भारतमञ्जरी/मौसलंपर्व
- मौसलं पर्व
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १६.१ ॥
महीं महीभृतां धुर्ये धर्मराजे प्रशासति ।
षड्विंशेऽब्दे महाभागा द्वारकां मुनयो ययुः ॥ १६.२ ॥
तान्दृष्ट्वा कौशिकमुखान्प्रहर्षन्मदविप्लुताः ।
साम्बं कृत्वा वधूवेशं पप्रच्छुर्वृष्णिपुंगवाः ॥ १६.३ ॥
अपि पुत्रः सुता वास्या भविष्यति मुनीश्वराः ।
तच्छ्रुत्वा तेऽवदन्नस्याः कुलमृत्युर्भविष्यति ॥ १६.४ ॥
मुसलं ब्रह्मदण्डाख्यमित्युक्त्वादर्शनं ययुः ।
लौहं साम्बस्ततोऽसूत मुसलं वज्रसंहतम् ॥ १६.५ ॥
तदाह्वको भयात्पिष्ट्वा तूर्णं तत्याज सागरे ।
सर्वज्ञो ज्ञातवृत्तान्तो वृष्णिक्षयमुपस्थितम् ॥ १६.६ ॥
विज्ञाय कैटभारातिस्तीर्थयात्रारसाद्ययौ ।
चण्डांशुमण्डलोच्चण्डं ततश्चक्रं सुरद्विषः ॥ १६.७ ॥
रथो ध्वजश्च सौवर्णः सहसान्तरधीयत ।
अथ मार्जारविच्छाये कबन्धावृतमण्डले ॥ १६.८ ॥
सूर्ये विघट्टिताशेषदिक्तटे वाति मारुते ।
मुण्डो विटङ्कवदनो यादवानां गृहे गृहे ॥ १६.९ ॥
संदर्श्य वदनं प्रायाद्वाचान्विष्टोऽप्यदृश्यत ।
चीत्कारपुरुषः शब्दः शारिकानां गृहेष्वभूत् ॥ १६.१० ॥
गृध्रगोमायुनादेन राजमार्गौऽप्यपूर्यत ।
विपरीता प्रसूतिश्च पशूनामभवत्तदा ॥ १६.११ ॥
कोशेषु कनकाबन्धे रत्नानि स्वयमस्फुटन् ।
तेषु घोरनिमित्तेषु जातेष्वप्यविशङ्किताः ॥ १६.१२ ॥
बभूवुर्वृष्णयो भान्ति न हि नाशेषु बुद्धयः ।
प्रभासमथ संप्राप्ते कृष्णे यादववृष्णयः ॥ १६.१३ ॥
तमेव देशमभ्येत्य चक्रिरे विपुलोत्सवम् ।
उद्यानेषु विचित्रेषु विजह्नुस्तत्र ते सुखम् ॥ १६.१४ ॥
गीतनृत्यरसासक्ताः कलिताः कालचक्षुषा ।
आपानकेलिसंसक्ते ततो वृष्णिकुलेऽभवत् ॥ १६.१५ ॥
विवादे युद्धसंबद्धः शैनेयकृतवर्मणोः ।
हार्दिक्यं सात्याकिः प्राह सुप्तहा सौप्तिको भवान् ॥ १६.१६ ॥
स तमूचे त्वया प्रायगतो भूरिश्रवा हतः ।
एवं विवादात्संग्रामस्तेषामासीत्सुदारुणः ॥ १६.१७ ॥
प्राक्तस्माद्वज्रमुसलात्प्रजातैर्वल्लरीचयैः ।
तृणमप्यभवत्तत्र ब्रह्मदण्डमदोत्कटम् ॥ १६.१८ ॥
क्षयाय मुसलीभूतं सहसान्धकवृष्णिषु ।
या भूदापानभूस्तेषां ललनानयनोत्सवः ॥ १६.१९ ॥
सैव मृत्योरभूद्धोरसंहाराहारमण्डपः ।
साम्बे गदे चारुदोष्णि प्रद्युम्ने कृतवर्मणि ॥ १६.२० ॥
अनिरुद्धे च शैनेये निहते पश्यतो हरेः ।
वृत्ते वृष्णिक्षये घोरे स्त्रीशेषा यादवे कुले ॥ १६.२१ ॥
द्वारका प्ररुरोदेव च्छिन्नहाराश्रुनिर्झरैः ।
ततः शौरिर्हलधरं द्रष्टुं दुःखाकुलो व्रजन् ॥ १६.२२ ॥
दारुकं तत्कथयितुं प्राहिणोत्सव्यसाचिने ।
योषितां दस्तुरक्षायै बभ्रुमादाय केशवः ॥ १६.२३ ॥
गत्वा जनकमामन्त्र्य रौहिणेयमुपाययौ ।
