भारतमञ्जरी/द्रोणपर्व
- द्रोणपर्व
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ७.१ ॥
सुरव्रतं हतं श्रुत्वा धृतराष्ट्रोऽतिदुःखितः ।
मुहुर्मुहुर्यशोराशिं तमशोचदरिंदमम् ॥ ७.२ ॥
पुनः संग्राममालोक्य समायातोऽथ संजयः ।
पृष्टो वैचित्रवीर्येण वीरसंहारमभ्यधात् ॥ ७.३ ॥
ततो भीष्मेहते राजन्कुरवो भृशदुःखिताः ।
अब्धौ भग्ने प्रवहणे वणिजः पतिता इव ॥ ७.४ ॥
वाञ्छितं समरे शर्म ददृशुः कर्णमागतम् ।
विक्रीताः परदेशेषु स्निग्धं बन्धुमिवापदि ॥ ७.५ ॥
ततो दुर्योधनः शोकं संस्तम्भ्य धृतिसागरः ।
कर्णस्यानुमते चक्रे द्रोणं सेनासु नायकम् ॥ ७.६ ॥
तेनाभिषिक्तो विधिवद्गुरुः सर्वधनुष्मताम् ।
स बभौ शक्तिमान्वीरो महासेन इवापरः ॥ ७.७ ॥
वृद्धस्य स्वयशःशुभ्रं छत्त्रं तस्य व्यरोचत ।
दुग्धोदधेरिव श्रीमच्चन्द्रमण्डलमुद्यतम् ॥ ७.८ ॥
आमुक्तहेमकवचः स दीप्तः किरणैर्बभौ ।
उपस्थितैः कृत्यकाले दिव्यास्त्रैरिव सेवितः ॥ ७.९ ॥
प्रणेता सर्ववीराणां सदृशः प्राज्यतेजसा ।
साक्षादिव धनुर्वेदः संहारस्यागमावधिः ॥ ७.१० ॥
रेजे रथेन रौक्मेन शोणाश्वेन पताकिना ।
संध्याजुषा निर्झरिणा मेरुणेव दिवाकरः ॥ ७.११ ॥
विरराज रथे तस्य शातकौम्भः कमण्डलुः ।
शौर्योष्मणा प्रतिगतः प्रताप इव पिण्डितः ॥ ७.१२ ॥
आकर्णपलितः श्यामो धौरेयः सर्वधन्विनाम् ।
ददौ वरं श्रिया जुष्टः स राज्ञा स्वयमर्थितः ॥ ७.१३ ॥
जीवग्राहं समादाय राजानं ते युधिष्ठिरम् ।
हतेर्जुने प्रदास्यामि पश्यतां सर्वभुभुजाम् ॥ ७.१४ ॥
एतद्गुरुवचो राजा प्रतिगृह्य कृताञ्जलिः ।
विश्राव्य निजसेनासु तूर्यनादोत्सवं व्यधात् ॥ ७.१५ ॥
तच्च धर्मसुतो ज्ञात्वा सह गाण्डीवधन्वना ।
क्रौञ्चव्यूहं समाधाय संनद्धो योद्धुमुद्ययौ ॥ ७.१६ ॥
द्रोमेन शकटव्यूहे निर्मिते भृशसंहते ।
अवर्तत महद्युद्धं वीराणां देहशातनम् ॥ ७.१७ ॥
ततः सृञ्जयपाञ्चालमत्स्यसेनासु दुःसहाः ।
शरीरहारिणः पेतुर्द्रेणनामाङ्किताः शराः ॥ ७.१८ ॥
भिद्यमानेषु सैन्येषु निपतद्गजवाजिषु ।
रक्तकल्लोलिनीवेगैर्नीतेषु स्यन्दनेष्वपि ॥ ७.१९ ॥
युधिष्ठिरमुखान्वीरान्कोपाद्द्रोणमभिद्रुतान् ।
अवारयन्सुसंरब्धान्द्रोणिकर्णकृपादयः ॥ ७.२० ॥
अभिमन्युरथाकृष्य रथात्केशेषु पौरवम् ।
अपातयत्कृपाणेन पश्यतां सर्वधन्विनाम् ॥ ७.२१ ॥
तत्कोपात्खङ्गमादाय जयद्रथमुपागतम् ।
शल्यं च विरथं वीरो विदधे बलिनां वरम् ॥ ७.२२ ॥
ततः शल्यो गदापाणिः पद्भ्यां सौभद्रमाद्रवत् ।
गदया वीरवारिन्या भीमश्च तमवारयत् ॥ ७.२३ ॥
तयोः परस्पराघातकीर्णवह्निकणाकुलम् ।
