भारतमञ्जरी/सौप्तिकपर्व
- सौप्तिकपर्व
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ११.१ ॥
प्रतापधाम्नि यातेऽस्तं रवौ कमलिनीप्रिये ।
शोकावकीर्णकेशेन तमोभिरभवन्मही ॥ ११.२ ॥
क्षयं कालेन नीतेऽह्नि शान्ते संध्याचितानले ।
अस्थिशेषैरिवापूर्णं तारकाभिरभून्नभः ॥ ११.३ ॥
श्यामा प्रत्यग्रदुःखेन प्रसरत्तिमिराञ्जना ।
बभार तारतरलां नक्षत्राश्रुकणावलीम् ॥ ११.४ ॥
घोरे तस्मिन्निशावक्त्रे घोरसत्त्वघने वने ।
श्रमान्निद्रामुपगते कृपे स कृतवर्मणि ॥ ११.५ ॥
ध्यायन्दुर्योधनवधं मन्युहालाहलाकुलः ।
प्रतिज्ञां शत्रुनिधने द्रौणिरेको व्यचिन्तयत् ॥ ११.६ ॥
अत्रान्तरे ददर्शोच्चन्यग्रोधशिखराश्रयम् ।
वध्यमानमुलूकेन वायसानां च मण्डलम् ॥ ११.७ ॥
काकान्कालबलेनैत्य दृष्ट्वा घूकेन पातितान् ।
तामेव पाण्डववधे नीतिं द्रौणिरचिन्तयत् ॥ ११.८ ॥
क्रुधा क्रूरां धियं कृत्वा कृपभोजौ विबोध्य सः ।
उवाच निःश्वसन्दीर्घं दह्यमान इव क्रुधा ॥ ११.९ ॥
राजा राजसहस्राणामेकाकी विषमस्थितिः ।
व्याजादस्मासु जीवत्सु भीमसेनेन पातितः ॥ ११.१० ॥
शस्त्रं वहद्भिर्मिथ्यैव दृष्टोऽस्माभिः स भूतले ।
अश्रुपातप्रतीकाराक्षमैः क्लीबतरैरिव ॥ ११.११ ॥
देशकालौ समाश्रित्य वध्यः सर्वात्मना रिपुः ।
तस्मात्प्रसुप्तानद्यैव सानुगान्हन्मि पाण्डवान् ॥ ११.१२ ॥
श्रुत्वैतत्कूणितमनाः प्रसुप्तवधपातकम् ।
कृपः कृपाकुलो निन्दन्नभाषत सुतं स्वसुः ॥ ११.१३ ॥
धिगेतत्कुत्सितं युद्धं निश्चेष्टो यत्र हन्यते ।
भग्नधैर्येऽपि नो वीराः प्रहरन्ति यशस्विनः ॥ ११.१४ ॥
भवानहं च भोजश्च कर्तारः प्रातरेव तत् ।
पुनर्येन न यास्यामो दुर्योधनवधव्यथाम् ॥ ११.१५ ॥
सुराणामपि पर्याप्ताः संहताः समरे वयम् ।
प्रवेक्ष्यामो वैरिवनं ज्वलिता इव पावकाः ॥ ११.१६ ॥
गौतमेनेत्यभिहिते संमते कृतवर्मणः ।
निःश्वसन्साश्रुन्यनः पुनर्द्रैणिरभाषत ॥ ११.१७ ॥
मायोपमा विदग्धेषु निकृत्याविचरस्तु ये ।
स्पृशन्त्यधर्ममर्यादां न ते तत्फलभागिनः ॥ ११.१८ ॥
अर्जुनेन हतः कर्णः स च शान्तनवो यथा ।
तत्किं न विदितं लोके शेषं वक्तुं न पार्यते ॥ ११.१९ ॥
अधुना स्वस्ति धर्माय रचितोऽस्मै मयाञ्जलिः ।
पराभवमिमं तावन्न सहे मर्मदारणम् ॥ ११.२० ॥
द्रौणिर्दारुणसंकल्पमित्युक्त्वा कृतनिश्चयः ।
रथेन तमसि प्रायाच्छिबिरं कौरवद्विषम् ॥ ११.२१ ॥
कृष्णस्य शासनात्पूर्वं यातेषु शिबिरान्तरम् ।
