भारतमञ्जरी/शान्तिपर्व
- शान्तिपर्व
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १३.१ ॥
कृतोदकं कृताशौचं स्थितं सुरसरित्तटे ।
मुनयोऽभ्याययुर्द्रष्टुं नारदाद्या युधिष्ठिरम् ॥ १३.२ ॥
तेषु प्राप्तासनार्घ्येषु पूजितेषु पुरोधसा ।
प्रीत्या प्रोवाच देवर्षिः पृष्ट्वा नृपमनामयम् ॥ १३.३ ॥
दिष्ट्या विराजसे राजन्कुशली निहताहितः ।
दिष्ट्या शल्यादयो वीरा याता वृत्रसमा क्षयम् ॥ १३.४ ॥
कच्छिन्न बन्धुविरहादवस्थां कातरोचिताम् ।
मोहादालम्ब्य धैर्यघ्नीं विजयं नाभिनन्दसि ॥ १३.५ ॥
इत्युक्ते दिव्यमुनिना निःश्वस्योवाच धर्मजः ।
श्मशानसदृशे राज्ये कोऽस्मिन्मोदेत मादृशः ॥ १३.६ ॥
गुरवः सुहृदः पुत्रा भृत्याः संबन्धिबान्धवाः ।
शरीरशेषैरस्माभिर्घातिता विभवार्थिभिः ॥ १३.७ ॥
यदर्थं राज्यमीहन्ते राजानो हतकण्टकम् ।
ते हताः स्वजनाः सर्वे गतो निष्फलतां श्रमः ॥ १३.८ ॥
इदं दहति मे चेतो यत्कर्णो विनिपातितः ।
स हि मे कथितः कुन्त्या भ्राता तपनसंभवः ॥ १३.९ ॥
पुरा विकारजः क्रोधस्तस्मिन्मम पुरःसरः ।
कुन्त्याः सदृशपादोऽसाविति मार्दवमाययौ ॥ १३.१० ॥
ऐश्वर्यलुब्धैरस्माभिर्निहतः स सहोदरः ।
नरकापरपर्यायं धिग्राज्यमधुना मम ॥ १३.११ ॥
अस्मदर्थे रहो मात्रा याचितः स महायशाः ।
काले काले ररक्षास्मान्पतितान्वधगोचरे ॥ १३.१२ ॥
श्रोतुमिच्छामि भगवंस्तस्य शापो यथाभवत् ।
इति राज्ञा विषण्णेन पृष्टः प्रोवाच नारदः ॥ १३.१३ ॥
युष्मद्देषात्पुरा कर्णो भारद्वाजमयाचत ।
ब्रह्मास्त्रं तच्च न ददौ द्रोणोऽस्मै फल्गुणप्रियात् ॥ १३.१४ ॥
ज्ञातव्यं ब्राह्मणेनैतदित्युक्तस्तेन दुःखितः ।
विप्रवेषं विधायाशु जामदग्न्याश्रमं ययौ ॥ १३.१५ ॥
अन्येवासी भृगुभुवः सोऽथ ब्रह्मास्त्रयाचकः ।
विचचार चिरं धन्वी महेन्द्रगिरिसानुषु ॥ १३.१६ ॥
तं कदाचिद्दिजः कश्चिदज्ञानावाप्तकिल्बिषम् ।
शशापात्यन्तकुपितो होमधेनुनिकारतः ॥ १३.१७ ॥
मोहादपकृतं यस्माद्धोमधेनोर्मम त्वया ।
सक्तस्य शत्रुणा तस्माद्भूस्ते चक्रं ग्रसिष्यति ॥ १३.१८ ॥
इति शप्तः स विप्रेण दह्यमान इवानिशम् ।
आराध्य रामं ब्रह्मास्त्रमवाप विपुलश्रमः ॥ १३.१९ ॥
ततः कदाचित्संजातविस्रमवाप भृगुसंभवः ।
कर्णस्याङ्के शिरः कृत्वा सुष्वाप व्रतकर्षितः ॥ १३.२० ॥
अत्रान्तरे कृमिस्तीक्ष्णदंष्ट्रोष्ठचरणः कृशः ।
अदशद्दारुणः कर्णमलर्को नाम दुःसहः ॥ १३.२१ ॥
गुरुप्रबोधचकितो यावत्सेहे स तद्व्यथाम् ।
तावत्तद्रुधिरासिक्तो निद्रां तत्याज भार्गवः ॥ १३.२२ ॥
किमेतदिति संभ्रान्तः शोणितस्पर्शकूणितः ।
दष्टं राधेयमालोक्य ददर्श विकृताकृतिम् ॥ १३.२३ ॥
रामेण दृष्टमात्रोऽथ भस्मीभूतः कृमिः क्षणात् ।
राक्षसो लोहितग्रीवः प्रदीप्ताक्षो बभूव सः ॥ १३.२४ ॥
सोऽब्रवीद्भृगुभार्यायां चापलादभिलाषुकः ।
गृध्रो नाम सुरारातिः शप्तेऽहं मुनिना पुरा ॥ १३.२५ ॥
तच्छापान्निरयं यातः पापां योनिमिमां विभो ।
त्वत्संदर्शनपर्यन्तां प्रपन्नः क्षपिता च सा ॥ १३.२६ ॥
इत्युक्त्वा राक्षसे याते कर्णं पप्रच्छ भार्गवः ।
कस्त्वं नासि द्विजो नूनं क्षत्त्रस्तीव्रव्यथासहः ॥ १३.२७ ॥
श्रुत्वैतच्चकितः कर्णो निजं तस्मै न्यवेदयत् ।
कुलं नाम च येनाशु तं शशाप रुषा गुरुः ॥ १३.२८ ॥
ब्राह्मणच्चद्मना यस्माद्ब्रह्मास्त्रं प्राप्तवानसि ।
तस्मात्तवैतत्पर्यन्ते विनाशमुपयास्यति ॥ १३.२९ ॥
निरस्तो भार्गवेणेति कर्णः प्राप्य सुयोधनम् ।
युष्मत्संघर्षसौहार्दात्तेनाङ्गेषु कृतः पतिः ॥ १३.३० ॥
चित्राङ्गदस्य तनयां कलिङ्गनृपतेः पुरा ।
तद्बाहुबलमाश्रित्य जहार धृतराष्ट्रजः ॥ १३.३१ ॥
तस्मिन्स्वयंवरे कर्णः कुपितं राजमण्डलम् ।
याते दुर्योधने पूर्वमेको दर्पदयोधयत् ॥ १३.३२ ॥
जित्वा समस्तभूपालाञ्जरासंधं यशोनिधिः ।
संदेहदोलामनयन्नियुद्धेन बलोद्धतः ॥ १३.३३ ॥
जरासंधो ददौ तस्मै मालिनीं नगरीं जितः ।
अन्ये च तत्यजुर्वीरा भागं भागं नरेश्वराः ॥ १३.३४ ॥
वञ्चितः स सुरेन्द्रेण वर्मकुण्डलहारिणा ।
शप्तः पूर्वं द्विजेन्द्रेण गुरुणा भार्गवेन च ॥ १३.३५ ॥
प्राज्ञयामन्त्रितः कुन्त्या गाङ्गेयेन तिरस्कृतः ।
शल्येन तेजसः शान्त्यै श्रावितः परुषा गिरः ॥ १३.३६ ॥
हतः कृष्णधिया धीरो दिव्यास्त्रैः शक्रजन्मना ।
अन्यथा समरे हन्यात्कस्तमूर्जितविक्रमम् ॥ १३.३७ ॥
नारदेनेति कथिते शोकार्तं धर्मनन्दनम् ।
उवाच कुन्ती धैर्येण विधूय तनयव्यथाम् ॥ १३.३८ ॥
रविणाप्यर्थितः संधिं बुबुधे न विधेर्वशात् ।
युष्मद्द्वेषी स सततं मया स्वयमुपेक्षितः ॥ १३.३९ ॥
यातः स सूर्यसदनं संमुखं समरे हतः ।
मा शुचः प्राप्तमधुना भुङ्क्ष्व राज्यमनाकुलः ॥ १३.४० ॥
न लेभे शर्म विपुलान्कर्णस्य कलयन्गुणान् ।
सोऽब्रवीद्गूहनान्मातुरज्ञातोऽस्माभिरग्रजः ॥ १३.४१ ॥
यस्मात्तस्माद्भविष्यन्ति च्छिन्नसत्त्वा सदा स्त्रियः ।
भैक्ष्येण फलमूलैर्वा वृत्तयः सन्त्यवारिताः ॥ १३.४२ ॥
तास्त्यक्ताः कथमस्माभिर्घोरः सर्वक्षयः कृतः ।
लोभाद्धर्मं परित्यज्य प्रज्ञाहीनैरभिक्षवत् ॥ १३.४३ ॥
ध्यात्वास्माभिः कुलाचारं विक्रीता त्रिदिवे गतिः ।
अहो श्वभिरिवास्माभिर्घोरः सर्वक्षयः कृतः ॥ १३.४४ ॥
अङ्गक्षयावधि क्षुद्रैः कलहो विपुलः कृतः ।
मित्त्रबनधुवियोगोग्रग्राहसंसारवारिधिम् ॥ १३.४५ ॥
संगत्यागप्लवो नैष तरामि वितरस्पृहः ।
अर्जुनः पृथिवीं वीरो रक्षत्वस्मासु गौरवात् ॥ १३.४६ ॥
त्यजाम्यायासविरसामेतां कुत्सितजीविकाम् ।
इत्युक्त्वति संतप्ते धर्मपुत्रे धनंजयः ॥ १३.४७ ॥
उवाच कोपताम्राक्षः क्षणमालोकयन्क्षितिम् ।
अहो नु देवशप्तानां दुःखान्यन्ते सुखान्यति ॥ १३.४८ ॥
तत्सर्वेष्वपि शोचन्ति सर्वथा विधिवञ्चिताः ।
हासाय साधुगोष्ठीषु संन्यासोऽयं तवाधुना ॥ १३.४९ ॥
नष्टामर्थयमानस्य प्राप्तां च त्यजतः श्रियम् ।
अवस्थाविपरीतेषु क्लीबकार्येषु मज्जताम् ॥ १३.५० ॥
संन्यासो दीर्घसूत्राणामालस्यमभिधीयते ।
लज्जाकरमतो लोके किमन्यत्प्राज्ञगर्हितम् ॥ १३.५१ ॥
यत्सर्वं त्यजति क्षिप्रं नरः क्षीब इवाम्बरम् ।
अपूर्वमिदमारब्धं भवता व्यसनाधिकम् ॥ १३.५२ ॥
न कदाचिच्छ्रुतोऽस्माभिः किल भिक्षाशनो नृपः ।
क्रमप्राप्तामिमां लक्ष्मीं भज राजन्नविक्रियः ॥ १३.५३ ॥
धनिनामेव धन्यानां यज्ञदानादिकाः क्रियाः ।
यथा हि शोच्यस्त्यक्तार्थो न तथा त्यक्तजीवितः ॥ १३.५४ ॥
व्यसुर्मुहूर्तं निधनो निर्धनस्तु सदा मृतः ।
इमां वसुमतीं राजन्मान्धातृनहुषोपमः ॥ १३.५५ ॥
अवाप्य विविधैर्यज्ञैर्यजस्व बहुदक्षिणैः ।
इति शक्रसुतेनोक्तो धर्मसूनुरभाषत ॥ १३.५६ ॥
श्रोतुमर्हसि मे पार्थ हित्वा ग्राम्यसुखस्पृहाम् ।
शीर्णपर्णलवाहारः समः शान्तप्रियाप्रियः ॥ १३.५७ ॥
स ब्रह्मचारी विपिने कुरङ्गाणां विहारिणाम् ।
धिया न चिन्तये किंचिन्मौनी विगलिताग्रहः ॥ १३.५८ ॥
निराहारो भविष्यामि संसारोच्छित्तये मुनिः ।
इति ब्रुवाणं राजानमभ्यधान्मारुतात्मजः ॥ १३.५९ ॥
बत देव जडस्येव बुद्धिस्ते दुर्ग्रहे दृढा ।
अघातयित्वा पृथिवीं किं नैषा धीस्त्वया कृताः ॥ १३.६० ॥
किं जलाहृतयन्त्रेण निर्दग्धे नगरेऽग्निना ।
राजन्न पश्चिमवयाः सर्वत्यागी न शोभसे ॥ १३.६१ ॥
मधुमासु इवाशोकः सहसा शुष्कपल्लवः ।
पाप्तां पाणपणेनाथ श्रमेण पृथिवीमिमाम् ॥ १३.६२ ॥
त्यजतस्तव सावज्ञं मोहादन्यत्किमुच्यते ।
विधूय विघ्नसंमर्दमास्थाय स चिरान्निधिम् ॥ १३.६३ ॥
पदा क्षिपसि किं राजन्गतं न प्राप्यते पुनः ।
तैस्तैः प्राणपरित्यगैः कान्तमाहृत्य गत्वराम् ॥ १३.६४ ॥
मधुमत्तो यथा शेते तथा त्वं कर्तुमुद्यतः ।
संन्यासविप्रलब्धात्मा न स्थितिं हातुमर्हसि ॥ १३.६५ ॥
मुक्ता वृक्षा न दृश्यन्ते मोक्षश्चेत्त्यक्तकर्मणाम् ।
किं वान्यत्पतिताः सर्वे तदैव व्यसने वयम् ॥ १३.६६ ॥
यदैव त्वं ग्रामकामस्त्वं धात्रा ज्येष्ठः कृतोऽसि नः ।
पुरा वने ग्रामकामस्त्वं ग्रामेऽद्य वनोत्सुकः ॥ १३.६७ ॥
तिष्ठत्यङ्के न च स्कनधे कष्टं बाल इवातुरः ।
सत्त्वशीलाः स्वकर्मस्था मुच्यन्ते गृहमेधिनः ॥ १३.६८ ॥
वने कुरङ्गमातङ्गा न तु दृष्टा दिवं गताः ।
इत्युक्ते बीमसेनेन पुनरूचे धनंजयः ॥ १३.६९ ॥
राजन्नस्ति गृहे मोक्षो धन्यानां विघसाशिनाम् ।
अजातश्मश्रवो बालाः पुरा ब्राह्मणपुत्रकाः ॥ १३.७० ॥
अकाले श्रितवैराग्या वनमेत्य प्रवव्रजुः ।
संजातकरुमस्तेषु पक्षिरूपी पुरंदरः ॥ १३.७१ ॥
प्रशशंस तदभ्यासे गृहस्थान्विघसाशिनः ।
हिरण्मयस्य शुकनेस्ते श्रुत्वा भाषितं द्विजाः ॥ १३.७२ ॥
आत्मानं मेनिरे मूर्खाः प्रहृष्टा विघसाशिनम् ।
शकुनिः सोऽथ तैः पृष्टो जगाद विहसन्निव ॥ १३.७३ ॥
रूक्षाः कृशा मलादिग्धा विपिने कष्टवृत्तयः ।
दुःखैकभागिनो नित्यं न यूयं विघसासिनः ॥ १३.७४ ॥
सायं प्रातर्विभज्यान्नं विधिवद्गृहमेधिनः ।
भृत्यार्थिशेषं येऽश्नन्ति ते धन्या विघसाशिनः ॥ १३.७५ ॥
तेषां पुण्यैरपर्यन्तैर्दिवि लोकाः सनातनाः ।
गृहादाश्रमिणः सर्वे जीवन्त्यभ्रादिव प्रजाः ॥ १३.७६ ॥
एवं ते बोधिता युक्त्वा स्वगरूपेण वज्रिणा ।
वनवासं परित्यज्य द्विजाः स्वगृहमाययुः ॥ १३.७७ ॥
गतिज्ञः सर्वधर्माणामाचार्याणां च तत्त्ववित् ।
त्वमप्येवं महीपाल न स्थितिं त्यक्तुमर्हसि ॥ १३.७८ ॥
अर्जुनेनेति कथिते माद्रीपुत्रावथोचतुः ।
भज राज्यमनायासमिदमुद्धृतकण्टकम् ॥ १३.७९ ॥
साम्राज्यविजयी यज्वा पाहि भूमिपते प्रजाः ।
यमाभ्यामित्यभिहिते प्रिया प्रणयिनी प्रियम् ॥ १३.८० ॥
द्रौपदी धर्मतनयं बभाषे वल्गुवादिनी ।
त्वदाज्ञाकारिणो वीरा भ्रातरस्त्रिदशत्विषः ॥ १३.८१ ॥
अनुत्साहेन ते पश्य लिखन्त्येते मृषा भुवम् ।
यदेतैर्दुष्करं कर्म समरे कृतमोजसा ॥ १३.८२ ॥
तदद्य राज्यभागेन सफलं कर्तुमर्हसि ।
अधोमुखानां श्वसतां निष्फलारम्भदुःखिनाम् ॥ १३.८३ ॥
प्रणयैर्मानयैतेषामभिननद्य पराक्रमम् ।
अक्लीबचरितो राजन्राज्यं निजभुजार्जितम् ॥ १३.८४ ॥
भजस्व विजयोत्थानां न क्लीबाः संपदां पदम् ।
इत्युक्ते कृष्णया जिष्णुः पुनर्नृपमभाषत ॥ १३.८५ ॥
लोकस्य पालनात्सम्यग्राजानः स्वर्गगामिनः ।
स्वधर्मेषु प्रवर्तन्ते राजदण्डभयात्प्रजाः ॥ १३.८६ ॥
मिथो मत्स्या इवाश्नन्ति जना दण्डविवर्जिताः ।
यत्र संनिहितो दण्डः श्यामो लोहितलोचनः ॥ १३.८७ ॥
तत्र वेदैश्च यज्ञैश्च वर्धन्ते धर्मसंपदः ।
तैस्तैस्तपोभिरुचितैर्यत्फलं शान्ततोजसाम् ॥ १३.८८ ॥
तदेव दण्डधारस्य धर्मभ्रातुर्महीभृतः ।
जनकं राज्यविमुखं यियासुं काननं पुरा ॥ १३.८९ ॥
उवाच पत्नी प्रणयान्मधुरं धर्मवादिनी ।
राजन्वने न मोक्षोऽस्ति बन्धो नास्ति गृहेषु च ॥ १३.९० ॥
स्वकर्मणि प्रवृत्तानामपवर्गो विवेकिनाम् ।
अमुण्डितस्पृहा मुण्डा बहिरन्तः कषायिणः ॥ १३.९१ ॥
दम्भधर्मध्वजा लोके कथ्यन्ते धर्मवादिभिः ।
तस्माद्राज्येऽपि भवता वर्तमानेन सर्वदा ॥ १३.९२ ॥
लभ्यः सत्यमसक्तेन सुखिना संसृतिक्षयः ।
इत्युक्तो मैथिलः पत्न्या जीवन्मुक्तदशां श्रितः ॥ १३.९३ ॥
ययावत्यक्तराज्योऽपि परमं धाम शाश्वतम् ।
फल्गुणेनेति कथिते देवस्थाने प्रशंसति ॥ १३.९४ ॥
मुनिः प्रवृत्तधर्मं च कृष्णद्वैपायनोऽब्रवीत् ।
प्रजानां पालनं सम्यक्स्वधर्मस्ते महीपते ॥ १३.९५ ॥
अरण्यगमनं राज्ञामकाले स्थितिविप्लवः ।
सिद्धिं प्रकृतिनो(तो) याताः सुद्युम्नप्रमुखा नृपाः ॥ १३.९६ ॥
तपःक्लेशैरसंस्पृष्ट यथावद्दण्डधारणात् ।
भ्रातरौ प्राड्मुनिवरौ श्रुतिस्मृतिविशारदौ ॥ १३.९७ ॥
अभूतां शङ्खलिखितावाचारनिशितव्रतौ ।
कदाचिदाश्रमे भ्रातुः स्वयमादाय पादपात् ॥ १३.९८ ॥
फलानि लिखितो मोहाद्भुक्तवान्प्रणयादिव ।
तमभ्येत्याब्रवीच्छङ्खो धर्मभ्रंशभयाकुलः ॥ १३.९९ ॥
स्तैन्यमेतन्न जानीषे कस्मात्परफलाशनम् ।
गच्छ पापं कृतं भ्रातः स्वयं राज्ञे निवेदय ॥ १३.१०० ॥
इत्युक्तो लिखितस्तेन सुद्यम्नं वसुधाधिपम् ।
श्रुत्वाचचक्षे दण्डार्थीं स स्वयं फलभक्षणम् ॥ १३.१०१ ॥
तमभ्यधात्क्षितिपतिर्भगवन्विपुलव्रताः ।
यूयं प्रमाणं धर्माणां शुचिर्गच्छ वरान्मम ॥ १३.१०२ ॥
इत्युच्यमानो राज्ञापि दण्डमेव पुनः पुनः ।
सोऽयाचत सदाचारभ्रंशभीरुर्नरेश्वरम् ॥ १३.१०३ ॥
ततस्तस्य करच्छेदमादिदेश महीपतिः ।
छिन्नहस्तः स च ययौ प्रहृष्टो भ्रातुरन्तिकम् ॥ १३.१०४ ॥
तद्गिरा च पुनर्दद्यां स्नात्वा जातकरद्वयः ।
स बभूव तपोयोगात्प्रशान्तानुशयज्वरः ॥ १३.१०५ ॥
सुद्युम्नोऽपि प्रजानाथः सम्यग्दण्डस्य धारणात् ।
तपःसमुचितांल्लोकानवाप यशसां निधिः ॥ १३.१०६ ॥
- सुद्युम्नोपाख्यानम् ॥ १ ॥ *****
तस्मात्पालय भूपाल क्षत्त्रधर्मे स्थितः प्रजाः ।
क्षयं कालकृतं वीक्ष्य मा च शोके मनः कृथाः ॥ १३.१०७ ॥
भूत्वा भूत्वा प्रलीयन्ते कालेन कलिताः किल ।
लोकाः कालकलाजलैश्चित्रश्चायं भवश्रमः ॥ १३.१०८ ॥
उक्तं सेनजिता राज्ञा पुरा राजन्विवेकिना ।
दुःखे दृढं मनः कुर्यान्नर्तिशोकगदौषधम् ॥ १३.१०९ ॥
शोचतां धृतिहीनानां न शान्तिर्जायते क्वचित् ।
दुःखैरायान्ति दुःखानि धनानीव धनैर्नृणाम् ॥ १३.११० ॥
दृष्ट्वा जगति जन्तूनां काले काले भवाभवम् ।
फलानामिव कालज्ञः कोऽनुशोचति तत्त्वधीः ॥ १३.१११ ॥
जनकेन पुरा पृष्टो जगाद ब्राह्मणोऽश्मकः ।
स्वभावनश्वरान्भावान्न शोचन्ति विवेकिनः ॥ १३.११२ ॥
न कश्चिद्दृश्यतेऽत्येतुं स्थावरेषु चरेषु च ।
शक्तो ह्यायुषि मर्यादां यः कालविहितां भवेत् ॥ १३.११३ ॥
धनमायुः शरीरं च जातिस्तरुणता तथा ।
भजन्ते कालवैचित्र्यान्नानारूपविपर्ययम् ॥ १३.११४ ॥
उच्चा नीचत्वमायान्ति विशीर्यन्ते च संहताः ।
भवन्ति किल कालेन निम्नान्युच्छ्रायवन्ति च ॥ १३.११५ ॥
हीनवंशाः कुलीनत्वं धनिनश्च दरिद्रताम् ।
यान्ति मूर्खाश्च वैदुष्यं दौर्भाग्यं सुभगास्तथा ॥ १३.११६ ॥
स्वल्पायुषश्च राजानो दरिद्राश्च शतायुषः ।
जराभग्नाश्च दृश्यन्ते रसायनविचक्षणाः ॥ १३.११७ ॥
धनिनो व्याधिसंतप्ता दरिद्राश्च निरामयाः ।
आयुर्वेदविदो यान्ति तरुणा एव पञ्चताम् ॥ १३.११८ ॥
मूर्खाः सदाचाररताः पण्डिता धर्मवर्जिताः ।
भवन्ति कालविहतैस्तैस्तैः किल विपर्ययैः ॥ १३.११९ ॥
अपि त्रैलोक्यकर्तारस्चतुर्मुखमुखाः सुराः ।
न हि कालकटाक्षेण लक्षितं रक्षितुं क्षमाः ॥ १३.१२० ॥
श्रीमतां हीनवित्तानां धीमतां जडचेतसाम् ।
तुल्यं निरनुरक्तो हि कालपण्यगृहे क्रयः ॥ १३.१२१ ॥
कालानिलविलोलानां देहिनां भवकानने ।
द्रुमाणामिव जायन्ते मिथो नित्यं गमागमाः ॥ १३.१२२ ॥
अकस्मात्संगतो नाम यद्यकस्माद्विनश्यन्ति ।
शोकः किं तत्र जन्तूनां सततं हि गतागतम् ॥ १३.१२३ ॥
न वियोगेषु संतापः कार्यः किल विवेकिभिः ।
अभावानुभवे भावा भवे हि क्षणभङ्गिनः ॥ १३.१२४ ॥
अश्मकेनेति कथितं कथयित्वा मुनीश्वरः ।
विरराम समालोक्य गाढशोक युधिष्ठिरम् ॥ १३.१२५ ॥
- अश्मकगीता ॥ २ ॥ *****
अथार्जुनेन प्रणयात्प्रेरितः पुष्करेक्षणः ।
भगवान्कैटभारातिर्धर्मसूनुभाषत ॥ १३.१२६ ॥
विषादं मा वृथा राजञ्शरीरोच्छोषणं कृथाः ।
तेषां हतानां वीराणां न शोकात्पुनरागमः ॥ १३.१२७ ॥
एकेऽद्य प्रातरपरे पश्चादन्ये पुनः परे ।
सर्वे निःसीम्नि संसारे यान्ति कः केन शोच्यते ॥ १३.१२८ ॥
नूनमक्षयमात्मानं मोहात्सर्वोऽभिमन्यते ।
यत्पुरःस्थितनाशोऽपि नष्टञ्शोचति नश्वरः ॥ १३.१२९ ॥
ते जनास्ते प्रभावाश्च ताश्च प्रज्वलिताः श्रियः ।
हेलया किल कालेन प्रापिताः स्मृतिशेषताम् ॥ १३.१३० ॥
सृञ्जयं नाम भूपालं भगवानेष नारदः ।
कृपयाश्वासयन्नूचे पुत्रशोकाकुलं पुरा ॥ १३.१३१ ॥
राजन्प्राप्तावधिं पुत्रं यातं किमनुशोचसि ।
सर्वं जगत्सहास्माभिः पर्यन्ते न भविष्यति ॥ १३.१३२ ॥
मतुत्तः पृथिवीपालः कालेन निधनं गतः ।
यस्यासन्भुवि गीर्वाणाः सेन्द्रा यज्ञसभासदाः ॥ १३.१३३ ॥
ववर्ष कनकं यस्मै वत्सरं पाकशासनः ।
अभूद्बृहस्पतिभ्राता संवर्तो यस्य याजकः ॥ १३.१३४ ॥
सुहोत्रश्च महीनाथः कथाशेषत्वमागतः ।
यो यथार्थां वसुमतीं चक्रे काञ्चनवृष्टिभिः ॥ १३.१३५ ॥
बृहद्रथश्च नृपतिर्यातोऽस्तं रथिनां वरः ।
यस्य यज्ञे सुरपतिः सोमं पीत्वा मुदं ययौ ॥ १३.१३६ ॥
शिबिरौशीनरः पृथ्वीमेकच्छत्रां शशास यः ।
स धुर्यः सर्वदात्तॄणां प्रयातः कीर्तिशेषताम् ॥ १३.१३७ ॥
सहस्रेणाश्वमेधानां राजसूयशतेन च ।
ईजे यः सोऽपि भरतः कालेन त्रिदिवं गतः ॥ १३.१३८ ॥
स च दाशराथी रामो दशकण्ठकुलान्तकः ।
यातः पर्यन्तपदवीं गीयमानगुणः सुरैः ॥ १३.१३९ ॥
भगीरथश्च भूपालस्तपसा यस्जाह्नवी ।
अवाप शंकरशिरः स कालस्येच्छया गतः ॥ १३.१४० ॥
सोऽपि स्मृतिदशां प्राप्तो दिलीपः पृथिवीपतिः ।
यूपे हिरण्मये यस्य ननृतुस्त्रिदिवौकसः ॥ १३.१४१ ॥
अयोनिजश्च मांधाता स सर्वविजयी नृपः ।
गतः शक्रादयो देवा यस्यासन्कान्तविक्रमे ॥ १३.१४२ ॥
ययातिरपि कालेन क्ष्मापालः प्रलयं गतः ।
देवासुररणे वीरो यो जघानामरद्विषः ॥ १३.१४३ ॥
यशः शरीरमविशत्सोऽम्बरीषश्च पार्थिवः ।
यस्य शासनमम्लानं नृपा माल्यमिवावहन् ॥ १३.१४४ ॥
शशबिन्दुर्नरपतिः सोऽप्यन्तपदमाश्रितः ।
अभूत्कोटिशतं यस्य पुत्राणां शक्रवर्चसाम् ॥ १३.१४५ ॥
गतो गयश्च नृपतिर्यः काञ्चनमयीं महीम् ।
प्रददौ यस्य संख्यां च यज्ञानां न प्रचक्षते ॥ १३.१४६ ॥
प्रयातो रन्तिदेवश्च यज्ञेषु पशुचर्मभिः ।
स्रुतैः प्रवर्तिता तेन पुण्या चर्मण्वती नदी ॥ १३.१४७ ॥
अतीतः स च भूपालः सगरो येन सागराः ।
षष्ट्या पुत्रसहस्राणां कृतास्तुरगरक्षिणाम् ॥ १३.१४८ ॥
वैन्यश्च यो धनुष्कोट्या पर्वतान्करोत्पृथक् ।
सोऽपि शक्राधिपो राजा प्रियं तत्याज विग्रहम् ॥ १३.१४९ ॥
एते चान्ये च भूपालाः कालेन कवलीकृताः ।
मा शचस्तव मद्वाक्यात्पुत्रः सृञ्जय जीवतु ॥ १३.१५० ॥
इत्युक्त्वा नारदो राज्ञः कनकष्ठीविनं सुतम् ।
तं सहस्रायुषं चक्रे जीवयित्वा कृपानिधिः ॥ १३.१५१ ॥
- षोडशराजकीयम् ॥ ३ ॥ *****
कथं स काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत् ।
पृष्टो धर्मसुतेनेति पुनरुचे चतुर्भुजः ॥ १३.१५२ ॥
सृञ्जयस्य क्षितिपतेस्तथा नारदपर्वतौ ।
देवर्षी तस्थतुर्गेहे मर्त्यलोकविहारिणौ ॥ १३.१५३ ॥
वक्तव्यं हृद्गतं सर्वं मिथस्ताविति संविदम् ।
चक्रतुस्तत्र सहितौ प्रीत्या प्रणयशालिनौ ॥ १३.१५४ ॥
सॄञ्जयस्तत्सपर्यायै कन्यां लावण्यभूषणाम् ।
यथार्थनाम्नीं तनयां सुकुमारीं समादिशत् ॥ १३.१५५ ॥
बालां परिचरन्तीं तां हरिणीहारिलोचनाम् ।
निर्वर्णयन्ननिमिषो नारदोऽबूत्स्मराकुलः ॥ १३.१५६ ॥
तं तस्य हृद्गतं भावं गूहमानस्य लज्जया ।
स्वस्रीयः पर्वतः क्षिप्रं बुबुधे ज्ञानचक्षुषा ॥ १३.१५७ ॥
मर्यादाभ्रंशकुपितः स शशापाथ मातुलम् ।
पतिर्वानररूपोऽस्याः सुकुमार्या भविष्यसि ॥ १३.१५८ ॥
इति तेन रुषा शप्तः कोपात्तमपि नारदः ।
शशापाश्वर्गगो भूयाद्भवानिति सुतं स्वसुः ॥ १३.१५९ ॥
वितीर्णां सृञ्जयेनाथ कन्यां कालेन नारदः ।
तां प्राप्योद्वाहसमये क्षणाच्चासीत्तथविधः ॥ १३.१६० ॥
सापि तद्विधमासाद्य भर्तारं नारदं सती ।
अनन्यमनसा मेने तं नेत्रामृतनिर्झरम् ॥ १३.१६१ ॥
शमयित्वा मिथः शापं प्रशान्ते मन्युविप्लवे ।
प्रीत्या बभूवतुः स्वस्थौ तौ परित्यज्य विक्रियाम् ॥ १३.१६२ ॥
त्यक्तवानररूपं च सुकुमारी पतिव्रता ।
शङ्किता नारदं भेजे चिरेण ज्ञाततत्कथा ॥ १३.१६३ ॥
अतः शेषां कथामेष स्वयं वदतु नारदः ।
इत्युक्त्वा विरते कृष्णे तमपृच्छद्युधिष्ठिरः ॥ १३.१६४ ॥
मुनिस्तेनाब्रवीत्पृष्टस्तथाहं पर्वतानुगः ।
उषित्वा सृञ्जयगृहे परितोषमुपागतः ॥ १३.१६५ ॥
अस्मद्वरात्ततो राज्ञः सृञ्जयस्य सुतो गतः ।
यथार्थं काञ्चनष्ठीवी न सेहे तं शतक्रतुः ॥ १३.१६६ ॥
तं शिशुं जाह्नवीतीरे केलिसक्तं यदृच्छया ।
अघातयत्सुरपतिर्वज्रेण व्याघ्ररूपिणा ॥ १३.१६७ ॥
सृञ्जयस्तं हतं दृष्ट्वा पुत्रं राजीवलोचनम् ।
शुशोच विषमायासमूर्छाविह्वलमानसः ॥ १३.१६८ ॥
प्रलापमुखरं क्ष्मापं तं विलोक्याहमाकुलम् ।
कृपयाजीवयं तस्य स्वर्णष्ठीविनमात्मजम् ॥ १३.१६९ ॥
मद्वरात्स सहस्रायुर्भुक्त्वा वसुमतीमिमाम् ।
कालेन यातस्त्रिदिवं स्थायिनो न हि देहिनः ॥ १३.१७० ॥
- स्वर्णष्ठीव्युपाख्यानम् ॥ ४ ॥ *****
नारदेनेति कथिते व्यासेनापि मुहुर्मुहुः ।
बोधितो धर्मतनयः शोकार्तः पुनरब्रवीत् ॥ १३.१७१ ॥
लोभान्धं पतितं धिङ्भामस्मिन्किल्बिषसंकटे ।
भोगाशया कृतो येन गुरुबन्धुसुतक्षयः ॥ १३.१७२ ॥
पुनः पुनरिमां हुत्वा वह्नौ पातकिनीं तनुम् ।
क्षयं यास्यति मन्ये नो न भीष्मवधपातकम् ॥ १३.१७३ ॥
इति शोकानलक्रान्तं विलपन्तं युधिष्ठिरम् ।
उवाच लोकस्थितये पराशरसुतो मुनिः ॥ १३.१७४ ॥
संग्रामजीविनां राज्ञां धर्मः शत्रुवधः सदा ।
कृत्वा कुलोचितं कर्म मा विषादं वृथा कृथाः ॥ १३.१७५ ॥
कीर्तनैरनुतापैश्च प्रायश्चित्तैर्महाबलैः ।
दानैस्तीर्थाभिषेकैश्च पापानामस्ति निष्कृतिः ॥ १३.१७६ ॥
निजधर्मपरित्यागात्त्वं तु राजन्सकल्मषः ।
यजस्व हयमेधेन मिथ्या यदि विशङ्कसे ॥ १३.१७७ ॥
प्रजाः पालय विस्रब्धं हतनाथाश्च योषितः ।
निहातारातिपुत्राणां पुत्रवत्पश्य कन्यकाः ॥ १३.१७८ ॥
इति ब्रुवाणो भगवान्राज्ञा पृष्टो मुनिः पुनः ।
उवाच सर्वपापानां प्रशान्तिं शान्तविप्लवः ॥ १३.१७९ ॥
सत्कर्मणामकरणान्निन्दितानां च सेवनात् ।
पश्चात्तापमनासाद्य प्रायश्चित्तं नरोर्ऽहति ॥ १३.१८० ॥
कपाली द्वादश समाश्चरन्भैक्ष्यमसंवृतः ।
ब्रह्महत्याभयात्तीव्राद्व्रतान्ते मुच्यते नरः ॥ १३.१८१ ॥
एतत्तुल्यानि पापानि यज्ञैर्विपुलदक्षिणैः ।
गोसहस्रप्रदानैश्च तरन्ति किल देहिनः ॥ १३.१८२ ॥
सुरापैश्चेर्यत पापं पीत्वाग्निसदृशीं सुराम् ।
वह्निवर्णशिखाशायी मुच्यते गुरुतल्पगः ॥ १३.१८३ ॥
भृगुवह्निनिपातेन महाप्रस्थानकेन च ।
महीदानेन दातॄणां क्षीयते गुरुपातकम् ॥ १३.१८४ ॥
प्रायश्चित्तं न तु स्त्रीणां रजसा संवृता हिताः ।
महौघेनेव वाहिन्यो भवन्ति विमलाशयाः ॥ १३.१८५ ॥
भक्ष्याभक्ष्यविचारेण कार्याकार्यविभेदतः ।
विहिताविहितोदीर्णः सूक्ष्मोऽयं धर्मसंकरः ॥ १३.१८६ ॥
अभिनन्द्य निजं राज्यं स्वीकृत्य प्रकृतीस्तथा ।
गच्छ शान्तनवं भीष्मं स ते धर्मान्प्रवक्ष्यति ॥ १३.१८७ ॥
इति द्वैपायनेनोक्तः कृष्णेन च विबोधितः ।
धृतराष्ट्रं पुरस्कृत्य नगरं सानुगोऽविशत् ॥ १३.१८८ ॥
पूज्यमानः प्रकृतिभिर्गीयमानश्च मागधैः ।
राजधानीं समासाद्य विवेश रुचिरां सभाम् ॥ १३.१८९ ॥
उपस्थितान्स्वयं तत्र ब्राह्मणान्विपुलाशिषः ।
अपूजयत्पुरस्कृत्य धौम्यं धुर्यं पुरोधसाम् ॥ १३.१९० ॥
- युधिष्ठिरनगरप्रवेशः ॥ ५ ॥ *****
अत्रान्तरे त्रिदण्डाङ्कस्त्रिशिखः कपटो मुनिः ।
सुहृद्दुर्योधनस्यायाच्चार्वाको नाम राश्रसः ॥ १३.१९१ ॥
सोऽब्रवीद्धर्मजं राजन्वच्मि त्वां ब्राह्मणाज्ञया ।
बन्धुमित्त्रद्रुहः किं ते राज्येन ध्वस्ततेजसः ॥ १३.१९२ ॥
इति ब्रुवाणे चार्वाके विषण्णे च युधिष्ठिरे ।
ब्राह्मणास्ते क्रुधाविष्टा जज्ञिरे ज्ञानचक्षुषः ॥ १३.१९३ ॥
सखा दुर्योधनस्यायं चार्वाको नाम राक्षसः ।
उक्त्वेति तं द्विजाश्चक्रुर्हुंकारेणैव भस्मसात् ॥ १३.१९४ ॥
तस्मिन्ब्राह्मणकोपेन निर्दग्धे रजनीचरे ।
उवाच विहसञ्शौरिरमृतं विकिरन्निव ॥ १३.१९५ ॥
अवध्यः सर्वभूतानां तपस्वी वेधसो वरात् ।
एधो ब्राह्मणकोपाग्नेर्बभूवैष निशाचरः ॥ १३.१९६ ॥
सोऽयं दिष्ट्या हतः पापस्तेजसा ब्रह्मवादिनाम् ।
इत्युक्तवति गोविन्दे सभायामुत्सवोऽभवत् ॥ १३.१९७ ॥
- चार्वाकनिग्रहः ॥ ६ ॥ *****
अथाभिषेको दिव्येन विधिना धर्मजन्मनः ।
अवर्तत हते वृत्रे देवस्येव शतक्रतोः ॥ १३.१९८ ॥
सुमेरुविपुले पीठे परिष्वक्तो जयश्रिया ।
प्रदीपसंध्यारुचिरो दिवाकर इवाबभौ ॥ १३.१९९ ॥
धृत्वा दैवतवत्पूर्वं धृतराष्ट्रं वधूसखम् ।
निधाय मारुतसुतं यौवराज्ये महाभुजम् ॥ १३.२०० ॥
विदुरं मन्त्रकार्येषु दिग्जयेषु धनंजयम् ।
संजयं व्ययचिन्तासु नकुलं सैन्यपालने ॥ १३.२०१ ॥
धौम्यं ब्राह्मणचिन्तासु सहदेवं च संनिधौ ।
उचितेषु च कार्येषु वृद्धामात्यानकल्पयत् ॥ १३.२०२ ॥
- युधिष्ठिराभिषेकः ॥ ७ ॥ *****
ततः स्तुत्वा हृषीकेशं दुर्योधननिवेशनम् ।
महार्हरत्नरुचिरं ददौ भीमाय धर्मजः ॥ १३.२०३ ॥
वृतं दासीसहस्रैश्च दुःशासनगृहं नृपः ।
अर्जुनाय ददौ रत्नकाञ्चनोदारमन्दिरम् ॥ १३.२०४ ॥
अन्येभ्योऽपि विलभ्यैवं कौरवावसथावलीम् ।
लब्धप्रशमनं चक्रे चक्रायुधमते स्थितः ॥ १३.२०५ ॥
ततो विधाय बन्धूनां राजा श्राद्धं यथाविधि ।
प्रपाकूपनिपानाङ्कास्तेभ्यो धर्मानकल्पयत् ॥ १३.२०६ ॥
अथ प्रभाते भूपालः पूजयित्वाम्बिकासुतम् ।
गान्धरीं स्वां च जननीं प्रणम्य रचिताञ्जलिः ॥ १३.२०७ ॥
विश्रान्तं पुण्डरीकाक्षं स्तितमर्जुनमन्दिरे ।
सानुगः प्रययौ द्रुष्टुं ब्रह्मणमिव वासवः ॥ १३.२०८ ॥
तमासाद्य नभःश्यामं व्याप्तं कौस्तुभकान्तिभिः ।
दिनेशकिरणोदारवासरारम्भविभ्रमम् ॥ १३.२०९ ॥
सुमेरुकूटविकटे निषण्णं कनकासने ।
तत्कान्तिवलयेनेव संवीतं पीतवाससा ॥ १३.२१० ॥
ध्यायन्तं किमपि प्रह्वो जगाद जगतीपतिः ।
तद्दर्शनानन्दसुधां दन्तकान्त्या किरन्निव ॥ १३.२११ ॥
सुखेन कच्चिद्भगवन्व्यतीता तव शर्वरी ।
त्वद्योगनिद्रासरसीविलास्रमरावली ॥ १३.२१२ ॥
इत्युक्तः कमलाकान्तः किमपि ध्यानमास्थितः ।
न जगाद यदा किंचित्तदा राजावदत्पुनः ॥ १३.२१३ ॥
अहो न सर्वभूतात्मन्ध्येयस्त्वं तत्त्वदर्शिनाम् ।
विमलं ध्यानमालम्ब्य विस्मयं विदधासि नः ॥ १३.२१४ ॥
कुशलं जगतां कच्चिदिति वादिनि भूपतौ ।
ईषदुन्मील्य नयने विश्वरूपी तमभ्यधात् ॥ १३.२१५ ॥
शरशय्यागतो भीष्मः प्रवृत्तः स्तोतुमद्य माम् ।
तमहं मनसा यातो मान्यं सर्वमनीषिणाम् ॥ १३.२१६ ॥
स मे बहुमतः श्रीमान्योगिनं चिन्तयामि तम् ।
ये मां स्मरन्ति सततं देहत्यागे स्मरामि तान् ॥ १३.२१७ ॥
उत्तराशाप्रणयितां यातः प्रायो दिवाकरः ।
देवव्रतस्य कालेऽयं मुमुक्षोर्देहमुक्तये ॥ १३.२१८ ॥
श्रुत्वैतद्धर्मतनयः प्रणयावर्तिताञ्जलिः ।
उवाच भगवन्भीष्मस्त्वत्संदर्शनमर्हति ॥ १३.२१९ ॥
तदेहि सर्वे गच्छामस्तं द्रुष्टुं तेजसां निधिम् ।
अशेषसंशयच्छेत्ता स मे ज्ञानं प्रवक्ष्यति ॥ १३.२२० ॥
इत्युक्तो धर्मराजेन सहितः फल्गुणेन च ।
भीमसात्यकिमुख्यैश्च प्रतस्थे स्यन्दने हरिः ॥ १३.२२१ ॥
अस्मिन्नवसरे भीष्मः सर्वैर्मुनिगणैर्वृतः ।
तुष्टाव प्रयतो ध्यात्वा विष्णुं जिष्णुं जगद्धिषाम् ॥ १३.२२२ ॥
संसारमरुसंतापनिर्वाणसुरशाखिने ।
मोहस्तम्भेरमघटाहरये हरये नमः ॥ १३.२२३ ॥
स्फुरत्संविन्मणिशिखां चित्तप्राङ्गनचन्द्रिकाम् ।
प्रपद्ये भगवद्भक्तिमानन्दोद्यानवाहिनीम् ॥ १३.२२४ ॥
फुल्लोल्लसत्समुत्साहशक्तिव्याप्तजगत्त्रयाम् ।
या पूर्वकोटिर्भावानां सत्तां तां वैष्णवीं नमः ॥ १३.२२५ ॥
पवनाघट्टिताम्भोजवनपर्यन्तलम्बिनाम् ।
जलानामिव जन्तूनां स्थैर्यमेको हरिः स्मृतः ॥ १३.२२६ ॥
नमः सूर्यात्मने तस्मै संवित्किरणशालिने ।
हृत्कुशेशयकोशश्रीसमुन्मेषविधायिने ॥ १३.२२७ ॥
नमस्तस्मै यमीक्षन्ते ज्ञानिनो गतमृत्यवः ।
परमं पुरुषं पारे तमसां महसां तथा ॥ १३.२२८ ॥
यज्ञाय यज्ञहविषे यज्ञसोममयात्मने ।
नमः सरस्वतीवाहहंसायाखिलरूपिणे ॥ १३.२२९ ॥
सत्याय धर्मनिधये क्षेत्रज्ञायामृतात्मने ।
सांख्ययोगप्रतिष्ठाय नमो मोक्षैकहेतवे ॥ १३.२३० ॥
घोराय मायानिधये सहस्रशिरसे नमः ।
योगनिद्रात्मने नाभिपद्मोद्भूतजगत्सृजे ॥ १३.२३१ ॥
नमः सलिलरूपाय कारणाय जगत्स्थितौ ।
दुष्टकालाय वलिने जीवाय पवनात्मने ॥ १३.२३२ ॥
कालाय धाम्ने वर्णानां सर्वलोकमयात्मने ।
लोकप्राणाय भूतानां नमो विश्वाय वेधसे ॥ १३.२३३ ॥
तृप्ताय सिंहवपुषे दैत्यसंहारकारिणे ।
वीर्यायानन्तमहसे जगद्भारभृते नमः ॥ १३.२३४ ॥
संसारकर्त्रे मोहाय ज्ञानाय तिमिरच्छिदे ।
अचित्यधाम्ने गुह्याय रुद्राय जटिने नमः ॥ १३.२३५ ॥
शान्ताय शान्तकल्लोलकैवल्यपदशायिने ।
सर्वभावातिरिक्ताय नमः सर्वमयात्मने ॥ १३.२३६ ॥
इन्दीवरवनश्यासमे स्फुरत्किञ्जिल्कविभ्रमे ।
