भारद्वाजगृह्यसूत्रम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

प्रथमः प्रश्नः[सम्पाद्यताम्]

उपनयनं व्याख्यास्यामः । स पुरस्तादेव संभारानुपकल्पयते पालाशमिध्मं
खादिरमौदुम्बरं वैकङ्कतं वैतद्वृक्षीयामेव दर्वीं करोति त्वग्बिलां मूलदण्डारत्नीं चतुरङ्गुलं बिलं करोति । सादयाचारिकं कर्मेति विज्ञायते । गर्भाष्टमेषु ब्राह्मणमुपनयीत गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यं गर्भनवमेषु ब्राह्मणमित्यपरं वासांसि समामनन्त्यैणेयं ब्राह्मणो वसीत रौरवं राजन्यो बस्ताजिनं वैश्यो यदजिनं धारयेद्ब्रह्मवर्चवृद्वासो धारयेत्क्षत्रं वर्धयेदुभयं धार्यमुभयोर्वृद्ध्या इति विज्ञायते वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे हेमन्ते वा राजन्यं शरदि वैश्यं वर्षासु रथकारं शिशिरे वा सर्वानापूर्यमाणपक्षे पुण्ये नक्षत्रे विशेषेण पुंनामधेय आशितस्य कुमारस्य केशान्वापयित्वा स्नातमलंकृतमहतं वासः परिधाप्य प्राचीनप्रवण उदीचीनप्रवणे समे वा देशे स्थण्डिलमुद्धत्यावोक्ष्याग्निं मथित्वा लौकिकं वाहृत्य न्युप्योपसमादधाति १

प्रागग्रैर्दर्भैरग्निं परिस्तृणात्यपि वोदगग्राः पश्चात्पुरस्ताच्च भवन्ति दक्षिणः पक्ष उपरिष्टाद्भवत्यधस्तादुत्तरो दक्षिणेनाग्निं ब्रह्मायतने दर्भान्संस्तीर्य मयि गृह्णाम्यग्रे अग्निमिति द्वाभ्यामात्मन्यग्निं ध्यात्वोत्तरेणाग्निं पात्रेभ्यः संस्तीर्य यथार्थं द्रव्याणि प्रयुनक्त्यश्मानमहतं वासोऽजिनं मौञ्जीं मेखलां त्रिवृतं ब्राह्मणस्य मौर्वीं राजन्यस्य सौत्रीं वैश्यस्य बैल्वं पालाशं वा दण्डं ब्राह्मणस्य नैयग्रोधं राजन्यस्यौदुम्बरं वैश्यस्यैकविंशतिदारुमिध्मं संनह्यत्याहुतिपरिमाणं वा तस्मिञ्छम्याः परिधीनुपसंनह्यति दर्वीं कूर्चमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं येन चार्थः सकृदेव सर्वाणि यथोपपादं वैतस्मिन्काले ब्रह्मा यज्ञोपवीतं कृत्वाप आचम्यापरेणाग्निमतिक्रम्य दक्षिणतो ब्रह्मायतनात्तृणं निरस्याप उपस्पृश्याग्निमभिमुख उपविशत्यपरेणाग्निं प्राङ्मुख उपविश्य समावप्रछिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कृत्वान्येन नखाच्छित्त्वाद्भिरनुमृज्य २

पवित्रान्तर्हिते पात्रेऽप आनीयोपबिलं पात्रं पूरयित्वोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूय समं प्राणैर्धारयमाणोऽविषिञ्चन्हरत्युत्तरेणाग्निं प्रणीताः सादयित्वा दर्भैरपिदधाति प्रणीतावत्प्रोक्षणीः संस्कृत्य बिलवन्त्युत्तानानि कृत्वा विषायेध्मं त्रिः सर्वाभिः प्रोक्षति दर्वीं निष्टप्य संमृज्य पुनर्निष्टप्य निदधाति संमार्गानभ्युक्ष्याग्नावादधाति पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्योत्तरेणाग्निमङ्गारान्निरूह्य तेष्वधिश्रित्यावद्योत्य दर्भतरुणाभ्यां प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्याङ्गारान्प्रत्यूह्योदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय पवित्रे अग्नावाधाय शम्याभिः परिदधात्यपरेणाग्निमुदीचीनकुम्बां शम्यां निदधाति संस्पृष्टे मध्यमया प्राचीनकुम्बे दक्षिणामुत्तरां चापरेणाग्निमुदगग्रं कूर्चं निधाय तस्मिन्प्राङ्मुख उपविशति यज्ञोपवीतं कृत्वाप आचम्य दक्षिणतः कुमार उपविश्यान्वारभते ३

अथ परिषिञ्चत्यदितेऽनुमन्यस्वेति दक्षिणतोऽनुमतेऽनुमन्यस्वेति पश्चात्सरस्वतेऽनुमन्यस्वेत्युत्तरतो देव सवितः प्रसुवेति समन्तमेवं हुत्वा परिषिञ्चति कृतवन्मन्त्रान्नमतीध्मं त्रेधाभ्यज्य सकृदेवादधात्ययं त इध्म आत्मा जातवेदस्तेन वर्धस्व चेन्द्धि वर्धय चास्मान्प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहेत्युत्तरं परिधिसंधिमन्ववहृत्य दर्वीं दक्षिणाप्राञ्चमासीनः संततमृजुमाघारमाघारयति प्रजापतिं मनसा ध्यायन्न च स्वाहा करोति दक्षिणं परिधिसंधिमन्ववहृत्येन्द्राय स्वाहेति प्राञ्चमुदञ्चं संततमृजुमाघारमाघार्याज्यभागौ जुहोत्यग्नये मेधपतये स्वाहेत्युत्तरार्धपूर्वार्धे सोमाय मेधपतये स्वाहेति दक्षिणार्धपूर्वार्धे तावन्तरेणेतरा आहुतीर्जुहोति सर्वदर्विहोमाणामेष कल्पो मन्त्रान्ते नित्यः स्वाहाकारोऽमन्त्रास्वमुष्मै स्वाहेति यथादेवतमादिष्टदेवतेऽथानादिष्टदेवतेऽग्नये स्वाहा सोमाय स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहाग्नये स्विष्टकृते स्वाहेति व्याहृतीभिर्जुहोत्येकैकशः समस्ताभिश्च ४

तत एता आहुतीर्जुहोति या तिरश्ची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारया जुहोमि वैश्वकर्मणीं स्वाहा । यानूची निपद्यसेऽहं संराधनी इति । तां त्वा घृतस्य धारयाग्नौ संराधनीं यजे स्वाहा । संराधन्यै देव्यै स्वाहा । प्रसाधन्यै देव्यै स्वाहा । सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषं स्वाहा । युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् । त्वं भिषग्भेषजस्यासि कर्ता त्वया गा अश्वान्पुरुषान्सनेम स्वाहा । आयुर्दा देव जरसं गृणानो घृतप्रतीको घृतपृष्ठो अग्ने । घृतं पिबन्नमृतं चारु गव्यं पितेव पुत्रं जरसे नयेमं स्वाहेत्यथ वाससोऽन्तान्संमार्ष्टि या अकृन्तन्नवयन्या अतन्वत याश्च देवीरन्तानभितोऽददन्त । तास्त्वा देवीर्जरसे संव्ययन्त्वायुष्मानिदं परिधत्स्व वास इत्यथैनं परिधापयति परिधत्त धत्त वाससैनं शतायुषं कृणुत दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ । जरां गच्छासि परिधत्स्व वासो भवा कृष्टीणामभिशस्तिपावा ।
शतं च जीव शरदः सुवर्चा रायश्च पोषमुपसंव्ययस्वेति ५

परिहितमभिमन्त्रयते परीदं वासो अधिधाः स्वस्तयेऽभूरापीनामभिशस्तिपावा । शतं च जीव शरदः पुरूचीर्वसूनि चार्यो विभजासि जीवन्नित्यथास्य प्रथमवास्यमादत्ते यस्य ते प्रथमवास्यं हरामस्तं त्वा विश्वे अवन्तु देवाः । तं वा भ्रातरः सुहृदो वर्धमानमनुजायन्तां बहवः सुजातमित्यथैनं मौञ्ज्या मेखलया त्रिवृता मध्यतः संनह्यति या बृहती दुरिता रराणा शर्म वरूथं पुनती न आगात् । प्राणापानाभ्यां बलमाभरन्ती स्वसा देवानां सुभगा मेखलेयमिति ग्रन्थिं ग्रथ्नाति प्राणानां ग्रन्थिरसि स मा विस्रस इत्यथाजिनमुत्तरं परिधत्ते मित्रस्य चक्षुर्धरुणं बलीयस्तेजो यशस्वि स्थविरं समिद्धम् । अनाहनस्यं वसनं जरिष्णु परीदं वाज्यजिनं दधेऽहमिति जयाभ्यातानान्नाष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति पूर्णा पश्चादिमं मे वरुन तत्त्वा यामि त्वं नोऽग्ने स त्वं नो अग्ने त्वमग्नेऽयास्ययाश्चाग्नेऽस्यनभिशस्तीश्च यदस्य कर्मणोऽत्यरीरिचं प्रजापत
इत्युत्तमां हुत्वा गुरवे वरं ददाति ६

अपरेणाग्निं द्वयान्दर्भान्पूर्वापरानुदगग्रान्स्तृणाति तेषु पूर्वापरावुपतिष्ठेते प्राङ्मुखः प्रत्यङ्मुखस्य हस्तं गृह्णीयादित्येकं प्रत्यङ्मुखः प्राङ्मुखस्येत्यपरमथैनयोः प्रैषकृदञ्जली उदकेन पूरयत्यथास्याञ्जलिनाञ्जलावदुकमानयति शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु न इत्यथास्य दक्षिणेन हस्तेन दक्षिणं हस्तमभीवाङ्गुष्ठमभीव लोमानि गृह्णाति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तेन ते हस्तं गृह्णामि सवित्रा प्रसूतः को नामासीत्यसावितीतरः प्रत्याह तस्य नामाभिपद्य जपत्यसौ सविता ते हस्तमग्रभीदग्निष्ट आचार्यः कस्य ब्रह्मचार्यसि कस्मै त्वा काय त्वा कमुपनयाम्यागन्ता मा रिषेण्यतः प्रस्थावानो भावस्थातु समन्यवो दृढाश्चिदमरिष्णवः कृशाश्चिदमरिष्णव आ गन्त संरभावहै प्रेतो मृत्युं नुदावहै न
मृत्युश्चरतीह ७
प्राणाय त्वाचार्याय परिददामि कुबेराय त्वा महाराजाय परिददामि तक्षकाय त्वा वैशालेयाय परिददाम्यग्नये त्वा परिददामि वायवे त्वा परिददामि सूर्याय त्वा परिददामि प्रजापतये त्वा परिददामि प्रजापत इमं गोपायामुमिति परिदायाथास्य दक्षिणमंसं प्रति बाहुमन्ववहृत्य नाभिदेशमभिमृशति युवा सुवासाः परिवीत आगात्स उ श्रेयान्भवति जायमानः । तं धीरासः कवय अन्नयन्ति स्वाधियो मनसा देवयन्त इत्यथास्य दक्षिणं कर्णमाजपति भूस्त्वयि दधामि भुवस्त्वयि दधामीत्युत्तरं सुवस्त्वयि दधामीति दक्षिणमपि वोत्तरमेव द्विः सकृदेव दक्षिणमथैनमश्मानमास्थापयत्यातिष्ठेममश्मानमश्मेव त्वं स्थिरो भव प्रमृणीहि दुरस्यून्सहस्व पृतन्यत इति ततः समिधमाधापयत्यग्नये समिधमाहारिषं बृहते जातवेदसे यथा त्वमग्ने समिधा समिध्यस एवं मामायुषा वर्चसा सन्या मेधया प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहेत्येकामादधाति तिस्र एके सप्तैके प्रदक्षिणमग्निं परिक्रम्य दक्षिणत
उदगावृत्योपविश्योपसंगृह्य पृच्छति ८

सावित्रीं भो अनुब्रूहीति तस्मै सावित्रीं पच्छोऽन्वाह भूस्तत्सवितुर्वरेण्यं भुवो भर्गो देवस्य धीमहि सुवर्धियो यो नः प्रचोदयादित्यथ द्वितीयं द्वे च व्याहृती सावित्रीं चार्धर्चशोऽथ तृतीयं सर्वाश्च व्याहृतीः सावित्रीं चानवानं पुरस्तात्प्रत्यङ्मुखायैक आहुस्तां खल्विमां सावित्रीं संवत्सरादेक आहुर्द्वादशरात्रादेके त्रिरात्रादेके सद्य एकेऽथैनं पौरोडाशीयानां प्रथममुपकारयत्यथास्मै दण्डं प्रयच्छन्नाह ब्रह्मचार्यसि समिध आधेह्यपोऽशान कर्म कुरु मा दिवा सुषुप्था भिक्षाचर्यं चराचार्याधीनो वेदमधीष्वेत्यप एवाचार्यकुलेऽश्नीयादित्येकमपरं काममश्नीश्वेति हार्थो भवतीति शाल्मलीमूलो भारद्वाजो वाथास्याष्टाचत्वारिंशद्वर्षाणि पुराणं वेदब्रह्मचर्यं संप्रदिशन्त्या वेदाध्ययनादित्येक आहुरा गोदानकर्मण इत्येकेऽथैनं दक्षिणे पाणावभिपद्योत्थापयत्युदायुषा स्वायुषेत्यादित्यमुदीक्षयति तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्पश्येम शरदः शतं जीवेम शरदः शतं नन्दाम शरदः शतं मोदाम शरदः शतं भवाम शरदः शतं शृणवाम शरदः शतं प्रब्रवाम शरदः शतमजीताः स्याम शरदह् शतं ज्योक्च सूर्यं दृश
इति ९

ततो भिक्षते यां मन्यत इयं मा न प्रत्याख्यास्यतीति तामाहृत्योपनिधायाचार्याय प्राह तिस्रो भिक्षतेऽपरिमिता वा त्रिरात्रमक्षारलवणाश्यधःशायी भवत्यथास्य चतुर्थ्यां मेधाजननं कुर्वन्ति यत्रैकमूलः पलाशः प्राचीं वोदीचीं वा दिशं तं परिसमूह्य प्रक्षाल्य प्रदक्षिणमाज्येनाभ्यञ्जञ्जपति सुश्रवः सुश्रवसं मा कुरु यथा त्वं सुश्रवः सुश्रवा अस्येवं मां सुश्रवः सुश्रवसं कुरु यथा त्वं सुश्रवो देवानां वेदेषु निधिगोपोऽस्येवमहं ब्राह्मणानां वेदेषु निधिगोपो भूयासमित्यथास्य षोडशवर्षस्य गोदानं कुर्वन्ति तस्य चौडेन कल्पो व्याख्यात एतावन्नाना सर्वान्केशान्वापयते गुरवे गां वरं ददाति न प्राग्गोदानकर्मण स्नानीयमभिहरते
न गन्धान्संवत्सरं कृतगोदानो ब्रह्मचर्यं चरत्यग्निगोदानो वा भवति १०

चत्वारि विवाहकरणानि वित्तं रूपं प्रज्ञा बान्धवमिति तानि चेत्सर्वाणि न शक्नुयाद्वित्तमुदस्येत्ततो रूपं प्राज्ञायां च तु बान्धवे च विवदन्ते बान्धवमुदस्येदित्येक आहुरप्रज्ञेन हि कः संवासोऽथैतदपरं न खल्वियमर्थेभ्य ऊह्यते प्रजननार्थोऽस्यां प्रधानः स योऽलं संलक्षणाय स्यात्स तामावहेत यस्यां प्रशस्ता जायेरन्न स्वपन्तीमुपगृह्णीत न चरन्तीं प्रथममभ्यागच्छंस्तां मङ्गल्यानि परिपृच्छेच्चतुरो लोष्टानाहरेद्वेदिलोष्टं गोमयलोष्टं सीतालोष्टं श्मशानलोष्टमिति तामाहैषामेकमादत्स्वेति सा चेद्वेदिलोष्टमाददीताध्यापकं यायजूकं जनयिष्यतीति विद्याद्यदि गोमयलोष्टं बहुपशुं जनयिष्यतीति विद्याद्यदि सीतालोष्टं कृष्टराधिकं जनयिष्यतीति विद्याद्यदि श्मशानलोष्टमादहनशीक्ष्णी परिख्यातेति विद्यान्नैनामुपगृह्णीताथ खलु बहूनि लक्षणानि भवन्ति श्लोकं तु लाक्षणा उदाहरन्ति यस्यां मनोऽनुरमते चक्षुश्च प्रतिपद्यते । तां विद्यात्पुण्यलक्ष्मीकां किं ज्ञानेन करिष्यतीत्युदगयन उपगृह्णीत विज्ञायत उदगयनं देवानामिति दैवं
पुनरिदं कर्म ११

