे विनिक्षिपेत् ५९
पादांशं सूतकं दत्त्वा याममम्लेन मर्दयेत्
ततः उद्धृत्य पत्राणि लेपयेद् द्विगुणेन च ६०
गन्धकेनाम्लघृष्टेन तस्य कुर्याच्च गोलकम्
ततः पिष्ट्वा च मीनाक्षीं चाङ्गेरीं वा पुनर्नवाम् ६१
तत्कल्केन बहिर्गोलं लेपयेद्द्व्यङ्गुलोन्मितम्
धृत्वा तद् गोलकं भाण्डे शरावेण च रोधयेत् ६२
बालुकाभिः प्रपूर्याथ विभूतिलवणाम्बुभिः
दत्वा भाण्डमुखे मुद्रा ं! ततश्चुल्ल्यां विपाचयेत् ६३
क्रमवृद्ध्याऽग्निना सम्यग्यावद्यामचतुष्टयम्
स्वाङ्गशीतं समुद्धृत्य मर्दयेच्छूरणद्र वैः ६४
यामैकं गोलकं तच्च विक्षिपेच्छूरणोदरे
मृदा लेपस्तु कर्त्तव्यः सर्वतोऽङ्गुष्ठमात्रकः ६५
पाच्यं गजपुटे क्षिप्तं मृतं भवति निश्चितम् ६६
वमनं च विरेकं च भ्रमं क्लममथारुचिम्
विदाहं स्वेदमुत्क्लेदं न करोति कदाचन ६७
ताम्रं कषायं मधुरं सतिक्तमम्लञ्च पाके कटु सारकं च
पित्तापहं श्लेष्महरं च शीतं तद्रो पणं स्याल्लघु लेखनं च ६८
पाण्डूदरार्शोज्वरकुष्ठकासश्वासक्षयान्पीनसमम्लपित्तम्
शोथं कृमीञ्शूलमपाकरोति प्राहुर्बुधा बृंहणमल्पमेतत् ६९
एको दोषो विषे ताम्रे त्वसम्यङ्मारिते पुनः
दाहः स्वेदोऽरुचिर्मूर्च्छोत्क्लेदो रेको वमिर्भ्रमः ७०
वङ्गं च गिरिजं तच्च खुरकं मिश्रकं द्विधा
तयोस्तु खुरकं श्रेष्ठं मिश्रकं त्वहितं मतम् ७१
वङ्गं विधत्ते खलु शुद्धिहीनमाक्षेपकम्पौ च किलासगुल्मौ
कुष्ठानि शूलं किल वातशोथं पाण्डुं प्रमेहञ्च भगन्दरञ्च ७२
विषोपमं रक्तविकारवृन्दं क्षयञ्च कृच्छ्राणि कफज्चरञ्च
मेहाश्मरीविद्र धिमुष्करोगान् नागोऽपि कुर्यात्कथितान्विकारान् ७३
वङ्गनागौ प्रतप्तौ च गलितौ तौ निषेचयेत्
त्रिधा त्रिधा विशुद्धिः स्याद्र विदुग्धेऽपि च त्रिधा ७४
मृत्पात्रे द्रा विते वङ्गे चिञ्चाऽश्वत्थत्वचो रजः
पिष्ट्वा वङ्गचतुर्थांशमथोदर्व्या प्रचालयेत् ७५
ततो द्वियाममात्रेण वङ्गं भस्म प्रजायते
अथ भस्मसमं तालं क्षिप्त्वाऽम्लेन विमर्दयेत् ७६
ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत्
तालेन दशमांशेन याममेकं ततः पुटेत्
एवं दशपुटैः पक्वं वङ्गं भवति मारितम् ७७
वङ्गं लघु सरं रूक्षं कुष्ठं मेहकफकृमीन्
निहन्ति पाण्डुं सश्वासं नेत्र्! यमीषत्तु पित्तलम् ७८
सिंहो गजौघं तु यथा निहन्ति तथैव वङ्गोऽखिलमेहवर्गम्
देहस्य सौख्यं प्रबलेन्द्रि यत्वं नरस्य पुष्टिं विदधाति नूनम् ७९
यशदं गिरिजं तस्य दोषाः शोधनमारणे
वङ्गस्येव हि बोद्धव्या गुणांस्तु गणयाम्यथ ८०
यशदं च सरं तिक्तं शीतलं कफपित्तहृत्
चक्षुष्यं परमं मेहान् पाण्डुं श्वासञ्च नाशयेत् ८१
तस्य साहजिका दोषा वङ्गस्येव निदर्शिताः
शोधनञ्चापि तस्येव भिषग्भिर्गदितं पुरा ८२
ताम्बूलरससम्पिष्टं शिलालेपात् पुनः पुनः
द्वात्रिंशद्भिः पुटैर्नागो निरुत्थं भस्म जायते ८३
अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निक्षिपेत्
मृत्पात्रे विद्रुतो नागो लोहदर्व्या प्रचालितः ८४
यामैकेन भवेद्भस्म तत्तुल्या स्यान्मनःशिला
काञ्जिकेन द्वयं पिष्ट्वा पचेद्गजपुटेन च ८५
स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन च
पुनः पचेच्छरावाभ्यामेवं षष्टिपुटैर्मृतिः ८६
सीसं वङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम् ८७
नागस्तु नागशततुल्यबलं ददाति व्याधिं च नाशयति जीवनमातनोति
वह्निं प्रदीपयति कामबलं करोति मृत्युञ्च नाशयति सन्ततसेवितः सः ८८
खञ्जत्वकुष्ठामयमृत्युकारी हृद्रो गशूलौ कुरुतेऽश्मरीञ्च
नानारुजानां च तथा प्रकोपं कुर्याच्च हृल्लासमशुद्धलौहम् ८९
पत्तलीकृतपत्राणि लौहस्याग्नौ प्रतापयेत्
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ९०
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा
एवं लौहस्य पत्राणां विशुद्धिः संप्रजायते ९१
शुद्धं लौहभवं चूर्णं पातालगरुडीरसैः
मर्दयित्वा पुटेद्वह्नौ दद्यादेवं पुटत्रयम् ९२
पुटत्रयं कुमार्याश्च कुठारच्छिन्निकिरसैः
पुटषट्कं ततो दद्यादेवं तीक्ष्णमृतिर्भवेत् ९३
क्षिपेच्च द्वादशांशेन दरदं तीक्ष्णचूर्णतः
मर्दयेत्कन्यकाद्रा वैर्यामयुग्मं ततः पुटेत्
एवं सप्तपुटैर्मृत्युं लौहचूर्णमवाप्नुयात् ९४
सत्योऽनुभूतो योगेन्द्रै ः! क्रमोऽन्यो लौहमारणे
कथ्यते रामराजेन कौतूहलधियाऽधुना ९५
सूतकाद् द्विगुणं गन्धं दत्त्वा कुर्याच्च कज्जलीम्
द्वयोः समं लौहचूर्णं मर्दयेत्कन्यकाद्र वैः ९६
यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके
घर्मे धृत्वा रुबूकस्य पत्रैराच्छादयेद्बुधः ९७
यामत्रयाद्भवेदुष्णं धान्यराशौ न्यसेत्ततः
दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् ९८
पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत्
दाडिमस्य दलं पिष्ट्वा तच्चतुर्गुणवारिणा ९९
तद्र सेनायसं चूर्णं सन्नीय प्लावयेदिति
आतपे शोषयेत्तच्च पुटेदेवं पुनः पुनः १००
एकविंशतिवारैस्तन्म्रियते नात्र संशयः
एवं सर्वाणि लौहानि स्वर्णादीन्यपि मारयेत् १०१
लौहं तिक्तं सरं शीतं कषायं मधुरं गुरु
रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् १०२
कफं पित्तं गरं शूलं शोफार्शः प्लीहपाण्डुताः
मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्वदेव हि १०३
गुञ्जामेकां समारभ्य यावत्स्युर्नवरक्तिकाः
तावल्लौहं समश्नीयाद्यथादोषानलं नरः १०४
कूष्माण्डं तिलतैलं च माषान्नं राजिकां तथा
मद्यमम्लरसञ्चैव वर्जयेल्लौहसेवकः १०५
शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सर्वधातवः
म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा १०६
मन्दानलत्वं बलहानिमुग्रां बिष्टम्भितां नेत्रगदान् सकुष्ठान्
मालां तथैव व्रणपूर्विकाञ्च कुर्यादशुद्धं खलु माक्षिकञ्च १०७
माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च
मातुलुङ्गद्र वैर्वाऽथ जम्बीरस्य द्र वैः पचेत् १०८
चालयेल्लौहजे पात्रे यावत्पात्रं सुलोहितम्
भवेत्ततस्तु संशुद्धिं स्वर्णमाक्षिकमृच्छति १०९
कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत्
तक्रेण वाऽजमूत्रेण म्रियते स्वर्णमाक्षिकम् ११०
स्वर्णमाक्षिकवद्दोषा विज्ञेयास्तारमाक्षिके
अतस्तद्दोषशान्त्यर्थं शोधनं तस्य कथ्यते १११
कर्कोटीमेषशृङ्ग्युत्थैर्द्र वैर्जम्बीरजैर्दिनम्
भावयेदातपे तीव्रे विमला शुद्ध्य्ति ध्रुवम् ११२
कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत्
मरणं वाऽजमूत्रेण तारमाक्षिकमृच्छति ११३
न केवलं स्वर्णरूप्यगुणास्तापीजयोर्मताः
द्र व्यान्तरस्य संसर्गात्सन्त्यन्येऽपि गुणास्तयोः ११४
माक्षिकं मधुरं तिक्तं स्वर्यं वृष्यं रसायनम् ११५
चक्षुष्यं वस्तिरुक्कुष्ठपाण्डुमेहविषोदरम्
अर्शः शोफं क्षयं कण्डूं त्रिदोषञ्च नियच्छति ११६
विष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः
दशांशं टङ्कणं दत्त्वा पचेल्लघुपुटे ततः
पुटं दध्ना पुटं क्षौद्रै र्देयं तुत्थविशुद्धये ११७
तुत्थकं कटुकं क्षारं कषायं वामकं लघु ११८
लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत्
विषाश्मकुष्ठकण्डूघ्नं तद्गुणं खर्परं मतम् ११९
पत्तलीकृतपत्राणि कांस्यस्याग्नौ प्रतापयेत्
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके १२०
गोमूत्रे च कुलत्थानां कषायेऽत्र त्रिधा त्रिधा
एवं कांस्यस्य रीतेश्च विशुद्धिः सम्प्रजायते १२१
अर्कक्षीरेण सम्पिष्टो गन्धकस्तेन लेपयेत्
समेन कांस्यपत्राणि शुद्धान्यम्लद्र वैर्मुहुः १२२
ततो मूषापुटे धृत्वा पचेद्गजपुटेन च
एवं पुटद्वयात् कांस्यं रीतिश्च म्रियते ध्रुवम् १२३
कांस्यं कषायं तीक्ष्णोष्णं लेखनं विशदं सरम्
गुरु नेत्रहितं रूक्षं कफपित्तहरं परम् १२४
रीतिका तु भवेद्रू क्षा सतिक्ता लवणा रसे
शोधनी पाण्डुरोगघ्नी कृमिहृन्नातिलेखनी १२५
दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदिता बुधैः १२६
सिन्दूर उष्णो वीसर्पकुष्ठकण्डूविषापहः
भग्नसन्धानजननो व्रणशोधनरोपणः १२७
गोमूत्रगन्धवत्कृष्णं स्रिग्धं मृदु तथा गुरु
तिक्तं कषायं शीतञ्च सर्वश्रेष्ठं तदायसम् १२८
विन्ध्यादौ बहुलं तत्तु यत्र लौहं यतोऽधिकम्
तच्छोधनमृते व्यर्थमनेकमलमेलनात् १२९
शिलाजतु समानीय सूक्ष्मं खण्डं विधाय च
निक्षिप्यात्युष्णपानीये यामैकं स्थापयेत्सुधीः १३०
मर्दयित्वा ततो नीरं गृह्णीयाद्वस्त्रगालितम्
स्थापयित्वा च मृत्पात्रे धारयेदातपे बुधः १३१
उपरिस्थं घनं यत्स्यात्तत्क्षिपेदन्यपात्रके
एवं पुनः पुनर्नीतं द्विमासाभ्यां शिलाजतु १३२
भवेत्कार्यक्षमं वह्नौ क्षिप्तं लिङ्गोपमं भवेत्
निर्धूमञ्च ततः शुद्धं सर्वकर्मसु योजयेत् १३३
व्याधिव्याधितसात्म्यं समनुसरन् भावयेदयःपात्रे
प्राक् केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम् १३४
तुल्यं गिरिजेन जले वसुगुणिते भावनौषधं क्वाथ्यम्
तत्क्वाथे पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम् १३५
तत्समरसतां यातं संशुष्कं प्रक्षिपेद्र से भूयः
स्वैः स्व्रेवं क्वाथैर्भाव्यं वारान् भवेत् सप्त १३६
अथ स्निग्धस्य शुद्धस्य वृतं तिक्तकसाधितम्
त्र्! यहं युञ्जीत गिरिजमेकैकेन तथा त्र्! यहम् १३७
फलत्रयस्य यूषेण पटोल्या मधुकस्य च
शिलाजमेवं देहस्य भवत्यत्युपकारकम् १३८
लोहस्थितं निम्बगुडूचिसर्पिर्यवैर्यथावत्परिभावयेत्तत्
सन्तानिकाकीटपतङ्गदंशदुष्टौषधीदोषनिवारणाय १३९
उष्णे च काले रवितापयुक्ते व्यभ्रे निवाते समभूमिभागे
चत्वारि पात्राण्यसितायसानि न्यस्यातपे तत्र कृतावधानः १४०
शिलाजतु श्रेष्ठमवाप्य पात्रे प्रक्षिप्य तस्माद् द्विगुणञ्च तोयम्
उष्णं तदूर्ध्वं क्वथितञ्च दत्त्वा विशोधयेत्तन्मृदितं यथावत् १४१
ततस्तु यत्कृष्णमुपैति चोर्ध्वं सन्तानिकावद्र विरश्मितप्तम्
पात्रे तदन्यत्र ततो निदध्यात्तत्रापरं कोष्णजलं क्षिपेच्च १४२
पुनश्च तस्मादपरत्र पात्रे पश्चाच्च पात्रादपरत्र भूयः
यदा विशुद्धं जलमेवमूर्ध्वं कृष्णं समस्तं मलमेत्यधस्तात्
तदा त्यजेत्तत्सलिलं मलञ्च शिलाजतु स्याज्जलशुद्धमेवम् १४३
शिलाजतु स्मृतं तिक्तं कटूष्णं कटुपाकि च
रसायनं योगवाहि श्लेष्ममेहाश्मशर्कराः १४४
मूत्रकृच्छ्रं क्षयं श्वासं शोथमर्शांसि पाण्डुताम्
वातरक्तं तथा कुष्ठमपस्मारोदरं हरेत् १४५
नानाधान्यैर्यथाप्राप्तैस्तुषवर्जैर्जलान्वितैः
मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् १४६
तन्मध्ये भृङ्गराड् मुण्डी विष्णुक्रान्ता पुनर्नवा
मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी १४७
त्रिफला गिरिकर्णी च हंसपादी च चित्रकम्
समूलं कुट्टयित्वा तु यथालाभं विनिक्षिपेत् १४८
पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं स्मृतम्
स्वेदनादिषु सर्वत्र रसराजस्य योजयेत्
अत्यम्लमारनालं वा तदभावे प्रयोजयेत् १४९
त्र्! यूषणं लवणं राजी रजनी त्रिफलाऽद्र कम्
महाबला नागबला मेघनादः पुनर्नवा १५०
मेषशृङ्गी चित्रकञ्च नवसारं समं समम्
एतत्समस्तं व्यस्तं वा पूर्वाम्लेनैव पेषयेत् १५१
प्रलिम्पेत्तेन कल्केन वस्त्रमङ्गुलमात्रकम् १५२
तन्मध्ये निक्षिपेत्सूतं बद्ध्वा तत्त्रिदिनं पचेत्
दोलायन्त्रेऽम्लसंयुक्ते जायते स्वेदितो रसः १५३
मूलकानलसिन्धूत्थत्र्! यूषणार्द्र कराजिकाः
रसस्य षोडशांशेन द्र व्यं युञ्ज्यात् पृथक्पृथक् १५४
द्र व्येष्वनुक्तमानेषु मतं मानमितं बुधैः
पट्टावृतेषु चैतेषु सूतं प्रक्षिप्य काञ्जिके १५५
स्वेदयेद्दिनमेकञ्च दोलायन्त्रेण बुद्धिमान्
स्वेदात्तीव्रो भवेत्सूतो मर्दनाच्च सुनिर्मलः १५६
इष्टिकाचूर्णचूर्णाभ्यामादौ मर्द्यो रसस्ततः
दध्ना गुडेन सिन्धूत्थराजिकागृहधूमकैः १५७
कुमारिकाचित्रकरक्तसर्षपैः कृतैः कषायैर्बृहतीविमिश्रितैः
फलत्रिकेणापि विमर्दितो रसो दिनत्रयं सर्वमलैर्विमुच्यते १५८
त्र्! यूषणत्रिफलावन्ध्याकन्दैः क्षुद्रा द्वयान्वितैः
चित्रकोर्णानिशाक्षारकन्याऽककनकद्र वैः १५९
सूतं कृतेन यूषेण वारान्सप्त विमर्दयेत्
इत्थं संमूर्च्छितः सूतस्त्यजेत्सप्तापि कञ्चुकान् १६०
मयूरग्रीवताप्याभ्यां नष्टपिष्टीकृतस्य च
यन्त्रे विद्याधरे कुर्याद्र सेन्द्र स्योर्ध्वपातनम् १६१
त्रिफलाशिग्रुशिखिभिर्लंवणासुरिसंयुतैः
नष्टपिष्टं रसं कृत्वा लेपयेदूर्ध्वभाजनम् १६२
ततो दीप्तैरधः पातमुपलैस्तस्य कारयेत्
यन्त्रे भूधरसंज्ञे तु ततः सूतो विशुद्ध्य्ति १६३