नृणां विमोहनं घोरं गदायुद्धमवर्तत ॥ ७.२४ ॥
मण्डलानि चरन्तौ तौ समदाविव कुञ्जरौ ।
अभिपत्य पदान्यष्टौ गदाभ्यां जघ्नतुर्मिथः ॥ ७.२५ ॥
गाढप्रहारसंजातमूर्छाविह्वलमानसौ ।
तौ दृष्ट्वा पतितौ वीराः संनिपेतुः प्रहारिणः ॥ ७.२६ ॥
नीते मद्राधिपे तूर्णं रथेन कृतवर्मणा ।
भीमसेनः समादाय कुरुसेनामदारयत् ॥ ७.२७ ॥
कर्णसूनोरथ शरैर्दृषसेनस्य पाण्डवाः ।
आकीर्णान्द्रौपदीपुत्रान्विलोक्य तमुपाद्रवन् ॥ ७.२८ ॥
ततो रुक्मरथो द्रोणः स्वयं पाञ्चालवाहिनीम् ।
प्रविश्य बाणैर्विदधे विप्रकीर्णां सहस्रधा ॥ ७.२९ ॥
शिखण्डिसात्यकिमुखान्स विदार्य महारथान् ।
युधिष्ठिरमभिप्रेक्षुः कुर्वन्नरपतिक्षयम् ॥ ७.३० ॥
युगंधरं व्याघ्रदत्तं सिहसेनं च पार्थिवम् ।
निनाय मृत्युसदन शरैरशनिदारुणैः ॥ ७.३१ ॥
तिष्ठ स्थितोऽह युद्धस्व हतोऽसीति मुहुर्मुहुः ।
द्रोणाग्रे युध्यमानानां भूभुजामभवद्रणः ॥ ७.३२ ॥
द्रोणेन युध्यमानानां निशम्य श्वेतवाहनः ।
कोलाहलं स्वसैन्यानां तूर्णं तं देशमाययौ ॥ ७.३३ ॥
स निहत्यास्त्रजालेन वीरः कुरुवरूथिनीम् ।
विदधे रक्ततटिनीमावर्तहृतकुञ्जराम् ॥ ७.३४ ॥
ततोऽवहारं सैन्यानां पार्थसायकपीडिताः ।
यातेऽस्तं तिग्मकिरणे चक्रिरे कुरुपुंगवाः ॥ ७.३५ ॥
- द्रोणाभिषेकः प्रथमो युद्धदिवसश्च ॥ १ ॥ *****
निशायां संनिविष्टेषु शिबिरे सर्वराजसु ।
लज्जमान इवाचार्यो दुर्योधनमभाषत ॥ ७.३६ ॥
उक्तमेव मया राजन्रहितं सव्यसाचिना ।
युधिष्ठिरं ग्रहीष्यामि दुर्जयो हि धनंजयः ॥ ७.३७ ॥
इति ब्रुवाणे वैलक्ष्यादाचार्ये राजसंनिधौ ।
त्रिगर्वराजः प्रोवाच कृतवैरः किरीटिना ॥ ७.३८ ॥
वयं संशप्तकगणैर्मालवैस्तुण्डिलैस्तथा ।
वीरैर्मद्रककाम्बोजललितैश्च प्रहारिभिः ॥ ७.३९ ॥
रथायुतैस्त्रिभिः पार्थमाहूय पृथगास्थितः ।
योत्स्यामहे सुप्रकृतैरिति सत्यं शपामहे ॥ ७.४० ॥
इत्युक्ते शपथं कृत्वा त्रिगर्ता वह्निसाक्षिणः ।
प्रत्यूषे निर्ययुर्वीराः सुशर्मप्रमुखा नृपाः ॥ ७.४१ ॥
ते तुरङ्गखरोद्धूतधूलिग्रस्तनभस्तलाः ।
चक्रिरे फल्गुणाह्वानं नादैः प्रलयशंसिभिः ॥ ७.४२ ॥
तान्व्यूहेनार्धचन्द्रेण समे देशे व्यवस्थितान् ।
दृष्ट्वा पार्थस्तदाहूतो युधिष्ठिरमभाषत ॥ ७.४३ ॥
अनुजानातु मामार्यस्त्रिगर्तानां वधं प्रति ।
एते मामभिवाञ्चन्ति योद्धुं संघर्षशालिनः ॥ ७.४४ ॥
अयं ते सत्यजिद्वीरः पाञ्चाल्यः प्रवरो रथः ।
गोप्ता द्रोणाभिसरणे शक्रतुल्यपराक्रमः ॥ ७.४५ ॥
इत्युक्त्वा चण्डगाण्डीवघोषघण्टितदिक्तटः ।
प्रलयाम्भोदसंरब्धस्तान्ययौ कपिकेतनः ॥ ७.४६ ॥