बिभ्राणं वाससी विष्णुं नौमि नेत्ररसायनम् ॥ १३.२३७ ॥
इत्युक्त्वा निर्भरानन्दः प्रणम्य मनसा हरिम् ।
दध्यौ शान्तनवः सास्त्रैः स्तूयमानो महर्षिभिः ॥ १३.२३८ ॥
अथ पाण्डुसुतैः सार्धं रथैर्गम्भीरनादिभिः ।
आययौ सात्यकिसखः संजयाद्यैश्च केशवः ॥ १३.२३९ ॥
आयात्कृष्णः कुरुक्षेत्रं तान्पश्यन्भार्गवह्रदान् ।
युधिष्ठिरायाकथयद्धर्म्यं रामपराक्रमम् ॥ १३.२४० ॥
ततः सुरसरित्सूनुं ददर्श शरशायिनम् ।
सानुगः शौरिरभ्येत्य स्वांशुजालैरिवावृतम् ॥ १३.२४१ ॥
तरुणार्कोपमापात्रं वृद्धं वृद्धेन तेजसा ।
रुद्धं सिंहमिव स्फारशरकाञ्चनपञ्जरे ॥ १३.२४२ ॥
अवरुह्य रथात्कृष्णः सानुगश्च युधिष्ठिरः ।
प्रणम्योपाविशन्सर्वे प्रशंसन्तः पितामहम् ॥ १३.२४३ ॥
ततोऽब्रवीच्छान्तनवं शरश्रेणीवृथाकुलम् ।
सादरं पुण्डरीकाक्षो दृशा निर्वापयन्निवष ॥ १३.२४४ ॥
कञ्चित्ते विमलं ज्ञानं परमं ब्रह्मदर्शनम् ।
वज्राग्रदारुणशरस्यूतस्य न विलुप्यते ॥ १३.२४५ ॥
निधानं गुणरत्नानां शेखरं शौर्यशालिनाम् ।
धन्यता मानिनी मन्ये वहति त्वां वसुंधरा ॥ १३.२४६ ॥
गाढानुशयसंतप्तस्त्वयि वीर शरार्दिते ।
व्यथितो धर्मतनयो न क्वापि लभते धृतिम् ॥ १३.२४७ ॥
सर्वज्ञ धर्मानखिलान्कथयास्मै गिरा मम ।
प्रसन्नकरणज्ञानपटुर्भव गतव्यथः ॥ १३.२४८ ॥
क्षीरोदशायी भगवानित्युक्त्वा गरुडध्वजः ।
करामृतकरालुप्तव्यथं चक्रे सुरव्रतम् ॥ १३.२४९ ॥
अथापतत्पुष्पवृष्टिर्मूर्ध्नि गाङ्गेयकृष्णयोः ।
व्यासनारदमुख्याश्च प्रशशंसुः स्मयेन तौ ॥ १३.२५० ॥
श्वो वक्तास्म्यखिलान्धर्मानित्युक्तेऽथ जनार्दनः ।
जाह्ववीसुतमामन्त्र्य प्रतश्थे पाण्डवैः सह ॥ १३.२५१ ॥
उषित्वा रजनीं शौरिः पार्थाश्च निजवेश्मनि ।
रथैः शान्तनवं द्रुष्टुं प्रातः सर्वे समाययुः ॥ १३.२५२ ॥
ते विहाय रथांस्तूर्णं प्रणिपत्य पितामहम् ।
परिवार्योपविविशुः सेव्यमानं महर्षिभिः ॥ १३.२५३ ॥
ततः पृष्टो हरिर्भीष्मं शान्तव्यथमनामयम् ।
उवाच कथ्यतां दिद्वन्स्वधर्मान्धर्मसूनवे ॥ १३.२५४ ॥
भवत्प्रसादात्स्वर्थोऽहं वक्ष्यामि तव शासनात् ।
किं तु पृच्छतु मां राजा धर्मनिष्ठो युधिष्ठिरः ॥ १३.२५५ ॥
वृत्ते क्षत्रोचिते कार्ये न लज्जा कर्तुमर्हति ।
उक्ते पितामहेनेति कृष्णवाक्याद्युधिष्ठिरः ॥ १३.२५६ ॥
अभ्येत्य भीष्मचरणौ ववन्दे ह्रीनताननः ।
स तेन मूर्ध्न्युपाघ्राय पृच्छ मामिति चोदितः ॥ १३.२५७ ॥
प्रजानां पालने धर्मं पूर्वं पप्रच्छ धर्मजः ।
ततो जगाद गाङ्गेयः प्रणम्य मनसा हरिम् ॥ १३.२५८ ॥
शृणु पुत्र यथा राज्ये विराजन्ते नरेश्वराः ।
परमं संशयस्थानमाधिपत्यं प्रमादिनाम् ॥ १३.२५९ ॥
अतिकङ्कणकेयूरहारं राज्ञां विभूषणम् ।
नित्यं द्विजातिमान्यत्वं प्रजापालनरञ्जनम् ॥ १३.२६० ॥
परमं दैवतं विप्रा निग्रहानुग्रहाय च ।
राज्ञां श्रियो हि तद्वाक्याद्भवन्ति न भवन्ति च ॥ १३.२६१ ॥
जातं ब्राह्मणतः क्षत्त्रं सलिलाच्च हुताशनः ।
शस्त्रं तथाश्मतो यानि क्षत(य)मेते स्वजन्मसु ॥ १३.२६२ ॥
राजवृत्तिरियं पूर्वा यन्न तीव्रं न मार्दवम् ।
रूढिर्विषामृतस्फारैर्भीमः सेव्यश्च सागरः ॥ १३.२६३ ॥
हितैर्मान्यैश्च रक्ष्यन्ते भृत्यैर्नृपतिसंपदः ।
तानेव नाभिमन्यन्ते राजानो हि निरङ्कुशाः ॥ १३.२६४ ॥
सुनयो राजवृत्तीनां विनयो गुणसंपदाम् ।
लावण्यमिव नारीणां विभूषणमकृत्रिमम् ॥ १३.२६५ ॥
स नृपः कमलाकेलिधामकर्णाब्जषट्पदः ।
पिशुनैर्नाभिमन्यन्ते यस्मिन्संभृतवृत्तयः ॥ १३.२६६ ॥
सिद्धये संयतधियां सन्मन्त्रबलशालिनाम् ।
समस्तचित्तग्रहणं योगिनामिव भूभुजाम् ॥ १३.२६७ ॥
मृदुं बालमिवाधैर्यं विनोदरसिकं सदा ।
राजानं हास्यसंपन्नं मन्यन्ते सेवकास्तृणम् ॥ १३.२६८ ॥
नर्मसाचिव्यमाप्तास्ते भूपतेर्लघुचेतसः ।
तां तामुत्क्रम्य मर्यादां वर्तन्ते कामचारिणः ॥ १३.२६९ ॥
राजस्रीसंगमं यान्ति राजतुल्यविभूषणाः ।
सुषिरं कुर्वते राज्यं स्वां स्वनिं मूषिका इव ॥ १३.२७० ॥
हयं रथं गजं वासो राजयोग्यं तथासनम् ।
आरुह्य राज्ञा स्पर्धन्ते विस्मरन्ति च भृत्यताम् ॥ १३.२७१ ॥
बहु दत्तं न मन्यन्ते याचन्ते दुर्लभान्यपि ।
निन्दन्ति स्वाभिचरितं बहिर्मन्त्रं किरन्ति च ॥ १३.२७२ ॥
राजदेयं हरन्तश्च लज्जन्ते निजकर्मसु ।
प्रथयन्ति च मिथ्यैव लोके भूपालवश्यताम् ॥ १३.२७३ ॥
स्वामिना केलिसक्तेन शनकैर्मर्मदर्शिनः ।
किमन्यत्पेशलधिया खेलन्ते राजवल्लभाः ॥ १३.२७४ ॥
मन्त्रैर्भूतानि शाम्यन्ति दानैर्मृत्युर्निवर्तते ।
प्रजानां दलने सक्ता न तु ते राजसंमताः ॥ १३.२७५ ॥
सुसहायः स्थिरारम्भो गूढमन्त्रः सदोद्यतः ।
प्रजाहितोऽप्रमत्तश्च राजा राज्ये विराजते ॥ १३.२७६ ॥
को हि पश्येदिमं लोकं गाढेन तमसा वृतम् ।
राज्ञः शशाङ्कयशसः प्रतापो यदि न स्फुरेत् ॥ १३.२७७ ॥
अवश्यमेकचरणो धर्मोऽस्मिन्कलिकर्दमे ।
प्रस्खलेद्भूमिपालानां विना दण्डावलम्बनम् ॥ १३.२७८ ॥
अराजके पुरा लोके प्रवृत्ते धर्मविप्लवे ।
सुरार्थितेन विधिना नयोपाये प्रवर्तते ॥ १३.२७९ ॥
चतुर्वर्गफले शास्त्रे भागैरात्ते मुनीश्वरैः ।
असृजन्मानसं जिष्णुं तुमुलं विरजं सुतम् ॥ १३.२८० ॥
स नियुक्तो भगवता प्रजानां परिपालने ।
तच्छासनमनादृत्य संन्यासविरतोऽभवत् ॥ १३.२८१ ॥
कीर्यामानोऽपि तत्पुत्रस्तथैव तपसे गतः ।
तत्सुतः कर्दमाख्यश्च विरक्तः काननं ययौ ॥ १३.२८२ ॥
अनङ्गनाम्नस्तत्सूनोस्तनयोऽतिबलस्ततः ।
राजाभून्मृत्युतनयां मुनीनां प्राप यः प्रियाम् ॥ १३.२८३ ॥
वेनं नाम सुतं तस्यां संप्राप्य तपसे ययौ ।
ततः क्रूरोऽभवद्राजा वेनः कोपविषोल्बणः ॥ १३.२८४ ॥
मुनयो मन्त्रपूतैस्तं जघ्नुर्वज्रशितैः कुशैः ।
तस्योरुं दक्षिणं मन्त्रैस्ते निर्मथ्य महर्षयः ॥ १३.२८५ ॥
ह्रस्वं देहं तदुद्भूतं ददृशुर्विकृतं नरम् ।
स तैरुक्तो निषीदेति निषादजनकोऽभवत् ॥ १३.२८६ ॥
वेनस्य दक्षिणं पाणिं निर्मथ्य मुनयः पुनः ।
अपश्यन्वैन्यमुदितं सायुधं शक्रविक्रमम् ॥ १३.२८७ ॥
स दण्डनीतिमासाद्य शशास मुनिशासनात् ।
प्राप्तां रत्नप्रदां साक्षात्पृथ्वीं सगिरिसागराम् ॥ १३.२८८ ॥
तमाविवेश भगवांल्लोकपालसखो हरिः ।
नरदेवा इति ख्यातास्ततः प्रभृति भूमिपाः ॥ १३.२८९ ॥
राजमानगुणे तस्मिन्राजनि क्ष्मां प्रशासति ।
स्वधर्मनिरतास्तस्थुः सम्यग्दण्डभयात्प्रजाः ॥ १३.२९० ॥
तेनेयं विहिता राज्ञां स्थितये दण्डधारता ।
यथा लोकाः प्रकाशन्ते न सूर्येण न चेन्दुना ॥ १३.२९१ ॥
- राजोत्पत्तिः ॥ ८ ॥ *****
सम्यग्व्यवसिते त्रातुं राज्ञि धर्मपरे प्रजाः ।
स्थितयो न विलुप्यन्ते चातुर्वर्ण्यविभागजाः ॥ १३.२९२ ॥
यथाविधिप्रयातानामाश्रमादाश्रमान्तरम् ।
चातुराश्रम्यविहिता सिद्धिर्विघ्नैर्न हन्यते ॥ १३.२९३ ॥
मांधातुर्नृपतेः पूर्वं यज्ञदर्शनकाङ्क्षिणः ।
शक्ररूपधरो विष्णुर्भगवान्स्वयमाययौ ॥ १३.२९४ ॥
पृष्टो जिज्ञासया तेन स राजा प्रणिपत्य तम् ।
उवाच सर्वधर्माणां प्रतिष्ठिः राजशान्तये ॥ १३.२९५ ॥
राजनीत्या प्रवर्तन्ते खकर्मसु सदा प्रजाः ।
श्रुतिस्मृतिसदाचारे कारणं राजवृत्तयः ॥ १३.२९६ ॥
त्राता धर्मगतस्यास्य यस्मात्किल नरेश्वरः ।
गौरवादात्मतुल्यं तं स्वधर्मस्थममन्यत ॥ १३.२९७ ॥
पिता प्रजानां नृपतिर्जगत्सीदत्यराजकम् ।
वस्तव्यं म्लेच्छमध्येऽपि साधुभिर्न त्वराजके ॥ १३.२९८ ॥
दुर्बलं घ्नन्ति बलिनः सेवन्ते च परस्त्रियः ।
मांसं मिथश्च खादन्ते राष्ट्रे राजविवर्जिते ॥ १३.२९९ ॥
अराजकाः प्रजाः पूर्वं निमग्नाः स्थितिविप्लवे ।
चक्रिरे राजभागार्थं मनुं निमग्नाः स्थितिविप्लवे ।
चक्रिरे राजभागार्थं मनुं वैवस्वतं नृपम् ॥ १३.३०० ॥
राज्ञा सुमनसा पूर्वं कौसल्येन बृहस्पतिः ।
पृष्टो बभाषे लोकानां दण्डधारं परायणम् ॥ १३.३०१ ॥
नाराजकेषु राष्ट्रेषु हव्यं वहति पावकः ।
न च धर्माः प्रवर्तन्ते न च वर्षति वासवः ॥ १३.३०२ ॥
कुतो धनं कुतो दाराः शरीरं च कुतो नृणाम् ।
सर्वदेवमयस्त्राता यावन्न वसुधाधिपः ॥ १३.३०३ ॥
सर्वावलोकने सूर्यः पापानां निग्रहे यमः ।
कुबेरो भरणे राजा प्रायश्चित्तेषु पावकः ॥ १३.३०४ ॥
आच्छेत्ता राजवित्तानां हन्ता मर्षयितापि वा ।
सर्वे प्रयान्ति नरकं यथा ब्रह्मस्वहरिमः ॥ १३.३०५ ॥
यज्वनां धर्मशीलानां वैराग्यन्यस्तकर्मणाम् ।
तुल्यमाप्नोति भूपालः फलं लोकानुपालनात् ॥ १३.३०६ ॥
इति देवगुरोर्वाक्यं निशम्य स महीपतिः ।
चिरं प्रजाः स्वधर्मस्थाः पालयित्वा दिवं ययौ ॥ १३.३०७ ॥
कोशेदुर्गबलादीनां क्षयं शत्रुषु(ष्व)निर्दिशन् ।
अप्रमत्तः सद राजा कुर्यात्संश्रयमात्मनः ॥ १३.३०८ ॥
सर्वतो गुप्तमन्त्राणां गूढप्रणिधिचक्षुषाम् ।
स्वस्थप्रकृतिसाराणां राज्ञां लक्ष्मीरनश्वरा ॥ १३.३०९ ॥
सेवेत धर्मानद्वेषस्त्यजेत्प्रीतिमदारुणः ।
अकर्कशो लभेतार्थान्कामी स्यादमदोद्धतः ॥ १३.३१० ॥
प्रियं वदेददैन्यश्च विक्रान्तश्चाविकत्थनः ।
दयादानमकामश्च पटुः स्यादकटुर्गिराम् ॥ १३.३११ ॥
मैत्त्रः स्यादखलासङ्गी युध्येत न तु बन्धुभिः ।
विद्ध्येत शत्रुन्नानास्त्रैः कुर्यात्सर्वमहिंसकः ॥ १३.३१२ ॥
ज्ञानं दिशेन्न चासत्सु गुणाञ्श्लाघेत नात्मनः ।
हरेदर्थान्न साधुम्भः संश्रयेत न दुर्जनम् ॥ १३.३१३ ॥
दण्डयेन्नाविचारेण मन्त्रसेन्न न संसदि ।
पूरयेन्न कदर्यांस्तु विश्वसेन्न च वैरिषु ॥ १३.३१४ ॥
रक्षेद्दारान्नहीर्ष्यालुः कलावान्स्यादवञ्चकः ।
भजेन कान्ता नात्यन्तमद्यात्साधु न चाहितम् ॥ १३.३१५ ॥
सेवेतार्च्यान्न तु स्तब्धो भवेच्छिष्यो न मायया ।
यजेत देवान्नो दम्भादिच्छेद्भूतिमनिन्दिताम् ॥ १३.३१६ ॥
प्रीतिं भजेन्नातिनयो दक्षश्चारभसो भवेत् ।
आशां सृजेन्न विफलां विभजेत न विष्ठुरम् ॥ १३.३१७ ॥
प्रहर्ता स्तान्न सर्वत्र हन्याच्छत्रून्नशेषकृत् ।
प्रकुप्येन्न त्वदोषेभ्यः पेशलः स्यान्न शत्रुषु ॥ १३.३१८ ॥
एतैर्युक्ताः किल गुणैः पार्थिवाः पृथुवंशजाः ।
यशःशुभ्रा प्रयान्त्येव सततं हारतां श्रियः ॥ १३.३१९ ॥
- गुणषट्रिंत्रशकाः ॥ ९ ॥ *****
ब्राह्मणाः सर्वदा राज्ञा मूर्ध्नि कार्या बुभूषता ।
ब्राह्मेण तेजसा युक्तं बलं क्षात्रं हि दुःसहम् ॥ १३.३२० ॥
ऐडेन भूभुजा पृष्टः पुरा प्रोवाच मारुतः ।
ब्राह्मणानामियं पृथ्वी धनं वा जातु रक्षितम् ॥ १३.३२१ ॥
अनिवेद्य महीं तस्माद्विप्रेभ्यः पृथिवीपतिः ।
स्वयमप्यर्जितं वीरो न कामाद्भोक्तुमर्हति ॥ १३.३२२ ॥
पुरोधसा ब्राह्मणेन संयुक्तः श्रेयसां नृपः ।
जेता भवति शत्रूणां सर्वलोकाभयंकरः ॥ १३.३२३ ॥
मुचुकुन्दः पुरा राजा विजित्य सकला दिशः ।
ययौ वयस्यं रुद्रस्य कुबेरं जेतुमोजसा ॥ १३.३२४ ॥
ततः प्रवृत्ते समरे गुह्यका बलवत्तराः ।
पृथुना मुचुकुन्दस्य तेजसा च क्षयं ययुः ।
क्षणादलक्ष्यमन्त्रस्य वीरास्ते यक्षराक्षसाः ॥ १३.३२५ ॥
ततः प्राप्ताः कुबेरेण दत्तां वसुमतीं नृपः ।
त्यक्त्वा पराक्रमेणैव स जग्राह बलोत्कटः ॥ १३.३२६ ॥
इति राजबलं ब्रह्मबालानुप्राणितं सदा ।
अभग्नप्रणयां धत्ते त्रैलोक्यविजयश्रियम् ॥ १३.३२७ ॥
- मुचुकुन्दोपाख्यानम् ॥ १० ॥ *****
ब्राह्मणान्पुरतः कृत्वा प्रजा धर्मेण पालयेत् ।
चतुर्भागहरो राजा प्रजानां पुण्यपापयोः ॥ १३.३२८ ॥
तस्य संवृतमन्त्रस्य प्रजाकार्याणि पश्यतः ।
वदान्यस्यानृशंसस्य क्वचिद्धर्मो न लुप्यते ॥ १३.३२९ ॥
विप्राः पूज्याः सदा राज्ञा यथोक्ताचारवर्तिनः ।
शूद्रवत्क्रूरकर्मार्हा दण्ड्यास्त्वाचारवर्जिताः ॥ १३.३३० ॥
पुरा केकयभूपालो गृहीतो रक्षसा वने ।
आश्वासयन्निजं चेतो जगाद धृतिसागरः ।
न भेतव्यं त्वया चित्त राष्ट्रे मे नास्ति विप्लवः ॥ १३.३३१ ॥
नायज्वा न विकर्मस्थो न पापी न कुलच्युतः ।
विद्यते नगरे कश्चित्क्षत्त्रधर्मे स्थितस्य मे ॥ १३.३३२ ॥
इति ब्रुवाणं नृपतिं स तत्याज निशाचरः ।
सत्यशीलाः स्वधर्मस्था लभन्ते न पराभवम् ॥ १३.३३३ ॥
विश्वसेन् च सर्वत्र न च शङ्केत पार्थिवः ।
विश्वासी चातिशङ्की च सर्वथा विपदां पदम् ॥ १३.३३४ ॥
आप्तेष्वपि न विश्वासः कर्तव्यः किल भूभुजा ।
न शरीराणि चेतांसि स्थिराणि न हि देहिनाम् ॥ १३.३३५ ॥
तस्मात्कोशश्च मन्त्रश्च रक्षणीयः प्रयत्नतः ।
काले काले स्वयं राज्ञा द्रष्टव्यश्चाप्रमादिना ॥ १३.३३६ ॥
पुरा बभाषे भगवान्नारदं गरुडध्वजः ।
वृष्णीनामाह्निकं राज्ञां चिन्ताभरमहं सहे ॥ १३.३३७ ॥
गुणविक्रमसंपन्नाः साभिमाना मता न मे ।
न शृण्वन्ति न मन्यन्ते गिरा मां व्यथयन्निव ॥ १३.३३८ ॥
एतच्छ्रुत्वा सुरमुनिः केशवं प्रत्यभाषत ।
सत्वसारा वहन्त्येव गणकार्यं महाशयाः ॥ १३.३३९ ॥
दानेन क्षमया शक्त्या मार्दवेनार्जवेन च ।
वशे तिष्ठन्ति धीराणां गुणबद्धा महागुणाः ॥ १३.३४० ॥
आर्जवं न तु कोशेषु प्रशंसन्त्यर्थदर्शिनः ।
श्रुत्वैतन्नारदेनोक्तं तथेति हरिरभ्यधात् ॥ १३.३४१ ॥
- हरिनारदसंवादः ॥ ११ ॥ *****
सर्वात्मना विशुद्धेषु सचिवेषु नरेश्वरः ।
चारैः सदा तदाचारं जानन्कार्याणि निक्षिपेत् ॥ १३.३४२ ॥
कोशाध्यक्षः स्वयं राजा परिरक्ष्यः शुचिः सदा ।
अमात्या न सहन्ते तं गोप्तारं कोशहारिणः ॥ १३.३४३ ॥
कोसलाधिपतेः पूर्वं नगरे क्षेमदर्शिनः ।
मुनिः कालकवृक्षे(क्षी)यो यदृच्छाभ्यागतोऽवसत् ॥ १३.३४४ ॥
पञ्जरे काकमादाय सा राजा सर्वपक्षिणाम् ।
संचरन्बुबुधे सर्वं स्ववृत्तं राजजीविनाम् ॥ १३.३४५ ॥
मन्त्रश्रावमकार्यं च कोशलोपं च मन्त्रिणाम् ।
स निवेद्य सदा राज्ञे प्रत्यक्षं समदर्शयत् ॥ १३.३४६ ॥
ते सर्वे कण्टकं मत्वा संहत्य नृपजीविनः ।
सुप्तं तं वायसं रात्रौ जघ्नुर्बाणेन निर्जने ॥ १३.३४७ ॥
काकं निहतमालोक्य नृपमेत्याब्रवीन्मुनिः ।
स्वस्ति गच्छामि भूपाल भयात्त्वदनुवीविनाम् ॥ १३.३४८ ॥
स तैर्मे निहतः काकः प्राह यो मां भव द्वितम् ।
काको निपतितो दैवान्मदर्थं प्रेरितः शरः ।
विभेद्य पातयामात्यानित्युक्त्वा विरराम सः ॥ १३.३४९ ॥
राजापि तद्गिरा काले शोषयित्वा क्रमेण तान् ।
दानेन भेदयित्वा च चक्रे निष्कण्टकां श्रियम् ॥ १३.३५० ॥
- काकपञ्जरिका ॥ १२ ॥ *****
तस्मात्क्रमागतं कुर्याद्द्रष्टारं नृपतिर्हितम् ।
भवन्ति यद्भयात्सर्वे कायस्था भिन्नसंहताः ॥ १३.३५१ ॥
दासाधिपशतस्यैको भवेदुपरिचिन्तकः ।
तत्सहस्रस्य चाध्यक्षः सर्वं राज्ञो निवेदयेत् ॥ १३.३५२ ॥
घोषं ग्रामं पुरं राष्ट्रं भक्षयन्त्यधिकारिणः ।
क्रियन्ते यदि न प्राज्ञौरुपर्युपरि चिन्तकाः ।
मलोपदानेनार्हाश्च तीव्रपाकानिवारिणः ॥ १३.३५३ ॥
शीत्कारकमलोत्कारविपर्यस्तलिपिक्रमैः ।
क एषां भृतभस्त्राणां चौर्यस्योद्भासने क्षमः ॥ १३.३५४ ॥
तेषां लुण्ठकवृत्तीनां जृम्भारम्भमृजा जुषाम् ।
नगराण्येव चुलकं गलगर्तगलद्गिराम् ॥ १३.३५५ ॥
तैर्घट्यमानां पृथिवीं रक्षेद्वेतालचेष्टितैः ।
येषां नरकपाकोग्रपर्यन्ते विषमा स्थितिः ॥ १३.३५६ ॥
यौवनाश्वं नरपतिं प्रागुतथ्योऽवदन्मुनिः ।
पृथिवीपालने राजन्कुरु कण्ठकशोधनम् ॥ १३.३५७ ॥
अनाथान्दुर्बलान्रक्षेत्कृपणांश्चानुलेपयेत् ।
राज्ञां हि कृपणाक्रन्दैर्मूलान्नश्यन्ति संपदः ॥ १३.३५८ ॥
अर्थोऽप्यनर्थतां याति भूभुजां जनपीडनात् ।
जनापवादपरशुं सहते श्रीलता कथम् ॥ १३.३५९ ॥
वदान्यः सभ्यवान्वीरः कृतज्ञः सत्यवाक्पटुः ।
अभिजातो भवत्येव प्रजानां सुकृतैर्नृपः ॥ १३.३६० ॥
उतथ्येनेति कथिते मांधाता पृथिवीपतिः ।
तथा शशास यशसा यथा जीवन्निव स्थितः ॥ १३.३६१ ॥
- उतथ्यगीताः ॥ १३ ॥ *****
उवाच कोसलाधीशं वामदेवः पुरा मुनिः ।
धर्मलोपेन भूपानां क्षीयन्ते सहसा श्रियः ॥ १३.३६२ ॥
सुहृद्भिः प्रणयक्रीतैर्मानक्रीतैर्मनीषिभिः ।
धनक्रीतैस्तथा भृत्यैर्धार्यते श्रीर्महीभुजा ॥ १३.३६३ ॥
शृणोति करुणाक्रन्दं श्रुत्वा च त्रायते भयत् ।
नाविचार्य सृजेद्दण्डं यः स सर्वप्रियो नृपः ॥ १३.३६४ ॥
नातः परतरं किंचिद्राज्ञः किल्बिषकारणम् ।
प्रजा विरक्ततां यान्ति यत्कुभर्तुरिवाबलाः ॥ १३.३६५ ॥
इत्युक्तं वामदेवेन श्रुत्वा स वसुधाधिपः ।
वर्तमानः स्वधर्मेण प्रजानामभवत्प्रियः ॥ १३.३६६ ॥
- वामदेवगीताः ॥ १४ ॥ *****
विषमस्थैरसंनद्धैः क्षीणसैन्यैर्भयार्दितैः ।
न युध्यते क्षत्रियो यः स धर्मविजयी नृपः ॥ १३.३६७ ॥
तथा मन्ये न शोच्यः श्वा मृतो विण्मूत्रकर्दमे ।
निहतः स्वजनस्याग्रे क्षत्रियः शयने यथा ॥ १३.३६८ ॥
परैर्विदारिते सैन्ये हते भृत्यजने पुरः ।
ये स्वयं क्षेमिणो यान्ति धिक्तान्क्षत्रियपांसनान् ॥ १३.३६९ ॥
यस्य पृष्ठं न पश्यन्ति युध्यमानस्य शत्रवः ।
स हतः स्वर्गमासाद्य शक्रेण स्पर्धते नृपः ॥ १३.३७० ॥
- विजिगीषमाणवृत्तम् ॥ १५ ॥ *****
अम्बरीषः पुरा राजा यज्वा प्राप्य सुरालयम् ।
सुदेवाख्यं चमूनाथं ददर्शाभ्यधिकं श्रिया ॥ १३.३७१ ॥
उपर्युपरि गच्छन्तं सर्वेषां पुण्यशालिनाम् ।
तं दृष्ट्वा विस्मितः शक्रं पप्राच्छ स महीपतिः ॥ १३.३७२ ॥
यथाधर्मं यथाशास्त्रं पालयित्वा वसुंधराम् ।
इष्ट्वा दत्वा च तप्त्वा च प्राप्तोऽहं त्वत्पुरीमिमाम् ॥ १३.३७३ ॥
मम सेनापतिरयं सुदेवः केन कर्मणा ।
प्रभाभिरभिभूयास्मानुच्चैः सूर्य इव स्थितः ॥ १३.३७४ ॥
इति राज्ञा सुरपतिः पृष्टस्तं प्रत्यभाषत ।
शृणु येनाधिको राजंस्त्वत्तोऽयं पृतनापतिः ॥ १३.३७५ ॥
शस्त्रानले रणमखे रुधिराज्ये धनुःस्रवे ।
कबन्धयूपे कृतिना हुतानेन निजा तनुः ॥ १३.३७६ ॥
सोऽयं विराजते वीरस्तेजसा कृतमण्डलः ।
निष्कम्पः समरे कृत्तस्रस्तानामभयप्रदः ॥ १३.३७७ ॥
श्रुत्वैतद्विस्मितो राजा प्रशंसन्वीरविक्रमान् ।
विस्मितश्च प्रहृष्टश्च मनसा तमपूजयत् ॥ १३.३७८ ॥
- शक्राम्बरीषसंवादः ॥ १६ ॥*****
पृष्टः पुरा सुरेन्द्रेण राजनीतिं बृहस्पतिः ।
उवाच श्रीर्यथा राज्ञां न करोति तडिद्भ्रमम् ॥ १३.३७९ ॥
वचसा मधुरेणैव कुर्यान्मूलक्षयं रिपोः ।
घोरेण कलहेनाप्तो जघन्यो हि जयः स्मृतः ॥ १३.३८० ॥
संदेहायोद्धृतं शस्त्रं वाग्युद्धं कण्ठशोषणम् ।
शत्रुं हन्यात्प्रियालापैः कुरङ्गमिव लुब्धकः ॥ १३.३८१ ॥
प्रणमेद्देशकालज्ञो बलिनं रिपुमुद्यतम् ।
तमेवापचिते काले हन्यादेष नयक्रमः ॥ १३.३८२ ॥
साम्ना सेवेत बलिनं लुब्धं दानेन साधयेत् ।
भेदेन कुपितामात्यं हीनं दण्डेन पातयेत् ॥ १३.३८३ ॥
प्रमादिनं सहानीकं कोशदुर्गबलोचितम् ।
सर्वोपायविहीनं च तूष्णीं दण्डेन योजयेत् ॥ १३.३८४ ॥
सदा विबुध्येत निजान्विरक्ताननुजीविनः ।
आत्मनस्तांश्च गूहेत च्छिद्रं यच्चिन्तयेदरेः ॥ १३.३८५ ॥
न भाषते वेपते च लक्षितः क्ष्मां निरीक्षते ।
न चतुष्पतिदानेन विरक्तहृदयो जनः ॥ १३.३८६ ॥
गुरुणा कथितं श्रीमान्निशम्यैतत्पुरंदरः ।
आत्मगुप्तः परान्वेषी बभूवावहितः सदा ॥ १३.३८७ ॥
- इन्द्रबृहस्पतिसंवादः ॥ १७ ॥ *****
दैवादवाप्तो विपदं न शोचेद्वसुधाधिपः ।
अनिर्वेदेन लभ्यन्ते हारिता अपि संपदः ॥ १३.३८८ ॥
मुनिः कालकवृक्षीयः क्ष्माभुजा क्षेमदर्शिना ।
विभ्रष्टेन पुरा पृष्टो जगाद नयकोविदः ॥ १३.३८९ ॥
विद्युद्विलासतरलाः सुराणामपि संपदः ।
राजन्न नित्यमायुश्च यत्कृते श्रियमीहसे ॥ १३.३९० ॥
तथापि यदि ते वाञ्छा स्वे राज्ये शत्रुणा हते ।
गत्वा तमेव सेवस्व मौनं कृत्वा कृताञ्जलिः ॥ १३.३९१ ॥
तावच्च सेवको भूत्वा सर्वथा व्यसनालसम् ।
यावत्कोशे च मित्रे च शनकैरुपचीयसे ॥ १३.३९२ ॥
प्रविश्य च मनः प्रीत्या प्रियवादी यथा तथा ।
प्रोत्साहानामकार्येषु कुर्वीथा दुस्तेरष्वरेः ॥ १३.३९३ ॥
ततस्तं संशयापन्नं द्रुतकोशं प्रमादिनम् ।
तैस्तैरुपायैर्द्रव्यैर्वा कुर्वीथाः क्षणसाधनम् ॥ १३.३९४ ॥
इत्युक्ते मुनिना राजा कुत्सिताचारकूणितः ।
मानी नैतत्करोमीति जगादाभिजनोज्ज्वलः ॥ १३.३९५ ॥
तस्य सत्यवतो भावमुपलभ्य मुनिस्ततः ।
दूतो भूत्वा स्वयं संधौ तस्य शत्रुमयोऽजयत् ॥ १३.३९६ ॥
संधाय मुनिवाक्येन वैदेहः क्षेमदर्शिना ।
विततार सुतां तस्मै विभवं च यथोचितम् ॥ १३.३९७ ॥
- कालकवृक्षीयम् ॥ १८ ॥ *****
पालयेत्स्वगणं राजा परेषां भेदयेद्गणम् ।
सम्यग्वृत्तेन सत्येन वर्तन्ते हि गणाः सदा ॥ १३.३९८ ॥
गणैर्विजयते राजा चिन्तितैः स्वभृतैस्तथा ।
उपेक्षितैः संहतैश्च तैरेवाशु विपद्यते ॥ १३.३९९ ॥
प्रशाम्यति बहिः कोपो राज्ञां सामादिभिः क्षणात् ।
गूढस्तु वेश्मनीवाग्निर्नान्तः कोपो गणोद्भवः ॥ १३.४०० ॥
- गणवृत्तम् ॥ १९ ॥ *****
दैवतं पितरो यस्य धर्मो यस्य प्रजाहितम् ।
सम्यग्दण्डो व्रतं यस्य स राजा यज्वनां वरः ॥ १३.४०१ ॥
न सत्यं केवलं सत्यमनृतं न तथानृतम् ।
हितं यत्सर्वलोकस्य तत्सत्यं शेषमन्यथा ॥ १३.४०२ ॥
अनृतेनानृताचारश्चिकित्स्यः किल भूभुजा ।
सत्येन सत्यशीलश्च सेव्यो विभवमिच्छता ॥ १३.४०३ ॥
- सत्यानृतकम् ॥ २० ॥ *****
याजिनः शुद्धसंकल्पास्त्यागिनः पात्रवर्षिणः ।
त्रातारः सर्वधर्माणं कर्तारः पुण्यकर्मणाम् ॥ १३.४०४ ॥
श्रोतारः साधुवचसां भेत्तारो धनहारिणाम् ।
तरन्ति घोरदुर्गाणि परत्रेह च भूमिपाः ॥ १३.४०५ ॥
सदाचारास्तपोयुक्ताः प्रशान्ताः सत्यवादिनः ।
संतरन्ति च दुर्गाणि नारायणपरायणाः ॥ १३.४०६ ॥
- दुर्गातितरणम् ॥ २१ ॥ *****
असौम्याः सौम्यचरिता मृदवः क्रूरकारिणः ।
भवन्ति पुरुषा लोके तांश्च बुध्येत भूमिपः ॥ १३.४०७ ॥
पुरा बभूव भूपालः प्रेरकः पूरिकापतिः ।
दारुमः पुरुषः क्षुद्रः पिशिताशनचेष्टितः ॥ १३.४०८ ॥
कालेन पञ्चतां यातः स च प्राप्तः शृगालताम् ।
जन्मान्तरकृतैः पुण्यैर्जातं सस्मार दुःखितः ॥ १३.४०९ ॥
आपन्नः कुत्सितं सर्गं निर्वेदाच्छातमानसः ।
परैरप्याहृतं मांसं नाददे फलभोजनःछ ॥ १३.४१० ॥
श्मशाननिलयं कोपात्तं विलोक्य शुचिव्रतम् ।
ऊत्चुर्गोमायवः सर्वे निन्दन्तस्तद्विचेष्टितम् ॥ १३.४११ ॥
वसतापि श्मशानेऽस्मिन्हारितं जडबुद्धिना ।
त्वया मूढव्रतेनेदं स्वादु मांसरसायनम् ॥ १३.४१२ ॥
विपरीतमिदं सर्वं दुनोति हृदयं सताम् ।
अस्मिन्पितृवने घोरे शृगालो यदमांसभुक् ॥ १३.४१३ ॥
भुङ्क्ष्वेति तैरभिहितः सोऽवदद्विमलाशयः ।
न शीलकारणं जातिर्नाश्रमः पुण्यकारणम् ॥ १३.४१४ ॥
किमाश्रमे प्राणिवधः पातकं न प्रचक्षते ।
मनः शुद्धिकृतं सर्वं प्रमाणं कर्म देहिनाम् ॥ १३.४१५ ॥
इति ब्रुवाणं तं सर्वे विज्ञाय दृढनिश्चयम् ।
नोचुः किंचिदमर्शेन किंत्वतप्यन्त केवलम् ॥ १३.४१६ ॥
ततः कदाचित्तद्वृत्तं श्रुत्वा व्याघ्रोऽभिपत्य तम् ।
उवाच मम साचिव्यं शुद्धात्मा भजतां भवान् ॥ १३.४१७ ॥
गोमायुरथ तच्छ्रुत्वा बभाषे विनयानतः ।
स्वाच्छन्द्यममृतं त्यक्त्वा कः सेवां विकटां श्रयेत् ॥ १३.४१८ ॥
संतोषद्रविणं त्यक्त्वा निरायासमनश्वरम् ।
अभ्यर्थयेत कः सेवां दैव्यातङ्ककलङ्किताम् ॥ १३.४१९ ॥
अथवा यदि निर्बन्धात्तत्करोमि भवद्वचः ।
मयैवेकेन भृत्येन भवितव्यं सदा त्वया ॥ १३.४२० ॥
त्वदेकसंश्रयं भक्त्या न च संघातवासिनम् ।
विनाशयन्ति पिशुना न यथा मां तथा कृथाः ॥ १३.४२१ ॥
एवमुक्त्वा शममयं निष्कामः पूज्यगौरावत् ।
तथेति वादिनस्तस्य व्याघ्रस्यामात्यतां ययौ ॥ १३.४२२ ॥
तमाश्वास्य भुवं नीतमेकं सर्वाधिपं कृतम् ।
व्याघ्रेण वीक्ष्य दुःखाब्धौ पेतुस्तदनुजीविनः ॥ १३.४२३ ॥
व्याघ्राय कल्पितं मांसं निन्युर्गोमायुकेतनम् ।
क्व मांसमिति ते पृष्टा व्याघ्रेण क्षुद्रकारिणः ।
ऊचुश्चौर्येण तन्नीतं शुचिना तव मन्त्रिणा ॥ १३.४२४ ॥
मिथ्याचारं विदित्वा तं दृष्ट्वा मांसं च तद्गृहे ।
क्रोधान्धो हन्तुकामस्तं व्याघ्रः संरम्भमाययौ ॥ १३.४२५ ॥
तमभ्येत्याब्रवीन्माता व्याघ्री पिशुनशङ्किता ।
शुद्धाय तस्मै भृत्याय विमोहात्पुत्र मा क्रुधः ॥ १३.४२६ ॥
बहवः संहता धूर्ताः संमतं सचिवं नवम् ।
मिथ्यादोषेण लिम्पन्ति निर्देषं क्षुद्रपण्डिताः ॥ १३.४२७ ॥
स्वरूपं विकृतो द्वेष्टि शूरं भूरुर्बुधं जडः ।
कुलीनं हीनजन्मा च दुःशीला च पतिव्रताम् ॥ १३.४२८ ॥
एवं विबोधितो मात्रा तत्त्वमन्विष्य चारतः ।
शुद्धं विज्ञाय तं व्याघ्रः प्रसाद्यसीद्विलज्जितः ॥ १३.४२९ ॥
तमब्रवीच्छृगालोऽथ स्वस्ति गच्छाम्यहं विभो ।
विमानितस्त्वया वस्तुं नोत्सहे त्यक्तसंविदा ॥ १३.४३० ॥
गुमवानिति संसत्सु यः स्तुतः साधुभिः पुरा ।
सत्यप्रतिज्ञैर्देषेऽपि न स वाच्योऽन्यथा पुनः ॥ १३.४३१ ॥
भिन्न तथास्मिन्संश्लेषे पुनः प्रीतिः सुदुर्लभा ।
इत्युक्त्वा व्याघ्रमामन्त्र्य गोमायुस्तपसे ययौ ॥ १३.४३२ ॥
स कालेन निराहारः शान्तसंसारवासनः ।
वने कलेवरं त्यक्त्वा त्रिदिवं प्रययौ कृती ॥ १३.४३३ ॥
- व्याघ्रगोमायुसंवादः ॥ २२ ॥ *****
आस्थाय वैतसीं वृत्तिं देशकालौ समीक्ष्य ये ।
न सन्ति तिष्ठन्त्युच्चैर्वा न ते यान्ति पराभवम् ॥ १३.४३४ ॥
सागरः सरितः सर्वाः पुरा पप्रच्छ कौतुकात् ।
युष्मत्प्रवाहेष्वखिलान्पश्याम्युन्मूलितान्द्रुमान् ॥ १३.४३५ ॥
एते विशन्ति मां वृक्षा हृता कूलंकषैर्जलैः ।
वेतसं न तु पश्यामि कस्मादत्र तटोद्भवम् ॥ १३.४३६ ॥
समुद्रेणेति पृष्ठासु नदीषु प्राह जाह्नवी ।
ह्रियमाणः सदाम्भोभिर्विनमत्येव वेतसः ॥ १३.४३७ ॥
हन्तुं न शक्यास्ते वृक्षा महौघैर्विनमन्ति ये ।
त्रुट्यन्ति त्रासादेवान्ये द्रुमा मूर्खा इवोद्धताः ॥ १३.४३८ ॥
एतद्गाङ्गं वचः श्रुत्वा तथेत्यूचे सरित्पतिः ।
मेने च वैतसीं वृत्तिं श्रेयसे देशकालयोः ॥ १३.४३९ ॥
- सरित्सागरसंवादः ॥ २३ ॥ *****
राज्ञां धनं निजा बुद्धिर्दाक्ष्यं चोत्साहशालिनाम् ।
अलसा बुद्धिहीनाश्च सर्वथा विपदां पदम् ॥ १३.४४० ॥
उष्ट्रः परेण तपसा प्रजापतिवरात्पुरा ।
आलस्योपहतो ग्रीवामवाप शतयोजनीम् ॥ १३.४४१ ॥
आसने चोपविष्टोऽथ तया पीलुवनेषु सः ।
प्राणयात्रां सदा चक्रे मन्यमानो महत्सुखम् ॥ १३.४४२ ॥
दुर्दिनाभिहते काले कदाचित्तस्य जम्बुकैः ।
क्षुत्क्षामैर्भक्षिता ग्रीवा दीर्घा सा मण्डलीकृता ॥ १३.४४३ ॥
- उष्ट्रग्रीविकम् ॥ २४ ॥ *****
कुलीनान्विदिताचारान्राजा कर्मसु योजयेत् ।
पदे महति विन्यस्ताः संशयायैव दुर्जनाः ॥ १३.४४४ ॥
उवास श्वा कृपापात्रमाश्रमे कस्यचिन्मुनेः ।
स दृष्ट्वा द्वीपिनं घोरं कदाचिदवदद्भयात् ।
भगवन्नेष मां द्वीपी क्षुधितो हन्तुमागतः ॥ १३.४४५ ॥
पाहि पाहिति तेनोक्तः स मुनिः करुणानिधिः ।
एतत्तुल्यो भवेत्युक्त्वा तं चक्रे द्वीपिविग्रहम् ॥ १३.४४६ ॥
सोऽपि श्वा द्वीपितां प्राप्तस्त्रस्तो व्याघ्रात्पुनर्मुनिम् ।
त्रायस्वेत्यभिधायैव व्याघ्रातां तद्गिरा ययौ ॥ १३.४४७ ॥
सोऽपि मत्तगजाद्भीतः कालेन मदमन्थरात् ।
मुनिना कल्पितां प्रीत्या प्राप्तौ मत्तगजेन्द्रताम् ॥ १३.४४८ ॥
सोऽपि पञ्चाननाद्भीतः करालात्तालकेसरात् ।
यातस्तच्छासनादेव सहसा मृगराजताम् ॥ १३.४४९ ॥
अष्टपादं महादंष्ट्रं दृष्ट्वा शरभमागतम् ।
स विषण्णो मुनिगिरा बभूव शरभः क्षणात् ॥ १३.४५० ॥
कालेन शरभाकारः सर्वप्राणिभयंकरः ।
स जातदर्पः सहसा तं मुनिं हन्तुमुद्ययौ ॥ १३.४५१ ॥
अपध्वस्तस्ततस्तेन मुनिना हुंकृतेन सः ।
स बभूव पुनर्दीनः क्षणादशुचिविग्रहः ॥ १३.४५२ ॥
इत्यविज्ञातशीलेभ्यो हीनेभ्यो वितरञ्श्रियम् ।
कुलाचारमनालोच्य राजा पतति संशये ॥ १३.४५३ ॥
- श्वऋषिसंवादः ॥ २५ ॥ *****
नयमेवांविधं ज्ञात्वा राजदण्डेन गामिमाम् ।
सर्वकामदुघां वीरः पालयेन्न तु पीडयेत् ॥ १३.४५४ ॥
वसुहोमोऽङ्गनृपतिर्हिमविच्छिखरे पुरा ।
अवदद्यौवनाश्वेन पृष्टो दण्डस्य संभवम् ॥ १३.४५५ ॥
धृतो वर्शसहस्रं प्राङ्भूर्ध्ना गर्भः प्राजासृजा ।
क्षुतेन सहसोऽत्सृष्टः स श्रीमान्क्षुप इत्यभूत् ॥ १३.४५६ ॥
अत्रान्तरे जगत्सर्वमाशासनमयन्त्रणम् ।
निर्मर्यादं विलोक्येदं व्याकुलोऽभूत्प्रजापतिः ॥ १३.४५७ ॥
अथास्य वचसा रुद्रः प्रययौ दण्डतां स्वयम् ।
दंष्ट्री चतुर्भुजो दीप्तः श्यामोष्ठचरणो जटी ॥ १३.४५८ ॥
देवस्तं विष्णवे प्रादाद्विष्णुरङ्गिरसे ददौ ।
सोऽपि शक्रमरीचिभ्यां मरीचिर्भृगवे ततः ॥ १३.४५९ ॥
स मुनिभ्यो ददौ तेऽपि दिक्पतिभ्यो क्षुपाय ते ।
क्षुपश्च मनवे प्रादाद्दण्डं धर्मस्य गुप्तये ॥ १३.४६० ॥
तस्मिन्सम्यक्प्रणिहिते रक्षायै पूततेजसि ।
लभन्ते शाश्वतं वीरा यशः स्वर्गं च भूमिपाः ॥ १३.४६१ ॥