स्वेदनादिक्रियाभिस्तु शोधितोऽसौ यदा भवेत्
तदा कार्याणि कुरुते प्रयोज्यः सर्वकर्मसु १६४
गृहकन्या हरति मलं त्रिफलाऽग्नि चित्रको विषं हन्ति
तस्मादेभिर्मिश्रैर्वारान् संमूर्च्छयेत्सप्त १६५
कुमारिकाचित्रकरक्तसर्षपैः कृतैः कषायैर्वृहतीविमिश्रितैः
फलत्रिकेणापि विमर्दितो रसो दिनत्रयं सर्वमलैर्विमुच्यते १६६
कुमार्या च निशाचूर्णैर्दिनं सूतं विमर्दयेत्
एवं कदर्थितः सूतः षण्ढो भवति निश्चितम् १६७
बह्वौषधिकषायेण स्वेदितः स बली भवेत्
सर्पाक्षीचिञ्चिकावन्ध्याभृङ्गाब्दैः स्वेदितो बली
ततः स पावकद्रा वैः स्विन्नः स्यादतिदीप्तिमान् १६८
धूमसारं रसं तोरीं गन्धकं नवसादरम्
यामैकं मर्दयेदम्लैर्भागं कृत्वा समं समम् १६९
काचकूप्यां विनिक्षिप्य ताञ्च मृद्वस्त्रमुद्र या
विलिप्य परितो वक्त्रे मुद्रा ं! दत्त्वा विशोषयेत् १७०
अधः सच्छिद्र पिठरीमध्ये कूपीं निवेशयेत्
पिठरीं बालुकापूरैर्भृत्वा चाकूपिकागलम् १७१
निवेश्य चुल्ल्यां तदधो बह्निं कुर्याच्छनैः शनैः
तस्मादत्यधिकं किञ्चित्पावकं ज्वालयेत्क्रमात् १७२
एवं द्वादशभिर्यामैम्रियते रस उत्तमः
स्फोटयेत्स्वाङ्गशीतं तमूर्ध्वगं गन्धकं त्यजेत् १७३
अधःस्थञ्च मृतं सूतं गृह्णीयात्तं तु मात्रया
यथोचितानुपानेन सर्वकर्मसु योजयेत् १७४
अपामार्गस्य बीजानां मूषायुग्मं प्रकल्पयेत्
तत्सम्पुटे क्षिपेत्सूतं मलयूदुग्धमिश्रितम् १७५
द्रो णपुष्पीप्रसूनानि विडङ्गमरिमेदकः
एतच्चूर्णमधश्चोर्ध्वं दत्त्वा मुद्रा प्रदीयते १७६
तद्गोलं स्थापयेत्सम्यङ् मृन्मूषासम्पुटे पचेत् १७७
एवमेकपुटेनैव सूतकं भस्म जायते
तत्प्रयोज्यं यथास्थाने यथामात्रं यथाविधि १७८
काकोदुम्बरिकादुग्धैः रसं किञ्चिद्विमर्दयेत्
तद्दुग्धघृष्टहिङ्गोश्च मूषायुग्मं प्रकल्पयेत् १७९
क्षिप्त्वा तत्संपुटे सूतं तत्र मुद्रा ं! प्रदापयेत्
धृत्वा तद् गोलकं प्राज्ञो मृन्मूषासम्पुटेऽधिके
पचेद् गजपुटेनैव सूतकं याति भस्मताम् १८०
नागवल्लीरसैर्घृष्टः कर्कोटीकन्दगर्भितः
मृन्मूषासम्पुटे पक्वं सूतो यात्येव भस्मताम् १८१
तत्र पारदस्य संक्षिप्तं शोधनं कर्त्तव्यम्
शुद्धसूतसमं कुर्यात्प्रत्येकं गैरिकं सुधीः
इष्टिकां खटिकां तद्वत्स्फटिकां सिन्धुजन्म च १८२
वल्मीकं क्षारलवणं भाण्डरञ्जकमृत्तिकाम्
सर्वाण्येतानि संचूर्ण्य वाससा चापि शोधयेत् १८३
एभिश्चूर्णैर्युतं सूतं यावद्यामं विमर्दयेत्
तच्चूर्णसहितं सूतं स्थालीमध्ये परिक्षिपेत् १८४
तस्याः स्थाल्या मुखे स्थालीमपरां धारयेत्समाम्
सवस्त्रकुट्टितमृदा मुद्र येदनयोर्मुखम् १८५
संशोष्य मुद्र येद्भूयो भूयः संशोष्य मुद्र येत्
सम्यग्विशोष्य मुद्रा ं! तां स्थालद्यं चुल्ल्यां विधारयेत् १८६
अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम्
अङ्गारोपरि तद्यन्त्रं रक्षेद्यत्नादहर्निशम् १८७
शनैरुद्घाटयेद्यन्त्रमूर्ध्वस्थालीगतं रसम्
कर्पूरवत्सुविमलं गृह्णीयाद् गुणवत्तरम् १८८
तद्देवकुसुमचन्दनकस्तूरीकुङ्कुमैर्युक्तम्
खादन् हरति फिरङ्गं व्याधिं सोपद्र वं सपदि १८९
विन्दति वह्नेर्दीप्तिं पुष्टिं वीर्यं बलं विपुलम्
रमयति रमणीशतकं रसकर्पूरस्य सेवकः सततम् १९०
शुद्धसूतस्य गृह्णीयाद्भिषग्भागचतुष्टयम्
शुद्धगन्धस्य भागैकं तावत्कृत्रिमगन्धकम् १९१
अथवा पारदस्यार्द्धं शुद्धगन्धकमेव हि
तयोः कज्जलिकां कुर्याद्दिनमेकं विमर्दयेत् १९२
मृत्तिका वाससा सार्द्धं कुट्टयेदतियत्नतः
तथा वारत्रयं सम्यक्काचकूपीं प्रलेपयेत् १९३
मृत्तिकां शोषयित्वा तु कूप्यां कज्जलिकां क्षिपेत्
तां कूपीं बालुकायन्त्रे स्थापयित्वा रसं पचेत् १९४
अग्निं निरन्तरं दद्याद्यावद्दिनचुतष्टयम्
गृह्णीयादूर्ध्वसंलग्नं सिन्दूरसदृशं रसम् १९५
इति सिन्दूररसः
पारदः कृमिकुष्ठघ्नो जयदो दृष्टिकृत्सरः
मृत्युहृच्च महावीर्यो योगवाही ज्वरापहः १९६
स्मृत्योजोरूपदो वृष्यो वृद्धिकृद्धातुवर्द्धनः
षण्ढत्वनाशनः शूरः खेचरः सिद्धिदःपरः १९७
पारदः सकलरोगहा स्मृतः षड्रसो निखिलयोगवाहकः
पञ्चभूतमय एष कीर्त्तितस्तेन तद्गुणगणैर्विराजते १९८
यस्य रोगस्य यो योगस्तेनैव सह योजितः
रसेन्द्रो हन्ति तं रोगं नरकुञ्जरवाजिनाम् १९९
मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम्
सप्तवारान्प्रयत्नेन शुद्धिमायाति निश्चितम् २००
तिक्तं कषायं कटु हिङ्गुलं स्यान्नेत्रामयघ्नं कफपित्तहारि
हृल्लासकण्डूज्वरकामलाश्च प्लीहामवातौ च गरं निहन्ति २०१
निम्बूरसैर्निम्बपत्ररसैर्वा याममात्रकम्
घृष्ट्वा दरदमूर्ध्वन्तु पातयेत्सूतयुक्तिवत् २०२
तत्रोर्ध्वपिठरीलग्नं गृह्णीयाद्र समुत्तमम्
शुद्धमेव हि तं सूतं सर्वकर्मसु योजयेत् २०३
अशुद्धो गन्धकः कुर्यात्कुष्ठं पित्तरुजां भ्रमम्
हन्ति वीर्य्यं बलं रूपं तस्माच्छुद्धः प्रयुज्यते २०४
लौहपात्रे विनिक्षिप्य घृतमग्नौ प्रतापयेत्
तप्ते घृते तत्समानं क्षिपेद् गन्धकजं रजः २०५
विद्रुतं गन्धकं दृष्ट्वा तनुवस्त्रे विनिक्षिपेत्
यथा वस्त्राद्विनिःस्रुत्य दुग्धमध्येऽखिलं पतेत्
एवं स गन्धकः शुद्धः सर्वकर्मोचितो भवेत् २०६
गन्धकः कटुकस्तिक्तो वीर्य्योष्णस्तुवरः सरः २०७
पित्तलः कटुकः पाके कण्डूवीसर्पजन्तुजित्
हन्ति कुष्ठक्षयप्लीहकफवातान् रसायनः २०८
पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं पाण्डुगदञ्च कुर्य्यात्
हृत्पार्श्वपीडां च करोत्यसह्यामशुद्धमभ्रं गुरु वह्निहृत्स्यात् २०९
कृष्णाभ्रकं धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत्
भिन्नपत्रं तु तत्कृत्वा तण्डुलीयाम्लयोर्द्र वैः
भावयेदष्टयामं तदेवमभ्रं विशुद्ध्यति २१०
कृत्वा धान्याभ्रकं तथा शोषयित्वाऽथ मर्दयेत्
अर्कक्षीरैर्दिनं खल्वे चक्राकारं च कारयेत् २११
वेष्टयेदर्कपत्रैश्च सम्यग्गजपुटे पचेत्
पुनर्मर्द्यं पुनः पाच्यं सप्तवारान् पुनः पुनः २१२
ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम्
म्रियते नात्र सन्देहः प्रयोज्यं सर्वकर्मसु २१३
तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत्
घृते जीर्णे तदभ्रन्तु सर्वयोगेषु योजयेत् २१४
पादांशशालिसंयुक्तमभ्रं बद्ध्वाऽथ कम्बले
त्रिरात्रं स्थापयेन्नीरे तत्क्लिन्नं मर्दयेत्करैः २१५
कम्बलाद्गलितं सूक्ष्मं बालुकारहितञ्च यत्
तद् धान्याभ्रमिति प्रोक्तमभ्रमारणसिद्धये २१६
अभ्रं कषायं मधुरं सुशीतमायुष्करं धातुविवर्द्धनञ्च
हन्यात् त्रिदोषं व्रणमेहकुष्ठं प्लीहोदरं ग्रन्थिविषकृमींश्च २१७
रोगान् हन्ति द्र ढयति वपुर्वीर्यवृद्धिं विधत्ते
तारुण्याढ्यं रमयति शतं योषितां नित्यमेव
दीर्घायुष्काञ्जनयति सुतान् सिंहतुल्यप्रभावान्
मृत्योर्भीतिं हरति सुतरां सेव्यमानं मृताभ्रम् २१८
अशुद्धं तालमायुर्हृत्कफमारुतमेहकृत्
तापस्फोटाङ्गसङ्कोचं कुरुते तेन शोधयेत् २१९
तालकं कणशः कृत्वा तच्चूर्णं काञ्जिके पचेत्
दोलायन्त्रेण यामैकं ततः कूष्माण्डजद्र वैः २२०
तिलतैले पचेद्यामं यामञ्च त्रिफलाजले
एवं यन्त्रे चतुर्यामं पक्वं शुद्ध्य्ति तालकम् २२१
सदलं तालकं शुद्धं पौनर्नवरसेन तु
खल्वे विमर्दयेदेकं दिनं पश्चाद्विशोधयेत् २२२
ततः पुनर्नवाक्षारैः स्थाल्यामर्द्धं प्रपूरयेत्
तत्र तद्गोलकं कृत्वा पुनस्तेनैव पूरयेत् २२३
आकण्ठं पिठरं तस्य पिधानं धारयेन्मुखे
स्थालद्यं चुल्ल्यां समारोप्य क्रमाद्वह्निं विवर्धयेत् २२४
दिनान्यन्तरशून्यानि पञ्च वह्निं प्रदापयेत् २२५
एवं तन्म्रियते तालं मात्रा तस्यैकरक्तिका
अनुपानान्यनेकानि यथायोग्यं प्रयोजयेत् २२६
हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम्
कण्डूकुष्ठास्यरोगास्रकफपित्तकचव्रणान् २२७
तालकं हरते रोगान्कुष्ठमृत्युज्वरापहम्
शोधितं कुरुते कान्तिं वीर्यवृद्धिं तथाऽयुषम् २२८
तालकस्यैव भेदोऽस्ति मनोगुप्तैतदन्तरम्
तालकं त्वतिपीतं स्याद्भवेद्र क्ता मनः शिला २२९
मनःशिला मन्दवलं करोति जन्तुं ध्रुवं शोधनमन्तरेण
मलस्य बन्धं किल मूत्ररोधं सशर्करं कृच्छ्रगदञ्च कुर्य्यात् २३०
पचेत्त्र्यहमजामूत्रे दोलायन्त्रे मनःशिलाम्
भावयेत्सप्तधा पित्तैरजायाः सा विशुद्ध्यति २३१
गुर्वी मनः शिला वर्ण्या सरोष्णा लेखनी कटुः
तिक्ता स्निग्धा विषश्वासकासभूतकफास्रनुत् २३२
नरमूत्रे च गोमूत्रे सप्ताहं रसकं पचेत्
दोलायन्त्रेण शुद्धः स्यात्ततः कार्येषु योजयेत् २३३
खर्परं कटुकं क्षारं कषायं वामकं लघु
लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत्
विषाश्मकुष्ठकण्डूनां नाशनं परमं मतम् २३४
सूर्यावर्त्तो वज्रकन्दः कदली देवदालिका
शिग्रुः कोशातकी वन्ध्या काकमाची च बालकम् २३५
एषामेकरसेनैव त्रिक्षारैर्लवणैः सह
भावयेदम्लवर्गैश्च दिनमेकं प्रयत्नतः २३६
ततः पचेच्च तद्द्रा वैर्दोलायन्त्रे दिनं सुधीः
एवं शुद्ध्य्न्ति ते सर्वे प्रोक्ता उपरसा हि ये २३७
कङ्कुष्ठं गैरिकं शङ्खः कासीसं टङ्कणं तथा
नीलाञ्जनं शुक्तिभेदाः क्षुल्लकाः सवराटकाः २३८
जम्बीरवारिणा स्विन्नाः क्षालिताः कोष्णवारिणा
शुद्धिमायान्त्यमी योज्या भिषग्भिर्योगसिद्धये २३९
अशुद्धं कुरुते वज्रं कुष्ठं पार्श्वव्यथां तथा
पाण्डुत्वं पङ्गुलत्वञ्च तस्मात्संशोध्य मारयेत् २४०
कुलत्थकोद्र वक्वाथे दोलायन्त्रे विपाचयेत्
व्याघ्रीकन्दगतं वज्रं त्रिदिनात्तद्विशुद्ध्य्ति २४१
गृहीत्वाऽह्नि शुभे वज्रंव्याघ्रीकन्दोदरे क्षिपेत्
महिषीविष्ठया लिप्त्वा कारीषाग्नौ विपाचयेत् २४२
त्रियामायां चतुर्यामं यामिन्यन्तेऽश्वमूत्रके
सेचयेत्पाचयेदेवं सप्तरात्रेण शुद्ध्य्ति २४३
हिंगुसैन्धवसंयुक्ते क्षिपेत्क्वाथे कुलत्थजे
तप्तं तप्तं पुनर्वज्रं भवेद्भस्म त्रिसप्तधा २४४
मेषशृङ्गभुजङ्गास्थिकूर्मपृष्ठाम्लवेतसान् २४५
शशदन्तं समं पिष्ट्वा वज्रीक्षीरेण गोलकम्
कृत्वा तन्मध्यगं वज्रं म्रियते ध्मातमेव हि २४६
आयुः पुष्टिं बलं वीर्यं वर्णं सौख्यं करोति च
सेवितं सर्वरोगघ्नं मृतं वज्रं न संशयः २४७
वज्रवत्सर्वरत्नानि शोधयेन्मारयेत्तथा
शुद्धानां मारितानाञ्च तेषां शृणु गुणानपि २४८
मणयो वीर्यतः शीता मधुरास्तुवरा रसात्
चक्षुष्या लेखनाश्चापि सारका विषहारकाः
धारणात्ते तु मङ्गल्या ग्रहदृष्टिहरा अपि २४९
सिन्धुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा
यत्पार्श्वे न तरोर्वृद्धिर्वत्सनाभः स भाषितः २५०
गोमूत्रे त्रिदिनं स्थाप्यं विषं तेन विशुद्ध्य्ति
रक्तसर्षपतैलाक्ते तथा धार्यञ्च वाससि २५१
ये गुणा गरले प्रोक्तास्ते स्युर्हीना विशोधनात्
तस्माद्विषं प्रयोगे तु शोधयित्वा प्रयोजयेत् २५२
विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च
आग्नेयं वातकफहृद्योगवाहि मदावहम् २५३
तदेव युक्तियुक्तन्तु प्राणदायि रसायनम्
योगवाहि परं वातश्लेष्मजित्सन्निपातहृत् २५४
अर्कक्षीरं स्नुहीक्षीरं लाङ्गली करवीरकः
गुञ्जाऽहिफेनो धत्तूरः सप्तोपविषजातयः २५५
गुणहीनं भवेद्वर्षादूर्ध्वं तद्रू पमौषधम्
मासद्वयात्तथा चूर्णं लभते हीनवीर्यताम् २५६
हीनत्वं गुटिकालेहौ लभेते वत्सरं यदि
हीनाः स्युर्घृततैलाद्याश्चतुर्मासाधिकास्तथा २५७
घृतमब्दात्परं पक्वं हीनवीर्यत्वमाप्नुयात्
तैलं पक्वमपक्वञ्च चिरस्थायि गुणाधिकम् २५८
ओषध्यो लघुपाकाः स्युर्निर्वीर्या वत्सरात्परम्
पुराणाः स्युर्गुणैर्युक्ता आसवा धातवो रसाः २५९
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे परिभाषादिप्रकरणे तृतीयं धात्वादिशोधनमारणविधिप्रकरणं समाप्तम् ३

स्नेहपानविधिप्रकरणम्[सम्पाद्यताम्]

अथ चतुर्थं स्नेहपानविधिप्रकरणम् ४
स्नेहश्चतुर्विधः प्रोक्तो घृतं तैलं वसा तथा
मज्जा च तं पिवेन्मर्त्यः किञ्चिदभ्युदिते रवौ १
स्थावरो जङ्गमश्चैव द्वियोनिः स्नेह उच्यते
तिलतैलं स्थावरेषु जङ्गमेषु घृतं वरम्
द्वाभ्यां त्रिभिश्चतुर्भिर्वा यमकस्रिवृतो महान् २
पिबेत् त्र्! यहं चतुरहं पञ्चाहं षडहानि वा ३
दोषकालवयोवह्निबलान्यालोक्य योजयेत्
हीनाञ्चमध्यमां ज्येष्ठां मात्रां स्नेहस्य बुद्धिमान् ४
अमात्रया तथाऽकाले मिथ्याऽहारविहारतः
स्नेहः करोति शोथार्शस्तन्द्रा निद्रा विसंज्ञताः ५
देया दीप्ताग्नये मात्रा स्नेहस्यैकपलोन्मिता
मध्यमाय त्रिकर्षा स्याज्जघन्याय द्विकार्षिकी ६
अथवा स्नेहमात्राः स्युस्तिस्रोऽन्या सर्वसम्मताः
अहोरात्रेण महती जीर्यत्यह्नि तु मध्यमा
जीर्यत्यल्पा दिनार्द्धेन सा विज्ञेया सुखावहा ७