तेऽपि पाण्डवमायान्तं दृष्ट्वा प्रमदनिर्भराः ।
फुल्लसालमिवादृश्यं चक्रुः क्षिप्रं शिलीमुखैः ॥ ७.४७ ॥
ततः शौर्याम्बुधेः फेनमट्टहासं रणश्रियः ।
दध्मौ धनंजयः शङ्खं कन्दं निजयशस्तरोः ॥ ७.४८ ॥
तस्य शब्देन महता तत्सैन्यं भयकारिणा ।
अभून्निवृत्तमातङ्गं स्तिमिताङ्गतुरङ्गमम् ॥ ७.४९ ॥
अथ सायकजालेन जीवमत्स्यापहारिणा ।
त्रिगर्तवाहिनीं पार्थः समन्तात्पर्यवारयत् ॥ ७.५० ॥
ततः संशप्तकगणोत्सृष्टैरविवरैः शरैः ।
पिहिते भुवनाभोगे बभूवाकालशर्वरी ॥ ७.५१ ॥
ततः प्रविदधे त्वाष्ट्रं महास्त्रं वज्रिनन्दनः ।
येनार्जुनसहस्राणि ददृशुस्ते ससंभ्रमाः ॥ ७.५२ ॥
जहाराकर्णकृष्टेन भल्लेन च महौजसः ।
स्फुरन्मौलिप्रभाजालं शिरः कायात्सुधन्वनः ॥ ७.५३ ॥
तत्प्रेषितां शस्त्रवृष्टिं पवनास्त्रेण हारिणा ।
विधूय तच्छिरःपुञ्जैरदृश्यां विदधे महीम् ॥ ७.५४ ॥
छिन्नच्छत्त्रध्वजरथं पतद्भुजभटाननम् ।
त्रिगर्तकदनं पार्थो घोरमायोधनं व्यधात् ॥ ७.५५ ॥
- संशप्तकयुद्धम् ॥ २ ॥ *****
अस्मिन्क्षणे वैनतेयव्यूहे द्रोणेन निर्मिते ।
व्यूहेन निर्मितार्धेन पाण्डुपुत्राः समुद्ययुः ॥ ७.५६ ॥
ततः प्रवृत्ते संग्रामे क्षये चैव महीभुजाम् ।
धृष्टद्युम्नप्रभृतयो द्रोणमुख्यानयोधयन् ॥ ७.५७ ॥
रजोभिः पिहिते व्योम्नि दिक्षु रुद्धासु सायकैः ।
अविभागममर्यादं घोरं युद्धमवर्तत ॥ ७.५८ ॥
अभिद्रुते ततो द्रोणे धर्मराजजिघृक्षया ।
घोरो हलहलाशब्दः सैन्यानामुदभूत्क्षणम् ॥ ७.५९ ॥
कालाग्नितेजसं वीरं धौरेयं सर्वधन्विनाम् ।
अवारयितुमभ्येत्य सत्यजित्सत्यविक्रमः ॥ ७.६० ॥
युध्यमानं ततो हत्वा वृकं राजसुतं गुरुः ।
शरैः सत्यजितं चक्रे कीर्णांशुमिव भास्करम् ॥ ७.६१ ॥
हेमनामाङ्कितैर्बाणैर्मुहूर्तादथ सत्यजित् ।
दीप्तैरपूरयद्द्रोणं खद्योतैरिव पादपम् ॥ ७.६२ ॥
ततः सत्यजितः कायादाचार्यः शौर्यशालिनः ।
शिरो जहार भल्लेन चण्डताण्डवकुण्डलम् ॥ ७.६३ ॥
निपातिते सत्यजिति प्रवरे सर्वधन्विनाम् ।
विद्रुते धर्मतनये व्यदीर्यते वरूथिनी ॥ ७.६४ ॥
- सत्यजिद्वधः ॥ ३ ॥ *****
हृत्वानुजं विराटस्य शतानीकं प्रहारिणम् ।
दृढसेनं क्षत्रदेवं वसुदानं च पार्थिवम् ॥ ७.६५ ॥
निघ्नन्रुक्मरथश्चेदिमत्स्यपाञ्चालसृञ्जयान् ।
विदधे रुधिरावर्तैः कृतान्तोद्यानवाहिनीम् ॥ ७.६६ ॥
विद्रुते पाण्डवबले पीडिते द्रोणसायकैः ।
कर्णदुर्योधनमुखा भारद्वाजमपूजयन् ॥ ७.६७ ॥
पुनरावर्तिते सैन्ये भीमेन भुजशालिना ।
संहताः पृथिवीपालाः कोपाद्द्रोणमुपाद्रवन् ॥ ७.६८ ॥
ऋष्यवर्णैर्हयैर्भीमः सात्यकिः स्फाटिकप्रभैः ।