इत्युक्तमङ्गराजेन मांधाता पृथिवीपतिः ।
निशम्योत्फुल्लनयनः सादरं तमपूजयत् ॥ १३.४६२ ॥
- वसुहोमोपाख्यानम् ॥ २६ ॥ *****
कामलोभोद्भवं पापं राज्ञो ब्राह्ममसेवया ।
पुनश्चाकरणाद्दानात्कीर्तनाच्च विनश्यति ॥ १३.४६३ ॥
त्रयी त्राता ततो धर्मं भजते त्यक्तकिल्विषः ।
इत्यरिष्टेन पृष्टः प्राङ्भुनिः कामर्दकोऽब्रवीत् ॥ १३.४६४ ॥
- कामन्दारिष्टसंवादः ॥ २७ ॥ *****
शीलमाभरणं राज्ञां सौजन्यं विदुषामिव ।
शीलेन राजते लक्ष्मीर्वसन्तेनेव मञ्जरी ॥ १३.४६५ ॥
राजसूये श्रियं दृष्ट्वा तव द्वेषविपाकुलः ।
दुर्योधनः पुरा पित्रे द्यूते कामं न्यवेदयत् ॥ १३.४६६ ॥
धृतराष्ट्रस्तमवदत्पुत्र मा भव विप्लुतः ।
प्रवर्तन्तां तवाप्यन्ते यज्ञा विपुलसंपदः ॥ १३.४६७ ॥
शीलवान्प्राप्स्यसि सदा लक्ष्मीं पाण्डुसुताधिकः ।
न हि शीलवतः किंचिद्विद्यते भुवि दुर्लभम् ॥ १३.४६८ ॥
शीलं राज्ञां दिशां चनन्द्रस्तारुण्यं बहरिणीदृशाम् ।
मधुमासश्च वृक्षाणां मनोहार्यं विभूषणम् ॥ १३.४६९ ॥
विदेशेषु धनं विद्या व्यसनेषु धनं मतिः ।
परलोके धनं धर्मः शीलं तु निखिलं धनम् ॥ १३.४७० ॥
शीलवित्तोचितं शक्रः प्रदीप्तविभवं पुरा ।
बृहस्पतिपुरः प्रायात्प्रह्लादं ब्राह्मणाकृतिः ॥ १३.४७१ ॥
श्रेयो वदेति विनयाद्दैत्येन्द्रस्तेन शिष्यवत् ।
पृष्टो बभाषे कालेन प्राजाकार्यैकसक्तधीः ॥ १३.४७२ ॥
त्रैलोक्यराज्यं संप्राप्तं मया शीलवता सदा ।
शृणोति विद्या विदुषां कवीनां संशये वचः ॥ १३.४७३ ॥
अनिर्णीतमसंस्पृष्टमनाख्यातमचिन्तितम् ।
सहसा न भजेत्किंचिदपि स्वादु विचारधीः ॥ १३.४७४ ॥
एतदेव हितं विप्र सर्वेषामपि देहिनाम् ।
वरं गृहाण तुष्टोऽहं तव प्रणयसेवया ॥ १३.४७५ ॥
इत्युक्तो दानवेन्द्रेण तुष्टः प्रोवाच वृत्रहा ।
सर्वं देहि निजं मह्यां शीलं शीलवतां वर ॥ १३.४७६ ॥
श्रुत्वैतत्सत्यवाग्दैत्यो ददानीति तमब्रवीत् ।
शक्रोऽपि तद्गिरा प्राप्य प्रययौ द्विजवेशभृत् ॥ १३.४७७ ॥
गते तस्मिन्महोत्साहे छायारूपो वराकृतिः ।
प्रह्लादविग्रहात्तूर्णं निर्ययौ पुरुषो बहिः ॥ १३.४७८ ॥
कोऽसीति पृष्टस्तेनाथ सोऽवदद्दैत्यभूपतिम् ।
वितीर्णोऽद्य त्वया कामादहं शीलाभिधो गुणः ॥ १३.४७९ ॥
उक्त्वेति शक्रं यातेऽस्मिन्नपरो निरगात्ततः ।
सोऽपि पृष्टोऽवदद्दैत्यं धर्मोऽहं शीलमार्गगः ॥ १३.४८० ॥
विनिःसृतस्तृतीयोऽपि सत्यमरमीत्युवाच ताम् ।
अवदद्वित्तमस्मीति चतुर्थोऽप्यथ निर्गतः ।
अहं बलमिति क्षिप्रं निर्यातः पञ्चमोऽवदत् ॥ १३.४८१ ॥
ततः कमलपर्यङ्कस्थिता कमललोचना ।
प्रह्लादवक्रान्निर्गत्य जगाद कमला स्वयम् ॥ १३.४८२ ॥
व्रजाम्यहं हसस्राक्षं यस्ते शिष्योऽभवद्द्विजः ।
तस्मै त्वया वितीर्णं हि शीलं शीलविभूषण ॥ १३.४८३ ॥
शीलादनुगतो धर्मः सत्यं तदनुयायि च ।
यातं वित्तं च तन्मूलं बलं चैतन्निबन्धनम् ॥ १३.४८४ ॥
एतेषु सुरराजस्य प्रविष्टेषु क्रमाद्वपुः ।
शीलाश्रयां श्रियं विद्धि मामपि प्रस्थितां विभो ॥ १३.४८५ ॥
इत्युक्त्वा शक्रसदनं ययौ लक्ष्मीर्विहाय तम् ।
एवं शीलोद्भवाः सर्वा दुर्योधनविभूतयः ॥ १३.४८६ ॥
इत्युक्तोऽप्याम्बिकेयेन न शशाम सुयोधनः ।
पूज्येषु विमुखा मोहात्सर्वथा हि मुमूर्षवः ॥ १३.४८७ ॥
- शीलवर्णनम् ॥ २८ ॥ *****
एतत्पितामहेनोक्तं श्रुत्वा सर्वं नृपोचितम् ।
स्मृत्वा दुर्योधनकथां निःश्वस्योवाच धर्मजः ॥ १३.४८८ ॥
आशा ममाभूद्विपुला सततं धृतराष्ट्रजे ।
यथा वननिवृत्तेषु सा मास्मासु विधास्यति ॥ १३.४८९ ॥
सर्वथा युद्धरुचिना प्रत्याख्याते जनार्दने ।
आशा विफलतां नीता सा तेन मम संवृता ॥ १३.४९० ॥
तस्माद्वैपुल्यमायातास्तद्भङ्गे दुःसहाः शुचः ।
निवर्तन्ते कथं नाम कथ्यतां मे पितामह ॥ १३.४९१ ॥
पृष्टो युधिष्ठिरेणेति पुनः शान्तनवोऽब्रवीत् ।
आशा सुमहती पार्थ दशा जीवितहारिणी ॥ १३.४९२ ॥
हैहयो राजपुत्रः प्राक्सुमित्रो नाम कानने ।
जवादनुससारैकं कुरङ्गं वेगवत्तरम् ॥ १३.४९३ ॥
समेषु तरुकुञ्जेषु श्वभ्रेषु विषमेषु च ।
मृगानुसारी सुचिरात्स धन्वी क्लममाययौ ॥ १३.४९४ ॥
ततस्तपोवनं प्राप्य दृष्टनष्टे मृगे पुनः ।
आशाविनाशसंतप्तो मुनीनामविशत्सभाम् ॥ १३.४९५ ॥
स तान्प्रणम्य पप्रच्छ कष्टामाशां महत्तमाम् ।
मुनिस्तं वृषभो नाम बभाषे सस्मिताननः ।
राजपुत्र कृशामाशां जहि दुःखानुबन्धिनीम् ॥ १३.४९६ ॥
भूरिद्युम्नः पुरा राजा वीरद्युम्नाभिधं सुताम् ।
विचिन्वन्हृतमश्वेन बदर्याश्रममाययौ ॥ १३.४९७ ॥
ततस्तपोवनं प्राप्य दृष्टनष्टे मृगे पुनः ।
आशाविनाशसंतप्तो मुनीनामविशत्सभाम् ॥ १३.४९८ ॥
स तान्प्रणम्य पप्रच्छ कष्टामाशां महत्तमाम् ।
मुनिस्तं वृषभो नाम बभाषे स स्मिताननः ॥ १३.४९९ ॥
राजपुत्र कृशामाशां जहि दुःखानुबन्धिनीम् ।
भूरिद्युम्नः पुरा राजा वीरद्युम्नाभिधं सुतम् ॥ १३.५०० ॥
तनुर्नाम मुनिस्तत्र प्रांशुः कृशतराकृतिः ।
दुःखान्तेनावदत्पृष्टो मा राजन्विक्लवो भव ॥ १३.५०१ ॥
न विद्यते जनः कश्चिदाशया यो न हीयते ।
न च पश्यामि तं लोके याचकं योऽभिमन्यते ॥ १३.५०२ ॥
कृतघ्नेषु नृशंसेषु कुटिलेष्वलसेषु च ।
आशादौर्वल्यमायान्ति शरदीवाल्पनिम्नगाः ॥ १३.५०३ ॥
धिक्तां कृशतरामाशां कायशोषविधायिनीम् ।
प्रतिश्रुतमसंप्राप्य हृदयात्परिवर्तते ॥ १३.५०४ ॥
पुत्रे मृते वा नष्टे वा पितुरेकात्मजस्य वा ।
आशा दहति गात्राणि सा कृशापि महीयसी ॥ १३.५०५ ॥
वृद्धानां पुत्रलाभेषु नित्यमाशा भवन्ति याः ।
स्थाविरे जीर्णकायानां ताः कृशा अपि दुःसहाः ॥ १३.५०६ ॥
भ्रामयत्याप्तमात्रैव शोषयत्यायती कृशा ।
हन्ति मग्ना जटिल्येव धिगाशां मृत्युदायिनीम् ॥ १३.५०७ ॥
इत्युक्त्वा तनयं राज्ञे स मुनिर्दिव्यलोचनः ।
अदर्शयत्स्वयं चाभूत्प्रकटं धर्मविग्रहः ॥ १३.५०८ ॥
- ऋषभगीताः ॥ २९ ॥ *****
आशापाशान्परित्यज्य योगीव विजितेन्द्रियः ।
पातुर्महसि कौन्तेय पृथ्वीं पृथुरिवापरः ॥ १३.५०९ ॥
कोशमूलं बलं राज्ञां तस्मिन्क्षीणे यथा तथा ।
अब्राह्मणधनैः कार्यात्तद्वृद्धिर्धर्मसंपदे ॥ १३.५१० ॥
- राजधर्माः ॥ ३० ॥ *****
वक्तारं सर्वधर्माणां सिद्धसिन्धुसुतं नृपः ।
क्षीणकोशसहायानां वृत्तिं पप्रच्छ भूभुजाम् ॥ १३.५११ ॥
बलिभिर्विजितो राजा भिन्नमन्त्रो निराश्रयः ।
निरुत्साहतया भ्रष्टः किं श्रेयः संश्रयेदिति ॥ १३.५१२ ॥
भीष्मोऽवदन्नरपतिः क्षीणः संधाय वैरिभिः ।
शनैः कोशबलादीनां यत्नात्कुर्याद्विवर्धनम् ॥ १३.५१३ ॥
तूर्णं वर्तेत साम्ना वा त्यक्तात्मा वारणं व्रजेत् ।
उभयोरन्तरे तिष्ठन्दीर्घसूत्रो विनश्यति ॥ १३.५१४ ॥
विपदानां मूलघाती योऽयं कोशापरिक्षयः ।
उत्थानोपहतास्तेन प्रभवन्ति न ताः किल ॥ १३.५१५ ॥
गृध्राः प्रयान्त्येव शवं दग्धमङ्गारकाष्ठकम् ।
न तु दारिद्र्यसंस्पष्टं कश्चित्स्पृशति पूरुषम् ॥ १३.५१६ ॥
अपि क्लिन्नसिराजालं पूतिर्युषितं शवम् ।
न तथा वर्जयन्त्याराद्धनहीनं यथा जनम् ॥ १३.५१७ ॥
विलुप्तविभवोद्भ्रान्तचेतसां विषमे पदे ।
अनश्वरमनाक्रम्यं मर्यादा मानिनां धनम् ॥ १३.५१८ ॥
अप्यनुत्सृष्टमर्यादो दस्युः स्यान्न विशृङ्खलः ।
मर्यादा संपदां धाम मूढता विपदामिव ॥ १३.५१९ ॥
पुरा दस्युपतिर्वीरः कोपव्यो गुरुपूजकः ।
अपरित्यक्तमर्यादः प्राप सिद्धिमनुत्तमाम् ॥ १३.५२० ॥
रक्षिता न्यस्तशस्त्राणां द्विजानां योषितां तथा ।
निःशेषदानवसखः स लेभे विपुलं यशः ॥ १३.५२१ ॥
- कोपव्यचरितम् ॥ ३१ ॥ *****
न तज्जगति नामास्ति यदनाक्रम्यमापदाम् ।
शरीररक्षा प्रथमं तासां बुद्धिश्च भेषजम् ॥ १३.५२२ ॥
प्राप्तज्ञो दीर्घदर्शी च दीर्घसूक्षत्रश्च सानुगाः ।
बहुपुत्राः पुरा मत्स्या न्यवसन्सलिलाशये ॥ १३.५२३ ॥
स्राव्यमाणो जले तत्र धीर्वरैस्तज्जिघृक्षया ।
दीर्घदर्शी परानूचे गच्छामो मानसान्तरम् ॥ १३.५२४ ॥
इत्यर्थितौ तेन यदा तौ विमोहान्न जग्मतुः ।
दीर्घदर्शी तदा पूर्वं स्वयं प्रायात्सरः परम् ॥ १३.५२५ ॥
ततः स्रुतजले दाशैः कृष्टे मत्स्यकदम्बके ।
ललम्बे कृतकं धाम्नि प्राप्तज्ञो मृतवत्स्वयम् ॥ १३.५२६ ॥
सोऽफालानखिलान्मत्स्यान्हत्वा प्रोतानथापरान् ।
जलान्तरे क्षालंनाय विक्षिपुर्जालजीविनः ॥ १३.५२७ ॥
न्यस्तेषु तेषु निःशङ्खैर्नदीष्वम्भसि धीवरैः ।
अलक्षितो ययौ तूर्णं प्राप्तज्ञो धीमतां वरः ॥ १३.५२८ ॥
अर्धजीवस्तु विचलन्दीर्घसूत्रो महाकृतिः ।
व्यपाद्यत निषादेन लगुडैर्जर्जरीकृतः ॥ १३.५२९ ॥
- दीर्घदर्शीयम् ॥ ३२ ॥ *****
बहुनां गोचरं यातो वैरिणां विषमे स्थितः ।
कुर्याद्बलाधिकं तेभ्यो मित्रं किंत्वतिशङ्कितः ॥ १३.५३० ॥
न्यग्रोधमूलनिलयः प्रलयो मूषिकः पुराः ।
लोमशं नाम मार्जारं जालबद्धं व्यलोकयत् ॥ १३.५३१ ॥
बद्धे तस्मिन्गताशङ्कः स जिघ्रंश्चपलाननः ।
भक्ष्यं निशि चचाराखुर्विलिखन्नखरैर्महीम् ॥ १३.५३२ ॥
हरितं नाम सोऽपश्यन्नकुलं लोहिताननम् ।
चन्द्रकाख्यमुलूकं च कूजन्तं घोरलोचनम् ॥ १३.५३३ ॥
तौ दृष्ट्वा बलिनौ भीतः संप्राप्ते प्राणसंशये ।
मूषिकः कलयन्सर्वा दिशः क्षणमचिन्तयत् ॥ १३.५३४ ॥
नकुलोलूकभीतोऽहं मार्जारं बलिनां वरम् ।
संशये विषमस्थानां संधिस्त्राणं हि शत्रुणा ॥ १३.५३५ ॥
स निश्चित्येति तत्पाशच्छेदायोद्यतमानसः ।
मार्जारमवदन्नीलकाचकाचरलोचनम् ॥ १३.५३६ ॥
अमित्रो मित्त्रतां याति मित्त्रमायात्यमित्रताम् ।
कालेन तस्माच्छेत्स्यामि पाशं ते मित्त्रतां गतः ॥ १३.५३७ ॥
श्रुत्वैतन्मधुरं हृष्टो मार्जारः सुहृदं व्यधात् ।
गाढमङ्के परिष्वज्य मूषिकं विपदि स्थितः ॥ १३.५३८ ॥
तद्दृष्ट्वा नकुलोलूकौ निराशावाश्वभक्षणे ।
बभूवतुर्भुग्नमुखौ बलवत्प्रीतिशङ्कितौ ॥ १३.५३९ ॥
शनैः शनैर्मुषिकोऽथ चिच्छेद स्नायुबन्धनम् ।
तं तूर्णं तूर्णमित्यूचे मार्जारश्चिरकारिणम् ॥ १३.५४० ॥
स्वार्थमुद्दिश्य लम्बन्ते ये क्षणं प्रीतितन्तुभिः ।
धूर्तांस्तान्कार्यशेषेण यापयेत्कार्ययाचकान् ॥ १३.५४१ ॥
एतद्ध्यात्वा धियैवाखुर्लुब्धकागमनावनधि ।
एकपाशांशशेषं तं चकार नयकोविदः ॥ १३.५४२ ॥
प्रातर्घोरतरे प्राप्ते चण्डाले परिघाभिधे ।
जालनिक्षिप्तनयने सशस्त्रे पाशजीविनि ॥ १३.५४३ ॥
पाशशेषं चकर्ताखुश्छित्वा च बिलमाविशत् ।
यातो व्याधो निराशश्च मार्जारे विद्रुते द्रुतम् ॥ १३.५४४ ॥
तस्मान्म्हाभयान्मुक्तः कालेनाभ्येत्य मूषिकम् ।
अन्तःस्थितं बिलद्वारान्मार्जारः प्रणतोऽवदत् ॥ १३.५४५ ॥
अहं स ते परं मित्त्रमुपकारवशीकृतः ।
भृशमुत्कण्ठितां प्राप्तः सखे निर्गम्यतामितः ॥ १३.५४६ ॥
इति ब्रुवाणं मार्जारं दृष्ट्वा भक्षणदीक्षितम् ।
शुक्लतीक्ष्णाद्रदशनं श्मश्रुसूचीचिताननम् ॥ १३.५४७ ॥
जिघ्रान्तं मुषिकामोदमर्धोन्मीलितलोचनम् ।
उच्चैकपादनिभृतं तमभाषत मूषिकः ॥ १३.५४८ ॥
सौहार्देनोपयुक्तः प्राक्तव चाहं भावंश्च मे ।
गम्यतां स गतः कालो न भूमिर्वञ्चनेष्वहम् ॥ १३.५४९ ॥
यद्भवान्मधुरं वक्ति तन्मह्यं नाद्य रोचते ।
याचकः कार्यकालोऽसावधुना नास्ति संगतम् ॥ १३.५५० ॥
निजप्रयोजनापेक्षापेशलप्रियभाषणण् ।
दुर्बलः क्रूरमनसं धीरः दूरादेवार्यचेतसम् ।
न श्रेयोऽस्ति विरुद्धो हि भोज्यभोक्तृसमागमः ॥ १३.५५१ ॥
कृतज्ञ भवसे मित्त्रं दूरादेवार्यचेतसम् ।
न श्रेयोऽस्ति विरुद्धो हि भोज्यभोक्तृसमागमः ॥ १३.५५२ ॥
निरस्य बहुभिर्वाक्यैर्मार्जारमिति मूषिकः ।
बिलं तत्याजा कालेन दृष्टं धूर्तेन शत्रुणा ॥ १३.५५३ ॥
- मार्जारमूषिकसंवादः ॥ ३३ ॥ *****
एवमेष नयः प्राज्ञैर्ज्ञातव्यः शत्रुसंधिषु ।
न विश्वसेत्प्रियगिरां विशेषेण कृतागसाम् ॥ १३.५५४ ॥
काम्पिल्ये नगरे पूर्वं ब्रह्मदत्तस्य भूपतेः ।
उवास पूतना नाम विहगी जीवजीविका ॥ १३.५५५ ॥
सा राजभवने जातविस्रम्भाजीजनत्सुतम् ।
तत्पुत्रतुल्यजन्मा च पुत्रोऽभूत्तस्य भूभुजः ॥ १३.५५६ ॥
वितीर्य सागरद्वीपसंजातं सा फलद्वयम् ।
स्वपुत्रं राजुपत्रं च बाल्येऽपि बलिनौ व्यधात् ॥ १३.५५७ ॥
ततः कदाचिद्विहगं शिशुं राजसुतो बली ।
आदाय केलिसंसक्तं चकार गतजीवितम् ॥ १३.५५८ ॥
विलोक्य निहतं पुत्रं समभ्येत्याथ पूतना ।
तुण्डेन राजपुत्रस्य क्रुद्धा नेत्रे व्यदारयत् ।
प्रतिकृत्य निकारेण दुःखिता गन्तुमुद्ययौ ॥ १३.५५९ ॥
व्रजन्तीं ब्रह्मदत्तस्तां हर्म्यादालोक्य संभ्रमात् ।
विदारिताक्षं पुत्रं च जगादाच्छाद्य विक्रियाम् ॥ १३.५६० ॥
अपकारे प्रतिकृते वैरं वैरेण पातितम् ।
कोपः साम्यादपक्रान्तो मा गमः पुत्रि पूतने ॥ १३.५६१ ॥
तच्छ्रुत्वोवाच विहगी नेदानीमस्ति संगतम् ।
कृतप्रतिकृतं वैरमभ्यासाद्द्विगुणं भवेत् ॥ १३.५६२ ॥
श्रुत्वा च गुरुवृद्धेभ्यः पुराणमपि विस्मृतम् ।
सहसा नवतां याति वैरं कोटरवह्निवत् ॥ १३.५६३ ॥
कृतापकारे विश्वासं मोहाद्यो याति बालिशः ।
स विस्मृतात्मा सहसा याति कालविधेयताम् ॥ १३.५६४ ॥
गीतेनेव कुरङ्गाणमामिषेणेव पक्षिणाम् ।
बडिशेनेव मत्स्यानां विश्वासनव्यथा नृणाम् ॥ १३.५६५ ॥
प्रियवाद्यैर्विभिन्नानां संश्लेषः किल दुर्लभः ।
मुक्ताफलानां भग्नानां जतुलेशैर्न संधयः ॥ १३.५६६ ॥
धिक्तं कुदेशः यत्रात्मा न शेतेऽशाङ्कितः सुखम् ।
प्रवादः किल सत्योऽयं यदात्मार्थे महीं त्यजेत् ॥ १३.५६७ ॥
इति ब्रुवाणा सा राज्ञा प्रार्थितापि पुनः पुनः ।
अविश्वासभयात्प्रायात्त्यक्त्वा प्रणयगौरवम् ॥ १३.५६८ ॥
- ब्रह्मदत्तपूतनासंवादः ॥ ३४ ॥ *****
आपत्काले घृणां त्यक्त्वा कृतस्नेहेषु गौरवैः ।
प्रतिकूलेषु वर्तेत प्रतिकूलतरं धिया ॥ १३.५६९ ॥
राज्ञा शत्रुन्तपाख्येन वृत्तिं नीतिं च भूभुजाम् ।
कणिङ्कनामा नीतिज्ञः पुरा पृष्टोऽब्रवीन्मुनिः ॥ १३.५७० ॥
मूलच्छेदं रिपोः कुर्यादथवा न प्रकोपयेत् ।
अन्यथासौ विनाशाय पादस्पृष्ट इवोरगः ॥ १३.५७१ ॥
जनं विश्वसयेद्वाचा शौचं दम्भेन दर्शयेत् ।
प्रगाणैः शपथैः शास्त्रैः शत्रुं सेवेत शम्बरैः ॥ १३.५७२ ॥
अतीतशान्तये स्नेहै समं जडमनागतैः ।
प्रत्यक्षैरुपपत्रैश्च पिण्डितैः फलवर्जितैः ॥ १३.५७३ ॥
तूलवत्सहसा क्षिप्रं ज्वलेदवसरे क्वचित् ।
मन्दप्रतापो धूमाङ्को न भवेद्द्रुमवह्निवत् ॥ १३.५७४ ॥
प्रयोजनार्थिनः कुर्यादाशाबन्धान्सदा मदा ।
न हि कश्चित्कृते कार्ये कर्तारमनुमन्यते ॥ १३.५७५ ॥
लोकापवादादुद्वेगो मार्दवं चिरकारितम् ।
असंवृत्तिः स्वमन्त्रे वा मूलच्छेदोर्ऽथसंपदाम् ॥ १३.५७६ ॥
प्रसुप्तो बधिरोऽन्धो वा काले स्यात्स्वार्थसिद्धये ।
प्रपातमधुवत्तिष्टेद्दुर्लभः सर्वदेहिनाम् ॥ १३.५७७ ॥
दारुणः स्यान्मुखे स्वादुर्गुडलिप्त इवोपलः ।
विशेदन्तश्च शत्रूणां मधुदिग्ध इव क्षुरः ॥ १३.५७८ ॥
दीर्घमाशामिषं दातुं चिन्तयेज्ज्ञानसंग्रहम् ।
आशां निघ्नैर्नमित्तैश्च हेतुभिश्च तथा वदेत् ॥ १३.५७९ ॥
न यथा रतिमायाति संवत्सरशतैरपि ।
अतृप्तिजनका प्रीतिर्दद्यात्स्वस्यान्तरं नृणाम् ॥ १३.५८० ॥
काकवत्परिशङ्केन नाशयेन्मृगमुग्धताम् ।
चारैर्भवेच्च सर्वज्ञः प्रहरेद्व्यसने रिपौ ॥ १३.५८१ ॥
पूर्वं मायाभिघाती स्याद्धतं शोचेत्स्वबन्धुवत् ।
न कुर्यान्निष्फलं वैरं न हरेदप्यपुष्कलम् ॥ १३.५८२ ॥
दन्तानां शातनं मिथ्या शुष्कास्थिपरिचर्वणम् ।
शृणवद्व्याधिवच्छेषं न शत्रोः परिवर्जयेत् ॥ १३.५८३ ॥
अपि पुत्रं स्वयं हन्यादर्थविघ्नविधायिनम् ।
गृध्रवद्दीर्घदर्शी स्याद्बकवत्कपटव्रतः ॥ १३.५८४ ॥
शार्दूलवन्महोत्साहः कुटिलश्च भुजङ्गवत् ।
भेदनाय सदा कुर्यात्परेषां पौरसान्त्वनम् ॥ १३.५८५ ॥
गणांश्चोपजपेत्पूर्वं धनैराकृष्य वल्लभान् ।
पण्डितैर्वैरमुत्पाद्य न निःशङ्कः सुखं चरेत् ॥ १३.५८६ ॥
एतद्बुद्ध्वैव निखिल ननु सेवेत सज्जनम् ।
सुवेरराजः श्रुत्वैतद्भारद्वाजेन भाषितम् ।
कणिङ्कख्येन मुनिना बभूव नयकोविदः ॥ १३.५८७ ॥
- कणिङ्कोपाख्यानम् ॥ ३५ ॥ *****
आपदं कालदौरात्म्याद्देवदोषेण वा बुधः ।
संप्राप्तो दैवदिष्टाद्वा धिया वर्तेत संकटे ॥ १३.५८८ ॥
अयमेव सदोपायो भावि कल्याणसंपदाम् ।
त्रिवर्गसाधनं देहं रक्षेदापत्सु यद्बुधः ॥ १३.५८९ ॥
अनावृष्टिहते काले पुरा द्वादशवार्षिके ।
कथाशेषेषु तोयेषु दुर्भिक्षक्षपिते जने ॥ १३.५९० ॥
उत्सन्ने धर्मसंताने शवाकीर्णे महीतले ।
त्यक्त्वाग्निदैवताः सर्वे मुनयो लुप्तसंयमाः ॥ १३.५९१ ॥
बभ्रमुर्नष्टसंकेता निर्दग्धाश्रमकाननाः ।
विश्वामित्रोऽथ विचरन्नवाप श्वपचालयम् ॥ १३.५९२ ॥
कृत्तप्राणिवसाविस्रं शुष्कमांसास्थिभालिकम् ।
आयासनियमावासं श्वचर्मास्तीर्णपक्कणम् ॥ १३.५९३ ॥
शोणितापूर्णपिठरं सरमासङ्गसंकुलम् ।
स्नायुप्रलम्बसंबाधं कङ्कालशकलाकुलम् ॥ १३.५९४ ॥
क्षुत्क्षामकुक्षिस्तत्रापि मुनिर्भिक्षामयाचत ।
अर्थमानोऽपि स यदा ततो लोभेन किंचन ॥ १३.५९५ ॥
तदा कृच्छ्रां दशां यातः पपात भुवि मूर्छितः ।
सोऽचिन्तयदहो कष्टमियमापदुपस्थिता ॥ १३.५९६ ॥
श्वमांसलेशमथवा हरामि निशि चौरवत् ।
प्राणार्थी सर्वमादद्यात्सर्वतः स्थितिविप्लवे ॥ १३.५९७ ॥
आपदि प्राणरक्षा हि धर्मस्य प्रथमाङ्कुरः ।
एतच्चिन्तयतस्तस्य कृष्णरात्रिः प्रवर्तिता ॥ १३.५९८ ॥
श्वपाकवञ्चितानेककाकपक्षैरिवावृता ।
स सक्तिकां स्नायुतत्त्रीं लम्बमानां विचिन्त्य सः ॥ १३.५९९ ॥
कुटीद्वारं शनैः प्राप्य सकम्पो हर्तुमुद्ययौ ।
अन्तः प्रसुप्तो निर्निद्रः श्लेष्मव्यालग्नलोचनः ॥ १३.६०० ॥
वृद्धः श्वजीवी प्रोवाच तं कासोद्धर्घरस्वरः ।
स्नायुराकृष्यते केन नास्मि निद्रावशं गतः ॥ १३.६०१ ॥
एष शस्त्रेण सहसा हन्यते योऽत्र लम्बते ।
विश्वामित्रो निशम्यैतत्तमूचे दुर्बलस्वरः ॥ १३.६०२ ॥
कौशिकोऽहं मुनिः प्राणरक्षायै चौरतां गतः ।
अलब्धभैक्षः क्षुत्क्षामो हराम्येनां श्वजाघनीम् ॥ १३.६०३ ॥
अधर्मो नातुरस्यास्ति घोरं कृच्छ्रं गतस्य च ।
मूलं च जीवो धर्मस्य तस्मिन्नापत्सु रक्ष्यते ॥ १३.६०४ ॥
प्रवर्तन्ते पुनः सर्वाः सदाचारोचिताः क्रियाः ।
इत्युक्तो मुनिना वृद्धः समुत्थाय जगाद सः ॥ १३.६०५ ॥
अहो नु भगवन्प्राणलोभात्पापं प्रशंससि ।
युष्माभिरेव विहितो भक्ष्याभक्ष्येषु निर्णयः ॥ १३.६०६ ॥
स कथं जीवितभ्रंशभयात्पापे प्रवर्तसे ।
न वारयामि ते मांसं वितरामि न ते स्वयम् ॥ १३.६०७ ॥
वक्तासि सर्वधर्माणां मोहान्मा निरयं गमः ।
एतत्स मुनिनाकर्ण्य जगाद प्रस्खलन्मुहुः ॥ १३.६०८ ॥
यस्मिंस्तपश्च सत्यं च स्वज्ञान च प्रतिष्ठितम् ।
शरीरे रक्षिते तस्मिन्सर्वं भवति रक्षितम् ॥ १३.६०९ ॥
अभक्ष्यं भक्षयित्वापि विमुक्तः प्राणसंशयात् ।
व्रततीर्थेषु पुण्येन क्षपयिष्यामि पातकम् ॥ १३.६१० ॥
इत्युक्त्वा तां समादाय ययौ तूर्णं श्वजाघनीम् ।
अस्मिन्नवसरे मेघा ववर्षुः सस्यसंपदः ॥ १३.६११ ॥
इत्येवं प्राणरक्षायै मुनिनाप्यतिगर्हिते ।
श्वमांसे विहिता बुद्धिस्तस्मात्त्रायेत जीवितम् ॥ १३.६१२ ॥
- विश्वामित्रश्वपचसंवादः ॥ ३६ ॥ *****
धर्मसूनुर्निशम्यैतद्भीष्मं पप्रच्छ विस्मितः ।
पितामह गतिं ब्रूहि शरणागतरक्षिणाम् ॥ १३.६१३ ॥
एतत्पृष्टो नृपतिना प्राह शन्तनुनन्दनः ।
पृष्टः पूर्वं जगादेदं मुचुकुन्देन भार्गवः ॥ १३.६१४ ॥
विपुले दुर्दिनायासे लुब्धकः कानने पुरा ।
शीतसंपिण्डितो रात्रौ मूले सुष्वाप शाखिनः ॥ १३.६१५ ॥
स्कन्दे विटपिनस्तस्य कपोतः कृतसंश्रयः ।
वासरान्तेऽपि नायातां स्मृत्वा भार्यामतप्यत ॥ १३.६१६ ॥
विललाप स संतप्तः प्रियाविरहकातरः ।
कपोती तच्च शुश्राव बद्धा व्याधेन पञ्जरे ॥ १३.६१७ ॥
सा तमूचे सुकृतिनो न प्रयान्ति विषण्णताम् ।
प्रथमं सुकृतमेतच्छरणागतरक्षणम् ॥ १३.६१८ ॥
लुब्धको वृक्षमूलेऽस्मिन्सुप्तो ह्यस्मै यथोचितम् ।
पूजां विधत्स्व शीतार्तः शरणं ह्येष वाञ्छति ॥ १३.६१९ ॥
प्रयस्या वचनं श्रुत्वा लुब्धकं विहगोऽब्रवीत् ।
भद्र मद्गृहमाप्तोऽसि वितरामि तवेप्सितम् ॥ १३.६२० ॥
शीतार्दितस्तदाकर्ण्य लुब्धकस्तमयाचत ।
वह्निं सोऽपि खगस्तूर्णं मानिनाय दिवोऽन्तिकम् ॥ १३.६२१ ॥
तृणपर्णसुसिद्धेऽग्नौ ज्वलिते लुब्धकस्ततः ।
विनष्टशीतः क्षुत्क्षामस्तमयाचत भोजनम् ॥ १३.६२२ ॥
मां भक्षयेति कारुण्यान्निगद्य विहगः स्वयम् ।
विवेश वह्निं तदद्दृष्ट्वा व्याधोऽप्यनुशयं ययौ ॥ १३.६२३ ॥
स त्यक्त्वा कूटयन्त्राणि समुत्पाट्य च पञ्जरम् ।
विरक्तः काननं प्रायाद्विहितानशनव्रतः ॥ १३.६२४ ॥
कपोते त्रिदिवं याते विमानेनार्कवर्चसा ।
भर्तारमनुशोचन्ती कपोती वह्निमाविशत् ॥ १३.६२५ ॥
तस्यां निवसमानायां भर्त्रा सह सुरालये ।
दावानले तनुं त्यक्त्वा लुब्धकोऽपि दिवं ययौ ॥ १३.६२६ ॥
- लुब्धककपोतीयम् ॥ ३७ ॥ *****
पापमर्जितमज्ञानात्कथं नश्यति देहिनाम् ।
पृष्टो युधिष्ठिरेणेति पुनः शान्तनवोऽब्रवीत् ॥ १३.६२७ ॥
इन्दोताख्यं मुनिवरं राजा पारिक्षितिः पुरा ।
ब्रह्महत्याकुलः प्रायाद्विश्वस्तः शरणं वने ॥ १३.६२८ ॥
मुहुस्तेन निरस्तोऽपि पापसंसर्गभीरुणा ।
निनाय करुणैर्वाक्यैस्तं राजा करुणार्द्रताम् ॥ १३.६२९ ॥
तस्य कीर्तयतः पापं तप्तस्यानुशयाग्निना ।
तीर्थाप्लुतस्य शनकैः स मुनिर्याजकोऽभवत् ॥ १३.६३० ॥
अश्वमेधेन विधिवत्पूतात्मा सोऽथ भूपतिः ।
तारितः किल्बिषाद्धोरादिन्दोतेन कृपालुना ॥ १३.६३१ ॥
- इन्दोतपारिक्षितीयम् ॥ ३८ ॥ *****
व्ययसायेन बुद्ध्या च निश्चयेन च देहिनः ।
तरन्ति नरकं बालं शुशुचुर्बान्धवाः पुरा ॥ १३.६३२ ॥
तान्समेत्याब्रवीद्गृध्रो गम्यतां त्यज्यतां शिशुः ।
इमामवस्थां पर्यन्ते को नाम न गमिष्यति ॥ १३.६३३ ॥
मा तिष्ठत चिरं घोरे श्मशाने प्रेतबान्धवाः ।
इह मर्त्यसहस्राणि ययुर्यास्यन्ति च क्षयम् ॥ १३.६३४ ॥
श्रुत्वैतद्बालकं त्यक्त्वा शनैस्तान्गन्तुमुद्यताम् ।
उवाच जम्बुकोऽभ्येत्य धिग्युष्मान्निर्घृणाशयान् ॥ १३.६३५ ॥
अहो नु दारुणा यूयं त्यक्त्वा गच्छन्ति ये सुतम् ।
गतासवोऽपि जीवन्ति कदाचित्सुप्तभौतिकाः ॥ १३.६३६ ॥
किंत वो भयं श्मशानेऽस्मिन्यातोऽस्तं न दिवाकरः ।
तिरश्चामपि बालेऽस्मिञ्जायते करुणाकणः ॥ १३.६३७ ॥
शृगालेनेति गदिते पुनः शवभृतश्च तान् ।
गृध्रो जगाद चित्रं वो जम्बुकस्य गिरा भ्रमः ॥ १३.६३८ ॥
जीवरत्नभृतो यूयं काष्ठलोष्ठोपमाकृतेः ।
स्नेहेन पातजीवस्य शिशोः किं यात मूढताम् ॥ १३.६३९ ॥
वनं व्रजत वैराग्यात्तपः कुरुत वा महत् ।
वियोगसारे संसारे सत्यान्नान्यत्परायणम् ॥ १३.६४० ॥
अन्येन वर्त्मना पुत्रः पिता चान्येन गच्छति ।
स्वकर्मभिः परे लोके त्यजत स्नेहविक्रियाम् ॥ १३.६४१ ॥
यान्त्येव वृद्धास्तरुणा बाला गर्भगतास्तथा ।
क्रियते किं विचारोऽस्ति न कालस्य प्रमाथिनः ॥ १३.६४२ ॥
बन्धूनामिदमानृण्यं स्थितिज्ञानं प्रचक्षते ।
मृतः प्रलापं बाष्पं च न शृणोति न पश्यति ॥ १३.६४३ ॥
वत्सराणां सहस्रं मे साग्रं जातस्य वर्तते ।
निर्गतासुर्मया दृष्टः प्रलापैर्नोत्थितः क्वचित् ॥ १३.६४४ ॥
इत्युक्त्वा विरते गृध्रे गोमायुः पुनरब्रवीत् ।
दयां कुरुत कान्तेऽस्मिन्बाले कमललोचने ॥ १३.६४५ ॥
शम्बुकस्य वधात्पूर्वं मृतोऽपि ब्राह्मणात्मजः ।
दशकण्ठद्विषो राज्ये जीवितं प्राप दुर्लभम् ॥ १३.६४६ ॥
कराभ्यां शिशुनानेन वितीर्णं सलिलाञ्जलिम् ।
कदाचित्पास्यति पिता सुकृती परलोकगः ॥ १३.६४७ ॥
भाषिते जम्बुकेनेति गृध्रः पुनरुवाच तान् ।
सन्तः शोकामये नॄणां न प्रशंसन्ति भेषजम् ॥ १३.६४८ ॥
दिनान्ते दारुणतरा भवत्येषा श्मशानभूः ।
कङ्कालमालाकलितैर्भूतवेतालमण्डलैः ॥ १३.६४९ ॥
क्षणेन हि न गीर्यन्ते सहस्राणि भवादृशाम् ।
मा कुरुध्वं प्रयासेऽस्मिन्व्यसने कलहे मतिम् ।
वपुषां जीवितानां च गतानामगमः कुतः ॥ १३.६५० ॥
इति गृध्रस्य वचसा निवृत्तान्वीक्ष्य बान्धवान् ।
उवाचाभ्येत्य गोमायुः पुनः स्वार्थैकपण्डितः ॥ १३.६५१ ॥
अबान्धवेऽस्मिन्नधुना न संसारे मतिर्मम ।
गच्छन्ति काष्ठवत्त्यक्त्वा पुत्रकं यत्र मानुषाः ॥ १३.६५२ ॥
वृद्धः प्रयात्यात्मभयाद्विजने त्यज्यते शिशुः ।
कोऽस्मिन्प्रत्ययमाधत्तां जनः स्वार्थपरे जने ॥ १३.६५३ ॥
इत्यूचतुस्तौ भक्ष्यार्थं क्षुत्क्षामौ गृध्रजम्बुकौ ।
दिवा गृध्रस्य भोज्यं यद्रात्रौ गोमायुकस्य तत् ॥ १३.६५४ ॥
अत्रान्तरे समभ्येत्य भगवानम्बिकासुतः ।
स्वेच्छाविहारी वरदस्तं बालकमजीवयत् ॥ १३.६५५ ॥
शतायुषं स्कन्दवरात्ते ययुः प्राप्य तं सुतम् ।
प्रापतुश्चेश्वरदृशा कुशलं गृध्रजम्बुकौ ॥ १३.६५६ ॥
इत्यनिर्वेदशीलानां धीमतां व्यवसायिनाम् ।
अभीप्सितानि सहसा सिध्यन्तीश्वरशासनात् ॥ १३.६५७ ॥
- गृध्रगोमायुसंवादः ॥ ३९ ॥ *****
न कुर्याद्बलिना वैरं दुर्बलो दर्पमाश्रितः ।
विनष्टः स्पर्धया वायोर्महाञ्शल्मलिपादपः ॥ १३.६५८ ॥
विस्तीर्णशाखाविपुलः संतप्ताध्वन्यसंश्रयः ।
बभूव हिमवत्प्रस्थे शल्मलिश्चुम्बिताम्बरः ॥ १३.६५९ ॥
पप्रच्छ नारदः प्रीत्या तं यदृच्छागतो मुनिः ।
अहो नु तव नीरन्ध्राः पत्त्रपुष्पफलश्रियः ॥ १३.६६० ॥
मन्ये तव परं मित्त्रं वायुर्येनासि रक्ष्यसे ।
तरवस्तद्बलाक्रान्ता विशीर्यन्ते पतन्ति च ॥ १३.६६१ ॥
श्रुत्वैतदूचे दर्पान्धः शल्मलिः स्कन्दबन्धुरः ।
चित्त्रं मुने न जानीषे बले तुल्यो न मेऽनिलः ॥ १३.६६२ ॥
कत्थनेनेत्यभिहिते बहुशस्तेन शाखिना ।
तदेव नारदो गत्वा पवनाय न्यवेदयत् ॥ १३.६६३ ॥
तद्गिरा क्रोधविधुरः स्फारः प्रलयमारुतः ।
श्वो द्रष्टासीति तं वृक्षं समभ्येत्य तदाब्रवीत् ॥ १३.६६४ ॥
रजन्यामथ संत्रासात्स संचिन्त्यैव शल्मलिः ।
प्रभञ्जनं महावेगं धीमान्खयमशीर्यत ॥ १३.६६५ ॥
ततः प्रातः शकलिताशेषशाखासमाकुलम् ।
अपश्यद्वायुरभ्येत्य विशीर्णं शल्मलिं स्वयम् ॥ १३.६६६ ॥
अहो नु धन्यमन्त्रोऽसि बुद्ध्या त्वं रक्षितस्तरो ।
इत्युक्त्वा विगतक्रोधो वायुः प्रायाद्यथागतम् ॥ १३.६६७ ॥
- नारदशल्मलिसंवादः ॥ ४० ॥ *****
लोभे एव महत्पापं ज्ञानमेव परं महः ।
दम एव परा शान्तिस्तप एव परं पदम् ॥ १३.६६८ ॥
सत्यमेव परं पुण्यं श्रेयः क्रोधाभिनिग्रहः ।
आनृशंस्यं परो धर्मः सारोऽयं धर्मवादिनाम् ॥ १३.६६९ ॥
- अध्यायः ॥ ४१ ॥ *****
श्रुतिस्मृतिकृतैस्तैस्तैः प्रायश्चित्तैः शरीरिणाम् ।
कीर्तनात्तीर्थसेवाभिः पापं दानैश्च नश्यति ॥ १३.६७० ॥
ब्रह्महा द्वादश समाः कपालाङ्को व्रतं चरेत् ।
संमुखः खड्गलितो भ्रूणहा मुच्यते युधि ॥ १३.६७१ ॥
ब्राह्मणार्थे हताः पापं तरन्ति गुरुतल्पगाः ।
मुच्यन्ते सर्वपापेभ्यो हयमेधेन भूमिपाः ॥ १३.६७२ ॥
- प्रायाश्चित्तविधिः ॥ ४२ ॥ *****
धर्मात्मजोपदेशेषु नकुलेन कथान्तरे ।
अथ पृष्टोऽब्रवीद्भीष्मः करवालस्य संभवम् ॥ १३.६७३ ॥
असुराभिहते काले हिमवच्छिखरे पुरा ।
स्वयंभूर्भगवान्खङ्गो धात्रा ध्यातः समाययौ ॥ १३.६७४ ॥
प्रांशुर्नीलोत्पलश्यामो भुवनानि विलोकयन् ।
स बभूव त्रिनेत्रस्य ब्रह्मवाक्यात्कराग्रगः ॥ १३.६७५ ॥
तेन निष्कण्टकं कृत्वा रुद्रो रौद्रेण कतेजसा ।
जगच्छिवाकृतिः पश्चाद्बभूव शशिभूषणः ॥ १३.६७६ ॥
तं खड्गं लेभिरे भूपा मनुप्रभृतयः क्रमात् ।
यस्य धारानिपातेन पुनर्जन्म न देहिनाम् ॥ १३.६७७ ॥
- खड्गोत्पत्तिः ॥ ४३ ॥ *****
श्रुत्वेति मन्दिरं पार्थो गत्वा भीष्मगिरः स्मरन् ।
विदुरेण कथाश्चक्रे धर्मसर्वस्ववादिना ॥ १३.६७८ ॥
तेषां विदुरषष्ठानां बभूवुर्विविधाः कथाः ।
शुद्धप्रवृत्तधर्माणां धर्मकामार्थसंश्रयाः ॥ १३.६७९ ॥
- षड्गीताः ॥ ४४ ॥ *****
समभ्येत्याथ पप्रच्छ पुनर्भीष्मं युधिष्ठिरः ।
सौहार्दं केन न चलेदिति पृष्टोऽब्रवीच्च सः ॥ १३.६८० ॥
कृतज्ञैः साधुभिः सभ्यैः कुलीनैरनपायिभिः ।
सतां न नश्यति प्रीतिर्गुणादानैकतत्परैः ॥ १३.६८१ ॥
मित्रद्रुहः कृतघ्नांश्च वर्जयेत्कुटिलाशयान् ।
कृतघ्नतासमं राजन्न हि पश्यामि पातकम् ॥ १३.६८२ ॥
दर्पवान्मलिनाचारो वेदाध्यापनवर्जितः ।
मध्यदेश्योऽसिततनुः शीलाचारपराङ्मुखः ॥ १३.६८३ ॥
गौतमो नाम कलुषो ब्रह्मबन्धुरभूत्पुरा ।
स वसञ्शबरीसक्तः पर्यन्तेषु धनार्थिताम् ।
बिभ्रद्भ्रान्त्वा वसुमतीं सार्थभ्रष्टोऽविशद्वनम् ॥ १३.६८४ ॥
तस्मिन्स्निग्धतरुच्छाये प्रसन्नहरिकुञ्जरे ।
न्यग्रोधपादपस्याग्रे छायार्थी समुपाविशत् ॥ १३.६८५ ॥