दक्षिणायन इत्यपरं विज्ञायते दक्षिणायनं पितॄणामिति पितृसंयुक्तं पुनरिदं कर्म पूर्वपक्ष उपगृह्णीत विज्ञायते पूर्वपक्षो देवानामिति दैवं पुनरिदं कर्मापरपक्ष इत्यपरं विज्ञायतेऽपरपक्षः पितॄणामिति पितृसंयुक्तं पुनरिदं कर्म पूर्वाह्ण उपगृह्णीत विज्ञायते पूर्वाह्णो देवानामिति दैवं पुनरिदं कर्म मध्यंदिन उपगृह्णीत विज्ञायते मध्यंदिनमृषीणामित्यृषिसंयुक्तं पुनरिदं कर्माथापि विज्ञायते तस्मान्मध्यंदिने सर्वाणि पुण्यानि संनिपतितानि भवन्तीत्यपराह्ण उपगृह्णीत विज्ञायतेऽपराह्णः पितॄणामिति पितृसंयुक्तं पुनरिदं कर्माथापि विज्ञायते भगस्यापराह्ण इति भगसंयुक्तं पुनरिदं कर्माथापि विज्ञायते तस्मादपराह्णे कुमार्यो भगमिच्छमानाश्चरन्तीति पुण्याह उपगृह्णीतापि वै खलु लोके पुण्याह एव कर्माणि चिकीर्षन्ते तस्मादश्लीलनामंश्चित्रे नावस्येन्न यजेत यथा पापाहे कुरुते तादृगेव तदिति परिचष्ट एव पापाहं विज्ञायते तु खल्वेकेषामिन्वकाभिः प्रसृज्यन्ते ते वराः प्रतिनिन्दिता मघाभिर्गावो गृह्यन्ते फल्गुनीभ्यां व्यूह्यत इति यां कामयेत दुहितरं प्रिया स्यादिति तां निष्ट्यायां दद्यात्प्रियैव भवति नैव तु
पुनरागच्छतीति विज्ञायते १२

तत आह स्नापयतैनामिति स्नातायै वाससी प्रयच्छति या अकृन्तन्नवयन्या अतन्वत याश्च देवीरन्तानभितोऽददन्त । तास्त्वा देवीर्जरसे संव्ययन्त्वायुष्मतीदं परिधत्स्व वास इत्यथैनां परिधापयति परिधत्त धत्त वाससैनां शतायुषीं कृणुत दीर्घमायुः । बृहस्पतिः प्रयच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ । जरां गच्छासि परिधत्स्व वासो भवा कृष्टीनामभिशस्तिपावती । शतं च जीव शरदः सुवर्चा रायश्च पोषमुपसंव्ययस्वेति परिहितामभिमन्त्रयते परीदं वासो अधिधाः स्वस्तयेऽभूरापीनामभिशस्तिपावती । शतं च जीव शरदः पुनृचीर्वसूनि चार्या विभजासि जीवतीत्यथास्या अग्रेण ज्ञातिकुलमग्निमुपसमाधायाघारावाघार्याज्यभागौ जुहोत्यग्नये जनिविदे स्वाहेत्युत्तरार्धपूर्वार्धे सोमाय जनिविदे स्वाहेति दक्षिणार्धपूर्वार्धे तत एता आहुतीर्जुहोति भूः स्वाहा भुवः स्वाहा सुवः स्वाहा भूर्भुवः सुवः स्वाहा । या तिरश्ची यानूची संराधन्यै प्रसाधन्यै सदसस्पतिं युक्तो वह जातवेद इति
जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति १३

अग्निरैतु प्रथमो देवतानां सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्रमघं न रोदात्स्वाहा । इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिप्रबुध्यतामियं स्वाहा । मा ते गृहे निशि घोष उत्थादन्यत्र त्वद्रुदत्यः संविशन्तु । मा त्वं विकेश्युर आवधिष्ठा जीवपत्नी पतिलोके विराज पश्यन्ती प्रजां सुमनस्यमानां स्वाहा । द्यौस्ते पृष्ठं रक्षतु वायुरूरू अश्विनौ च स्तनं धयन्तं सविताभिरक्षतु । आ वाससः परिधानाद्बृहस्पतिर्विश्वे देवा अभिरक्षन्तु पश्चात्स्वाहा । अप्रजस्तां पौत्रमृत्युं पाप्मानमुत वाघम् । शीर्ष्णः स्रजमिवोन्मुच्य द्विषद्भ्यः प्रतिमुञ्चामि पाशं स्वाहेति पूर्णा पश्चादिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयास्ययाश्चाग्नेऽस्यनभिशस्तीश्च यदस्य कर्मणोऽत्यरीरिचं प्रजापत इत्युत्तमां हुत्वा गुरवे वरं ददाति
१४

अपरेणाग्निं द्वयान्दर्भान्पूर्वापरानुदगग्रान्स्तृणाति तेषु पूर्वापरावुपतिष्ठेते प्राङ्मुखः प्रत्यङ्मुख्या हस्तं गृह्णीयादित्येकं प्रत्यङ्मुखः प्राङ्मुख्या इत्यपरमथैनयोः प्रैषकृदञ्जली उदकेन पूरयत्यथास्याञ्जलिनाञ्जलावुदकमानयति शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु न इत्यथास्या दक्षिणेन हस्तेन दक्षिणं हस्तमभीवाङ्गुष्ठमभीव लोमानि गृह्णाति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । हस्तेन ते हस्तं गृह्णामि सौभगत्वाय मया पत्या जरदष्टिर्यथासः । भगो अर्यमा सविता पुरंधिस्ते त्वा देवा अदुर्मह्यं पत्नीम् । अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः शन्तमा प्रजायै । क्षुरपविर्जारेभ्यो जीवसूर्वीरसूः स्योना मह्यं त्वादुर्गार्हपत्याय देवाः । तां नः पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊनू उशती विस्रयातै
यस्यामुशन्तः प्रहरेम शेफम् १५

सोमः प्रथमो विविदे गन्धर्वस्ततोऽपरः
तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः
सोमो ददद्गन्धर्वाय गन्धर्वोऽग्नये ददत्
रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम्
सरस्वति प्रेदमव सुभगे वाजिनीवति
तां त्वा विश्वस्य भूतस्य प्रगायामस्यग्रत

इत्यथैनौ ब्रह्माभिमन्त्रयते समितं संकल्पेथां सं वां सृजामि हृदये । संसृष्टं
मनो अस्तु वां संसृष्टः प्राणो अस्तु वामित्यथैनामश्मानमास्थापयत्यातिष्ठेममश्मानमश्मेव त्वं स्थिरा भव । प्रमृणीहि दुरस्यून्सहस्व पृतनायत इति प्रदक्षिणमग्निं परिणयति विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विष इत्यथास्या भ्राताञ्जलिनाञ्जलावुपस्तीर्णाभिघारितान्लाजानावपतीयं नार्युपब्रूतेऽग्नौ लाजानावपन्ती । दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो मम । भगेन त्वा संसृजामि मासरेण सुरामिवेत्यथैनां वाचयतीमान्लाजानावपामि समृद्धिकरणान्मम । तुभ्यं च संवननांस्तदग्निरनुमन्यतामियं स्वाहेत्येवमेव
त्रिरास्थापयति त्रिः परिणयति त्रिरावपत्यथैनां प्राचीं वोदीचीं वा १६

सप्त पदानि प्रक्रमयत्येकमिषे विष्णुस्त्वान्वेतु द्वे ऊर्जे विष्णुस्त्वान्वेतु त्रीणि व्रताय विष्णुस्त्वान्वेतु चत्वारि मायोभवाय विष्णुस्त्वान्वेतु पञ्च पशुभ्यो विष्णुस्त्वान्वेतु षड्रायस्पोषाय विष्णुस्त्वान्वेतु सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेत्विति सप्तमे पदे समीक्षमाणो जपति सखा सप्तपदा भव सखायौ सप्तपदावभूव । सख्यं ते गमेयं सख्यात्ते मा योषं सख्यान्मे मा योष्ठा इत्यथास्या दक्षिणमंसं प्रति बाहुमन्ववहृत्य हृदयदेशमभिमृशति मम हृदये हृदयं ते अस्तु मम चित्ते चित्तमस्तु ते । मम वाचमेकमना शृणु मामेवानुव्रता भव

सहचर्या मया भवेत्यथास्या दक्षिणं कर्णमाजपति
मां ते चित्तं प्रविशतु मां चक्षुर्मामु ते मनः
मयि सर्वाणि भूतानि मयि प्रज्ञानमस्तु ते
मधु हे मध्वागाहे जिह्वा मे मधुवादिनी
मुखे मे सारघं मधु दत्सु संवननं कृतम्
चाक्रवाकं संवननं यन्नदीभ्य उदाहृतम्
यद्देवगन्धर्वो वित्तस्तेन संवनिनौ स्वः
मां चैव पश्य सूर्यं च मान्येषु मनः कृथा इति १७

अथास्याः स्वधितिं मूर्ध्नि धारयन्हिरण्यं वोदकुम्भेनावसिञ्चत्यापो हि ष्ठा मयोभुव इति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेनावसिच्य यथार्थं वहन्त्युह्यमानामनुमन्त्रयते ये वध्वश्चन्द्रं वहतं यक्ष्मा यन्ति जनामनु । पुनस्तान्यज्ञिया देवा नयन्तु यत आगता इत्यथैनां गृहानुह्यानडुहे रोहिते चर्मण्युपवेशयतीह गावो निषीदन्त्विहाश्वा इह पुरुषाः । इहो सहस्रदक्षिणोऽभि पूषा निषीदत्वित्यथैनामाग्नेयेन स्थालीपाकेन याजयत्यथैतस्य स्थालीपाकस्योपहत्याभिघार्य जुहोत्यग्नये स्वाहाग्नयेऽग्निवते स्वाहाग्नयेऽन्नादाय स्वाहाग्नये स्विष्टकृते स्वाहेति यावज्जीवमेतमग्निं व्रीहिभिर्यवैर्वा सायं प्रातः परिचरत्यग्नये स्वाहेति सायं पूर्वामाहुतिं जुहोति प्रजापतये स्वाहेत्युत्तरां सौरीं पूर्वां प्रातरेके समामनन्त्यौपासनो नित्यो धार्योऽनुगतो
मन्थ्यः श्रोत्रियागाराद्वाहार्योऽन्यतरस्य चैतदहरुपवासः १८

अष्टम्यः पर्वाणि चोपवसत्याग्नेयेन स्थालीपाकेन पर्वसु यजते वाग्यत आस्त आ नक्षत्राणामुदयादुदितेषु नक्षत्रेषु वत्समन्वारभ्योत्थापयत्युदायुषा स्वायुषेत्यथैनां ध्रुवमरुन्धतीमन्यानि च नक्षत्राण्यभिवीक्षयति नमो ब्रह्मणे ध्रुवायाच्युतायास्त्वित्येतेनानुवाकेन ध्रुवमुपतिष्ठते ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवमसि ध्रुवत स्थितम् । त्वं नक्षत्राणां मेथ्यसि स मा पाहि पृतन्यत इति सप्तर्षयः प्रथमां कृत्तिकानामरुन्धतीं ध्रुवतां ये ह निन्युः । षट्कृत्तिका मुख्ययोगं वहन्तीयमस्माकं भ्राजत्वष्टमीत्यरुन्धतीं त्रिरात्रमक्षारलवणाशिनावधःशायिनौ ब्रह्मचारिणौ भवतोऽथ चतुर्थ्यामपररात्रेऽन्तरागारेऽग्निमुपसमाधाय जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोत्यग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणास्त्वा नाथकामः प्रपद्ये । यास्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा । वायो प्रायश्चित्त आदित्य प्रायश्चित्ते प्रजापते प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये । यास्यै
निन्दिता तनूस्तामितो नाशयामसि स्वाहेति १९

अथैनां तूष्णीं हिंकृत्य वाग्यत उपेत्यामूहमस्मि सा त्वं द्यौरहं पृथिवी त्वं सामाहमृक्त्वं तावेहि संभवाव सह रेतो दधावहै पुंसे पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेत्यथास्या अपवृत्तार्थोऽपवृत्तार्थायै मुखेन मुखं संनिधाय प्राणित्येतं प्राणमपानिहीति तं सा प्रत्यपानित्यथास्या आचान्तोदकायै पाणी प्रक्षाल्याभिमृशति करद्दधच्छिवेन त्वा पञ्चशाखेन हस्तेनाविद्विषावता साहस्रेण यशस्विनाभिमृशामि सुप्रजास्त्वायेति भसद्देशं यदा मलवद्वासा स्यादथैनां ब्राह्मणप्रतिषिद्धानि व्रतानि संशास्ति यां मलवद्वाससमिति चतुर्थ्यां स्नातां प्रयतवस्त्रां ब्राह्मणसंभाषां सं ते मनसा मन इत्येतेनानुवाकेनोपसंविशति सर्वाण्युपायनानि मन्त्रवन्ति भवन्तीत्याश्मरथ्यो यच्चादौ यच्चर्तावित्या
लेखनः २०

अथास्याः प्रथमगर्भिण्याश्चतुर्थे मासि सीमन्तं कुर्वन्त्यापूर्यमाणपक्षे पुण्ये नक्षत्रे पयसि स्थालीपाकं श्रपयित्वान्तरागारेऽग्निमुपसमाधाय जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति भूर्भुवः सुवः प्रजापत इति चतस्रस्त्रेण्या शलल्या त्रीणि दर्भपुञ्जीलानि शलालुग्रप्समित्युपनियम्योर्ध्वं सीमन्तमुन्नयति भूर्भुवः सुवो राकामहं यास्ते राके । सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः । विवृत्तचक्रा आसीनास्तीरेण यमुने तवेति तीरेणासौ तवेति वा यस्यास्तीरे वसति पुरस्तादग्नेरेतानि निधाय त्रीनोदनानुद्धृत्य सर्पिषोपसिच्योपनिदधात्युदशरावं चतुर्थं तेषामेकैकमवेक्षमाणां पृच्छति किं पश्यसीति पुत्रांश्च पशूंश्चेति प्रत्याह तेषामेकं ब्राह्मणान्भोजयेदेकं ब्राह्मणीरेकं सह कुमारैः सा प्राश्नाति वाग्यत
आस्त आ नक्षत्राणामुदयादुदितेषु नक्षत्रेष्विति समानम् २१

अथ पुंसवनं तृतीये मासि चतुर्थादौ वा तिष्येण वा हस्तेन वानुराधैर्वोत्तरैर्वा प्रोष्ठपदैर्न्यग्रोधावरोधमाहृत्यानवस्नातया कुमार्या दृषत्पुत्रे दृषत्पुत्रेण पेषयित्वान्तरागारेऽग्निमुपसमाधाय जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति यस्त्वा हृदा किरिणेति चतस्रोऽपरेणाग्निं प्राचीमुत्तानां निपात्याथास्या दक्षिणे नासिकाछिद्रेऽङ्गुष्ठेनानुनयति पुंसवनमस्यमुष्या इति सा हेत्याह पुमांसमेव जनयत्यथ क्षिप्रंसुवनं यज्ञोपवीतं कृत्वाप आचम्यानाप्रीतेन शरावेणानुस्रोतसमुदकमाहृत्य पत्तस्तूर्यन्तीं निधाय मूर्धञ्छोष्यन्तीमभिमृशति दशभिस्त्वाङ्गुलिभिरभिमृशामि दशमास्याय सूतवा इत्यथैनामद्भिरवोक्षति यथैव वातः पवते यथा समुद्र एजति । एवं कुमार एजतु सह जरायुणावपद्यतामित्यथ यद्यपरा न पतेत्पाणिनोदकमादाय मूर्धन्येनामवसिञ्चेत्तिलदेऽवपद्यस्व न मांसमसि नो दलमवपद्यस्वासाविति यदि गर्भः स्रंसेदार्द्रेण पाणिना त्रिनूर्ध्वं नाभेरुन्मृजेत्पराञ्चं त्वा नार्वाञ्चं त्वष्टा बध्नातु बन्धनैः । स ऋतूनुपशेष्व दशमासोऽवीरहेति २२