अल्पा स्याद्दीपनी वृष्या स्वल्पदोषे प्रपूजिता ८
मध्यमा स्नेहनी ज्ञेया वृंहणी भ्रमहारिणी
ज्येष्ठा कुष्ठविषोन्मादग्रहापस्मारनाशिनी ९
या मात्रा प्रथमे यामे गते जीर्यति वासरे
सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता १०
या मात्रा वासरस्यार्द्धे व्यतीते परिजीर्यति
सा वृष्या बृंहणी च स्यान्मध्यदोषे प्रपूजिता ११
या मात्रा चरमे यामे स्थितेऽह्न परिजीर्यति
सा मात्रा स्नेहनी ज्ञेया बहुदोषेषु पूजिता १२
केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम्
देयं वहुकफे वह्निव्योषक्षारसमन्वितम् १३
रूक्षक्षतविषार्त्तानां वातपित्तविकारिणाम्
हीनमेधास्मृतीनां च सर्पिष्पानं प्रशस्यते १४
कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः
पिबेयुस्तैलसात्म्याश्च तैलं दार्ढ्यार्थिनस्तु ये १५
व्यायामकर्षिताः शुष्करेतोरक्ता महारुजः
महाग्निमारुतप्राणा वसायोग्या नराः स्मृताः १६
क्रूराशयाः क्लेशसहा वातार्त्ता दीप्तवह्नयः
मज्जानञ्च पिबेयुस्ते सर्पिर्वा सर्वतो हितम् १७
शीतकाले दिवा स्नेहमुष्णकाले पिबेन्निशि
वातपित्ताधिके रात्रौ वातश्लेष्माधिके दिवा १८
नस्याभ्यज्जनगण्डूषमूर्ध्वकर्णाक्षितर्पणे
तैलं घृतं वा युञ्जीत दृष्ट्वा दोषबलाबलम् १९
घृते कोष्णं जलं पेयं तैले यूषः प्रशस्यते
वसामज्ज्ञोः पिबेन्मण्डमनुपानं सुखावहम् २०
स्नेहद्विषः शिशून्वृद्धान्सुकुमारान्कृशानपि
तृष्णालुकानुष्णकाले सह भक्तेन पाययेत् २१
सर्पिष्मती बहुतिला यवागूः स्वल्पतण्डुला
सुखोष्णा सेव्यमाना तु सद्यः स्नेहनकारिणी २२
शर्कराचूर्णसंयुक्ते दोहनस्थे घृते तु गाम्
दुग्ध्वा क्षीरं पिबेद्रू क्षः सद्यः स्नेहनमुत्तमम् २३
मिथ्याऽचाराद् बहुत्वाच्च यस्य स्नेहो न जीर्यति
विष्टभ्य वाऽपि जीर्येत वारिणोष्णेन वामयेत् २४
स्नेहस्याजीर्णशङ्कायां पिबेदुष्णोदकं नरः
तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा २५
स्नेहेन पैत्तिकस्याग्निर्यदा तीक्ष्णतरीकृतः
तदाऽस्योदीरयेत् तृष्णां विषमां तस्य पाययेत्
शीतलं पायसं तेन तृष्णा तस्य प्रशाम्यति २६
अजीर्णी वर्जयेत्स्नेहमुदरी तरुणज्वरी
दुर्बलोऽरोचकी स्थूलो मूर्च्छालो मेहपीडितः २७
दत्तवस्तिविरिक्तश्च वान्तस्तृष्णाश्रमान्वितः
अकालप्रसवा नारी दुर्दिने च विवर्जयेत् २८
स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचित्तकाः २९
वृद्धबालकृशा रूक्षाः क्षीणास्राः क्षीणरेतसः
वातार्त्तास्तिमिरार्त्ता ये तेषां स्नेहनमुत्तमम् ३०
वातानुलोम्यं दीप्ताग्निर्वर्चः स्निग्धमसंहतम्
मृदुस्निग्धाङ्गताऽग्लानिः स्नेहद्वेषोऽथ लाघवम्
विमलेन्द्रि यता सम्यक् स्निग्धे रूक्षे विपर्ययः ३१
भक्तद्वेषो मुखस्रावो गुदे दाहः प्रवाहिका
तन्द्रा ऽतीसारपाण्डुत्वं भृशं स्निग्धस्य लक्षणम् ३२
रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम्
श्यामाकचणकाद्यैश्च तक्रपिण्याकसक्तुभिः ३३
दीप्ताग्निः शुद्धकोष्ठश्च पुष्टधातुर्दृढेन्द्रि यः
निर्जरो बलवर्णाढ्यः स्नेहसेवी भवेन्नरः ३४
स्नेहे व्यायामसंशीतवेगाघातप्रजागरान्
दिवास्वप्नमभिष्यन्दि रूक्षान्नञ्च विवर्जयेत् ३५
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे परिभाषादिप्रकरणे चतुर्थं स्नेहपानविधिप्रकरणं समाप्तम् ४

पञ्चकर्मविधिप्रकरणम्[सम्पाद्यताम्]

अथ पञ्चमं पञ्चकर्मविधिप्रकरणम् ५
प्रथमं वमनं पश्चाद्विरेकश्चानुवासनम्
एतानि पञ्चकर्माणि निरूहो नावनं तथा १
शरत्काले वसन्ते च प्रावृट्काले च देहिनाम्
वमनं रेचनं चैव कारयेत्कुशलो भिषक् २
बलवन्तं कफव्याप्तं हृल्लासादिनिपीडितम्
तथा वमनसात्म्यञ्च धीरचित्तञ्च वामयेत् ३
विषदोषे स्तन्यरोगे मन्देऽग्नौ श्लीपदेऽबुदे
हृद्रो गे कुष्ठवीसर्पमेहाजीर्णभ्रमेषु च ४
विदारिकाऽपचीकासश्वासपीनसवृद्धिषु
अपस्मारे ज्वरोन्मादे तथा रक्तातिसारिषु ५
नासाताल्वोष्ठपाकेषु कर्णस्रावेऽधिजिह्वके
गलशुण्ड्यामतीसारे पित्तश्लेष्मगदे तथा
मेदोगदेऽरुचौ चैव वमनं कारयेद्भिषक् ६
न वामनीयस्तिमिरी न गुल्मी नोदरी कृशः
नातिवृद्धो गर्भिणी च न स्थूलो न क्षतातुरः ७
मदार्त्तो बालको रूक्षः क्षुधितश्च निरूहितः
उदावत्तर्यूर्ध्वरक्ती च दुश्छर्द्यः केवलानिली ८
पाण्डुरोगी कृमिव्याप्तः पवनात्स्वरघातवान् ९
एतेऽप्यजीर्णव्यथिता वाम्या ये विषपीडिताः
कफव्याप्ताश्च ते वाम्या मधुकक्वाथपानतः १०
सुकुमारं कृशं बालं वृद्धं भीरुञ्च वामयेत्
पाययित्वा यवागूं वा क्षीरतक्रदधीनि च ११
असात्म्यैः श्लेष्मलैर्भोज्यैर्दोषानुत्क्लेश्य देहिनाम्
स्निग्धस्विन्नाय वमनं दत्तं सम्यक्प्रवर्त्तते १२
वमनेषु च सर्वेषु सैन्धवं मधु वा हितम्
वीभत्सं वमनं दद्याद्विपरीतं विरेचनम् १३
क्वाथद्र व्यस्य कुडवं श्रपयित्वा जलाढके
अर्द्धभागावशिष्टञ्च वमनेष्ववचारयेत् १४
क्वाथपाने नवप्रस्था ज्येष्ठा मात्रा प्रकीर्त्तिता
मध्यमा षण्मिता प्रोक्ता त्रिप्रस्था च कनीयसी १५
वमने च विरेके च तथा शोणितमोक्षणे
अर्द्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः १६
कल्कचूर्णावलेहानां त्रिपलं मात्रयोत्तमम्
मध्यमं द्विपलं विद्यात्कनीयस्तु पलं भवेत् १७
वमने चाष्टवेगाःस्युः पित्तान्ता उत्तमास्तु ते
षड् वेगा मध्यमा वेगाश्चत्वारस्त्वपरे मताः १८
कफं कटुकतीक्ष्णोष्णैः पित्तं स्वादुहिमैर्जयेत्
सुस्वादुलवणाम्लोष्णैः संसृष्टं वायुना कफम् १९
कृष्णां राठफलं सिन्धुं कफे कोष्णजलैः पिबेत्
पटोलवासानिम्बांश्च पित्ते शीतजलैः पिबेत् २०
सश्लेष्मवातपीडायां सक्षीरं मदनं पिबेत्
अजीर्णे कोष्णपानीयं सिन्धुं पीत्वा वमेत्सुधीः २१
वमनं पाययित्वा तु जानुमात्रासने स्थितम्
कण्ठमेरण्डनालेन स्पृशन्तं वामयेद्भिषक् २२
प्रसेको हृद्ग्रहः कोठः कण्डूर्दुश्छर्दिते भवेत्
अतिवान्ते भवेत्तृष्णा हिक्कोद्गारो विसंज्ञिता २३
जिह्वानिःसरणं चाक्ष्णोर्व्यावृत्तिर्हनुसंहतिः
रक्तच्छर्दिः ष्ठीवनञ्च कण्ठपीडा च जायते २४
वमनस्यातियोगे तु मृदु कुर्याद्विरेचनम्
वमनेन प्रविष्टायां जिह्वायां कवलग्रहाः
स्निग्धाम्ललवणैर्युक्तैर्घृतक्षीररसैर्हिताः २५
फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः
निःसृतान्तु तिलद्रा क्षाकल्कलिप्तां प्रवेशयेत् २६
व्यावृत्तेऽक्ष्णि घृताभ्यक्तेपीडनञ्च शनेः शनैः
हनुमोक्षे स्मृतः स्वेदो नस्यञ्च श्लेष्मवातहृत् २७
रक्तपित्तविधानेन रक्तष्ठीवमुपाचरेत्
धात्रीरसाञ्जनोशीरलाजाचन्दनवारिभिः २८
मन्थंकृत्वा पाययेच्च सघृतं क्षौरद्र शर्करम्
शाम्यन्त्यनेन तृष्णाऽद्या रोगाश्छर्दिसमुद्भवाः २९
हृत्कण्ठशिरसां शुद्धिर्दीप्ताग्नित्वञ्च लाघवम्
कफपित्तविनाशश्च सम्यग्वान्तस्य लक्षणम् ३०
ततोऽपराह्णे दीप्ताग्निं मुद्गषष्टिकशालिभिः
हृद्यैश्च जाङ्गलरसैः कृत्वा यूषञ्च भोजयेत् ३१
तन्द्रा निद्रा ऽस्यदौर्गन्ध्यं कण्डूश्च ग्रहणी विषम्
सुवान्तस्य न पीडायै भवन्त्येते कदाचन ३२
अजीर्णं शीतपानीयं व्यायामं मैथुनं तथा
स्नेहाभ्यङ्गञ्च रोषञ्च दिनमेकं सुधीस्त्यजेत् ३३
स्निग्धस्विन्नाय वान्ताय दद्यात्सम्यग्विरेचनम्
अवान्तस्य त्वधःस्रस्तो ग्रहणीं छादयेत्कफः ३४
मन्दाग्निं गौरवं कुर्याज्जनयेद्वा प्रवाहिकाम्
अथवा पाचनैरामं वलासं परिपाचयेत् ३५
ऋतौ वसन्ते शरदि देहशुद्धौ विरेचयेत्
अन्यदाऽत्ययिके कार्ये शोधनं शीलयेद् बुधः ३६
पित्ते विरेचनं युञ्ज्यादामोद्भूते गदे तथा
उदरे च तथाऽध्माने कोष्ठशुद्धौ विशेषतः ३७
दोषाः कादाचित्कुप्यन्ति जिता लङ्घनपाचनैः
शोधनैः शोधिता ये तु न तेषां पुनरुद्भवः ३८
बालो वृद्धो भृशं स्निग्धः क्षतक्षीणो भयान्वितः
श्रान्तस्तृषाऽत्त स्थूलश्च गर्भिणी च नवज्वरी ३९
नवप्रसूता नारी च मन्दाग्निश्च मदात्ययी
शल्यार्दितश्च रूक्षश्च न विरेच्या विजानता ४०
जीर्णज्वरी गरव्याप्तो वातरोगी भगन्दरी
अर्शः पाण्डूदरग्रन्थिहृद्रो गारुचिपीडिताः ४१
योनिरोगप्रमेहार्त्ता गुल्मप्लीहव्रणार्दिताः
विद्र धिच्छर्दिविस्फोटविसूचीकुष्ठसंयुताः ४२
कर्णनासाशिरोवक्त्रगुदमेढ्रामयान्विताः
प्लीहशोथाक्षिरोगार्त्ताः कृमिक्षारानिलार्दिताः ४३
शूलिनो मूत्रघातार्त्ता विरेकार्हा नरा मताः ४४
बहुपित्तो मृदुः कोष्ठो बहुश्लेष्मा च मध्यमः
बहुवातःक्रूरकोष्ठो दुर्विरेच्यः स कथ्यते ४५
मृद्वी मात्रा मृदौ कोष्ठे मध्यकोष्ठे च मध्यमा
क्रूरे तीक्ष्णा मता द्र व्यैर्मृदुमध्यमतीक्ष्णकैः ४६
मृदुद्रा र्क्षा!पयश्चञ्चुतैलैरपि विरिच्यते
मध्यमस्त्रिवृतातिक्ताराजवृक्षैर्विरिच्यते
क्रूरः स्नुक्पयसा हेमक्षीरीदन्तीफलादिभिः ४७
मात्रोत्तमा विरेकस्य त्रिंशद्वेगैः कफान्तिका
वेगैर्विंशतिभिर्मध्या हीनोक्ता दशवेगिका ४८
द्विपलं श्रेष्ठमाख्यातं मध्यमं च पलं भवेत्
पलार्द्धं च कषायाणां कनीयस्तु विरेचनम् ४९
कल्कमोदकचूर्णानां कर्षो मध्वाज्यलेहतः
कर्षद्वयं पलं वाऽपि वयोरोगाद्यपेक्षया ५०
पित्तोत्तरे त्रिवृच्चूर्णं द्रा क्षाक्वाथादिभिः पिबेत्
त्रिफलाक्वाथगोमूत्रैः पिबेद् व्योषं कफार्दितः ५१
त्रिवृत्सैन्धवशुण्ठीनां चूर्णमम्लैः पिबन्नेरः
वातार्दितो विरेकाय जाङ्गलानां रसेन वा ५२
एरण्डतैलं त्रिफलाक्वाथेन द्विगुणेन वा
युक्तं पीतं पयोभिर्वा न चिरेण विरिच्यते ५३
त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम्
समृद्वीकारसं क्षौद्रं वर्षाकाले विरेचनम् ५४
त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम्
द्रा क्षाऽम्बुना सयष्ट्याह्वं शीतलञ्च घनात्यये ५५
त्रिवृता चित्रकं पाठामजाजीं सरलं वचाम्
हेमक्षीरीं हेमन्ते तु चूर्णमुष्णाम्बुना पिबेत् ५६
पिप्पलद्यं नागरं सिन्धुं श्यामां त्रिवृतया सह
लिह्यात्क्षौद्रे ण शिशिरे वसन्ते च विरेचनम् ५७
त्रिवृता शर्करा तुल्या ग्रीष्मकाले विरेचनम् ५८
अथाभयादिमोदकः
अभया मरिचं शुण्ठीविडङ्गामलकानि च
पिप्पली पिप्पलीमूलं त्वक्पत्रं मुस्तमेव च ५९
एतानि समभागानि दन्ती तु त्रिगुणा भवेत्
त्रिवृताऽष्टगुणा ज्ञेया षड्गुणा चात्र शर्करा ६०
मधुना मोदकान्कृत्वा कर्षमात्रान्प्रमाणतः
एकैकं भक्षयेत् प्रातः शीतञ्चानु पिबेज्जलम् ६१
तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते
पानाहारविहारेषु भवेन्निर्यन्त्रणः सदा ६२
विषमज्वरमन्दाग्निपाण्डुकासभगन्दरान्
दुर्नामकुष्ठगुल्मार्शोगलगण्डोदरभ्रमान् ६३
विदाहप्लीहमेहांश्च यक्ष्माणं नयनामयान्
वातरोगांस्तथाऽध्मानं मूत्रकच्छ्रादि चाश्मरीम् ६४
पृष्ठपार्श्वोरुजघनजङ्घोदररुजं जयेत्
स्नेहाभ्यङ्गञ्च रोषञ्च दिनमेकं सुधीस्त्यजेत् ६५
सततं शीलनादेव पलितानि प्रणाशयेत्
अभयामोदका ह्येते रसायनवराः स्मृताः ६६
पीत्वा विरेचनं शीतजलैः संसिच्य चक्षुषी
सुगन्धि किच्चिदाघ्राय ताम्बूलं शीलयेद् बुधः ६७
निर्वातस्थो न वेगांश्च धारयेन्न शयीत च
शीताम्बु न स्पृशेत्क्वापि कोष्णनीरं पिबेन्मुहुः ६८
वलासौषधपित्तानि वायुर्वान्ते यथा व्रजेत्
रेकात्तथा मलं पित्तं भेषजञ्च कफो व्रजेत् ६९
दुर्विरिक्तस्य नाभेस्तु स्तब्धता कुक्षिशूलरुक्
पुरीषवातसङ्गश्च कण्डूमण्डलगौरवम् ७०
विदाहोऽरुचिराध्मानं भ्रमश्छर्दिश्च जायते
तं पुनः पाचनैः स्नेहैः पक्त्वा स्निग्धं तु रेचयेत्
तेनास्योपद्र वा यान्ति दीप्ताग्निर्लघुता भवेत् ७१
विरेकस्यातियोगेन मूर्च्छा भ्रंशो गुदस्य च
शूलं कफातियोगः स्यान्मांसधावनसन्निभम् ७२
मेदोनिभं जलाभासं रक्तश्चापि विरिच्यते
तस्य शीताम्बुभिः सिक्त्वा शरीरं तण्डुलाम्बुभिः ७३
मधुमिश्रैस्तथा शीतैः कारयेद्वमनं मृदु
सहकारत्वचः कल्को दध्ना सौवीरकेण वा ७४
पिष्ट्वा नाभिप्रलेपेन हन्त्यतीसारमुल्वणम्
सौवीरं तु यवैरामैः पक्वैर्वा निस्तुषीकृतैः ७५
अजाक्षीरं रसञ्चापि वैष्किरं हारिणं तथा
शालिभिः षष्टिकैस्तुल्यैर्मसूरैर्वापि भोजयेत् ७६
शीतैः संग्राहिभिर्द्र व्यैः कुर्यात्संग्रहणं भिषक्
लाघवे मनसस्तुष्टावनुलोमं गतेऽनिले ७७
सुविरिक्तं नरं ज्ञात्वा पाचनं पाययेन्निशि
इन्द्रि याणां बलं बुद्धे प्रसादो वह्निदीप्तता ७८
धातुस्थैर्यं वयःस्थैर्यं भवेद्रे चनसेवनात्
प्रवातसेवां शीताम्बुस्नेहाभ्यङ्गमजीर्णताम् ७९
व्यायामं मैथुनञ्चैव न सेवेत विरेचितः
शालिषष्टिकमुद्गाद्यैर्यवागूं भोजयेत्कृताम् ८०
जङ्घालविष्किराणां वा रसैः शाल्योदनं हितम् ८१
वस्तिर्द्विधाऽनुवासाख्यो निरूहश्च ततः परम्
यः स्नेहो दीयते स स्यादनुवासन नामकः ८२