सह सात्यकिना योधैः पाण्डवेषु विनानुगैः ॥ ११.२२ ॥
कृपभोजावतिक्रम्य जवाद्द्रौणिरुपागतः ।
शिबिरद्वारमासाद्य महद्भूतं व्यलोकयत् ॥ ११.२३ ॥
हरिश्मश्रुजटानेत्रं ज्वालानामिव संचयम् ।
तमसामिव संघातमञ्जनाचलसंनिभम् ॥ ११.२४ ॥
सहस्रशीर्षनयनं सहस्रचरणाद्भुतम्।
सर्पयज्ञोपवीताङ्गं सर्पकेयूरकङ्कणम् ।
भयंकरं भयस्यापि कृतान्तस्येव दैवतम् ॥ ११.२५ ॥
तद्दृष्ट्वा घोरसंरम्भो द्रौणिर्दुर्जयविक्रमः ।
सर्वायुधावली तस्मै प्राहिणौद्धैर्यभूधरः ॥ ११.२६ ॥
तान्यायुधानि सहसा ज्वलितान्येव तेजसा ।
बृम्भमाणं महद्भूतं तदासाद्य क्षयं ययुः ॥ ११.२७ ॥
द्रौणिस्ततस्तदाकारमरीचिभ्यो व्यलोकयत् ।
चक्रायुधसहस्रणि निःसृतानि स विस्मयः ॥ ११.२८ ॥
क्षणाद्ग्रस्तायुधस्तेन गाढानुशयतापितः ।
प्रस्तुतं मलिनं कर्म निनिन्द स्वयमाकुलः ॥ ११.२९ ॥
स रथादवतीर्याथ प्रयतस्त्रिपुरान्तकम् ।
शूलिनं शरणं प्रायात्तत्स्तोत्रमुखराननः ॥ ११.३० ॥
आत्मोपहारं रुद्राय तस्मिन्दातुं समुद्यते ।
ज्वालाकुला हेमवेदी पुरस्तात्प्रत्यदृश्यत ॥ ११.३१ ॥
तदुद्भूतैर्गणैर्घोरैर्नानाप्राणिमुखोदरैः ।
नानाप्रहरणैर्दीप्तैर्व्योम क्षिप्रमपूरयत् ॥ ११.३२ ॥
ततो वेद्यां महावह्नौ ज्वलिते द्रोणनन्दनः ।
भक्त्यात्मानं त्रिनेत्राय निवेद्याभ्यपतत्स्वयम् ॥ ११.३३ ॥
तुष्टोऽथ भगवानेत्य स्वयमन्धकसूदनः ।
तमुवाच स्वमेवांशमुत्तिष्ठाङ्गिरसां वर ॥ ११.३४ ॥
संस्थानाय मयैतावत्कृतं कैटभविद्विषः ।
आत्गानं विद्धि मे कृष्णं स मे बहुमतः सदा ॥ ११.३५ ॥
कालपक्वास्तु पाञ्चाला नैषां रक्षास्ति कुत्रचित् ।
गृहाण खड्गमेतेन दारयैतानशङ्कितः ॥ ११.३६ ॥
इत्युक्त्वा भैरवे दीप्तं खड्गं दत्वा तिरोहिते ।
तदा विकाराद्दुष्प्रेक्ष्यो द्रौणिः शिबिरमाविशत् ॥ ११.३७ ॥
द्वारि भोजकृपौ धृत्वा विद्रुतानां वधाय सः ।
प्रविश्य शयने शुभ्रे धृष्टद्युम्नं व्यलोकयत् ॥ ११.३८ ॥
तारहारांशुनखरं दीप्तकेसरिसंनिभम् ।
घूर्णमानशिखैर्दीपैर्विस्मयादिव वीक्षितम् ॥ ११.३९ ॥
अनेकरणसंमर्दश्रान्तैर्निद्राविमोहितैः ।
अधिष्ठितं बहुभटैर्मुक्तपर्याणवाहनैः ॥ ११.४० ॥
तं दृष्ट्वा कोपशिखिना दह्यमानः स्मरन्पितुः ।
उत्तिष्ठ रे गुरुघ्नेति द्रौणिरुक्त्वा पदास्पृशत् ॥ ११.४१ ॥
बोधितः सहसा तेन संभ्रमस्वीकृतायुधः ।
द्रोणपुत्रं परिज्ञाय चकम्पे द्रुपदात्मजः ॥ ११.४२ ॥