विजातायाः परिदां करोति दक्षिणार्धेऽगारस्याग्निमुपसमाधाय सर्षपान्फलीकरणमिश्रानञ्जलावध्युप्य जुहोति शण्डो मर्क उपवीरस्तुण्डिकेर उलूखलः । च्यवनो नश्यतादितः स्वाहेत्येवं द्वितीयामेवं तृतीयामथापरां केशिनी श्वलोमिनी खजाबोजोपकाशिनी । अपेत नश्यतादितः स्वाहेत्येवं द्वितीयामेवं तृतीयामथापरामर्यम्णः कुम्भीपात्रः पात्रपाणिर्निपुणिः । अपेत नश्यतादितः स्वाहेत्येवं द्वितीयामेवं तृतीयामथापरां मिश्रवाससः कौबेरका रक्षोराजेन प्रेषिताः । ग्रामं सजानयो गच्छन्तीच्छन्तोऽपरिदाकृतान्स्वाहा । एतान्घ्नतैतान्गृह्णीतेत्ययं ब्राह्मणो दूतः । तानग्निः पर्यसरत्तानिन्द्रस्तान्बृहस्पतिः । तानहं वेद ब्राह्मणः प्रमृशतः कूटदन्तान्विकेशान्लम्बनस्तनान्स्वाहा । नक्तंचारिण उरस्पेशाञ्छूलहस्तान्कपालपान् । पूर्व एषां पितैत्युच्चैः श्राव्यकर्णकः । माता जघन्या सर्पति ग्रामे विधुरमिच्छन्ती स्वाहा । प्रदोषचारिणी स्वसा संधिना प्रेक्षते कुलम् । या स्वपन्तं बोधयति यस्यै विजातायां मनः । तासां त्वं कृष्णवर्त्मने क्लोमानं हृदयं यकृत् । अग्ने अक्षीणि निर्दह स्वाहेत्येवमेव
निष्क्रामति च प्रपद्यामाने चावपताहरहरा निर्दशताया इति २३

सा यदि पुमांसं जनयति तमभिमृशति वृधदिति मध्यमं पलाशपलाशं संवेष्ट्य तेनास्य दक्षिणं कर्णमाजपति भूस्त्वयि दधामीति भुवस्त्वयि दधामीत्युत्तरं सुवस्त्वयि दधामीति दक्षिणमपि वोत्तरमेव द्विः सकृदेव दक्षिणमथैनमभिमन्त्रयतेऽश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामासि स जीव शरदः शतम् । मेधां ते देवः सविता मेधां देवी सरस्वती । मेधां ते अश्विनावुभावाधत्तां पुष्करस्रजौ । वेदो वै पुत्रनामासि स जीव शरदः शतमित्यथैनं दधि मधु घृतमिति संसृज्य त्रिभिर्दर्भपुञ्जीलैर्हिरण्येन वा त्रिः प्राशयत्यपां त्वौषधीनां रसं प्राशयाम्यायुर्वर्चो यशो मेधां त्वयि दधामि सवित्रा प्रसूतस्त्वष्टा वीरमधात्स मे शतायुरेधि भूर्भुवः सुवरित्यथास्य दक्षिणेन हस्तेन दक्षिणं हस्तमभीवाङ्गुष्ठमभीव लोमानि गृह्णात्यग्निरायुष्मानित्येतैर्मन्त्रैर्नवनीतेन
पाणी अभ्यज्य हिरण्यं हस्ते कृत्वा २४

अग्नौ प्रताप्याभिमृशत्यग्नेस्त्वा तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण विश्वेषां त्वा देवानां क्रतुनाभिमृशामि । अङ्गादङ्गात्संभवसि हृदयादधि जायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतमित्यथैनं वात्सप्रेणाभिमृशति दिवस्परीत्यनुवाकेन यत्र शेते तदभिमृशति वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् । वेदामृतस्य गोप्तारं माहं पौत्रमघं रुदमित्यथैनं मातुरुपस्थ आदधाति मा ते पुत्रं रक्षो वधीन्मा धेनुरत्यासारिणी । प्रिया धनस्य भूया एधमाना स्वे वश इति स्तनं प्रतिधापयत्ययं कुमारो जरां धयतु दीर्घमायुः । तस्मै त्वं स्तन प्रप्यायायुर्वर्चो यशो बलमिति संविष्टाभ्यां परिदां करोति नामयति न रुदति यत्र वयं वदामसि यत्र चाभिमृशामसीति शिरस्त उदकुम्भं निदधात्यापः सुप्तेषु जाग्रत रक्षांसि निरितो नुदध्वमिति नैतासामपामुदकार्थं कुर्वन्त्यथ यदि चिरं न विजायते स्रजमेनां दर्शयेत्परिमुक्तायां क्षिप्रमेवोपनिर्हरेद्यदा यदा सूतिकारोगः स्याद्दक्षिणस्य पदस्तप्तोदकेन पार्ष्णिं क्लेदयित्वा तदा तदा तं देशमवमार्ष्टि यत्रास्या दुःखं भवति धनुर्मटची पुरुषस्य हस्तयोरेकशतं शृणोरङ्ग ते धापयितारस्त्वं रोगस्येशिषे त्वमु रोगस्य सूतिकारोगभैषज्यमस्यमुष्या इति
२५

उपनिर्हरन्ति सूतिकाग्निमौपासनमतिहरन्ति स एष उत्तपनार्थो भवति नास्मिन्किं चन कर्म क्रियते दशम्यां स्नातौ मातापुत्रौ शुच्यगारं कुर्वन्त्युपनिर्हरन्त्यौपासनं सूतिकाग्निमतिहरन्त्यन्तरागारेऽग्निमुपसमाधाय जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति धाता ददातु नो रयिमित्यष्टौ दशम्यां पुत्रस्य नाम दधाति द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्टानान्तं तद्धि प्रतिष्ठितमिति विज्ञायते पिता मातेत्यग्रेऽभिव्याहरेयातां विज्ञायते मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्र इति द्वे नामनी कुर्याद्विज्ञायते च तस्माद्द्विनामा ब्राह्मणोऽर्धुक इति नक्षत्रनाम द्वितीयं
स्यादन्यतरद्गुह्यं स्यादन्यतरेणैनमामन्त्रयेरन् २६

विप्रोष्य हरिणी दूर्वे आदाय गृहानुपोदेति गृहा मा बिभीत मा वेपिढ्वमूर्जं बिभ्रत एमसि । ऊर्जं बिभ्रद्वः सुमनाः सुवर्चा गृहानेमि मनसा मोदमानः । येषां प्रवसन्नध्येति येषु सौमनसो बहुः । गृहानुपह्वयामहे ते नो जानन्तु जानतः । इमे गृहाः प्रति जीवेष्वस्थुरूर्जं बिभ्रतो जगतः सुशेवाः । एह वत्सः क्रन्दत्वा कुमार आ धेनवो बहुला नित्यवत्साः । उपहूतं गोअश्वमुपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु मे । ऊर्जं बिभ्रत एमस्यूर्जा वः संसृजामि रमध्वं मा बिभीतनेति तृणे प्रास्यति शिवा उपमितः प्रमितश्च सन्त्विति द्वार्ये संमृशति क्षेमाय वः शिवः शान्त्यै प्रपद्य इति प्रपद्यते दक्षिणपूर्वाभ्यामनुवीक्षतेऽभयं वोऽस्त्वभयं मे अस्त्विति भार्यां संगच्छम्नानामनुमन्त्रयते विश्वा उत त्वया वयमित्येतया पुत्रं संगच्छमानमनुमन्त्रयतेऽङ्गादङ्गात्संभवसीति द्वाभ्यामथैनं मूर्धंस्त्रिरवजिघ्रेत्पशूनां त्वा हिंकारेणाभिजिघ्रामि प्रजापतये त्वा हिंकारेणाभिजिघ्रामि प्रजापतिस्त आयुर्दधातु स मे शतायुरेधि भूर्भुवः सुवरिति सर्वेभ्यः प्राणेभ्यो जातासि सा जीव शरदः शतमिति दुहितुरथैनं षष्ठे मास्यन्नं प्राशयति तस्य स एव प्राशनकल्पो यो मेधाजनन एतावन्नाना भूरित्यग्रे प्राशयति भुव इति द्वितीयं सुवरिति तृतीयम्
२७

अथास्य सांवत्सरिकस्य चौडं कुर्वन्ति यथर्षि यथोपज्ञं वा विज्ञायते च यत्र बाणाः संपतन्ति कुमारा विशिखा इवेति बहुशिखा इवेत्यथान्नं संस्कृत्य ब्राह्मणान्भोजयित्वाशिषो वाचयित्वान्तरागारेऽग्निमुपसमाधाय जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति पूर्णा पश्चादिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्नेऽयास्यनभिशस्तीश्च यदस्य कर्मणोऽत्यरीरिचं प्रजापत इत्युत्तमां हुत्वा गुरवे वरं ददात्यपरेणाग्निं गोमयपिण्डं सर्वबीजानीत्युपनियम्य सर्वबीजानामग्रं गोमयपिण्डे न्युप्य शीतोष्णा अपः समानीय ताभिरस्य दक्षिणं गोदानमुनत्त्याप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चस इति त्रेण्या शलल्या विनीय त्रीणि दर्भपुञ्जीलान्यूर्ध्वाग्राण्युपनियच्छत्योषधे त्रायस्वैनं स्वधिते मैनं हिंसीरिति लोहितायसं क्षुरं तिर्यञ्चं निधाय प्रवपति यदृषीणां त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् । यद्देवानां त्र्यायुषं तन्मेऽस्तु त्र्यायुषम् । येन पूषा बृहस्पतेरग्नेरिन्द्रस्य चायुषेऽवपत्तेन ते वपाम्यसौ दीर्घायुत्वाय वर्चस इत्येवमेवोत्तरं गोदानं वापयते केशान्वापयित्वा गोमयपिण्डे निदधात्यथैनं गोमयपिण्डं गोष्ठ उदकान्त उदुम्बरमूले दर्भस्तम्बे वा
निदधात्यथैनं स्नातमलंकुर्वन्ति २८
इति भारद्वाजसूत्रे प्रथमः प्रश्नः

==द्वितीयः प्रश्नः==
श्रवणकर्म व्याख्यास्यामः श्रावण्यां पौर्णमास्यामुपकल्पयतेऽक्षतधानाश्चाक्षतसक्तूंश्च जात्यं चाञ्जनमस्तमित आदित्येऽन्तरागारेऽग्निमुपसमाधाय जयाभ्यातानान्राष्ट्रभृत इति हुत्वाक्षतधानानां चाक्षतसक्तूनां च समवदायाभिघार्य जुहोत्याग्नेयाय पाण्डराय पार्थिवानामधिपतये स्वाहेति प्रथमामाहुतिं जुहोति श्वेताय वायव्यायान्तरिक्षाणामधिपतये स्वाहेति द्वितीयामभिभुवे सूर्याय दिव्यानामधिपतये स्वाहेति तृतीयामुपनिष्क्रम्य स्थण्डिल एवैता आहुतीर्जुहोत्यपि वा समीची नामासि प्राची दिगिति सर्पाहुतीः प्राशनार्था धाना उपकल्प्याक्षतधानाश्चाक्षतसक्तूंश्च जात्यं चाञ्जनं स्थण्डिले न्युप्याभिमन्त्रयते नमोऽस्तु सर्पेभ्य इति तिसृभिस्ततो यावन्तं देशं कामयत इमं सर्पा नागच्छेयुरिति तं संततयोदधारयानुपरिषिञ्चत्यप श्वेत पदा जहि पूर्वेण चापरेण च । सप्त च मानवैरिमास्तिस्रश्च राजबन्धवैः । न वै श्वेतस्याध्याचारेऽहिर्ददंश कां चन । श्वेताय वैदर्व्याय नम इति तत एता धाना असमेत्यावगिरन्ति यावन्तो हविरुच्छिष्टाशा भवन्ति तत एतांश्चतुरो मासान्सर्पेभ्यो बलिं हरन्ति
सक्तून्वैवमर्थान्कुर्वन्त्यपि वा यद्यदन्नं क्रियते तस्य तस्य १

तत आग्रहायण्यां पौर्णमास्यामेवमेवैतत्कर्म क्रियते यदन्यद्धानाप्राशनात्परिषेचनादिति सर्वं तत्क्रियत आग्नेयेन स्थालीपाकेन पर्वसु यजते तस्य पुरस्तात्स्विष्टकृत एता आहुतीर्जुहोतीडायाः पदं घृतवच्चराचरं जातवेदो
हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्वनूपास्तेषां सप्तानामिह रन्तिरस्तु
पुष्ट्यै स्वाहा
यां देवाः प्रतिनन्दन्ति रात्रिं धेनुमिवायतीम्
संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा
पौर्णमासी पूरयन्त्यायात्यपरापरम्
अर्धमासान्विभजन्ती सा नः पूर्णाभिरक्षतु स्वाहा
शिवा पशुभ्यो दारेभ्यः शिवा नक्तं शिवा दिवा
संवत्सरं कल्पयन्ती सा नः कामदुघा भवत्स्वाहा
पूर्णा पश्चात्त्वमग्ने अयासि प्रजापत इति तिस्रस्ततः सौविष्टकृतं जुहोत्यग्नये
स्विष्टकृते स्वाहेत्यथ हेमन्तप्रत्यवरोहणं यत्र प्रत्यवरोक्ष्यन्भवति तदुपतिष्ठते प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रति तिष्ठामि गोषु । प्रति प्रजायां प्रति तिष्ठामि भव्ये । स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म
सप्रथा इति २
शालाकर्म व्याख्यास्यामः शालां कारयिष्यमाण आपूर्यमाणपक्षे पुण्ये नक्षत्रे ब्राह्मणानन्नेन परिविष्य परिलिख्येहैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठतु घृतमुक्षमाणा । तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा अनुसंचरेमेति दक्षिणां द्वारस्थूणामुच्छ्रयतीहैव ध्रुवा प्रतितिष्ठ शालेऽश्ववती गोमती सूनृतावती । ऊर्जस्वती पयस्वती घृतवत्युच्छ्रयस्व महते सौभगायेत्युत्तरामा त्वा कुमारस्तरुण आ वत्सो जगता सह । आ त्वा परिस्रुतः कुम्भ आ दध्नः कलशीरयन्निति संमिते अभिमृशत्येवमेव स्थूणाराजावुच्छ्रयत्येवमभिमृशत्यृतेन स्थूणावधिरोह वंशोग्रो विराजन्नपसेध शत्रून् । अथास्मभ्यं सर्ववीरां रयिं दा इति पृष्ठवंशमधिरोपयति मानस्य पत्नि शरणा स्योना देवेभिर्विमितास्यग्रे । तृणं वसाना सुमना असस्त्वं शं न एधि द्विपदे शं चतुष्पद इति
छन्नामभिमृशति ३

अगारप्रवेशं व्याख्यास्याम आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽन्तरागारेऽग्निमुपसमाधाय जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति वास्तोष्पत इति द्वे वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व स्वाहा । परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् । वास्तोष्पते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत विरान्स्वाहेति भूमिमभिमृशति प्रति क्षत्रे प्रति तिष्ठामि राष्ट्र इति द्वाभ्यामिदं श्रेयोऽवसानं यदागां स्योने मे द्यावापृथिवी अभूताम् । अनमीवाः प्रदिशः सन्तु मह्यं गोमद्धनवदश्ववदूर्जस्वत्सुवीरवदिति चैतयाहतं वास आच्छाद्य तद्वास्तु परिमापयेदृतं वृणीष्व मावार्यं मा नो हिंसीः कदाचन । स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथा इत्युदायुषा स्वायुषेत्युपोत्थायोपसमूह्य ब्राह्मणानन्नेन परिवेषयेत् ४