नाडीजङ्घाभिधस्तूर्णं बकः सुगतसद्व्रतः ।
विलोक्य तं कृपाविष्टो दुर्गतं विनतोऽब्रवीत् ॥ १३.६८६ ॥
ब्रह्मन्दारिद्र्यमुन्निद्रं तवैतत्प्रदहाम्यहम् ।
सुहृदं मे विरूपाक्षं राक्षसेन्द्रमितो व्रज ॥ १३.६८७ ॥
कार्तिक्यां स हि दातॄणां धुर्यो दास्यति ते धनम् ।
मदीयमिति तच्छ्रुत्वा स गत्वा करुणाकुलात् ॥ १३.६८८ ॥
तस्मात्कनकमासाद्य बहुलं तूर्णमागतः ।
बकं विलोक्य तत्रैव धनतुष्टो व्यचिन्तयत् ॥ १३.६८९ ॥
न ह्येतद्भक्ष्यते हेम वने विगतविक्रिये ।
सांप्रतं बकमेवाद्य पातयामि सुपीवरम् ॥ १३.६९० ॥
इति संचिन्त्य सुचिरं पाथेयार्थी द्विजाधमः ।
हेमभारनतः सुप्तं जघान सरलाशयम् ॥ १३.६९१ ॥
अदर्शनेन तस्याथ खिन्नो राक्षसभूपतिः ।
शङ्काकुलश्चारचक्रं विसृज्य प्राप तं द्विजम् ॥ १३.६९२ ॥
हतं तेन बकं ज्ञात्वा निजग्राह तमुत्कटम् ।
आकाशधुनिफेनैश्च जीवितं प्राप खेचरः ॥ १३.६९३ ॥
अपराधहतं दृष्ट्वा नाडीजङ्घोऽपि गौतमम् ।
अजीवयद्दुराचारं न मन्युरधमे सताम् ॥ १३.६९४ ॥
एवं कृघ्नचरितो गौतमः सुगतव्रतम् ।
जघान पापे पापानां निःशङ्कं रमते मनः ॥ १३.६९५ ॥
न्यासापहारिणो धेनुस्त्रीगुरुब्राह्मणान्तकाः ।
धर्मिष्ठा इव यस्याग्रे स कृतघ्नो विचार्यताम् ॥ १३.६९६ ॥
- आपद्धर्माः ॥ ४५ ॥ *****
अथ पप्राच्छ धर्मज्ञं धर्मराजः पितामहम् ।
कथं समाश्रयेद्धर्मं विनष्टधनबान्धवः ॥ १३.६९७ ॥
स तेन पृष्टः प्रोवाच शृणु सेनजितं नृपम् ।
पुत्रशोकाकुलं कश्चिज्ज्ञात्वाभ्येत्यावदद्द्विजः ॥ १३.६९८ ॥
अभावायैव जायन्ते भवेऽस्मिन्सर्वजन्तवः ।
शोच्यस्त्वमपि कालेन कथं शोचसि पार्थिव ॥ १३.६९९ ॥
यदृच्छया संगतश्चेत्प्रतियातो यदृच्छया ।
संसाराध्वनि तत्कोऽयं वियोगे मोहविभ्रमः ॥ १३.७०० ॥
जायते क्षणदृष्टेषु स्नेहो दुःखाय देहिनाम् ।
ममायमिति मुग्धानां न स तेषां न तस्य ते ॥ १३.७०१ ॥
शोचन्त्यलुब्धं वाञ्छन्तः प्राप्तं शोचन्ति दुर्भगम् ।
नष्टं शोचन्ति दुःखार्ता जन्तवः सुखिनः कदा ॥ १३.७०२ ॥
धनपुत्रकलत्रेषु न स्निह्यन्ति विपश्चितः ।
अवश्यं विप्रयोगो हि तैः परैश्च नृणां सदा ॥ १३.७०३ ॥
को नाम प्रियसंयोगान्न मन्येतामृतोपमान् ।
मर्मच्छिदो वियोगेषु यदि न स्युर्विषोत्कटाः ॥ १३.७०४ ॥
पिङ्गला दत्तसंकेतं कान्तं वाराङ्गना पुरा ।
अनागतं चिरं ध्यात्वा स्वयमेकाब्रवीन्निशि ॥ १३.७०५ ॥
आगतेनापि किं तेन वियोगे दुःखदायिना ।
भजे कान्तमिहान्तस्थामनश्वरमशोचकम् ॥ १३.७०६ ॥
इति संतोषपीयूषशान्ता शापापवेदना ।
प्रतिबुद्ध्वैव सुष्वाप परमे धाम्नि पिङ्गला ॥ १३.७०७ ॥
- सेनजिद्गीताः ॥ ४६ ॥ *****
अस्मिन्प्रवाहवद्याति नृणामायुषि किं सुखम् ।
पृष्टो युधिष्ठिरेणेति पुनरूचे पितामहः ॥ १३.७०८ ॥
मेधाविना पुरा पृष्टः पुत्रेणैतद्द्विजः पिता ।
उवाचाध्ययनं कृत्वा ब्रह्मचारी ततो गृही ॥ १३.७०९ ॥
पुत्रैः पितॄणामनुणो भूत्वा पीत्वानिलान्वने ।
मुनिस्तुल्यसुहृद्द्वेष्यः प्रयाति परमं पदम् ॥ १३.७१० ॥
तच्छ्रुत्वोवाच तनयः सर्वमेतदनिन्दितम् ।
श्लाघ्याय श्रेयसे कर्म यदि कालः प्रतीक्षते ॥ १३.७११ ॥
असमाप्तस्वकार्याणामायुः स्वल्पममुद्रितम् ।
अहोरात्रगणैरेव स्रवयेतदलक्षितम् ॥ १३.७१२ ॥
मुहूर्तमपि जन्तूनां कालोऽयं कलिताखिलः ।
सार्थः सुदूरगामीव नार्थितोऽपि विलम्बते ॥ १३.७१३ ॥
क्षणार्धमपि कार्येषु न विलम्बेत पण्डितः ।
न जानीमः कदा कस्मिन्कृतान्तो निपतिष्यति ॥ १३.७१४ ॥
न वात्सल्यान्न कारुण्यान्नोपयोगान्न गौरवात् ।
प्रतीक्षां क्षमते कालः कार्यशेषेषु देहिनाम् ॥ १३.७१५ ॥
मृत्युना यस्य सौहार्दं यो न वेत्त्यायुषोऽवधिम् ।
श्वः कर्तास्मीदमित्येषा वाणी तस्यैव शोभते ॥ १३.७१६ ॥
अहो नु मोहमुग्धस्य लोकस्येयं प्रमादिता ।
यद्बालं मृतमालोक्य वृद्धस्तिष्ठति निर्भयः ॥ १३.७१७ ॥
नवे वयसि भोगार्हे नवेषु विभवेषु च ।
नवोढेषु च दारेषु ह्रियते मृत्युना जनः ॥ १३.७१८ ॥
तस्मात्कुशलमेवादौ कार्यं संसारशान्तये ।
तरत्तरङ्गलोलो हि देहिदेहसमागमः ॥ १३.७१९ ॥
- पितापुत्रसंवादः ॥ ४७ ॥ *****
धनिनां निर्धनानां च विभागं सुखदुःखयोः ।
पृष्टोऽथ धर्मराजेन पुनः शान्तनवोऽब्रवीत् ॥ १३.७२० ॥
शम्पाको नामवान्विप्रः पुरा धीमानभाषत ।
वितृष्णयातिपीड्यन्ते संतोषोऽमृतनिर्झरः ॥ १३.७२१ ॥
भयानभिज्ञो निश्चिन्तो निद्रावान्रोगवर्जितः ।
निर्धनः सुखितो नित्यं यथावाप्तकृतक्रियः ॥ १३.७२२ ॥
सुखमास्ते सुखं शेते सुखं च प्रतिबुध्यते ।
संतोषवान्निरायासो निरपायो निरामयः ॥ १३.७२३ ॥
धनिनो दर्पपूर्णस्य भ्रूभङ्गाद्वक्रदर्शिनः ।
कुम्भीन्यस्तधनत्राणचिन्तापाण्डुकृशत्विषः ॥ १३.७२४ ॥
चौरो भूपालभीतस्य वृद्ध्यार्थं पापकारिणः ।
अजीर्णरोगग्रस्तस्य ष्ठीविनो भोज्यकाङ्क्षिणः ॥ १३.७२५ ॥
लोभशुष्ककलत्रस्य दुःखैकफलभागिनः ।
स्पर्धाकथैव का नित्यमाकिंचन्यामृताशिभिः ॥ १३.७२६ ॥
मन्यते तावदात्मानं शक्रवैश्रवणोपमम् ।
गृह्यते धनवान्यावन्न दस्युनृपमन्युभिः ॥ १३.७२७ ॥
धनं गमयतां भूरि गृहांश्च सुपरिच्छदान् ।
निर्धनाद्धनिनामेव कृच्छ्राद्दुःखविषूचिका ॥ १३.७२८ ॥
- शम्पाकगीताः ॥ ४८ ॥ *****
याते वैफल्यमारम्भे किं कुर्याद्द्रविणोत्सुकः ।
एतत्पृष्टः क्षितिभुजा ध्यात्वा शान्तनवोऽवदत् ।
श्रूयतां यद्विनष्टार्थसमये दुःखभेषजम् ॥ १३.७२९ ॥
मङ्किर्नाम द्विजः पूर्वमीहमानोऽसकृद्धनम् ।
प्रयत्नैरपि न प्राप विधिवैमुख्यहेलाय ॥ १३.७३० ॥
क्षीणार्थः सोर्ऽथशेषेण क्रीत्वा चाथ वृषद्वयम् ।
स्वयमुत्कर्षणं चक्रे क्षेत्रे विपुलवाहकः ॥ १३.७३१ ॥
अत्रान्तरे पृथुग्रीवो निद्राभङ्गात्समुत्थितः ।
जहारोष्ट्रो महाकायस्तौ वृषौ स्कन्धलम्बिनौ ॥ १३.७३२ ॥
युगोत्क्षेपाल्लम्ब्यमानौ तौ तेन बलशालिना ।
वृषौ विलोक्य शोकार्तो विललाप द्विजात्मजः ॥ १३.७३३ ॥
अहो नु चित्रवर्णाङ्कौ मम वत्सतरौ प्रियौ ।
कर्षन्विभाति करभो रत्नाढ्याविव भूषणौ ॥ १३.७३४ ॥
इत्युक्त्वा जातनिर्वेदगाढवैराग्यवासनः ।
तृष्णां निनिन्द सहसा प्रशान्तानुशयज्वरः ॥ १३.७३५ ॥
दुःखाय बत जन्तूनां तृष्णा परिभवास्पदम् ।
विप्रलब्धो जनः सर्वो यया शोचत्यहर्निशम् ॥ १३.७३६ ॥
अलब्धं वाञ्छतां वित्तं लब्धं च परिरक्षताम् ।
नष्टं च शोचतां पुंसां कदा दुःखं निवर्तते ॥ १३.७३७ ॥
कामोर्ऽथेषु विपन्मूलं संतोषः परमं सुखम् ।
निष्कामश्च सकामश्च मतौ मे स्वस्थरोगिणौ ॥ १३.७३८ ॥
सधनश्चिन्त्यते राज्ञा दस्युना स्वजनेन च ।
विकलश्चेति लोकेन निर्धनश्च न गण्यते ॥ १३.७३९ ॥
तस्मात्संत्यक्तकामानां संतोषधनशालिनाम् ।
क्षयोदयव्ययायासैर्न चेतः परिभूयते ॥ १३.७४० ॥
इदं लब्धमिदं नष्टमिदं लप्स्ये पुनर्धिया ।
इदं चिन्तयतामेव जीर्णमायुः शरीरिणाम् ॥ १३.७४१ ॥
अधुना लोभमुन्मूल्य स्पृहां दूरे निरस्य च ।
वीतमोहो भवाम्येष मुनिस्तुल्यप्रियाप्रियः ॥ १३.७४२ ॥
त्यागो हि हन्ति व्यसनं तथा हि जनकः पुरा ।
दह्यमानेऽपि नगरे नाभजद्दुःखविक्रियाम् ॥ १३.७४३ ॥
इति ध्यात्वा चिरं मङ्किर्निर्वेदाच्छान्तमानसः ।
आशापाशं परित्यज्य परं पदमवाप्तवान् ॥ १३.७४४ ॥
- मङ्किगीताः ॥ ४९ ॥ *****
एतद्धर्मसुतः श्रुत्वा पुनः शन्तनुनन्दनम् ।
समभ्यधात्कथं जन्तुर्वीतशोकश्चरेदिति ॥ १३.७४५ ॥
सोऽब्रवीच्छृणु भूपाल प्रह्लादो दानवाधिपः ।
नित्यानन्दं पुरा विप्रमूचे स्वच्छन्दचारिणाम् ॥ १३.७४६ ॥
सुखदुःखशतावर्ते विपुलेऽस्मिन्धनार्णवे ।
अविलुप्तः कथं ब्रह्मन्नित्यतुष्टोऽभिलक्ष्यसे ॥ १३.७४७ ॥
केयं श्लाध्यतरा वृत्तिः को वायं विभवो धियः ।
क्रीडाविहारी लोकेऽस्मिन्यदसक्तो न लिप्यसे ॥ १३.७४८ ॥
इति पृष्टो द्विजस्तेन बभाषे विपुलाशयः ।
तटस्थः सर्वभावेषु नित्यतृप्तश्चराम्यहम् ॥ १३.७४९ ॥
मायाविलसितं सर्वं जानन्संसारविभ्रमम् ।
क्षयोदयेषु भूतानां न दुःखं न सुखं भजे ॥ १३.७५० ॥
आयुषां विभवानां च भावानां च स्वभावतः ।
पश्यन्नसारतामेतान्नानुशोचामि निर्व्यथः ॥ १३.७५१ ॥
भुञ्जानो विविधान्भोगान्निराहारोऽथवा क्वचित् ।
नग्नश्चीराम्बरो वापि महार्हवसनोऽपि वा ॥ १३.७५२ ॥
भुजोपधानः क्ष्माशायी पर्यङ्कशयनोऽपि वा ।
समः शमदमाभ्यां च धराम्याजगरं व्रतम् ॥ १३.७५३ ॥
परावरज्ञो भावानां कूटस्थो विगतस्पृहः ।
त्यक्तमोहभयद्वेषश्चराम्याजगरं व्रतम् ॥ १३.७५४ ॥
पाप्तं गिरत्यजगरः कुरङ्गं महिषं गजम् ।
असंप्राप्तेष्वनुद्वेगं विधत्ते निश्चलस्थितिः ॥ १३.७५५ ॥
एतामाजगरीं वृत्तिमाश्रित्य विमलाशयः ।
न चिन्तयामि सत्त्वस्थो लाभालाभौ सुखासुखे ॥ १३.७५६ ॥
ब्राह्मणेनेति कथितं श्रुत्वा विस्मितमानसः ।
जीवन्मुक्तदशां तस्य प्रह्लादः प्रशशंस ताम् ॥ १३.७५७ ॥
- प्रह्लादब्राह्मणसंवादः ॥ ५० ॥ *****
एतत्पाण्डुसुतः श्रुत्वा पुनर्भीष्ममभाषत ।
कुलकर्मार्थबुद्धीनां पितामह किमुत्तमम् ॥ १३.७५८ ॥
इति पृष्टो नृपतिना बभाषे जाह्नवीसुतः ।
अतिक्रम्य गुणान्सर्वान्प्रज्ञैवोपरि वर्तते ॥ १३.७५९ ॥
वैश्यौ धनमदाध्मातः स्यन्दनेन पुरा व्रजन् ।
अपातयत्कृशतरं मुनिं वर्त्मनि कश्यपम् ॥ १३.७६० ॥
ललत्कुण्डलगण्डेन स तेन भुवि पातितः ।
शोचन्दरिद्रमात्मानं निश्चयं निधने व्यधात् ॥ १३.७६१ ॥
तं पांसुशायिनं दीनं प्राणत्यागकृतव्रतम् ।
शक्रः शृगालरूपेण कृपया वक्तुमाययौ ॥ १३.७६२ ॥
सोऽवदद्बत संतोषः संसारे नास्ति कस्यचित् ।
मुने यदुज्ज्वलाचारो नात्मानं बहु मन्यसे ॥ १३.७६३ ॥
धन्या मनुष्याः संसारे यैः स्वहस्तेन भुज्यते ।
कण्डूर्निवार्यते कीटकण्टकादिर्विकृष्यते ॥ १३.७६४ ॥
अहो सुकृतिनां राजा त्वं यन्मानुषयोनिजः ।
ब्राह्मणश्च तपस्वी च स्पृहणीयोऽसि कश्यप ॥ १३.७६५ ॥
अहो धन्योऽसि यन्नास्वुर्न मण्डूको न कुक्कुटः ।
न पुक्कसो न चाण्डालो न कुष्टी न जडोऽसि वा ॥ १३.७६६ ॥
दृश्यन्ते दीर्घरोगार्ता दुःखाद्दुःखतरं श्रिताः ।
शोचन्तस्तामसीं योनीं प्रपन्नास्तान्विलोकय ॥ १३.७६७ ॥
मनुष्यः परिपूर्णाङ्गो व्याधिव्यसनवर्जितः ।
ब्राह्मणश्च त्वमुदितस्त्वत्तो धन्यतरोऽस्ति कः ॥ १३.७६८ ॥
असंतोषे मतिं मोहान्मा कृथा विभवाशया ।
प्राप्येन्द्रतामपि जनस्ततोऽप्याधिक्यमीहते ॥ १३.७६९ ॥
तृष्णेयं सतताभ्यासाद्वर्धमाना शरीरिणाम् ।
अन्त्रस्नायुमयी तन्त्री कृष्टेवायाति दीर्घताम् ॥ १३.७७० ॥
तस्मात्स्वधर्मनिरतः स्पृहणीयः कुलोद्गतः ।
परस्य विभवं दृष्ट्वा न कामान्मर्तुमर्हसि ॥ १३.७७१ ॥
अहं कुतार्किको भूत्वा धूमाग्निप्रायवादभृत् ।
वेदद्वेषी नास्तिकश्च पापयोनिमिमां श्रितः ॥ १३.७७२ ॥
अस्मिञ्शरीरे बहुशो निर्विण्णोऽपि भयादहम् ।
न त्यजामि तनुं पाप योनयः सन्त्यतोऽधिकाः ॥ १३.७७३ ॥
इति बुद्ध्या सुरपतिर्वीतशोकं विधाय तम् ।
रूपं च दर्शयित्वास्मै प्रययौ त्रिदशालयम् ॥ १३.७७४ ॥
- इन्द्रकश्यपसंवादः ॥ ५१ ॥ *****
श्रुत्वैतदूचे कौन्तेयः केन सृष्टमिदं जगत् ।
जीवश्च कीदृशो देहे स च यातः क्व तिष्ठति ॥ १३.७७५ ॥
भीष्मोऽब्रवीदेतदेव पुरा कैलासशेखरे ।
भारद्वाजेन मुनिना पृष्टो भृगुरभाषत ॥ १३.७७६ ॥
पृथिवीपद्मसंस्थस्य मानसस्य प्रजापतेः ।
आकाशः पूर्वसर्गोऽयं विष्णोर्व्यक्ताकृतिस्पृशः ।
वृक्षाणां मानुषाणां च समानं पाञ्चभौतिकम् ॥ १३.७७७ ॥
तेनैवास्मिन्महासर्गे चित्राश्च व्यक्तयः कृताः ।
प्राणापानादिरूपेण वायुना सहितोऽनलः ॥ १३.७७८ ॥
उत्तरे हिमवत्पार्श्वे फलभूमिर्निरामया ।
तां पुण्यकारिणो यान्ति विपरीता विपर्ययम् ॥ १३.७७९ ॥
इहापि लोके दृश्येते सुखहर्षधनादिभिः ।
दारिद्र्यक्लेशदुःखैश्च जन्तूनां शुभदुष्कृते ॥ १३.७८० ॥
- भृगुभरद्वाजसंवादः ॥ ५२ ॥ *****
अथाब्रवीत्सदाचारो राज्ञा पृष्टः पितामहः ।
प्रातः प्रबुद्धो विजने मलं त्यक्त्वा शुचिः सदा ॥ १३.७८१ ॥
देवपूजारतो होता दाता मोनी च भोजने ।
ऋतुकालाभिगामी च ज्येष्ठानां प्रणतः क्षमी ।
यो नरः स सदाचारः प्राप्नोति पदमुत्तमम् ॥ १३.७८२ ॥
- आचारविधिः ॥ ५३ ॥ *****
पुनः क्षितिभुजा पृष्टः किमध्यात्मेति सर्ववित् ।
ऊचे शान्तनवस्तत्त्वं ध्यात्वा हृदि सनातनम् ॥ १३.७८३ ॥
क्षेत्रज्ञस्त्रिगुणः क्षेत्रे रश्मिवत्प्रसृतेन्द्रियः ।
असक्तः सक्तवद्भाति च्छन्नो व्यवहितैरपि ॥ १३.७८४ ॥
निवातदीपनिष्कम्पमानसः शान्तधीः समः ।
अयत्नात्तेन्द्रियो मौनी स्थाणुभूतस्तमीक्षते ॥ १३.७८५ ॥
ब्राह्यवृत्तिनिरोधेन मनसो नियमेन च ।
रागशोकभयद्वेषत्यागात्सद्भिः स दृश्यते ॥ १३.७८६ ॥
तडित्तरङ्गतरलं चरत्यारतचञ्चलम् ।
चित्तं वातवदुद्भ्रान्तं भवत्येवासमर्थिनाम् ॥ १३.७८७ ॥
अभ्यासेन समीभूते निस्तरङ्ग इवोदधौ ।
चेतस्यचलतां याते प्रशान्ताशेषविप्लवे ॥ १३.७८८ ॥
प्रकाशतमसोः पारे पुरुषं शाश्वतं शिवम् ।
ध्यानेनात्यन्तसुखदं परं पश्यन्ति योगिनः ॥ १३.७८९ ॥
- अध्यात्मसंकीर्तनम् ॥ ५४ ॥ *****
एतदाकर्ण्य कौन्तेयः पितामहमभाषत ।
पातकानां फलावाप्तिः कीदृशी गतयश्च काः ॥ १३.७९० ॥
इति पृष्टः क्षितिभुजा गाङ्गेयः पुनरब्रवीत् ।
अभिध्यासदृशी पुंसां फलावाप्तिरपायिनी ॥ १३.७९१ ॥
अहंकारप्रवृत्तानां भौगैश्वर्यसुखार्थिनाम् ।
निरयेष्वेव निलयः कामिनां कामसंनिभः ॥ १३.७९२ ॥
पारिजातलतालोला मन्दारोदारसौरभाः ।
हेमाब्जसरसी रम्या नाकनायकसेविताः ॥ १३.७९३ ॥
वेल्लद्विमानसुलभास्तास्तास्त्रिदशभूमयः ।
नियतावधयः सर्वा निरयः संप्रचक्षते ॥ १३.७९४ ॥
अनादिनिधनं धाम गुणत्रयविवर्जितम् ।
अस्पृष्टं कालकलया निष्कामेनैव लभ्यते ॥ १३.७९५ ॥
प्रयतः संहिताजापी कामरागोञ्झितः पुरा ।
उवास ब्राह्मणः कश्चित्पादे तुहिनभूभृतः ॥ १३.७९६ ॥
तस्य पर्षसहस्रान्ते दिव्यज्ञानस्य जापिनः ।
जपवृद्धिं ददौ तुष्टा सावित्री स्वयमागता ॥ १३.७९७ ॥
अथ कालेन भगवान्धर्मोऽभ्येत्य तमब्रवीत् ।
त्यक्त्वा शरीरमागच्छ दिव्यं दिव्यवपुः पदम् ॥ १३.७९८ ॥
तच्छ्रुत्वा सोऽवदन्नैतां त्यजेऽहं सहजां तनुम् ।
स्वर्गस्पृहा न मे काचिद्द्यौर्मही च समे मम ॥ १३.७९९ ॥
न वाञ्छा न च मे द्वेषः स्वर्गेऽप्यस्त्यवशं मया ।
सर्वथा यदि गन्तव्यं तत्सदेहेन नान्यथा ॥ १३.८०० ॥
इत्युक्ते तेन भगवान्यमो मृत्युश्च तां भुवम् ।
कालश्चाभ्येत्य जगदुर्विप्रं धर्मो यदुक्तवान् ॥ १३.८०१ ॥
अस्मिन्नवसरे श्रीमानिक्ष्वाकुः पृथिवीपतिः ।
तीर्थयात्राप्रसङ्गेन तमाश्रममुपाययौ ॥ १३.८०२ ॥
स तं जापकमभ्येत्य बभाषे तेजसां निधिम् ।
गृहण मे धनं विप्र पात्रं त्वत्सदृशोऽस्ति कः ॥ १३.८०३ ॥
तच्छ्रुत्वा जापकोऽवादीन्निवृत्तोऽहं महीपते ।
प्रवृत्तधर्मनिरता विप्राः पात्रं प्रतिग्रहे ॥ १३.८०४ ॥
समीहितमहं तुभ्यं ददान्येवाविलम्बितम् ।
ब्राह्मणेनेति कथिते जगाद पृथिवीपतिः ॥ १३.८०५ ॥
जपस्यास्य फलं देहि यत्त्वया समुपार्जितम् ।
इत्युक्तो भूभुजा विप्रो गृहाणेति तमभ्यधात् ॥ १३.८०६ ॥
राजावदद्वचोयुद्धैरजेयः सत्त्ववान्भवान् ।
न ममैतज्जपफलं त्वद्दत्तमुपयुज्यते ॥ १३.८०७ ॥
इति ब्रुवाणो विप्रोणाभ्यर्थितोऽपि सकृन्नृपः ।
न तज्जग्राह दाताहं भूभृदित्यभिमानवान् ॥ १३.८०८ ॥
अत्रान्तरे तमभ्येत्य कामक्रोधौ विवादिनौ ।
विरूपौ विकृताकारौ न्यायं पप्रच्छतुर्मुदा ॥ १३.८०९ ॥
एकोऽवदद्धेनुफलं देयमस्मै ददाम्यहम् ।
दत्तं मया पुनर्ग्राह्यं नेत्युवाच तथा परः ॥ १३.८१० ॥
राजा विचार्य सुचिरं तयोर्विवदमानयोः ।
उवाच दीयमानं यो न गृह्णासि जितोऽथ सः ॥ १३.८११ ॥
अथाब्रवीन्नृपं विप्रस्त्वं न गृह्णासि किं मम ।
परोपदेशेष्वथवा सर्वो भवति पण्डितः ॥ १३.८१२ ॥
जापकेनेति गदिते कामक्रोधौ विलोक्य तौ ।
सह भोक्तव्यमित्युक्त्वा जग्राह नृपतिः फलम् ॥ १३.८१३ ॥
ततः स्वर्गे स विबुधे प्राप्ते स ब्रह्मणि स्वयम् ।
विवेश जापकस्त्यागसमाधिं भूभुजा सह ॥ १३.८१४ ॥
प्राणे मनः समावेश्य पश्यन्नासापुटद्वयम् ।
आपूर्य व्योम षट्कोशं प्रकाशेनान्तरं नभः ॥ १३.८१५ ॥
भ्रूमध्यनिहितज्योतिरुद्धाट्य ब्रह्मसंपुटचम् ।
क्षिप्रमुत्क्रान्तसूर्योऽभूदतिसूर्यानलद्युतिः ॥ १३.८१६ ॥
तालुरन्ध्रसमुत्थं तत्तेजो द्विजमहीभुजोः ।
ब्रह्माणमविशत्साक्षात्प्रादेशपुरुषाकृति ॥ १३.८१७ ॥
- जापकोपाख्यानम् ॥ ५५ ॥ *****
ज्ञानयोग्यस्य वेदानां नियमस्य च भूभुजा ।
फलं स्वर्गं च भूतानां भीष्मः पृष्टोऽब्रवीत्पुनः ॥ १३.८१८ ॥
प्रजापतिर्मनुः पूर्वमेतदूचे बृहस्पतिम् ।
सुखदुःखादिकं कर्म हेयोपादेयलक्षणम् ॥ १३.८१९ ॥
सुखमस्त्यसुखं यस्मात्प्रवृत्तिरिति कर्मणः ।
सुखदुःखोज्झितं ज्ञातं कामरागविवर्जितम् ॥ १३.८२० ॥
श्रौतं कर्म सुखायैव विरुद्धमसुखाय च ।
शुद्धाः समाधिनियमैर्भान्ति दानादिकाः क्रियाः ॥ १३.८२१ ॥
नराः कर्मफलैस्तैस्तैस्तत्तदाकारभेदतः ।
सुखदुःखेषु सीदन्ति रागमोहवशीकृताः ॥ १३.८२२ ॥
मायेयं जगदुत्पत्तिस्थितिसंहारकारिणी ।
कृता महाभूतमयी छायेवाकाशदर्शिनी ॥ १३.८२३ ॥
दृष्ट्वा शरीरान्तरगो मोहाद्यैर्न विलोक्यते ।
स्रधूम इव काष्ठान्तः सदा संनिहितोऽनलः ॥ १३.८२४ ॥
हेम्नीव कटकादित्वं काष्ठे वा सालभञ्जिका ।
आत्मन्येवाखिलं भाति सदप्यसदिव स्थितम् ॥ १३.८२५ ॥
ज्ञानेन गृह्यते ज्ञानं गजेनेव वने गजः ।
तदेवास्य गतिं वेत्ति सर्पपादानिवोरगः ॥ १३.८२६ ॥
- मनुबृहस्पतिसंवादः ॥ ५६ ॥ *****
स्वरूपं वैष्णवं पृष्टः पार्थेनाथ पितामहः ।
उवाच ज्ञाननयनैः कथितं नारदादिभिः ॥ १३.८२७ ॥
भगवान्पुण्डरीकाक्षः केशवो नाभिपङ्कजात् ।
सृष्ट्वा चतुर्मुखं चक्रे जगन्निखिलमीश्वरः ॥ १३.८२८ ॥
हत्वा मधुमुखान्दैत्यान्विदधे शाश्वतीं स्थितिम् ।
संकर्षणः सर्वहरः प्रलये याति रुद्रताम् ॥ १३.८२९ ॥
सर्गस्थितिविनाशानामित्येष किल कारणम् ।
मृणालीलीलया येन वराहेणोद्धृता मही ॥ १३.८३० ॥
वासुदेवः परं धाम शाश्वतं ध्रुवमव्ययम् ।
निवृत्तधर्माय गुरुः शिष्यायेति न्यवेदयत् ॥ १३.८३१ ॥
विचित्रमायया विष्णोर्मोहिताः किल जन्तवः ।
रागद्वेषमदग्रस्ताः पुनरायान्ति यान्ति च ॥ १३.८३२ ॥
शुक्रशोणितसंभूता यान्ति संसारिणस्ततः ।
तान्मोहयन्ति ललना विपाकविषमभ्रमाः ॥ १३.८३३ ॥
स्त्रियो हि नाम संसारकारामन्दिरशृङ्खलाः ।
रादद्वेषविषादानां संगतिग्रन्थिरज्जवः ॥ १३.८३४ ॥
स्नेहाद्वा क्षयमायान्ति स्वाङ्गजैः कृमिभिः सुतैः ।
जन्तवः संततिमयाः क्लिन्नचर्मलवा इव ॥ १३.८३५ ॥
यतेन्द्रियेच्छा मुच्यन्ते संसाराद्ब्रह्मचारिणः ।
मूलबीजपरिप्लोषा येषु कामो न जायते ॥ १३.८३६ ॥
संकल्पजं वहन्त्येताः सिराः श्वभ्रं मनोवहाः ।
तच्छ्रुष्यति विरागेण येषां ते परमं गताः ॥ १३.८३७ ॥
तृष्णातन्तुरनाद्यन्तो बिसानामिव देहिनाम् ।
सहजोऽन्तःस्थितो हन्तुं निःशेषं च न शक्यते ॥ १३.८३८ ॥
समैर्युक्तसमाचारैर्विशुद्धगगनप्रभम् ।
हृदि नारायणं दृष्ट्वा शान्तिः शान्तैरवाप्यते ॥ १३.८३९ ॥
- वैष्णवाध्यात्म ॥ ५७ ॥ *****
मोक्षं प्रयातो जनकः कथमित्यथ भूभुजा ।
देवव्रतोऽवदत्पुष्टो मिथिलाधिपतेः कथाम् ॥ १३.८४० ॥
जनकस्याभवत्पूर्वमाचार्यशतसेविनः ।
गुरुः पञ्चशिखो नाम कपिलो ब्रह्मनैष्ठिकः ॥ १३.८४१ ॥
स राजानमुवाचेदमाचार्यशतसंनिधौ ।
स्फुरन्निःसारसंसारविकारपरिहारधीः ॥ १३.८४२ ॥
स गलज्जातिनिर्बन्धः कर्मबद्धोऽप्यवासनः ।
विशरारुसमाहारसर्वग्रहपरिग्रहः ॥ १३.८४३ ॥
अहंकारविकारेषु मूलच्छेदविधायिनाम् ।
अवधानलवादेव भिद्यते भवविभ्रमः ॥ १३.८४४ ॥
मयि सर्वमिदं भाति सर्वत्राहमवस्थितः ।
इत्यसंसारिणामेव सतां वृत्तिर्महीयसी ॥ १३.८४५ ॥
सत्यं संक्षयनिष्ठानां जरामरणधर्मिणाम् ।
क्रमेणेन्द्रियवैकल्याच्छरीरं याति पञ्चधा ॥ १३.८४६ ॥
एते शब्दादयः पञ्च येषु तत्त्वार्थनिश्चयः ।
अव्ययं परमं चक्रं बुद्धिश्चेति परं महत् ॥ १३.८४७ ॥
असम्यग्दर्शिनामेषां दुःखतत्परमन्यथा ।
त्यागा एवं परं तत्त्वं मुक्तानां न्यस्तकर्मणाम् ।
मिथ्याप्रयातचित्तानां फलन्ति हृदयभ्रमाः ॥ १३.८४८ ॥
द्रव्यत्यागः कर्म हन्ति भोगत्यागो व्रतक्रियाम् ।
सुखत्यागस्तपोयोगं सर्वत्यागप्तु शान्तये ॥ १३.८४९ ॥
गुणत्रयविमुक्तोऽसौ क्षेत्रज्ञः शाश्वतोऽव्ययः ।
यैर्दृष्टस्ते न लिप्यन्ते पङ्के शशिकरा इव ॥ १३.८५० ॥
नष्टे फले तोषजुषि क्षीणयोः पुण्यपापयोः ।
अव्यङ्गा गगनाकारा महत्पश्यन्ति सूरयः ॥ १३.८५१ ॥
चरन्मृगः शृङ्गमिव त्वचं वृद्धमिवोरगः ।
पक्षीवोन्मथितं सालं बन्धं मुञ्चति सात्त्विकः ॥ १३.८५२ ॥
इत्याकर्ण्य वचो राजा जनको मिथिलां पुरा ।
दग्धामदग्धां नाज्ञासीत्तृष्णारागविवर्जितः ॥ १३.८५३ ॥
- जनकराजानं प्रति पञ्चशिखाचार्योपदेशः ॥ ५८ ॥ *****
सुखं किमिति पारथेन भीष्मः पृष्टोऽब्रवीत्पुनः ।
इहामुत्र च दान्तानां सुखं संतोषशालिनाम् ॥ १३.८५४ ॥
दमो धृतिर्दमस्तेजो जमः कीर्तिर्दमो रतिः ।
पुंसां दमप्रसक्तानां शत्रुर्नाम न विद्यते ॥ १३.८५५ ॥
- दान्ताध्यायः ॥ ५९ ॥ *****
किं तपो वा न वेत्येतदुपवासादिकं व्रतम् ।
पृष्टः प्रोवाच कौन्तेयं पुनः शन्तनुनन्दनः ॥ १३.८५६ ॥
भुञ्जानोऽप्युपवासी स्याद्युक्ताहारो नरः सदा ।
उपवासो हि मूर्खाणां केवलं प्राणशषणम् ॥ १३.८५७ ॥
सदा रतः स्वदारेषु ब्रह्मचारी भवेन्नरः ।
यज्ञोपयुक्तमांसाशी भवेन्मांसविवर्जकः ॥ १३.८५८ ॥
अतिथिद्विजभृत्यानां शेषमश्नाति यः सदा ।
अमृताशी स विज्ञेयः सुरा नाम्नामृताशिनः ॥ १३.८५९ ॥
- अमृतप्राशिका ॥ ६० ॥ *****
नरः कर्मफले कर्ता किं न वेत्ति क्षमाभुजा ।
भीष्मः पृष्टोऽब्रवीच्छक्रः पुरा प्रह्लादमब्रवीत् ॥ १३.८६० ॥
स्थानाच्च्युतस्त्वं दैत्येन्द्र हतास्ते बान्धवा मया ।
शोकस्थानं कथं स्वस्थो निराकुल इवेक्ष्यसे ॥ १३.८६१ ॥
श्रुत्वेति दैत्यस्तं प्राह शक्र किं कत्थसे वृथा ।
भावाः स्वभावचपलाः पुरुषार्थो निरर्थकः ॥ १३.८६२ ॥
मूर्खो बुद्धिमतां धुर्यः सुरूपो रूपवर्जितः ।
प्रमत्ता नयसंपन्ना यान्त्येते हेतुरत्र कः ॥ १३.८६३ ॥
न हि शोकः सुखभ्रंशे कर्तव्यो वृद्धसेविभिः ।
भवेदभावः सद्भावे भावा भ्रूभङ्गभङ्गुराः ॥ १३.८६४ ॥
इति श्रुत्वा ययौ शक्रस्तत्प्रज्ञानोपदेशतः ।
प्रहृष्टा बुद्धिसाराणामद्वेष्टारो हि साधवः ॥ १३.८६५ ॥
- शक्रप्रह्लादसंवादः ॥ ६१ ॥ *****
अकालवह्निना दग्धे राज्ञामैश्वर्यकानने ।
किं धैर्यमिति पृष्टोऽथ पार्थेनाह पितामहः ॥ १३.८६६ ॥
भ्रष्टराज्येषु दैत्येषु प्राप्तैश्वर्यः शतक्रतुः ।
पप्रच्छ गत्वा ब्रह्माणं नष्टे वैरोचनं पुरा ॥ १३.८६७ ॥
विभवं लोकपालानामभिभूय निजश्रिया ।
यो बभूव जगन्नाथः स बडिः(लिः) क्वाद्य वर्तते ॥ १३.८६८ ॥
इति पृष्टः सुरेन्द्रेण जगाद कमलोद्भवः ।
शून्यागारे खरो भूत्वा भ्रष्टैश्वर्यो बडिः(लिः) स्थितः ॥ १३.८६९ ॥
श्रुत्वैतन्मुदितः शक्रस्तूर्ण तं द्रष्टुमाययौ ।
ऐरावणं समारुह्य कैलासमिव जङ्गमम् ॥ १३.८७० ॥
स गत्वा शून्यनिलये ददर्श खररूपिणम् ।
तुषाशिनं बलिं को वा विपद्भिर्नैव पीड्यते ॥ १३.८७१ ॥
दृष्ट्वा तमूचे त्रैलोक्यनाथो भूत्वैशासनः ।
त्वमिमां गतिमापन्नः कथं शोच्यां न शोचसि ॥ १३.८७२ ॥
लक्ष्मीविलासहासाच्छं क्व तच्छत्रं क्व चामरम् ।
तालव्यालोलवलयं गीतमप्सरासं क्व तत् ॥ १३.८७३ ॥
ब्रह्मदत्ता क्व सा हेममाला मौलिमतस्तव ।
क्षपास्वपि यया दिक्षु बभुर्बालातपश्रियः ।
अथवा यान्ति चेतांसि महतां सह भूतिभिः ॥ १३.८७४ ॥
अपि स्मरसि किं दैत्य भास्वतस्तव शासनात् ।
अकृष्टपच्या पृथिवी यदभूद्भूरियाजिनः ॥ १३.८७५ ॥
यश्चातपत्रे यात्रायां शीतांशुधवले तव ।
गन्धर्वाणां सहस्राणि ननृतुर्हेममालिनाम् ॥ १३.८७६ ॥
ऐरावणगतस्येति श्रुत्वा शक्रस्य भाषितम् ।
अवुलुप्तमनाः प्राह बडि(लिर्)वामनवञ्चितः ॥ १३.८७७ ॥
तरङ्गतरला लक्ष्मीर्यद्यायाति च याति च ।
कृतमस्माभिरिति कि तत्प्रनृत्यन्ति शत्रवः ॥ १३.८७८ ॥
न शोचामि स्वसत्वस्थो निस्तरङ्ग इवोदधिः ।
दृष्ट्वा कालेन महता कथाशेषीकृताः श्रियः ॥ १३.८७९ ॥
अवश्यं विधिदौरात्म्याद्विपदन्ता हि संपदः ।
लक्ष्मीं विनश्वरः शोचेत्कः कालकवलीकृताम् ॥ १३.८८० ॥
अनतिक्रमणीयोऽयं कालः सर्वत्र जृम्भते ।
तुषैः कल्पितवृत्तिर्यत्प्रयातः स्वरतामहम् ॥ १३.८८१ ॥
विकोशाशापलाशेऽस्मिन्संसारोरुसरोरुहे ।
कालभृङ्गः पिबत्येव जनकिञ्जल्कमञ्जसा ॥ १३.८८२ ॥
जगद्ग्रासगरिष्ठस्य तस्य कालस्य शासनात् ।
स्मृतिशेषदशां शक्र समेष्यति भवानपि ॥ १३.८८३ ॥
किं न विप्लवायन्त्येता हरिण्यः शीघ्रगाः क्षणम् ।
स्फीतफेनसितच्छत्त्रास्तरङ्गिण्यो विभूतयः ॥ १३.८८४ ॥
प्रयाति तरला लक्ष्मीः स्रवत्यायुरलक्षितम् ।
इति वस्तुस्वभावेऽस्मिन्को नु शोचति मद्विधः ॥ १३.८८५ ॥
आयुः केनाक्षयं लब्धं वियोगः कस्य वा प्रियः ।
कस्मिन्वा चपला लक्ष्मीर्निषण्णा चरवीक्षिता ॥ १३.८८६ ॥
अलीकलीलाचटुलैः संगमैर्दृष्टनष्टया ।
अनया सर्वगामिन्या कियन्तो न विडम्बिताः ॥ १३.८८७ ॥
ऐश्वर्यसौरभभरान्गुणभृङ्गसङ्गान्कान्तालतावलयितानभिमानवृक्षान् ।
उत्फुल्लकीर्तिकुसुमान्फलपूरिताशान्सर्वकषो हरति कालमहाप्रवाहः ॥ १३.८८८ ॥
तस्यैतद्वदतः कार्याल्ललनं ललिताकृतिम् ।
ददर्शनिर्गतां शक्रो दृष्ट्वापृच्छच्च विस्मितः ॥ १३.८८९ ॥
लीलाशिखण्डाभरणा का त्वं हरिणलोचने ।
किमर्थमसि निष्क्रान्ता दैत्याधिपतिविग्रहात् ॥ १३.८९० ॥
सा तच्छ्रुत्वावदच्छक्रं त्वामहं समुपस्थिता ।
त्यक्त्वैनं विस्मृताचारमुच्छिष्टस्पृष्टसर्पिषम् ॥ १३.८९१ ॥
अहं सुभटखड्गाग्रधाराजलनिवासिनी ।
कमलापूतमह्गल्या कमलाकरवासिनी ॥ १३.८९२ ॥
एतदुक्त्वा चुर्भिः श्रीर्भूम्यम्भोवह्निवायुषु ।
पादैः संनिधिमादाय सहस्राक्षमुपाययौ ॥ १३.८९३ ॥
- श्रीसंनिधानम् ॥ ६२ ॥ *****
श्रीविहीनं पुरा शक्रो नमुचिं नाम दानवम् ।
पप्रच्छ शोककालेऽस्मिन्किं न शोचसि दानव ॥ १३.८९४ ॥
इति पृष्टोऽवद्दैत्यो निःस्यन्दोदधिधैर्यभूः ।
नष्टाः शोकेन नश्यन्ति द्विषदानन्ददायिनः ॥ १३.८९५ ॥
शोकदग्धशरीराणां प्ररोहः क्व पुनः श्रियः ।
शोकेन नश्यति प्रज्ञा प्रज्ञानाशो विपत्तये ॥ १३.८९६ ॥
शोकेन स्पृष्टचित्तानां नष्टानामुद्भवः कुतः ।
स्वकृतं भुज्यते कर्म परिपाके शुभाशुभम् ।
सतामम्लानवक्त्राणां नान्तरज्ञास्तु शत्रवः ॥ १३.८९७ ॥
- शक्रनमुचिसंवादः ॥ ६३ ॥ *****
भूतिमासाद्य शक्रेण बडिः(लिः) स्वपदविच्युतः ।
पुनरेवावदत्पृष्टो व्यसनेऽप्यविलुप्तधीः ॥ १३.८९८ ॥
अवश्यमेव शूराणां स्थितौ जयपराजयौ ।
कर्मायत्तौ न कर्ता त्वं कालप्राप्तमिदं भज ॥ १३.८९९ ॥
कालो न याति यास्यन्ति सहस्राणि भवादृशाम् ।
गन्ता त्वमपि कालेन किं धैर्येण विकत्थसे ॥ १३.९०० ॥
न तल्लोकेषु पश्यामि विचिन्वानोऽपि सूक्ष्मधीः ।
दुष्प्रापं यदयत्नेन न लीढं कालजिह्वया ॥ १३.९०१ ॥
कथावशेषविभवाः कालेन भुवनाधिपाः ।
श्रूयन्ते विहितास्ते ते किं वृथा शक्र माद्यसि ॥ १३.९०२ ॥
शक्तोऽस्मि जेतुं त्वामेकः सानुगं दर्पमोहितम् ।
किंतु न क्षमते कालो वेलेवाब्धेर्बलं मम ॥ १३.९०३ ॥
कालेनायान्ति विपदः कालेनायान्ति संपदः ।
पुंसां स्वकर्ममुद्राणां शोकस्यावसरोऽत्र कः ॥ १३.९०४ ॥
निशम्यैतत्सहस्राक्षो विरतोऽमर्षसाहसात् ।
स तमूचे कालवशं त्वं यथात्थ तथैव तत् ॥ १३.९०५ ॥
यदा लोका भविषअयन्ति निर्मर्यादाः कलिस्पृशः ।
तदा त्वं दारुणैः पाशैर्मुक्तः स्वास्थ्यां गमिष्यसि ॥ १३.९०६ ॥
- बडि(लि)वासवसंवादः ॥ ६४ ॥ *****
शुभाशुभस्य पृष्टोऽथ पूर्वं रूपं महीभुजा ।
जगाद भीष्मो जन्तूनां विनाशोदयलक्षणम् ॥ १३.९०७ ॥
आकाशतटिनीतीरे पुरा शक्रः सनारदः ।
विलोक्य लक्ष्मीं पप्रच्छ विकासिकमलाननाम् ॥ १३.९०८ ॥
देवि शंस यथा तत्त्वमिहागमनकारणम् ।
इति पृष्टा महेन्द्रेण सावदत्कमलेक्षणा ॥ १३.९०९ ॥
त्यक्त्वा दैत्यानहं शक्र नष्टाचारान्विशृङ्खलान् ।
सुराणां सद्म साधूनां संप्राप्ता तव चान्तिकम् ॥ १३.९१० ॥
असुराः पूर्वमभवन्सदाचारविभूषणाः ।
स्नाता हुताग्नयश्चासन्निजिताः स्त्रीभिरर्चिताः ॥ १३.९११ ॥
दातारो निःस्पृहाः क्षान्ताः प्रभाते घृतदर्शिनः ।
न निशीथे न चोत्सङ्गे दधिसक्तुभुजोऽभवन् ॥ १३.९१२ ॥
अवन्ध्यरतिसर्गाश्च तेनाहं तानभूषयम् ।