पारावतप्रभैश्चाश्वैर्धृष्टद्युम्नश्चमूपतिः ॥ ७.६९ ॥
नकुलः सहदेवश्च शुकतित्तिरिसप्रभैः ।
अभिमन्युः पिशङ्गाभैः पाण्ड्यैश्च तुहिनप्रभैः ।
दन्तप्रभैः कृष्णवालैः स्वयं राजा युधिष्ठिरः ॥ ७.७० ॥
अन्ये तु विविधच्छायैश्चित्रवर्माम्बरध्वजैः ।
परिवार्य रणे द्रोणं चक्रुर्बाणमयं जगत् ॥ ७.७१ ॥
मृदङ्गनादकौ राज्ञो ध्वजो नन्दोपनन्दकौ ।
दिव्ययन्त्रेण विहितौ बभतुर्धर्मजन्मनः ॥ ७.७२ ॥
धर्मानिलेन्द्राश्विनां च प्रतिमा द्रौपदीभुवाम् ।
तुमुले युध्यमानानां रेजिरे काञ्चनोज्ज्वलाः ॥ ७.७३ ॥
आवृतं द्रोणमालोक्य राजभिः क्रूरया धिया ।
दुर्योधनादयो वीरान्भीममुख्यान्समापतन् ॥ ७.७४ ॥
तेषु शल्यप्रधानेषु युधिष्ठिरपुरोगमैः ।
द्वन्द्वद्धनिषक्तेषु समरोत्सवराजिषु ॥ ७.७५ ॥
कृतबाहौ सुबाहौ च हते वीरे युयुत्सुना ।
वङ्गराजे समातङ्गे भीमसेनेन पातिते ॥ ७.७६ ॥
विद्रुते कौरवबले निहतेष्वभिमानिषु ।
निरालोकेषु लोकेषु रजस्तिमिरमण्डलैः ॥ ७.७७ ॥
प्रेरितो भगदत्तेन संवर्तकघनप्रभः ।
सुप्रतीको मदोद्दामः पाण्डुसेनां व्यगाहत ॥ ७.७८ ॥
दैत्यसंग्रामसाहाय्ये जम्भारिभवनस्थितः ।
ऐरावणघटाबन्धः प्रमाणं यस्य वर्ष्ममः ॥ ७.७९ ॥
शशिशुभ्रैर्नखैरुद्यादेकपात्स क्षणं बभौ ।
स्वमहीपीडनरुषा दष्टः सेषशतैरिव ॥ ७.८० ॥
इतश्चन्द्रार्कमुख्यानां प्रभवः सर्वतेजसाम् ।
इति नक्षत्रमालाभिरुदयाद्रिरिवाश्रितः ॥ ७.८१ ॥
दिग्वारणरणावाप्तिं विना व्यर्थमिदं बलम् ।
इतीव पृथुशूत्कारैर्निःशश्वास मदालसः ॥ ७.८२ ॥
एता आयान्तु वैक्लव्यं मत्प्रतापोष्मणा दिशः ।
इतीव कर्णतालाभ्यां मुहुर्मुहुरवीजयत् ॥ ७.८३ ॥
चण्डीशडमरोच्चण्डडिण्डिमध्वाननिःस्वनैः ।
हेलयोन्मीलयन्किंचिल्लोचने प्रचचाल सः ॥ ७.८४ ॥
भगदत्तास्त्रनिष्कृत्तवीरवक्त्राञ्चितां महीम् ।
गत्वा पदे पदे पश्यन्सस्मार कमलाकरान् ॥ ७.८५ ॥
स वाहिनीं पाण्डवानां प्रविश्य निबिडं गजः ।
गजवाजिरतान्पिंषन्वसाकर्दमिनीं व्यधात् ॥ ७.८६ ॥
मृद्यमानाः करीन्द्रेण ताः सेनाः कौरवद्विषाम् ।
संकोचमापुः सहसा दर्पेणेव विभूतयः ॥ ७.८७ ॥
तेन मन्दरतुल्येन गजेनानीकवारिधेः ।
समाक्रान्तस्य निस्त्रिंशकालकूटच्छटा बभुः ॥ ७.८८ ॥
कुण्डलीकृतशुण्डाग्रः सोऽभ्यधावद्वृकोदरम् ।
आकृष्टं पाशहस्तेन येन तं मेनिरे जनाः ॥ ७.८९ ॥
संशये पतितं भीमं दृष्ट्वा तूर्णं युधिष्ठिरः ।
सह सर्वैर्महीपालैर्भगदत्तं समभ्यधात् ॥ ७.९० ॥
स तैः परिवृतो वीरैर्हत्वा दाशार्णभूपतिम् ।
उन्ममाथ रथं वेगात्सुप्रतीकेन सात्यके ॥ ७.९१ ॥