तत्पूर्वं वास्तुशमनमथान्यच्छरणे कृत उदुम्बरपलाशानि ससुषिराणि यवैः सह गोमयं शाड्वलं रासभं मधु चैवात्र सप्तमं तैरगारं वास्तु च परिप्रोक्षेत्पूर्ण उदधिर्भवति प्रज्वलितोऽग्निर्भवति ब्राह्मणमग्रे प्रवेशयति ब्राह्मणमाह प्रविशानीति प्रविशतु भवानायुषा वर्चसा श्रियावृत इति ब्राह्मणानुमतः प्रविशति भूः प्रपद्ये भुवः प्रपद्ये श्रियं प्रपद्ये श्रीर्मा प्रविशत्विति ब्राह्मणमनु प्रविश्य जयाभ्यातानान्राष्ट्रभृत इति हुत्वाग्निं देवानां महयत्यग्निर्देवानामधिपतिः पुरीष्यो हव्यवाहनः । तं त्वैमि शरणं देव सपुत्रः सह ज्ञानिभिः स्वाहा । सदासभार्यः सामात्यः सायामग्नये स्वाहेत्यग्निं महयित्वाथ राजानमीडते त्वद्दत्तं वै बलं राज्ये त्वत्पूर्तमिह जीवते । हिरण्यवर्ण हर्यक्ष अर्थं मह्यं साधय स्वाहा । कुबेराय स्वाहा महाराजाय स्वाहा वैश्रवणाय स्वाहेति राजानं महयित्वाथेन्द्रं देवानां महयति त्रातारमिन्द्रमिन्द्रं विश्वा अवीवृधन्नितीन्द्रं महयित्वा विश्वान्देवान्महयति विश्वे देवा विश्वे देवा इति द्वाभ्यां
विश्वान्देवान्महयित्वा ५

अथ पञ्चेध्मानभ्याधाय जुहोति मेधां मनसि जुहोमि स्वाहा । मनो मेधायां जुहोमि स्वाहा । श्रद्धां तपसि जुहोमि स्वाहा । तपः श्रद्धायां जुहोमि स्वाहा । मृत्योर्मुखं विदधामि स्वाहा । ये देवाः पुरः सदोऽग्निनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा । शान्तमिदमवसानं प्रपद्ये स्वाहा । ये देवा दक्षिणासदो ये देवाः पश्चात्सदो ये देवा उत्तरसदो ये देवा उपरिषदो बृहस्पतिनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा । शान्तमिदमवसानं प्रपद्ये स्वाहा । पूर्णा पश्चादिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयास्ययाश्चाग्नेऽस्यनभिशस्तीश्च यदस्य कर्मणोऽत्यरीरिचं प्रजापत इत्युत्तमां हुत्वा ब्राह्मणानन्नेन परिवेषयेद्यद्वास्तु गर्हितं यत्र वान्यः परिभवेत्तत्रापि सुखमासीत शमयन्वास्त्वृतावृतावेतद्धौम्यस्य वचनमसितस्य तुरङ्गस्य च मुनेः काव्यस्य दाल्भ्यस्य नैतद्विद्वान्पराभवेत् ६

श्वग्रहप्रायश्चित्तं श्वोपस्पृष्टे तद्यज्ञोपवीतं कृत्वाप आचम्यानाप्रीतेन शरावेणानुस्रोतसमुदकमाहृत्याथ सभायां मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेषु हिरण्यं निधायोपरिष्टात्सभायां व्यूह्य तृणानि तेन कुमारमन्ववहृत्याक्षेषूत्तानं निपात्य दध्ना लवणोदकमिश्रेणाभ्युक्ष्य जपत्याघ्नन्ति कंसं दक्षिणतः

कुर्कुरः सुकुर्कुरः कुर्कुरो बालबन्धनः
उपरिष्टाद्यदेजायतृतीयस्यामितो दिवि
औलब इत्तमुपाह्वयाथार्जीच्छ्यामः शबलः
अधोराम उलुम्बलः सारमेयो ह धावति समुद्रमिव चाकशत्
बिभ्रन्निष्कं च रुक्मं च शुनामग्रं सुबीरिणः
सुबीरिण सृज सृजैकव्रात्य शुनक सृज छत्
तत्सत्यं यत्त्वेन्द्रोऽब्रवीद्रा स्पाशयस्वेति तास्त्वं स्पाशयित्वागच्छस्तं त्वाब्र
वीदविदहा इत्यविदं हीति वरं वृणीष्वेति कुमारमेवाहं वरं वृण इत्यब्रवीः
निगृह्य बाहू प्लवसे द्यामिव चाकशत्
बिभ्रन्निष्कं च रुक्मं च शुनामग्रं सुबीरिणः
सुबीरिण सृज सृजैकव्रात्य शुनक सृज छत्
तत्सत्यं यत्ते सरमा माता लोहितः पिता
अमी ये के सरस्यका अवधावति तृतीयस्यामितो दिवि
तेकश्च ससरमतण्डुलः कुलश्च विकुलश्चार्जुनश्च लोहितश्च
उत्सृजेमं शुचीमनस्त्वं पिशङ्गलोहितः
दुला ह नाम वो माता मण्डाकको ह वः पिता
छदपेहि सीसरम सारमेय नमस्ते अस्तु सीसर
सं तक्षा हन्ति चक्री वो न सीसरीदत
छदपेहि सीसरम सारमेय नमस्ते अस्तु सीसर
समश्वा वृषणः पदो न सीसरीदत
श्वानमिच्छादन्न पुरुषं छदिति त्रिः प्रातर्मध्यंदिने सायमगदो हैव भवतीत्याह
ततः कुर्याद्यदि नागदः स्यात् ७

शूलगवं व्याख्यास्याम आपूर्यमाणपक्षे पुण्ये नक्षत्रे पयसि स्थालीपाकं श्रपयित्वा प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य स्थण्डिलं कल्पयित्वाग्निमुपसमाधाय संपरिस्तीर्यापरेणाग्निं द्वे कुटी कृत्वा शूलगवमावाहयत्या त्वा वहन्तु हरयः सुचेतसः श्वेतैरश्वैः सह केतुमद्भिः । वाताजिरैर्मम हव्याय शर्वोमिति दक्षिणस्यां शूलगवमुत्तरस्यां मीढुषीं मध्ये जयन्तं यथोढमुदकानि प्रदाय त्रीनोदनानुद्धृत्य यथोढमेवोपस्पर्शयत्युपस्पृशतु मीढ्वान्मीढुषे स्वाहोपस्पृशतु मीढुषी मीढुष्यै स्वाहा जयन्तोपस्पृश जयन्ताय स्वाहेति शूलगवस्याग्निमभ्युदाहृत्य जुहोति भवाय देवाय स्वाहा शर्वाय देवाय स्वाहेशानाय देवाय स्वाहोग्राय देवाय स्वाहा भीमाय देवाय स्वाहा रुद्राय देवाय
स्वाहा पशुपतये देवाय स्वाहा महते देवाय स्वाहेति ८

पत्न्योदनस्य पत्नीभ्यो जुहोति भवस्य देवस्य पत्न्यै स्वाहा शर्वस्य देवस्य पत्न्यै स्वाहेशानस्य देवस्य पत्न्यै स्वाहोग्रस्य देवस्य पत्न्यै स्वाहा भीमस्य देवस्य पत्न्यै स्वाहा रुद्रस्य देवस्य पत्न्यै स्वाहा पशुपतेर्देवस्य पत्न्यै स्वाहा महतो देवस्य पत्न्यै स्वाहेति जयन्ताय स्वाहेति मध्यमस्य जुहोति सर्वेषामोदनानां सकृत्सकृत्समवदायाभिघार्य जुहोत्यग्नये स्विष्टकृते स्वाहेत्यथोपतिष्ठते स्वस्ति नः पूर्णमुखः परिक्रामत्वित्यथातः पर्णविहारो गृहपोपस्पृश गृहपाय स्वाहा गृहप्युपस्पृश गृहप्यै स्वाहा जयन्तोपस्पृश जयन्ताय स्वाहेति षट् पलाशान्यथापराणि घोषिण उपस्पृशत घोषिभ्यः स्वाहा श्वासिन उपस्पृशत श्वासिभ्यः स्वाहा विचिन्वन्त उपस्पृशत विचिन्वद्भ्यः स्वाहा प्रचिन्वन्त उपस्पृशत प्रचिन्वद्भ्यः स्वाहा समश्नन्त उपस्पृशत समश्नद्भ्यः स्वाहेति दशाथापराणि देवसेना उपस्पृशत देवसेनाभ्यः स्वाहेति दशैवाथापराणि या
आख्याता देवसेना याश्चानाख्याताश्च ता उपस्पृशत ताभ्यः स्वाहेति दशैव ९

अथापराणि द्वारपोपस्पृश द्वारपाय स्वाहा द्वारप्युपस्पृश द्वारप्यै स्वाहेति चत्वार्यथ पर्णपुटं कृत्वा तस्मिन्नुपस्तीर्णाभिघारितमोदनपिण्डं समवदाय परोगोष्ठे वृक्ष आसजति निषङ्गिण उपस्पृशत निषङ्गिभ्यः स्वाहेत्यथोपतिष्ठते नमो निषङ्गिण इषुधिमत इत्यप्रतीक्षमेत्याथान्वासारिभ्यो जुहोत्यन्वासारिण उपस्पृशतान्वासारिभ्यः स्वाहेति द्वे पलाशे अथोपतिष्ठते नमस्ते रुद्र मन्यव इत्येतैरेकादशभिरनुवाकैः प्रथमोत्तमाभ्यां वाभित एतमग्निं गा स्थापयति यथा धूममाजिघ्रेयुरित्याज्यशेषमोदनशेषमुदकुम्भशेषमित्येकधा समवनीयोदुम्बरशाखया प्रदक्षिणं गास्त्रिः प्रोक्षति शिवं गोभ्यः शिवं गोपतय इत्यृषभस्य पृष्ठे शेषं निनयत्येतं युवानमित्येताभिः पञ्चभिरथातः क्षैत्रपत्यस्य गवां मार्गेऽनग्नौ क्षेत्रस्य पतिं यजते क्षेत्रस्य पतये स्वाहेति चतुर्षु सप्तसु वा पलाशेषु तं तथावाहयति यथा शूलगवं तूर्णं यजते पाको देव उपतिष्ठते क्षेत्रस्य पतिना वयमिति द्वाभ्यामथैनं क्षैत्रपत्यं ये सनाभयो भवन्ति ते प्राश्नन्ति यथा वैषां
कुलधर्मो भवति १०

अमावास्यायामपराह्णे मासिश्राद्धमपरपक्षस्य वायुक्ष्वहःसु पितृभ्योऽन्नं संस्कृत्य प्राचीनावीतं कृत्वाग्निमुपसमाधाय दक्षिणाप्रागग्रैर्दर्भैरग्निं परिस्तीर्य दक्षिणपूर्वमवान्तरदेशमभिमुखः पितॄनावाहयत्यायात पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं च । आयात पितामहाः प्रपितामहाश्चानुगैः सह । असुंगमाः सत्ययुजोऽवृकासः । आ नो हवं पितरोऽद्यागमन्तु । एह गच्छन्तु पितरो हविषे अत्तवा इत्येतामेव दिशमभ्यपः प्रसिञ्चत्यापो देवीः प्रहिणुतेमं यज्ञं पितरो नो जुषन्तां मासीनामूर्जमुत ये भजन्ते ते नो रयिं सर्ववीरां नियच्छन्त्विति परिषिच्य जुहोति याः प्राचीः संभवन्त्याप उत्तरतश्च याः । अद्भिर्विश्वस्य भुवनस्य धर्त्रीभिरन्तरन्यं पितुर्दधेऽमुष्मै स्वाहा । अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या । दिवा दिग्भिरनन्ताभिरूतिभिरन्तरन्यं पितामहाद्दधेऽमुष्मै स्वाहा । अन्तर्दध ऋतुभिहोरात्रैः ससंधिकैः । अर्धमासैश्च मासैश्चान्तरन्यं प्रपितामहाद्दधेऽमुष्मै स्वाहा । यद्वः क्रव्यादङ्गमदहल्लोकानयं प्रणयञ्जातवेदाः । तद्वो अहं पुनरावेशयाम्यरिष्टाः सर्वैरङ्गैः संभवत पितरः स्वधा नमः पितृभ्यः स्वाहेति ११

अथान्नस्य जुहोत्यग्नये पितृमते स्वाहा सोमाय पितृमते स्वाहा यमायाङ्गिरस्वते पितृमते स्वाहा स्वधा नमः पितृभ्यः स्वाहाग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः पितृभ्यः स्वाहेति परिषिच्य दक्षिणतो दर्भमुष्टिं निधाय तस्मिन्दक्षिणापवर्गांस्त्रीनुदकाञ्जलीनुपनिनयत्यसाववनेनिक्ष्वेति पितरमसाववनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहमत्रैव नामादेशमवाचीनपाणिस्तस्मिन्दक्षिणापवर्गांस्त्रीन्पिण्डान्निदधात्येतत्ते ततासौ मधुमदन्नं सरस्वतो यावानग्निश्च पृथिवी च तावत्यस्य मात्रा तावतीं त एतां मात्रां भूतां ददामि यथाग्निरक्षितोऽनुपदस्त एवं मह्यं पित्रेऽक्षितोऽनुपदस्तः स्वधा भवतां त्वं स्वधामक्षितं तैः सहोपजीव यांश्च त्वमत्रान्वसि ये च त्वामनु । एतत्ते पितामहासौ मधुमदन्नं सरस्वतो यावान्वायुश्चान्तरिक्षं च तावत्यस्य मात्रा तावतीं त एतां मात्रां भूतां ददामि यथा वायुरक्षितोऽनुपदस्त एवं मह्यं पितामहायाक्षितोऽनुपदस्तः स्वधा भवतां त्वं स्वधामक्षितं तैः सहोपजीव यांश्च
त्वमत्रान्वसि ये च त्वामनु १२

एतत्ते प्रपितामहासौ मधुमदन्नं सरस्वतो यावानादित्यश्च द्यौश्च तावत्यस्य मात्रा तावतीं त एतां मात्रां भूतां ददामि यथादित्योऽक्षितोऽनुपदस्त एवं मह्यं प्रपितामहायाक्षितोऽनुपदस्तः स्वधा भवतां त्वं स्वधामक्षितं तैः सहोपजीव यांश्च त्वमत्रान्वसि ये च त्वामनु । अत्र पितरो यथाभागं मन्दध्वमित्युक्त्वा पराङावर्तत ओष्मणो व्यावृत उपास्ते व्यावृत्त ऊष्मण्यभिपर्यावर्ततेऽव्यावृत्ते वामीमदन्त पितरः सोम्या इत्यभिपर्यावृत्य नमस्कारैरुपतिष्ठते नमो वः पितरो रसायेति प्रतिपद्याहं तेषां वसिष्ठो भूयासमित्यन्तेनाद्भिः पात्रं प्रक्षाल्य पूरयित्वा प्रसव्यं त्रिः परिषिञ्चति पुत्रान्पौत्रानभितर्पयन्तीरापो भधुमतीरिमाः । स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुभयांस्तर्पयन्तु । ऊर्जं वहन्तीः क्षीरमुदकं घृतं पयः कीलालं परिस्रुतं नदीरिमा उदन्वतीर्वेतस्विनीः सुतीर्थ्या अमुष्मिन्लोक उप वः क्षरन्तु । ऊर्जस्वतीः पयस्वतीर्मधुना घृतेन स्वधा स्थ तर्पयत
मे पितॄनित्यप्रतीक्षमेत्य १३