अद्य तूत्सन्नमर्यादास्त्यक्तास्ते दुर्मदा मया ॥ १३.९१३ ॥
आयत्ताः पतयः स्त्रीणां शण्टीनामद्य तत्परे ।
प्रत्युत्थानादिकं तांश्च कुर्वन्त्युच्चैर्वदन्ति च ॥ १३.९१४ ॥
तरुणा धूर्तसचिवा वृद्धानां वचनं वयः ।
विडम्बयन्ति दर्पान्धा हेलोल्लोलितकुन्तलाः ॥ १३.९१५ ॥
अशौचोच्छिष्टसूदैश्च विहितं भक्षयन्ति ते ।
गुप्तोद्यानेषु देवार्थिभृत्यस्वजनवर्जिताः ॥ १३.९१६ ॥
धान्यं पयोन्नं विवृतं स्वोच्छिष्टस्पृष्टसर्पिषम् ।
गृहे तेषां न वीक्षन्ते हासकेलिरताः स्त्रियः ॥ १३.९१७ ॥
स्त्रीयोग्यं पुरुषो धत्ते केशांशुकविभूषणम् ।
आचारगतिसंलापं पौरुषं स्त्री बिभर्ति च ॥ १३.९१८ ॥
इत्थं तेषां मदान्धानां वसतिं पापिनामहम् ।
त्यक्त्वान्तिकमवाप्ता त्वां सत्यशीले मं स्थितिः ॥ १३.९१९ ॥
आशा श्रद्धा धृतिः क्षान्तिः कान्तिर्वृत्तिर्जितिर्मतिः ।
युष्मानेव समायाता देव्योऽष्टौ मत्पुरःसराः ॥ १३.९२० ॥
इति ब्रुवाणां तां शक्रः प्राप्य प्रायात्त्रिविष्टपम् ।
निमित्तमेतत्प्रथमं सुभाशुभफलं नृणाम् ॥ १३.९२१ ॥
- श्रीवासवसंवादः ॥ ६५ ॥ *****
राज्ञा ब्रह्मपदं पृष्टः पुनरूचे पितामहः ।
असितो देवलः पूर्वं जैगीषव्यमभाषत ॥ १३.९२२ ॥
वन्दितो निन्दितश्चासि समस्तुल्यप्रियाप्रियः ।
त्यक्तरागभयद्वेषो लक्ष्यसे केन हेतुना ॥ १३.९२३ ॥
इति पृष्टो मुनीन्द्रेण जैगीषव्यः स्वतन्त्रवित् ।
उवाच शान्तमनसः सत्यं जातमिदं मम ॥ १३.९२४ ॥
विद्यानलसमुद्भूतविवेकव्यस्तविप्लवाः ।
न हृष्यन्ति न शोचन्ति सन्तः संतोषनिर्भराः ॥ १३.९२५ ॥
मानावमानयोस्तुल्या न स्निग्धा न च वैरिणः ।
ममायमिति नो येषामहमस्येति वा क्वचित् ॥ १३.९२६ ॥
मात्सर्यमनुरागो वा निरपायसुखस्पृशाम् ।
सर्वबन्धविनिर्मुक्ता निर्भयाः संचरन्ति ये ।
प्रबुद्धाः स्वप्नमायासु लभन्ते ब्रह्मणः पदम् ॥ १३.९२७ ॥
- जैगीषव्यसंवादः ॥ ६६ ॥ *****
प्रियः सर्वत्र पूज्यश्च कोऽस्तीति जगतीभुजा ।
भीष्मः पृष्टोऽवदत्कृष्णो यदाहान्धकभूपतिम् ॥ १३.९२८ ॥
एक एवास्ति निखिलप्रियः पूज्यश्च नारदः ।
स्वच्छन्दचारी सुखितः सोद्योगो विजितेन्द्रियः ॥ १३.९२९ ॥
असंनिरुद्धप्रसरो निःसङ्गो बहुसंगतः ।
क्रीडारतिर्जगद्द्रष्टा कामक्रोधविवर्जितः ॥ १३.९३० ॥
श्रुत्वेति पृष्टः पार्थेन भूतानां प्रभवोऽप्ययम् ।
कालस्य च गतिं भीष्मो बभाषे विश्वतत्त्ववित् ॥ १३.९३१ ॥
पुरा शुकेन भगवान्व्यासः पृष्टोऽब्रवीदिदम् ।
सर्गास्थितिं च कालं च यच्च कृत्यं द्विजन्मनाम् ॥ १३.९३२ ॥
सहस्रयुगपर्यन्तेष्वव्यक्तो व्यक्ततां गतः ।
ब्रह्म सृजति शब्दात्तु व्योमादिक्ष्मान्तपञ्चकम् ॥ १३.९३३ ॥
तदुद्भुते पुनः सर्गे कालेनाकाशशेषताम् ।
गते व्योमादि विलयं प्रयात्यव्यक्तसंज्ञके ॥ १३.९३४ ॥
इत्ययं सर्गसंक्षेपः शृणु कृत्यं द्विजन्मनाम् ।
संस्कृतो जातकर्माद्यैर्ब्रह्मचारी भवेद्गृही ॥ १३.९३५ ॥
आत्मानमात्मना पश्यन्वानप्रस्थस्ततो यतिः ।
ब्राह्मं कर्मेति कथितं ज्ञानिनां वृत्तिरुच्यते ॥ १३.९३६ ॥
अनादरविरक्तेच्छो विद्युत्तरलमात्मना ।
पश्यन्नन्तः परं ज्योतिः सर्वव्यापी समीरवत् ॥ १३.९३७ ॥
शून्यस्थानैकनिलयः समो ब्रह्मणि लीयते ।
कर्मणा याति संसारं निःसंसारस्तु विद्यया ॥ १३.९३८ ॥
निजोद्भवविलीनेच्छः संविद्विकचमानसः ।
सततं स्वान्तविश्रान्तः परमामृतमश्नुते ॥ १३.९३९ ॥
- व्यासशुकसंवादः ॥ ६७ ॥ *****
श्रुत्वेति भीष्मं पप्रच्छ य एते पृथिवीश्वराः ।
याता मृत्युवशं तेषां को मृत्युरिति पाण्डवः ॥ १३.९४० ॥
भीष्मोऽब्रवीत्पुरा प्राह राजानमनुकम्पकम् ।
नारदः पुत्रशोकार्तं शत्रूणां वशमागतम् ॥ १३.९४१ ॥
सर्वमेतद्विधिः सृष्ट्वा प्रजा विपुलतां गताः ।
आवर्तमाने भुवने दृष्ट्वा क्रोधं समाययौ ॥ १३.९४२ ॥
तत्क्रोधाद्दीप्तशिखिना दह्यमानेषु जन्तुषु ।
कृपावांरुयम्बको देवश्चतुर्मुखमयाचत ।
शंभुनाभ्यर्थितो धाता कोपाग्निं संजहार तम् ॥ १३.९४३ ॥
संहृतात्क्रोधदहनात्कन्या कमललोचना ।
उदतिष्ठन्नभःश्यामा रक्ताम्बरविभूषणा ॥ १३.९४४ ॥
उवाच तां ततो ब्रह्मा त्वं शनैः संहर प्रजाः ।
अप्सु प्रतिष्ठिता ह्येषा भूमिर्भारेण मज्जति ॥ १३.९४५ ॥
तच्छ्रुत्वा दारुणं धातुः कृपया नेत्रजं जलम् ।
निजं जग्राह पाणिभ्यां निन्दन्ती जन्म दुःखिता ॥ १३.९४६ ॥
कथं तव सुता देव घोरे कर्मणि मद्विधा ।
योग्या बन्धुवियुक्तानां न सहे दुःखिनां गिरः ॥ १३.९४७ ॥
इत्युक्त्वा विपुलं चक्रे दुष्करं विविधं तपः ।
सा मृत्युः सर्वसंहारभीता कारुण्यशालिनी ॥ १३.९४८ ॥
तस्यै वरं ददौ धाता व्याधयस्तेऽश्रुबिन्दवः ।
भविष्यन्ति जनान्ताय त्वां न ज्ञास्यन्ति मोहिताः ॥ १३.९४९ ॥
इति मृत्युः पुरा सृष्ट्वा ब्रह्मणा सर्वसंहृतिः ।
मा शुचः पृथिवीपाल सा हि कं नोपसर्पति ॥ १३.९५० ॥
- मृत्युप्रजापतिसंवादः ॥ ६८ ॥ *****
धर्मतत्त्वं पुनः पृष्टो धर्मजेन पितामहः ।
शशंस सारं धर्मस्य सत्यं परहितं तथा ॥ १३.९५१ ॥
गतिर्धर्मस्य विविधा सूक्ष्मा ज्ञातुं न शक्यते ।
विपरीतविचाराणामधर्मो याति धर्मताम् ॥ १३.९५२ ॥
अन्तर्जलतपाः पूर्वमभवज्जाजलिर्मुनिः ।
जटासु यस्य विश्वासात्कुलायाः पक्षिभिः कृताः ॥ १३.९५३ ॥
स दृष्ट्वा पक्षिणां मूर्ध्नि निर्वृत्ताञ्शावकाञ्शनैः ।
बभूव धर्मसंमत्तस्तमूचुरथ राक्षसाः ॥ १३.९५४ ॥
तुलाधरस्य समातामनासाद्यैव किं मुने ।
माद्यसि स्फारतपसां व्ययं कर्तुमिहोद्यतः ॥ १३.९५५ ॥
इति श्रुत्वा समन्विष्य गत्वा वाराणसीं मुनिः ।
तुलाधरं ददर्शाथ मांसविक्रयजीवितम् ॥ १३.९५६ ॥
ज्ञानदृष्ट्या स्वयं ज्ञात्वा तस्यागमनकारणण् ।
तुलाधरोऽब्रवीद्ब्रह्मन्धर्मो हि गगनात्मकः ॥ १३.९५७ ॥
अभीतैः सर्वभूतेभ्यो भूतानामभयप्रदैः ।
असक्तैः कर्मनिपुणैर्धर्मस्यासाद्यते गतिः ॥ १३.९५८ ॥
अहिंसा परमो यज्ञः पुण्यैर्यष्टुं स शक्यते ।
पश्य पापं कृशाप्राप्यं गोपशुप्राणपीडनात् ॥ १३.९५९ ॥
आत्मयज्ञाप्तपुण्यानामात्मतीर्थैकसेविनाम् ।
त्यक्ताभिमानस्पर्धानां नैव शोचन्ति बान्धवाः ॥ १३.९६० ॥
इति मानमहामोहं जाजलेः स तुलाधरः ।
निवार्यासक्तकर्मस्थः प्रययौ परमां गतिम् ॥ १३.९६१ ॥
- तुलाधरजाजलिसंवादः ॥ ६९ ॥ *****
गीतं विचरव्नुना पूर्वं धर्मऽस्मिन्नेव भूभुजा ।
अहिंसा परमो धर्मः क्रतुश्चाद्रव्यडम्बरः ॥ १३.९६२ ॥
पशुप्राणैर्यजन्त्येते कामात्मानः फलेप्सवः ।
मांसमत्स्यमधुप्रआयं धूर्तैर्भोगाय कल्पितम् ॥ १३.९६३ ॥
लोलुपैर्दम्भगुरुभिः पशुयागोऽधिगम्यते ।
पूज्यो हि भगवान्विष्णुः सोऽद्भिः पुष्पैश्च तुष्यति ॥ १३.९६४ ॥
रलानिं शरीरं नायाति यथा न मरणं भवेत् ।
तथा कर्म प्रवर्तेन शरीरं धर्मसाधनम् ॥ १३.९६५ ॥
- विचरव्नुगीताः ॥ ७० ॥ *****
कार्याकार्यविमर्शाय राज्ञा पृष्टः पितामहः ।
उवाच चिरकारीति बभूवाङ्गिरसो मुनिः ॥ १३.९६६ ॥
चिरं विचार्य कर्मामि स करोति यदा तदा ।
अलसो दीर्घदर्शी च मूर्खैरिति विडम्ब्यते ॥ १३.९६७ ॥
स कदाचित्स्वयं पित्रा प्रेरितो जननीवधे ।
चिरं निदध्यौ संदेहदोलाविश्लथमानसः ॥ १३.९६८ ॥
अविलङ्घ्यं गुरुवचो दुःसहो जननीवधः ।
इत्यभूद्दुःखकलुषः पतितो धर्मसंशये ॥ १३.९६९ ॥
तावच्चिन्तापरः सोऽभूद्यावत्तस्य पिता स्वयम् ।
पश्चात्तापमनुप्राप्तो निजामाज्ञामवारयत् ॥ १३.९७० ॥
चिरकारी विमर्शेन ररक्षेति स्वयं मुनिः ।
मातरं गुरुवाक्यं च विमर्शो हि शुभास्पदम् ॥ १३.९७१ ॥
- चिरकारिचरितम् ॥ ७१ ॥ *****
राजा रक्षेत्सदाचारं कथं लोकानपीडयन् ।
इति पृष्टो नरेन्द्रेण पुनः शान्तनवोऽब्रवीत् ॥ १३.९७२ ॥
द्युमत्सेन पुरा पुत्रं साल्वराजो महामतिः ।
बभाषे सत्यवान्नाम वध्यान्वीक्ष्यातिपीडितान् ॥ १३.९७३ ॥
राजन्धर्मगतिः सूक्ष्मा किमेते दस्यवस्त्वया ।
असामर्थ्येन विप्राणां निगृह्यन्ते यथा तथा ॥ १३.९७४ ॥
एकस्य हि वधेनैव ते भार्यापुत्रबान्धवाः ।
हता भवन्ति बहवस्तस्माद्दण्डो विवेच्यते ॥ १३.९७५ ॥
द्युमत्सेनो निशम्येति प्राह दण्ड्यानदण्डयन् ।
राजा क्षिपत्यगाधेऽस्मिन्प्रजा भयमहावटे ॥ १३.९७६ ॥
लघुदण्डाः पुराभूवन्मृदवोऽल्पद्रुहो जनाः ।
अद्य कालविपर्यासाद्वध्यदण्डेऽप्यसंयताः ॥ १३.९७७ ॥
इत्यासीद्राजपुत्रस्य राज्ञश्च परिभाषणम् ।
निवृत्ते च प्रवृत्ते च धर्मे धर्मविदां वर ॥ १३.९७८ ॥
- द्युमत्सेनोपाख्यानम् ॥ ७२ ॥ *****
निवृत्तं च प्रवृत्तं च धर्मं पृष्टोऽथ भूभुजा ।
व्याजहारोभयोस्तत्त्वं द्रष्टा शन्तनुनन्दनः ॥ १३.९७९ ॥
नहुषस्य पुरा सौरे सत्त्रे गां यूपसंगताम् ।
स्वेच्छाचारो द्विजो योगी विलोक्य कपिलोऽब्रवीत् ॥ १३.९८० ॥
अहो नु हिंसा दुर्वृत्तैर्धर्माय परिकल्पिता ।
परोपघाते नन्दन्ति लुब्धाः कामफलेप्सवः ॥ १३.९८१ ॥
इत्याकर्ण्य द्विजस्तत्र स्यूमरश्मिः प्रविश्य गाम् ।
अवदद्वेदवचनप्रामाण्यं नेष्यते त्वया ॥ १३.९८२ ॥
यजेत दद्यादित्येषा न श्रुता किं श्रुतिः स्मृतिः ।
गार्हस्थ्यलक्षणो धर्मो यज्ञाङ्गो ह्यखिलाश्रयः ॥ १३.९८३ ॥
श्रुत्वेति कपिलः प्राह शुद्धज्ञानमयः क्रतुः ।
तारयत्येव तमसो द्रव्ययागो हि बन्धनम् ॥ १३.९८४ ॥
स्यूमरश्मिर्निशम्यैतत्प्रोवाच क्रियया पुनः ।
विशुद्धेऽचिर्मणौ ज्ञानं प्रतिमामाश्रयेदिति ॥ १३.९८५ ॥
- गौकापिलीयम् ॥ ७३ ॥ *****
वरं धर्मार्थेकामानां किमिति क्ष्माभुजा पुनः ।
पृष्टोऽब्रवीच्छान्तनवस्त्रिवर्गगतिकोविदः ॥ १३.९८६ ॥
धनार्थी ब्राह्मणः कश्चिद्देवानाराध्य निष्फलः ।
सिषेवे कुण्डधाराख्यं भक्त्या ज्ञानधरं चिरम् ॥ १३.९८७ ॥
तुष्टे तस्मिन्ददर्शाथ स्वप्ने वैश्रवणालये ।
मणिभद्रं धनचयान्वितरन्तं यथोचितम् ॥ १३.९८८ ॥
कुण्डधारस्तमभ्येत्य ब्राह्मणार्थमयाचत ।
कुण्डधारस्य योगेन ब्राह्मणो हितकारिणा ॥ १३.९८९ ॥
वरान्निर्वेदमापन्नो धर्मवांस्तपसे ययौ ।
नभश्चरो दिव्यदृष्टिः सोऽभवत्तपसा कृती ॥ १३.९९० ॥
एवं सारस्त्रिवर्गस्य धर्मः शुभफलप्रदः ।
अर्थकामप्रसक्तानां नृपाणां नरके स्थितिम् ।
निशम्य कुर्यात्को नाम न धर्मोपार्जने मतिम् ॥ १३.९९१ ॥
- कुण्डधारोपाख्यानम् ॥ ७४ ॥ *****
अहिंसा परमो धर्मो निर्वेदो ज्ञानदेशकः ।
सर्वत्यागः परा शान्तिः कामिनां त्वन्यथाखिलम् ॥ १३.९९२ ॥
असितो देवलः पृष्टो नारदेनाब्रवीत्पुरा ।
अष्टादशात्मकः सोष्मा संगतः पाञ्चभौतिकः ॥ १३.९९३ ॥
क्षेत्रज्ञेन पुनर्याति संगमं वृक्षपक्षिवत् ।
अक्षीणवासनातन्तुर्भिन्नोऽपि न विमुच्यते ॥ १३.९९४ ॥
विच्छिन्नकर्मा निर्द्वन्द्वः पुण्यपापविवर्जितः ।
देही देहवियोगे स्वं ब्रह्म गच्छति निर्गुणः ॥ १३.९९५ ॥
- नारदासितसंवादः ॥ ७५ ॥ *****
प्रक्षीणवासनाजालो माण्डव्यं जनकोऽब्रवीत् ।
धुर्योऽहमस्मि सुखिनामेक एवार्थवर्जितः ।
दह्यमानेऽपि नगरे यस्य किंचिन्न दह्यते ॥ १३.९९६ ॥
संसारमरुतप्तानां तृष्णामूर्च्छितचेतसाम् ।
भेषजं परमं नाम संतोषामृतवारिदः ॥ १३.९९७ ॥
धनेन वर्धने तृष्णा लावणेनेव वारिणा ।
शोको विवृद्धतृष्णाया गोः शृङ्गमिव वर्धते ॥ १३.९९८ ॥
तां त्यक्त्वा गतसंसर्गो निर्दुःखपदमाश्रितः ।
कूर्माङ्गवत्संहृतेच्छः स्वेच्छाचारी विमुच्यते ॥ १३.९९९ ॥
जनकस्येति वचसा माम्डव्यः स्रस्तसंसृतिः ।
ब्रह्मप्रकाशमविशद्ध्रुवं शान्तमनामयम् ॥ १३.१००० ॥
- माण्डव्यजनकसंवादः ॥ ७६ ॥ *****
यतेन्द्रियेच्छः संन्यासी निर्भयो जनिताभयः ।
अवज्ञातोऽवधूतश्च शून्याचारोऽप्यनाश्रयः ॥ १३.१००१ ॥
अनिर्विण्णः प्रहृष्टश्च ज्ञाता मौनी च मुच्यते ।
बुध इत्याह हारीतो विशुद्धज्ञानसंश्रयः ॥ १३.१००२ ॥
- हारीतगीताः ॥ ७७ ॥ *****
भ्रष्टैश्वर्यः पुरा वृत्रः शुक्रं गुरुमभाषत ।
जीवानां कर्मबन्धानां तिष्ठतां पाञ्चभौतिके ।
पर्यायेण भवन्त्येव संपदो विपदस्तथा ॥ १३.१००३ ॥
निःस्पृहोऽस्मि न शोचामि भजे साम्यमनश्वरम् ।
न यास्याम्यधुना रागमवर्णो वर्णसंगमात् ॥ १३.१००४ ॥
इत्युक्त्वा दानवपतिर्यदृच्छोपगतान्मुनेः ।
सनत्कुमारादज्ञासीद्विष्णुं कारणमव्ययम् ॥ १३.१००५ ॥
स विज्ञायाच्युतं देवं प्रययौ परमां गतिम् ।
सोऽयं नारायणः कृष्णः संबन्धी तव पाण्डव ॥ १३.१००६ ॥
- वृत्रगीताः ॥ ७८ ॥ *****
राज्ञा वृत्रकथां पृष्टः पुनः प्राह पितामहः ।
पुरा वृत्रेण विजितो रणे जम्भनिसूदनः ॥ १३.१००७ ॥
स बोधितो वसिष्ठेन गर्वज्वरविमोहितम् ।
विष्णुतेजो दधद्वज्रं तं जघान महाकृतिम् ॥ १३.१००८ ॥
हतस्य कायाद्वृत्रस्य ब्रह्महत्या विनिर्गता ।
मुक्तकेशी कृशा घोरा मलदिग्धा कपालिनी ॥ १३.१००९ ॥
सा विद्रुतं सहस्राक्षां चिरमन्विष्य सर्वतः ।
विलोक्य कण्ठे जग्राह निश्चलाभयकम्पितम् ॥ १३.१०१० ॥
तं तया गूढमाक्रान्तं चिराय चतुराननः ।
विलोक्य कृपया हत्यां ययाचे शक्रमुक्तये ॥ १३.१०११ ॥
विरता ब्रह्मणो वाक्याद्ब्रह्महत्या सुरेश्वरम् ।
तत्याज स्थितिमासाद्य चतुर्धा घोरदर्शना ॥ १३.१०१२ ॥
योऽग्नौ प्रज्वलिते यत्नान्न बीजादिकमर्पयेत् ।
यः पर्वकाले विटपिच्छेत्ता यश्च रजस्वलाम् ॥ १३.१०१३ ॥
कामयेच्च जले यश्च क्षिपेच्छ्लेष्ममलादिकम् ।
स पदं ब्रह्महत्यायाः स्वयंभूरित्यभाषत ॥ १३.१०१४ ॥
- वृत्रवधः ॥ ७९ ॥ *****
ज्वरोत्पत्तिं पुनः पृष्टो भीष्मः पार्थमभाषत ।
सुमेरुशृङ्गे भगवान्स्थितो गौरीवपतिः पुरा ।
शुश्राव यज्ञं दक्षस्य देवाकीर्णं प्रजापतेः ॥ १३.१०१५ ॥
अभागार्हेऽसि किं यज्ञेष्विति गौरीगिरा हरः ।
अनाहूतश्चकाराथ दक्षयज्ञक्षये मतिम् ॥ १३.१०१६ ॥
क्रुद्धस्य तस्य लालाटस्वेदवारिकणात्क्षणात् ।
समुद्ययौ ज्वरो दीप्तस्त्रिशिरास्ताम्रलोचनः ॥ १३.१०१७ ॥
ब्रह्मणा दुःसह सोऽथ विन्यस्तः किल भागशः ।
तेषु तेषूत्कटो यत्नादेकः को नु सहेत तम् ॥ १३.१०१८ ॥
संतापं गजकुम्भेषु पर्वतेषु शिलाजतु ।
निर्मोकपट्टं सर्पेषु नीलिकां सलिलेषु च ॥ १३.१०१९ ॥
गोषु खोरकनिःश्वासमूषिरं क्षेत्रभूमिषु ।
पादरोगं तथाश्वेषु नेत्ररोगं पिकेषु च ॥ १३.१०२० ॥
मेषेषु पित्तभेदं च हिक्काश्वासं शुकेषु च ।
शिखाभेदं मयूरेषु श्रमं पञ्चाननेषु च ॥ १३.१०२१ ॥
जन्मन्यन्ते विवाहे च मनुष्येषु ज्वरं तथा ।
बहुधावस्थितं घोरं सततं च प्रचक्षते ॥ १३.१०२२ ॥
रुद्रोऽथ वीरभद्राख्यं ससर्ज गणमुत्कटम् ।
भद्रकालीं तथा देवीं कालानलशिखोपमाम् ॥ १३.१०२३ ॥
तौ गत्वा चक्रतुर्यज्ञं बहुद्रव्यं प्रजापतेः ।
भिन्नभिन्नापविद्धाङ्गं निहत्य मृगरूपिणम् ॥ १३.१०२४ ॥
ततः प्रजापतिः पूर्वं देवाहितविनाशकम् ।
विरूपाक्षमनेकाक्षं त्र्यक्षं यक्षपतिप्रियम् ॥ १३.१०२५ ॥
सर्वात्मना सर्वगतं सर्वाकारमनामयम् ।
तुष्टाव शंकरं दक्षो गूढार्थैर्दिव्यनामभिः ॥ १३.१०२६ ॥
नमो यज्ञाय विज्ञेयतत्त्वानुभवशालिने ।
सर्ववेदमयोङ्कारवाच्याय वृषकेतवे ॥ १३.१०२७ ॥
अनवच्चिन्नरूपाय व्यापिने विश्वमूर्तये ।
सर्वतः पाणिशिरसे नमः सर्वान्तरात्मने ॥ १३.१०२८ ॥
उग्रायोदग्रमहसे शर्वायागर्वशालिने ।
रुद्रायोदग्रयशसे वन्द्यायेन्दुभृते नमः ॥ १३.१०२९ ॥
ततस्तुष्टे भगवति त्र्यम्बके त्रिपुरान्तके ।
फलं यज्ञसहस्रस्य दक्षोऽलभत तद्वरात् ॥ १३.१०३० ॥
- दक्षयज्ञध्वंसः ॥ ८० ॥ *****
कथं विजितलोकानां भयं मृत्योर्निवर्तते ।
इति प्रृष्टो नरेन्द्रेण व्याजहार पितामहः ॥ १३.१०३१ ॥
नारदेन पुरा पृष्टः समङ्गः सर्वतत्त्ववित् ।
प्राणेन्द्रियजयान्नूनं शोको मृत्युश्च नश्यति ॥ १३.१०३२ ॥
पञ्चेन्द्रियहितं तुष्ट्यै तुष्टिरुत्सेककारिणी ।
उत्सेको विनिपाताय संसारसरणौ सदा ॥ १३.१०३३ ॥
अरागमोहो हृष्टात्मा चराम्यनुपलक्षितः ।
अशोकश्चामृतश्चाहं तेन नारद पश्य माम् ॥ १३.१०३४ ॥
- समङ्गनारदसंवादः ॥ ८१ ॥ *****
शास्त्रनिःसंशयं श्रेयो राज्ञा पृष्टोऽब्रवीत्पुनः ।
भीष्मो यद्गालवं प्राह नारदः सर्वदर्शिनम् ॥ १३.१०३५ ॥
हिते वर्तेत भूतानामहंकारं परित्यजेत् ।
प्रख्यापयेन्न संसत्सु स्वोत्कर्षं परनिन्दया ॥ १३.१०३६ ॥
पैशुन्यं लौल्यमालस्यं रात्रिचर्यां च वर्जयेत् ।
न दर्पाद्बहुभाषी स्यान्नेन्द्रियाणां हितं चरेत् ॥ १३.१०३७ ॥
नानुशोचेत्सुखभ्रंशे कामयेत न दुर्लभम् ।
जानन्नपि न कुर्वीत कौटिल्यं न च विश्वसेत् ॥ १३.१०३८ ॥
सतां सङ्गे मतिं कुर्यात्सदाचारपुरे वसेत् ।
सहसा संत्यजेत्पापं न कुर्यादनुतापदम् ॥ १३.१०३९ ॥
- नारदगालवसंवादः ॥ ८२ ॥ *****
मुक्तिः शनैः कथमिति भीष्मः पृष्टोऽब्रवीत्पुनः ।
अरिष्टनेमिः सगरं यद्बभाषे विमुक्तये ॥ १३.१०४० ॥
आशालतावलयितं बद्धमूलमविद्यया ।
न हि पातयितुं शक्तः सुखेन भवपादपम् ॥ १३.१०४१ ॥
को हि जन्मसहस्रोक्तां वासनाभ्यासजां निजाम् ।
प्रीतितं वारयितुं शक्तो ललनाधनबन्धुषु ॥ १३.१०४२ ॥
समारूढः श्रियं कान्तां ललनाम्भोजषटूपदः ।
त्यजेति विषसंकाशं को नाम वचनं पिबेत् ॥ १३.१०४३ ॥
धनपुत्रकलत्रेषु स्वयमेवार्जितेष्वहो ।
अवसन्ना विनश्यन्ति क्षुद्राः क्षौद्ररसेष्विव ॥ १३.१०४४ ॥
शिशूनं वृत्तिमालोक्य व्यस्तां देवेन कल्पिताम् ।
को हि तद्वर्तनादानैरात्मानमवसादयेत् ॥ १३.१०४५ ॥
परिच्छिन्नाशिनः किं ते कोटिभिर्भूमिसंचयैः ।
न पश्यसि मृतः किंचित्कोऽयं सर्वग्रहस्तव ॥ १३.१०४६ ॥
काञ्चने लोष्टशकले पर्यङ्के पांसुसंस्तरे ।
चीनांशुके वल्कले च समानः किल मुच्यते ॥ १३.१०४७ ॥
अन्तवत्कलयन्सर्वं निर्वेदं परमं गतः ।
तटस्थः सर्वभावेषु भवत्येवाभवो नरः ॥ १३.१०४८ ॥
गणयन्दुर्दशामन्ते समानः काञ्चनाश्मनोः ।
अविद्याग्रन्थिभेदेन मुच्यते निर्ममः सुखम् ॥ १३.१०४९ ॥
- सगरारिष्टनेमिसंवादः ॥ ८३ ॥ *****
अथ शुक्रकथां पृष्टो राज्ञा प्राह सुरव्रतः ।
पुरा योगीश्वरः शुक्रो भृगुसूनुर्धनप्रभोः ।
गुह्यकाधिपतेर्देहं प्रविश्याक्रम्य सर्वतः ॥ १३.१०५० ॥
धनं भूरि जहाराशु तच्च दुःखाद्धनाधिपः ।
पिनाकिने दस्युवृत्तं वयस्याय न्यवेदयत् ॥ १३.१०५१ ॥
कुपितस्त्रिपुरारातिरादाय भृगुनन्दनम् ।
पपौ स चोदरे शंभोर्बभ्राम विपुले चिरम् ॥ १३.१०५२ ॥
स रुद्रधारणावह्निदह्यमानोऽन्तरस्थितः ।
रुद्धेषु सर्वस्रोतःसु तस्य तुष्टाव वल्लभाम् ॥ १३.१०५३ ॥
ततः स शुक्रद्वारेण निर्गतः शुक्रतां ययौ ।
सतीसंरक्षितो लेभे न च वै पूर्ववत्स्थितिम् ॥ १३.१०५४ ॥
- शुक्रोत्पत्तिः ॥ ८४ ॥ *****
श्रेयः किमिति पृष्टोऽथ पुनराह पितामहः ।
पुरा विदेहाधिपतिं यदुवाच पराशरः ॥ १३.१०५५ ॥
मनोरथो रथो यस्य संयतः शान्तिरश्मिभिः ।
न चरत्यवटे तस्य कर्मणोऽपि सुखं सदा ॥ १३.१०५६ ॥
रत्यै भोगा विमूढानां सा दुःखाय वियोगिनाम् ।
तमसे दुःखमेवैषां बन्धाय महते तमः ॥ १३.१०५७ ॥
सतां भोगवियोगेषु निर्वेदो नाम जायते ।
निर्वेदस्तपसे तेषां तपः संसारशान्तये ॥ १३.१०५८ ॥
सदाचारप्रवृत्तानां यथाशास्त्रानुसारिणाम् ।
स्वकर्मसक्तमनसां स्वयमायान्ति संपदः ॥ १३.१०५९ ॥
- पराशरगीताः ॥ ८५ ॥ *****
प्रजापतिर्हंसरूपी राज्ञा पृष्टोऽब्रवीत्पुरा ।
क्रोधो मृत्युः कुजन्तूनां स्वसुखाद्यदि निर्गतः ॥ १३.१०६० ॥
दग्धाः क्रोधेन शोचन्ति क्रोधानधा निपतनति च ।
जितक्रोधः शसुखं शेते ग्रस्तरागादिबन्धनः ॥ १३.१०६१ ॥
- हंसगीताः ॥ ८६ ॥ *****
पृष्टः किमक्षरमिति प्राह भीष्मो नरेश्वरम् ।
भगवाञ्जनकं पूर्वं वसिष्ठो यदभाषत ॥ १३.१०६२ ॥
चतुर्दशविधः सर्गो गुणाः कर्माणि चोदनाः ।
सर्वमेतत्क्षरं विद्यादक्षरं परमं पदम् ॥ १३.१०६३ ॥
अक्षरक्षरसङ्गोऽयं देहिदेहसमागमः ।
देहताम्रकलादाहे हेमवद्दृश्यतेऽभरम् ॥ १३.१०६४ ॥
- वसिष्ठजनकसंवादः ॥ ८७ ॥ *****
पुनः पृष्टोऽवदद्भीष्मो याज्ञवल्क्यो गुरुः पुरा ।
प्रोवाच शिष्यं जनकं परमाक्षरनिर्णयम् ॥ १३.१०६५ ॥
अध्यात्मचिन्तागन्तव्यमधिभूते च कारणम् ।
गुणत्रयविनिर्मुक्तमक्षरं वेद्यवर्जितम् ॥ १३.१०६६ ॥
सांख्ययोगोदितं शान्तं शाश्वतं ध्रुवमव्ययम् ।
निस्तरङ्गोदधिनिभि युक्ताः पश्यन्ति निर्भयाः ॥ १३.१०६७ ॥
सूर्यप्रसादाद्वदनं प्रविष्टा मे सरस्वती ।
तयास्मि वेदकृद्भूत्वा सारमेव पदं श्रितः ॥ १३.१०६८ ॥
षङ्विशो मुच्यते व्यक्तं प्रलीनं पञ्चविंशके ।
इति गन्धर्वभूपालो विश्वावसुमबोधयत् ॥ १३.१०६९ ॥
- याज्ञवल्क्यजनकसंवादः ॥ ८८ ॥ *****
तिष्ठन्गृहे को नु मुक्तः पार्थेनेति सुरव्रतः ।
पृष्टो बभाषे सुलभा यदूचे जनकं पुरा ॥ १३.१०७० ॥
त्रिदण्डधारिणी मुक्ता सुलभा नाम भिक्षुकी ।
मिथिलां जनकं द्रष्टुं पुरा प्रायाद्विहायसा ॥ १३.१०७१ ॥
यौवनाभरणं रूपं दधती सा सुमध्यमा ।
ददर्श जनकं कान्ता लावण्यललिताकृतिः ॥ १३.१०७२ ॥
तां विलोक्य सुधासारसिक्ताङ्ग इव मैथिलः ।
चक्रे समुचितां पूजां तस्मै पापासनादिभिः ॥ १३.१०७३ ॥
ततः सुखोषिता तत्र मुक्तात्तरमुपेत्य सा ।
सभायां जनकं चक्रे रश्मिभिः स्वीकृतान्तरम् ॥ १३.१०७४ ॥
नेत्राभ्यां चारुनयना विशन्ती तमलक्षिता ।
अन्तरङ्गा क्षणमभूत्सा सुप्तेव सुधानदी ॥ १३.१०७५ ॥
तद्भावस्पृष्टभावोऽथ बभाषे दन्तकान्तिभिः ।
जनको निर्गुणां कुर्वन्विमुक्तां हारवल्लरीम् ॥ १३.१०७६ ॥
अयि चित्तसुधासिन्धुचन्द्रिका कासि कस्य वा ।
कुतस्त्वमनवद्याङ्गि नयनामृतवर्षिणी ॥ १३.१०७७ ॥
शिष्यः पञ्चशिखस्याहं सांख्यवेदविदो मुनिः ।
विवेकास्त्रविदां श्रेष्ठो मोक्षं प्राप्तो जनाधिपः ॥ १३.१०७८ ॥
किरीटी कङ्कणधरश्छत्त्रव्यजनवाहनः ।
मुण्डितेच्छः शमारण्यो मनः कर्मप्रसादनः ॥ १३.१०७९ ॥
स्वान्तबोधकपालेऽस्मिन्प्लुष्टं पञ्चशिखेन मे ।
ज्ञानबीजस्य सामर्थ्याद्विषयेषु न जायते ॥ १३.१०८० ॥
नैकान्तवासिता शान्त्यै न गेहं बन्धनाय च ।
सर्वत्र विहिता नाम मुक्तिर्निर्लेपचेतसाम् ॥ १३.१०८१ ॥
अन्तःप्रवेशः किमयं त्वया मे योगतः कृतः ।
वर्णगोत्राश्रमादीनां विभेदादेष संकरः ॥ १३.१०८२ ॥
जेतुमिच्छसि चेदस्मान्सिद्धो मानस्तदेष ते ।
अयं स्वशास्त्रदोषश्च तव स्पृशसि यत्परान् ॥ १३.१०८३ ॥
सर्वाङ्गसङ्गं कुरुषे सती भूत्वा न लज्जसे ।
कारणं ब्रूहि सुभगे न मिथ्या वक्तुमर्हसि ॥ १३.१०८४ ॥
इति पृष्टातिपरुषं न धैर्यात्संचचाल सा ।
ईषदुन्नमितैकभ्रूर्हासपल्लविताधरा ॥ १३.१०८५ ॥
सा बभाषे प्रविष्टापि च्छायेव पुरतः स्थिता ।
पूर्वापरहितं वाक्यं नदन्सज्जनसंसदि ।
मुक्तश्च भेदवक्ता चेत्यहो राजन्न राजसे ॥ १३.१०८६ ॥
कासि कस्य कुतो वा त्वं यदेवमभिधीयते ।
तत्र किं न श्रुतं काष्ठजन्तुवद्गुणभौतिकम् ॥ १३.१०८७ ॥
त्रिंशद्गुणकलाकारो व्यक्तो व्यक्तत्वमागतः ।
संघातस्तत्त्वचक्रस्य सोऽयं कस्य न कस्य वा ॥ १३.१०८८ ॥
शुक्रसेकाद्यवस्थास्ता न लक्ष्यन्ते जरावधि ।
दीपस्येवार्चिषो याता यस्य सोऽयं कुतः कथम् ॥ १३.१०८९ ॥
स्वाङ्गैरपि न संबन्धः संबन्धो जगतामिव ।
किमुतात्मनि नात्मानं मुक्तः पश्यसि बिम्बवत् ॥ १३.१०९० ॥
विकल्पं पृच्छतो नैषा मुक्तता तव शोभते ।
समरारावभग्नस्य जयमालेव दन्तिनः ॥ १३.१०९१ ॥
इदं राज्यमपर्यन्तं तिष्ठतस्ते विमुक्तता ।
न मन्येऽहं मरुतटे तप्तस्येव वितृष्णता ॥ १३.१०९२ ॥
चामरैर्लोलयन्त्येव च्छत्त्रैराच्छादयन्ति च ।
विवेकं मदकल्लोलैर्हरन्ति च नृणां श्रियः ॥ १३.१०९३ ॥
हताः सेनाः पुनर्युद्धे राजपुत्रो निपातितः ।
इति साधारणैर्देषैर्भूभुजामेव दुःखिता ॥ १३.१०९४ ॥
धनं कोशे गजाः शाले स्वगृहेषु च मन्त्रिणः ।
शय्याविभागे महिषी त्रियामायां त्वमेककः ॥ १३.१०९५ ॥
अकङ्कणमहारं च शय्यायां वर्तते वपुः ।
उच्छ्वासशेषो विमुखः स्वप्ने धावसि चान्यतः ॥ १३.१०९६ ॥
भिक्षुकी शून्यनिलया शून्येऽस्मिंस्तव विग्रहे ।
निवसामि क्षपामेकां का नु ते नृपते क्षतिः ॥ १३.१०९७ ॥
अस्पृशन्ती वपुस्तेऽहं प्रविष्टा यदि योगतः ।
तत्कथं नृपते मुक्तः स्पर्शं वेत्सि सरागवत् ॥ १३.१०९८ ॥
वर्णसंकरभीरोस्ते कथं पञ्चशिखो गुरुः ।
वृथा तदधुना जातं यत्त्वयोक्तं नरेश्वर ॥ १३.१०९९ ॥
नैवाङ्कुरसमर्थं मे ज्ञानबीजं प्ररोहति ।
विषयेष्विति तद्राजन्स्वयमुक्तं न पश्यसि ॥ १३.११०० ॥
अविभिन्ना वयं सर्वे समाश्रयिसमाश्रयात् ।
तरौ लता तत्र पुष्पं तस्मिन्षट्चरणा इव ॥ १३.११०१ ॥
सर्वात्मना पृथक्त्वं चेदिति भागं विपश्यसि ।
तदेकान्तविभिन्नस्य कस्य केनात्र संकरः ॥ १३.११०२ ॥
स त्वं प्रवृत्तिविमुखो न च प्राप्तो निवृत्तताम् ।
त्रिशङ्कुरिव मध्यस्थो न दिवं न भुवं श्रितः ॥ १३.११०३ ॥
सर्वमेतन्मम न वा यत्सर्वमहमेव वा ।
निष्ठामेतामनासाद्य कथं मुक्तोऽसि पार्थिव ॥ १३.११०४ ॥
इत्यवाप्तोपदेशार्थः सुलभावचसा नृपः ।
न हृष्टो नापहृष्टश्च तूष्णीं नभ इवाभवत् ॥ १३.११०५ ॥
- सुलभाजनकसंवादः ॥ ८९ ॥ *****
राज्ञा शुकस्य वैराग्यं भीष्मः पृष्टोऽब्रवीत्पुनः ।
यदुवाच शुकं पुत्रं पराशरसुतो मुनिः ॥ १३.११०६ ॥
पुत्र संसारमरणौ सरतामविवेकिनाम् ।
पश्य शीतातपव्याधिमरणावधिदुःस्थितिम् ॥ १३.११०७ ॥
अस्मिन्शरीरकुसुमे भृङ्गवज्जीविते स्थिते ।
चपलेषु च बावेषु ताटस्थ्यं पुत्र नोचितम् ॥ १३.११०८ ॥
यथा लिखितमेवायुः क्षणरात्रिं दिवं ततः ।
कोटिभिः प्राप्तकालानां मुहूर्तमपि दुर्लभम् ॥ १३.११०९ ॥
वासनाक्षौद्रपटले नानाभावरसाहृते ।
स्वयमुत्पादिते मग्नः क्षुद्रः को नाम मुच्यते ॥ १३.१११० ॥
अपर्याप्तमनःस्वेच्छास्त्यक्त्वा दारान्धनं सुतान् ।
कालव्यालसमाकृष्टा हन्त गच्छन्ति जन्तवः ॥ १३.११११ ॥
असिपत्त्रवनं घोरं तप्ता वैतरणी नदी ।
परत्रोष्णकटाहाश्च सन्ति गेहं न बान्धवाः ॥ १३.१११२ ॥
न यावदेतत्तारुण्यं गलत्यनुपलक्षितम् ।
न यासि यावत्संकोचं जरया तप्तचर्मवत् ॥ १३.१११३ ॥
हिक्काश्वासविपर्यस्तो यावत्स्वप्नविलोचनः ।
कुलालचक्रवद्भ्रान्तो न पश्यसि दिशो दश ॥ १३.१११४ ॥
हिरण्यवर्णां वसुधां यावद्वीक्ष्य विशृङ्खलम् ।
न गच्छसि तमो दीर्घं सूच्यभेद्यमबान्धवः ॥ १३.१११५ ॥
यावच्छुभाशुभाक्रान्तो न हृष्यसि विरौषि वा ।
तावत्समाधिविबुधो विनिवृत्तभवो भव ॥ १३.१११६ ॥
श्रुत्वेत्यवाप्तनिर्वेदः शुकस्त्यक्त्वा स्वमाश्रयम् ।
आमन्त्र्य पितरौ योगी ययौ श्रेयःसमाधये ॥ १३.१११७ ॥
- यावत्कम् ॥ ९० ॥ *****
कर्ममूलं निशम्याथ नृणां सुकृतदुष्कृतम् ।
राज्ञा शुककथां पष्टः पुनराह पितामहः ॥ १३.१११८ ॥
कर्णिकारवने मेरोः पुरा शीतांशुशेखरः ।
विजहार हरो हारफणिरत्नांशुपिञ्जरः ॥ १३.१११९ ॥
तत्रोग्रतपसा युक्तो व्यासः सत्यवतीसुतः ।
पुत्रकामो वरं प्राप दास्यमीति महेश्वरात् ॥ १३.११२० ॥
ततः कालेन स मुनिर्वह्न्यर्थमरणीं स्वयम् ।
ममन्थाप्सरसं पश्यन्धृताचीमग्रचारिणीम् ॥ १३.११२१ ॥
तस्य शुक्रं पपाताशु शुकीभूतां विलोक्य ताम् ।
अरण्यामरतस्यापि तत्रास्य तनयोऽभवत् ॥ १३.११२२ ॥
अरण्या गर्भसंभूतः सोऽभूद्व्याससुतः शुकः ।
शुक्रः कमण्डलुं यस्मै द्यौश्च दण्डाजिनं ददौ ॥ १३.११२३ ॥
वेदानधीत्य साकारानवाप्य च बृहस्पतेः ।
तपसा ब्रह्मचर्येण मान्योऽभूत्स दिवौकसाम् ॥ १३.११२४ ॥
उपदेशं पितुः प्राप्य तद्गिरा जनकं ययौ ।
मोक्षधर्मार्थनिपुणं द्रष्टुं पद्भ्यां नभश्चरः ॥ १३.११२५ ॥
मेरुवर्षानतिक्रम्य मिथिलां प्रविवेश सः ।
निवार्यमाणोऽप्यक्रोधो द्वाःस्थैः परुषवादिभिः ॥ १३.११२६ ॥
परं जनकराजस्य कक्ष्याद्वयमतीत्य सः ।
मन्त्रिप्रवेशितस्तस्थौ पूजितोऽन्तःपुरे मुनिः ॥ १३.११२७ ॥
ततः पर्यचरन्कान्तास्तमुत्पलविलोचनाः ।
यासां स्मितामृतैः कामः शिवदग्धोऽपि जीवति ॥ १३.११२८ ॥
वराहर्(ह)शयने तत्र योगी ध्यानपरायणः ।
निनाय रात्रिं प्रातश्च नृपो द्रष्टुं तमाययौ ॥ १३.११२९ ॥
गुरोर्व्यासस्य तनयो जनकेन स पूजितः ।
रत्नासनोपविष्टोऽथ पप्राच्छ मिथिलेश्वरम् ॥ १३.११३० ॥
विसृष्टोऽहं भगवता पित्रा व्यासेन तेऽन्तिकम् ।
गुरूपदेशसंबन्धं वद ज्ञानमनामयम् ॥ १३.११३१ ॥
जनकः प्राह शनकैः क्रियासोपानपङ्क्तिभिः ।
आरुह्योच्चैः परं धाम विसुद्धं शुद्धचेतसा ॥ १३.११३२ ॥
ज्ञानानिलहृताशेषविकल्पघनडम्बरः ।
द्वन्द्वत्रियामाविरतौ दृश्यते बोधभास्करः ॥ १३.११३३ ॥
सर्वमात्मनि सर्वत्र तमात्मानं विलोकयन् ।
गुणत्रयविनिर्मुक्तो मुनिश्चरति निर्ममः ॥ १३.११३४ ॥
तस्योत्सृष्टकलङ्कस्य प्रसन्नासक्तचेतसः ।
सर्वत्र विजितो मोक्षः सर्वकर्तृपदस्पृशः ॥ १३.११३५ ॥