कषायक्षीरतैलैर्यो निरूहः स निगद्यते
वस्तिभिर्दीयते यस्मात्तस्माद्वस्तिरिति स्मृतः ८३
तत्रानुवासनाख्यो हि वस्तिर्यः सोऽत्र कथ्यते
अनुवासनभेदश्च मात्रावस्तिरुदीरितः ८४
पलद्वयं तस्य मात्रा तस्मादर्द्धाऽपि वा भवेत्
अनुवास्यस्तु रूक्षः स्यात्तीक्ष्णाग्निः केवलानिली ८५
नानुवास्यस्तु कुष्ठी स्यान्मेही स्थूलस्तथोदरी
नास्थाप्या नानुवास्याश्च जीर्णोन्मादतृडर्दिताः
शोथमूर्च्छाऽरुचिभयश्वासकासक्षयातुराः ८६
नेत्रं कार्यं सुवर्णादिधातुभिर्वृक्षवेणुभिः
नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते ८७
एकवर्षात्तु षड्वर्षाद्यावन्मानं षडङ्गुलम्
ततो द्वादशकं यावन्मानं स्यादष्टसम्मितम् ८८
ततः परं द्वादशभिरङ्गुलैर्नेत्रदीर्घता
मुद्गच्छिद्रं कलायाभं छिद्रं कोलास्थिसन्निमम् ८९
यथा संख्यं भवेन्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम्
गोपुच्छसन्निमं मूले स्थूलं तस्मात् क्रमात् कृशम् ९०
आतुराङ्गुष्ठमानेन मूले स्थूलं निधीयते
कनिष्ठिकापरीणाहमग्रे च गुटिकामुखम् ९१
तन्मूले कर्णिके द्वे च कार्ये भागाच्चतुर्थकात् ९२
योजयेत्तत्र वस्तिञ्च बन्धद्वयविधानतः
मृगाजशूकरगवां महिषस्यापि वा भवेत् ९३
मूत्रकोषस्य वस्तिस्तु तदलाभे तु चर्मणः
कषायरक्तः स मृदुर्वस्तिः स्निग्धो दृढो हितः ९४
व्रणवस्तेस्तु नेत्रं स्याच्छ्लक्ष्णमष्टाङ्गुलोन्मितम्
मुद्गच्छिद्रं गृध्रपक्षनलिकापरिणाहि च ९५
शरीरोपचयं वर्णं बलमारोग्यमायुषः
कुरुते परिवृद्धिञ्च वस्तिः सम्यगुपासितः ९६
दिवा शीते वसन्ते च स्नेहवस्तिः प्रदीयते
ग्रीष्मवर्षाशरत्काले रात्रौ स्यादनुवासनम् ९७
न चातिस्निग्धमशनं भोजयित्वाऽनुवासयेत्
मदं मूर्च्छां च जनयेद् द्विधा स्नेहः प्रयोजितः ९८
रूक्षभुक्तवतोऽत्यन्तं बलं वर्णञ्च हापयेत्
युक्तस्नेहमतो जन्तुं भोजयित्वाऽनुवासयेत् ९९
हीनमात्रावुभौ वस्ती नातिकार्यकरौ स्मृतौ
अतिमात्रौ तथाऽनाहक्लमातीसारकारकौ १००
उत्तमास्यात्पलैः षड्भिर्मध्यमा स्यात्पलैस्त्रिभिः
पलाध्यर्द्धेन हीनास्यादुक्ताः मात्राऽनुवासने १०१
शताह्वासैन्धवाभ्याञ्च देयं स्नेहे च चूर्णकम्
तन्मात्रोत्तममध्यान्त्या षट्चतुर्द्वयमाषकैः १०२
विरेचनात्सप्तरात्रे गते जातबलाय च
भुक्तान्नायानुवास्याय वस्तिर्देयोऽनुवासनः १०३
तथाऽनुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः
भोजयित्चा यथाशास्त्रं कृतचङ्क्रमणं ततः
उत्सृष्टानिलविण्मूत्रं योजयेत्स्नेहबस्तिना १०४
सुप्तस्य वामपार्श्वेन वामजङ्घाप्रसारिणः
कुञ्चितापरजङ्घस्य नेत्रं स्निग्धे गुदे न्यसेत् १०५
बद्धं वस्तिमुखं सूत्रैर्वामहस्तेन धारयेत्
पीडयेद्दक्षिणेनैव मध्यवेगेन धीरधीः १०६
जृम्भाकासक्षवादींश्च वस्तिकाले न कारयेत्
त्रिंशन्मात्रामितः कालः प्रोक्तो वस्तेस्तु पीडने १०७
ततः प्रणिहिते स्नेहे उत्तानो वाक्शतं भवेत्
प्रसारितः सर्वगात्रैर्यथावीर्यं प्रसर्पति १०८
स्वजानुनः करावर्त्तं कुर्याच्छोटिकया पुनः
एषा मात्रा भवेदेका सर्वत्रैवैष निश्चयः १०९
निमेषोन्मेषणं पुंसामङ्गुल्या छोटिकाऽथ वा
गुर्वक्षरोच्चारणं वा स्यान्मात्रेयं स्मृता बुधैः ११०
ताडयेत्तलयोरेनं त्रींस्त्रीन्वाराञ्छनैः शनैः
स्फिजोश्चैव तथा श्रोणीं शय्याञ्चैवोत्क्षिपेत्ततः १११
स्फिजोश्चैनं स्वपाणिभ्यां पूर्ववत्ताडयेद् बुधः ११२
शय्याञ्च पादतस्तस्य त्रीन्वारानुत्क्षिपेत्ततः
जाते विधाने तु ततः कुर्यान्निद्रा ं! यथासुखम् ११३
सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु
उपद्र वं विना शीघ्रं स सम्यगनुवासितः ११४
जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः
लघ्वन्नं भोजयेत्कामं दीप्ताग्निस्तु नरो यदि ११५
अनुवासिताय दातव्यमितरेऽह्नि सुखोदकम्
धान्यशुण्ठीकषायं वा स्नेहव्यापत्तिनाशनम् ११६
अनेनविधिना षड्वा सप्त चाष्टौ नवापि वा
विधेया वस्तयस्तेषामन्ते चैव निरूहणम् ११७
दत्तस्तु प्रथमो वस्तिः स्नेहयेद्वस्तिवङ्क्षणौ
सम्यग्दत्तो द्वितीयस्तु मूर्द्धस्थमनिलं जयेत् ११८
बलं वर्णश्च जनयेत्तृतीयस्तु प्रयोजितः
चतुर्थपञ्चमौ दत्तौ स्नेहयेतां रसासृजी ११९
षष्ठो मांसं स्नेहयति सप्तमो मेद एव च
अष्टमो नवमश्चापि मज्जानञ्च यथाक्रमम् १२०
एवं शुक्रगतान्दोषान्द्विगुणः साधु साधयेत् १२१
अष्टादशाष्टादशकाद्दिनाद्यो ना निषेवते
स कुञ्जरबलोऽश्वस्य जवतुल्योऽमरप्रभः १२२
रूक्षाय बहुवाताय स्नेहवस्तिं दिने दिने
दद्याद्वैद्यस्तथाऽन्येषामग्न्याबाधभयात् त्र्! यहात्
स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः १२३
तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते
अथ वा यस्य तत्कालं स्नेहो निर्याति केवलः
तस्याप्यल्पतरो देयो न हि स्निग्धेऽवतिष्ठते १२४
अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः
तदाऽङ्गसदनध्माने शूलं श्वासश्च जायते १२५
पक्वाशये गुरुत्वञ्च तत्र दद्यान्निरूहणम्
तीक्ष्णं तीक्ष्णोषधैर्युक्तं फलवर्त्तिमथापि वा १२६
यथाऽनुलोमनो वायुर्मलः स्नेहश्च जायते
तथा विरेचनं दद्यात्तीक्ष्णं नस्यञ्च शस्यते १२७
यस्य नोपद्र वं कुर्यात्स्नेहवस्तिरनिःसृतः
सर्वोऽल्पो व्यावृतो रौक्ष्यादुपेक्ष्यः स विजानता १२८
अनायातं त्वहोरात्रे स्नेहं संशोधनैर्हरेत्
स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते १२९
गुडूच्येरण्डपूतीकभार्ङ्गींवृषकरौहिषम्
शतावरीसहचरौ काकनासां पलोन्मिताम् १३०
यवमाषातसीकोलकुलत्थान्प्रसृतोन्मितान्
चतुद्रो र्णे!ऽम्भसः पक्त्वा द्रो णशेषेण तेन च १३१
पचेत्तैलाढकं सर्वैर्जीवनीयैः पलोन्मितैः
अनुवासनमेतद्धि सर्ववातविकारनुत् १३२
षटसप्ततिव्यापदस्तु जायन्ते बस्तिकर्मणः
दूषितात् समुदायेन ताश्चिकित्स्यास्तु सुश्रुतात् १३३
पानाहारविहाराश्च परिहाराश्च कृत्स्नशः
स्नेहपानसमाः कार्य्या नात्र कार्या विचारणा १३४
निरूहवस्तिर्बहुधा भिद्यते कारणान्तरः
तैरेव तस्य नामानि कृतानि मुनिपुङ्गवैः १३५
निरूहस्यापरं नाम प्रोक्तमास्थापनं बुधैः
स्वस्थाने स्थापनाद्दोषधातूनां स्थापनं मतम् १३६
निरूहस्य प्रमाणं तु प्रस्थं पादोत्तरं परम्
मध्यमं प्रस्थमुद्दिष्टं हीनञ्च कुडवास्त्रयः १३७
अतिस्निग्धोऽक्लिष्टदोषः क्षतोरस्कः कृशस्तथा
आध्मानच्छर्दिहिक्काऽशकासश्वासप्रपीडितः १३८
गुदशोफातिसारार्त्तो विसूचीकुष्ठसंयुतः
गर्भिणी मधुमेही च नास्थाप्यश्च जलोदरी १३९
वातव्याधावुदावर्ते वातासृग्विषमज्वरे
मूर्च्छातृष्णोदरानाहमूत्रकृच्छ्राश्मरीषु च १४०
वृद्ध्य्सृग्दरमन्दाग्निप्रमेहेषु निरूह्रणम्
शूलेऽम्लपित्ते हृद्रो गे योजयेद्विधिवद् बुधः १४१
उत्सृष्टानिलविण्मूत्रं स्निग्धं स्विन्नमभोजितम्
मध्याह्ने गृहमध्ये च यथायोग्यं निरूहयेत् १४२
स्नेहवस्तिविधानेन बुधः कुर्यान्निरूहणम् १४३
जाते निरूहे च ततो भवेदुत्कटकासनः
तिष्ठेन्महूर्त्तमात्रन्तु निरूहागमनेच्छया १४४
अनायातं मुहूर्त्तं तु निरूहं शोधनैर्हरेत्
निरूहैरेव मतिमान्क्षारसूत्राम्लसैन्धवैः १४५
यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः
लाघवं चोपजायेत सुनिरूहं तमादिशेत् १४६
यस्य स्याद्वस्तिरत्यल्पवेगो हीनमलानिलः
मूर्च्छाऽत्तिजाड्यारुचिमान्दुर्निरूहं तमादिशेत् १४७
विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः
आस्थापनस्नेहवस्त्योः सम्यग्दाने तु लक्षणम् १४८
अनेन विधिना युञ्ज्यान्निरूहं वस्तिदानवित्
द्वितीयं वा तृतीयं वा चतुर्थं वा यथोचितम् १४९
सस्नेह एकः पवने पित्ते द्वौ पयसा सह
कषायकटुमूत्राद्याः कफेऽत्युष्णास्त्रयो हिताः १५०
पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात्
निरूढं भोजयित्वा च ततस्तमनुवासयेत् १५१
सुकुमारस्य वृद्धस्य बालस्य च मृदुर्हितः
वस्तिस्तीक्ष्णः प्रयुक्तस्तु तेषां हन्याद्बलायुषी १५२
दद्यादुत्क्लेशनं पूर्वं मध्ये दोषहरं ततः
पश्चात्संशमनीयञ्च दद्याद्वस्तिं विचक्षणः १५३
एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा
हपुषाफलकल्कश्च वस्तिरुत्क्लेशनः स्मृतः १५४
शताह्वा मधुकं बिल्वं कौटजं फलमेव च
सकाञ्जिकः सगोमूत्रो वस्तिर्दोषहरः स्मृतः १५५
प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम्
सक्षीरः शस्यते वस्तिर्दोषाणां शमनः स्मृतः १५६
त्रिफलाक्वाथगोमूत्रक्षौद्र क्षारसमायुतः
ऊषकादिप्रतीवापैर्वस्तयोलेखनाः स्मृताः १५७
बृंहणद्र व्यनिक्वाथैः कल्कैर्मधुरकैर्युताः
सर्पिर्मांसरसोपेता वस्तयो बृंहणाः स्मृताः १५८
बदर्यैरावतीशेलुशाल्मलीपुष्पजाङ्कुराः
क्षीरसिद्धाःक्षौद्र युक्ता नाम्ना पिच्छलसंज्ञिताः १५९
अजोरभ्रैणरुधिरैर्युक्ता देया विचक्षणैः
मात्रा पिच्छिलवस्तीनां पलैर्द्वादशभिर्मता १६०
दत्त्वादौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम्
विनिर्मथ्य ततो दद्यात्स्नेहस्य प्रसृतित्रयम् १६१
एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत्
सम्मूर्च्छिते कषायन्तु चतुः प्रसृतिसम्मितम् १६२
गृह्णीयाच्च तदा वाऽल्पमन्ते द्विप्रसृतोन्मितम्
क्षिप्त्वा विमथ्य दद्याच्च निरूहं कुशलो भिषक् १६३
एवं प्रकल्पितो वस्तिर्द्वादशप्रसृतिर्भवेत्
वाते चतुष्पलं क्षौद्रं दद्यात् स्नेहस्य षट्पलम् १६४
पित्ते चतुष्पलं क्षौद्रं स्नेहं दद्यात्पलत्रयम्
कफे तु षट्पलं क्षौद्रं क्षिपेत् स्नेहं चतुष्पलम् १६५
एरण्डक्वाथतुल्यांशं मधुतैलं पलाष्टकम्
शतपुष्पापलार्द्धेन सैन्धवार्द्धेन संयुतम्
मधुतैलकसंज्ञोऽय वस्तिर्दारुविलोडितः १६६
मेदोगुल्मकृमिप्लीहमलोदावर्तनाशनः
बलवर्णकरश्चैव वृष्यो दीपनबृंहणः १६७
क्षौद्रा ज्यक्षीरतैलानां प्रसृतं प्रसृतं भवेत्
हपुषासैन्धवाक्षांशो वस्तिः स्याद्यापनः परः १६८
एरण्डमूलनिक्वाथो मधुतैलं ससैन्धवम्
एष युक्तरथो वस्तिः सवचापिप्पलीफलः १६९
पञ्चमूलस्य निक्वाथैस्तैलं मागधिका मधु
ससैन्धवः सयष्ट्याह्वः सिद्धवस्तिरिति स्मृतः १७०
स्नानमुष्णोदकैः कुर्याद्दिवास्वप्नमजीर्णताम्
वर्जयेदपरं सर्वमाचरेत्स्नेहवस्तिवत् १७१
अतः परं प्रवक्ष्यामि वस्तिमुत्तरसंज्ञितम्
निरूहादुत्तरो यस्मात्तस्मादुत्तरसंज्ञकः १७२
द्वादशाङ्गुलकं नेत्रं मध्ये च कृतकर्णिकम्
मालतीपुष्पवृन्ताभं छिद्रं सर्षपनिर्गमम् १७३
पञ्चविंशतिवर्षाणामधोमात्रा द्विकार्षिकी
तदूर्ध्वं पलमात्रा च स्नेहस्योक्ता भिषग्वरैः १७४
अथास्थापनशुद्धस्य तृप्तस्य स्नानभोजनैः
स्थितस्य जानुमात्रे च पिष्टे स्निग्धे शलाकया १७५
स्निग्धया मेढ्रमार्गे तु तत्रो नेत्रं नियोजयेत्
शनैः शनैर्घृताभ्यक्तं मेढ्ररन्ध्राङ्गुलानि षट् १७६
ततोऽवपीडयेद्बस्तिं शनैर्नेत्रं विनिर्हरेत्
ततः प्रत्यागते स्नेहे स्नेहवस्तिंक्रमो हितः १७७
स्त्रीणां कनिष्ठिकास्थूलं नेत्रं कुर्याद् दशाङ्गुलम्
मुद्गप्रवेशयोग्यञ्च योन्यन्तश्चतुरङ्गुलम् १७८
द्व्यङ्गुलं मूत्रमार्गे च सूक्ष्मं नेत्रं नियोजयेत्
मूत्रकृच्छ्रविकारेषु बालानां त्वेकमङ्गुलम् १७९
शनैर्निष्कम्पमाधेयं सूक्ष्मं नेत्रं विचक्षणैः
मालतीपुष्पवृन्ताभं नेत्रमित्युदितं पुनः १८०
योनिमार्गेषु नारीणां स्नेहमात्रा द्विपालिकी
मूत्रमार्गे पलोन्माना बालानां च द्विकार्षिकी १८१
उत्तानायै स्त्रियै दद्यादूर्ध्वजान्वै विचक्षणः
अप्रत्यागच्छति भिषग् वस्तावुत्तरसंज्ञिते १८२
भूयो वस्तिं विदध्याच्च संयुक्तं शोधनैर्गुणैः
फलवर्त्तिं विदध्याद् वा योनिमार्गे दृढां भिषक् १८३
सूत्रैर्विनिर्मितां स्निग्धां शोधनद्र व्यसंयुताम् १८४
दह्यमाने तथा वस्तौ दद्याद्वस्तिं विशारदः
क्षीरिवृक्षकषायेण पयसा शीतलेन वा १८५
वस्तिः शुक्ररुजः पुंसां स्त्रीणामार्त्तवजा रुजः
हन्यादुत्तरवस्तिस्तु नोचितो मेहिने क्वचित् १८६
सम्यग्दत्तस्य लिङ्गानि व्यापदः क्रम एव च
वस्तेरुत्तरसंज्ञस्य समानाः स्नेहवस्तिना १८७
घृताभ्यक्ते गुदे क्षिप्ता श्लक्ष्णा स्वाङ्गुष्ठसन्निभा
मलप्रवर्त्तिनी वर्त्तिः फलवर्त्तिश्च सा स्मृता १८८
नस्यं तत्कथ्यते धीरैर्नासाग्राह्यं यदौषधम्
नावनं नस्यकर्मेति तस्य नामद्वयं मतम् १८९
नस्यभेदो द्विधा प्रोक्तो रेचनं स्नेहनं तथा
रेचनं कर्षणं प्रोक्तं स्नेहनं वृंहणं मतम् १९०
कफपित्तानिलध्वंसि पूर्वमध्यापराह्णके
दिनस्य गृह्यते नस्यं रात्रावप्युत्कटे गदे १९१
नस्यं त्यजेद्भोजनान्ते दुर्दिने चापतर्पितः
तथा नवप्रतिश्यायी गर्भिणी गरदूषितः