द्रौणिस्तमुत्थितं वेगान्माल्यवद्भिः शिरोरुहैः ।
आकृष्यापातयत्कण्ठे गाढं निष्पीड्य विह्वलम् ॥ ११.४३ ॥
निष्पिष्यमाणः संरम्भाद्रक्तोद्गाराकुलाननः ।
कुपित्वा पादयोर्द्रैणिं नखैर्दन्तैश्च विस्फुरन् ॥ ११.४४ ॥
शस्त्रेण छिन्धि मां तूर्णं मा पदेनेति गद्गदम् ।
कण्ठरुद्धस्वरः श्वासादस्फुटाक्षरमभ्यधात् ॥ ११.४५ ॥
तमब्रवीद्द्रोणसुतः पाप पद्भ्यां निहन्यसे ।
लोकानां शस्त्रपूतानां न पापं गुरुघातिनाम् ॥ ११.४६ ॥
इत्युक्त्वा चरणाघातैर्जर्जरं तमपोथयत् ।
तस्मिन्हते तद्विमर्दशब्देन बुबुधे जनः ॥ ११.४७ ॥
- धृष्टद्युम्नवधः ॥ १ ॥ *****
ततो द्रौणिं समालेक्य रिपुरक्तच्छटाङ्कितम् ।
पाञ्चाला द्रौपदेयाश्च कालोऽयमिति मेनिरे ॥ ११.४८ ॥
निद्राशेषारुणदृशां शस्त्राण्यानयतां मिथः ।
क्रोशतां वर्म वर्मेति तेषामासीन्महास्वनः ॥ ११.४९ ॥
क्व गजः क्व रथः क्वाश्वः क्व चापं क्व शिलीमुखाः ।
इति ब्रुवाणान्खङ्गेन द्रौणिश्चिच्छेद तान्क्रुधा ॥ ११.५० ॥
हत्वोत्तमौजसं पद्भ्यां कण्ठे कठिनविक्रमः ।
गदाहस्तं युधामन्युं निष्पिपेष विराविणम् ॥ ११.५१ ॥
ततः खङ्गेन शूराणां शिरांसि भुवि पातयन् ।
कालरात्र्याः स विदधे विनोदं कन्दुकैरिव ॥ ११.५२ ॥
कृष्णासुतानापततो द्रौपदेयानसंभ्रमात् ।
चकार करवालेन स कालकवलोचितान् ॥ ११.५३ ॥
प्रतिविन्ध्ये हते वीरे सुतसोमे निपातिते ।
श्रुतकीर्तै शतानीके छिन्ने च श्रुतवर्मणि ॥ ११.५४ ॥
शिखण्डी कृष्टकोदण्डः शरैर्द्रैणिमपूरयत् ।
द्रोणपुत्रोऽपि खड्गेन क्रुद्धस्तं विदधे द्विधा ॥ ११.५५ ॥
- द्रौपदेयशिखण्डिवधः ॥ २ ॥ *****
कोपादाचार्यपुत्रेण वध्यमानाः प्रभद्रकाः ।
मत्स्यसृञ्जयपाञ्चालाः कालं ददृशुरन्तिके ॥ ११.५६ ॥
असितं रक्तवसनं रक्तमाल्यानुलेपनम् ।
हसन्तं वीक्ष्य तं वीराः संहारं मेनिरे स्फृटम् ॥ ११.५७ ॥
घनान्धकारे वीराणां रथकुञ्जरवाजिनाम् ।
योधानां च क्षयं द्वारि चक्रतुर्भोजगौतमौ ॥ ११.५८ ॥
एवमक्षौहिणीं हत्वा वसारक्तानुलेपनः ।
निर्ययौ रौद्रचरितो द्रौणिर्भैरवविग्रहः ॥ ११.५९ ॥
स गत्वा सहितस्तूर्णं हार्दिक्येन कृपेण च ।
ददर्श भुवि राजानं भग्नशक्तिं सुयोधनम् ॥ ११.६० ॥
वारयन्तं गदाग्रेण मुहुः क्रव्यादमण्डलम् ।
व्यथया मर्मदिन्या भक्षयन्तं वसुंधराम् ॥ ११.६१ ॥
शोणितं वदनोद्वान्तं परिमृज्याशु तस्य ते ।
सर्वपाञ्चलसंहारकथया ववृषुः सुधाम् ॥ ११.६२ ॥
स किंचिच्छेषजीवोऽपि तच्छ्रुत्वा वृत्तकन्धरः ।