स्पृहाग्रन्थिं पुरो मुक्त्वा ततो रागं ततः शुचम् ।
अहंकारपरित्यागाद्योगी ब्रह्ममयो भवेत् ॥ १३.११३६ ॥
सर्वान्तरात्मतां यातः सर्वज्ञपदमास्थितः ।
युक्तो विमिश्रतां याति शैलेषु सलिलेषु च ॥ १३.११३७ ॥
अहमित्येव संसारो नाहमित्येव तत्क्षयः ।
देहमानविरामे च प्राणमानं समाश्रयेत् ॥ १३.११३८ ॥
भावस्नेहं परित्यज्य देहमानं समाश्रयेत् ।
देहमानविरामे च प्राणमानं समाश्रयेत् ॥ १३.११३९ ॥
निरस्य प्राणमानं च विश्वाहंकारमाश्रयेत् ।
शून्यतां चिन्तयेत्पश्चाद्यया ब्रह्मणि लीयते ॥ १३.११४० ॥
इत्यादि मिथिलेन्द्रस्य निशम्य विशदं वचः ।
तमामन्त्र्य कृती प्रायाच्छुकस्तुहिनभूधरम् ॥ १३.११४१ ॥
अत्रान्तरे सुरमुनिर्नारदो द्रष्टुमाययौ ।
हिमाचलं लतालास्यविलासमणिमन्दिरम् ॥ १३.११४२ ॥
विद्याधरघटाजुष्टनिर्झरोदारकन्दरम् ।
हेमपङ्कजिनीकुञ्जकूजन्मञ्जुविहङ्गमम् ॥ १३.११४३ ॥
शुकोऽथ तत्र पितरं शिष्यान्विनयशालिनः ।
अध्यापयन्तमभ्येत्य स्ववृत्तान्त न्यवेदयत् ॥ १३.११४४ ॥
सुमन्तुः पैलसहितो वैशम्पायनजैमिनी ।
ते व्यासशिष्याः प्रमदात्परिषस्वजिरे शुकम् ॥ १३.११४५ ॥
कदाचिदथ यातेषु कृष्णद्वैपायनं गुरुम् ।
वैशंपायनमुख्येषु समामन्त्र्य महीतलम् ॥ १३.११४६ ॥
एक एव शुकस्तस्थौ तत्र ध्यानपरायणः ।
अधीयानः परं ब्रह्म व्यस्तं व्यासेन धीमता ॥ १३.११४७ ॥
अथ प्रवाति पवने कृते चाध्ययने शुकः ।
समीरणगतीस्तास्ताः शुश्राव गुरुणोदिताः ॥ १३.११४८ ॥
दिव्यो वायुः समानाख्यस्तस्योदानः सुतो बली ।
व्यानश्च तस्य तनयः ख्यातोऽपानश्च तत्सुतः ॥ १३.११४९ ॥
तत्संभवः प्राणनामा तेषां सप्त गतिक्रमाः ।
कर्म चैषां बहुविधं नाम्ना सदृशमुच्यते ॥ १३.११५० ॥
प्रवहो नाम तद्रूपो धूमाभ्रप्रेरकोऽनिलः ।
आवहो नाम पवनस्तडिद्विभ्रमकृन्मुनेः ॥ १३.११५१ ॥
जलं वहति मेघेषु यश्चोदीरयति ग्रहान् ।
उद्वहो नाम स ज्ञेयः सर्वसागरघस्मरः ॥ १३.११५२ ॥
विमानवाही देवानां संगर्जः संवहाभिधः ।
व्योमगङ्गाम्बुधर्ता च निवहः पञ्चमोऽनिलः ॥ १३.११५३ ॥
पूरयत्यमृतेनेन्दुं षष्ठः परिवहः स्मृतः ।
अन्त्योऽन्तकृच्च भूतानां घोरो वायुः परावहः ॥ १३.११५४ ॥
स एव वायुर्निःश्वासो वहत्स्वेतेषु नो पते(ठे)त् ।
एतदुक्त्वा नभोगङ्गां कृष्णद्वैपायने गते ॥ १३.११५५ ॥
शुक्रमेकाकिनं प्रीत्या नारदः समुपाययौ ।
आदराद्व्यासतनयस्तं प्रणम्य सुखस्थितम् ॥ १३.११५६ ॥
अपृच्छदैहिकं श्रेयः पृष्टस्तेन स चाब्रवीत् ।
विद्याचक्षुस्तपः सत्यं त्यागरागौ सुखासुखे ॥ १३.११५७ ॥
क्रोधश्च मृत्युरित्येतद्यो वेत्ति न स शोचति ।
अहिंसा धाम धर्मस्य दुःखस्यायतनं स्पृहा ॥ १३.११५८ ॥
सङ्गत्यागः पदं मुक्तेर्भोगाभ्यासो गृहं शुचः ।
विप्रयोगे महाञ्शोषस्तापकृद्यैः प्रजायते ॥ १३.११५९ ॥
आपातरमणीयांस्तान्भावान्साधुर्न चिन्तयेत् ।
बहु मन्येन न धनं संतोषं शममास्थितः ॥ १३.११६० ॥
संसारसारवैचित्र्यं गणयन्बहुबाधकम् ।
न विस्मयं न संतापं वानुरागं भजेत च ॥ १३.११६१ ॥
अलसा दीर्घसूत्राश्च दृश्यन्ते विभवैर्युताः ।
ईहमानाश्च दक्षाश्च न क्वचिद्धनभागिनः ॥ १३.११६२ ॥
अनिच्छतां संततिं च जायन्ते बहवः सुताः ।
लभन्ते पुत्रकामाश्च पातं वा नैव वा सुतम् ॥ १३.११६३ ॥
दुर्जराः सहसा यस्मिञ्जीर्यन्ते क्षिप्रमास्थिताः ।
तस्मिन्नेवोदरे गर्भो मासान्दश विवर्धते ॥ १३.११६४ ॥
व्याधिदग्धा विपद्यन्ते नरा वैद्यशतैर्वृताः ।
रोगानतितरन्त्यन्ये रथ्याकर्दमशायिनः ॥ १३.११६५ ॥
रूपबुद्धिविहीनानां दासाः स्वाकृतयो बुधाः ।
शोचन्त्यन्यत्र विधवा गतभार्यास्तथा क्वचित् ॥ १३.११६६ ॥
इत्येवं विविधां मायां कलयन्नखिलां धिया ।
भवस्वभाववैरी स्यान्न तु सज्जेत पण्डितः ॥ १३.११६७ ॥
नारदेनेति कथितं निशम्य व्यासनन्दनः ।
ध्यायन्संसारसरणिं निर्वेदान्न धृतिं ययौ ॥ १३.११६८ ॥
सर्वत्यागधृतोद्योगः स समामन्त्र्य नारदम् ।
व्यासमेत्य सरित्तीरे ववन्दे हर्षनिर्भः ॥ १३.११६९ ॥
तस्मै निवेद्य विनयान्निर्वेदं गतवासनः ।
प्रदक्षिणीकृत्य गुरुं गन्तुमभ्युद्ययौ शुकः ॥ १३.११७० ॥
क्षणं पुत्र प्रतीक्षख यावत्त्वद्दर्शनामृतैः ।
प्रीणामि निर्भरं चेतस्तमित्यूचे पिता ततः ॥ १३.११७१ ॥
निरक्षेपः स गत्वाथ समारुह्य गिरेः शिरः ।
निःशब्दः स समे देशे सर्वज्ञः समुपाविशत् ॥ १३.११७२ ॥
उल्लङ्घनाक्रमेणैव ग्रन्थिबन्धान्विमुच्य सः ।
तेजस्येकरसे तेजो धृत्वा हेम्नीव काञ्चनम् ॥ १३.११७३ ॥
रविं वायुं जलं भूमिं प्रविश्य गगनं तथा ।
विश्वाविष्कारकलया शून्याशून्यसमाश्रयः ॥ १३.११७४ ॥
विहस्योत्पत्य सहसा सशरीरोऽप्यदेहवत् ।
समीरवदसक्ताङ्गः खे ययौ वैनतेयवत् ॥ १३.११७५ ॥
तं प्राप्तं परमां सिद्धिं देवगन्धर्वयोषितः ।
अवाकिरन्पुष्पवर्षैः सर्वे च व्योमचारिणः ॥ १३.११७६ ॥
सोऽब्रवीद्देवताः सर्वा विचिन्वानस्य मां पितुः ।
प्रलापिनः प्रतिवचो देयं सर्वाभिराश्रमे ॥ १३.११७७ ॥
इत्युक्त्वा स समुल्लङ्घ्य क्षिप्रमष्टविधं तमः ।
त्यक्त्वा रजः सप्तविधं सत्त्वं चोत्सृज्य केवलम् ॥ १३.११७८ ॥
उल्कापातैः स दिग्दाहैः कम्पिते भुवनत्रये ।
निर्व्यञ्जनं निर्गुणं च ब्राह्मं तेजः समाविशत् ॥ १३.११७९ ॥
स व्रजन्विपुलायामं द्विशृङ्गं दिव्यभूधरम् ।
द्विधा व्यधादलग्नाङ्गस्ततो देवाः स्वयं ययुः ॥ १३.११८० ॥
अथ मन्दाकिनीतीरे कचत्काञ्चनपङ्कजे ।
उत्फुल्लोदारमन्दारपारिजातमनोहरे ॥ १३.११८१ ॥
स्नानकेलीरता लोलदृशस्त्रिदशयोषितः ।
हेमकुम्भोपमकुचाः पीनोरुश्रोणिमण्डलाः ॥ १३.११८२ ॥
श्यामरोमलताकान्ततनुमध्या विवाससः ।
वीतरागं शुकं दृष्ट्वा तस्थुर्विस्मयनिश्चलाः ॥ १३.११८३ ॥
तं कामकञ्चुकोत्तीर्णं ताः समुन्मुक्तकञ्चुकाः ।
कान्तं ददृशुरेकाग्रमसंकोचकुञ्चिताः ॥ १३.११८४ ॥
वातस्कन्धानतिक्रम्य याते तस्मिन्सुतप्रियः ।
तमन्वेष्टुं समभ्यायाद्व्यासस्तूर्णं विहायसा ॥ १३.११८५ ॥
हा पुत्रेति पितुर्वाचं श्रुत्वा सर्वान्तरात्मताम् ।
अवाप्तः शुद्धचिन्मात्रो भोःशब्दमकरोच्छुकः ॥ १३.११८६ ॥
शून्याकारस्य शब्देन तस्य प्रतिरवं नगाः ।
चक्रुः सैव स्थितिरभूत्प्रतिश्रुत्वा स भूभृताम् ॥ १३.११८७ ॥
लीने ततः परे धाम्नि शुके तनयवत्सलः ।
व्यासो न्यषीदद्द्युसरित्तीरे हेमशिलातले ॥ १३.११८८ ॥
तं दृष्ट्वाप्सरसो वारिक्रीडासक्ताः परस्परम् ।
गात्रे निधाय वासांसि ह्रिया संकोचमाययुः ॥ १३.११८९ ॥
ततः शोकसमाक्रान्तं तमपि ज्ञानभास्करम् ।
समेत्याश्वास्य विदधे वीतशोकं शिवः स्वयम् ॥ १३.११९० ॥
- शुकातिपातनम् ॥ ९१ ॥ *****
एक एव परो देवः को वेद्य इति भूभुजा ।
पृष्टोऽब्रवीच्छान्तनवो ध्यात्वा नारायणं हृदि ॥ १३.११९१ ॥
नारदेन पुराभ्येत्य बदर्याश्रममीश्वरः ।
नारायणो दर्शनाय प्रार्थितस्तमभाषत ॥ १३.११९२ ॥
विष्णोरव्यक्तरूपस्य चतुर्धा व्यक्तरूपिणः ।
इच्छामात्रसमुन्मेषो नरश्चाहं च नारद ॥ १३.११९३ ॥
एकायनैरेकदेवैरकव्रतधरैः सदा ।
स विभुर्दृश्यते युक्तैर्ज्ञाननिर्धूतकल्मषैः ॥ १३.११९४ ॥
श्वेतद्वीपमितो गत्वा विष्णुरूपाननामयान् ।
विष्णुध्यानपराञ्शुभ्रान्पश्य श्रीवत्सलक्षणान् ॥ १३.११९५ ॥
इति श्रुत्वा मुनिरभूत्तच्चित्तस्तत्परायणः ।
प्रययौ च परं द्रष्टुं कारणं विष्णुमव्ययम् ॥ १३.११९६ ॥
एकतेन द्वितेनापि त्रितेन च तपस्विना ।
वस्त्रयज्ञसदस्यैर्यः श्वेतद्वीपे पुरा स्तुतः ॥ १३.११९७ ॥
श्वेतद्वीपं समासाद्य नारदो रुचिरान्नरान् ।
ददर्श शशिकर्पूरतुषाररजताप्रभान् ॥ १३.११९८ ॥
तान्प्राणम्य स सत्त्वस्थैर्मनसा तैश्च वन्दितः ।
दिव्यैर्मन्त्रपदैर्विष्णुं तुष्टाव रचिताञ्जलिः ॥ १३.११९९ ॥
ओं जय अजित अव्यय अप्रमेय अनन्त अच्युत अपरिमित अचल अचिन्त्य अप्रतिहत अभव महाविभव निरतिशय निरञ्जन निर्लेप निष्प्रपञ्च निरुपम निर्विकार निर्गुण नित्योदित विश्व विश्वरूप विश्वेश्वर विश्वसमुद्धरण शुद्धसूक्ष्म ध्रुनव शाश्वत शान्त संवित्स्वरूप परमानन्दमन्दिर भक्तिमन्दाकिनीमराल स्वेच्छाशक्तिव्यक्तीकृतनिजप्रसार लक्ष्मीलतावसन्त मधुवधूगण्डपाण्डिताखण्डल कौस्तुभप्रभारचितकमलाकुचकुङ्कुमभङ्ग अपरिष्वङ्गसङ्गमाकुलीकृतस्वर्भानुभामिनीलोक दंष्ट्रेन्दुकलालेखायितवसुधाभिराममहावराह हिरण्यकशिपुकाननदवानल वामनलीलासंपदवामनीकृतसुरैश्वर्य चरणनखमयूखायितस्वर्वाहिनीप्रवाह क्षत्रक्षयाध्वरोद्दीपितकुठारानल दशवदनवदनकन्दुकविनोदानन्दित कालियकुलकमलिनीकुञ्जर रुक्मिणीकपोलदन्तपत्त्रीकृतपाञ्चजन्यप्रभापुर विद्रुमद्रुमायितकैटभरुधिरारुणोरुस्तम्भ ब्रह्मपद्मपद्माकरतुरगमुखखलीनखनखनायमानसामवेदोच्चार ।
इत्यादिभिः स्तुतिशतैर्दिव्यैर्गुह्यैश्च नामभिः ।
नानावर्णं ततोऽपश्यज्जयोतीरूपं सनातनम् ॥ १३.१२०० ॥
जितन्ताद्येन मन्त्रेण स्तूयमानं सितैर्नरैः ।
तं विश्वव्यापिनं दृष्ट्वा कृतकृत्यो ययौ मुनिः ॥ १३.१२०१ ॥
इत्येवं नारदादन्यो न ददर्श तमीश्वरम् ।
सोऽव्यक्तः परमो विष्णुर्भूतानां प्रभवोऽव्ययः ।
अनादिनिधनः शुद्धो वेद्यः सूक्ष्मो निरञ्जनः ॥ १३.१२०२ ॥
- नारायणीयम् ॥ ९२ ॥ *****
निवृत्तधर्ममाकर्ण्य शान्तये धर्मजन्मना ।
पुनराश्रमिणां धर्मं पृष्टः प्राह सुरव्रतः ॥ १३.१२०३ ॥
गङ्गातीरे द्विजः कश्चिदतिथिं गृहमागतम् ।
किमग्र्यं सर्वधर्माणामित्यपृच्छदुदारधीः ॥ १३.१२०४ ॥
पद्मो नाम महान्नागो नैमिषे गोमतीतटे ।
स जानातीति विप्रेण स पृष्टोऽतिथिरब्रवीत् ॥ १३.१२०५ ॥
ततस्तद्वचसा गत्वा गोमतीतीरमग्र्यजः ।
वारेण सूर्यरथगं न ददर्श भुजङ्गमम् ॥ १३.१२०६ ॥
स्थित्वा तत्र निराहारो दिनानि कतिचिद्द्विजः ।
नागं ददर्श तं प्राप्तं दृष्ट्वा पप्रच्छ कौतुकम् ॥ १३.१२०७ ॥
ब्रूहि तावदिदं नाग त्वया रविरथस्थितौ ।
दिवि दृष्टं किमाश्चर्यं पश्चाद्धर्म प्रवक्ष्यसि ॥ १३.१२०८ ॥
इत्याकर्ण्याब्रवीन्नागो दृष्टं मार्तण्डवर्त्मनि ।
रथस्य चक्रं वारेण बलेन वहता मया ॥ १३.१२०९ ॥
अंशुशाखासहस्रेषु रवेः शकुनयो यथा ।
तिष्ठन्ति देवाः सिद्धाश्च मुनयश्चेति कौतुकम् ॥ १३.१२१० ॥
करैर्गृहीत्वा त्यजति पयो भूमौ प्रविश्य च ।
पश्यत्यलक्षितः सर्वं भगवानिति कौतुकम् ॥ १३.१२११ ॥
स भित्त्वा मण्डलं भानोस्तेजस्येव समाविशत् ।
तेजस्तेजसि संलीनं दृष्ट्वास्माभिर्दिवाकरः ।
पृष्टः कोऽयमिति श्रीमान्हर्षपूर्णोऽब्रवीद्रविः ॥ १३.१२१२ ॥
स भित्त्वा मण्डलं भानोस्तेजस्येव समाविशत् ।
तेजस्तेजसि संलीनं दृष्ट्वास्माभिर्दिवाकरः ।
पृष्टः कोऽयमिति श्रीमान्हर्,पूर्णोऽब्रवीद्रविः ॥ १३.१२१३ ॥
उञ्छवृत्तिरयं सिद्धः कापोतीं वृत्तिमाश्रितः ।
मदीयं धाम यातोऽसावित्येतदपि कौतुकम् ॥ १३.१२१४ ॥
श्रुत्वेति नागाद्विप्रोऽभूत्प्रहर्षविकचाननः ।
अवान्तरकथावाप्तस्वाभिधेयोपदेशवाक् ॥ १३.१२१५ ॥
आमन्त्र्य पन्नगं विप्रो विधाय च्यवनं गुरुम् ।
उञ्छव्रतो ययौ सिद्धिं गीयमानः सुरैर्दिवि ॥ १३.१२१६ ॥
च्यवनान्नारदेनैतत्तस्माज्जम्भलद्विषा ।
शक्राच्च वसुभिस्तेभ्यो मया मत्तस्त्वया श्रुतम् ॥ १३.१२१७ ॥
- मोक्षधर्माः ॥ ९३ ॥ *****
शमं विविधमाकर्ण्य धर्मराजः पितामहम् ।
बभाषे शोकविवशश्चिन्तयन्बान्धवक्षयम् ॥ १३.१२१८ ॥
अहो बताहं संसारे धुर्यः किल्बिषकारिणाम् ।
सर्वस्वजनसंहारे नीतो दैवेन हेतुताम् ॥ १३.१२१९ ॥
जायेत मादृशः कोऽन्यः सदृशो मम दुष्कृती ।
पितामह शरैर्यस्त्वां घातयित्वा निरीक्षते ॥ १३.१२२० ॥
धन्यः सुयोधनस्तात धिङ्मां पुण्यैर्निराकृतम् ।
बनधूनां त्वत्प्रधानानां यः क्षये साक्षितां गतः ॥ १३.१२२१ ॥
शैशवे क्षौमवसनं यस्याङ्के लडता मया ।
म्लापितं राज्यलुब्धेन स एव निहतो भवान् ॥ १३.१२२२ ॥
श्रुत्वा युधिष्ठिरेणैतद्वक्तुं शन्तनुनन्दनः ।
तमूचे मा कृथाः पुत्र मिथ्यैवानुशयव्यथाम् ॥ १३.१२२३ ॥
परतन्त्रमिदं सर्वं जगत्स्वयमनीश्वरम् ।
स्वकर्ममुद्रितो लोकः प्राप्नोत्येव भवाभवम् ॥ १३.१२२४ ॥
ब्राह्मणी गौतमी नाम पुत्रकं पुत्रवत्सला ।
दष्टं ददर्श सर्पेण गतासुं कानने पुरा ॥ १३.१२२५ ॥
तां दृष्ट्वा पुत्रशोकार्तां लुब्धकोर्ऽजुनकाभिधः ।
बद्ध्वा तं सर्पमादाय जगादाभ्येत्य गौतमीम् ॥ १३.१२२६ ॥
अयं पुत्रस्य ते हन्ता मया बद्धो भुजङ्गमः ।
ब्रूहि यावत्क्षिपाम्येनं वह्नौ शस्त्रेण हन्मि वा ॥ १३.१२२७ ॥
श्रुत्वैतल्लुब्धकवचो विविग्ना प्राह गौतमी ।
वराकः पन्नगो नायमज्ञानाद्वधर्महति ॥ १३.१२२८ ॥
अन्तवन्त्येव भूतानि नियतावधि मुद्रया ।
उपयान्ति स्वयं मृत्युं हन्ता कश्चिन्न कस्यचित् ॥ १३.१२२९ ॥
तस्मादस्मिन्न कोपो मे कुतः कोपेऽपि निग्रहः ।
जड व्याध विमुञ्चैनं हतः कालेन मे सुतः ॥ १३.१२३० ॥
इत्युक्तोऽप्यसकृद्व्याधस्तया सर्पवधे मतिम् ।
न तत्याज यदा कोपात्तदा दीनोऽवदत्फणी ॥ १३.१२३१ ॥
हतोऽयं मृत्युना बालो यो मां प्रेरितवान्स्वयम् ।
अस्वतन्त्रस्य का शक्तिस्तदा ज्ञातिक्रमान्मम ॥ १३.१२३२ ॥
पन्नगेनेत्यभिहिते लुब्धकः पुनरब्रवीत् ।
कारणेन त्वया सर्प नीतोऽयं मृत्युना शिशुः ॥ १३.१२३३ ॥
न हि नाम स्वयं कश्चित्करेणाकृष्य मृत्युना ।
नीतो भवद्विधा यावद्याताः सर्प न हेतुताम् ।
वध्योऽसि सर्वथा तस्माद्विनाशे कारणं शिशोः ॥ १३.१२३४ ॥
इति ब्रुवाणे बहुशः कोपाद्व्याधे भुजङ्गमम् ।
स्वयमनिग्रहान्मृत्युरभ्येत्य तमभाषत ॥ १३.१२३५ ॥
नाहमस्य शिशोर्हन्ता न चायं भुजगो जड ।
प्रेरको भगवान्कालः सर्वं क्षयति संक्षये ॥ १३.१२३६ ॥
कालेन कलितास्ते ते भावास्त्रैलोक्यवर्तिनः ।
स्पृशन्त्यभावपदवीं भवन्ति च पुनः पुनः ॥ १३.१२३७ ॥
इत्युक्ते मृत्युना कालः स्वयमेत्य तमभ्यधात् ।
नाहं न मृत्युर्नो सर्पः प्रभुर्बालनिपातने ॥ १३.१२३८ ॥
स्वकर्मभिरयं लोको लभते निधनोदयौ ।
कर्मसूत्रैर्विचेष्टन्ते नरा यन्त्रमया इव ॥ १३.१२३९ ॥
जायते वर्धते भुङ्क्ते प्रसूते मोदते पुनः ।
जीर्यते क्षीयते वापि न जन्तुः कर्मणा विना ॥ १३.१२४० ॥
इति कालेन कथिते सर्पं तत्याज लुब्धकः ।
पृथग्ययुश्च ते सर्वे नष्टशोका च गैंतमी ॥ १३.१२४१ ॥
इत्येवं स्वकृतैरेव क्षीयन्ते कर्मभिर्जनाः ।
कर्मणा निधनं यातान्मा शुचः पृथिवीधरान् ॥ १३.१२४२ ॥
- गौतमीसर्पमृत्युलुब्धकसंवादः ॥ ९४ ॥ *****
गृहाश्रमे केन मृत्युर्वर्तमानेन धर्मतः ।
जितः पाण्डुसुतेनेति पृष्टः शान्तनवोऽब्रवीत् ॥ १३.१२४३ ॥
इक्ष्वाकुवंशजो राजा माहिष्मत्यामभूत्पुरा ।
श्रीमान्सुयोधनो नाम स्मरेन्द्रधनदोपमः ॥ १३.१२४४ ॥
तं नर्मदा नदी दृष्ट्वा स्नातं कमललोचनम् ।
अकामयत कामार्ता विलासललिताकृतिम् ॥ १३.१२४५ ॥
तस्यामजीजनत्कन्यां राजा राजीवलोचनाम् ।
कान्तां सुदर्शनां नाम नयनानन्दिदर्शनाम् ॥ १३.१२४६ ॥
तां यौवनवतीं काले भगवान्वीक्ष्य पावकः ।
स्मराकुलो नरपति ययाचे ब्राह्मणाकृतिः ॥ १३.१२४७ ॥
निर्धनावज्ञया तस्मै तां यदा न ददौ नृपः ।
तदा तस्य स यज्ञेऽग्निः प्रायात्कोपाददर्शनम् ॥ १३.१२४८ ॥
ऋत्विग्भिरथ सप्तार्चिर्नियमेन प्रसादितः ।
स्वप्ने जगाद तं मह्यं कन्यैषा दीयतामिति ॥ १३.१२४९ ॥
ततः प्रत्यक्षवपुषे तस्मै राजा सुदर्शनात् ।
प्रहृष्टस्तनयां प्रादात्प्राप्य तत्संनिधिं मखे ॥ १३.१२५० ॥
राज्ञा तेनार्थितोऽद्यापि माहिष्मत्यां हुताशनः ।
आस्ते सदा संनिहितः क्षपयन्सर्वविप्लवान् ॥ १३.१२५१ ॥
सुदर्शनायां नयो बभूवाथ विभावसोः ।
कान्तः सुदर्शनो नाम गुणरत्नमहोदधिः ॥ १३.१२५२ ॥
सुता मोघवतो राज्ञः कान्तां मोघवतीं युवा ।
स लेभे क्षीणावाणस्य नवा शक्तिं मनोभुवः ॥ १३.१२५३ ॥
तया सह कुरुक्षेत्रे गृही धर्मपदे स्थितः ।
चक्रे मृत्युजये यत्नं सोऽर्थिकल्पद्रुमस्तदा ॥ १३.१२५४ ॥
अभग्नप्रणयाः कार्याः सर्वथार्थिमनोरथाः ।
इत्यूचे स सदा जायां धर्मसब्रह्मचारिणीम् ॥ १३.१२५५ ॥
धर्मादच्यवतस्तस्य च्छिद्रपेक्षी सदाभवत् ।
प्रच्छन्नः सर्वतो मृत्युर्न चान्तरमवाप्तवान् ॥ १३.१२५६ ॥
ततः कदाचिदिध्मार्थं स्वयं याते सुदर्शने ।
अतिथिः कश्चिदभ्येत्य तद्भार्यां ब्राह्मणोऽब्रवीत् ॥ १३.१२५७ ॥
आतिथ्यं क्रियतां सुभ्रु राजपुत्रि मम त्वया ।
यदि धर्मः प्रमाणं ते तन्मां भज सुलोचने ॥ १३.१२५८ ॥
इति ब्रुवाणः स तया वारितोऽप्यपैरर्वरैः ।
त्वां निना नार्थये किंचिदित्युवाचासकृद्द्विजः ॥ १३.१२५९ ॥
धर्म्यं ततः सा वचनं स्मृत्वा भर्तुः पतिव्रता ।
तथेत्युक्त्वाकरोत्सर्वं ब्राह्मणस्य समीहितम् ॥ १३.१२६० ॥
अस्मिन्नवसरे गेहद्वारमेत्य सुदर्शनः ।
एहीत्याहूय दयितां सोत्कण्ठोऽपि व्यलम्बत ॥ १३.१२६१ ॥
सा भर्त्रा सहसाहूता न च प्राप्ता द्विजान्तिकम् ।
दोलाविलोलहृदया तस्थौ लज्जाकुला क्षणम् ॥ १३.१२६२ ॥
ततो गृहान्तराद्विप्रः सुदर्शनमभाषत ।
इयं मया तव वधूरर्थितातिथिना रतम् ॥ १३.१२६३ ॥
प्राप्ता नाद्यापि शयनं प्राप्तश्च त्वं गृहाधिपः ।
किमत्र मन्यसे युक्तमित्युक्त्वा विरराम सः ॥ १३.१२६४ ॥
अत्रान्तरे छन्नवपुर्मृत्युरादाय मुद्गरम् ।
लब्धोऽवकाश इत्युक्त्वा बभूवानन्दनिर्भरः ॥ १३.१२६५ ॥
ततः सुदर्शनो विप्रमुवाचाविकृताशयः ।
निःशङ्को मद्गिरा ब्रह्मन्रमस्व मम भार्यया ॥ १३.१२६६ ॥
इत्युक्ते वह्निपुत्रेण गगनात्साधु साध्विति ।
शब्दो बभूव विपुलः सहसा त्रिदिवौकसाम् ॥ १३.१२६७ ॥
अतिथिर्विप्ररूपं स परित्यज्य महाकृतिः ।
उवाच महसां राशिः प्रीत्याभ्येत्य सुदर्शनम् ॥ १३.१२६८ ॥
धर्मोऽहं दम्पती प्राप्तो युवां जिज्ञासुराश्रमे ।
अंखण्डितं च युवयोर्दृष्टं सत्त्वमिदं मया ॥ १३.१२६९ ॥
अधृष्ट तेजसा चेयं त्वद्भार्या केन लङ्घ्यते ।
द्विधात्मानं विभज्यैषा योगेनौघवती नदी ।
भविष्यति क्षितौ पुण्या नित्यं त्वां चानुयास्यति ॥ १३.१२७० ॥
इत्युक्त्वान्तर्दधे धर्मो मृत्युश्च विमुखो ययौ ।
स च वीरो दिवं प्राप सभार्यश्च सुदर्शनः ॥ १३.१२७१ ॥
- सुदर्शनोपाख्यानम् ॥ ९५ ॥ *****
विश्वामित्रेण संप्राप्तं ब्राह्मण्यं दुर्लभं कथम् ।
पृष्टो युधिष्ठिरेणेति गाङ्गेयः पुनरब्रवीत् ॥ १३.१२७२ ॥
कुशिकस्य पुरा राज्ञः श्रीमान्गाधिः सुतोऽभवत् ।
पुत्री सत्यवती नाम तस्याभून्मृगलोचना ॥ १३.१२७३ ॥
ऋचीकस्तां मुनिवरः शुल्कलभ्यामवाप्तवान् ।
हयानां श्यामकर्णानां सहस्रेणेन्दुवर्चसाम् ॥ १३.१२७४ ॥
स तया शीलशालिन्या यत्नदाराधितो मुनिः ।
याचितस्तु वरं तुष्टः पुत्रं मातुस्तथात्मनः ॥ १३.१२७५ ॥
त्वमश्वत्थं समालिङ्ग्य तव माताप्युदुम्बरम् ।
चरुं च प्राप्य मद्दत्तं पुत्रिणीत्यवदन्मुनिः ॥ १३.१२७६ ॥
वरमेवं समासाद्य हृष्टा मात्रे न्यवेदयत् ।
तद्गिरा व्यत्ययं चक्रे वृक्षयोः पायसे तथा ॥ १३.१२७७ ॥
तच्च ज्ञात्वा मुनिर्जायामुवाच ज्ञानलोचनः ।
त्वन्मातुर्ब्राह्मणः पुत्रः क्षत्रात्मा ते भविष्यति ॥ १३.१२७८ ॥
तच्छ्रुत्वा दुःखसंतप्ता ययाचे सा मुनिं पुनः ।
क्षत्राचारस्तु मे पौत्रो मा पुत्र इति मूर्छिता ॥ १३.१२७९ ॥
एवमस्त्विति तेनोक्ते लेभे सत्यवती सुतम् ।
जमदग्निं सुतश्चास्य रामोऽभूत्क्षत्रियोचितः ॥ १३.१२८० ॥
गाधिपत्नी च कालेन विश्वामित्रमजीजनत् ।
वृक्षपायसयोर्योऽभूद्व्यत्ययाद्ब्राह्मणाग्रणीः ॥ १३.१२८१ ॥
- विश्वामित्रोत्पत्तिः ॥ ९६ ॥ *****
आनृशंस्यगुणं राज्ञा पुनः पृष्टः सुरव्रतः ।
उवाच कानने पूर्वं घनच्छायोऽभवद्द्रुमः ॥ १३.१२८२ ॥
स विद्धो विषदग्धेन शरेम मृगगामिना ।
लुब्धकेन ययौ शोषं स्पृष्टो दावानलैरिव ॥ १३.१२८३ ॥
तं परित्यज्य यातेषु निष्फलं सर्वपत्रिषु ।
एक एव शुकस्तश्थौ सातं प्रीतिरचञ्चला ॥ १३.१२८४ ॥
निदाघप्लोषपरुषे फलपुम्पविवर्जिते ।
स्थितं तत्र शुकं वीक्ष्य शक्रोऽभ्येत्य तमब्रवीत् ॥ १३.१२८५ ॥
स्वच्छच्छायाफलाद्येषु वृक्षेषु विगतद्युतिः ।
किं त्वयायं श्रितः शाखी त्यक्त्वैनः चर निर्वृतः ॥ १३.१२८६ ॥
अथोवाच शुकः शक्रं नेदं सदृशमुच्यते ।
समाना सुखदुःखेषु सज्जनैः सह संगतिः ॥ १३.१२८७ ॥
यत्रोषितं च भुक्तं च विहृतं च यथासुखम् ।
तस्मिन्कालहतैश्वर्ये पलायन्ते न साधवः ॥ १३.१२८८ ॥
मघवानेतदाकर्ण्य तोषाद्वृक्षं सुधाकणैः ।
चकार सहसोद्दीर्णपत्रपुष्पफलाकुलम् ॥ १३.१२८९ ॥
आनृशंस्यात्स च शुकः प्रययौ परमां गतिम् ।
एवं दाक्षिण्यसदृशो नापरो विद्यते गुणः ॥ १३.१२९० ॥
- शुकशक्रसंवादः ॥ ९७ ॥ *****
दैवं सपौरुषं राज्ञा भीष्मः पृष्टोऽब्रवीत्पुनः ।
उभयोः संगमः सिद्ध्यै वियोगो निष्फलोऽनयोः ॥ १३.१२९१ ॥
अनुप्तबीजे कृष्टेऽपि दैवं क्षेत्रे करोति किम् ।
पौरुषं कर्म पुरुषैर्यथा यत्र यदा कृतम् ।
तथा तत्र तदाभ्येत्य विसंवादो न दृश्यते ॥ १३.१२९२ ॥
दातॄणां पुण्यशीलानां व्रतिनां सत्यवादिनाम् ।
दृश्यन्ते धन्यतास्तास्ता राज्यस्वर्गतिभूतिभिः ॥ १३.१२९३ ॥
- दैवपुरुकारीयम् ॥ ९८ ॥ *****
के पूज्या इति पार्थेन पृष्टोऽवादीत्सुरव्रतः ।
सदा द्विजातयः पूज्यास्ते सर्वत्र परायणम् ॥ १३.१२९४ ॥
नरौ जन्मान्तरे पूर्वं कपिजम्बुकतां गतौ ।
जातिस्मरौ ददृशतुः श्मशानं सुहृदौ मिथः ॥ १३.१२९५ ॥
तत्रोचे वानरः प्रेम्णा शृगालं स्विन्नमानसः ।
कर्मणा केन यातोऽसि शवमांसाशितामिति ॥ १३.१२९६ ॥
प्रतिश्रुत्य मया पूर्वं न वितीर्णं द्विजन्मने ।
सार्गालीं योनिमापन्नस्तेनाहमिति सोऽब्रवीत् ॥ १३.१२९७ ॥
एतदेव शृगालेन पृष्ट प्रोवाच वानरः ।
ब्राह्मणानवमन्याहं प्रयान्तः कपितामिति ॥ १३.१२९८ ॥
ब्राह्मणातिक्रमेणैव भजन्ते तामसीं दशाम् ।
तस्मात्सर्वात्मना विप्राः पूज्याः कुशलमिच्छता ॥ १३.१२९९ ॥
- ब्राह्मणमाहात्म्यम् ॥ ९९ ॥ *****
असवर्णोपदेष्टारः किं न स्युः श्रेयसां पदम् ।
विप्रा इति पुनः पृष्टो राज्ञा शान्तनवोऽब्रवीत् ॥ १३.१३०० ॥
पुरा वने शूद्रमुनेर्ब्रह्मर्षिरभवत्सखा ।
कदाचित्सोऽर्थितः श्राद्धे शूद्रेणागात्तदाश्रमम् ॥ १३.१३०१ ॥
पितृकर्मणि तस्यासौ हव्यकव्योपदेशकृत् ।
पूर्वं शेषां वृसीमेतां कुरुष्वेत्यवदन्मुनिः ॥ १३.१३०२ ॥
ततः कालेन महता क्षपयित्वा कलेवरम् ।
कर्मशेषोपभोगाय तौ जन्मान्तरमापतुः ॥ १३.१३०३ ॥
स सूद्रोऽभूत्क्षितिपतिः स ब्रह्मर्षिः पुरोहितः ।
तस्य राज्ञोऽभवल्लप्तज्ञानो नष्टाखिलस्मृतिः ॥ १३.१३०४ ॥
स्वस्तिपुण्याहवादेषु नृपो जातिस्मरः सताम् ।
सदा जहास तच्चासौ नृपं पप्रच्छ लज्जितः ॥ १३.१३०५ ॥
पृष्टः शपथदानेन भूपतिर्हासकारणम् ।
पुरोहितं रहः प्राह शूद्रोऽहमभवं पुरा ॥ १३.१३०६ ॥
ब्रह्मर्षिश्च भवान्मह्यमुपदेशं व्यधात्सकृत् ।
तेनाद्य सुरवन्द्योऽपि प्राप्तोऽस्यनुचितां दशाम् ॥ १३.१३०७ ॥
श्रुत्वैतत्सहसा स्मृत्वा तपसे स ययौ मुनिः ।
एवं नैवोपदेष्टा स्यादवराणां द्विजोत्तमः ॥ १३.१३०८ ॥
- गुरूपदिष्टम् ॥ १०० ॥ *****
कः श्रियो भाजनमिति क्ष्माभुजा जाह्नवीसुतः ।
पृष्टः प्राह हरेरग्रे रुक्मिणीं श्रीः पुराभ्यधात् ॥ १३.१३०९ ॥
सुभगेषु प्रगल्भेषु दक्षेषूज्ज्वलकर्मसु ।
जितेन्द्रियेषु वीरेषु प्रीत्या मे शाश्वती स्थितिः ॥ १३.१३१० ॥
उत्सेकलोभसंत्रासदैन्यक्रोधविनाकृताः ।
कृतज्ञाः केलिसदनं सदाचाराः सदा मम ॥ १३.१३११ ॥
पतिव्रतामकलहामलौल्यामकुतूहलाम् ।
अविप्रकीर्णभाण्डां च गतनिद्रां भजे स्त्रियम् ॥ १३.१३१२ ॥
मत्तेषु कुञ्जरेन्द्रेषु हयेषु वृषभेषु च ।
फुल्लारविन्दवृन्देषु शरच्चन्द्रकरेषु च ॥ १३.१३१३ ॥
नदीषु हंसहासासु राजद्राजरणेषु च ।
वनेषु मुनिपुण्येषु यज्ञेषु च वसाम्यहम् ॥ १३.१३१४ ॥
एतच्छ्रुत्वा पुनर्भीष्ममपृच्छत्पाण्डुनन्दनः ।
स्पर्शाधिक्यं किमु स्त्रीणां नृणां वा संगमेष्विति ॥ १३.१३१५ ॥
सोऽब्रवीदभवद्यज्वा भृङ्गाश्वो नाम भूपतिः ।
यशः कुसुमवल्लीषु योऽभूत्संततमाधवः ॥ १३.१३१६ ॥
प्रतिकूलं स शक्तस्य यज्ञमग्निष्टुतं पुनः ।
आजहार जगामास्य शत्रुतां येन वासवः ॥ १३.१३१७ ॥
स कदाचिन्मृगप्रेप्सुर्वाजिना विपिने व्रजन् ।
इन्द्रेण मोहितो वत्स नाज्ञासीत्तृष्णयार्दितः ॥ १३.१३१८ ॥
सोऽपश्यदग्रे विपुलं सरः स्फटिकनिर्मलम् ।
लोलकल्लोलदोलाङ्कं केलिवेश्म हिमत्विषः ॥ १३.१३१९ ॥
तस्मिन्स सहसा स्नातः पाययित्वा तुरङ्गमम् ।
अभवल्ललनारूपः पीनश्रोणिपयोधरः ॥ १३.१३२० ॥
स लज्जादुःखविवशो गत्वाश्वेन निजां पुरीम् ।
निवेद्य निजवृत्तान्तं राज्ये पुत्रशतं व्यधात् ॥ १३.१३२१ ॥
स्त्रीरूपः सोऽथ विजनं त्यक्तराज्यस्तपोवनम् ।
प्रययौ कलयन्नन्तर्विधेरुत्साहवामताम् ॥ १३.१३२२ ॥
तत्र तं कामिनीरूपमकामयत तापसः ।
पतन्ति षट्पदास्तत्र यत्र यत्र सरोजिनी ॥ १३.१३२३ ॥
तस्मादसूत पुत्राणां स शतं बलशालिनाम् ।
कान्तावपुरभून्नित्यं तेषु चात्यन्तवत्सलः ॥ १३.१३२४ ॥
पूर्वपुत्रानथाभ्येत्य पुंस्त्वजातानुवाच सः ।
स्त्रीत्वजातैः सुतैस्तैस्तैर्वसुधा सह भुज्यताम् ॥ १३.१३२५ ॥
तद्गिरा मिश्रतां यातं ततः पुत्रशतद्वयम् ।
बुभुजे भुवमम्लानयशोविक्रमशासनाम् ॥ १३.१३२६ ॥
अत्रान्तरे समभ्येत्य विप्ररूपी शतक्रतुः ।
भेदेन राजपुत्राणां विदधे कलहोदयम् ॥ १३.१३२७ ॥
ततस्ते युधि संनद्धा राज्यहेतोः परस्परम् ।
कृत्वा सैन्यक्षयं घोरं निःशेषाः प्रलयं ययुः ॥ १३.१३२८ ॥
भेदात्प्रयाते निधनं युधि पुत्रशतद्वये ।
भृङ्गाश्वो ललनारूपः शुशोच करुमस्वनम् ॥ १३.१३२९ ॥
तमिन्द्रो ब्राह्मणवपुर्दृष्ट्वा श्रुत्वा च तत्कथाम् ।
प्रलीनमन्युः कारुण्यादुवाच विहसन्मुहुः ॥ १३.१३३० ॥
शक्रोऽहं तव पुत्रास्ते मया विप्रियकारिणः ।
भेदिता नाधुना वैरमापन्ने त्वयि मे नृप ॥ १३.१३३१ ॥
पुत्राणां शतमेकं ते मद्वरादद्य जीवतु ।
यत्त्वमिच्छसि जातं प्राक्पुंसः स्त्रीवपुषोऽथवा ॥ १३.१३३२ ॥
इत्युक्ते देवराजेन भृङ्गाश्वस्तमयाचत ।
जीवितं स्त्रीत्वजातानां पुत्राणां प्रणताननः ॥ १३.१३३३ ॥
तमब्रवीत्सुरपतिः पुंस्त्वजातान्कथं सुतान् ।
त्यक्त्वा स्त्रीत्वप्रजातेषु पुत्रेषु स्निह्यति भवान् ॥ १३.१३३४ ॥
इति पृष्टो मघवता बभाषे स्त्रीवपुर्नृपः ।
स्नेहवात्सल्यरागाणां ललना एव मन्दिरम् ॥ १३.१३३५ ॥
श्रुत्वैतदवदच्छक्रः सर्वे जीवन्तु ते सुताः ।
स्त्रीरूपं तु परित्यज्य पुरुषो भव मद्वरात् ॥ १३.१३३६ ॥
इत्युक्तो पार्थिवोऽवादीत्स्त्रीत्वं नैव त्यजाम्यहम् ।
स्त्रीणां स्पर्शेषु या प्रीतिः सा पुंभिर्लभ्यते कुतः ॥ १३.१३३७ ॥
दैवात्समनुभूयेदं सुचिरं प्रकृतिद्वयम् ।
एतावदेव जानेऽहं यत्प्रीतेर्भाजनं स्त्रियः ॥ १३.१३३८ ॥
कामस्य सारं सुरतं रतस्य स्पर्शामृतं तच्च सुलोचनानाम् ।
सर्वात्मना निर्वृतिजीवशून्यं भवे भवे जीवितमेव कान्ताः ॥ १३.१३३९ ॥
यथार्थमिति तेनोक्तं निशम्य विबुधाधिपः ।
जगाम जीवयित्वास्य प्रीतः पुत्रशतद्वयम् ॥ १३.१३४० ॥
- भृङ्गाश्वोपाख्यानम् ॥ १०१ ॥ *****
श्रुत्वैतद्धर्मतनयः पुनर्गाङ्गेयमब्रवीत् ।
माहात्म्यं श्रोतुमिच्छामि देवस्य त्रिपुरद्विषः ॥ १३.१३४१ ॥
इति पृष्टो नरेन्द्रेण व्याजहार पितामहः ।
माहात्म्यं देवदेवस्य वक्तुमर्हति केशवः ॥ १३.१३४२ ॥
हरिरेव हरं वेत्ति हरो वेत्ति तथा हरिम् ।
एकैव मूर्तिरनयोः कारणाद्द्वैतमाश्रिता ॥ १३.१३४३ ॥
इति देवव्रतेनोक्ते मुरारिर्ध्रमजन्मना ।
पृष्टः शशाङ्कचूडस्य प्रभावं प्रयतोऽवदत् ॥ १३.१३४४ ॥
पुत्रार्थिनी जाम्बवती प्रिया प्रोवाच मां पुरा ।
प्रद्युम्नसदृशं देव त्वत्तः पुत्रगुणोचितम् ।
प्राप्तुमिच्छामि संकल्पः पूर्यतामेष मे त्वया ॥ १३.१३४५ ॥
इत्युक्तोऽहं दयितया तया बालमृगीदृशा ।
ध्यात्वा मुहूर्तं पुत्रार्थी प्रयातमुपसेवनम् ॥ १३.१३४६ ॥
अथारुह्य गिरेः शङ्के पुरा मुनितपोवनम् ।
अपश्यं तेजसां राशिमुपमन्युं निजाश्रमे ॥ १३.१३४७ ॥
प्रहृष्टं ज्येष्ठवयसं पिनाकिवरभूषितम् ।
दीप्तं तपोभिर्विविधैः पूर्णलावण्यविग्रहम् ॥ १३.१३४८ ॥
प्रशान्तरमणीयेन सत्वेनानन्ददायिना ।
किरन्तं मधुरोदारनिर्वाणामृतवाहिनीम् ॥ १३.१३४९ ॥
तं विलोक्य प्रणम्याहं पूजामादाय तत्कृताम् ।
तत्संभाषणसंजातपरानन्दमयोऽभवम् ॥ १३.१३५० ॥
स मामुवाच प्रणतं प्रीत्या ज्ञानविलोचनः ।
देवं गिरिशमाराध्य तुल्यं पुत्रमवाप्स्यसि ॥ १३.१३५१ ॥
ते ते त्रैलोक्यजयिनः सुकेशिप्रमुकाः पुरा ।