अथान्नमभिमृशति पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयोर्जुहोम्यक्षितमसि मैषां क्षेष्ठा अमुत्रामुष्मिन्लोके पृथिवी समा तस्याग्निरुपद्रष्टर्चस्ते महिमा । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयोर्जुहोम्यक्षितमसि मैषां क्षेष्ठा अमुत्रामुष्मिन्लोके अन्तरिक्षां समं तस्य वायुरुपद्रष्टा सामानि ते महिमा । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयोर्जुहोम्यक्षितमसि मैषां क्षेष्ठा अमुत्रामुष्मिन्लोके द्यौः समा तस्यादित्य उपद्रष्टा यजूंषि ते महिमेति ब्राह्मणानन्नेन परिविष्य प्रदिष्टमुदपात्रं चादाय दक्षिणपूर्वमवान्तरदेशं गत्वा प्रदिष्टमुदपात्रेणोपप्रवर्तयति परायात पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथ मासि पुनरायात नो गृहान्हविरत्तुं सुप्रजसः सुवीरा इति सर्वतः समवदाय शेषस्य प्राश्नातीदमन्नं पूर्यतां चापूर्यतां
च तन्नः सह देवैरमृतमस्तु प्राणेषु त्वामृतं जुहोमि स्वाहेति १४

अष्टकां व्याख्यास्याम उपरिष्टान्माघ्याः प्राक्फाल्गुन्या यो बहुलस्तस्याष्टमी ज्येष्ठया संपद्यते तामेकाष्टकेत्याचक्षते तस्यां संभारानुपकल्पयते गां प्रशस्याष्टकापूपं चतुःशरावं तूष्णीं निर्वपति षट्कपालो भवत्येककपालो वा तस्य दार्विहोमिकः संस्कारस्तमौपासने श्रपयित्वौपासन एव जुहोत्युलूखला ग्रावाणो घोषमक्रत हविः कृण्वन्तः परिवत्सरीणम् । एकाष्टके सुप्रजा वीरवन्तो वयं स्यामः पतयो रयीणां स्वधा नमः पितृभ्यः स्वाहा । अयं चतुःशरावा घृतवानपूपः पयस्वानग्ने रयिमान्पुष्टिमांश्च । प्रतिगृह्णन्तु पितरः संविदानाः स्विष्टः सुहुतोऽयं ममास्तु स्वधा नमः पितृभ्यः स्वाहा । वहापूपं जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान्पराके । अपूपकुल्या उप तान्क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधा नमः पितृभ्यः स्वाहेति पुरस्तात्स्विष्टकृत एता आहुतीर्जुहोति पूर्णा पश्चात्त्वमग्ने अयासि प्रजापत इति तिस्रस्ततः सौविष्टकृतं
जुहोत्यग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः पितृभ्यः स्वाहेति १५

श्वो भूते पितृभ्यो गामालभतेऽग्निमुपसमाधाय यथा पुरस्तादाज्येन प्रायश्चित्तं हुत्वैकेन बर्हिषैकशूलया च वपाश्रपण्योपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमीतीमां पितृभ्यो गामुपाकरोत्यूर्जस्वतीं पयस्वतीं तां मे जुषन्तां पितरः समेताः । मेदस्वती घृतवती स्वधावती सा मे पितृन्सांपरायै धिनोत्वित्युपाकरणीयां हुत्वा पितृभ्यस्त्वा जुष्टां प्रोक्षामीति प्रोक्षितां पर्यग्निकृतां प्रत्यक्शिरसं दक्षिणापदीं संज्ञपयन्ति संज्ञप्ताया अद्भिः प्राणानाप्याय्य तूष्णीमेव वपामुद्धृत्य हृदयमुद्धरति प्रज्ञाते च मतस्ने औदुम्बर्यां वपाश्रपण्यां वपां श्रपयित्वौदुम्बरेषु शूलेषु पृथगितराणि श्रपयित्वौदुम्बर्या दर्व्योपस्तीर्णाभिघारितां वपां जुहोति वह वपां जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान्पराके । मेदसः कुल्या उप तान्क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधा नमः
पितृभ्यः स्वाहेति १६

उपस्थितेऽन्ने ओदनस्य मांसानामिति समवदय सर्पिर्मिश्रस्य जुहोत्येकाष्टकां पश्यत दोहमानामन्नं मांसवद्घृतवत्स्वधावत् । तद्ब्राह्मणैरतिपूतमनन्तमक्षय्यं मे अस्तु स्वधा नमः पितृभ्यः स्वाहा । एकाष्टका तपसा तप्यमाना संवत्सरस्य पत्नी दुदुहे प्रपीना । तां दोहमुपजीवाथ पितरः सहस्रधा मुच्यमानां पुरस्तात्स्वधा नमः पितृभ्यः स्वाहा । वहान्नं जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान्पराके । अन्नस्य कुल्या उप तान्क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधा नमः पितृभ्यः स्वाहेति पुरस्तात्स्विष्टकृत एतानुपहोमान्जुहोतीयमेव सा या प्रथमा व्यौच्छदेकाष्टका तपसा तप्यमाना या प्रथमा व्यौच्छत्संवत्सरस्य प्रतिमां प्रजापत इति पञ्च ततः सौविष्टकृतं जुहोत्यग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः पितृभ्यः स्वाहेति श्वो भूते पितृभ्यो मांसशेषेण मासिश्राद्धस्यावृता
श्राद्धं करोति १७

वेदमधीत्य स्नात्यन्नुपकल्पयते पालाशीं समिधमुदपात्रं चैरकां चीपबर्हणं च स्नानीयपिण्डं च सार्वसुरभिपिष्टं चन्दनं च सूत्रं सोपधानं मणिं सपाशं बादरं मणिमुत्तरासङ्गं च सान्तरमहते च प्रवर्तौ च स्रजं चाञ्जनं चादर्शोपानहौ दण्डं च छत्रं चाथ नक्षत्राणि तिष्य उत्तरे फल्गुनी हस्तश्चित्रा स्वाति विशाखे इत्येतेषामेकस्मिन्पुरोदयादादित्यस्य व्रजं प्रपद्यत एतदहःस्नातानां ह वा एष एतत्तेजसा तपति तस्मादेनमेतदहर्नाभितपेदन्तर्लोम्ना चर्मणा द्वारमपिधाय पूर्वार्धे व्रजस्याग्निमुपसमाधाय मध्यंदिने पालाशीं समिधमादधातीमं स्तोममर्हते जातवेदसे रथमिव संमहेमा मनीषया । भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव स्वाहेति तत एतान्संभारान्सकृदेव सर्वानाहृत्य तानुत्तरतोऽग्नेर्निधायापरेणाग्निमुत्तरतःपरिषेवनामेरकामास्तीर्य तस्यामुदक्शिरा
निपद्यते १८

दक्षिणतो नापित उपविशति तस्य क्षुरमभिमन्त्रयते शिवो नामासि स्वधितिस्ते पिता । नमस्ते अस्तु मा मा हिंसीरित्यद्भिरुद्यमानमभिमन्त्रयते शिवा मे भवथ संस्पृश इति क्षुरमभिनिधीयमानमभिमन्त्रयते यदृषीणां त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् । यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषमिति वपन्तं यत्क्षुरेण मर्चयता सुपेशसा वप्त्रा वपसि वर्चसा मुखं मा न आयुः प्रमोषीरिति श्मश्रूणि वापयित्वोपपक्षौ निवापयतेऽथ केशान्यथोपपादमङ्गान्येवमेवात ऊर्ध्वं वापयते पश्चार्धे व्रजस्योपविश्य मेखलां विस्रस्य परिकर्मणे प्रयच्छतीमां हृत्वा स्तम्ब उपगूहेति तां स हृत्वा स्तम्ब उपगूहतीदमहममुष्यामुष्यायणस्य द्विषन्तं भ्रातृव्यमुपगूहाम्युत्तरोऽसौ द्विषद्भ्य इति तत आप उपशेरत उष्णाश्च शीताश्च शीतासूष्णा आनयति दैवमानुषस्य व्यावृत्या इति विज्ञायते संसृष्टाभिरद्भिरभिषिञ्चत्यापो हि ष्ठा मयोभुव इति तिसृभिर्हिरण्यवर्णाः श्रुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन
स्नानीयेन प्रताप्य १९

दन्तान्प्रक्षालयतेऽन्नाद्याय व्यूहध्वं सोमो राजेदमागमत् । स मा प्रविशत्वन्नाद्येन भगेन च दीर्घायुरहमन्नादो भूयासमिति सार्वसुरभिणा प्रलेप्स्यमानः प्रोक्षति नमः शाकजञ्जभाभ्यां नमस्ताभ्यो देवताभ्यो या अभिग्राहिणीरित्यथानुलिम्पेद्यद्वर्चो अपसरासु च गन्धर्वेषु च यद्यशः । दिव्यो यो मानुषो गन्धश्च स माविशतादिहेति समुन्नीय चन्दनेनानुलेप्स्यमान एवं प्रोक्षत्येवमनुलिम्पेदथाहतमन्तरं परिधत्त आयुरसीति जरामशीयेत्युत्तरं यज्ञोपवीतं कृत्वाप आचम्य जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति दीक्षा तपो मनसो मातरिश्वा बृहस्पतिर्वाचो अस्याः स योनिः । वेदांसि विद्या मयि सन्तु चारवोऽग्निषोमा यशो अस्मासु धत्तम् । अग्निर्येन विराजति सोमो येन विराजति सूर्यो येन विराजति विराड्येन विराजति तेनाहं विश्वतः
परिविराज्यासमिहैकवृत्स्वाहेति २०

अपरेणाग्निं प्राङ्मुख उपविश्य सोपधानं मणिं प्रवयति सपाशं बादरं मणिमुदपात्रेऽवधाय प्रदक्षिणं पर्याप्लावयतीयमोषधे त्रायमाणा सहमाना सहस्वती सा मा हिरण्यवर्चसं ब्रह्मवर्चसिनं मा करोत्वित्युद्धृत्याक्ष्णयैव पर्याहृत्य प्रतिमुञ्चतेऽपाशोऽसीत्युरसि स्थापयत्युरो मे मा संशारीः शिवो मोपशेष्व मह्यं दीर्घायुत्वाय शतशारदायेति हस्तेन बादरं मणिमूर्गसीत्यर्की मणिर्ब्राह्मणस्य पुलको वैश्यस्य राज्ञो गर्दभसुग्रीवोऽर्को मणिर्ब्राह्मणस्य वैश्यस्य पुलको मणिः । राज्ञो गर्दभसुग्रीवो यस्य कस्य कपित्थक इति मणिधारणे गाथा भवति निधायाहतमन्तरं परिधत्त आयुषे त्वेति जरामशीयेत्युत्तरमहतस्य दशायां प्रवर्तौ प्रबध्य दर्व्यामाधायाज्यस्योपघातं जुहोत्यायुष्यं वर्चस्यं सुवीर्यं रायस्पोषमौद्भिद्यमिदं

हिरण्यमायुषे वर्चसे
जैत्रियायाविशतान्मां स्वाहा
उच्चैर्वाजि पृतनाजित्सत्रासाहं धनंजयम्
सर्वाः समृद्धीरृद्धयो हिरण्येऽस्मिन्समाहिताः स्वाहा
शुनमडं हिरण्यस्य पितुरिव नामाग्रभैषम्
तं मा हिरण्यवर्चसं पुरुषु प्रियं कुरु स्वाहा
प्रियं मा देवेषु कुरु प्रियं मा ब्राह्मणे कुरु
प्रियं विश्वेषु शूद्रेषु प्रियं राजसु मा कुरु स्वाहा
संराजं च स्वराजं चाभिष्टीर्या च नो गृहे
लक्ष्मी राष्ट्रस्य या मुखे तया मा संसृजामसि स्वाहेति २१


उद्धृत्य प्रक्षाल्य दक्षिणमेवाग्रे प्रतिमुञ्चत आयुष्यं वर्चस्यमित्येतदेव
मणिकुण्डलबन्धने विद्यादथ स्रजं प्रतिमुञ्चते
श्रुभिके शिर आरोह शोभयन्ती मुखं मम ।
मुखं हि मम शोभय भूयांसं च भगं कुरु ॥
यामाहरज्जमदग्निः श्रद्धायै कामायान्यै ।
इमां तां प्रतिमुञ्चेऽहं भगेन सह वर्चसेति

अथाङ्क्ते यदाञ्जनं त्रैककुदं जातं हिमवत उपरि मयि पर्वतवर्चसमित्यादर्शमवेक्षते यन्मे वर्चः परापतितमात्मानं परिपश्यतः । इदं तत्पुनराददे भगेन सह वर्चसेति वाग्यत आस्त आ नक्षत्राणामुदयादुदितेषु नक्षत्रेषूपानहावुपमुञ्चते द्यौरसीति दक्षिणां पृथिव्यसीत्युत्तरामुपमुच्याभिमन्त्रयते प्रतिष्ठे स्थो देवते मा मा संताप्तमिति दण्डमादत्ते लोके वेदायास्मि द्विषतो वधाय सपत्नाञ्छ्वापदान्सरीसृपान्हस्तिनश्चेति छत्रमादत्ते प्रजापतेः शरणमसि ब्रह्मणः छदिरित्युपनिष्क्रम्य दिशोऽनुवीक्षते देवीः षडुर्वीरुरु नः कृणोतेति चन्द्रमसमुदीक्षते मा रधाय द्विषते सोम राजन्निति यत्रास्य रातिर्भवति तेन संभाष्य यथर्थमेतीत्येकमथैतदपरं तूष्णीमेव तीर्थे स्नात्वोदेत्य तूष्णीं पालाशीं समिधमादधाति
संवत्सरं न मैथुनं चरति द्वादशरात्रं त्रिरात्रं वा सर्वा स्थितयः २२

अथार्घ्यं जिहीर्षन्नर्ध्यं वेदयते जिहीर्षामेति कुरुतेत्याह कंसे दध्यानीय मध्वानयति ह्रसीयस्यानीय वर्षीयसापिदधाति पूर्वः कूर्चेन प्रतिपद्यतेऽन्वङ्पाद्येनान्वङ्ङर्घ्येणान्वङ्ङाचमनीयेनान्वङ्मधुपर्केणानुसंव्रजत्यथास्मा आसनमिति वेदयते तत्प्रतिमन्त्रयते राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषमिति राजा ब्राह्मणो वा राष्ट्रभृदस्यधिपत्यासन्दी मा त्वद्योषमिति ग्रामणीः सेनानीर्वाथास्मै पाद्यमिति वेदयते तत्प्रतिमन्त्रयत आपः पादावनेजनीर्द्विषन्तं नाशयन्तु मे । अस्मिन्कुले ब्रह्मवर्चस्यसानि मयि महो मयि यशो मयीन्द्रियं वीर्यम् । आ मा गन्यशसा वर्चसा संसृज पयसा तेजसा च तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनामिति सव्यं पादं प्रतिगृह्य दक्षिणं प्रतिगृह्णीयाद्दक्षिणं
राजा ग्रामणीः सेनानीर्वा २३

अथास्मा अर्घ्यमिति वेदयते तदेतेनैव प्रतिमन्त्र्य विराजो दोहोऽसि विराजो दोहमशीय मयि दोहः पद्यायै विराज इति प्रतिगृह्य निनयति समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत । अछिद्रः प्रजया भूयासं मा परासेचि मत्पय मत्पय इत्यथास्मा आचमनीयमिति वेदयत आचामत्यमृतोपस्तरणमसीत्याचान्तोदकायाथास्मै मधुपर्क इति वेदयते तत्प्रतिमन्त्रयते यन्मधुनो मधव्यं परममन्नाद्यं रूपं तेनाहं मधुनो मधव्येन परमेणान्नाद्येन रूपेण परमोऽन्नादो मधव्यो भूयासमिति प्रतिगृह्य प्राश्नाति त्रय्यै विद्यायै यशोऽसि यशसो यशोऽसि ब्रह्मणो दीप्तिरसि तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनामिति भूर्भुवः सुवरिति त्रिराचम्याथ रातये प्रयच्छति स्वयं वा सर्वं प्राश्नात्यथास्मा आचमनीयमिति वेदयत आचामत्यमृतापिधानमसीत्याचान्तोदकायाथास्मै गौरिति वेदयते तां प्रतिमन्त्रयते गौरस्यपहतपाप्माप पाप्मानं जहि पाप्मानं मम
चामुष्य च जहि द्विषन्तं हनीथा मम द्विषं कुरुतेति २४