पर्यन्तग्रसिताव्यक्तभाषितैः प्रशशंस तान् ॥ ११.६३ ॥
स परिष्वज्य यत्नेन द्रौणिं साश्रुविलोचनम् ।
पुनर्नः संगमः स्वर्गे भूयादित्यवदच्छनैः ॥ ११.६४ ॥
अङ्गे विधाय दयितां स गदां सदैव भुक्तां चिरं वसुमतीमवगूह्य दोर्भ्याम् ।
कर्णावलम्बितबलोद्गतजीवचारो वीरः शनैः सुरवधूप्रणयी बभूव ॥ ११.६५ ॥
- दुर्योधनस्वर्गगमनम् ॥ ३ ॥ *****
अत्रान्तरे प्रयातायां क्षपायां क्षपितारयः ।
जज्ञिरे पाण्डवाः कर्म दारुणं द्रौणिना कृतम् ॥ ११.६६ ॥
मुक्तान्महाभयात्तस्मात्कृष्णा श्रुत्वा हतान्सुतान् ।
अनुजांश्च सपाञ्चालान्पपात भुवि मूर्च्छिता ॥ ११.६७ ॥
शनकैर्लब्धसंज्ञा सा विलपन्ती सुलोचना ।
पार्थानां शोकविधुरा हृदयानि व्यदारयत् ॥ ११.६८ ॥
यावन्न विशिखैः कृत्तमुत्तमाङ्गं विकर्मणः ।
द्रौणेर्दृष्टं मया तावज्जीवितस्यायमञ्जलिः ॥ ११.६९ ॥
इत्युक्त्वा द्रौपदी दुःखाद्वीक्षमाणा वृकोदरम् ।
नोवाच किंचित्संतापान्मरणे कृतनिश्चया ॥ ११.७० ॥
ततो भीमः प्रियाशोकशूलेनाभ्याहतो हृदि ।
प्रययौ रथमारुह्य द्रोणपुत्रजिघांसया ॥ ११.७१ ॥
व्रजतस्तस्य कालग्नेरिव लोकान्दिधक्षतः ।
धूममालाभ्रमं चक्रे ललाटे भ्रुकुटिः क्षणम् ॥ ११.७२ ॥
रौद्रो रुद्राश्रयो द्रौणिः क्रुद्धश्च पवनात्मजः ।
गच्छामः पृष्ठतस्तस्मादित्यूचे पाण्डवान्हरिः ॥ ११.७३ ॥
ततः किरीटिप्रमुखाः सह सात्यकिना ययुः ।
रथिनः सेषवः सर्वे पाण्डुपुत्रा युयुत्सवः ॥ ११.७४ ॥
ततस्ते द्रौणिमासाद्य प्रसुप्तवधपातकात् ।
ध्वस्तच्छायं क्रियाहीनं कोपेनाकुलतां ययुः ॥ ११.७५ ॥
अभिद्रुते भीमसेने द्रौणिं नकुलसारथौ।
पादचारी घृताभ्यक्तः सरस्वत्यास्तटे क्षणम् ।
अपाण्डवं जगत्कर्तुं ब्रह्मशीर्षास्त्रमाददे ॥ ११.७६ ॥
तद्विनाशाय पार्थोऽपि ब्रह्मास्त्रमसृजत्कृती ।
येनाभवन्दिशो व्याप्ताः कम्पातङ्कतरङ्गिताः ॥ ११.७७ ॥
अत्रान्तरे समभ्यायान्नारदेन सह स्वयम् ।
मुनिः सत्यवतीसूनुर्भगवान्भूतभावनः ॥ ११.७८ ॥
सोऽब्रवीद्द्रोणतनयं जिष्णुं च क्षयशङ्कितः ।
अयं दिव्यास्त्रसंमर्दे हतवीरं जगद्दहेत् ॥ ११.७९ ॥
पार्थ संहर दिव्यास्त्रं त्वं च द्रौणे गिरा मम ।
अकाण्डे मा भवन्त्वेते लोकाः प्रलयभागिनः ॥ ११.८० ॥
इत्युक्ते मुनिना क्षिप्रं संजहारास्त्रमर्जुनः ।
द्रौणिः प्रयोगकुशलो नेशोऽभूदस्त्रसंहृतौ ॥ ११.८१ ॥
ततः प्रज्वलिते लोके व्यथिते सुरमण्डले ।