श्रूयन्ते शंकरवरात्प्राप्ताः शक्राधिकं पदम् ॥ १३.१३५२ ॥
पुरास्मिन्व्याघ्रपादस्य महर्षेः पितुराश्रमे ।
सकृदास्वाद्य गोक्षीरं याचिता जननी मया ॥ १३.१३५३ ॥
पयसोऽसंभवान्मात्रा दत्तं पिष्टरसं ततः ।
पीत्वाहं विरसं दुःखादभवं साश्रुलोचनः ॥ १३.१३५४ ॥
अथाब्रवीन्मां जननी वने पुत्र पयः कुतः ।
श्रीकण्ठं न ह्यनाराध्य लभ्यतेऽभिमतं क्वचित् ॥ १३.१३५५ ॥
इति मातुर्वचः श्रुत्वा प्रयातोऽस्मि तपोवने ।
यत्नादकरवं तीव्रं तपो वार्षसहस्रिकम् ॥ १३.१३५६ ॥
नान्यतः प्रार्थये शक्रवरं प्राप्तमपि स्वयम् ।
पीयूषकिरणोत्तंसाद्देवादन्यत्र धूर्जटेः ॥ १३.१३५७ ॥
तेनालं सुरराज्येन किं मोक्षेणापि तेन मे ।
निर्व्याजभक्तिदयितो दाता यस्मिन्न शंकरः ॥ १३.१३५८ ॥
इत्युक्तो बहुशः शक्रो मया भर्गानुरागिणा ।
रूपमैन्द्रं परित्यज्य बभूव वृषभध्वजः ॥ १३.१३५९ ॥
शूलिनं जटिनं देवं वीक्ष्य चन्द्रकलाधरम् ।
अभवं निर्भरानन्दप्रसरद्बाष्पनिर्झरः ॥ १३.१३६० ॥
ततः स्तुतो मया शंभुर्मह्यं क्षीरोदधिं ददौ ।
आदधे चाश्रमे तस्मिन्संकल्पान्मम संनिधिम् ॥ १३.१३६१ ॥
तं त्वमाराध्य वरदं तपसा पार्वतीपतिम् ।
लभख तनयं कृष्ण तस्यात्मा त्वं स वा तव ॥ १३.१३६२ ॥
उक्त्वैवमुपमन्युर्मां दीक्षितं शिवशासने ।
आदिदेश तपोयोगे रहस्यं गृह्यतामिति ॥ १३.१३६३ ॥
मन्त्रेण तद्वितीर्णेन तपसा च समाहितः ।
ततोऽपश्यमहं काले देवं चन्द्रार्धशेखरम् ॥ १३.१३६४ ॥
मेघजालसमारूढं व्योम्नि सोमशतोज्ज्वलम् ।
तं विलोक्याभिनन्द्याहं स्तुत्वा हर्षपरोऽभवम् ॥ १३.१३६५ ॥
ततो यथेप्सितान्दत्त्वा वरान्मह्यं महेश्वरः ।
अन्तर्दधे सुधापूरैरापूर्येव दिशो दशा ॥ १३.१३६६ ॥
अथोपमन्युर्मामेत्य प्रकृष्टं हृष्टमब्रवीत् ।
तण्डिप्रोक्तानि नामानि शृणु माधव धूर्जटेः ॥ १३.१३६७ ॥
तण्डिर्नाम मुनिः पूर्वं गुह्यैर्गीतैः स्वयंभुवा ।
त्रिनेत्रं प्रयतं नाम्नां तुष्टाव दशभिः शतैः ॥ १३.१३६८ ॥
स्थाणो स्थिरस्थिते शंभो शर्व भानो वरप्रद ।
हर रुद्र स्मराराते विश्व विश्वेश्वरेश्वर ॥ १३.१३६९ ॥
भव भर्ग शिवाश्वास भवानीवल्लभ प्रभो ।
शशाङ्कशकलोत्तंस शिव शान्त महेश्वर ॥ १३.१३७० ॥
नमस्तुभ्यं जगत्सर्गास्थितिसंहारकारिणे ।
ब्रह्मोपेन्द्रेन्द्रवपुषे त्रिगुणाय त्रिमूर्तये ॥ १३.१३७१ ॥
इति स्तुतिपदैर्दिव्यैर्वेदप्रोक्तैश्च नामभिः ।
सहस्रसंख्यैः स मुनिस्तुष्टाव शशिशेखरम् ॥ १३.१३७२ ॥
एवमीश्वरसंबद्धाः कृत्वाहं मुनिना कथा ।
अगमं गरुडारूढो द्वारकं हर्षनिर्भरः ॥ १३.१३७३ ॥
जाम्बवत्यास्ततः श्रीमान्वंशमुक्तामणिः सुतः ।
साम्बोऽभवद्गुणान्यस्य जानीषे धर्मनन्दन ॥ १३.१३७४ ॥
इति कृष्णेन कथितं श्रुत्वा भीष्मसभासदः ।
मुनयो मनसा देवं नीलकण्ठं ववन्दिरे ॥ १३.१३७५ ॥
- मेघवाहनपर्व ॥ १०२ ॥ *****
चपलाः सहचारिण्यः कथं जाया नृणामिति ।
पुनः पृष्टः क्षितिभुजा बभाषे जाह्निवीसुतः ॥ १३.१३७६ ॥
अष्टावक्रो मुनिः पूर्वं विवाहार्थी सुलोचनाम् ।
अपश्यत्सुप्रभां नाम वदन्यस्य मुनेः सुताम् ॥ १३.१३७७ ॥
इन्दुकुन्दाङ्कुराकारसुकुमारतराकृतिम् ।
स तामालोक्य सुमुखीं ययाचे सोत्सुको मुनिम् ॥ १३.१३७८ ॥
तं वदन्योऽवदद्गच्छ विशालां दिशमुत्तराम् ।
अतिक्रम्य कुबेरस्य भवनं भवसेवितम् ॥ १३.१३७९ ॥
ततः प्रतिनिवृत्ताय तुभ्यं दास्यामि सुप्रभाम् ।
इत्युक्तः स वदन्येन प्रतश्ते तां दिशं शनैः ॥ १३.१३८० ॥
ततो हिमाद्रिमुल्लङ्ख्य बाहुदां च महानदीम् ।
अशोके विमले स्नात्वा रुद्राणी कूपमाप्तवान् ॥ १३.१३८१ ॥
स कैलासतटं प्राप्य ददर्श धनदालयम् ।
हेमपङ्कजिनीतीरलसत्कल्पलतावनम् ॥ १३.१३८२ ॥
सादरं पूजितस्तेन राज्ञा वैश्रवणेन सः ।
उवास वत्सरं साग्रं विलासमणिवेश्मसु ॥ १३.१३८३ ॥
चिरमप्सरसां नृत्तैर्गीतैर्गन्धर्वयोषिताम् ।
प्रीतिमासाद्य विपुलामामन्त्र्य धनदं ययौ ॥ १३.१३८४ ॥
तो गिरीन्द्रानुल्लङ्घ्य समां मणिमयीं भुवम् ।
अवतीर्य घनच्छायं पाप रत्नलतावनम् ॥ १३.१३८५ ॥
हेमपुष्करिणीशीते स तस्मिन्दिव्यकानने ।
मणिमौक्तिकजालाङ्गं ददर्शोदारमन्दिरम् ॥ १३.१३८६ ॥
सोऽथ द्वाराग्रमभ्येत्य तस्य वैडूर्यवेश्मनः ।
प्राप्तोऽहमतिथिर्दूरादित्यूचे संश्रयाशया ॥ १३.१३८७ ॥
ततः सप्त विनिर्गत्य कन्याः कमललोचनाः ।
दिव्यभूषणसंपन्नास्तस्यातिथ्यं प्रचक्रिरे ॥ १३.१३८८ ॥
गृहं प्रवेशितस्ताभिर्हेमरत्नासनोज्ज्वलम् ।
ददर्श मणिपर्यङ्के वृद्धां भास्वरभूषणाम् ॥ १३.१३८९ ॥
तया मधुरवादिन्या प्राप्य निर्दिष्टमासनम् ।
गतक्लमः क्षणं तस्थौ मुनिर्विस्मयनिश्चलः ॥ १३.१३९० ॥
दिनान्ते सोऽथ ताः प्राह यान्तु सर्वाः स्वमालयम् ।
एकैव शान्तहृदया परिचर्यां करोतु मे ॥ १३.१३९१ ॥
इत्युक्ते मुनिना सर्वाः प्रययुस्ताः सुलोचनाः ।
एकैव जरती तत्र स्थौ शशिसितांशुका ॥ १३.१३९२ ॥
अष्टावक्रोऽथ सुष्वाप शयने स्पर्शशालिनि ।
वितानालम्बिमन्दारदाम्नि स्वच्छोत्तरच्छदे ॥ १३.१३९३ ॥
द्वितीयशयनाद्वृद्धा समुत्थाय ततः शनैः ।
मुनेः शय्यान्तिकं पायान्निभृता ब्रह्मचारिणः ॥ १३.१३९४ ॥
कम्पमानतनुः साथ शय्यामारुह्य विक्लवा ।
मुनिं शीतापदेशेन निबिडं परिषस्वजे ॥ १३.१३९५ ॥
आलिङ्ग्यमानः स तया तस्थौ काष्ठमिवाचलः ।
परदारपरिष्वङ्गशङ्कासक्तचिताशयः ॥ १३.१३९६ ॥
साथ तं स्पर्शविमुखं प्रणयान्मञ्जुवादिनी ।
उवाच भोगसंकल्पभङ्गं मा मे कृथाः प्रभो ॥ १३.१३९७ ॥
इदं मे रत्नभवनं चारुरत्नलतावनम् ।
त्वदधीनमकस्मान्मे चेतो हि रमते त्वयि ॥ १३.१३९८ ॥
न ते दोषोऽस्ति मत्सङ्गे त्याज्या नैव तु योषितः ।
दुर्गमं नाभिजानन्ति गणयन्ति न च श्रमम् ॥ १३.१३९९ ॥
प्रयान्ति पुरुषानेव रागवागुरया स्त्रियः ।
नैताः कुलानुरोधेन निवर्तन्ते न चेर्ष्यया ॥ १३.१४०० ॥
रामास्वरुद्धप्रसरः सर्वथा मकरध्वजः ।
स्त्री सतीति प्रवादोऽयमेकसक्तेति का कथा ॥ १३.१४०१ ॥
नरान्तरं प्रयान्त्येता निम्नाम्नमिवापगाः ।
मन्मथप्रेरिता नारी विमर्षं भजते कथम् ॥ १३.१४०२ ॥
यासां प्राणपणेनापि वल्लभं सुरतामृतम् ।
इत्यर्थमानोऽपि तया नाब्यनन्दत्स तां मुनिः ॥ १३.१४०३ ॥
अन्येद्युरपि सा रात्रौ तथैव तमभाषत ।
भजस्व स्वयमायातां दुःसहो मे स्मरज्वरः ॥ १३.१४०४ ॥
निषेधो रतिवाञ्छासु निधनं किल योषिताम् ।
इत्युक्त्वा निर्विकारं तं सा दृष्ट्वा पुनरब्ररवीत् ॥ १३.१४०५ ॥
मामुत्तरां दिशं विद्धि स्त्रीवृत्तान्तं प्रदर्शितम् ।
अधुना तां वदन्यस्य गत्वा प्राप्नुहि कन्यकाम् ॥ १३.१४०६ ॥
एतदाकर्ण्य स मुनिस्तामामन्त्र्य सविस्मयः ।
शनैः प्रतिययौ ज्ञानस्त्रीवृत्तो निजमाश्रमम् ॥ १३.१४०७ ॥
ततो वदन्यमभ्येत्य स्त्रीवृत्तान्तं निवेद्य तम् ।
अवापोद्वाहविधिना वितीर्णां तेन सुप्रभाम् ॥ १३.१४०८ ॥
- अष्टावक्रदिक्संवादः ॥ १०३ ॥ *****
अथ विध्यनुगं श्राद्धं पात्रापात्रक्रमं तथा ।
राज्ञा गतिं च तीर्थं च पृष्टः शान्तनवोऽब्रवीत् ॥ १३.१४०९ ॥
यजेत देवान्पूर्वाह्णे शुचिः शुक्लो जितेन्द्रियः ।
मङ्गलालंकृतं स्रग्वी भोगौः सुद्धैर्मनोरमैः ॥ १३.१४१० ॥
वित्र्यं कर्मापराह्णे तु कुर्यात्प्रयतमानसः ।
तेषु तेषु च कालेषु देशेषु च यताविधि ॥ १३.१४११ ॥
देशकालादिरहितं श्वावलीढं रसच्युतम् ।
कीटकोशास्थिसंस्पृष्टं श्राद्धमश्नन्ति राक्षसाः ॥ १३.१४१२ ॥
उन्मत्ताः कृपणाः काणाः कुष्ठिनो वृषलीवराः ।
चिकित्सका वार्धुषिका गीतनृत्यादिजीविनः ॥ १३.१४१३ ॥
हीनाधिकाङ्गा गुरवो ब्रह्मविक्रयिणोऽनृताः ।
अनग्नयः सत्त्रभुजः क्षत्त्रियाः क्षेत्रजीविनः ॥ १३.१४१४ ॥
पिशुना व्रतहीनाश्च वेदविद्याविवर्जिताः ।
परिहार्याः सदा विपाः श्राद्धाघ्ना हैतुकास्तथा ॥ १३.१४१५ ॥
परस्वहारिणां पुंसां परदाराभिगामिनाम् ।
भग्नव्रतानां लुब्धानां निषिद्धक्रय्यजीविनाम् ॥ १३.१४१६ ॥
वृत्तिच्छेदं सुहृच्छेदं भर्तृच्छेदं च कुर्वताम् ।
विहिताचारहीनानां निरयो निलयोऽक्षयः ॥ १३.१४१७ ॥
करुणापूर्णमनसां त्यागिनां पात्रवर्षिणाम् ।
क्षमावतामाश्रमिणां प्रपाकूपसभाकृताम् ॥ १३.१४१८ ॥
याजिनां तीर्थपूतानां विदुषां सत्यवादिनाम् ।
मद्यमांसविरक्तानां स्वर्गमार्गो निरर्गलः ॥ १३.१४१९ ॥
गौतमेन पुरा पृष्टः सर्वविन्मुनिरङ्गिराः ।
उवाच पुण्यं तीर्थानां तपोयोगेन सस्मितम् ॥ १३.१४२० ॥
चन्द्रभागा वितस्ता च कश्मीरसरितस्तथा ।
मुनितुल्यां गतिं पुंसां प्रयच्छन्त्येव सेविताः ॥ १३.१४२१ ॥
भागीरथीं कौशिकीं च रामणीं नर्मदां तथा ।
प्रयागं नन्दिकुण्डं च विपाशं मानसं सरः ॥ १३.१४२२ ॥
पुण्यतीर्थानि चान्यानि नरः प्राप्य जितेन्द्रियः ।
सर्वतीर्थफलं दाता लभते प्रागुपोषितः ॥ १३.१४२३ ॥
गङ्गा तु सर्वतीर्थानां प्रवरं तीर्थमुच्यते ।
अस्थिमात्रे यया स्पृष्टे नृणां स्वर्गतिरक्षया ॥ १३.१४२४ ॥
न ते देशा न ते शैला न ते जनपदाः क्षितौ ।
पताका यस्य पुण्यस्य जाह्नवी न विभाव्यते ॥ १३.१४२५ ॥
किमपायमयैर्यज्ञैः किं तपोभिः श्रमप्रदैः ।
जह्नुकन्यापयःपूतं यदि पुण्यवतां वपुः ॥ १३.१४२६ ॥
व्योमश्रीमौक्तिकलता श्रीकण्ठोत्तंसमालिका ।
याता स्मृतिपदं येषां भङ्गायैवाखिलैनसाम् ॥ १३.१४२७ ॥
गङ्गाजलेन स्पृष्टानां फलमल्पं सुरालयः ।
शिलोञ्छवृत्तिना पूर्वं सिद्धः पृष्टोऽब्रवीदिति ॥ १३.१४२८ ॥
एतदङ्गिरसा प्रोक्तं निशम्य किल गौतमः ।
स्मृत्वा ववन्दे सानन्दः पुण्यां मन्दाकिनीं मुनिः ॥ १३.१४२९ ॥
- आङ्गिरसीयम् ॥ १०४ ॥ *****
कथं प्राप्यं मनुष्येण ब्राह्मण्यमिति भूभुजा ।
पृष्टो देवव्रतः प्राह ब्राह्मण्यं दुर्लभं नृप ॥ १३.१४३० ॥
पितुर्नियोगाद्यज्ञार्थं मतङ्गख्यो द्विजन्मनः ।
व्रजन्वाहं प्रतोदेन खरं गाढमताडयत् ॥ १३.१४३१ ॥
गर्दभी व्यथितं दृष्ट्वा पुत्रं दुःखादुवाच तम् ।
ब्राह्मण्यं नास्य तेनैष जातश्चण्डालचेष्टितः ।
वहैनमिति तच्छ्रुत्वा प्रियः पप्रच्छ तां पुनः ॥ १३.१४३२ ॥
तया निवेदितां जातिं निजां ज्ञात्वा स दुःखितः ।
मेरोः शृङ्गादिव श्वभ्रे पतितो विललाप सः ॥ १३.१४३३ ॥
पित्रे निवेद्य तत्पापं मातुः स तपसे वनम् ।
गत्वा ब्राह्मण्यकामोऽभूत्स्थाणुभूतः शतं समाः ॥ १३.१४३४ ॥
शक्रादपि स्वयं प्राप्तान्नैव ब्राह्मण्यमाप्तवान् ।
ततो गत्वा गयां चक्रे सहस्राब्दं परंतपः ॥ १३.१४३५ ॥
पुनः पुनः स तपसा धूमायितजगत्त्रयः ।
इन्द्रादवाप देवत्वं न तु ब्राह्मण्यमुत्तमम् ॥ १३.१४३६ ॥
छन्दोदेव इति ख्यातः स मतङ्गाभिधः पुरा ।
खेचरोऽभून्मृगाक्षीणां पूज्यः परमवल्लभः ॥ १३.१४३७ ॥
- इन्द्रमातङ्गम् ॥ १०५ ॥ *****
वीतहव्यस्य नृपतेर्ब्राह्मण्यं श्रूयते किल ।
तद्वदेति पुनः पृष्टो राज्ञा प्राह पितामहः ॥ १३.१४३८ ॥
वीतहव्यसुतैः पूर्वं हेहयैर्बलवत्तरैः ।
हर्यश्वो नाम समरे काशिराजो निपातितः ॥ १३.१४३९ ॥
कालेन तस्य पुत्रोऽपि पुनस्तैरेव संगरे ।
स देवः काशिनगरे लब्धलक्ष्यैर्निपातितः ॥ १३.१४४० ॥
तत्सुतोऽपि दिवोदासस्तैरेव युधि निर्जितः ।
भरद्वाजप्रसादात्स लेभे पुत्रं प्रतर्दनम् ॥ १३.१४४१ ॥
स वीतहव्यतनयान्सर्वानभ्येत्य संगरे ।
जघान परमास्त्रज्ञो भरद्वाजवरोऽर्जितः ॥ १३.१४४२ ॥
वीतहव्यो हतसुतः प्रनष्टबलवाहनः ।
प्रतर्दनेनानुसृतः प्रययौ शरणं भृगुम् ॥ १३.१४४३ ॥
भृगोराश्रममासाद्य वीतहव्यवधोद्यतः ।
प्रतर्दनो मुनिं प्राह मुञ्चैनमिति दुर्मदः ॥ १३.१४४४ ॥
तच्छ्रुत्वा क्षत्रियो नेह कश्चित्सर्वे द्विजा वयम् ।
इत्युवाच भृगुर्भीतस्ततोऽसत्यादकम्पत ॥ १३.१४४५ ॥
क्षत्त्राभिधानात्प्रभ्रष्टं शत्रुं ज्ञात्वा प्रतर्दने ।
याते भृगुर्वीतहव्यं सत्यवाग्ब्राह्मणं व्यधात् ॥ १३.१४४६ ॥
- वीतहव्योपाख्यानम् ॥ १०६ ॥ *****
के प्रणम्या इति पनः पृष्टः शान्तनवोऽब्रवीत् ।
स्वकर्मधर्मनिरता हंसारागविवर्जिताः ॥ १३.१४४७ ॥
प्रणम्या ब्राह्मणा एव पवित्रचरितव्रताः ।
यैषां कोपप्रसादाभ्यां शोषः पोषश्च भूभुजाम् ॥ १३.१४४८ ॥
भूमिदेवाः सदा पूज्या यत्प्रसादाद्धुताशनः ।
हव्यं कव्यं च वहति कृष्णमित्याह नारदः ॥ १३.१४४९ ॥
जेय बलं भये रक्षा भेषजं व्यसनामये ।
परलोकेऽस्तु वो विप्राः शक्रमित्याह शम्बरः ॥ १३.१४५० ॥
- ब्राह्मणप्रशंसा ॥ १०७ ॥ *****
स्त्रीणां निसर्गलोलानां स्वभावं पाण्डुसूनुना ।
पृष्टो दुर्लक्ष्यचित्तानां व्याजहार पितामहः ॥ १३.१४५१ ॥
स्त्रीस्वभावं पुरा पृष्टा नारदेन सुराङ्गना ।
जगाद पञ्चचूलाख्या यथार्थं शापकम्पिता ॥ १३.१४५२ ॥
स्त्री सती स्त्रीस्वभावं च मादृशी वक्तुमर्हति ।
शासनात्तव भीताहं किंतु वक्ष्यामि तत्त्वतः ॥ १३.१४५३ ॥
संघर्षक्षोभकारिण्यः सोद्वेगाः कलुषाशयाः ।
मत्ता हरन्त्येव वपुर्निम्नगा इव निम्नगाः ॥ १३.१४५४ ॥
अप्यन्विष्टा न लभ्यन्ते संत्यक्ता न त्यजन्ति च ।
वासना इव संसारे मोहनैकरताः स्त्रियः ॥ १३.१४५५ ॥
प्रहसन्ति विषादिन्यो हृष्टाः शोचन्ति हेलया ।
रागिण्योऽपि प्रियं घ्नन्ति को हि तां वेत्ति योषितम् ॥ १३.१४५६ ॥
न कुलेन न मानेन न धनेन न सेवया ।
मर्यादामनुवर्तन्ते ललनाश्चपलाशयाः ॥ १३.१४५७ ॥
सुवेशं सुभगं कान्तं त्यक्त्वा परिचितं चिरम् ।
निन्द्येनादृष्टपूर्वेण रमन्ते स्वेच्छया स्त्रियः ॥ १३.१४५८ ॥
संभाषिताश्चेन्मधुरं सस्मितं चेद्विलोकिताः ।
यन्त्रिताः स्वजनेनापि तदा साध्या न योषितः ॥ १३.१४५९ ॥
अर्थिनामप्यलाभेन दुःखदैन्यश्रमेण वा ।
अकस्मादेव नारीणां सतीत्वं जायते क्वचित् ॥ १३.१४६० ॥
नानापुरुषसंवासहासोल्लासविलासिनीम् ।
वेश्यायोषां निरीक्षन्ते सस्पृहं कुलयोषितः ॥ १३.१४६१ ॥
निषेधादेव नारीणमभिलाषो विवर्धते ।
परसङ्गेष्वपथ्येषु बालानामिव रोगिणाम् ॥ १३.१४६२ ॥
अच्छिन्नप्रसरः कामो नैवासां क्षमते धृतिम् ।
मिथो यावत्प्रवर्तन्ते पुरुषासंभवे स्त्रियः ॥ १३.१४६३ ॥
क्रूंराणां क्षणरागाणां संध्यानामिव योषिताम् ।
सततासन्नदोषाणां धीमान्को नाम विश्वसेत् ॥ १३.१४६४ ॥
सर्वथा न भवत्येव कारुण्यमिव पापिनाम् ।
अनुत्सेक इवाढ्यानामार्जवं हरिणीदृशाम् ॥ १३.१४६५ ॥
उपरोधैर्बहुविधैरपि साध्व्यो नियन्त्रिताः ।
कान्तं पुरुषमालोक्य यान्त्येव सहसार्द्रताम् ॥ १३.१४६६ ॥
सुरशङ्कास्पदमभूत्पुरा वन्द्यो वधूजनः ।
ततः सुरार्थितो धाता कृत्यासर्गाद्व्यधात्स्त्रियः ॥ १३.१४६७ ॥
लज्जां लभन्ते ललनाः पुंसां कौतुकवृद्धये ।
पत्युर्विश्वासनोपायं कृतकं च सतीव्रतम् ॥ १३.१४६८ ॥
नृत्यन्ति शोचन्ति पतन्ति यान्ति हसन्ति गायन्ति वदन्ति यच्च ।
तद्योषितः स्वप्नसमानचेष्टं मायामयं सर्वमसत्यमेव ॥ १३.१४६९ ॥
- नारदपञ्चचूडासंवादः ॥ १०८ ॥ *****
ताः स्त्रियो लोलमतयः कथं रक्ष्या नरैरिति ।
पृष्टो युधिष्ठिरेणाह पुनस्त्रिपथगासुतः ॥ १३.१४७० ॥
देवशर्मां मुनिः पूर्वं यज्ञार्थं गन्तुमुद्यतः ।
शशास शिष्यं विपुलं बहुमायं शतक्रतुम् ॥ १३.१४७१ ॥
ज्ञात्वा रुचिं शरीरान्तः प्रविश त्वं समीरवत् ।
गात्रैर्गात्राण्यवष्टभ्य तस्यास्तस्थौ स यत्नवान् ॥ १३.१४७२ ॥
अत्रान्तरं समासाद्य सहस्राक्षः समाययौ ।
स ददर्श रुचिं चारुलोचनामचलां पुनः ॥ १३.१४७३ ॥
हेमस्तनोरुजघनां काञ्चनीमिव पुत्रिकाम् ।
आखण्डलमथासाद्य सा संजातमनोभवा ॥ १३.१४७४ ॥
वक्तुं विपुलसंरुद्धा न शशाक सुलोचना ।
आकीर्णहासकुसुमा विलोलालकषटूपदम् ।
लतामिव निवातस्थां सकम्पकरपल्लवाम् ॥ १३.१४७५ ॥
दृष्ट्वा तां विस्मितः शक्रः प्रायाद्विपुलतर्जितः ।
अभ्येत्य देवशर्माथ सर्वं तद्बुबुधे मुनिः ॥ १३.१४७६ ॥
तस्मादवाप्य विपुलस्ततस्तुष्टाद्गुरोर्वरान् ।
चचार कृतकृत्यः क्ष्मां पूज्यमानो नृपैर्द्विजैः ॥ १३.१४७७ ॥
अत्रान्तरे स्वसुर्भर्त्रा रुचिरङ्गमहीभुजा ।
निमन्त्रिता गृहेऽपश्यद्भगिनीं पुष्पभूषिताम् ॥ १३.१४७८ ॥
विसृष्टस्तद्गिरा शिष्यः पुष्पार्थं देवशर्मणा ।
ददर्श मिथुनं षट्च देविनः कितवान्पथि ॥ १३.१४७९ ॥
तेषां विवादे शुश्राव शपथं विपुलार्जितान् ।
स लोकानाप्नुयाद्यश्च प्रचलेत्संविदमिति ॥ १३.१४८० ॥
तच्छ्रुत्वा दुःखितोऽभ्येत्य गुरवे स न्यवेदयत् ।
शङ्कमानो गुरुवधूगात्रसंस्पर्शपातकम् ॥ १३.१४८१ ॥
गुरुस्तमूचे मिथुनमहोरात्रं तदुच्यते ।
ऋतवः षट्च कितवास्ते नृणां कर्मसाक्षिणः ॥ १३.१४८२ ॥
न शक्या रक्षितुं नार्यो रक्षिता च त्वया रुचिः ।
असत्येन तवोदीर्णं तस्मान्नश्यतु पातकम् ॥ १३.१४८३ ॥
इत्येवं रक्षैता पूर्वं विपुलेन गुरोः प्रिया ।
न त्वेता रक्षितुं शक्तः कश्चिल्लोलविलोचनाः ॥ १३.१४८४ ॥
- विपुलोपाख्यानम् ॥ १०९ ॥ *****
विवाहधर्मं पृष्टोऽथ राज्ञा भीष्णोऽब्रवीत्पुनः ।
कन्या गुणवते देया कुलीनायातिरूपिणे ॥ १३.१४८५ ॥
शूद्रायेव श्रुतिः कन्या हीनाय प्रतिपादिता ।
कुलद्वयं दहत्येव तस्मात्पात्रं विचारयेत् ॥ १३.१४८६ ॥
अशास्त्रोक्तैः परिणयैर्जायते वर्णसंकरः ।
संयोगैर्विषमैः पुंसां पतति व्यसने कुलम् ॥ १३.१४८७ ॥
- विवाहधर्माः ॥ ११० ॥ *****
दर्शने सहवासे च सतां पृष्टो महीभुजा ।
माहात्म्यं च गवां बीष्मः सर्वज्ञः पुनरब्रवीत् ॥ १३.१४८८ ॥
गङ्गायमुनयोर्मध्ये च्यवनोऽन्तर्जलव्रतः ।
तस्थौ मुनीन्द्रः सुचिरं स्थाणुभूतो महातपाः ॥ १३.१४८९ ॥
आघ्राय पुण्यमामोदं तस्य कारुण्यशालिनः ।
आलीय तस्थुर्गात्रेषु मत्स्या वलयलीलया ॥ १३.१४९० ॥
ततः कालेन महता जालेनाकृष्य धीवराः ।
विपुलं मत्स्यसंघातं तन्मध्ये ददृशुर्मुनिम् ॥ १३.१४९१ ॥
शैवालनालवलितं शङ्खिकङ्कणमालितम् ।
हरिश्मश्रुजटापिङ्गं तेजसामिव संचयम् ॥ १३.१४९२ ॥
तं वीक्ष्य कम्पिताः सर्वे सहसा जालजीविनः ।
निमीलिताक्षं जगदुः प्रसीद भगवन्निति ॥ १३.१४९३ ॥
ततः स करुमाविष्टो मत्स्येषु सहवासिषु ।
निषादानवदत्पश्यन्दृशानुग्रहवाञ्छया ॥ १३.१४९४ ॥
विक्रीय मां विमुच्यन्तां युष्माभिः सलिलौकसः ।
दयिताः सहवासान्मे मत्स्या यूयं च दर्शनात् ॥ १३.१४९५ ॥
इत्युक्ते मुनिना दाशास्तूर्णं गत्वा महीभुजे ।
वेपमानाः स्ववृत्तान्तं नहुषाय न्यवेदयन् ॥ १३.१४९६ ॥
ततः स्वयं स नृपतिः पूजामादाय सत्वरः ।
पुरोहितं पुरस्कृत्य च्यवनं द्रष्टुमाययौ ॥ १३.१४९७ ॥
कृतप्रणामं नहुषं मुनिर्वीक्ष्य कृताञ्जलिम् ।
यथोचितेन मूल्येन मां गृहाणेत्यचोदयत् ॥ १३.१४९८ ॥
धीवरेभ्यः सहस्राणि कोटिकोटिशतानि च ।
राज्यार्धमथवा राज्यं ददानीत्यब्रवीन्नृपः ॥ १३.१४९९ ॥
नैतन्ममोचितं मूल्यं चिन्त्यतां मुनिभिः सह ।
नृपं दाशेषु कारुण्यादित्युवाचासकृन्मुनिः ॥ १३.१५०० ॥
ततो विषण्णं नहुषं शापभीतमधोमुखम् ।
गवि जातो द्विजवरो बभाषे धीमतां वरः ॥ १३.१५०१ ॥
मूल्यं मुनीश्वरस्यास्य तुल्यं गौरेव यत्परम् ।
तस्मादेनं गवा राजन्गृहाण भव निर्वृतः ॥ १३.१५०२ ॥
ब्राह्मणेनेत्यभिहिते प्रहृष्टः पृथिवीपतिः ।
मुक्तये मत्स्यसंघानां गवा जग्राह भार्गवम् ॥ १३.१५०३ ॥
ततो दर्शनवात्सल्याच्च्यवनः करुणानिधिः ।
दाशेभ्यः प्रतिजग्राह धेनुं तत्कुशले स्थितः ॥ १३.१५०४ ॥
मुनीन्द्रेण गृहीतायां विधिवद्गवि धीवराः ।
तद्दृष्टिपातान्मत्स्याश्च सशरीरा दिवं गताः ॥ १३.१५०५ ॥
अमृतायतनं गावः पवित्रा रुद्रमातरः ।
स्मृतिमात्रेण मुष्णन्ति किल्बिषं किल देहिनाम् ॥ १३.१५०६ ॥
- च्यवनोपाख्यानम् ॥ १११ ॥ *****
कुशिकस्य क्षितिपतेर्जातो विप्रः कथं कुले ।
भृगोर्नृपश्चेति राज्ञा पृष्टोऽवादीत्सुरव्रतः ॥ १३.१५०७ ॥
पुरा
भाविकथाभिज्ञश्च्यवनस्तेजसां निधिः ।
मन्दिरे पूजितस्तस्थौ कुशिकस्य महीपतेः ॥ १३.१५०८ ॥
स भूभुजा सभार्येण परिचर्याव्रते धृते ।
भुक्त्वा सुष्वाप निश्चेष्टः सप्तरात्रत्रयं मुनिः ॥ १३.१५०९ ॥
पादसंवाहनं तस्य निराहारो वधूसखः ।
राजा चकार निभृतो निद्राभङ्गभयाकुलः ॥ १३.१५१० ॥
ततो मुनिः समुत्थाय मौनी गत्वा मनोजवः ।
अन्तर्दधे सभार्येण नृपेणानुसृतः पथि ॥ १३.१५११ ॥
तस्मिन्नन्तर्हिते राजा निराहारोऽतिमूर्च्छितः ।
पतितः क्षणमाश्वास्य विवेश स्वगृहं पुनः ॥ १३.१५१२ ॥
तौ दम्पती ददृशतुर्मूकं काष्ठमिवाचलम् ।
एकपार्श्वेन सुप्तस्य क्षपास्तस्यैकविंशतिम् ।
तस्थतुस्तौ निराहारौ पादसंवाहने पुनः ॥ १३.१५१३ ॥
प्रतिबुद्धोऽथ तैलेन शतपातेन भुभुजा ।
भक्त्या निर्वर्तितस्नानो भेजे सिंहासनं मुनिः ॥ १३.१५१४ ॥
ततो नानाविधं भोज्यं राजयोग्यं स्वयं कृतम् ।
दत्तं राज्ञा सभार्येण ददाह भृगुनन्दनः ॥ १३.१५१५ ॥
पुनरन्तर्हितो भूत्वा पुनः कृत्वास्य संनिधिम् ।
निर्विकारं सभार्यं तं दृष्ट्वाभूद्विस्मितो मुनिः ॥ १३.१५१६ ॥
अविक्रियं निराहारं स राजानं वधूसखम् ।
रथेन सांयुगीनेन वह मामित्यचोदयत् ॥ १३.१५१७ ॥
इत्युक्त्वा दम्पती धृत्वा तौ रथे विचचार सः ।
त्रिकण्ठककषाघातसंजातकृतजोक्षितौ ॥ १३.१५१८ ॥
अदर्शयत्ततश्चित्रहेमवल्लीमनोहरम् ।
स्वर्गं सनन्दनोद्यानं मुनिस्तौ मोहयन्मुहुः ॥ १३.१५१९ ॥
दृष्टनष्टैर्बहुविधैर्मायाचटुलविभ्रमैः ।
मुनिना विहितैर्मोहं दम्पती तौ न जग्मतुः ॥ १३.१५२० ॥
वेपमानौ निराहारौ दूराध्वश्रमकर्षितौ ।
तुष्टश्चिरानमुनिवरो रथान्मुक्त्वा जगाद तौ ॥ १३.१५२१ ॥
प्रीतोऽहं युवयोर्भक्त्या गृह्णीतमधुना वरम् ।
पौत्रस्ते ब्राह्मणो राजन्भविष्यति महातपाः ॥ १३.१५२२ ॥
तद्वंशजैर्विरोधोऽयं भार्गवानामुपस्थितः ।
तस्मात्क्षत्रियविच्छेदधिया त्वं पीडितो मया ॥ १३.१५२३ ॥
गतक्लमो निवृत्तश्च पीयूषैरिव पूरितः ।
भव मद्वचसा धन्यः सभार्यः पृथिवीपते ॥ १३.१५२४ ॥
इत्युक्त्वान्तर्हिते तस्मिंस्तस्य कालेन भूपतेः ।
अजायत कुले श्रीमान्विनश्वामित्रस्तपोनिधिः ॥ १३.१५२५ ॥
भार्गवश्च यथा जातो रामः क्षत्रक्षयोऽर्जितः ।
ऋचीकस्य प्रभावेण तन्मया कथितं पुरा ॥ १३.१५२६ ॥
- च्यवनकुशिकसंवादः ॥ ११२ ॥ *****
श्रुत्वैतद्भूभुजा पृथ्वीक्षयपातकशङ्किना ।
पुनः पृष्टोऽवदद्भीष्णो दानानां फलमुत्तमम् ॥ १३.१५२७ ॥
तपसा लभ्यते सर्वमाचारेण दमेन च ।
आनृशंस्येन सत्येन दानेन च समीहितम् ॥ १३.१५२८ ॥
दत्त्वा विभूषितां धेनुं कपिलां कांस्यदोहनीम् ।
पृथिवीदानसदृशं फलं प्राप्नोति मानवः ॥ १३.१५२९ ॥
प्रयाति वसुलोकं च तिलधेनुप्रदो नरः ।
कन्याभूमिप्रदः शक्रलोकमासाद्य मोदते ॥ १३.१५३० ॥
भूताभयप्रदानं तु दानानां प्रवरं स्मृतम् ।
निजाभिमतदानं च सर्वकामफलप्रदम् ।
सुवर्णदानेन नृणां क्षीयते किल पातकम् ॥ १३.१५३१ ॥
सर्वं सूते वसुमती धत्ते च निखिलं जगत् ।
ज्ञेयः सर्वप्रदस्तस्माद्दातॄणां भूमिदो वरः ॥ १३.१५३२ ॥
अन्नं शरीरिणां प्राणास्तस्मात्प्राणप्रदोऽन्नदः ।
अन्नदानसमं लोके नास्तीति प्राह नारदः ॥ १३.१५३३ ॥
पानीयदानममृतं प्राणिनां संप्रचक्षते ।
विच्छायतापज्वलिताः परलोके हि भूमयः ॥ १३.१५३४ ॥
तिलप्रदानं शंसन्ति क्षयाय निखिलैनसाम् ।
तुष्टो यमः पुरा विप्रं तिलान्देहीत्यचोदयत् ॥ १३.१५३५ ॥
ब्रह्मस्ववर्जं सर्वस्वं दत्त्वा दुर्गाणि संतरेत् ।
ब्रह्मस्वशल्यं हि नृणां तीव्रपातं प्रचक्षते ॥ १३.१५३६ ॥
द्वारवत्यां महाकूपे पुरा गुल्मतृणावृते ।
कृकलासं महाकायं ददृशुः सर्ववृष्णयः ॥ १३.१५३७ ॥
स तैः पृष्टः समुद्धर्तुमशक्तैरवदच्छनैः ।
नृगोऽहं नृपतिर्ब्रह्मशापाद्यातो दशामिमाम् ॥ १३.१५३८ ॥
विप्रेभ्यो गृहमेधिभ्यो निखर्वाणि पुरा गवाम् ।
हेमकोटिप्रदो दत्त्वा यातोऽहं निर्वृतिं पराम् ॥ १३.१५३९ ॥
ततः कदाचिन्मद्दत्तधेनुं विप्रस्य मन्दिरे ।
निजां चौरहृतां दृष्ट्वा जग्राह ब्राह्मणोऽपरः ॥ १३.१५४० ॥
राज्ञा ममेयं प्राग्दत्ता हृतेयं दस्युना परः ।
एवं विवदमानौ तौ मत्सभामभिजग्मतुः ॥ १३.१५४१ ॥
तद्वृत्तान्तमहं श्रुत्वा प्रार्थना बहुशस्तयोः ।
धनैर्गोभिर्नरैरश्वैर्यत्नादकरवं पृथक् ॥ १३.१५४२ ॥
तथाप्येको न तत्याज गां प्रतिग्रहपालनात् ।
द्वितीयश्च गृहे जातां तां स्नेहभयकातरः ॥ १३.१५४३ ॥
अथ कालेन यातोऽहं धर्मराजनिकेतनम् ।
बहुदानार्जितांल्लोकान्दिव्यानश्रौषमात्मनः ॥ १३.१५४४ ॥
किंतु ब्रह्मस्वविभ्रंशान्ममेमां कृकलासताम् ।
शौरिदर्शनपर्यन्तामादिदेश स्वयं यमः ॥ १३.१५४५ ॥
इति ब्रुवाणः कृष्णस्य दशा विध्वस्तपातकः ।
नृगो जगाम त्रिदिवं त्यक्त्वा तां कृकलासताम् ॥ १३.१५४६ ॥
- नृगोपाख्यानम् ॥ ११३ ॥ *****
उद्दालकस्य ब्रह्मर्षेः पितुः कोपान्महामुनिः ।
नासिकेताभिधः प्राणांस्तत्याजाभिहतो दृशा ॥ १३.१५४७ ॥
पुत्रं निपतितं दृष्ट्वा शान्तक्रोधो मुनिः शनैः ।
अजीवयन्मन्त्रनिधिः कारुण्यात्साश्रुलोचनः ॥ १३.१५४८ ॥
ततः स्वप्नोत्थित इव प्राप्तजीवो मुनेः सुतः ।
पित्रा पृष्टोऽवदत्सर्वं दृष्टं यद्यममन्दिरे ॥ १३.१५४९ ॥
रत्नस्तम्भशतोदारे पितृराजसभातले ।
अवापं विपुलां पूजां पाद्यमर्ध्यं तथासनम् ॥ १३.१५५० ॥
तत्रापश्यं विमानेषु सूर्येन्दुद्युतिकान्तिषु ।
भास्वराभरणस्मेरान्नरान्सुकृतशालिनः ॥ १३.१५५१ ॥
घृतक्षीरामृतजला दृष्टास्तत्र मयापगाः ।
हेमाब्जपुञ्जकुञ्जाग्रकूजन्मणिविहङ्गमाः ॥ १३.१५५२ ॥
दिव्यान्भोगान्मया दृष्ट्वा पृष्टो वैवस्वतः स्मयात् ।
एताः पीयूषवाहिन्यः केषां स्वेच्छापरिग्रहाः ॥ १३.१५५३ ॥
यमोऽब्रवीद्गोप्रदानामेताः क्षीरघृतापगाः ।
नादत्त्वा पुरुषो धेनुं परमामृतमश्नुते ॥ १३.१५५४ ॥
असंभवे गवां यावत्सलिलेन तिलेन च ।
घृतेन वा कल्पयित्वा धेनुं दद्यात्सुधाशया ॥ १३.१५५५ ॥
गोदानसदृशं लोके दानमन्यन्न विद्यते ।
सादरं मां पुतृपतिर्जगादेति पुनः पुनः ॥ १३.१५५६ ॥
इत्युक्ते नासिकेतेन मुनिर्मुनिशतैर्वृतः ।
गोप्रदानं महत्पुण्यं प्रशशंस मुहुर्मुहुः ॥ १३.१५५७ ॥
- नासिकेतोपाख्यानम् ॥ ११४ ॥ *****
सर्वलोकानतिक्रम्य गवां लोकः प्रकशते ।
यत्सत्यं निरयायन्ते तत्र स्वर्गसुखश्रियः ॥ १३.१५५८ ॥
गोप्रदा एव गोलोकं प्रायन्ति सुकृतोज्ज्वलाः ।
इत्युवाच पुरा पृष्टः शक्रेण कमलासनः ॥ १३.१५५९ ॥
वसिष्ठाद्य मुनिवरा नृपा दशरथादयः ।
सुराश्च शक्रप्रमुखा गोतुल्यं न प्रचक्षते ॥ १३.१५६० ॥
निवासार्थं पुरा गावः प्रार्थिता बहुशः श्रिया ।
निगद्य चपलासीति प्रददुर्न प्रतिश्रयम् ॥ १३.१५६१ ॥
अभाषत ततो लक्ष्मीर्भवतीभिरनादरात् ।
त्यक्ता निन्द्या भविष्यामि तस्माद्याचे पुनः पुनः ॥ १३.१५६२ ॥
अथादिष्टा श्रियो गोभिर्हेलया गोमये स्थितिः ।
तस्मादेताः परं पुण्यं पवित्रं नास्त्यतः परम् ॥ १३.१५६३ ॥
- गोप्रदानम् ॥ ११५ ॥ *****
हेमदानं दहत्येवं सर्वपापानि देहिनाम् ।
तेजो हि परमं पुत्र काञ्चनं जातवेदसः ॥ १३.१५६४ ॥
पुराहं जाह्नवीकूले श्राद्धे पिण्डप्रद पितुः ।
अपश्यं शन्तनोः पाणिमुत्थितं रत्नकङ्कणम् ॥ १३.१५६५ ॥
पिण्डो मया कुशेष्वेव तं विलोक्य समर्पितः ।
तुष्टस्तदा मे जनकं स्वप्ने प्रोवाच मामिदम् ॥ १३.१५६६ ॥
शास्त्रानुवर्तिना पुत्र त्वया धन्योऽस्मि सूनुना ।
कनकं देहि विप्रेभ्यो दानानामुत्तमं हि तत् ॥ १३.१५६७ ॥
जामदग्न्यः पुरा रामः कृत्वा निःक्षत्रियं जगत् ।
मुनिभिर्दापितो हेम तस्मात्पापादमुच्यत ॥ १३.१५६८ ॥
तारकोषप्लुता देवाः पुरा शीतांशुशेखरम् ।
स्कन्दोत्पत्तिमयाचन्त कथां विज्ञाय भाविनीम् ॥ १३.१५६९ ॥
ततो गौरीपतिवीर्यं वदने जातवेदसः ।
रतिविघ्नकृतो देवस्तत्याज परमं महः ॥ १३.१५७० ॥
वह्निनाथ धृतो गर्भः श्रीमान्संवत्सरायुतम् ।
गङ्गायां निहितः सापि निदधे तं गिरेस्तटे ॥ १३.१५७१ ॥
स कार्तिकेयो भगवाञ्जातः शरवने शिशुः ।
सुराणां शक्तिमानासीत्सेनानीस्तारकान्तकः ॥ १३.१५७२ ॥
तस्य जन्मनि यत्पूर्वं संजातं जातवेदसः ।
मही वसुमती येन तत्सुवर्णं प्रचक्षते ॥ १३.१५७३ ॥
- सुवर्णोत्पत्तिः ॥ ११६ ॥ *****
अथ श्राद्धविधिं पृष्टो राज्ञा शान्तनवोऽब्रवीत् ।
तिलप्रदानं विज्ञेयं श्राद्धं मधुघृताप्लुतम् ॥ १३.१५७४ ॥
माषमत्स्यैडशशकच्छागवाराहशाकुनैः ।
पार्षतन्यङ्गुगवयमाहिषैर्वै नवैरपि ॥ १३.१५७५ ॥
मांसैर्विवृद्ध्या मासानां क्रमात्संवत्सरं सदा ।
तृप्तिं पितॄणां श्राद्धेषु वदन्ति श्रुतिकोविदाः ॥ १३.१५७६ ॥
वाघ्रीणसस्य मांसेन द्वादशाब्दमुशन्ति च ।
खङ्गमांसैर्लोहपृष्ठैः कालशाकैस्तथा क्षयम् ॥ १३.१५७७ ॥