अजीर्णी दत्तवस्तिश्च पीतस्नेहोदकासवः १९२
क्रुद्धः शोकाभिभूतश्च तृषार्त्तो वृद्धबालकौ
वेगावरोधी श्रान्तश्च स्नातुकामश्च वर्जयेत् १९३
अष्टवर्षस्य बालस्य नस्यकर्म समाचरेत्
अशीतिवर्षादूर्ध्वञ्च नावनं नैव दीयते १९४
अथ वैरेचनं नस्यं ग्राह्यं तैलैः सुतीक्ष्णकैः
तीक्ष्णैः भेषजसिद्धैर्वा स्नेहैः क्वाथै रसैस्तथा १९५
नासिकारन्ध्रयोरष्टौ षट् चत्वारश्च बिन्दवः
प्रत्येकं रेचनं योग्यं मुख्यमध्याल्पमात्रया १९६
नस्यकर्मणि दातव्यं शाणैकं तीक्ष्णमौषधम्
हिङ्गु स्याद्यवमात्रन्तु माषैकं सैन्धवं मतम् १९७
क्षीरं चैवाष्टशाणं स्यात्पानीयञ्च त्रिकार्षिकम्
कार्षिकं मधुरद्र व्यं नस्यकर्मणि योजयेत् १९८
अवपीडः प्रधमनं द्वौ भेदावपरौ स्मृतौ
शिरोविरेचनस्याथ तौ तु देयौ यथायथम् १९९
कल्कीकृतादौषधाद्यः पीडितो निःसृतो रसः
सोऽवपीडः समुद्दिष्टस्तीक्ष्णद्र व्यसमुद्भवः २००
षडङ्गुला द्विवक्त्रा या नाडी चूर्णं तथा धमेत्
तीक्ष्णं कोलमितं वक्त्रवातैः प्रधमनं हितम् २०१
ऊर्ध्वजत्रुगते रोगे कफजे स्वरसंक्षये
अरोचके प्रतिश्याये शिरःशूले च पीनसे २०२
शोफापस्मारकुष्ठेषु नस्यं वैरेचनं हितम्
भीरुस्त्रीकृशबालानां नस्यं स्नेहेन शस्यते २०३
गलरोगे सन्निपाते निद्रा यां विषमज्वरे
मनोविकारे कृमिषु पूज्यते चावपीडनम् २०४
अत्यन्तोत्कटदोषेषु विसंज्ञेषु च दीयते
चूर्णं प्रधमनं धीरैस्तद्धि तीक्ष्णतरं यतः २०५
नस्यं स्याद् गुडशुण्ठीभ्यां पिप्पलीसैन्धवेन वा
जलपिष्टेन कर्णाक्षिनासामूर्द्धभवा गदाः २०६
मन्याहनुगलोद्भूता नश्यन्ति भुजपृष्ठजाः
मधूकसारकृष्णाभ्यां वचामरिचसैन्धवैः २०७
नस्यं कोष्णाम्भसा पिष्टं दद्यात्संज्ञाप्रबोधनम्
अपस्मारे तथोन्मादे सन्निपातेऽपतन्त्रके २०८
सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव च
बस्तमूत्रेण संपिष्टं नस्यं तन्द्रा निवारणम् २०९
रोहितस्य च पित्तेन भावितं मरिचं वचा
कट्फलं चेति तच्चूर्णं देयं प्रधमनं वुधैः २१०
अथ बृंहणनस्यस्य कल्पना कथ्यतेऽधुना
मर्शश्च प्रतिमर्शश्च द्वौ भेदौ स्नेहने मतौ २११
मर्शस्य तर्पणी मात्रा मुख्या शाणैः स्मृताऽष्टभिः
मध्यमा तु चतुःशाणैर्हीना शाणमिता मता २१२
एकैकस्मिंस्तु मात्रेयं देया नासापुटे बुधैः २१३
मर्शस्य द्वित्रिवेलं वा वीक्ष्य दोषबलाबलम्
एकान्तरं द्वयन्तरं वा नस्यं दद्याद्विचक्षणः २१४
त्र्! यहं पञ्चाहमथवा सप्ताहं वा सुयन्त्रितः २१५
मर्शे शिरोविरेके च व्यापदो विविधाः स्मृताः
दोषोत्क्लेशात्क्षयाच्चैव विज्ञेयास्ता यथाक्रमम्
दोषोत्क्लेशनिमित्तासु युञ्ज्याद्वमनशोधनम् २१६
अथ क्षयनिमित्तासु यथास्वं बृंहणं हितम्
शिरोनासाऽक्षिरोगेषु सूर्यावर्त्तार्द्धभेदके २१७
दन्तरोगे बले हीने मन्याबाह्वंसजे गदे
मुखशोषे कर्णनादे वातपित्तगदे तथा २१८
अकालपलिते चैव केशश्मश्रुप्रपातने
पूज्यते बृंहणं नस्यं स्नेहैर्वा मधुरद्र वैः २१९
सशर्करं पयःपिष्टं भृष्टमाज्येन कुङ्कुमम्
नस्यप्रयोगतो हन्याद्वातरक्तभवा रुजः
भ्रूशङ्खाक्षिशिरःकर्णसूर्यावर्त्तार्द्धभेदकान् २२०
नस्यं स्यादणुतैलेन तथा नारायणेन वा
माषादिना वा सर्पिर्भिस्तत्तद्भेषजसाधितैः २२१
तैलं कफे स्याद्वाते च केवले पवने वसाम्
दद्यान्नस्यं सदा पित्ते सर्पिर्मज्जानमेव च २२२
माषात्मगुप्तारास्नाभिर्बलारुबुकरौहिषैः
कृतोऽश्वगन्धया क्वाथो हिङ्गुसैन्धवसंयुतः २२३
कोष्णो नस्यप्रयोगेण पक्षाघातं सकम्पनम्
जयेदर्दितवातञ्च मन्यास्तम्भावबाहुकौ २२४
प्रतिमर्शस्य मात्रा तु द्वित्रिविन्दुमिता मता
प्रत्येकशो नासिकया स्नेहनेति विनिश्चितम् २२५
स्नेहे ग्रन्थिद्वयं यावन्निमग्ना चोद्धृता ततः
तर्जनी यं स्रवेद्बिन्दुं सा मात्रा बिन्दुसंज्ञिता २२६
एवंविधैर्बिन्दुसंज्ञैरष्टाभिः शाण उच्यते
स देयो मर्शनस्येषु प्रतिमर्शो द्विबिन्दुकः २२७
समयाः प्रतिमर्शस्य बुधैः प्रोक्ताश्चतुर्दश
प्रभाते दन्तकाष्ठान्ते गृहान्निर्गमने तथा २२८
व्यायामाध्वव्यवायान्ते विण्मूत्रान्तेऽञ्जने कृते
कवलान्ते भोजनान्ते दिवास्वप्नोस्त्थिते तथा २२९
वमनान्ते तथा सायं प्रतिमर्शः प्रयुज्यते २३०
रीषदुच्छिक्कनात्स्नेहो यथा वक्त्रं प्रपद्यते
नस्ये निषिक्तं तं विद्यात्प्रतिमर्शप्रमाणतः २३१
उच्छिष्टं न पिबेन्नैव निष्ठीवेन्मुखमागतम् २३२
क्षीणे तृष्णाऽस्यशोषार्त्ते बाले वृद्धे च पूज्यते
प्रतिमर्शान्न जायन्ते रोगाश्चैवोर्ध्वजत्रुजाः
बलीपलितनाशश्च बलमिन्द्रि यजं भवेत् २३३
बिभीतनिम्बौ गाम्भारी शिवा शेलुश्च काकिनी
एकैकतैलनस्येन पलितं नश्यति ध्रुवम् २३४
अथ नस्यविधिं वक्ष्ये नस्यग्रहणहेतवे
देशेवातरजोमुक्ते कृतदन्तनिघर्षणम् २३५
विशुद्धं धूमपानेन स्विन्नभालगलं तथा
उत्तानशायिनं किञ्चित्प्रलम्बशिरसं नरम् २३६
आस्तीर्णहस्तपादञ्च वस्त्राच्छादितलोचनम्
समुन्नामितनासाऽग्र वैद्यो नस्येन योजयेत् २३७
कोष्णेनाच्छिन्नधारेण हेमतारादिशुक्तिभिः
शुक्त्या वा यन्त्रयुक्त्या वा प्लोतैर्वा नस्यमाचरेत् २३८
नस्येष्वासिच्यमानेषु सिरो नैव प्रकम्पयेत्
न कुप्येन्न प्रभाषेत नोच्छिक्केन्न हसेत्तथा २३९
एतैर्हि विहितः स्नेहो नैवान्तं सम्प्रपद्यते
ततः कासप्रतिश्यायशिरोऽक्षिगदसम्भवः २४०
शृङ्गाटकमभिव्याप्य स्थापयेन्न गिलेद् द्र वम्
पञ्च सप्त दशैव स्युर्मात्राः स्नेहस्य धारणे २४१
उपविश्याथ निष्ठीवेन्नासावक्त्रागतं द्र वम्
वामदक्षिणपार्श्वाभ्यां निष्ठीवेत्संमुखं न हि २४२
नीते नस्ये मनस्तापं रजःक्रोधञ्च सन्त्यजेत्
शयीत निद्रा ं! त्यक्त्वा च प्रोत्तानो वाक्छतं नरः २४३
तथा शिरोविरेकान्ते धूमो वा कवलो हितः
नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः २४४
शुद्धहीनातियोगा हि विज्ञेयाः शास्त्रचिन्तकैः
लाघवं मलसंशुद्धिः स्रोतसां व्याधिसंक्षयः
चित्तेन्द्रि यप्रसादश्च शिरसः शुद्धिलक्षणम् २४५
कण्डूःप्रदेहो गुरुता स्रोतसां कफसंस्रवः
मूर्ध्नि हीनाविशुद्धेस्तु लक्षणं परिकीर्त्तितम् २४६
मस्तुलुङ्गागमो वातवृद्धिरिन्द्रि यविभ्रमः
शून्यता शिरसश्चापि मूर्ध्नि गाढं विरेचिते २४७
हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत्
तत्र हीनेन नस्येन शुद्धे वातघ्नमाचरेत् २४८
सम्यग्विशुद्धे शिरसि सर्पिर्नस्येन दीयते
कफप्रसेकः शिरसो गुरुतेन्द्रि यविभ्रमः २४९
लक्षणं तदतिस्निग्धे तत्र रूक्षं प्रदापयेत्
भोजयेच्चानभिष्यन्दि नस्ये वातिकमादिशेत् २५०
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे परिभाषाऽदिप्रकरणे पञ्चमं पञ्चकर्मविधिप्रकरणं समाप्तम् ५

धूमपानादिविधिप्रकणम्[सम्पाद्यताम्]

अथ षष्ठं धूमपानादिविधिप्रकणम् ६
धूमस्तु षड्विधः प्रोक्तः शमनो बृंहणस्तथा
रेचनः कासहा चैव वामनो व्रणधूपनः १
शमनस्य तु पर्यायौ मध्यः प्रायोगिकस्तथा
बृंहणस्य च पर्यायौ स्नेहनो मृदुरेव च २
रेचनस्यापि पर्यायौ शोधनस्तीक्ष्ण एव च
अधूमार्हाश्च खल्वेते श्रान्तो भीतश्च दुःखितः ३
दत्तवस्तिर्विरिक्तश्च रात्रौ जागरितस्तथा
पिपासितश्च दाहार्त्तस्तालुशोषी तथोदरी ४
शिरोऽभितापी तिमिरी छर्द्याध्मानप्रपीडितः
क्षतोरस्कः प्रमेहार्त्तः पाण्डुरोगी च गर्भिणी ५
रूक्षः क्षीणोऽभ्यवहृतक्षीरक्षौद्र घृतासवः
भुक्तान्नदधिमत्स्यश्च बालो वृद्धः कृशस्तथा ६
अकाले चातिपीतश्च धूमः कुर्यादुपद्र वान्
तत्रेष्टं सर्पिषः पानं नावनाञ्जनतर्पणम् ७
सर्पिरिक्षुरसं द्रा क्षां पयो वा शर्कराऽम्बु वा
मधुराम्लौ रसौ वाऽपि वमनाय प्रदापयेत् ८
धूमस्तु द्वादशाद्वर्षाद् गृह्यतेऽशीतिकान्न च
कासश्वासप्रतिश्यायान् मन्याहनुशिरोरुजः ९
वातश्लेष्मविकारांश्च हन्याद्धूमः सुयोजितः
धूमोपयोगात्पुरुषः प्रसन्नेन्द्रि यवाङ्मनाः
दृढकेशद्विजश्मश्रुः सुगन्धिवदनो भवेत् १०
धूमनाडी भवेत्तत्र त्रिखण्डा च त्रिपर्विका
कनिष्ठिकापरीणाहा राजमाषागमान्तरा ११
धूमपानी भवेद्दीर्घा शमने रोगिणोऽङ्गुलैः
चत्वारिंशन्मितैस्तद्वद् द्वात्रिंशद्भिर्मृदौ मता १२
तीक्ष्णे चतुर्विंशतिभिः कासघ्ने षोडशोन्मित्! १३
दशाङ्गुलैर्वामनीये तथा स्याद् व्रणनाडिका
कलायमण्डलस्थूला कुलत्थागमरन्ध्रिका १४
अथेषिकां प्रलिम्पेच्च सुश्लक्ष्णां द्वादशाङ्गुलाम्
धूमद्र व्यस्य कल्केन लेपश्चाष्टाङ्गुलः स्मृतः १५
कल्कं कर्षमितं लिप्त्वा छायाशुष्कञ्च कारयेत्
ईषिकामपनीयाथ स्नेहाक्तां वर्त्तिमादरात् १६
अङ्गारैर्दीपितां कृत्वा धृत्वा नेत्रस्य रन्ध्रके
वदनेन पिबेद् धूमं वदनेनैव संत्यजेत् १७
नासिकाभ्यां ततः पीत्वा मुखेनैव वमेत्सुधीः
शरावसम्पुटे क्षिप्त्वा कल्कमङ्गारदीपितम्
छिद्रे नेत्रं निवेश्याथ व्रणं तेनैव धूपयेत् १८
एलादिकल्कं शमने स्निग्धं सर्जरसं मृदौ १९
रेचने तीक्ष्णकल्कञ्च श्वासघ्ने क्षुद्र कोषणम्
वामने स्नायुचर्माढ्यं दद्याद्धूमस्य पानकम् २०
व्रणे निम्बवचाद्यश्च धूपनं संप्रशस्यते
अन्येऽपि धूमा गेहेषु कर्त्तव्या रोगशान्तये २१
मयूरपिच्छं निम्बस्य पत्राणि बृहतीफलम्
मरिचं हिङ्गु मांसी च बीजं कार्पाससम्भवम् २२
छागरोमाहिनिर्मोको विष्ठा वैडालिकी तथा
गजदन्तश्च तच्चूर्णं किञ्चिद्घृतविमिश्रितम् २३
गेहेषु धूपनं दत्तं सर्वान् बालग्रहान् हरेत्
पिशाचान् राक्षसान् हत्वा सर्वज्वरहरं भवेत् २४
मनस्तापं रजःक्रोधौ धूमपाने निवारयेत्
नेत्राणि धातुजान्याहुर्नलवंशादिजान्यपि २५
स्नेहक्षीरकषायादिद्र वैः सम्पूर्णमाननम्
आपूर्य स्थीयते तावद्विधिर्गण्डूषधारणे २६
कफपूर्णास्यता यावच्छेदो दोषस्य वा भवेत्
नेत्रघ्राणस्रुतिर्यावत्तावद्गण्डूषधारणम् २७
गण्डूषान् सुस्थितः कुर्य्यात्स्विन्नभालगलादिकः
मनुष्यस्त्रींस्तथा पञ्च सप्त वाऽदोषनाशनात् २८
चतुर्विधः स्याद् गण्डूषः स्नेहनः शमनस्तथा
शोधनो रोपणश्चैव कवलश्चापि तादृशः २९
स्निग्धोष्णैः स्नैहिको वाते स्वादुशीतैः प्रसादनः
पित्ते कट्वम्ललवणैरुष्णैः संशोधनः कफे
कषायतिक्तमधुरैः कटूष्णो रोपणो व्रणे ३०
दद्याद् द्र व्येषु चूर्णञ्च गण्डूषे कोलमात्रकम्
कर्षप्रमाणः कल्कश्च कवले दीयते बुधैः ३१
धार्यन्ते पञ्चमाद्वर्षाद्गण्डूषाः कवलादयः ३२
व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम्
इन्द्रि याणां प्रसादश्च गण्डूषे विधृते भवेत् ३३
हरेदास्यस्य वैरस्यं शोषं पाकं व्रणं तृषाम्
दन्तचालञ्च गण्डूषो वैशद्यं तु करोति हि ३४
वातपित्तकफघ्नस्य द्र व्यस्य कवलं मुखे
अर्द्धं निक्षिप्य संचर्व्य निष्ठीवेत्कवले विधिः ३५
कवलः कुरुते काङ्क्षां भक्ष्येषु हरते कफम्
तृष्णां शोषञ्च वैरस्यं दन्तचालञ्च नाशयेत् ३६
दन्त जिह्वामुखानां यच्चूर्णकल्कावलेहकैः
शनैर्घर्षणमङ्गुल्या तदुक्तं प्रतिसारणम् ३७
वैरस्यं मुखदौर्गन्ध्यं मुखशोषं तथा तृषाम्
अरुचिं दन्तपीडाञ्च निहन्ति प्रतिसारणम् ३८
हीने जाड्यकफोत्क्लेशावरसज्ञानमेव च
अतियोगान्मुखे पाकः शोषस्तृष्णावमिः क्लमः ३९
स्वेदश्चतुर्विधः प्रोक्तस्तापोष्मस्वेदसंज्ञितः
उपनाहो द्र वः स्वेदः सर्वे वातार्त्तिहारिणः ४०
स्वेदौ तापोष्मजौ प्रायः श्लेष्मघ्नौ समुदीरितौ
उपनाहस्तु वातघ्नः पित्तसङ्गे द्र वो हितः ४१
महाबले महाव्याधौ शीते स्वेदो महान् स्मृतः
दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो मतः
बलासे रूक्षणः स्वेदो रूक्षस्निग्धः कफानिले ४२
कफमेदोवृते वाते कोष्णं गेहं रवेः करान्
नियुद्धं मार्गगमनं गुरु प्रावरणं ध्रुवम् ४३
चिन्ताव्यायामभारांश्च सेवेतामयमुक्तये
येषां नस्यं प्रदातव्यं वस्तिश्श्चापि हि देहिनाम् ४४
शोधनीयाश्च ये केचित् पूर्वं स्वेद्याश्च ते मताः
स्वेद्या ऊर्ध्वं त्रयोऽपीह भगन्दर्यर्शसस्तथा ४५
अश्मर्या चातुरो जन्तुः शययेच्छस्त्रकर्मणः ४६
पश्चात्स्वेद्या हृते शल्ये मूढगर्भगदे तथा
काले प्रजाताऽकाले वा पश्चात्स्वेद्या नितम्बिनी ४७
सर्वान्स्वेदान्निवाते च जीर्णेऽन्ने वाऽवचारयेत्
स्वेदाद्धातुस्थिता दोषाः स्नेहक्लिन्नस्य देहिनः ४८
द्र वत्वं प्राप्य कोष्ठान्तर्गत्वा यान्ति विरेकताम्
स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी
स्वेद्यमानशरीरस्य हृदयं शीतलः स्पृशेत् ४९
अजीर्णी दुर्बली मेही क्षतक्षीणः पिपासितः ५०
अतिसारी रक्तपित्ती पाण्डुरोगी तथोदरी
मेदस्वी गर्भिणी चैव न हि स्वेद्या विजानता ५१
स्वेदादेषां याति देहो विनाशं नो साध्यत्वं यान्ति तेषां विकाराः ५२
एतानपि मृदुस्वेदैः स्वेदसाध्यानुपाचरेत्