अभिमन्युवधूगर्भे द्रौणिरस्त्रमपातयत् ॥ ११.८२ ॥
भूयस्तत्प्रतिषेधाय पुत्रसंतानवाञ्छया ।
निन्दन्द्रोणसुतं पार्थस्तदस्त्रं कुपितोऽसृजत् ॥ ११.८३ ॥
ततः कृष्णोऽवदज्जिष्णुं विषण्णं संततिक्षयात् ।
मा शुचो धैर्यजलधे न ते वंशो विनङ्क्ष्यति ॥ ११.८४ ॥
जात्वेनं जीवयिष्यामि दग्धमप्यस्त्रतेजसा ।
उत्तरायाः स्थितं गर्भे सौभद्रतनयं शिशुम् ॥ ११.८५ ॥
इति ब्रुवाणे गोविन्दे पार्थास्त्रे ज्वलिते भुवि ।
उवाच द्रोणतनयं व्यासो देवर्षिणा सह ॥ ११.८६ ॥
त्यज चूडामणिं रक्ष जीवरत्नं महास्त्रतः ।
अशक्तश्च प्रमादी च जानीषे न यथोचितम् ॥ ११.८७ ॥
वत्सराणां सहस्र त्वं विस्ररोगी समाहितः ।
दुर्भिक्षव्यञ्जको दुःखी विजने विचरिष्यसि ॥ ११.८८ ॥
इति शप्तो गुरुसुतः कोपाद्व्यासमभाषत ।
व्यसने पतितः कस्मात्क्षिप्तोऽहं संकटे त्वया ॥ ११.८९ ॥
यत्र यत्र भविष्यामि तत्र तत्र ममानुगः ।
त्वमपि प्रतिशापेन मुने नित्यं भविष्यसि ॥ ११.९० ॥
इत्युक्त्वास्त्रोपहाराय चूडारत्नं वितीर्य सः ।
प्रययौ द्रोणतनयो मुनिश्च मुनिना सह ॥ ११.९१ ॥
ततः प्रशान्ते ब्रह्मास्त्रे पाण्डवाः सह शौरिणा ।
चूडारत्नं समादाय याज्ञसेन्यै न्यवेदयन् ॥ ११.९२ ॥
- ऐषीकमस्त्रम् ॥ ४ ॥ *****
एवं प्रसाद्य पाञ्चालीं शोकार्ताः पाण्डुनन्दनाः ।
पाञ्चालकदनं घोरं ध्यायन्तो न ययुर्वृतिम् ॥ ११.९३ ॥
संजयेनेति कथिते श्रुत्वा राजाम्बिकासुतः ।
पपात मूर्च्छितो मोहाल्लीनशोकानलः क्षणम् ॥ ११.९४ ॥
तं शीतसलिलापूरैराश्वास्योवाच संजयः ।
मन्त्रिणश्च प्रियान्पुत्राञ्शोचन्तं व्यथितेन्द्रियम् ॥ ११.९५ ॥
स्वप्नमायाविलसितैः पर्यन्ते शोकमोहदैः ।
संसारविभ्रमैर्धीराः स्पृश्यन्ते न मनीषिणः ॥ ११.९६ ॥
देवैन्द्रजालिककृतैश्छायाक्रीडनकैरिव ।
पुत्रैर्धनैश्च दारैश्च न मुह्यन्ति मदाशयाः ॥ ११.९७ ॥
उपेक्षितस्त्वयैवायं दुर्नयाद्बान्धवक्षयः ।
वृत्ते तस्मिन्नमिथ्यैव शोकं कर्तुमिहार्हसि ॥ ११.९८ ॥
प्रभावप्रभवैर्भावैर्मायाविभवभावितैः ।
अभावनिष्ठापर्यन्तैः सतां न क्रियते भ्रमः ॥ ११.९९ ॥
स्वकर्ममुद्रिते लोके नियतौ प्रलयोदधौ ।
कलयामि न कालस्य कश्च तावति वर्तते ॥ ११.१०० ॥
इत्यादि संजयमुखा नृपमुग्रमोहभग्नं स्वयं विहितदुर्नयदृष्टपारम् ।
हेलावलत्कलभच्ञ्चलकर्णताललोलां भवस्थितिकथामसकृत्तमूचुः ॥ ११.१०१ ॥
- इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां सौप्तिकपर्व