अथापश्यन्मुखात्तस्य निःसृतं मधुसूदनः ॥ १६.२४ ॥
सहस्रशीर्षं भुजगं श्वेतं श्वेताचलोपमम् ।
वासुकिप्रमुखैर्नागैरथ प्रत्युद्यतैः सह ॥ १६.२५ ॥
दृष्ट्वार्णवं प्रविष्टं तं वरुणेनार्चितं पुनः ।
गतिज्ञः सर्वभूतानां न शुशोच जनार्दनः ॥ १६.२६ ॥
भवे ह्यभावसद्भावे भावानां स्थिरता कुतः ।
अनन्तधाम्नि मिलिते बलभद्रे सकानने ॥ १६.२७ ॥
प्रविश्य योगी सुष्वाप निबद्धप्राणधारणः ।
तं स्वज्योतिषि संसक्तं लुब्धको मृगशङ्कया ॥ १६.२८ ॥
जघान निशिताग्रेण शरेण चरणोदरे ।
कृष्णशारधिया कृष्णो लुब्धकेनेषुणा हतः ॥ १६.२९ ॥
नारायणाख्यमविशत्परं धाम सनातनम् ।
सुरसिद्धर्षिगन्धर्वैः पूज्यमाने सह श्रिया ॥ १६.३० ॥
विष्णुं प्रविष्टे गोविन्दे बभूव क्षुभितं जगत् ।
अत्रान्तरे दारुकेन कथिते यादवक्षये ॥ १६.३१ ॥
शोकं त्रासं च दैन्यं च भेजिरे पाण्डवाः परम् ।
ततो युधिष्ठिरगिरा द्वारकां श्वेतवाहनः ॥ १६.३२ ॥
दारुकेनैव सहितः प्रययौ शोकमूर्च्छितः ।
स प्राप यादवपुरीमपद्मामिव पद्मिनीम् ॥ १६.३३ ॥
वृष्णिसिंहैर्विरहिता गुहां हैमवतीमिव ।
कष्टैररिष्टनिचयैः स्पृष्टां दुःखाद्विलोक्य ताम् ॥ १६.३४ ॥
द्रष्टुं विवेश शोकार्तं जनकं कंसविद्विषः ।
तारप्रलापमुखरैर्वृतं वृष्णिवधूजनैः ॥ १६.३५ ॥
षोडशस्त्रीसहस्राणि कलत्रं कमलापतेः ।
सौभद्रजनको दृष्ट्वा मुमोह भयविह्वलम् ॥ १६.३६ ॥
शयानं भुवि पार्थोऽपि वसुदेवं प्रलापिनम् ।
विलोक्य शोकविवशो वज्रभिन्न इवापतत् ॥ १६.३७ ॥
क्व रामः क्व च गोविन्दः क्व प्रद्युम्नः क्व सात्यकिः ।
अहो विधेर्दुरन्तेयं शक्तिरित्यर्जुनोऽवदत् ॥ १६.३८ ॥
मणिकङ्कणझाङ्कारिनृत्तगीतघनध्वनिः ।
अविश्रान्तमभूद्यत्र श्रवणानन्दनिर्झरैः ॥ १६.३९ ॥
तत्रैव वृष्णिनारीणां शृण्वन्नारोदनध्वनिम् ।
निशां निनाय बीभत्सुर्निरपायमयीं श्रियम् ॥ १६.४० ॥
ततः प्रातः प्रियसुतो वसुदेवः प्रियां तनुम् ।
तत्याज देवकीमुख्यैरनुयातो वधूजनैः ॥ १६.४१ ॥
ततः सात्त्वतमुख्यानां सर्वेषां शोकविह्वलः ।
पार्थः शरीरं संस्कृत्य चकार सलिलक्रियाम् ॥ १६.४२ ॥
वज्राभिधानं कृष्णस्य पौत्रं कुन्तीसुतस्ततः ।
आदाय वृष्णिकान्ताश्च प्रतस्थे दारुकानुगः ॥ १६.४३ ॥
अथ द्वारवतीं स्फारतरङ्गभुजमण्डलैः ।
शङ्खाट्टहासविकटो जहार मकराकरः ॥ १६.४४ ॥
हते वृष्णिपुरे क्षिप्रं रत्नलोभादिवाब्धिना ।
पुरुषानुगतं सर्वमित्यूचे दुःखितो जनः ॥ १६.४५ ॥
कलत्रं वृष्णिसिंहानामादाय श्वेतवाहनः ।
इन्द्रप्रस्थं व्रजन्प्राप दुर्गमां विकटाटवीम् ॥ १६.४६ ॥
दस्यवस्तत्र गोपाला बलिनः पशुजीविनः ।
अदृष्टपूर्वाः स्वर्योषित्सुभगाः सात्त्वताङ्गनाः ॥ १६.४७ ॥
तडित्तरलरत्नांशुपुञ्जरिताम्बराः ।
विलोक्य लोभवशगा हर्तुमभ्युद्ययुर्बलात् ॥ १६.४८ ॥