मृदुस्वेदं प्रयुञ्जीत तथा हृन्मुष्कदृष्टिषु ५३
अतिस्वेदात्सन्धिपीठा दाहस्तृष्णा क्लमो भ्रमः
पित्तासृक्पिडिकाकोपस्तत्र शीतैरुपाचरेत् ५४
तेषु तापाभिधः स्वेदो बालुकावस्त्रपाणिभिः
कपालकन्दुकाङ्गारैर्यथायोग्यं हि जायते ५५
प्रतप्तैरम्लसिक्तैश्च कायेऽलक्तकवेष्टिते
ऊष्मस्वेदः प्रयोक्तव्यो लोहपिण्डेष्टकादिभिः
अथवा वातनिर्णाशिद्र व्यक्वाथरसादिभिः ५६
उष्णैर्घटं पूरयित्वा पार्श्वे छिद्रं विधाय च
विमुद्र य्स्यां त्रिखण्डां च धातुजां काष्ठजामुत ५७
षडङ्गुलास्यां गोपुच्छां नाडीं युञ्ज्याद् द्विहस्तकाम्
सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम्
हस्तिशुण्डिकया नाड्या स्वेदयेद्वातरोगिणम् ५८
पुरुषायाममात्रां वा भूमिं सम्मार्ज्य खादिरैः
काष्ठैर्दग्ध्वा तथाऽभ्युक्ष्य क्षीरधान्याम्लवारिभिः ५९
वातघ्नपत्रैराच्छाद्य शयानं स्वेदयेन्नरम्
एवं माषादिभिः स्विन्नैः शयानं स्वेदमाचरेत् ६०
अथोपनाहस्वेदञ्च कुर्याद्वातहरौषधैः
प्रदिह्य देहं वातार्त्तं क्षीरमांसरसादिभिः ६१
अम्लपिष्टैः सलवणैः सुखोष्णैः स्नेहसंयुतैः
अथ ग्राम्यानूपमांसैर्जीवनीयगणेन च ६२
दधिसौवीरकक्षीरैर्वीरतर्वादिना तथा
कुलत्थमाषगोधूमैरतसीतिलसर्षपैः ६३
शतपुष्पादेवदारुशेफालीस्थूलजीरकैः
एरण्डमूलजीरैश्च रास्नामूलकशिग्रुभिः ६४
मिसिकृष्णाकुठेरैश्च लवणैरम्लसंयुतैः
प्रसारण्यश्वगन्धाभ्यां बलाभिर्दशमूलकैः ६५
गुडूच्या वानरीवीजैर्यथालाभसमाहृतैः
क्षुण्णैः स्विन्नैश्च वस्त्रेण बद्धैः संस्वेदयेन्नरम् ६६
महाशाल्वणसंज्ञोऽय योगः सर्वानिलार्त्तिहृत् ६७
अथवाऽम्लेन सम्पिष्टैः कोष्णैःसूक्ष्मपटस्थितैः
भेषजैः स्वेदयेत् किं वा स्विन्नैः कोष्णैः पटस्थितैः ६८
द्र वस्वेदस्तु वातघ्नद्र व्यक्वाथेन पूरिते
कटाहे कोष्ठके वाऽपि सूपविष्टोऽवगाहयेत् ६९
सौवर्णं राजतं वापि ताम्रं लौहञ्च दारुजम्
कोष्ठकं तत्र कुर्वीतोच्छ्राये षड्विंशदङ्गुलम्
आयामे वा तदेव स्याच्चतुष्कोणन्तु चिक्कणम् ७०
नाभेः षडङ्गुलं यावन्मग्नं क्वाथस्य धारया
कोष्णया स्कन्धयोः सिक्तस्तिष्ठेत्स्निग्धतनुर्नरः ७१
मुहूर्त्तैकं समारभ्य यावत्स्यात्तच्चतुष्टयम्
तावत्तदवगाहेत यावदारोग्यनिश्चयः ७२
एवं तैलेन दुग्धेन सर्पिषा स्वेदयेन्नरम्
एकान्तरो द्व्यन्तरो वा युक्तः स्नेहोऽवगाहने ७३
सिरामुखैर्लोमकूपैर्धमनीभिश्च तर्पयेत्
शरीरे बलमाधत्ते युक्तः स्नेहोऽवगाहने ७४
जलसिक्तस्य वर्द्धन्ते यथा मूलेऽङकुरादयः
तथैव धातुवृद्धिर्हि स्नेहसिक्तस्य जायते ७५
नातः परतरः कश्चिदुपायो वातनाशनः
शीतशूलव्युपरमे स्तम्भगौरवनिग्रहे ७६
दीप्तैऽग्नौ मार्दवे जाते स्वेदनाद्विरतिर्मता ७७
अभ्यङ्गः परिषेकश्च पिचुर्वस्तिरिति क्रमात्
मूर्द्धतैलं चतुर्द्धा स्याद्बलवत्तद्यथोत्तरम् ७८
त्रयोऽभ्यङ्गादयः पूर्वे प्रसिद्धाः सर्वतः स्मृताः
शिरोवस्तिविधिश्चात्र प्रोच्यते सुज्ञसम्मतः ७९
शिरोवस्तिश्चर्मणः स्याद् द्विमुखो द्वादशाङ्गुलः
शिरःप्रमाणस्तं बद्ध्वा मस्तके माषपिष्टकैः ८०
सन्धिरोधं विधायाशु स्नेहैः कोष्णैः प्रपूरयेत्
तावद्धार्यस्तु यावत्स्यान्नासाकर्णमुखस्रुतिः ८१
वेदनोपशमो वाऽपि मात्राणां वा सहस्रकम्
स्वजानुनः करावर्त्तं कुर्याच्छोटिकया युतम् ८२
एषा मात्रा भवेदेका सर्वत्रैवैष निश्चयः
विना भोजनमेवात्र शिरोवस्तिः प्रशस्यते ८३
प्रयोज्यस्तु शिरोवस्तिः पञ्च सप्त दिनानि वा
विमोच्य शिरसो बस्तिं गृह्णीयाच्च समन्ततः ८४
ऊर्ध्वकायं ततः कोष्णे नीरे स्नानं समाचरेत्
अनेन दुर्जया रोगा वातजा यान्ति संक्षयम्
शिरःकम्पादयस्तेन सर्वकालेषु युज्यते ८५
स्वेदयेत्कर्णदेशन्तु किञ्चिन्नुः पार्श्वशायिनः
मूत्रैः स्नेहै रसैरुष्णैः श्रोत्ररन्ध्रं प्रपूरयेत् ८६
कर्णञ्च पूरितं रक्षेच्छतं पञ्च शतानि वा
सहस्रं वापि मात्राणां श्रोत्रकण्ठशिरोगदे ८७
मूत्राद्यैः पूरणं कर्णे भोजनात्प्राक्प्रशस्यते
तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते ८८
कर्णे शूलाकुले कोष्णं बस्तमूत्रं ससैन्धवम्
निक्षिपेत्तेन शाम्यन्ति शूलपाकादिजा रुजः ८९
शृङ्गवेरञ्च मधुकं सैन्धवं तैलमेव च
कदुष्णं कर्णयोर्देयमेतत्स्याद्वेदनाऽपहम् ९०
पीतार्कपत्रमाज्येन लिप्तं वह्नौ प्रतापयेत्
तद्र सः श्रवणे क्षिप्तः कर्णशूलहरः परः ९१
आलेपस्य तु नामानि लेपो लेपनलिप्तकौ
दोषघ्नो विषहा वर्ण्यः स च लेपस्त्रिधा मतः ९२
त्रिप्रमाणश्चतुर्भागत्रिभागार्द्धाङ्गुलोन्नतः
आद्रो र्! व्याधिहरः स स्याच्छुष्को दूषयति च्छविम् ९३
दोषघ्नो लेपो यथा
शोथघ्नीदारुसिद्धार्थशुण्ठीशोभाञ्जनत्वचाम्
आरनालेप पिष्टानां प्रलेपः सर्वशोथहा ९४
शिरीषं मधुयष्टी च तगरं रक्तचन्दनम्
एला मांसी निशायुग्मं कुष्ठं बालकमेव च ९५
इति सञ्चूर्ण्य लेपोऽय पञ्चमांशघृतप्लुतः
जलेन क्रियते सुज्ञैर्दशाङ्ग इति संज्ञितः ९६
वीसर्पश्च विषस्फोटाञ्छोथदुष्टव्रणाञ्जयेत् ९७
विषहा लेपो यथा
अजादुग्धतिलैर्लेपो नवनीतेन संयुतः
शोथमारुष्करं हन्ति लेपो वा कृष्णमार्त्तिकः ९८
अपरः कृमिविषापहलेपो यथा
लाङ्गल्यतिविषाऽलाबूशालिनीबीजमूलकैः
लेपो धान्याम्बुसम्पिष्टः कीटविस्फोटनाशनः ९९
मुखकान्तिदो लेपो यथा
रक्तचन्दन मञ्जिष्ठा लोध्र कुष्ठ प्रियङ्गवः
वटाङ्कुरा मसूराश्च व्यङ्गघ्ना मुखकान्तिदाः १००
अथ लेपविधिश्चैव प्रोच्यते सुज्ञसम्मतः
आलेपश्च प्रदेहश्च द्वौ भेदौ तस्य भाषितौ १०१
चर्माद्र रं! माहिषं यद्वत्प्रोन्नतं सा मितिस्तयोः
शीतस्तनुविशोषी च प्रलेपः पित्तहृन्मतः १०२
आद्रो र्! घनस्तथोष्णः स्यात्प्रदेहः श्लेष्मवातहा
न रात्रौ लेपनं कुर्याच्छुष्यमाणं न धारयेत्
शुष्यमाणमुपेक्षेत प्रदेहं पीडनं प्रति १०३
तमसा पिहितो ह्यूष्मा लोमकूपमुखे स्थितः
विना लेपेन निर्याति रात्रौ नालेपयेदतः १०४
रात्रावपि प्रलेपादिर्व्रणे देयो विचक्षणैः
अपाकिन्यतिगम्भीरे रक्तश्लेष्मसमुद्भवे १०५
प्रलेपो यथा
मधुकं चन्दनं मूर्वा नलमूलञ्च पर्पटम्
उशीरं बालकं पद्मं प्रलेपः पित्तशोथहृत् १०६
प्रदेहो यथा
बीजपूरजटा हिंस्रा देवदारु महौषधम्
रास्नाऽरणिः प्रदेहोऽय वातशोथविनाशनः १०७
कृष्णापुराणपिण्याकशिग्रुत्वक्सिकताशिवाः
गोमूत्रपिष्टः कोष्णोऽय प्रदेहः श्लेष्मशोथहा १०८
शोणितं स्रावयेज्जन्तोरामयं प्रसमीक्ष्य च
प्रस्थं प्रस्थार्द्धमथ वा प्रस्थार्द्धार्द्धमथापि वा १०९
शरत्काले स्वभावेन शोणितं स्रावयेन्नरः
त्वग्दोषग्रन्थिशोथाद्या नश्यन्ति रुधिरोद्भवाः ११०
व्यभ्रे वर्षासु विध्येत शीते ग्रीष्मे शरद्यपि
मध्याह्ने शीतकाले च रुधिरं स्रावयेद् बुधः १११
अनुष्णाशीतं मधुरं स्निग्धं रक्तञ्चवर्णतः
शोणितं गुरु विस्रं स्याद् विदाहश्चास्य पित्तवत् ११२
विस्रता द्र वता रागश्चलनं विलयस्तथा
भूम्यादिपञ्चभूतानामेते रक्ते गुणाः स्मृताः ११३
रक्ते दुष्टे भवेच्छोथो रक्तमण्डलमेव च
व्यथा दाहश्च पाकश्च कण्डूश्च पिडकोद्गमः ११४
वृद्धे रक्ताङ्गनेत्रत्वं सिराणां पूर्णता तथा
गात्राणां गौरवं निद्रा मोहो दाहश्च जायते ११५
क्षीणेऽस्रे मधुराकाङ्क्षा मूर्च्छा च त्वचि रूक्षता
शैथिल्यं च सिराणां स्याद्वातादुन्मार्गगामिता ११६
अरुणं फेनिलं रूक्षं परुषं तनु शीघ्रगम्
आस्कन्दि सूचीनिस्तोदि रक्तं स्याद्वातदूषितम् ११७
पित्तेन पीतं हरितं नीलं श्यावं च विस्रकम्
अस्वादूष्णं मक्षिकाणां पिपीलीनामनिष्टकम् ११८
शीतलं बहुलं स्निग्धं गैरिकोदकसन्निभम्
मांसपेशीप्रभं स्कन्दि मन्दगं कफदूषितम् ११९
द्विदोषदुष्टं संसृष्टं त्रिदुष्टं पूतिगन्धकम्
सर्वलक्षणसंयुक्तं काञ्जिकाभं च जायते १२०
विषदुष्टं भवेच्छ्यावं नासिकोन्मार्गगं तथा
विस्रं काञ्जिकसंकाशं सर्वकुष्ठकरं तथा १२१
इन्द्र गोपप्रभं ज्ञेयं प्रकृतिस्थमसंहतम् १२२
शोथे दाहेऽङ्गपाके च रक्तवर्णेऽसृजः स्रुतौ
वातरक्ते तथा कुष्ठे सपीडे दुर्जयेऽनिले
पाण्डुरोगे श्लीपदे च विषदुष्टेच शोणिते १२३
ग्रन्थ्यर्बुदापचीक्षुद्र रोगाधिमन्थकाभिधे
विदारीस्तनरोगेषु गात्राणां सादगौरवे १२४
रक्ताभिष्यन्दतन्द्रा यां पूतिघ्राणास्यदाहके
यकृत्प्लीहविसर्पेषु विद्र धौ पिडकोद्गमे १२५
कर्णौष्ठघ्राणवक्त्राणां पाके दाहे शिरोरुजि
उपदंशे रक्तपित्ते रक्तस्रावः प्रशस्यते १२६
एषु रोगेषु शृङ्गैर्वा जलौकाऽलाबुकैरपि
अथवापि सिरामोक्षैः कारयेद्र क्तपातनम् १२७
न कुर्वीत सिरामोक्षं कृशस्यातिव्यवायिनः
क्लीबस्य भीरोर्गर्भिण्याः सूतायाः पाण्डुरोगिणः १२८
पञ्चकर्मविशुद्धस्य पीतस्नेहस्य चार्शसाम्
सर्वाङ्गशोथयुक्तानामुदरिश्वासकासिनाम् १२९
छर्द्यतीसारजुष्टानामतिस्विन्नतनोरपि
ऊनषोडशवर्षस्य गतसप्ततिकस्य च १३०
आघातात्स्रुतरक्तस्य सिरामोक्षो न शस्यते १३१
एषां चात्ययिके रोगे जलौकाभिर्विनिर्हरेत्
तथा च विषजुष्टानां सिरामोक्षो न शस्यते १३२
गोशृङ्गेण जलौकाभिरलाबूभिरपि त्रिधा
वातपित्तकफैर्दुष्टं शोणितं स्रावयेद् बुधः १३३
द्विदोषाभ्यान्तु दुष्टं यत्त्रिदोषैरपिदूषितम्
शोणितं स्रावयेद्युक्त्यासिरामोक्षैः पदैस्तथा १३४
गृह्णाति शोणितं शृङ्गं दशाङ्गुलमितं बलात्
जलौकाहस्तमात्रं तु तुम्बी तु द्वादशाङ्गुलम् १३५
पदमङ्गुलमात्रस्य सिरा सर्वाङ्गशोधिनी
शीते निरन्ने मूर्छार्त्तिनिद्रा भीतिमदश्रमैः १३६
युक्तानां न स्रवेद्र क्तं तथा विण्मूत्रसङ्गिनाम्
शोणिते चाप्रवृत्ते तु कुष्ठत्रिकटुसैन्धवैः १३७
मर्दयेद् व्रणवक्त्रञ्च तेन रक्तं प्रवर्त्तते
तस्मान्न शीते नात्युष्णे नास्विन्ने नातितापिते १३८
पीत्वा यथागूं तृप्तस्य स्रावयेच्छोणितं बुधः
अतिस्विन्नस्योष्णकाले तथैवातिसिराव्यधात् १३९
अतिप्रवर्त्तते रक्तं तत्र कुर्यात्प्रतिक्रियाम्
अतिप्रवृत्ते रक्ते तु लोध्रसर्जरसाञ्जनैः १४०
यवगोधूमचूर्णैश्च धवधन्वनगैरिकैः
सर्पनिर्मोकचूर्णैर्वा भस्मना क्षौमवस्त्रयोः १४१
मुखं व्रणस्य बद्ध्वा च शीतैश्चोपचरेद् व्रणम्
विध्येदूर्ध्वसिरां तावद्दहेत्क्षारेण वह्निना १४२
व्रणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम्
व्रणास्यं पाचयेत्क्षारो दाहः सङ्कोचयेत्सिराः १४३
रक्ते दुष्टेऽवशिष्टेऽपि व्याधिर्नैव प्रकुप्यति
अतो रक्षेत्सावशेषं रक्ते नातिस्रुतिर्हिता १४४
आन्ध्यमाक्षेपकं तृष्णां तिमिरं शिरसो रुजः
पक्षाघातं श्वासकासौ हिक्कादाहौ च पाण्डुताम्
कुरुतेऽतिस्रुतं रक्तं मरणं वा करोति च १४५
देहस्योत्पत्तिरसृजा देहस्तेनैव धार्यते
रक्तं जीवस्य चाधारस्तस्माद्र क्षेदसृग्बुधः १४६
शीतोपचारैः कुपिते स्रुतरक्तस्य मारुते
कोष्णेन सर्पिषा शोथं सव्यथं परिषेचयेत् १४७
क्षीणस्यैणशशोरभ्रहरिणच्छागमांसजः
रसः समुचितः पाने क्षीरः षष्टिकया हितम् १४८
पीडाशान्तिर्लघुत्वं च व्याध्युपद्र वसंक्षयः
मनःस्वास्थ्यं भवेच्चिह्नं सम्यङ्निःसारितेऽसृजि १४९
व्यायाममैथुनक्रोधशीतस्नानप्रवातकान्
एकाशनं दिवानिद्रा क्षाराम्लकटुभोजनम् १५०
शोकं वादमजीर्णञ्च त्यजेदाबलदर्शनात् १५१
सेक आश्च्योतनं पिण्डी विडालस्तर्पणं तथा
पुटपाकोऽञ्जनं चैभिः कल्पैर्नेत्रमुपाचरेत् १५२
सेकस्तु सूक्ष्मधाराभिः सर्वस्मिन्नयने हितः
मीलिताक्षस्य मर्त्यस्य प्रदेयश्चतुरङ्गुलः १५३
स सस्नेहो भवेद्वाते पित्ते रक्ते च रोपणः
लेखनस्तु कफे कार्यस्तस्य मात्राऽभिधीयते १५४
षड्भिर्वाचां शतैः स्नेहे चतुभिश्चैव रोपणे
तैस्त्रिभिर्लेखने कार्यः सेको नेत्रप्रसादने १५५
निमेषोन्मेषणं पुंसामङ्गुल्या च्छोटिकाऽथ वा
गुर्वक्षरोच्चारणं वा वाङ्मात्रेयं स्मृता बुधैः १५६
सेकस्तु दिवसे कार्यो रात्रौ चात्यन्तिके गदे
एरण्डस्य दलैः पिष्टैः पक्वमाजं पयो हितम्
सुखोष्णं नेत्रयोः सिक्तं वाताभिष्यन्दनाशनम् १५७
क्वाथक्षौद्रा सवस्नेहबिन्दूनां यत्तु पातनम्
द्व्यङ्गुलोन्मीलिते नेत्रे प्रोक्तमाश्च्योतनं हितम् १५८
बिन्दवोऽष्टौ लेखनेषु रोपणे दश बिन्दवः
स्नेहने द्वादश प्रोक्तास्ते शीते कोष्णरूपिणः १५९
उष्णे तु शीतरूपाः स्युः सर्वत्रैवैष निश्चयः
वाते तिक्तं तथा स्निग्धं पित्ते मधुरशीतलम् १६०
कफे तिक्तोष्णरूक्षं च क्रमादाश्च्योतनं हितम्
आश्च्योतनानां सर्वेषां मात्रा स्याद्वाक्छतोन्मिता १६१
ततः परं लोचनाभ्यां भेषजानामयोगतः
आश्च्योतनं न कर्त्तव्यं निशायां केनचित्क्वचित् १६२
बिल्वादिपञ्चमूलेन बृहत्येरण्डशिग्रुमिः
क्वाथ आश्च्योतने कोष्णो वाताभिष्यन्दनाशनः १६३
युक्तभेषजकल्कस्य पिण्डी कवलमात्रया
वस्त्रखण्डेन सम्बद्ध्या नेत्रेऽभिष्यिन्दनाशिनी १६४