तस्य शीकरिणा घोरशीत्कृतेनाथ दन्तिनः ।
भीमसेनमुखा दूरं जह्रुस्त्रस्तास्तुरङ्गमान् ॥ ७.९२ ॥
सा सेना भगदत्तेन कुञ्जरस्थेन पीडिता ।
जनता कृनृपेणेव न लेभे शरणं क्वचित् ॥ ७.९३ ॥
गजानां पत्यमानानां रथानां स्फुटतामपि ।
हाहाकारैश्च भीतानां निःस्वनस्तुमुलोऽभवत् ॥ ७.९४ ॥
स्वेषामाक्रन्दमाकर्ण्य वज्रास्त्रेणेन्द्रनन्दनः ।
त्रिगर्तान्सानुगान्हत्वा भगदत्तमथापतत् ॥ ७.९५ ॥
दृष्ट्वा गाण्डीवधन्वानं तार्क्ष्यवत्तर्णमागतम् ।
प्रेरितो भगदत्तेन क्रुद्धोऽदावद्द्विपाधिपः ॥ ७.९६ ॥
तमन्तकमिवायान्तमपसव्येन केशवः ।
रथेन मोघसंरम्भं कृत्वा पुनरभूत्पुरः ॥ ७.९७ ॥
विद्ध्वा शरसहस्रेण पार्थं प्राग्ज्योतिषेश्वरः ।
नारायणास्त्रमसृजत्तच्च जग्राह केशवः ॥ ७.९८ ॥
अर्जुनं रक्षतस्तूर्णं तदस्त्रं कैटभद्विषः ।
निषक्तं वक्षसि प्राप हेमस्रग्दामविभ्रमम् ॥ ७.९९ ॥
तस्मिन्विफलतां याते महास्त्रे दीप्ततेजसि ।
वैलक्ष्यादर्जुनः कृष्णमुवाचास्फालयन्धनुः ॥ ७.१०० ॥
नूनं युद्धेष्वयोग्योऽहं येनास्त्रं धृतवानसि ।
श्रुत्वैतदवदत्पार्थं मानयन्गरुडध्वजः ॥ ७.१०१ ॥
चतुर्मूर्तिमृता पूर्वं पृथिवीवचसा मया ।
वितीर्णं नरकायैतन्निजास्त्रं भूमिसूनवे ॥ ७.१०२ ॥
अमोघमाप्तवांस्तस्माद्देत्यात्सोऽसौ नराधिपः ।
गृहीतं तन्मया दिव्यं जह्येनमधुना नृपम् ॥ ७.१०३ ॥
उक्ते जनार्दनेनेति सव्यसाची सकुञ्जरम् ।
ऊर्ध्ववक्त्रैः शरैः क्षिप्रं भगदत्तमपूरयत् ॥ ७.१०४ ॥
गिरिवर्ष्म गजारूढो बाणैः प्राग्ज्योतिषेश्वरः ।
अदूरविद्रुतामर्त्यविमानमकरोन्नभः ॥ ७.१०५ ॥
ततः कर्णान्तकृष्टेन कुम्भयोः कुञ्जरेश्वरम् ।
आपुच्छगामिना पार्थो नाराचेनाकुलं व्यधात् ॥ ७.१०६ ॥
स फल्गुणेषुनिर्भिन्नः पतिन्द्विरदभूधरः ।
जघान महीतं सेनां पतिताः पातयन्ति यत् ॥ ७.१०७ ॥
क्रुद्धस्ततोर्ऽधचन्द्रेण हृदि विद्धः किरीटिना ।
मुक्ताङ्कुशधनुर्बाणो भगदत्तोऽभवद्व्यसुः ॥ ७.१०८ ॥
- भगदत्तवधः ॥ ४ ॥ *****
तस्मिन्निपतिते वीरे ककुदे सर्वभूभुजाम् ।
विजये कुरुसेनानामाशाबन्धः श्लथोऽभवत् ॥ ७.१०९ ॥
विद्रुते कौरवानीके सौबलौ वृषकाचलौ ।
गान्धारौ धन्विनां धुर्यै धनंजयमयुध्यताम् ॥ ७.११० ॥
तौ बाणवर्षिणौ पार्थशरेणैकेन संहतौ ।
स्यूतावपातयत्प्रीत्या यातो भारुण्डतामिव ॥ ७.१११ ॥
- वृषभकाचलवधः ॥ ५ ॥ *****
अनुजौ निहतौ दृष्ट्वा शकुनिः कोपकम्पितः ।
कल्पयन्विपुलां मायां सव्यसाचिनामाद्रवत् ॥ ७.११२ ॥
अस्त्रैश्च क्रूरसत्वैश्च तमोभिश्चभितो वृतः ।
नाकम्पत रणे पार्थस्तस्य मायाशतैरपि ॥ ७.११३ ॥
