भारतमञ्जरी/महाप्रस्थानिकंपर्व
- महाप्रस्थानिकंपर्व
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १७.१ ॥
अथ वृष्णिक्षयं श्रुत्वा धर्मसूनुर्धनंजयात् ।
नमः कालाय बलिने निःश्वसन्नित्यभाषत ॥ १७.२ ॥
सर्वत्यागकृतो योगो विवेश भ्रातृभिः सह ।
राज्यं दौर्योधनं दत्त्वा गुणाहार्य युयुत्सवे ॥ १७.३ ॥
निजे परिक्षितं राज्ये स्थापयित्वाभिमन्युजम् ।
तत्पालने समादिश्य सुभद्रं सत्यशासनः ॥ १७.४ ॥
प्रकृतिभ्यो विनिक्षिप्य तं द्विजेभ्यश्च धर्मवित् ।
श्राद्धं विधाय बन्धुभ्यः पुण्यामिष्टिं च नैष्ठिकीम् ॥ १७.५ ॥
अग्नीनुत्सृज्य सलिले पौरानाश्वास्य दुःखितान् ।
देवीमामन्त्र्य वसुधां सानुजो द्रौपदीसखः ।
प्रतस्थे सर्वसंन्यासी योगयुक्तो युधिष्ठिरः ॥ १७.६ ॥
ततः समेत्य भगवान्स्वयमेव हुताशनः ।
पार्थाज्जग्राह गाण्डीवं तौ चाक्षय्यौ महेषुधी ॥ १७.७ ॥
श्वा ताननुययावेको वार्यमाणोऽपि यत्नतः ।
अथ ते शनकैः प्रापुर्दिशं दक्षिणपश्चिमाम् ॥ १७.८ ॥
दृष्ट्वा तत्र समुद्रेण भृतां द्वारवतीं जलैः ।
आशामुदीचीं प्रययुर्भुवः कृत्वा प्रदक्षिणम् ॥ १७.९ ॥
हिमाचलमतिक्रम्य प्राप्तास्ते वालुकार्णवम् ।
ददृशुर्मेरुमुत्तुङ्गशृङ्गालिङ्गितनन्दनम् ॥ १७.१० ॥
निरगारे निरालम्बे तस्मिन्नध्वनि दुस्तरे ।
शिरीषपेलवतनुः पपात द्रुपदात्मजा ॥ १७.११ ॥
तां यातजीवितां दृष्ट्वा भीमः प्राह युधिष्ठिरम् ।
राजन्पाञ्चालराजस्य सुतेयं पतिता भुवि ॥ १७.१२ ॥
चिन्तयन्नपि पश्यामि नास्याः किमपि किल्बिषम् ।
कस्मादेषा तपोयेगं त्यक्त्वा पञ्चत्वमागता ॥ १७.१३ ॥
धर्मसूनुर्निशम्यैतदनावृत्तमुखोऽवदत् ।
बभुव पक्षपातोऽस्याः सर्वदाभ्यधिकोर्ऽजुने ॥ १७.१४ ॥
इत्युक्ते भूमिपालेन सहदेवोऽपतद्भुवि ।
तस्मिन्निपतिते पृष्टो भीमेनोचे नृपः पुनः ॥ १७.१५ ॥
एष प्रज्ञाभिमानेन जडं जगदमन्यत ।
इति धर्मसुतेनोक्ते पपात नकुलः क्षितौ ॥ १७.१६ ॥
राजा पृष्टोऽथ भीमेन व्रजन्नेवाब्रवीत्पुनः ।
रूपमानी स्मरेणापि स्पर्धामेष न च क्षमी ॥ १७.१७ ॥
इत्युक्ते व्रजता राज्ञा निपपात धनंजयः ।
पुनश्च पृष्टो भीमेन जगाद जगतीपतिः ॥ १७.१८ ॥
शूरमानी चचारैष शिथिलं समराङ्गने ।
इति ब्रुवाणो भूपालो जगामैवाविलुप्तधीः ॥ १७.१९ ॥
भीमस्ततो निपतितः पतितोऽस्मीत्युवाच तम् ।
सोऽब्रवीद्बलदर्पोऽभूद्भीम बह्वशनस्य ते ॥ १७.२० ॥
ततोऽभूदेक एवाथ व्रजन्ननुगतः शुना ।
ददर्श साक्षादायातं रथेनेन्द्रं युधिष्ठिरः ॥ १७.२१ ॥
राजन्मत्पुरमेहीति शक्रेणोक्तो जगाद सः ।
शुना विरहितः स्वर्गं सशरीरो न कामये ॥ १७.२२ ॥
तमब्रवीत्सुरपतिः शुनां स्वर्गे कुतो गतिः ।
धिष्ण्यमारोहतु श्वेति त्वदन्यः कोऽनुभाषते ॥ १७.२३ ॥
ततस्तमूचे नृपतिर्भक्तत्यागं कथं सहे ।
भक्तविद्वेषिणः स्वर्गे नृशंसस्य कुतो गतिः ॥ १७.२४ ॥
यद्यस्ति सुकुतं किंचिन्मम तेन सुरेश्वर ।
यातु स्वर्गं सदेहः स्वा नैनं त्यक्तुं समुत्सहे ॥ १७.२५ ॥
स्त्रीवधेनैव सदृशं ब्रह्मस्वहरणेन च ।
सर्वपापात्मकं सन्तो भक्तत्यागं प्रचक्षते ॥ १७.२६ ॥
इत्युक्ते धर्मराजेन धर्मस्त्यक्त्वा श्वविग्रहम् ।
तमूचे पुत्र तुष्टोऽस्मि सद्वृत्तेन तवामुना ॥ १७.२७ ॥
दृष्टोऽसि पाथसो हेतोः पुरा द्वैतवने मया ।
स्वस्ति ते व्रज भूपाल सशरीरः सुरालयम् ॥ १७.२८ ॥
इति पित्रा समादिष्टो विमानं विपुलप्रभम् ।
आरुह्य पुण्यसोपानं विवेश सुरमन्दिरम् ॥ १७.२९ ॥
पूज्यमानः सुरैः सार्धं मुनिभिर्नारदादिभिः ।
राजर्षितारकामध्ये स रराजांशुमानिव ॥ १७.३० ॥
ततः स शक्रमवद्भ्रातरो यत्र मे स्थिताः ।
श्यामा च यत्र दयिता तत्र वासो ममेप्सितः ॥ १७.३१ ॥
तमब्रवीत्सहस्राक्षो भावं मा मानुषं गमः ।
राजर्षिभिरनासाद्यां प्राप्तोऽसि गतिमुत्तमाम् ॥ १७.३२ ॥
इत्युक्तोऽप्यसकृद्यत्नाद्वज्रिणा धर्मनन्दनः ।
भ्रातॄनवाप्तुमिच्छामीत्यभाषत पुनः पुनः ॥ १७.३३ ॥
- इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्यां महाप्रस्थानिकं पर्व