स्निग्धोष्णा पिण्डिका वाते पित्ते सा शीतला मता
रूक्षोष्णा श्लेष्मणि प्रोक्ता विधिरुक्तो बुधैरयम् १६५
एरण्डपत्रमूलत्वङ्निर्मिता वातनाशिनी
धात्रीविरचिता पित्ते शिग्रुपत्रकृता कफे १६६
विडालको बहिर्लेपो नेत्रपक्ष्मविवर्जितः
तस्य मात्रा परिज्ञेया मुखालेपविधानवत् १६७
यष्टीगैरिकसिन्धूत्थदार्वीतार्क्ष्यैः समांशकेः
जलपिष्टैर्बहिर्लेपः सर्वनेत्रामयापहः १६८
वातातपरजोहीने वेश्मन्युत्तानशायिनः
अभितो माषचूर्णेन क्लिन्नेन परिपिण्डितौ १६९
समौ दृढावसम्बाधौ कर्त्तव्यौ नेत्रकोशयोः
पूरयेद् घृतमण्डेन विलीनेन सुखोदकैः १७०
सर्पिषा शतधौतेन क्षीरजेन घृतेन वा
निमग्नान्यक्षिपक्ष्माणि यावत्स्युस्तावदेव हि १७१
पूरयेन्मीलिते नेत्रे तत उन्मीलयेच्छनैः
भिषग्भिरेष विख्यातस्तर्पणस्योदितो विधिः १७२
यद्रू क्षञ्च परिष्यन्दि नेत्रं कुटिलमाविलम्
शीर्णपक्ष्मसिरोत्पातकृच्छ्रोन्मीलनसंयुतम् १७३
तिमिरार्जुनशुक्लाद्यैरभिष्यन्दाधिमन्थकैः
शुष्काक्षिपाकशोथाभ्यां युतं वातविपर्ययैः
तन्नेत्रं तर्पयेत्सम्यङ् नेत्ररोगविशारदः १७४
तर्पणं धारयेद्वर्त्मरोगे वाचां शतं बुधः
स्वस्थे कफे सन्धिरोगे वाचां पञ्च शतानि च १७५
षट्शतानि कफे कृष्णरोगे सप्त शतानि हि
दृष्टिरोगे शतान्यष्टावधिमन्थे सहस्रकम् १७६
सहस्रं वातरोगेषु धार्यमेव हि तर्पणम् १७७
पूर्णे चापाङ्गमार्गेण स्रावयित्वाऽक्षि शोधयेत्
स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः १७८
यथास्वं धूमपानेन कफमस्य विरेचयेत्
एकाहं वा त्र्! यहं वापि पञ्चाहं तर्पणं चरेत् १७९
तर्पणे तृप्तिलिङ्गानि नेत्रस्यैतानि लक्षयेत्
सुखस्वप्नावबोधत्वं वैशद्यं नेत्रपाटवम्
निर्वृतिर्व्याधिशान्तिश्च क्रियालाघवमेव च १८०
गुर्वाविलमतिस्निग्धमश्रुकण्डूपदेहवत्
घर्षतोदयुतं नेत्रमतितर्पितमादिशेत् १८१
सास्रावशोफरोगाढ्यमुपदेहसमाकुलम्
रूक्षमस्रावमरुणं नेत्रं स्याद्धीनतर्पितम् १८२
अनयोर्दोषबाहुल्यात्प्रयतेत चिकित्सिते
रूक्षस्निग्धोपचाराभ्यामनयोः स्यात्प्रतिक्रिया १८३
दुर्दिनात्युष्णशीतेषु चिन्तायां संभ्रमेषु च
अशान्तोपद्र वे चाक्ष्णि तर्पणं न प्रशस्यते १८४
द्वे बिल्वे स्निग्धमांसस्य परद्र व्यपलं मतम्
द्र वस्य कुडवोन्मानं सर्वमेकत्र पेषयेत् १८५
तदेकत्र समालोड्य पत्रैः सुपरिवेष्टितम्
पुटपाकविधानेन तत्पक्त्वा तद्र सं बुधः १८६
तर्पणोक्तेन विधिना यथावदवधारयेत्
दृष्टिमध्ये निषेच्यः स्यान्नित्यमुत्तानशायिनः १८७
स्नेहनो लेखनश्चैव रोपणश्चेति स त्रिधा
हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्य स तु लेखनः १८८
दृष्टेर्बलार्थमितरः पित्तासृग्व्रणवातनुत् १८९
स्नेहमांसवसामज्जमेदःस्वाद्वौषधैः कृतः
स्नेहनः पुटपाकः स्याद्धार्यो द्वे वाक्छते तु सः १९०
जाङ्गलानां यकृन्मांसैर्लैखनद्र व्यसंयुतैः
कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः १९१
समुद्र फेनकासीसस्रोतोऽजदधिमस्तुभिः
लेखनो वाक्छतं तस्य परं धारणमिष्यते १९२
स्तन्य जाङ्गलमध्वाज्यतिक्तद्र व्यविपाचितः
लेखनात्त्रिगुणो धार्यः पुटपाकस्तु रोपणः १९३
निम्बामृतावृषपटोलनिदिग्धिकाभिः
स्यात्पञ्चतिक्तक इति प्रथितो गणोऽयम् १९४
आचरेत्तर्पणोक्तां तु क्रियां व्यापत्तिदर्शने १९५
तेजांस्यनिलमाकाशमादर्शं भास्वराणि च
नेक्षेत तर्पिते नेत्रे यश्च वा पुटपाकवान् १९६
अथ सम्पक्वदोषस्य प्राप्तमञ्जनमाचरेत्
अञ्जनं क्रियते येन तद् द्र व्यं चाञ्जनं मतम् १९७
तत्प्रत्येकं त्रिधा प्रोक्तं लेखनं रोपणं तथा
स्नेहनं चेति लिङ्गानि तेषां विस्तरतः शृणु १९८
लेखनं क्षारतीक्ष्णाम्लरसैरञ्जनमुच्यते
नेत्रवर्त्मसिराजालश्रोत्रशृङ्गाटकस्थितम् १९९
मुखनासाऽक्षिभिर्दोषमुत्क्लिश्य स्रावयेच्च तत्
कषायं तिक्तकं चापि सस्नेहं रोपणं मतम् २००
स्नेहस्य शैत्याद्वर्ण्यं स्याद् दृष्टेश्च बलवर्द्धनम्
मधुरं स्नेहमण्डं तदञ्जनं स्यात्प्रसादनम् २०१
दृष्टिदोषप्रसादार्थं स्नेहनार्थञ्च तद्धितम्
हरेणुमात्रावर्त्तिस्तु लेखनी स्यात्प्रमाणतः २०२
सार्द्धहरेणुकमिता रोपणी वर्त्तिरिष्यते
क्रियते स्नेहनी वर्त्तिर्द्विहरेणुकमात्रया २०३
रसाञ्जनस्य मात्रा तु पिष्टवर्तिमिता मता
चूर्णं तु लेखनं वैद्यैर्द्विशलाकं प्रदीयते
रोपणं त्रिशलाकं स्याच्चतस्रः स्नेहनाञ्जने २०४
मुखयोर्मुकुलाकारा कलायपरिमण्डला
अष्टाङ्गुला शलाका स्यादश्मजा धातुजाऽथ वा २०५
ताम्रलोहाश्मसञ्जाता शलाका लेखने मता
सुवर्णरजतोद्भूता स्नेहने समुदाहृता २०६
अङ्गुली च मृदुत्वेन रोपणे सम्प्रयुज्यते
कृष्णभागावधिं लिम्पेदपाङ्गं यावदञ्जनम् २०७
हेमन्ते शिशिरे चैव मध्याह्नेऽञ्जनमिष्यते
पूर्वाह्णेवाऽपराह्णे वा ग्रीष्मे शरदि चेष्यते २०८
वर्षास्वनभ्रे नात्युष्णे वसन्ते तु सदैव हि
अथ वा सर्वदा प्रातः सायं वाऽञ्जनमाचरेत् २०९
नातिशीतोष्णवाताभ्रवेलायां तत्प्रयुज्यते
श्रान्तेऽथ रुदिते भीते पीतमद्ये नवज्वरे २१०
अजीर्णे वेगघाते च नाञ्जनं सम्प्रयुज्यते
रागोपदेहौ तिमिरं शूलं संरम्भमेव च २११
निद्रा क्षयञ्च कुरुते निषिद्धे युक्तमञ्जनम् २१२
शङ्खनाभिर्बिभीतस्य मज्जा पथ्या मनः शिला
पिप्पली मरिचं कुष्ठं वचा चेति समांशकम् २१३
छागक्षीरेण सम्पिष्य वर्त्तिं कुर्याद्यवोन्मिताम्
हरेणुमात्रां सम्पिष्य जलैः कुर्याद्यथाऽञ्जनम् २१४
तिमिरं मांसवृद्धिञ्च काचं पटलमर्बुदम्
रात्र्! यन्धं वार्षिकं पुष्पं वर्त्तिश्चन्द्रो दया हरेत् २१५
इति चन्द्रो दया वर्त्तिर्लेखनी
अशीतिस्तिलपुष्पाणि षष्टिः पिप्पलितण्डुलाः
जातीपुष्पाणि पञ्चाशन्मरिचानि तु षोडश २१६
सूक्ष्मं पिष्ट्वाऽम्बुना वर्त्तिः कृता कुसुमिकाऽभिधा
तिमिरार्जुनशुक्लानां नाशिनी मांसवृद्धिनुत्
एतस्या अञ्जने प्रोक्ता मात्रा सार्धहरेणुका २१७
धात्र्! यक्षपथ्याबीजानि एकद्वित्रिगुणानि च
पिष्ट्वा वर्त्तिं जलैः कुर्यादञ्जनं द्विहरेणुकम् २१८
नेत्रस्रावं हरत्याशु वातरक्तरुजं तथा २१९
तुत्थमाक्षिकसिन्ध्त्थाः सिताशङ्खमनःशिलाः
गैरिकं सिन्धुफेनञ्च मरिचं चेति चूर्णयेत् २२०
संयोज्य मधुना कुर्यादञ्जनार्थं रसक्रियाम्
वर्त्मरोगार्मतिमिरकाचशुक्लहरीं पराम् २२१
रसाञ्जनं सर्जरसो जातिपुष्पं मनः शिला
समुद्र फेनो लवणं गैरिकं मरिचं तथा२२२
एतत्समांशं मधुना पिष्टं प्रक्लिन्नवर्त्मने
अञ्जनं क्लेदकण्डूघ्नं पक्ष्मणाञ्च प्ररोहणम् २२३
कतकस्य फलं घृष्ट्वा मधुना नेत्रमञ्जयेत्
ईषत्कर्पूरसहितं स्मृतं नेत्रप्रसादनम् २२४
दक्षाण्डत्वक्छिलाकाचशङ्खचन्दनसैन्धबैः
अञ्जनं हरते नित्यं सर्वानक्षिगदान्बलात् २२५
शिलायां रसकं पिष्ट्वा सम्यगाप्लाव्य वारिणा
गृह्णीयात्तज्जलं सर्वं त्यजेच्चूर्णमधोगतम् २२६
शुष्कं तच्च जलं सर्वं पर्पटीसन्निभं भवेत्
विचूर्ण्य भावयेत्सम्यक्त्रिवेलं त्रिफलारसैः २२७
कर्पूरस्य रजस्तत्र दशमांशेन निक्षिपेत्
अञ्जयेन्नयनं तेन सर्वदोषप्रशान्तये
समस्तनेत्ररोगघ्नं चूर्णमेतन्न संशयः २२८
अग्नितप्तं हि सौवीरं निषिञ्चेत्त्रिफलारसैः
सप्तवेलं तथा स्तन्यैः स्त्रीणां सिक्तं विच्!र्णितम् २२९
अञ्जयेत्तेन नयने प्रत्यहं चक्षुषोर्हितम्
सर्वानक्षिविकारांस्तु हन्यादेतन्न संशयः २३०
गतदोषमपेताश्रु प्रपश्यत्सम्यगम्भसि
प्रक्षाल्याक्षि यथादोषं कार्यं प्रत्यञ्जनं ततः २३१
न वा निर्वातदोषेऽक्षिधावनं सम्प्रयोजयेत्
प्रत्यञ्जनं तत्रदद्याच्चूर्णं तीक्ष्णप्रसादनम् २३२
शुद्धे नागे द्रुते तुत्थं शुद्धं सूतं विनिक्षिपेत्
कृष्णाञ्जनं तयोस्तुल्यं सर्वमेकत्र चूर्णयेत् २३३
दशमांशेन कर्पूरं तस्मिश्चूर्णे विनिक्षिपेत्
एतत्प्रत्यञ्जनं नेत्रगदजिन्नयनामृतम् २३४
त्रिफलाभृङ्गशुण्ठीनां रसैस्तद्वच्च सर्पिषा
गोमूत्रमध्वजाक्षीरैः सिक्तो नागः प्रतापितः २३५
तच्छलाका हरत्येव सर्वान्नेत्रभवान्गदान् २३६
इति भेषजानां विधानानि
भैषज्यमभ्यवहरेत्प्रभाते प्रायशो बुधः
कषायांस्तु विशेषेण तत्र भेदस्तु दर्शितः २३७
ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम्
किञ्चित्सूर्योदये जाते तथा दिवसभोजने
सायन्तने भोजने च मुहुश्चापि तथा निशि २३८
प्रायः पित्तकफोद्रे के विरेकवमनार्थयोः
लेखनार्थे च भैषज्यं प्रभातेऽनन्नमाहरेत् २३९
भैषज्यं विगुणेऽपाने भोजनाग्रे प्रशस्यते
अरुचौ चित्रभोज्यैश्च मिश्रं रुचिरमाहरेत् २४०
समानवाते विगुणे मन्देऽग्नावतिदीपनम्
दद्याद्भोजनमध्ये च भैषज्यं कुशलो भिषक् २४१
व्यानकोपेतु भैषज्यं भोजनान्ते समाहरेत्
हिक्काऽक्षेपककम्पेषु पूर्वमन्ते च भोजनात् २४२
उदाने कुपिते वाते स्वरभङ्गादिकारिणि
ग्रासग्रासान्तरे देयं भैषज्यं सान्ध्यभोजने २४३
प्राणे प्रदुष्टे सान्ध्यस्य भुक्तस्यान्ते प्रदीयते
औषधं प्रायशो धीरैः कालोऽय स्यात्तृतीयकः २४४
मुहुर्मुहुश्च तृट्छर्दिहिक्काश्वासगरेषु च
सायञ्च भेषजं दद्यादिति कालश्चतुर्थकः २४५
ऊर्ध्वजत्रुविकारेषु लेखने बृंहणे तथा
पाचने शमने देयमनन्नं भेषजं निशि २४६
वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तदामयमसंशयमाशु चैव
तद्बालवृद्धयुवतीमृदुभिश्च पीतं ग्लानिं परां नयति चाशु बलक्षयञ्च २४७
शीघ्रं विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहुर्वदनान्निरेति
एतद्धितं स्थविरवालकृशाङ्गनाभ्यः प्राग्भोजनाद्यदशितं किल तच्च तद्वत् २४८
औषधशेषे भुक्तं भोजनशेषे यदौषधं पीतम्
न करोति गदोपशमम्प्रकोपयत्यन्यरोगांश्च २४९
अनुलोमोऽनिलः स्वास्थ्यं क्षुत्तृष्णासुमनस्कताः
लघुत्वमिन्द्रि योद्गारशुद्धिर्जीर्णौषधाकृतिः २५०
क्लमो दाहोऽङ्गसदनं भ्रममूर्च्छाशिरोरुजाः
अरतिर्बलहानिश्च सावशेषौषधाकृतिः २५१
देवान्गुरूंस्तथा विप्रान्पूजयित्वा प्रणम्य च
आशिषश्च समादाय श्रद्धया भैषजं भजेत् २५२
रसायनमिवर्षीणां देवानाममृतं यथा
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते २५३
ब्रह्मदक्षाश्विरुद्रे न्द्र भूचन्द्रा र्कानिलानलाः
देवाश्च सौषधिग्रामा भूमिदेवाश्च पान्तु वः २५४
औषधं हेमरजतमृद्भाजनपरिस्थितम्
पिबेदाप्तजनस्याग्रे प्रसन्नवदनेक्षणः २५५
प्रशान्तस्तूपविश्याथ पीत्वा पात्रमधोमुखम्
निक्षिप्याचम्य सलिलं ताम्बूलाद्युपयोजयेत् २५६
इति श्रीमिश्रलटकन तनय श्रीमन्मिश्रभाव विरचिते भावप्रकाशे परिभाषादिप्रकरणे षष्ठं धूमपानादिविधिप्रकरणं समाप्तम्

रोगिपरीक्षाप्रकरणम्[सम्पाद्यताम्]

अथ सप्तमं रोगिपरीक्षाप्रकरणम् ७
दर्शनस्पर्शनप्रश्नैस्तं परीक्षेत रोगिणम्
आयुरादि दृशा स्पर्शाच्छीतादि प्रश्नतः परम् १
मिथ्यादृष्टा विकारा हि दुराख्यातास्तथैव च
तथा दुष्परिदृष्टाश्च मोहयेयुश्चिकित्सकान् २
तत्र दर्शनं नेत्रजिह्वामूत्रादीनां कर्त्तव्यम्
नेत्रं स्यात्पवनाद्रू क्षं धूम्रवर्णं तथाऽरुणम्
कोटरान्तः प्रविष्टं च तथा स्तब्धविलोकनम् ३
हरिद्रा खण्डवर्णं वा रक्तं वा हरितं तथा
दीपद्वेषिसदाहञ्च नेत्रं स्यात्पित्तकोपतः ४
चक्षुर्बलासबाहुल्यात्स्निग्धं स्यात्सलिलप्लुतम्
तथा धवलवर्णञ्च ज्योतिर्हीनं बलान्वितम् ५
नेत्रं द्विदोषबाहुल्यात्स्याद्दोषद्वयलक्षणम्
त्रिदोषलिङ्गसङ्गेन तं मारयति रोगिणम् ६
त्रिदोषदूषितं नेत्रमन्तर्मग्नं भृशं भवेत्
त्रिलिङ्गं सलिलस्रावि प्रान्तेनोन्मीलयत्यपि ७
शाकपत्रप्रभा रूक्षा स्फुटना रसनाऽनिलात्
रक्ता श्यावा भवेत्पित्ताल्लिप्ताद्रा र्! धवला कफात् ८
परिदग्धा खरस्पर्शा कृष्णा दोषत्रयेऽधिके
सैव दोषद्वयाधिक्ये दोषद्वितयलक्षणा ९
वातेन पाण्डुरं मूत्रं रक्तं नीलञ्च पित्ततः
रक्तमेव भवेद्र क्ताद्धवलं फेनिलं कफात् १०
अथ शरीरस्य शैत्योष्णत्वादिज्ञानार्थं स्पर्शनं कार्यम्
पुंसो दक्षिणहस्तस्य स्त्रियो वामकरस्य तु
अङ्गुष्ठमूलगां नाडीं परीक्षेत भिषग्वरः ११
अङ्गुलीभिस्तु तिसृभिर्नाडीमवहितः स्पृशेत्
तच्चेष्टया सुखं दुःखं जानीयात्कुशलोऽखिलम् १२
सद्यःस्नातस्य सुप्तस्य क्षुत्तृष्णाऽतपशीलिनः
व्यायामश्रान्तदेहस्य सम्यङ् नाडी न बुध्यते १३
वातेऽधिके भवेन्नाडी प्रव्यक्ता तर्जनीतले
पित्ते व्यक्ता मध्यमायां तृतीयाङ्गुलिगा कफे १४
तर्जनीमध्यमामध्ये वातपित्ताधिके स्फुटा
अनामिकायां तर्जन्यां व्यक्ता वातकफे भवेत् १५
मध्यमाऽनामिकामध्ये स्फुटा पित्तकफेऽधिके
अङ्गुलित्रितयेऽपि स्यात्प्रव्यक्ता सन्निपाततः १६
वाताद्वक्रगतिं धत्ते पित्तादुत्प्लुत्य गामिनी
कफान्मन्दगतिर्ज्ञेया सन्निपातादतिद्रुता १७