न तेषां पितरः शोच्यास्त्रयोदश्यां मधासु च ।
वर्षासु विहितं श्राद्धं पायसे न ससर्पिषा ॥ १३.१५७८ ॥
गायकूपे वटतले छायायां कुञ्जरस्य वा ।
अनन्तं कलयन्त्येव श्राद्धं पुण्यदिनेषु च ॥ १३.१५७९ ॥
विधिनक्षत्रयोगेषु काम्यं श्राद्धं विनिर्दिशेत् ।
सदाचारोर्ऽहति श्राद्धं विप्रो निर्देषविग्रहः ॥ १३.१५८० ॥
वैश्वदेवेन विधिना संस्कृतेनन च वह्निना ।
रक्ष्यते ब्राह्मणैः श्राद्धं विष्णुपूजापुरःसरैः ॥ १३.१५८१ ॥
श्राद्धे निषिद्धं सततं सगुडं लवणत्रयम् ।
अजाजीहिङ्गुसौवीरपलाण्डुलशुनानि च ॥ १३.१५८२ ॥
- श्राद्धविधिः ॥ ११७ ॥ *****
दातृप्रतिग्रहीतॄणां विशेषं जगतीभुजा ।
पृष्टः सुरसरित्सूनुर्ध्यात्वा पुनरभाषत ॥ १३.१५८३ ॥
अनावृष्टिहते काले पुरा निर्दग्धपादपे ।
अरुन्धतीसखाश्चेरुः शान्ताः सप्तर्षयः क्षितौ ॥ १३.१५८४ ॥
दासः पशुसखो नाम दासी चण्डा च तद्वधूः ।
तानेवानुप्रययतुः क्षुत्तृष्णापरिपीडितौ ॥ १३.१५८५ ॥
राज्ये सुराज्ञः शैब्यस्य गतासुं तनयं ततः ।
मुनयस्ते क्षुधाक्रान्ताः स्थाल्यां पक्तुं समुद्ययुः ॥ १३.१५८६ ॥
अथ राजा वृषादर्भिर्दृष्ट्वा वैश्रवणोपमः ।
व्यग्रान्मुनीन्विषण्णात्मा तानुवाच कृताञ्जलिः ॥ १३.१५८७ ॥
यथेच्छं गृह्यतां मत्तः सर्वं वा विविधं वसु ।
जुगुप्सा जननी वृत्तिर्भवद्भिस्त्यज्यतामियम् ॥ १३.१५८८ ॥
इत्युक्ते भूमिपालेन प्रत्यूचुर्मुनिपुंगवाः ।
तपःक्षयकरो राजन्घोरो राजप्रतिग्रहः ॥ १३.१५८९ ॥
प्रतिग्रहाग्निग्धानां सकृद्ब्राह्मणशाखिनाम् ।
किल्बिषाज्ञानशेषाणां पुनः पुण्यफलं कुतः ॥ १३.१५९० ॥
एतदुक्त्वा परित्यज्य स्तालीं ते काननं ययुः ।
प्राणपीडापणेनापि प्रतिग्रहपराङ्भुखाः ॥ १३.१५९१ ॥
वने तेषां वृषादर्भिः फलान्यौदुम्बराण्यथ ।
मन्त्रिभिर्हेमगर्भाणि कारयित्वाक्षिपत्पुरः ॥ १३.१५९२ ॥
तान्यपि ज्वलितान्येव भीतास्त्यक्त्वा मुनीश्वराः ।
ययुर्मिथः प्रशंसन्तः पुण्यसंतोषशीलताम् ॥ १३.१५९३ ॥
तत्प्रकोपाद्वृषादर्भिर्हुत्वा सपदि पावकम् ।
कृत्यामुत्पाद्य भयदामादिदेश मुनिक्षये ॥ १३.१५९४ ॥
अत्रान्तरे ते मुनयश्चरन्तः कानने सुखम ।
ददृशुः पीवराकारं परिव्राजं शुनःसखम् ॥ १३.१५९५ ॥
विलोक्य तमरुन्धत्या पृष्टास्तत्पुष्टिकारणम् ।
ऊचुर्मुनिवरा नायं क्रियाव्यग्रो यथा वयम् ॥ १३.१५९६ ॥
अग्निहोत्रं न वेदाश्च शास्त्रकन्था न दुःसहा ।
नानेन्धनप्रयत्नश्च न कलत्रं न याचकाः ॥ १३.१५९७ ॥
शुनःसखस्य स्वच्छन्दचारिणः सुखशालिनः ।
शरीरं पीवरमिदं चिन्ताशून्यस्य वर्धते ॥ १३.१५९८ ॥
इत्युक्त्वा तेन संजातसौहार्दा मुनयो वने ।
ददृशुर्नलिनीं फुल्लकमलोत्पलशालिनीम् ॥ १३.१५९९ ॥
वृषादर्भिप्रयुक्ता सा यातुधानीभि(वि)सार्थिनः ।
तत्र तानवदद्धोरा रक्षामि नलिनीमिमाम् ॥ १३.१६०० ॥
निवेद्य निजनामानि गृह्यन्तां तु मृणालिकाः ।
अज्ञातनामधेयानां नेह मत्संनिधौ गतिः ॥ १३.१६०१ ॥
एतदत्रिप्रभृतयः श्रुत्वा ते मुनयः क्रमात् ।
गूढनिर्वचनैस्तैस्तैर्नामान्यस्यै न्यवेदयन् ॥ १३.१६०२ ॥
तुल्याक्षरपदक्षोभं नाम तेषां निरुक्ततः ।
श्रुत्वा निष्प्रतिभा कृत्याभि(वि)सरक्ष्यामवारयत् ॥ १३.१६०३ ॥
शुनःसखोदितं नाम पुनः पप्रच्छ सा यदा ।
तदा क्रुद्धास्तु दण्डेन विदधुस्तां च भस्मसात् ॥ १३.१६०४ ॥
ततः शशिकराकाराः समुद्धृत्य मृणालिकाः ।
तीरे निक्षिप्य मुनयः स्नात्वा चक्रुर्जलक्रियाम् ॥ १३.१६०५ ॥
अथोत्थाय विसाहारसादरास्ते श्रमाकुलाः ।
विसानि तानि नापश्यन्न्यस्तानि नलिनीतटे ॥ १३.१६०६ ॥
परस्परं शङ्किताश्च चक्रिरे शपथं क्रमात् ।
सहसाभिमतोच्छेदो महतामपि दुःसहः ॥ १३.१६०७ ॥
वृथापाको वृथाचारः कूटसाक्षी निषिद्धकृत् ।
दृशंसः कामचरितश्चौरो वेदविवर्जितः ॥ १३.१६०८ ॥
पदा स्पृशतु गां वह्निमप्सु श्लेष्माभियच्छतु ।
परदाराभिगामी च गरदः सोमविक्रयी ।
पिशुनश्चास्त्वसौ येन हृतं नो विसभोजनम् ॥ १३.१६०९ ॥
इत्युक्ते मुनिभिः पश्चात्तानुवाच शुनःसखः ।
याजिने छन्दसां धाम्ने शुद्धाय ब्रह्मचारिणे ॥ १३.१६१० ॥
देयात्स कन्यकां येन हतान्यत्र भि(वि)सानि नः ।
श्रुत्वैतदूचुर्मुनयस्त्वया भाषितमीप्सितम् ॥ १३.१६११ ॥
त्वयैव हृतमस्माकं सर्वथाभि(वि)सभोजनम् ।
इति तेषु ब्रुवाणेषु हसन्प्राह शुनःसखः ॥ १३.१६१२ ॥
मयैवेह विसस्तैन्यं कृतं वो हितकारिणा ।
सा च कृत्या हता घोरो देवोऽहं त्रिदशेश्वरः ॥ १३.१६१३ ॥
इत्युक्त्वा निजमास्थाय रूपं सप्तर्षिभिः सह ।
वेल्लद्विमानमालाङ्कं नाकं नाकपतिर्ययौ ॥ १३.१६१४ ॥
प्रतिग्रहनिवृत्तानामेवमुज्ज्वलचेतसाम् ।
विभात्यलौल्याभरणा वृत्तिः संतोषशालिनाम् ॥ १३.१६१५ ॥
- विसस्तैन्यम् ॥ ११८ ॥ *****
मुनयः कश्यपमुखा नृपाश्च नहुषादयः ।
शतक्रतुं पुरस्कृत्य तीर्थानि प्रययुः पुरा ॥ १३.१६१६ ॥
ते स्नात्वा पुण्यतीर्थेषु पुष्कराहरिणीं ययुः ।
तत्रागस्त्यमुनिर्न्यस्तं नापश्यन्निजपुष्करम् ॥ १३.१६१७ ॥
ततस्ते शपथं चक्रुः क्रमेण गुरुपातकम् ।
इन्द्रस्तु प्राह धन्योऽस्तु स हृतं येन पुष्करम् ॥ १३.१६१८ ॥
- पुष्करस्तैन्यम् ॥ ११९ ॥ *****
छत्त्रोपानत्प्रधा(दा)नं च भीष्मः पृष्टो महीभुजा ।
उवाचेह परं पुण्यं परत्र त्राणमिष्यते ॥ १३.१६१९ ॥
जमदग्निः पुरा धन्वी लक्ष्याभ्यासरतो वने ।
ससर्ज सायकश्रेणीं रश्मिमालामिवांशुमान् ॥ १३.१६२० ॥
विसृष्टान्विशिखान्भर्त्रा रेणुका तत्र तद्गिरा ।
आनिनायेन्दुवदना सुकुमारा पुनः पुनः ॥ १३.१६२१ ॥
तां चण्डकिरणस्फारसंतापायासमूर्च्छिताम् ।
स जायां वीक्ष्य मध्याह्ने क्रुद्धः सूर्यमुदैक्षत ॥ १३.१६२२ ॥
ततो दिव्यास्त्रविकटं खे प्रहर्तुं समुद्यतम् ।
रविः प्रसादयामास भयादेत्य कृताञ्जलिः ॥ १३.१६२३ ॥
गतक्रोधस्य तस्याथ छत्त्रमातपवारणम् ।
उपानहौ च प्रददौ प्रीतये वासरेश्वरः ॥ १३.१६२४ ॥
छत्त्रोपानत्प्रधा(दा)नं तद्दानानामुत्तमं स्मृतम् ।
संतापशमनं नॄणामस्मिंल्लोके परत्र च ॥ १३.१६२५ ॥
- छत्त्रोत्पत्तिः ॥ १२० ॥ *****
तडाककूपदानं च पुण्यं शर्म शरीरिणाम् ।
परत्र मरुसंतप्ते पानीयं किल दुर्लभम् ॥ १३.१६२६ ॥
अपारतिमिरे घोरे परलोके निराश्रये ।
आलोकदुर्लभस्तस्माद्दीपं दद्यान्नरः सदा ॥ १३.१६२७ ॥
प्रीणाति सकलांल्लोकान्सुमनोवलिधूपदः ।
असुरेन्द्रमिति प्राह पुरा शुक्रः कथान्तरे ॥ १३.१६२८ ॥
पुष्पधूपप्रदः स्वर्गे दुर्धर्षो नहुषोऽभवत् ।
आखण्डलस्यासनं च प्रापाखण्डितशासनः ॥ १३.१६२९ ॥
यदा पस्पर्श पादेन सर्पेति मुनिपुंगवम् ।
दृप्तोऽगस्त्यं समाविश्य भृगुणा पातितस्तदा ॥ १३.१६३० ॥
भीमबाहुग्रहकृतो घोराजगररूपिणः ।
अरण्ये भवता यस्य शापमोक्षः पुरा कृतः ॥ १३.१६३१ ॥
- पुष्पादिदानम् ॥ १२१ ॥ *****
पुनः पृष्टो नृपतिना गतिं ब्रह्मस्वहारिणाम् ।
ऊचे शान्तनवो राजन्ब्रह्मस्वं विषमं विषम् ॥ १३.१६३२ ॥
जातिस्मरः पुरा कश्चिद्राजपुत्रः सकौतुकः ।
कुजातिहेतुं पप्राच्छ चण्डालं सोऽप्यभाषत ॥ १३.१६३३ ॥
श्रूयतां कारणं येन प्राप्तश्चण्डालतामहम् ।
ब्राह्मणस्य पुरा गावो हृताः प्रबलदस्युभिः ॥ १३.१६३४ ॥
तासां रजो यज्ञभूमौ सोममध्येऽपतत्क्वचित् ।
तत्पीत्वा नरकं विप्रा दीक्षितेन सहाययुः ॥ १३.१६३५ ॥
भिक्षापात्रे निपतितं तद्रेणु ब्रह्मचारिणः ।
तद्रेणु तत्स्थितं चान्नं मोहान्मे भक्ष्यतां ययौ ॥ १३.१६३६ ॥
ब्राह्मणः श्रोत्रियश्चाहं ब्रह्मचारी जितेन्द्रियः ।
तेनावस्तामिमां प्राप्तः पश्य ब्रह्मस्वगौरवम् ॥ १३.१६३७ ॥
इत्युक्त्वा क्षत्रियगिरा ब्राह्मणार्थे रणानले ।
हुत्वा शरीरं चण्डालः प्राप पुण्यं पुनर्गतिम् ॥ १३.१६३८ ॥
- राजन्यचण्डालसंवादः ॥ १२२ ॥ *****
नाना गतीः पुण्यकृतां भीष्मः पृष्टो महीभुजा ।
उवाच कर्मवैचित्र्यात्ते ते लोकाः शरीरिणाम् ॥ १३.१६३९ ॥
गौतमेनाश्रमे पूर्वं शिशुर्हस्ती विवर्धितः ।
होमावशेषपयसा नीवारप्रसवेन च ॥ १३.१६४० ॥
ततो मदजलश्यामकपोलालीनषट्पदः ।
लीलालसः स कालेन बभूवाचलसंनिभः ॥ १३.१६४१ ॥
इध्मदर्भफलाहारी निर्जराश्रमपालकः ।
मुनेः पुत्र इव प्रीत्या स बभूव महागजः ॥ १३.१६४२ ॥
तं प्रवृद्धं तथा नागं स्वयमेत्य शतक्रतुः ।
जहार रूपमास्थाय धृतराष्ट्रस्य भूपतेः ॥ १३.१६४३ ॥
पुनः पुनर्याच्यमानो मुनिना स यदा नृपः ।
न तत्याज गजं दर्पात्तदा तं गौतमोऽवदत् ॥ १३.१६४४ ॥
गत्वा यत्र शरीरान्ते नराः कालवशीकृताः ।
नन्दन्ति शोचन्त्यथवा तत्र दास्यसि मे गजम् ॥ १३.१६४५ ॥
पापात्मानो विशस्यन्ते यत्र तैर्भ्रकुटीमुखैः ।
वैवस्वतसमादिष्टैस्तत्र दास्यसि मे गजम् ॥ १३.१६४६ ॥
समाना भीरवः शूरा दुर्बला बलिनस्तथा ।
यत्र मुग्धा विदग्धाश्च तत्र दास्यति मे गजम् ॥ १३.१६४७ ॥
धनदस्य पुरे रम्ये मेरौ वा नन्दने वने ।
धाम्नि शीतमयूखस्य सहस्रकिरणस्य वा ॥ १३.१६४८ ॥
वरुणास्य सुरेन्द्रस्य सुरभीणां स्वयंभुवः ।
लोके वा दास्यसि गजं न तत्र बलवानसि ॥ १३.१६४९ ॥
एतच्छ्रुत्वावदद्राजा नरकं यान्ति नास्तिकाः ।
नरा व्यामिश्रकर्माणः प्रयान्ति यममन्दिरम् ॥ १३.१६५० ॥
धनदस्य पुरं यान्ति व्रतिनोऽतिथिपूजकाः ।
यष्टारो नन्दनं यान्ति दातारः सोममण्डलम् ॥ १३.१६५१ ॥
खाध्यायिनः सूर्यलोकं नियतास्तीर्थसेविनः ।
यान्ति प्रशान्ताः संसारात्परं धाम स्वयंभुवः ।
नाहं क्वचिद्गमिष्यामि क्व नु दास्यामि ते गजम् ॥ १३.१६५२ ॥
इत्युक्त्वा कुञ्जरं तस्मै दत्त्वा दिव्यां तथा गतिम् ।
स्वं वपुर्दर्शयित्वा च हसन्निन्द्रो ययौ दिवम् ॥ १३.१६५३ ॥
- हस्तिकूटीयम् ॥ १२३ ॥ *****
सशरीरः पुरा राजा ब्रह्मलोकं भगीरथः ।
ययौ महीगोवृषदः कन्याग्रामपुरप्रदः ॥ १३.१६५४ ॥
सदाचाराः सत्यवन्तो ज्येष्ठशुश्रूषवो नराः ।
गुरुपूजारताः क्षान्ता भवन्तीह शतायुषः ॥ १३.१६५५ ॥
उपवासव्रतजुषां तिथिनक्षत्रयोगतः ।
नियमा दिव्यफलदा जगादेत्यङ्गिराः पुरा ॥ १३.१६५६ ॥
श्रुत्वेति धर्मतनये देहि देहगतिं पुनः ।
प्रष्टुं समुद्यते साक्षाद्बृहस्पतिरथाययौ ॥ १३.१६५७ ॥
स पूजितो मुनिवरैर्भीष्मेण विदुरेण च ।
धृताराष्ट्रेण कृष्णेन भेजे रत्नोज्ज्वलासनम् ॥ १३.१६५८ ॥
युधिष्ठिरोर्ऽचयित्वा तं प्रयातो भीष्मशासनात् ।
पप्रच्छाचारसंसारमरणं देहदेहिनोः ॥ १३.१६५९ ॥
ततोऽब्रवीत्सुरगुरुः शरीरं पाञ्चभौतिकम् ।
पञ्चधा यातमुत्सृज्य स्वप्नवच्चेष्टते नरः ॥ १३.१६६० ॥
देहभङ्गे निरालोकं गत्वा देशमबान्दवम् ।
देही वासनया विद्धस्तत्तद्वेत्ति शुभाशुभम् ॥ १३.१६६१ ॥
त्यक्त्वा कलेवरं जन्तुर्निर्मोकमिव पन्नगः ।
धर्माधर्मयुतो याति सामोद इव मारुतः ॥ १३.१६६२ ॥
तत्तद्भुक्त्वा निराकारः कर्मपुर्यष्टकाशश्रयः ।
भूतैः समागमं याति पुनः शुक्रमुखाच्च्युतः ॥ १३.१६६३ ॥
कर्मभिः शवलैस्तत्र मधुवल्लिप्यते पुनः ।
चक्रवत्पशुकोटीनां लिप्तो भ्राम्यति योनिषु ॥ १३.१६६४ ॥
दत्त्वा च विपुलं दानं मोदते पुण्यवान्सुखी ।
अहिंसया याति दिवं तृष्णया कष्टमश्नुते ॥ १३.१६६५ ॥
गृहीत्वा पतितो विप्रश्चिरं भवति गर्दभः ।
सूकरः कृकवाकुश्च जम्बुकः श्व स जायते ॥ १३.१६६६ ॥
गुरोर्निकारं कृत्वा च भवति श्वा ततो वृकः ।
ततश्च रासभो घोरो नरकावर्तनिर्गतः ॥ १३.१६६७ ॥
पित्रोः कृतापकारश्च श्वा कूर्मः शल्यकस्तथा ।
व्याडो दासश्च भवति क्रमात्कर्मक्षयावधि ॥ १३.१६६८ ॥
भर्तृद्वेषी कपिर्भूत्वा मूषिकः श्वापि जायते ।
निक्षेपहर्ता दुःखाय भ्रान्त्वा योनिशतं शनैः ॥ १३.१६६९ ॥
अमेध्यावर्तकलिले जायते कुत्सितः क्रिमी ।
परनिन्दारतः शार्ङ्गो मत्स्यो विश्वस्तगातकः ॥ १३.१६७० ॥
मृगश्छागोऽथ कीटश्च क्रमाद्भवति दुष्कृती ।
सस्यहर्ता भवत्याखुः क्रोडः कौलेयकस्तथा ॥ १३.१६७१ ॥
क्रव्यादजातिं विविधां भजते पारजायिकः ।
शूद्रो विप्रवधूं गत्वा क्रिमिराखुश्च जायते ॥ १३.१६७२ ॥
कृतघ्नः कालपुरुषैर्नरकेष्वाहतो भृशम् ।
कृमिर्भूत्वा ततो गर्भशतेष्वन्तर्विपद्यते ॥ १३.१६७३ ॥
कृमिस्त्रिःसप्तकृत्वश्च भवति भ्रूणहा नरः ।
मक्षिका भोजनहरो मूषिकश्च यवान्नहृत् ॥ १३.१६७४ ॥
चीरी च ललनस्तेनो दधिहर्ता तथा बकः ।
वर्ही वर्णहरो रक्तवस्त्रहृज्जीवजीवकः ॥ १३.१६७५ ॥
पिप्लस्तैलहरणात्फलस्तैन्यात्पिपीलकः ।
मिष्टान्नचौर्याद्धूकश्च वस्त्रचौर्यात्कपोतकः ।
छच्छुन्दरिर्गन्धहरी मत्स्यो भवति निह्नवी ॥ १३.१६७६ ॥
एवं बहुविधैस्तैस्तैश्चित्रपाकैः कुकर्मभिः ।
तां तां तमोमयीं योनिं संसरन्ति शरीरिणः ॥ १३.१६७७ ॥
- संसारचक्रम् ॥ १२४ ॥ *****
एवंविधानि पापानि प्रायाश्चित्तैर्विना नृणाम् ।
दानेन किल शाम्यन्ति दानं हि परमा गतिः ॥ १३.१६७८ ॥
अन्नमेव परं प्राणा भूतानाममृतोद्गतिः ।
अन्नदानं महत्तस्मात्पात्रं यत्र न गण्यते ॥ १३.१६७९ ॥
अन्नप्रदः सुधावर्षी जायते धनवान्सदा ।
श्रीमान्पुनर्ददान्यन्नं प्राक्संस्कारधियैव सः ॥ १३.१६८० ॥
लभते पुनरैश्वर्यमित्येव चक्रलीलया ।
परिवर्तिनि कालेऽस्मिन्पुण्यवान्नापचीयते ॥ १३.१६८१ ॥
- कालचक्रम् ॥ १२५ ॥ *****
इत्युक्त्वा भगवान्साक्षात्पूज्यमानो महर्षिभिः ।
तेजोरञ्जितदिक्चक्रो दिवमाचक्रमे गुरुः ॥ १३.१६८२ ॥
अहिंसालक्षणं धर्मं सर्वभूताभयप्रदम् ।
अजातशत्रुण पृष्टः पुनः शान्तनवोऽब्रवीत् ॥ १३.१६८३ ॥
अमांसभक्षणं नॄणामश्वमेधशतैः समम् ।
मांसं हि जायते घोरान्नान्यत्र वधपातकात् ॥ १३.१६८४ ॥
मांसादेव समुत्पन्नं मांसं मांसमयो नरः ।
तुल्यव्यथेऽस्मिन्संसारे भुञ्जानः किं न लज्जते ॥ १३.१६८५ ॥
कण्टकेनापि संस्पृष्टा यान्ति कामपि विक्रियाम् ।
तेऽपि शस्त्रनिकृत्तस्य पशोरश्नन्ति विग्रहम् ॥ १३.१६८६ ॥
भयमाकम्पनं तीव्रं देहिनां देहसंक्षये ।
दृष्ट्वा को नाम मांसेभ्यः स्पृहां कुर्यादराक्षसः ॥ १३.१६८७ ॥
अमांसाशी जगद्बन्धुः प्राणिनामभयप्रदः ।
प्रयाति निर्भयं धाम पुण्यकारुण्यसागरः ॥ १३.१६८८ ॥
क्रतुर्निर्विघ्नसंभारस्तीर्थमध्वश्रमोञ्झितम् ।
अहिंसा नाम परमं व्रतमत्यक्तभोजनम् ॥ १३.१६८९ ॥
- अमांसभक्षणम् ॥ १२६ ॥ *****
प्राणाः प्रियतराः पुंसां यैर्हुतास्ते रणानले ।
तद्गतिं कथयेत्युक्तो राज्ञा भीष्मोऽवदत्पुनः ॥ १३.१६९० ॥
एवमेतत्प्रियाः प्राणा दुःखिनामपि देहिनाम् ।
शक्नोति कस्तान्सहसा त्युक्तं सत्त्ववतो विना ॥ १३.१६९१ ॥
सर्वथा जीविताभ्रंशे भीरवो भयविक्लवाः ।
तृणाञ्चितेऽपि नयने मीलयन्त्येव कातराः ॥ १३.१६९२ ॥
पुरा शकटसंत्रासाद्विद्रुतं पथि कीटकम् ।
व्यासो विलोक्य पप्रच्छ सस्मितं ज्ञानलोचनः ॥ १३.१६९३ ॥
अस्मिन्नपि शरीरे ते रक्षार्थं कोऽयमाग्रहः ।
तत्सर्वं मरणं मन्ये तव कुत्सितजीविनः ॥ १३.१६९४ ॥
एतच्छ्रुत्वा मुनिवचस्तं कीटः प्रत्यभाषत ।
नास्ति कायसमं किंचिद्देहिनां वल्लभं विभो ॥ १३.१६९५ ॥
कीटिकाप्रेमबद्धस्य सूक्ष्मकीटकपुत्रिणः ।
विवरान्तरगेहे मे शक्रस्येव सुखं दिवि ॥ १३.१६९६ ॥
स्नेहस्यायतनं प्राणाः कः स्वयं त्यक्तुमीश्वरः ।
मुहूर्तमपि लभ्यन्ते नैते मेरुशतैरपि ॥ १३.१६९७ ॥
शूद्रोऽहं बहुभिः पापैः कीटयोनिमिमां श्रितः ।
पित्रोः शुश्रूषया किंतु मुने जातिं स्मराम्यहम् ॥ १३.१६९८ ॥
तच्छ्रुत्वा करुणाम्भोधिर्भगवान्भूतभावनः ।
तस्मै नृपपदं व्यासो ददौ जन्मान्तरे क्रमात् ॥ १३.१६९९ ॥
विप्रोऽथ तद्गिरा भूत्वा स ययौ परमां गतिम् ।
आपत्सु महतामेव दर्शनं कल्पपादपः ॥ १३.१७०० ॥
तस्मादतिप्रियाः प्राणा यैस्त्यक्ताः संमुखैर्युधि ।
धैर्याब्धयस्ते त्रिदिवे स्पर्धन्ते विबुधाधिपम् ॥ १३.१७०१ ॥
- कीटकोपाख्यानम् ॥ १२७ ॥ *****
विद्यायास्तपसो वापि दानाद्वा किं विशिष्यते ।
इति पृष्टः क्षितिभुजा बभाषे जाहनवीसुतः ॥ १३.१७०२ ॥
वाराणस्यां पुरा व्यासो मैत्रेयेण निमन्त्रितः ।
भुक्त्वा प्रहृष्टः प्रोवाच कथान्ते तपसां निधिः ॥ १३.१७०३ ॥
तेजः परं तपो नाम दिव्यमेव बलं तपः ।
पश्यन्ति सन्तस्तपसा ज्ञानं हि तपसः फलम् ॥ १३.१७०४ ॥
अस्मिन्भवमहामोहतप्तो व्याप्ते जगत्त्रये ।
विद्यैव परमं चक्षुरक्षुण्णा लोककारणम् ॥ १३.१७०५ ॥
किंतु सर्वमतीत्यैतद्दानमेव विशिष्यते ।
दानात्परं न संसारे देहिनां शर्म विद्यते ॥ १३.१७०६ ॥
अन्नदानैः सुकृतिनः प्रयाताः परमं पदम् ।
मुनिप्राप्यमनायासलीलया सत्त्वशालिनः ॥ १३.१७०७ ॥
अन्नं हविः सुधा पाणास्तद्दाता जीवितप्रदः ।
इत्युक्त्वा मुनिमामन्त्र्य जगाम मुनिपुंगवः ॥ १३.१७०८ ॥
- मैत्रेयभिक्षा ॥ १२८ ॥ *****
पृष्टोऽथ योषितां राज्ञा सदाचारः पितामहः ।
उवाच सततं स्त्रीणां सदाचारः सतीव्रतम् ॥ १३.१७०९ ॥
कैकेयी सुमना नाम सुरलोकस्थितां पुरा ।
पप्रच्छ शाण्डिलीं दीप्ततेजःपुञ्जजितामराम् ॥ १३.१७१० ॥
सुभगे केन तपसा दानेन चरितेन वा ।
भासि दिव्यविमानेऽस्मिन्ममूर्तेवांशुमतः प्रभा ॥ १३.१७११ ॥
कुतूहलेनेति तया पृष्टा प्रोवाच शाण्डिली ।
नाहं व्रतैर्न संन्यासैर्न दानेन दिवं श्रिता ॥ १३.१७१२ ॥
पूजितः सततं भक्त्या मया दैवतवत्पतिः ।
न हि सन्तः प्रशंसन्ति तपः स्त्रीणामतः परम् ॥ १३.१७१३ ॥
निष्कुटे द्वारि हर्म्ये वा राजमार्गावलोकिनी ।
नाभवं प्रोषिते वापि पत्यौ व्रतविवर्जिता ॥ १३.१७१४ ॥
छायेवानपगा(नुगता) भर्तुः कोपे भीता हितैषिणी ।
भूत्वाहं त्रिदिवं प्राप्ता मनोवाक्कर्मभिः सती ॥ १३.१७१५ ॥
इत्युक्त्वा शाण्डिली प्रायात्ततो निषधमुन्नतम् ।
तस्मात्सतीव्रतादन्यन्नारीणां न परायणम् ॥ १३.१७१६ ॥
- शाण्डिलीसुमनासंवादः ॥ १२९ ॥ *****
अधिकं प्रीयते किंस्वित्साम्ना दानेन वा जनः ।
पृष्टो युधिष्ठिरेणेति पुनर्देवव्रतोऽब्रवीत् ॥ १३.१७१७ ॥
पुरा वने द्विजः कश्चिद्गृहीतो रक्षसा बलात् ।
सर्वोपायविहीनत्वात्साम्ना मुक्तिमचिन्तयत् ॥ १३.१७१८ ॥
निशाचरस्तमवद्वञ्चनाय वधोद्यतः ।
पाण्डुरो दुर्बलश्चाहं केनैत्कथ्यतामिति ॥ १३.१७१९ ॥
विप्रस्तमूचे नूनं ते दूरीभूतः सुहृज्जनः ।
निःसहायेन चाप्ता श्रीस्त्वया तेनासि पाण्डुरः ॥ १३.१७२० ॥
आराध्यमानो यत्नेन ते व्यक्तमनिमित्ततः ।
विरक्तः स्वजनो यासि तेन वा परिशुष्यसि ॥ १३.१७२१ ॥
त्वत्तो हीनगुणानन्यान्व्यक्ते पश्यसि पूजितान् ।
ऐश्वर्यमानसुभगांस्तेन वा दुर्बलो भवान् ॥ १३.१७२२ ॥
व्यक्तं त्यागी दरिद्रोऽसि गुणैर्नूनं न पूज्यसे ।
प्राज्ञस्य ते न शृण्वन्ति साधुर्वा वञ्च्यसे खलैः ॥ १३.१७२३ ॥
मूर्खो वा शास्त्ररसिको मानी हीनकुलोऽसि वा ।
दुःखं स्वपिषि मन्येऽहं चिन्तया हरिणः कृशः ॥ १३.१७२४ ॥
श्रुत्वैतदाशयग्राही ब्राह्मणोक्तं निशाचरः ।
प्रीतस्तत्याज तं साम्ना को हि सान्त्वैर्न तुष्यति ॥ १३.१७२५ ॥
- हरिमकृशीयम् ॥ १३० ॥ *****
कृष्णप्रभावं पृष्टोऽत राज्ञा शान्तनवोऽब्रवीत् ।
पुरा तपःस्थितं शौरिं मुनयो द्रष्टुमाययुः ॥ १३.१७२६ ॥
ददृशुस्ते ततस्तत्र विष्णुवक्त्रोत्थिताग्निना ।
दग्धं वनं महत्पश्चात्तेनैवाप्यायितं दृशा ॥ १३.१७२७ ॥
तद्दृष्ट्वा नारदमुखाद्दिव्यं बुबुधिरे परम् ।
तद्गिरा वैष्णवं धाम विप्लुष्टाचलशेखरम् ॥ १३.१७२८ ॥
ततो नानाकथाख्यानकोविदः कैटभत्विषा ।
कथान्ते नारदः पृष्टः प्रस्तावोचितमभ्यधात् ॥ १३.१७२९ ॥
पुरा हिमगिरौ गौरी धूर्जटेः किल लीलया ।
नेत्रे कराभ्यां पिदधे स तेनाभूत्त्रिलोचनः ॥ १३.१७३० ॥
तृतीयनयनोद्भूतवह्निना सोऽभवद्गिरिः ।
प्लुष्यत्साललताजालज्वालावलयिताम्बरः ॥ १३.१७३१ ॥
ततो गौरीगिरा चक्रे पुनर्गौरीगुरुं गिरिम् ।
स्मेरपुष्पलतावृक्षं दृशा शीतांशुशेखरः ॥ १३.१७३२ ॥
तत्र पृष्टो बहुविधाः कथाः प्रणयलालसः ।
देव्या कथान्ते भगवानूचे धर्मार्थनिर्णयम् ॥ १३.१७३३ ॥
प्रवृत्तानां सदाचारं वर्णाश्रमविभागजम् ।
निवृत्तानां च निःसङ्गक्रियानिर्वाणजं फलम् ॥ १३.१७३४ ॥
ततः शशाङ्कचूडेन पृष्टा देवी मृगीदृशाम् ।
शशंस पुण्यं चरितं वराराधनदैवतम् ॥ १३.१७३५ ॥
अथाब्रवीन्नीलकण्ठः पृष्टः सर्वैर्मुनीश्वरैः ।
कारणं परमं विष्णुं भूतानां प्रभवाप्यये ॥ १३.१७३६ ॥
वसुदेवस्य तनयो भविष्यति हरिः क्षितौ ।
अंशावतीर्णो विबुधारातिसंहारतत्परः ॥ १३.१७३७ ॥
स सूर्यः स च शीतांशु सोऽहं स च चतुर्मुखः ।
सर्वदेवमयः शौरिः कंसकेशिनिषूदनः ।
उमापतेरपि पुरः श्रुतमस्माभिरीश्वरात् ॥ १३.१७३८ ॥
एतच्छ्रुत्वा मुनिवचो द्वारकामेत्य केशवः ।
अवाप पुत्रं रुक्मिण्यां स्वेच्छासृष्टजगत्त्रयः ॥ १३.१७३९ ॥
धन्योऽसि यस्य ते राजन्कमलावल्लभो विभुः ।
विश्वरक्षामणिः सोऽयं गोप्ता गरुडलाञ्छनः ॥ १३.१७४० ॥
- उमामहेश्वरसंवादः ॥ १३१ ॥ *****
कथयित्वेति गाङ्गेये मुहूर्तं मौनमास्थिते ।
ऊचे मुनिसभामध्ये शनकैर्धर्मनन्दनः ॥ १३.१७४१ ॥
दैवतं परमं शर्म किमेकं सर्वदेहिनाम् ।
कस्मिन्प्रतिष्ठितं विश्वं स्तुत्या मुक्तिप्रदश्च कः ॥ १३.१७४२ ॥
इत्युक्ते धर्मपुत्रेण बभाषे जाह्नवीसुतः ।
मनसा पुण्डरीकाक्षं नत्वा विष्णुमनामयम् ॥ १३.१७४३ ॥
अनन्तो भगवान्विष्णुर्देवदेवो जगत्प्रभुः ।
स्तुतो नामसहस्रेण मोक्षदो गरुडध्वजः ॥ १३.१७४४ ॥
जगत्प्रतिष्ठितं तस्मिन्दैवतं परमं च सः ।
नाम्नां सहस्रं मुनयो यस्य गायन्ति मुक्तये ॥ १३.१७४५ ॥
विश्वं विष्णुर्वषट्कारो भूतभव्यभवात्मनः ।
प्रभोर्भूतभृतो भूतभावनस्य भवच्छिदः ॥ १३.१७४६ ॥
पत्युः पुंसः पुराणस्य क्षेत्रत्रेत्रज्ञसाक्षिणः ।
भुवः स्वयंभुवः शंभोर्विधातुर्वेधसो विधेः ॥ १३.१७४७ ॥
हरेर्हिरण्यगर्भस्य श्रीपतोर्विश्वकर्मणः ।
वृषाकपेरमोघस्य सहस्राक्षस्य गोपतेः ॥ १३.१७४८ ॥
सहस्रशिरसो विष्णोर्व्यापिनः प्रणवात्मनः ।
स्तोत्रं नामसहस्राङ्कं मन्त्रराजं प्रचक्षते ॥ १३.१७४९ ॥
इत्युक्त्वा वैदिकैर्दिव्यैर्गौणमुख्यैश्च नामभिः ।
सहस्रसंख्यैस्तुष्टाव देव भीष्मः सनातनम् ॥ १३.१७५० ॥
श्रुत्वैतत्प्रयतः कृष्णं वन्दित्वा धर्मनन्दनः ।
प्रभावं भूमिदेवानां पप्रच्छ द्युनदीसुतम् ॥ १३.१७५१ ॥
सोऽवदद्ब्रह्मनिष्ठानां ब्राह्मणानां भयात्किल ।
उदेति सोमः सूर्यश्च प्रयाति च समीरणः ॥ १३.१७५२ ॥
दत्तात्रेयवरावाप्तसहस्रभुजमुन्मदम् ।
कार्तवीर्यं पुरा प्राह वायुर्जितगत्त्रयम् ॥ १३.१७५३ ॥
ब्राह्मणेभ्यः परो नास्ति राजेन्द्र बलवत्तरः ।
भवादृशा दृशा येषां भवन्ति न भवन्ति च ॥ १३.१७५४ ॥
सोमपुत्र्या वृतः पूर्वमुत्तस्थे यादसां प्रभुम् ।
तत्काममपिबत्कोपाद्दयितामाजहार च ॥ १३.१७५५ ॥
निर्जिताखिलगीर्वाणगन्धर्वा दानवाः पुरा ।
सृष्टोऽत्रिणा शीतकरः शक्रं च च्यवनोऽजयत् ॥ १३.१७५६ ॥
सुराणां दैत्यसमरे रक्षिता तिमिरे पुरा ।
सृष्टोऽत्रिणा शीतकरः शक्रं च च्यवनोऽजयत् ॥ १३.१७५७ ॥
इति ब्राह्मणमाहात्म्यं श्रुत्वा हैहयभूपतिः ।
अर्जुनोऽपुजयन्नित्यं भूमिदेवानानन्यधीः ॥ १३.१७५८ ॥
- पवनार्जुनसंवादः ॥ १३२ ॥ *****
अतः परं ब्राह्मणानां प्रभावं केशवो विभुः ।
जानाति नाभिनलिनस्वेच्छासृष्टचतुर्मुखः ॥ १३.१७५९ ॥
इति भीष्मेण कथिते हृषीकेशं युधिष्ठिरः ।
पप्रच्छ विप्रमाहात्म्यं स च पृष्टस्तमभ्यधात् ॥ १३.१७६० ॥
पुराहं रौक्मिणेयेन पृष्टः शक्तिं द्विजन्मनाम् ।
अवदं तपसा येषां कम्पन्ते दैवतान्यपि ॥ १३.१७६१ ॥
पुत्र सर्वप्रयत्नेन पूजय ब्राह्मणान्सदा ।
एते क्रोधप्रसादाभ्यां जीवयन्ति दहन्ति च ॥ १३.१७६२ ॥
प्रतिश्रायर्थी दुर्वासाः पुरा दीप्ताक्षिमूर्धजः ।
उवास मद्गृहे तैस्तैः सेव्यमानः प्रियैर्मया ॥ १३.१७६३ ॥
स भुक्त्वा पायसं तप्तमुच्छिष्टेन रुषा ज्वलन् ।
लिम्पाङ्गानीति मामाह तच्चास्म्यकरवं भयात् ॥ १३.१७६४ ॥
रुक्मिणीं स रथे कृत्वा बभ्राम बहुयोजनम् ।
निर्विकारं च मां दृष्टाव तुतोष परुषाश्रयः ॥ १३.१७६५ ॥
स मामूचे तवोच्छिष्टलिप्तं वज्रमयं वपुः ।
भविष्यति विना पादौ तौ निलिप्तौ यतस्त्वया ॥ १३.१७६६ ॥
- दुर्वाससो भिक्षा ॥ १३३ ॥ *****
एतत्कृष्णवचः श्रुत्वा पार्थः शान्तनवात्पुनः ।
शुश्राव देवराजर्षिवंशान्कल्मषनाशनान् ॥ १३.१७६७ ॥
कण्वैरभ्यवक्रीतवसिष्ठभृगुकश्यपान् ।
दुःष्यन्तरामनहुषालर्कश्वेतभगीरथान् ॥ १३.१७६८ ॥
कथयित्वा क्षणं स्थित्वा तूष्णीं निःशब्दस ।
पुरं व्यासाज्ञया पार्थं विससर्ज सुरव्रतः ॥ १३.१७६९ ॥
कृष्णेन सह कौन्तेयो भ्रातृभिश्च सहानुगैः ।
धृतराष्ट्रं पुरस्कृत्य प्रययौ हस्तिनापुरम् ॥ १३.१७७० ॥
पूज्यमानः सुरैर्दाता स्थित्वा तत्र युधिष्ठिरः ।
दृष्ट्वोत्तरं स संप्राप्तं पुनरायात्पितामहम् ॥ १३.१७७१ ॥
सानुगः स समभ्येत्य गाङ्गेयं शरशायिनम् ।
प्रणम्य पाण्डवोऽस्मीति निगद्य समुपाविशत् ॥ १३.१७७२ ॥
मुनीन्द्रजुष्टे सदसि ब्रह्मलोक इवापरे ।
जाते निःशब्दसंचारे भीष्मवक्त्रावलोकिनि ॥ १३.१७७३ ॥
शनैरुन्मील्य नयने पाण्डवान्वीक्ष्य सानुगान् ।
वाग्गमी गम्भीरमवदद्गाङ्गेयः पाण्डवाग्रजम् ॥ १३.१७७४ ॥
काले दिष्ट्या भवान्प्राप्तः परिवृत्ते दिवाकरः ।
मासद्वयमतीतं मे निशातशरशायिनः ।
त्वामामन्त्र्य व्रजाम्येष पुत्र लोकान्सनातनान् ॥ १३.१७७५ ॥
इत्युक्त्वा सत्यदुग्धाब्धिः किंचिदावृत्तकंधरः ।
उवाच विदुरस्याग्रे धृतराष्ट्रं पितामहः ॥ १३.१७७६ ॥
राजन्विद्यामयं चक्षुरक्षुण्णां तव लक्ष्यते ।
मा गमः पुत्रशोकार्त्या मोहं कालो हि दुर्जयः ॥ १३.१७७७ ॥
पुत्रवत्पश्य भूपालमनृशंसं युधिष्ठिरम् ।
प्रयातु शेषः कालेऽयं तव संतोषशालिनः ॥ १३.१७७८ ॥
एतदुक्त्वा हृषीकेशं स्तुत्वा मूर्ध्ना प्रणम्य च ।
बभाषे भगवन्गन्तुमनुजानीहि मामिति ॥ १३.१७७९ ॥
अथ कृष्णाभ्यनुज्ञातो निस्तरङ्ग इवोदधिः ।
मुहूर्तमभवद्भीष्मो दधानः प्राणधारणाम् ॥ १३.१७८० ॥
अन्तः स्पर्शरसात्तस्य गात्राणि त्यजतो बहिः ।
विशल्यानि शनैः सर्वे ददृशुर्विस्मयाकुलाः ॥ १३.१७८१ ॥
स गलितसकलान्तःस्वान्तविश्रान्तिमूलोद्गतनिजबलशक्तिस्फोटिताशेषचक्रम् ।
वितततरलतारस्फारतेजःप्रकारप्रसृतमरुदुदञ्चन्मध्यनाडिक्रमेण ॥ १३.१७८२ ॥
ललितदलसरोजप्रोच्चटज्जीवहंसो दृशमतिशशिसूर्यां भ्रूविभागे निवेश्य ।
गलितकरणवृत्तिग्रामनिःस्यनादलक्ष्यः सपदि किमपि भीष्मश्चिन्तयन्संबभूव ॥ १३.१७८३ ॥
- भीष्मोत्क्रान्तिः ॥ १३४ ॥ *****
अथ ज्योतिस्तडित्पुञ्जरांशुशताचितम् ।
भित्त्वा भीष्मस्य मूर्धानं विवेश विमलं नभः ॥ १३.१७८४ ॥
ततोऽस्य रत्नाभरणैर्वासोभिः कुसुमैस्तथा ।
धर्मराजः सविदुरश्चक्रे वैमानिकं स्वयम् ॥ १३.१७८५ ॥
छेत्त्रं तस्य यशः शुभ्रं युयुत्सुस्तूर्णमग्रहीत् ।
चामरे सत्त्वधवले भीमसेनार्जुनावपि ॥ १३.१७८६ ॥
सबाष्पं भरतस्त्रीभिस्तालवृन्तानिलेन सः ।
वीज्यमानश्चितां प्राप श्रीखण्डागुरुकल्पिताम् ॥ १३.१७८७ ॥
सजीव इव संलीने गाङ्गेये स्फारतेजसि ।
युधिष्ठिरमुखाश्चक्रुः साश्रुनेत्रा जलक्रियाम् ॥ १३.१७८८ ॥
तत्र मन्दाकिनीतीरे विषण्णो राज्ञि सानुगे ।
जलमध्यात्समुत्तस्थौ जाह्नवी साश्रुलोचना ॥ १३.१७८९ ॥
सा विह्वला शोकवती विषण्णैः परमर्षिभिः ।
व्यासनारदकण्वाद्यैर्मुहुरालोकितावदत् ॥ १३.१७९० ॥
हा पुत्र त्रिपुरारातिशिष्यस्य क्षत्रियद्विषः ।
जेता तस्यापि रामस्य निहतोऽसि कथं परैः ॥ १३.१७९१ ॥
अहो नु त्वयि कालेन यातेऽस्तं यशसां निधौ ।
शोच्येयं पृथिवी शून्या वीररत्नविना कृता ॥ १३.१७९२ ॥
का नाम जननी पापा मद्विधान्या भविष्यति ।
निहतं त्वादृशं पुत्रं या श्रुत्वापि न दीर्यते ॥ १३.१७९३ ॥
अहो बत वराकेण हतो भीष्मः शिखण्डिना ।
कुपितः कुञ्जरारातिर्जम्बुकेन निपातितः ॥ १३.१७९४ ॥
इति प्रलापमुखरां जह्नुकन्यां जनार्दनः ।
शनैराश्वासयन्नूचे मेघगम्भीरनिःस्वनः ॥ १३.१७९५ ॥
विज्ञातपरमार्थापि वसुशापेऽपि साक्षिणी ।
सामान्यजननीव त्वं कथं देवि विमुह्यसे ॥ १३.१७९६ ॥
न हि शान्तनवं भीष्मं त्रिपुरारिपराक्रमम् ।
हन्तुं शिखण्डिनः शक्तिर्विना कालाद्बलीयसः ॥ १३.१७९७ ॥
स यातः परमं धाम स्वच्छन्दनिधनः स्वयम् ।
अशोच्यं मा शुचः पुत्रं कोऽन्यो जायेत तद्विधः ॥ १३.१७९८ ॥
इति व्यासादिभिः सार्धं कृष्णेनाश्वासिता शनैः ।
निःस्यन्दमीनमकरा क्षणं मन्दाकिनी बभौ ॥ १३.१७९९ ॥
ततो युधिष्ठिरमुखास्तां समामन्त्र्य सानुगाः ।
दुःखाकुला न्यवर्तन्त यातेऽस्तं वासरेश्वरे ॥ १३.१८०० ॥
इति शान्तिपर्वणि दानधर्माः समाप्ताः
- समाप्तं शान्तिपर्व