अथास्मा अन्नं संस्कृत्य भूतमिति वेदयते तत आह ब्राह्मणांश्चतुरो नानागोत्रान्भोजयतेति तेषु भुक्तवत्स्वन्नमाहरन्ति तदेतेनैव प्रतिमन्त्र्य प्रतिगृह्य प्रत्यवरुह्य प्राश्नाति यथा मधुपर्कं प्रत्यवरुह्यैवात ऊर्ध्वमन्नानि प्राश्नीयादित्येकमथैतदपरमर्ध्येष्वेवैष नियमः स्याद्यथाकामीतरेष्वथ यदि गामुत्सृजेत्तामभिमन्त्रयते गौर्धेनुभव्या माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्र णु वोचं चिकितुषे जनाय मा गामदितिं वधिष्ट । पिबतूदकं तृणान्यत्तु । ओमुत्सृजतेत्यथ सोमप्रवाकाय यत्रास्मै सोमं प्राह तद्यज्ञोपवीतं कृत्वाप आचम्य प्राङ्वोदङ्वा तिष्ठञ्जपत्यासीनो वा भूर्भुवः सुवरायुर्मे प्रावोचो वर्चो मे प्रावोचो यशो मे प्रावोचः श्रियं मे प्रावोच आयुष्मानहं वर्चस्वी यशस्वी श्रीमानपचितिमान्भूयासं भूर्भुवः सुवः सर्वं भूयासमित्युक्त्वा प्रति वाचष्टे प्रति वां जानीत एतेनैव भूतप्रवाकायॐ तन्मा
क्षायीत्यन्तेन २५

अथास्मा अन्नं सनिमित्वाभिमन्त्रयतेऽन्नमिव ते दृशे भूयासं वित्तमिव ते दृशे भूयासं श्रीरस्यर्वाच्याविशास्मान्संस्रवन्तु दिशो महीः समागच्छन्तु सूनृताः । सर्वे कामा अभियन्तु मा प्रिया अभिरक्षन्तु मा प्रियाः । यशोऽसि यशोऽहं त्वयि भूयासमसावित्यभिमन्त्र्यार्थं ब्रुवते व्यवजिहीर्षमाणः पण्यस्यावदाय जुहोति यदहं धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः । तस्मिन्सोमो रुचमादधात्वग्निरीशान इन्द्रो बृहस्पतिश्च स्वाहेत्यथ संवादजयनं संवादमेष्यन्नात्तछत्रः सव्येन हस्तेन छत्रं समावृत्य दक्षिणेन फलीकरणमुष्टिं जुहोत्यवजिह्वक निजिह्वकाव त्वा हविषा यजे । तत्सत्यं यदहं वदाम्यधरो मदसौ वदात्स्वाहेति येन संवदते तमभिमन्त्रयत आ ते वाचमास्यां दद आ मनस्यां हृदयादधि । अङ्गादङ्गात्ते वाचमाददे यत्र यत्र ते वाङ्निहिता तां
त आददे । तत्सत्यं यदहं वदाम्यधरो मत्पद्यस्वासाविति २६

यद्यस्मै सुभृत्याः प्रव्रजेयुरग्निमुपसमाधायेण्ड्वानि जुहुयादनु पोऽह्वदनुह्वयो निवृत्तो वो न्यवीवृतत् । ऐन्द्रः परिक्रोशो वः परिक्रोशतु सर्वतः । यदि मामतिमन्यध्वमदेवा देववत्तरम् । इन्द्रः पाशेन सित्वा वो मह्यमित्पुनरानयादिति वदेद्वा खादिरं शङ्कुं निहत्य नीललोहिताभ्यां सूत्राभ्यामपसव्यैस्त्रिः परिवेष्टयेदावर्तन वर्तयेत्यपि वै यदि दूरगा भवन्तीह हैव वर्तन्ते यं कामयेत नायं मत्पद्येतेति दक्षिणे पाणावभिपद्येत यस्मिन्भूतं च भव्यं च विश्वे देवाः समाहिताः । तेन गृह्णामि त्वामहं मह्यं गृह्णामि त्वामहं ब्रह्मणे त्वा गृह्णामीति न हैवास्मात्पद्यते यं कामयेत नायं मच्छिद्येतेत्यमावास्यां रात्रिं सुप्तं जीवविषणे स्वं मूत्रमानीयापसव्यैस्त्रिः परिषिञ्चन्परीयात्परि त्वा गिरेरमिहं परि भ्रातुः परि ष्वसुः । परि सर्वेभ्यो ज्ञातिभ्यः परिषीतः द्वेष्यसि ॥ शश्वत्परिकुपितेन संक्रामेणावछिदा । उलेन परिमीढोऽसि परिमीढोऽस्युलेनेति न हैवास्मात्पद्यते
दीर्घसत्त्रमासिष्यमाणः २७

प्रवासमेष्यन्भार्यायाः परिदां करोति स्थूलाढारिका जीवचूर्णानि कारयित्वामावास्यायां रात्र्यां सुप्तायामुपस्थं प्रतिवपति सोमावास्य परिघमन्येभ्यः पुरुषेभ्योऽन्यत्र मदिति यद्यस्यां बहुतयापीच्छन्ति न हैव सिध्यन्ति यदि कामयेत सिध्येयुरिति बभ्रुमूत्रेण पक्षालयस्वेत्येनां ब्रूयात्प्रवासमेष्यन्नामन्त्रयत इदं वत्स्यामः प्राण आयुषि वत्स्याम इत्यथैनमभिमन्त्रयत आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । मा त्वा के चिन्न्येमुरिन्न पाशिनः । दधन्वेव ता इहि । प्राण आयुषि वसासौ पृथिव्यामग्नौ प्रतितिष्ठ वायावन्तरिक्षे सूर्ये दिवि यां स्वस्तिमग्निर्वायुः सूर्यश्चन्द्रमा आपोऽनुसंचरन्ति तां स्वस्तिमनुसंचरासौ । प्रच्यवस्व भुवस्पत इति प्रतिपद्य श्येनो भूत्वा परापतेत्यन्तेन यं कामयेत स्वस्त्ययं पुनरागच्छेदिति तमेतेन त्र्यृचेनान्वीक्षेत महि त्रीणामवोऽस्त्वितीहैव पुनरागच्छति यं कामयेत नायं पुनरागच्छेदिति तमन्वीक्षेत साकं यक्ष्म प्रपतेत्येतयाथैनमभिमन्त्रयते परमां त्वा परावतमिन्द्रो नयतु वृत्रहा
। यतो न पुनरायसि शाश्वतीभ्यः समाभ्य इति न हैव पुनरागच्छति २८

अथ रथारोहणं यदि रथं लभत आपूर्यमाणपक्षे पुण्ये नक्षत्रे योजयित्वास्थास्यन्पक्षसी अभिमृशति बृहदसीति दक्षिणं रथंतरमसीत्युत्तरं वामदेव्यमसीति मध्यममश्वमास्थाय चक्रे संमार्ष्ट्यङ्कौ न्यङ्कावभित इत्यनुवाकशेषेण यदि शमरथो भवति तद्यज्ञोपवीतं कृत्वाप आचम्य भूमिमभिमृशतीह धृतिरिह स्वधृतिरिह रन्तिरिह रमतिरित्यथ हस्त्यारोहणं यदि हस्तिनं लभत आपूर्यमाणपक्षे पुण्ये नक्षत्रे कल्पयित्वाभ्युपविशतीदमहममुमामुष्यायणमिन्द्रस्य वज्रेणाभिविशाम्युत्तरोऽहं द्विषद्भ्य इत्यथैनमभिक्रामयति वह काल वह श्रियं माभिवहेति समानं शमरथेन यद्यनुपस्तीर्णे स्थण्डिल उपविशेत्तदनुमन्त्रयते नमः पृथिवीषदे रुद्राय वातेषवे रुद्राय नमो रुद्राय पृथिवीषद इति सर्पसृतौ सृजति नमः सर्पसृते रुद्राय वातेषवे रुद्राय नमो रुद्राय सर्पसृत इति शकृद्रीतौ जपति नमः शकृत्सदे रुद्राय वातेषवे रुद्राय नमो रुद्राय शकृत्सद इति यदि नवानि गोमयान्यन्तरातिक्रामेद्गोष्ठमसीत्युक्त्वातिक्रामेत् २९

यदि चतुष्पथं समया व्रजेत्तदनुमन्त्रयते नमः पृथिवीषदे रुद्राय वातेषवे रुद्राय नमो रुद्राय पृथिवीषद इति यदि श्मशानं समया व्रजेत्तदनुमन्त्रयते नमस्तत्सदे रुद्राय वातेषवे रुद्राय नमो रुद्राय तत्सद इति नदीमुद्रन्वतीं दृष्ट्वा जपति नमोऽप्सुषदे रुद्राय वातेषवे रुद्राय नमो रुद्रायाप्सुषद इति यद्येनं संवर्तवात आगच्छेत्तदनुमन्त्रयते नमोऽन्तरिक्षसदे रुद्राय वातेषवे रुद्राय नमो रुद्रायान्तरिक्षसद इति यद्येनं सिचोपसृजेत्तदनुमन्त्रयते सिगसि न सिगसि वज्रो नमस्ते अस्तु मा मा हिंसीरित्यद्भिरभ्युक्षेद्यद्येनं वयोऽभिविक्षिपेत्तदनुमन्त्रयते ये पक्षिणः प्रथयन्ति बिभ्यतो निरृतैः सह । ते मा शिवेन तिग्मेन तेजसोन्दन्तु वर्चसेत्यद्भिरभ्युक्षेद्यद्येनं फलमभिनिपतेत्तदनुमन्त्रयते यदि वृक्षादभ्यपतत्फलं यद्यन्तरिक्षात्तदु वायुरेव । यत्रास्पृक्षत्तनुवं यत्र वास आपो बाधन्तां निरृतिं पराचीरित्यद्भिरभ्युक्षेद्यद्येनमवर्षे प्रुषितमववर्षेत्तदनुमन्त्रयते दिवो नु मा बृहतो अन्तरिक्षादपां स्तोको अभ्यपतच्छिवेन समिन्द्रियेण मनसाहमागां ब्रह्मणा
कॢप्तः सुकृतेनेत्यद्भिरभ्युक्षेत् ३०

चित्र्यं वनस्पतिं दृष्ट्वा जपत्यारात्ते अग्निर्ज्वलत्वारात्परशुरस्तु ते । निवाते त्वाभिवर्षतु जीव वर्षसहस्रं त्वम् । नमस्तेऽस्तु वनस्पते स्वस्ति मेऽस्तु वनस्पत इति प्राङ्मध्यंदिनात्क्षीरिणो वृक्षानुपस्पृशेन्नित्यं न्यग्रोधं च सर्वत्र स्वयंप्रज्वलितेऽग्नौ समिधावादध्यादुद्दीप्यस्व जातवेदोऽपघ्नन्निरृतिं मम । पशूंश्च मह्यमावह जीवनं च दिशो दिशः स्वाहा । मा नो हिंसीर्जातवेदो गामश्वं पुरुषं पशुम् । अहिंसन्नग्न आगहि श्रियं मयि परिपालय स्वाहेत्याधायोपतिष्ठते नमो अग्निषदे रुद्राय वातेषवे रुद्राय नमो रुद्रायाग्निषद इत्यनुभवं परिभवं परिवादं परिक्षवम् । दुःस्वप्नं दुरुदितं शकुनैस्तद्द्विषद्भ्यो दिशाम्यहम् । अनुभूतं परिभूतं शकुनैर्यदशाकुनम् । मृगस्य सृतमक्ष्णया तद्द्विषद्भ्यो दिशाम्यहम् । परेणैतु पापशकुनिः परेणैतु परिक्षवः । अक्षिस्पन्दो दुःस्वप्न इष्टिरसंपद्यो नो द्वेष्टि तमृच्छत्वित्येतं मन्त्रं जपत्युपबाध उपबाधे च
यथालिङ्गं सर्वत्रैवाप उपस्पृशेत् ३१

अथैतान्यद्भुतप्रायश्चित्तानि भवन्ति कुप्त्वां कपोत उपावेक्षीन्मध्वागार उपावेक्षीत्स्थूणा व्यरौक्षीद्वल्मीक उदेति सोऽहःक्षान्तः प्रयतवस्त्रो ब्राह्मणसंभाषोऽस्तमित आदित्येऽन्तरागारेऽग्निमुपसमाधाय जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति पूर्णा पश्चादिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयास्ययाश्चाग्नेऽस्यनभिशस्तीश्च यदस्य कर्मणोऽत्यरीरिचं प्रजापत इत्युत्तमां हुत्वा ब्राह्मणानन्नेन परिवेषयेदथैव पयसि स्थालीपाकः पौत्र्यः पशव्यः स्वर्ग्य आयुष्यः स्वयंभोज्यस्तेन यजेत सर्वेषु पर्वस्वौदुम्बरमिध्ममभ्याधायौदुम्बर्या दर्व्योपस्तीर्णाभिघारितं स्थालीपाकं जुहोति सहस्रमेतु प्रथमं बभ्रूय यशसा सह । आगत्य बभ्रुः पिङ्गाक्षः सहस्रेणावकाङ्क्षतु स्वाहा । दिशो दिशो जातवेदो मह्यं जीवनमावह । पशूनां विश्वरूपाणां यथाहं सुमते वसानि स्वाहा । देवानां संभृतो रसः प्राजापत्यं यशो महत् । जुहोम्यन्नानां रसमछिद्रा कीर्तिरस्तु मे स्वाहा । अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रोऽधिराजा एषः । स्वाहाकृत्य ब्रह्मणा ते जुहोमि मा देवानां मिथुया कर्भागधेयम् । मोऽस्माकं मोमुहद्भागधेयं स्वाहेति यथोपदेशं काम्यानि
बलयश्च ३२
इति भारद्वाजसूत्रे द्वितीयः प्रश्नः
==तृतीय्ः प्रश्नः==
एकाग्निर्द्वादशाहं विछिन्नः पुनराधेयः स एष औपनायनिकोऽग्निरुक्तस्तस्य परिचर्या समिद्भिर्ब्रह्मचर्ये सायं प्रातर्यथोपदेशं स्नात ओषधीभिर्यथोपपन्नेन वान्नेन स्त्री चैवं भर्तरि प्रमीते पाणिग्रहणादूर्ध्वं पार्वणः पौर्णमास्याममावास्यायां वा रोहिण्यां मृगशिरसि पुनर्वस्वोर्वा मध्यंदिन आदधीतोद्धतेऽवोक्षिते सिकतोपोप्ते परिश्रिते निदधाति याज्ञिकात्काष्ठादग्निं मथित्वा लौकिकं वाहृत्य प्रणवेनाहरति ब्रह्मा प्रणवेन प्रसौत्यासीनो व्याहृतीभिः प्रणवेनादधाति भूर्भुवः सुवरॐ पृथिव्यां त्वामृत आदधामि सत्ये त्वामृत आदधाम्यृते त्वामृत आदधाम्यमृते त्वामृत आदधामि विहाय दौष्कृत्यं साधुकृत्यमिति तत एतैः पृथिव्यां त्वामृत आदधामि सत्ये त्वामृत आदधाम्यृते त्वामृत आदधाम्यमृते त्वामृत आदधामीत्याज्येन चौषधीभिश्च शमनीयाभिरहुतीभिस्तिसृभिः शमयति या ते अग्ने पवमाना पशुषु प्रिया तनूर्या पृथिव्यां याग्नौ या रथंतरे या गायत्रे छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहा । या ते अग्ने पावकाप्सु प्रिया तनूर्यान्तरिक्षे या वायौ या वामदेव्ये या त्रैष्टुभे छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहा । या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि यादित्ये या बृहति या जागते छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहेति तिस्र आश्वत्थीः समिधो घृतान्वक्ता आदधात्यग्न आयूंषि पवस इति तिसृभिः समुद्रादूर्मिर्मधुमाँ उदारदिति तिस्रः शमीमयीः प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीं विधेम ते परमे जन्मन्नग्न इति वैकङ्कतीं तां सवितुर्वरेण्यस्य चित्रामिति शमीमयीं ततस्तूंष्णीमौपासनं हुत्वा यास्ते अग्ने घोरास्तनुवः स्निक्च स्नीहितिश्चेत्येताभ्यामनुवाकाभ्यामुपस्थाय समानं दार्विहोमिका परिचेष्टा
दार्विहोमिकां परिचेष्टां कृत्वा १