सौरेणास्त्रेण तन्मायां छित्त्वा कातरमोहिनीम् ।
प्राहिणोत्सायकान्येन शकुनिः प्रययौ भयात् ॥ ७.११४ ॥
यातेर्ऽजुनमयं लोकं मन्यमानेऽथ सौबले ।
न लेभे शरणं त्रासाद्विद्रुता कुरुवाहिनी ॥ ७.११५ ॥
ततो द्रोणः सहानीकैर्युधिष्ठिरजिघृक्षया ।
हरन्वक्त्राणि वीराणां पाञ्चालान्समुपाद्रवत् ॥ ७.११६ ॥
वध्यमानेष्वनीकेषु शोणाश्वेन सहस्रशः ।
रक्तासवमदेनेव चकम्पे वसुधावधूः ॥ ७.११७ ॥
तूर्णं प्रहरत द्रोणं तूर्णं रक्षत संगरे ।
पाण्डवानां परेषां च बभूवेति महाध्वनिः ॥ ७.११८ ॥
पाञ्चालेष्वथ भग्नेषु सृञ्जयेषु च सर्वतः ।
अयोधयत्कुरुचमूं नीलो माहिष्मतीपतिः ॥ ७.११९ ॥
तं दहन्तमनीकानि दिव्यास्त्रैर्वह्नितेजसम् ।
प्रत्युद्ययौ धैर्यनिधिर्द्रैणिरेको धनुर्धरः ॥ ७.१२० ॥
आचार्यसूनुस्तस्याथ वज्रसारेषुवर्षिणः ।
छत्त्रं ध्वजं कार्मुकं च भल्लैश्चिच्छेद निर्व्यथः ॥ ७.१२१ ॥
अवरुह्य रथात्तूर्णं नीलश्चित्रपराक्रमः ।
कृपाणेन शिरो हर्तुं द्रौणेः श्येन इवापतत् ॥ ७.१२२ ॥
भारद्वाजसुतस्तस्य भल्लेनोज्ज्वलकुण्डलम् ।
कान्तं शिरोऽहरत्तारायुगयुक्तमिवोडुपम् ॥ ७.१२३ ॥
- नीलवधः ॥ ६ ॥ *****
नीले हते पाण्डवानां भग्ने सुभटमण्डले ।
हत्वा संशप्तकान्पार्थो जवार्तां भुवमाययौ ॥ ७.१२४ ॥
भीमफल्गुणसौभद्रमत्स्यचैद्यमुखैस्ततः ।
भिद्यमाने परानीके निःस्वनस्तुमुलोऽभवत् ॥ ७.१२५ ॥
ततः कर्णप्रभृतिभिस्तेषां समरशालिनाम् ।
घोरो बभूत संमर्दः सर्वलोकभयंकरः ॥ ७.१२६ ॥
निर्मर्यादे रणे तस्मिन्रूधिरावर्तदुस्तरे ।
भिन्नां कुरुचमूं दृष्ट्वा कर्णः पार्थमयोधयत् ॥ ७.१२७ ॥
सोर्ऽजुनं पावकास्त्रेण सात्यकिप्रमुखांस्तथा ।
चकार घोरदिग्दाहपिङ्गलानिव भूधरान् ॥ ७.१२८ ॥
ततो धनंजयमुखा हत्वास्त्रैरस्त्रमुत्कटम् ।
कर्णं शरशतैश्चक्रुर्घनवेत्रवनोपमम् ॥ ७.१२९ ॥
शत्रुंजयं विपाटं च वीरं चावरजं शरैः ।
कर्णानुजान्यमपुरं प्राहिणोत्कपिकेतनः ॥ ७.१३० ॥
- कर्णानुजवधः ॥ ७ ॥ *****
अथ द्रोणमुखाः सर्वे कौरवाणां महारथाः ।
कर्णपार्श्वं समाजग्मुर्दीप्तास्त्रग्रामदुःसहाः ॥ ७.१३१ ॥
ते सात्यकिप्रभृतिभिः संसक्ता धन्विनां वराः ।
चक्रिरे समरं घोरं गजवाजिरथक्षयम् ॥ ७.१३२ ॥
ततोर्ऽजुनशरासारैर्भिन्नेषु भुजशालिषु ।
वासरान्ते न्यवर्तन्त पार्थिवा भृशपीडिताः ॥ ७.१३३ ॥
- द्वीतीयो युद्धदिवसः ॥ ८ ॥ *****
ततः प्रातः समभ्येत्य गुरुं दुर्योधनोऽब्रवीत् ।
कर्णयन्भृशसंतप्तः पाण्डवानां पराक्रमम् ॥ ७.१३४ ॥
अहो नु पुण्यहीनस्य भवतापि प्रतिश्रुतः ।
वीरो निष्फलतां यातो धर्मजग्रहणे मम ॥ ७.१३५ ॥