गोपानापतितान्दृष्टा तानुग्रलगुडायुधान् ।
गाण्डीवधन्वा गाण्डीपमधिज्यमकरोत्क्रुधा ॥ १६.४९ ॥
कालशक्तिहतस्यापि तस्यापि क्षपितद्विषः ।
न शक्तिरभवत्काचित्क्षीणेषोर्ज्याविकर्षणे ॥ १६.५० ॥
चापयष्टिरनायत्ता तस्याभूदतिदुःखगा ।
वृद्धस्येव दरिद्रस्य तरुणी रूपिणी वधूः ॥ १६.५१ ॥
तस्य कोपाग्नितप्तस्य वृथा भ्रूभङ्गकारिणः ।
भृत्या इवाविनीतस्य बभूवुरवशाः शराः ॥ १६.५२ ॥
ते दिव्यास्त्रगणाः क्वापि जग्मुरुत्सृज्य तं मृधे ।
गुणसङ्गामनादृत्य धूर्ता मित्रमिवाधनम् ॥ १६.५३ ॥
स निःशश्वास विपुलैर्मार्गणैः परिवर्जितः ।
क्षीणकोश इव त्यागी वैलक्ष्यविनताननः ॥ १६.५४ ॥
ततो निष्प्रतिभे तत्र पार्थे सर्वायुधक्षयात् ।
वृष्णिपौराङ्गना जह्रुर्निर्विवेका वनेचराः ॥ १६.५५ ॥
न तु प्रधाननारीषु तेषामासीत्प्रगल्भता ।
अनर्हस्य महार्हेषु नीचस्योजस्विता कथम् ॥ १६.५६ ॥
तैः प्रसह्य हृते स्त्रैणे भग्नमानो धनंजयः ।
प्रतस्थे निजदोर्दण्डे सासूयाः पातयन्दृशः ॥ १६.५७ ॥
अहो बलवती देवी संसारेऽस्मिन्ननित्यता ।
अहो निःसारपर्यन्ता भावानां प्रभविष्णुता ॥ १६.५८ ॥
अहो सर्वकषः कालश्चित्रपाकमहो जगत् ।
विजिते विजयो गोपैर्दुःखादित्यवदज्जनः ॥ १६.५९ ॥
धिगनित्यविलासस्य विभ्रमभ्रान्तिकारिणः ।
धातुरद्भुतनिर्माणविनोदविशरारुताम् ॥ १६.६० ॥
आखण्डलप्रभृतयः खाण्डवे येन खण्डिताः ।
कैराते त्रिपुरारातिः समरे येन तोषितः ॥ १६.६१ ॥
जित्वा तमपि गोपाला वराकाः सुहृदं हरेः ।
जह्रुर्विष्णुकलत्राणि धिक्कालस्य दुरन्तताम् ॥ १६.६२ ॥
रेवतीं रुक्मिणीं सत्यभामां जाम्बवतीं तथा ।
वज्रं पौत्रं च कंसारेरन्याश्च यदुयोषितः ॥ १६.६३ ॥
आदाय फल्गुणः शोचन्निन्द्रप्रस्थं समाविशत् ।
सबाष्पं पौरसंघातैरभितः परिवारितः ॥ १६.६४ ॥
राज्ये निधाय तत्रैव वज्रं याते धनंजये ।
सत्यभामानुगा देव्यः पावकं विविशुः शुचा ॥ १६.६५ ॥
व्रजन्वृष्णिवियोगार्तः किरीटि हस्तिनापुरम् ।
परावरज्ञं भावानां वने व्यासं व्यलोकयत् ॥ १६.६६ ॥
दुःखान्न्यवेदयत्तस्मै घोरं वृष्णिकुलक्षयम् ।
आत्मनश्चात्तचापस्य गोपैः पथि पराभवम् ॥ १६.६७ ॥
तमब्रवीज्ज्ञाननिधिर्मुनिराश्वास्य मूर्च्छितम् ।
पुत्र कालविलासानां सर्वमेतद्विजृम्भितम् ॥ १६.६८ ॥
मतिर्विभूतयो भोगाः प्रभावाः शक्तयो गुणाः ।
सर्वथा कालकलया नीयते स्मृतिशेषताम् ॥ १६.६९ ॥
ध्रुवं सर्वपरित्यागे न कुर्युर्मुनयो मतिम् ।
अवसानैकविरसा यदि न स्याद्भवस्थितिः ॥ १६.७० ॥
इत्युक्तो मुनिना पार्थः प्रययौ हस्तिनापुरम् ।
प्रभावं वृष्णिसिंहस्य कलयन्भृशविह्वलः ॥ १६.७१ ॥
- इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्यां मौसलं पर्व