आज्यमधिश्रित्योत्पूय स्रुवं च जुहूं च निष्टप्य संमृज्य चतुर्गृहीतेन स्रुचं पूरयित्वा द्वादशगृहीतेन वा पूर्णाहुतिं जुहोति सप्त ते अग्ने समिधः सप्त जिह्वा इत्येतामनुद्रुत्य स्वाहाकारेण जुहोति हुतायां पूर्णाहुतौ वरं ददाति धेनुं वासोऽनड्वाहं हिरण्यं वा स्रुचि चतुर्गृहीतं गृहीत्वा तिस्रस्तन्तुमतीर्जुहोति तन्तुं तन्वन्नुद्बुध्यस्वाग्ने त्रयस्त्रिंशत्तन्तव इत्यपरं चतुर्गृहीतं गृहीत्वा चतस्रोऽभ्यावर्तिनीर्जुहोत्यग्नेऽभ्यावर्तिन्नग्ने अङ्गिरः पुनरूर्जा सह रय्येत्यपरं चतुर्गृहीतं गृहीत्वानुख्यां जुहोत्यन्वग्निरुषसामग्रमख्यदित्येतयापरं चतुर्गृहीतं गृहीत्वा मनस्वत्या जुहोति मनो ज्योतिर्जुषतामित्येतयापरं चतुर्गृहीतं गृहीत्वा प्राजापत्या जुहोति प्रजापतय इत्येतयापरं चतुर्गृहीतं गृहीत्वा व्याहृतीभिर्जुहोत्येकैकशः समस्ताभिश्च प्रत्येकं चतुर्गृहीतं जुहुयादित्येकं यथा समादिष्टमित्यपरं यथाकामी सर्वदर्विहोमेषु जयाभ्यातानान्राष्ट्रभृत इति हुत्वा २

एतस्मिन्नेवाग्नावोदनं श्रपयित्वा चतस्रोऽन्नाहुतीर्जुहोत्यग्नये स्वाहाग्नये पवमानाय स्वाहाग्नये पावकाय स्वाहाग्नये शुचये स्वाहेति नवेन च सस्ये सस्ये तत्रेमाभ्य आग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यः स्विष्टकृत्पञ्चमीभ्यो वा जुहोतीन्द्राग्निभ्यां स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा सोमाय स्वाहा द्यावापृथिवीभ्यां स्वाहाग्नये स्विष्टकृते स्वाहेति पुरस्तात्स्विष्टकृत उपहोमं जुहोति शतायुधाय शतवीर्यायेति पञ्च ततो ब्राह्मणान्भोजयेद्यावज्जीवमेतमग्निं व्रीहिभिर्यवैर्वा सायं प्रातः परिचरत्यग्नये स्वाहेति सायं पूर्वामाहुतिं जुहोति प्रजापतये स्वाहेत्युत्तरां सूर्याय स्वाहेति प्रातः प्रजापतये स्वाहेत्युत्तरामथ यदि प्रयियासेत्प्रवसथकल्पो व्याख्यातः समित्समारोपणोपावरोहणमात्मन्यरण्योर्वा समित्समारोपणमेके समामनन्ति लौकिके चोपावरोहणं व्याख्यातमेकाग्निविधानं संतिष्ठत औपासनकल्पः संतिष्ठत औपासनकल्पः ३

अथातो व्रतादेशविसर्जने व्याख्यास्यामः पर्वण्युदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽग्नेरुपसमाधानाद्याज्यभागान्ते होतृभ्यः स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा स्वयंभुवे स्वाहेति होतृषु सांहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा वारुणीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा सर्वाभ्यो देवताभ्य उपनिषद्भ्यः स्वाहेत्युपनिषत्सु चतस्रः पालाशीः समिधो घृतान्वक्ता आदधाति याज्ञिकानां वा वृक्षाणामन्यतमस्याग्ने व्रतपते होतृभ्यो व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा । वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते होतृभ्यो व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहेत्युपनिषत्सूपनिषद्भ्यो व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहेति चित्तं च चित्तिश्चेति जयादि प्रतिपद्यते परिषेचनान्तं कृत्वाथैनं संशास्ति ब्रह्मचार्यसि समिध आधेह्यपोऽशान कर्म कुरु मा दिवा सुषुप्था भिक्षाचर्यं चराचार्याधीनो वेदमधीष्वेति


चत्वारिंशतमष्टौ चतुर्विंशतिरेव वा सर्वदैव ब्रह्मचर्यं ग्रहणान्तं वा वर्षाणि द्वादशावरार्ध्यमित्यपरं संवत्सरमेतद्व्रतं चरेत्संवत्सरे पर्यवेतेऽग्नेरुपसमाधानाद्याज्यभागान्ते यन्म आत्मनो मिन्दाभूत्पुनरग्निश्चक्षुरदादिति द्वे मिन्दाहुती जुहोति पूर्ववत्प्रधानाहुतीर्हुत्वा व्रतपतिभ्य आधापयत्यग्ने व्रतपते होतृभ्यो व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहा । वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते होतृभ्यो व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहेत्युपनिषत्सूपनिषद्भ्यो व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहेति चित्तं च चित्तिश्चेति जयादि प्रतिपद्यते परिषेचनान्तं कृत्वाथैनं व्रतान्तेऽध्यापयते श्रावयते वा महा होतार उपनिषद इति संतिष्ठते व्रतादेशविसर्जने संतिष्ठते व्रतादेशविसर्जने ५

अथातोऽवान्तरदीक्षां व्याख्यास्यामः पर्वण्युदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽपराह्णे केशश्मश्रू वापयित्वा प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽछदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य पूर्ववदुपाकृत्य मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वा चतस्र औदुम्बरीः समिधो घृतान्वक्ता आदधाति पृथिवी समिदित्येतैर्मन्त्रैरथ देवता उपतिष्ठतेऽग्ने व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतामित्यथैनं सर्वेषामनुवाकानां प्रभृतीरभिव्याहारयति प्रथमोत्तमयोर्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वा मदन्तीरुपस्पृश्योत्तमेनानुवाकेन शान्तिं कृत्वा ततः संमीलयति वाचं च यच्छत्यथास्याहतेन वाससा शिरः संमुखं वेष्टयत्यस्तमित आदित्ये ग्रामं प्रपादयति वाग्यत एतां रात्रिं तिष्ठत्यास्ते वा श्वो भूते खिलेऽछदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्याथास्य षट्त्रयमभिविदर्शयति सप्ततयमित्येकेऽग्निमादित्यमुदकुम्भमश्मानं वत्सं महानग्नां हिरण्यं सप्तममपि वादितस्त्रीण्यमिविदर्शयति तत आदित्यमुपतिष्ठते वयः सुपर्णा इत्येतयात्रैतद्वासो गुरवे दत्त्वाथास्य ब्रह्मचर्यमधि नित्ये न नक्तं भुञ्जीत यदि भुञ्जीतापज्वलितं भुञ्जीत न मृन्मयं प्रति धयीत न स्त्रिया न शूद्रेण सम्भाषेत न चक्रीवन्तमारोहेन्न कूपमवरोहेन्नोपानहौ न छत्रं धारयीत न समाजमीक्षेत न हर्म्याणि न शरीराणि न
शवं नान्तावसायिनम् ६

संवत्सरमेतद्व्रतं चरेत्संवत्सरे पर्यवेते खिलेऽछदिर्दर्शेऽग्नेरुपसमाधानाद्याज्यभागान्ते द्वे मिन्दाहुती हुत्वा पूर्ववत्प्रधानाहुतीर्जुहुयान्मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वा तत आवृत्तैः पृथिवी समिदित्येतैर्मन्त्रैश्चतस्र ओदुम्बरीः समिध आधायावृत्तैर्देवता उपतिष्ठतेऽथैनं सर्वेषामनुवाकानां प्रभृतीरभिव्याहारयति प्रथमोत्तमयोर्वोत्तमेन शान्तिं कृत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वाथैनं संशास्ति ब्रह्मचार्यसीत्याद्यन्तावसायिनमित्यन्तं
पूर्ववदादेशः ७

अथात उपाकरणविसर्जने व्याख्यास्यामः श्रवणापक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वोपाकर्माग्नेरुपसमाधानाद्याज्यभागान्ते काण्डर्षीन्जुहोति काण्डनामानि वा प्रजापतये काण्डर्षये स्वाहेति प्राजापत्यानां प्रजापतये स्वाहेति वा सोमाय काण्डर्षये स्वाहेति सौम्यानां सोमाय स्वाहेति वाग्नये काण्डर्षये स्वाहेत्याग्नेयानामग्नये स्वाहेति वा विश्वेभ्यो देवेभ्यः काण्डर्षिभ्यः स्वाहेति वैश्वदेवानां विश्वेभ्यो देवेभ्यः स्वाहेति वा स्वयंभुवे स्वाहेति सर्वेषां सदसस्पतिर्द्वितीयस्त्रीनादितोऽनुवाकानधीयन्ते काण्डादीन्वा सर्वांस्त्र्यहमेकाहं वाक्षाम्येताथाधीयीत मासं प्रदोषे नाधीयीत तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गोऽपि वा माघ्यां सहान्तेवासिभिः प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य यत्रापः सुखावगाहा अवकिन्यः शंखिन्यस्तत्र गत्वापो हि ष्ठा मयोभुव इति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः
सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा ८

अघमर्षणेन त्रीन्प्राणायामान्धारयन्त्यृतं च सत्यं चाभीद्धात्तपसोऽध्यजायत ।
ततो रात्रिरजायत ततः समुद्रो अर्णवः
समुद्रादर्णवादधि संवत्सरो अजायत
अहोरात्राणि विदधद्विश्वस्य मिषतो वशी
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्
दिवं च पृथिवीं चान्तरिक्षमथो सुवरिति

दर्भानन्योऽन्यस्मै प्रदायाथासनानि कल्पयन्ते ब्रह्मणे प्रजापतयेऽग्नये बृहस्पतये
वायवे सूर्याय चन्द्रमसे नक्षत्रेभ्य इन्द्राय राज्ञे सोमाय राज्ञे यमाय राज्ञे वरुणाय राज्ञे वैश्रवणाय राज्ञे रुद्राय स्कन्दाय विष्णवेऽश्विभ्यां धन्वन्तरये वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यः साध्येभ्य ऋभुभ्यो भृगुभ्यो मरुद्भ्योऽथर्वभ्योऽङ्गिरोभ्य इति गणानाम् ९

विश्वामित्राय जमदग्नये भरद्वाजाय गौतमायात्रये वसिष्ठाय कश्यपायारुन्धत्यै कल्पयामीति दक्षिणतोऽगस्त्याय कल्पयन्त्युत्तरतः कृष्णद्वैपायनाय जातूकर्णाय तरुक्षाय बृहदुक्थाय तृणबिन्दवे सोमश्रवसे सोमशुष्मिणे वाजश्रवसे वाजरत्नाय वर्मिणे वरूथिने सत्ववते हर्यज्वने वामदेवायोदमयायर्णंजयायर्तंजयाय कृतंजयाय धनंजयाय बभ्रवे त्र्यरुणाय त्रिवर्षाय त्रिधातवेऽश्वयज्ञाय पराशराय वसिष्ठायेन्द्राय मृत्यवे कर्त्रे त्वष्ट्रे धात्रे विधात्रे सवित्रे सुश्रवसे सत्यश्रवसे सावित्र्यै छन्दोभ्य ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वाङ्गिरोभ्य इतिहासपुराणेभ्यः सर्पदेवजनेभ्यः सर्वभूतेभ्यश्च कल्पयामीति १०

दक्षिणतः प्राचीनावीती वैशम्पायनाय फलिङ्गवे तित्तिरय उखायात्रेयाय पदकाराय कौण्डिण्याय वृत्तिकाराय कण्वाय बोधायनाय भरद्वाजाय सूत्रकारायापस्तम्बाय सर्वेभ्यः सूत्रकारेभ्य आचार्येभ्यः ऋषिभ्यो वानप्रस्थेभ्य ऊर्ध्वरेतोभ्य एकपत्नीभ्यश्च कल्पयामीति यथास्वं पितृभ्यश्च कल्पयन्ति मातामहेभ्यश्च पृथक्पृथगित्येतैरेव नामधेयैर्गन्धपुष्पधूपदीपान्नफलोदकैरमष्मै नमोऽमुष्मै नम इति गन्धपुष्पधूपदीपैरमुष्मै स्वाहामुष्मै स्वाहेत्यन्नेनामुं तर्पयाम्यमुं तर्पयामीति फलोदकेनात्र नमस्यन्ति त्रीनादितोऽनुवाकानधीयन्ते काण्डादीन्वा सर्वान्क्राण्डात्काण्डात्प्ररोहन्तीति द्वाभ्यामुदकान्ते दूर्वा रोपयन्त्यथोदधिं कुर्वन्त्युन्नम्भय पृथिवीमिति हस्तेन संसर्गास्त्रिरुद्विध्या तमितोराजिं धावन्त्येवं पारायणसमाप्तावनश्नत्पारायणमधीत्यैतत्कुर्वन्त्युदकान्ते दूर्वारोपणोदधिधावनवर्जं प्रत्येत्य गृहान्ब्राह्मणान्भोजयेदपूपैर्धानाभिः सक्तुभिरोदनेनेत्येवमेवाद्भिरहरहर्देवानृषीन्पितॄंश्च तर्पयेत्तर्पयेत् ११

सर्वेषु पाकयज्ञेषु स्त्रियाश्चानुपेतस्य बलिमन्त्रो न विद्यतेऽपि वा स्त्री जुहुयान्मन्त्रवर्जं न चानुपेत उपेतो व्याख्यातो गृहपेधिनो यदशनीयस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्तास्तेषां मन्त्राणामुपयोगे द्वादशाहमधःशय्या ब्रह्मचर्यं क्षारलवणवर्जनं चोत्तमस्यैकरात्रमुपवासः स्त्री वैश्वदेवं निर्वपेद्युक्तो वा स्वयं निर्वपेद्देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामीति त्रिर्यजुषा तूष्णीं चतुर्थं पत्नी प्रयता फलीकरोति पत्न्या उपदिशति प्रक्षालितपाणिपादाधिश्रयीत शृतं वेदयीत भूतमिति भर्तुः प्रतिवेदयते तत्सुभृतं विराडन्नं तन्मा क्षायीति वचनमभिघार्योद्वास्य प्रतिष्ठितमभिघार्योपरिष्टादद्भिर्मार्जयित्वाधस्ताद्गोमयेन नात्रेध्माबर्हिर्भवति नाघारौ नाज्यभागौ व्याहृतीभिश्चतस्रः समिधोऽभ्याधाय परिषिच्य हस्तेन जुहोत्यग्नये स्वाहा सोमाय स्वाहा प्रजापतये स्वाहा धन्वन्तरये स्वाहा ध्रुवाय स्वाहा ध्रुवाय भौमाय स्वाहा ध्रुवक्षितये स्वाहाच्युतक्षितये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा सर्वाभ्यो देवताभ्यः स्वाहाग्नये स्वाहाग्नयेऽमवते स्वाहाग्नयेऽन्नादाय स्वाहाग्नये स्विष्टकृते स्वाहेति व्याहृतीभिर्जुहोत्येकैकशः समस्ताभिश्च मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधिर्हविष्मन्तो नमसा विधेम ते स्वाहा । कामाय स्वाहा मन्यवे स्वाहेत्यथ परिषिञ्चति मन्त्रांश्च संनमति १२