शक्तिमन्त प्रणयिनामभिजाता यशस्विनः ।
वृथा मनोरथं कर्तुं शिक्षिता न भवद्विधाः ॥ ७.१३६ ॥
श्रुत्वा सुयोधनेनोक्तं जगाद कलशोद्भवः ।
दुर्ग्रह्यः पाण्डवो राजन्गुप्तो गाण्डीवधन्वना ॥ ७.१३७ ॥
तथाप्यद्य करोम्येष यथाशक्ति हितं तव ।
संशप्तकाः पुनर्यान्तु रतादाकृष्य फल्गुणम् ॥ ७.१३८ ॥
आचार्येणेति गदिते संशप्तकगणाः पुनः ।
समाहूयार्जुनं निन्युर्दक्षिणाशां युयुत्सवः ॥ ७.१३९ ॥
रामशिष्यस्ततो द्रोणः क्षत्रियक्षयदीक्षितः ।
संसारचक्रदुर्भेद्यं चक्रव्यूहं विनिर्ममे ॥ ७.१४० ॥
अरीणामयुते तस्मिन्राजपुत्रायुतं बभौ ।
व्योमनिर्झरिणीस्वच्छपताकालंकृतैर्भुजैः ॥ ७.१४१ ॥
नाभिमन्ये स्वय श्रीमान्राजा तस्थौ सुयोधनः ।
गजानीकेन महता वृतः सर्वैर्महारथैः ॥ ७.१४२ ॥
जयद्रथेन सहितो द्रोणो व्यूहमुखोऽभवत् ।
त्रिंशता त्रिदशाकरैस्तथा दुर्योधनानुजैः ॥ ७.१४३ ॥
तदपारं बलं दृष्ट्वा व्यूहं विक्रमशालिभिः ।
द्रोणनिर्दारितानीकः प्रदध्यौ धर्मनन्दनः ॥ ७.१४४ ॥
स सौभद्रं रणे मत्वा कंसारिसमविक्रमम् ।
बभाषे संनिधौ राज्ञां त्रैलोक्यविजयक्षमम् ॥ ७.१४५ ॥
अभिमन्यो तव पिता यातः संशप्तकान्प्रति ।
तद्वोढुर्महसि धुरं त्वमिमां तद्गुणाधिकः ॥ ७.१४६ ॥
कृष्णोर्ऽजुनो रौक्मिणेयस्त्वं वा वज्रिपराक्रमः ।
प्रगल्भः पञ्चमो नास्ति चक्रव्यूहविभेदिने ॥ ७.१४७ ॥
श्रुत्वैतदूचे सौभद्रः प्रहर्षोत्फुल्ललोचनः ।
एष व्यूहं विदार्याद्य प्रविशामि त्वदाज्ञया ॥ ७.१४८ ॥
निर्गन्तुमनभिज्ञं मामनुयान्तु महारथाः ।
उक्तेर्ऽजुनसुतेनेति युधिष्ठिरमुखैर्नृपैः ॥ ७.१४९ ॥
तथेत्यभिहिते सूतं सौभद्रः समचोदयत् ।
स मुक्तशैश्वो वीरः केसरीव त्रिहायनः ॥ ७.१५० ॥
मन्यमानो रणमुखे वराकं सर्वराजकम् ।
कान्तः कन्कसंनाहो बद्धस्वङ्गो विभूषितः ॥ ७.१५१ ॥
कौतुकात्क्ष्मामिवायातो वीरः सुरकुमारकः ।
अकठोरतराकारो वीरो जरठविक्रमः ॥ ७.१५२ ॥
द्रोणानीकं शरैश्चक्रे क्षुभिताम्भोधिविभ्रमम् ।
ततः प्रवृत्ते समरे महतामपि मोहने ॥ ७.१५३ ॥
विदार्य व्यूहमविशत्सौभद्रस्तीक्ष्णविक्रमः ।
लाघवे सौष्ठवे चित्रे यातमेकमनेकताम् ॥ ७.१५४ ॥
दृष्ट्वा प्रविष्टं तं सर्वे कुरुवीराः समाद्रवन् ।
अयं गृहीतो यातोऽयं हतोऽयं हन्त्ययं बहून् ॥ ७.१५५ ॥
इति राज्ञां निनादोऽबूदभिमन्युरथं प्रति ।
सरत्नमुकुटैः शीर्षैः सप्रासासिशरैः करैः ॥ ७.१५६ ॥
सहेमकवचैः कायैः सकेयूराङ्गदैर्भुजैः ।
तुरङ्गैः कृत्तसारङ्गैर्भिन्नकुम्भैश्च कुम्भिभिः ॥ ७.१५७ ॥
निपतद्भिरविश्रान्तश्छन्नां चक्रे स मेदिनीम् ।