वक्रमुत्प्लुत्य चलति धमनी वातपित्ततः
वहेद्वक्रञ्च मन्दञ्च वातश्लेष्माधिकत्वतः १८
उत्प्लुत्य मन्दं चलति नाडी पित्तकफेऽधिके
कामात्क्रोधाद्वेगवहा क्षीणा चिन्ताभयप्लुता १९
स्थित्वा स्थित्वा चलेद्या सा हन्ति स्थानच्युता तथा
अतिक्षीणा च शीता च प्राणान्हन्ति न संशयः २०
ज्वरकोपेन धमनी सोष्णावेगवती भवेत्
मन्दाग्नेः क्षीणधातोश्च सैव मन्दतरा मता २१
चपला क्षुधितस्य स्यात्तृप्तस्य भवति स्थिरा
सुखिनोऽपि स्थिरा ज्ञेया तथा बलवती मता २२
हेतुस्तदनु सम्प्राप्तिः पूर्वरूपञ्च लक्षणम्
तथैवोपशयः पञ्च रोगविज्ञानहेतवः २३
यत्तु न स्याद्विना येन तस्य तद्धेतुरुच्यते
शास्त्रे संव्यवहाराय तत्पर्यायान्प्रचक्ष्महे २४
निदानं कारणं हेतुर्निमित्तं च निबन्धनम्
मूलमायतनं तत्र प्रत्ययोऽपि निगद्यते २५
यथा दुष्टेन दोषेण यथा चानुविसर्पता
उत्पत्तिरामयस्यासौ सम्प्राप्तिर्जातिरागतिः २६
संख्याविकल्पप्राधान्यबलकालविशेषतः
साभिद्यते यथाऽत्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति २७
दोषाणां समवेतानां विकल्पॐऽशाशकल्पना २८
स्वातन्त्र्! यपारतन्त्र्! याभ्यां व्याधेः प्राधान्यमादिशेत् २९
हेत्वादिकार्त्स्न्यावयवैर्बलाबलविशेषणम् ३०
नक्तंदिनर्त्तुभुक्तांशैर्व्याधिकालो यथामलम् ३१
नक्तादेरंशेषु वातादिप्रकोप उक्तो वाग्भटेन
ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः
वयोऽहोरात्रभुक्तानामन्तमध्यादिगाः क्रमात् ३२
इति ऋतुषु वातादिकोपो यथा
वर्षासु शिशिरे वायुः पित्तं शरदि चोष्णके
वसन्ते तु कफः कुप्येदेषा प्रकृतिरार्तवी ३३
पूर्वरूपन्तु तद्येन विद्याद्भाविनमामयम्
सामान्यं च विशिष्टञ्च द्विविधं तदुदाहृतम्
सामान्यं तत्र दोषाणां विशेषैरनधिष्ठितम्
विशिष्टमीषद्व्यक्तं स्याद्विशेषैश्च समन्वितम् ३४
पूर्वरूपं विशिष्टं यद्व्यक्तं तल्लक्षणं स्मृतम्
संस्थानं लिङ्गं चिह्नञ्च व्यञ्जनं रूपमाकृतिः ३५
औषधान्नविहाराणामुपयोगं सुखावहम्
नृणामुपशयं विद्यात्सहि सात्म्यमिति स्मृतः ३६
मधुरलवणसाम्लस्निग्धनस्योष्णनिद्रा गुरुरविकरवस्तिस्वेदसंमर्दनानि
दधिघृततिलतैलाभ्यङ्गसन्तर्पणानिप्रकुपितपवमानं शान्तमेतानि कुर्य्युः ३७
तिक्तस्वादुकषायशीतपवनच्छायानिशावीजनं
ज्योत्स्नाभूगृहयन्त्रवारिजलजं स्त्रीगात्रसंस्पर्शनम्
सर्पिःक्षीरविरेकसेकरुधिरस्रावप्रदेहादिकं
पानाहारविहारभेषजमिदं पित्तप्रशान्तिं नयेत् ३८
रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवनं
धूमात्युष्णशिरोविरेकवमनस्वेदोपवासादिकम्
तृड्वाताध्वनियुद्धजागरजलक्रीडाऽङ्गनासेवनं-
पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं हरेत् ३९
सर्वेषामेव रोगाणां निदानं कुपिता मलाः
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् ४०
नीवारस्त्रिपुटः सतीनचणकश्यामाकमुद्गाढकी
निष्पावाश्च मकुष्ठकश्चवरटी मङ्गल्यकः कोद्र वः
यद् द्र व्यं कटुकं सतिक्ततुवरं शीतञ्च रूक्षं लघु-
स्वल्पाशो विषमाशनं निरशनं भुक्तेह्यजीर्णेऽशनम् ४१
भुक्तं जीर्णतरं परिश्रमभरोगर्त्तादिकोष्णं ल्लिंइ! घनं-
बाहुभ्यांतरणं तरोः प्रपतनं मार्गेऽतियानं पदा
दण्डादिप्रहृतिस्तथोच्चपतनं धातुक्षयो जागरो-
मार्गस्यावरणंव्यवायभृशता वातादिवेगाहतिः ४२
अत्यर्थं वमनं विरेचनमतिस्रावोऽधिकश्चासृजो-
रोगान्मांसविहीनताऽतिमदनश्चिन्ता च शोको भयम्
वर्षा वै शिशिरो दिनस्य रजनेर्भागौ तृतीयौ घनाः
प्राग्वातस्तुहिनं शरीरमरुतो दुष्टेरमी हेतवः ४३
कट्वम्लोष्णविदाहितीक्ष्णलवणक्रोधोपवासातप-
स्त्रीसम्भोगतृषाक्षुधाऽभिहननव्यायाममद्यादिभिः
भुक्ते जीर्यति भोजने च शरदि ग्रीष्मे तथा प्राणिनां
मध्याह्ने च तथाऽधरात्रिसमये पित्तप्रकोपो भवेत् ४४
विदाहिद्र व्यमुद्गारमम्लं कुर्यात्तथा तृषाम्
हृद्विदाहञ्च जनयेत्पाकं गच्छति तच्चिरात् ४५
माषैस्तिलैः कुलत्थैश्च मत्स्यैर्मेषामिषेण च
गव्येन दधितक्रेण नृणां पित्तं प्रकुप्यति ४६
गुरुपटुमधुराम्लस्निग्धमाषैस्तिलैश्च द्र वदधिदिननिद्रा शीतसर्पिः प्रपूरैः
प्रथमदिवसभागे रात्रिभागेऽपि चाद्येभवति हि कफकोपो भुक्तमात्रे वसन्ते ४७
निदानार्थकरो रोगो रोगस्याप्युपलक्ष्यते ४८
कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति ४९
न प्रशाम्यति चाप्यन्यो हेत्वर्थं कुरुतेऽपि च ५०
अत्यन्तकुत्सितावेतौ सदा स्थूलकृशौ नरौ
श्रेष्ठो मध्यशरीरस्तु स्थूलः क्षीणो न पूजितः
कर्षयेद् बृंहयेच्चापि सदा स्थूलकृशौ नरौ
रक्षणञ्चापि मध्यस्य कुर्वीत कुशलो भिषक् ५१
क्षपयेद् बृंहयेच्चापि दोषधातुमलान्भिषक्
नरो रोगान्वितो यावद्रो गेण रहितो भवेत् ५२
अस्वस्थो येन विधिना स्वस्थो भवति मानवः
तमेव कारयेद्वैद्यो यतः स्वास्थ्यं सदेप्सितम् ५३
समदोषः समाग्निश्च समधातुमलक्रियः
प्रसन्नात्मेन्द्रि यमनाः स्वस्थ इत्यभिधीयते ५४
विण्मूत्राखिलदोषधातुसमता काङ्क्षाऽन्नपाने रुचि-
र्भुक्तं जीर्यति पुष्टये परिणतिः स्वप्नावबोधौ सुखम्
गृह्णीते विषयान्यथास्वमुचितान्वृत्तिं मनोवृत्तितः
स्वस्थस्याभिहितं चतुर्दशविधं जन्तोरिदं लक्षणम् ५५
तत्तद्वृद्धिकराहारविहारातिनिषेवणात्
दोषधातुमलानां हि वृद्धिरुक्ता भिषग्वरैः ५६
वाते वृद्धे भवेत्कार्श्यं पारुष्यं चोष्णकामिता
गाढं मलं बलञ्चाल्पं गात्रस्फूर्त्तिर्विनिद्र ता
विण्मूत्रनेत्रगात्राणां पीतत्वं क्षीणमिन्द्रि यम्
शीतेच्छातापमूर्च्छाःस्युः पित्ते वृद्धेऽल्पमूत्रता ५७
विडादिशौक्ल्यं शीतत्वं गौरवञ्चातिनिद्र ता
सन्धिशैथिल्यमुत्क्लेदो मुखसेकः कफेऽधिके ५८
रसे वृद्धेऽन्नविद्वेषो जायते गात्रगौरवम्
लालाप्रसेकश्छर्दिश्च मूर्च्छा सादो भ्रमः कफः ५९
प्रवृद्धं रुधिरं कुर्याद् गात्रमारक्तवर्णकम्
लोचनञ्च तथा रुक्तं सिराः पूरयतेऽपि च ६०
रक्तन्तु कुरुते वृद्धं विसर्पप्लीहविद्र धीन्
कुष्ठं वातास्रकं गुल्मं सिरापूर्णत्वकामले ६१
गात्राणां गौरवं निद्रा मदो दाहश्च जायते
व्यङ्गाग्निसादसंमोहरक्तत्वङ्नेत्रमूत्रताः ६२
गुदमेढ्रास्यपाकार्शःपिडकामशकास्तथा
इन्द्र लुप्ताङ्गमर्दासृग्दरास्तापं कराङ्घ्रिषु ६३
शमयेद्र क्तवृद्ध्य्त्थुआ!न् रक्तस्रुतिविरेचनैः
मांसं वृद्धन्तु गण्डौष्ठस्फिगुपस्थोरुवाहुषु
जङ्घयोः कुरुते वृद्धिं तथा गात्रस्य गौरवम् ६४
उदरे पार्श्वयोर्वृद्धिः कासश्वासादयस्तथा
दौर्गन्ध्यं स्निग्धता गात्रे मेदोवृद्धौ भवेदिति ६५
प्रवृद्धं कुरुते मेदः श्रममल्पेऽपि चेष्टिते
तृट्स्वेदगलगण्डौष्ठरोगमेहादिजन्म च ६६
श्वासं स्फिग्जठरग्रीवास्तनानां लम्बनं तथा
वृद्धान्यस्थीनि कुर्वन्ति अस्थीन्यन्यानि चास्थिषु ६७
आचरन्ति तथा दन्तान्विकटान्महतस्तथा
मज्जा वृद्धः समस्ताङ्गनेत्रगौरवमाचरेत् ६८
शुक्राश्मरी शुक्रवृद्धौ शुक्रस्यातिप्रवर्त्तनम्
मलप्रवृद्धावाटोपो जायते जठरे व्यथा ६९
मूत्रे वृद्धे मुहुर्मूत्रमाध्मानं वस्तिवेदना
स्वेदे वृद्धे तु दौर्गन्ध्यं त्वचि कण्डूश्च जायते ७०
आर्त्तवातिप्रवृत्तिः स्याद्दौर्गन्ध्यं चार्त्तवे भवेत्
अङ्गमर्दश्च जायेत लिङ्गं स्यादार्त्तवेऽधिके ७१
स्तनयोरतिपीनत्वं क्षीरस्रावो मुहुर्मुहुः
तोदश्च तत्र भवति स्तन्याधिक्यस्य लक्षणम् ७२
उदरादिप्रवृद्धिस्तु वृद्धे गर्भेऽभिजायते
स्वेदश्च गर्भवत्याः स्यात्प्रसवे व्यसनं महत् ७३
तत्तद्ध्रासकराहारविहारपरिषेवणात्
दोषधातुमलानां हि ह्रासो निगदितो नृणाम् ७४
पूर्वः पूर्वोऽतिवृद्धत्वाद्वर्द्धयेद्धि परस्परम्
तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम् ७५
असात्म्यान्नसदाक्रोधशोकचिन्ताभयश्रमै
अतिव्यवायानशनात्यर्थसंशोधन्रपि ७६
वेगानां धारणाच्चापि साहसादविघाततः
दोषाणामथ धातूनां मलानाञ्च भवेत्क्षयः ७७
वातक्षयेऽल्पचेष्टत्वं मन्दवाक्यं विसंज्ञता
पित्तक्षयेऽधिकः श्लेष्मा वह्निमान्द्यं प्रभाक्षयः ७८
सन्धयः शिथिला मूर्च्छा रौक्ष्यं दाहः कफक्षये
हृत्पीडा कण्ठशोषौत्वक्शून्यातृट् च रसक्षये ७९
सिराः श्लथा हिमाम्लेच्छा त्वक्पारुष्यं क्षयेऽसृजः
गण्डौष्ठकन्धरास्कन्धवक्षोजठरसन्धिषु ८०
उपस्थशोथपिण्डीषु शुष्कता गात्ररूक्षता
तोदो धमन्यः शिथिला भवेयुर्मांससंक्षये ८१
प्लीहाभिवृद्धिः सन्धीनां शून्यता तनुरूक्षता
प्रार्थना स्निग्धमांसस्य लिङ्गं स्यान्मेदसः क्षये ८२
अस्थिशूलं तनौ रौक्ष्यं नखदन्तत्रुटिस्तथा
अस्थिक्षये लिङ्गमेतद्वैद्यैः सर्वैरुदाहृतम् ८३
शुक्राल्पत्वं पर्वभेदस्तोदः शून्यत्वमस्थिनि
लिङ्गान्येतानि जायन्ते नराणां मज्जसंक्षये ८४
शुक्रक्षये रतेऽशक्तिर्व्यथा शेफसि मुष्कयोः
चिरेण शुक्रसेकः स्यात्सेके रक्ताल्पशुक्रता ८५
ओजः संक्षीयते कोपाच्चिन्ताशोकश्रमादिभिः
रूक्षतीक्ष्णोष्णकटुकैः कर्षणैरपरैरपि ८६
बिभेति दुर्बलोऽभीक्ष्णं चिन्तयेद्व्यथितेन्द्रि यः
अभ्युत्थायोन्मना रूक्षः क्षामः स्यादोजसः क्षये ८७
पुरीषस्य क्षये पार्श्वे हृदये च व्यथा भवेत्
सशब्दस्यानिलस्योर्ध्वगमनं कुक्षिसंवृतिः ८८
मूत्रक्षयेऽल्पमूत्रत्वं वस्तौ तोदश्च जायते
स्वेदनाशस्त्वचो रौक्ष्यं चक्षुषोरपि रूक्षता ८९
स्तब्धाश्च रोमकूपाः स्युर्लिङ्गं स्वेदक्षये भवेत्
आर्त्तवस्य स्वकाले चाभावस्तस्याल्पताऽथ वा ९०
जायते वेदना योनौ लिङ्गं स्यादार्त्तवक्षये
अभावः स्वल्पता वा स्यात्स्तन्यस्य भवतस्तथा ९१
ग्लानौ पयोधरावेतल्लक्षणं स्तन्यसंक्षये
अनुन्नतो भवेत्कुक्षिर्गर्भस्यास्पन्दनं तथा
इति गर्भक्षये प्राज्ञैर्लक्षणं समुदाहृतम् ९२
तत्तत्संवर्द्धनाहारविहारातिनिषेवणात्
तत्तत्प्राप्य नरः शीघ्रं तत्तत्क्षयमपोहति ९३
ओजस्तु वर्द्धते नॄणां सुस्निग्धैः स्वादुभिस्तथा
वृष्यैरन्यैर्विशेषात्तु क्षीरमांसरसादिभिः ९४
दोषधातुमलक्षीणो बलक्षीणोऽपि मानवः
तत्तत्संवर्द्धनं यत्तदन्नपानं प्रकाङ्क्षति ९५
यद्यदाहारजातन्तु क्षीणः प्रार्थयते नरः
तस्य तस्य स लाभेन तत्तत्क्षयमपोहति ९६
कषायकटुतिक्तानि रूक्षशीतलघूनि च
यवमुद्गप्रियङ्गूंश्च वातक्षीणोऽभिकाङ्क्षति ९७
तिलमाषकुलत्थादिपिष्टान्नविकृतिं तथा
मस्तुशुक्ताम्लतक्राणि काञ्जिकञ्चतथा दधि ९८
कट्वम्ललवणोष्णानि तीक्ष्णं क्रोधं विदाहि च
समयं देशमुष्णञ्च पित्तक्षीणोऽभिकाङ्क्षति ९९
मधुरस्निग्धशीतानि लवणाम्लगुरूणि च
दधि क्षीरं दिवास्वप्नं कफक्षीणोऽभिकाङ्क्षति १००
रसक्षीणो नरः काङ्क्षत्यम्भोऽतिशिशिरं मुहुः
रात्रिनिद्रा ं! हिमं चन्द्रं भोक्तुञ्च मधुरं रसम् १०१
इक्षुं मांसरसं मन्थं मधु सर्पिर्गुडोदकम् १०२
द्रा क्षादाडिमशुक्तानि सस्नेहलवणानि च
रक्तसिद्धानि मांसानि रक्तक्षीणोऽभिकाङ्क्षति १०३
अन्नानि दधिसिद्धानि षाडवांश्च बहूनपि
स्थूलक्रव्यादमांसानि मांसक्षीणोऽभिकाङ्क्षति १०४
मेदः सिद्धानि मांसानि ग्राम्यानूपौदकानि च
सक्षाराणि विशेषेण मेदःक्षीणोऽभिकाङ्क्षति १०५
अस्थिक्षीणस्तथा मांसं मज्जास्थिस्नेहसंयुतम्
स्वाद्वम्लसंयुतं द्र व्यं मज्जाक्षीणोऽभिकाङ्क्षति १०६
शिखिनः कुक्कुटस्याण्डं हंससारसयोस्तथा
ग्राम्यानूपौदकानाञ्च शुक्रक्षीणोऽभिकाङ्क्षति १०७
यवान्नं यवकान्नञ्च शाकानि विविधानि च
मसूरमाषयूषञ्च मलक्षीणोऽभिकाङ्क्षति १०८
पेयमिक्षुरसं क्षीरं सगुडं बदरोदकम्
मूत्रक्षीणोऽभिलषति त्रपुसैर्वारुकाणि च १०९
अभ्यङ्गोद्वर्त्तने मद्यं निवातशयनासने
गुरु प्रावरणं चैव स्वेदक्षीणोऽभिकाङ्क्षति ११०
कट्वम्ललवणोष्णानि विदाहीनि गुरूणि च
फलशाकानि पानानि स्त्री काङ्क्षत्यार्त्तवक्षये १११
सुराशाल्यन्नमांसानि गोक्षीरं शर्करां तथा
आसवं दधि हृद्यानि स्तन्यक्षीणाऽभिवाञ्छति ११२
मृगाजाविवराहाणां गर्भान्वाञ्छति संस्कृतान्
वसाशूल्यप्रकारादीन्भोक्तुं गर्भपरिक्षये ११३
रसादिशुक्रपर्य्यन्तं धातुपुष्टिनिमित्तकम्
चेष्टासु पाटवं यत्तु बलं तदभिधीयते ११४
अभिघाताद्भयात्क्रोधाच्चिन्तया च परिश्रमात्
धातूनां संक्षयाच्छोकाद्बलं संक्षीयते नृणाम् ११५
गौरवं स्तब्धता गात्रे मुखम्लानिर्विवर्णता
तन्द्रा निद्रा वातशोथो बलव्यापत्तिलक्षणम् ११६
दोषसाम्यकरं यत्तु बह्निसाम्यकरं च यत्
धातुपुष्टिकरं द्र व्यं बलं तदभिवर्द्धयेत् ११७
कृशोऽपि बलवान्कश्चित् स्थूलोऽत्यल्पबलो यतः
तस्माच्चेष्टापटुत्वेन बलवन्तं विदुर्बुधाः ११८
इति श्रीमिश्रलटकन तनय श्रीमन्मिश्रभाव विरचिते श्रीभावप्रकाशे पूर्वखण्डे परिभाषादिप्रकरणे सप्तमं रोगिपरीक्षाप्रकरणं समाप्तम् ७
इति पूर्व खण्डं समाप्तम्