अपरेणाग्निं हस्तेन परिमृज्य धर्माय स्वाहाधर्माय स्वाहा ध्रुवाय स्वाहा क्षयाय स्वाहेत्यन्नं प्राणः प्रजापतिः परमेष्ठिने स्वाहेत्युखायामद्भ्यः स्वाहा वरुणाय स्वाहेत्युदधान्यां रुद्राण्यै स्वाहा रुद्राय स्वाहेति रुद्राण्यां भूः स्वाहेति सर्वदेवताभ्योऽन्तरिक्षाय स्वाहौषधिवनस्पतिभ्यः स्वाहेति मध्येऽगारे कामाय स्वाहेति शयनदेशे वनस्पतिभ्यः स्वाहेति स्थूणादेश ओषधिवनस्पतिभ्यः स्वाहेति स्थूणाराजयोर्गृह्याभ्यः स्वाहा गृहपतिभ्यः स्वाहावसानेभ्यः स्वाहावसानपतिभ्यः स्वाहेत्युत्तरपूर्वे देशे भूतेभ्यः स्वाहेत्युद्घाटे यदेजति जगति यच्च चेष्टति नाम्नो भागो यन्नाम्ने स्वाहेति संवदान्यामथ देहल्यां मरुद्भ्यः स्वाहेति मध्ये धात्रे स्वाहा विधात्रे स्वाहेति द्वयोर्वाहयोर्गृहादुपनिष्क्रम्याह्ने स्वाहा रात्र्यै स्वाहेत्यथोपलब्धे पिङ्क्षाण्यै स्वाहा पिङ्क्षाण्यै स्वाहेति पिङ्क्षाण्यां विष्णवे स्वाहा विष्णवे स्वाहेत्युलूखलमुसलेऽनसे स्वाहेति शकटे सोमाय स्वाहेति धान्ये श्रियै स्वाहा पुष्ट्यै स्वाहेति धान्यनिचतेऽथ प्रदक्षिणं बलिं निनयति प्राच्यै दिशे स्वाहा दक्षिणायै दिशे स्वाहा प्रतीच्यै दिशे स्वाहोदीच्यै दिशे स्वाहोर्ध्वायै दिशे स्वाहाग्नेय्यै दिशे स्वाहा नैरृत्यै दिशे स्वाहा वायव्यै दिशे स्वाहैशान्यै दिशे स्वाहा ब्रह्मणे स्वाहा प्रजापतये स्वाहेति मध्ये १३

इन्द्राय स्वाहेन्द्रपुरुषेभ्यः स्वाहेति पुरस्ताद्यमाय स्वाहा यमपुरुषेभ्यः स्वाहेति दक्षिणतो वरुणाय स्वाहा वरुणपुरुषेभ्यः स्वाहेति पश्चात्सोमाय स्वाहा सोमपुरुषेभ्यः स्वाहेत्युत्तरतोऽग्नये स्वाहेति पुरस्ताद्यमाय स्वाहेति दक्षिणतो वरुणाय स्वाहेति पश्चात्सोमाय स्वाहेत्युत्तरतः सप्तर्षिभ्यः स्वाहा सर्वभूतेभ्यः स्वाहेत्युत्तरपूर्वे देशेऽथ दक्षिणतः प्राचीनावीती जुहोति पितृभ्यः स्वधा नमः पितामहेभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधा नमो मातामहेभ्यः स्वधा नमो मातुः पितामहेभ्यः स्वधा नमो मातुः प्रपितामहेभ्यः स्वधा नम इति त्रीननुगेभ्यः स्वधा नम इति मध्येऽप उपस्पृश्योत्तरतो यज्ञोपवीती जुहोत्यृग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहाथर्ववेदाय स्वाहाथर्वाङ्गिरोभ्यः स्वाहेतिहासपुराणेभ्यः स्वाहा सर्वदेवजनेभ्यः स्वाहा सर्वभूतेभ्यः स्वाहेत्यथोर्ध्वं बलिं निनयति ये भूताः प्रचरन्ति दिवा बलिमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहेति नक्तं बलिमिच्छन्त इति रात्र्यामथार्केणैकपर्णेन बलिम् निनयति येषां न माता पचते येषां रात्र्यां समागमम् । तेषामहं तु भूतानां पिण्डं दास्याम्ययाचितः । भये मेऽभयमस्तु दुर्भिक्षे च सुभिक्षणम् । जननमारके मृत्युजातिप्राये च काल्यतां स्वाहेति पात्रसंक्षालनं निनयति निशि श्रितेभ्यः स्वाहा रुद्राय स्वाहेति वा वैश्वदेवं हुत्वातिथिमाकाङ्क्षेतागोदोहनकालमग्रं वोद्धृत्य निदध्याद्यज्ञो वा एष पञ्चमो यदतिथिः १४

अपरेण गार्हपत्यमुपविश्याधीहि भो इत्युक्त्वा सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वो वा दशवारं वेदादीन्जपेच्छन्दांसि कूश्माण्डानि चाधियीताग्निमीले पुरोहितमित्यृग्वेदस्येषे त्वोर्जे त्वेति यजुर्वेदस्याग्न आयाहि वीतय इति सामवेदस्य शन्नो देवीरभिष्टय इत्यथर्ववेदस्याग्निर्मूर्धेति छन्दांसि यद्देवा देवहेडनमिति कूश्माण्ड्यो यदधीते स ब्रह्मयज्ञो यज्जुहोति स देवयज्ञो यत्पितृभ्यः स्वधा करोति स पितृयज्ञो यद्भूतेभ्यो बलिं हरति स भूतयज्ञो यदतिथिभ्योऽन्नं ददाति स मनुष्ययज्ञ इत्येते वै पञ्च महायज्ञाः सतति सुप्रयुक्ता नयन्ति परमां गतिम् एतेभ्यो यस्य पञ्चभ्यो यज्ञ एकोऽपि हीयते । मनस्वत्याहुतिस्तस्य प्रायश्चित्तं विधीयते । द्व्यहं त्र्यहं वापि प्रमादादकृतेषु तिस्रस्तन्तुमतीर्हुत्वा चतस्रो वारुणीर्जपेद्दशाहं द्वादशाहं वा विछिन्नेषु स्वस्त्ययनेषु तु सर्वशश्चतस्रोऽभ्यावर्तिनीर्हुत्वा कार्यस्तान्तुमतश्चरुः

यस्य स्त्री वानुपेतो वा गृहेष्वेतान्बलीन्हरेत्
कूश्माण्ड्यस्तत्र होतव्या हुत्वा यज्ञसमृद्धये
प्रवासं गच्छतो यस्य गृहे कर्ता न विद्यते
पञ्चानां महतामेषां स यज्ञैः सह गच्छति
प्रवासे कुरुते चैतान्यदन्नमुपपद्यते
न चेदुत्पद्यते त्वन्नमद्भिरेनान्समापयेत्
अड्भिरेव व्रतं कृत्वा यथालाभमनुव्रतः
देवानां देवयज्ञेन द्विजा गच्छन्ति सात्मताम्
पितॄणां पितृयज्ञेन भूतियज्ञेन भूतीनाम्
मनोर्मनुष्ययज्ञेन ब्रह्मयज्ञेन ब्रह्मणः
एतेषां सात्मतां गत्वा देवतानां शतं समाः
आनन्दं ब्रह्म गच्छन्ति ध्रुवं शाश्वतमव्ययमिति १५


नान्दीश्राद्धस्य पूर्वपक्षे यथोपदेशं पूर्वेद्युर्वा युग्मान्ब्राह्मणान्भोजयेत्प्रदक्षिणमुपचारोऽग्निमिद्ध्वा दूर्वाभिः संस्तीर्य भोजनस्थानेषु च पवित्रे कृत्वा पात्रे निधायोत्पूय यवान्निधाय प्रणीतावदुपचारं हविष्यं च दध्योदनं चासाद्य नान्दीमुखाः पितरः प्रियन्तामित्यपां प्रतिग्रहणं विसर्जनं च पश्चादेवं विश्वेभ्यो देवेभ्यो नान्दीमुखेभ्यः पितृभ्यः स्वाहेति हुत्वोपस्तीर्य सर्वं द्विर्द्विरवद्यत्यभिघार्य वैष्णव्यर्चोपस्पर्शयित्वाचान्तेषु पूर्णपात्रं दत्त्वा गोमयेनोपलिप्य दध्योदनशेषं यवोदकेनावोक्ष्य न्युप्य पश्चात्परिषेचनं संपन्नमिति पृष्ट्वेडा देव
हूरित्यनुवाकशेषं जपेद्ब्राह्मणान्भोजयित्वाशिषो वाचयति १६

संवत्सरे सपिण्डीकरणमेकादशे मासि षष्ठे चतुर्थे द्वादशेऽहनि यदि पुण्याहकाल उपव्यावर्तेत पितॄणामावाहनं सव्यस्य पाणेरङ्गुष्ठेनोपमध्यमया चाङ्गुल्यालभ्य पृथिवीं जपेद्ये पार्थिवासः पितरो ये अन्तरिक्षे ये दिवि ये वामृता बभूवुः । तेऽस्मिन्यज्ञेऽमृता मादयन्तामिति चत्वारि पात्राणि सतिलगन्धोदकेन पूरयित्वैकं प्रेतस्य त्रीणि पितॄणामेकं वा पितॄणां प्रेतपात्रं पितृपात्रेष्वासिञ्चति ये समाना ये सजाता इति द्वाभ्यामसौ पितृभिः पितामहेभिः प्रपितामहेभिः सहैतत्ते तिलोदकं तस्मै ते स्वधा नम इति तिलोदकप्रदानमग्नौकरणमनुदेशनीयं च यथार्थमूहेदासेचने सपिण्डी व्याख्याता यथाश्रद्धं
दक्षिणा भवन्त्यत ऊर्ध्वं मासिश्राद्धेन १७

अथ गृह्यप्रायश्चित्तानि यानि स्मर्यन्ते तानि वक्ष्यामः शेषाणि वैतानिकानि स्युर्होमदेवतायाः समाम्नानात्फलश्रुतेश्च या एवाग्निहोत्रे देवतास्ता औपासने य एवाहिताग्नेर्धर्मः स एव धर्मो य एवाहिताग्नेर्लोकः स एवौपासनिकस्येति शाट्यायनिब्राह्मणं भवति तत्र ये पुरोडाशास्त इह चरवः पयोदधिपृषदाज्यानामाज्यवत्संस्कारो न दध्नोऽधिश्रयणं प्रत्यसने परिपेचनमद्भी रौद्रराक्षसनैरृतपैतृकछेदनभेदनखनननिरसनावघ्राणात्माभिमर्शनानि च कृत्वाप उपस्पृशेत्सर्वत्र स्कन्ने भिन्ने क्षामे दग्धे विपर्यासेऽन्तरिते च द्वे मिन्दाहुती जुहोति यन्म आत्मनो मिन्दाभूत्पुनरग्निश्चक्षुरदादिति द्वाभ्यामथ स्कन्ने सं त्वा सिञ्चामीति स्कन्नमभिमन्त्र्योन्नम्भय पृथिवीमित्यपोऽभ्यवहृत्य भूरित्युपस्थायास्कान्द्यौः पृथिवीमित्याहुतिं जुहोत्यथाज्यं चेद्देवाञ्जनमगन्यज्ञ इति चानुमन्त्रणं किं चिच्च दद्याद्भिन्ने भूमिर्भूमिमगादिति भिन्नमभिमन्त्र्योन्नम्भय पृथिवीमित्यपोऽभ्यवहृत्य त्रयस्त्रिंशत्तन्तव इत्येतया जुहुयादग्नौप्रक्षेपणं दारुमयेऽथ क्षामे निरृत्यै त्वेति विदग्धमभिमन्त्र्य त्वं पराची त्वमवाची त्वं रक्षांसि गच्छेति दक्षिणापरमुत्तरापरं वा दिशं तं प्रति निरस्यत्यग्नी रक्षांसि
सेधतीति तिस्र आज्याहुतीर्जुहुयात् १८

अहविष्य आगमनमन्यस्यैकदेशश्चेदुद्धृत्यैतत्कृत्वैतया जुहुयादेतेनाशृतदुःशृते व्याख्याते अपोऽभ्यवहरेद्यत्र क्व चेन्धनमग्नावादध्यात्स्वाहाकारेणादधातीति विज्ञायते रुद्राय त्वेत्यशृतमभिमन्त्र्य यमाय त्वेति दुःशृतमथ परिस्तरणदाहेऽग्नये क्षामवते नमो नमः क्षामवान्मा मा हिंसीन्मा मे गृहं मा मे धनं मा मे प्रजां मा मे पशूनित्यभिमन्त्र्याग्नये क्षामवते नमो नम इत्याहुतिं जुहुयादिन्द्रं वो विश्वतः परीति पुनः परिस्तीर्येन्द्राय स्वाहेत्याहुतिं जुहुयादथ परिधिदाहे प्रदाव्यायाग्नये नमो नमः प्रदाव्यायेति समानमत ऊर्ध्वमग्नेः समिदसीति पश्चार्धं यमस्य समिदसीति दक्षिणार्धं सोमस्य समिदसीत्युत्तरार्धमिन्धानास्त्वा शतं हिमा इत्याहुतिं जुहुयाद्दुष्टेऽन्यं परिदध्याद्गन्धर्वोऽसीति प्रतिमन्त्रमथ विपर्यासे त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापत इति चतस्र आहुतीर्जुहुयादेता एवान्तरिते मनो ज्योतिर्जुषतामिति पञ्चमीमन्तरितं च कुर्यात्संस्थिते चेज्जानीयात्किं चिच्च दद्यात् १९

उत्तरस्मिन्काल आगते होमश्चेति निवृत्तः पूर्वस्य सेयं कालातिपत्तिस्तस्यां प्रायश्चित्तं मनो ज्योतिरिति पूर्वस्य हुत्वापरस्य जुहुयादेवं प्रतिहोममा दशरात्रात्प्राणायामश्चैकादशीप्रभृत्या विंशतिरात्रादुपवासश्चा त्रिंशद्रात्रादत ऊर्ध्वमा षष्टिरात्रात्तिस्रो रात्रीरुपवसेदत ऊर्ध्वं प्राजापत्यं विहितमेकादशीप्रभृति तिस्रश्च तन्तुमतीस्तन्तुं तन्वन्नुद्बुध्यस्वाग्ने त्रयस्त्रिंशत्तन्तव इत्युक्तमनुगत इत्यपि वायाश्चाग्नेऽसीति जुहुयादा त्रिरात्रान्मनो ज्योतिरित्या सप्तरात्रादत ऊर्ध्वमा द्वादशरात्रात्तिस्रो रात्रीरुपवसेदत ऊर्ध्वं प्राजापत्यं विहितमेकादशीप्रभृति तिस्रश्च
तन्तुमतीरुक्तं द्वादशाहं विछिन्न इत्येकादशीप्रभृत्युपवासः पूर्ववत् २०

अथ पर्वण्यतीते मनो ज्योतिरयाश्चाग्ने यदस्मिन्नग्ने स्वस्ति न इन्द्र इति चतस्र आज्याहुतीर्जुत्वा स्थालीपाकं च कुर्यात्प्रागष्टम्या अत ऊर्ध्वं सोपवासः कार्यो द्वयोर्द्वौ त्रिषु त्रय इत्येवं नैमित्तिकेष्वतीतेषु प्रायश्चित्तं पार्वणवद्धोमः पितृयज्ञेऽतीते पक्षात्यये सोपवासः कार्य इति सिद्धं नित्येषु चैवमेव स्यादथ महायज्ञानां मनो ज्योतिरिति द्वयोस्त्रयाणां चतुर्णां पञ्चानां वा षष्ठप्रभृति तिस्रस्तन्तुमतीर्हुत्वा चतस्रो वारुणीर्जपेदिमं मे वरुण तत्त्वा यामि यच्चिद्धि ते यत्किं चेत्या नवरात्रादत ऊर्ध्वमा दशरात्राच्चतस्रोऽभ्यावर्तिनीर्हुत्वा कार्यस्तान्तुमतश्चरुः स्नातकस्यापि होमविछित्तावुक्तं प्राप्ते प्राजापत्ये तस्य विछित्तिस्तस्य तु पुनराधेयं मनो ज्योतिस्तन्तुमतीः पुनस्त्वादित्या रुद्रा इति च पूर्णाहुतिं प्रतीयादेतामग्न्युपघातेषु सर्वत्र स्त्रियाश्चैवं होमाभिगमनस्थालीपाकेषु
सर्वेषामन्ततो व्याहृतीरिति सिद्धं नम आचार्येभ्यो नम आचार्येभ्यः २१
इति भारद्वाजसूत्रे तृतीयः प्रश्नः समाप्तः
भारद्वाजीयं गृह्यसूत्रं समाप्तम्