वध्यमानं बलं दृष्ट्वा सौभद्रेण प्रहारिणा ॥ ७.१५८ ॥
तमाद्रवन्ससंरब्धाः द्रौणिकर्णकृपादयः ।
तान्बाणवर्षिणो वीरान्विधाय विमुखाञ्शरैः ॥ ७.१५९ ॥
शिरो जहार भल्लेन सौभद्रोऽश्मकभूपतेः ।
भग्ने ततो कुरुबले द्रोणकर्णकृपाः पुनः ॥ ७.१६० ॥
द्रौणिहार्दिक्यगान्धारशरशल्यबृहद्बलाः ।
भूरिभूरिश्रवश्चित्रदुःशासनसुयोधनाः ॥ ७.१६१ ॥
अन्ये चाभ्येत्य भूपालाः सायकैस्तमवाकिरन् ।
क्षिप्रैः शिलीमुखैस्तेषां संच्छन्नोर्ऽजुननन्दनः ॥ ७.१६२ ॥
वसन्तसमये कान्तः कर्णिकार इवाबभौ ।
तस्य पार्थकुमारस्य कुमारस्येव दानवाः ॥ ७.१६३ ॥
शक्त्या शक्तिमतो युद्धे निर्जितास्ते प्रदुद्रुवुः ।
मद्रराजानुजं हत्वा स तूर्णं भीमविक्रमम् ॥ ७.१६४ ॥
कर्णस्य भ्रातरं शूरं जघान घनगर्जितम् ।
क्रमेणैकैकशो जित्वा संहतांश्च पुनः पुनः ॥ ७.१६५ ॥
कर्णदुःशासनमुखान्स चक्रे भूभुजां क्षयम् ।
परसैन्यान्तरस्थस्य दिक्षु सर्वासु भूमिपाः ॥ ७.१६६ ॥
हेमचापसहस्राणि ददृशुस्तस्य लाघवात् ।
गजवाजिरथानीके दारिते तेन पत्त्रिभिः ॥ ७.१६७ ॥
चामरोष्णीषहासाङ्का प्रससर्पास्रवाहिनी ।
उत्थितेषु कबन्धेषु भग्ने सुभटमण्डले ॥ ७.१६८ ॥
दध्मौ पार्थसुतः शङ्खं दिशः शकलयन्निव ।
अत्रान्तरे पाण्डुसुतान्प्रवेष्टुं व्यूहमुद्यतान् ॥ ७.१६९ ॥
अवारयद्भर्गवराद्दृप्तो राजा जयद्रथः ।
स कृष्णाहरणे पूर्वं विजितस्तैर्महेश्वरात् ॥ ७.१७० ॥
वरं तपः कृशो लेभे तज्जयं फल्गुमं विना ।
स बभौ पाण्डुतनयान्वारयन्सपदानुगान् ॥ ७.१७१ ॥
वेलाचल इवोद्धूतान्वारिवेगान्महोदधेः ।
हैमं वराहं बिभ्राणो ध्वजे वैश्वानरप्रभम् ॥ ७.१७२ ॥
ददाह पाण्डवचमूं सैन्धवो रुद्रतेजसा ।
तेनैकेन निरुद्धेषु प्रसभं पाण्डुसूनुषु ॥ ७.१७३ ॥
अभिमन्युर्विशन्राज्ञामुच्चकर्त शिरोवनम् ।
वृषसेनं स विद्राव्य वीरो वैकर्तनात्मजम् ॥ ७.१७४ ॥
जहार लुलितोष्णीषं काम्बोजनृपतेः शिरः ।
तस्मिन्विमर्दे तुमुले दिक्षु रुद्धासु पांसुभिः ॥ ७.१७५ ॥
असूच्यन्त महीपाला रत्नाभरणरशिमभिः ।
ततो विजयदायादः केसरीव मदद्विपम् ॥ ७.१७६ ॥
जग्राह सत्यश्रवसं राजानमतुलौजसम् ।
अभिमन्योर्वशं याते तस्मिन्भूमिभृतां वरे ॥ ७.१७७ ॥
शल्यात्मजो रुक्मरथस्तं गर्जन्समुपाद्रवत् ।
स तेषां भ्रुकुटीधूमलक्ष्यकोपाग्निसंपदाम् ॥ ७.१७८ ॥
गान्धर्वास्त्रेण सहसा विदधे कीर्तिशेषताम् ।
तेन तुल्यवयोवेशे राजपुत्रशते हते ॥ ७.१७९ ॥
रम्भाकाण्डवने भग्ने प्रभिन्नेनेव दन्तिना ।
विद्रुते भूभुजां चक्रे भग्नामानः सुयोधनः ॥ ७.१८० ॥
निःशश्वास ह्रिया नम्रः सौभद्रशरदारितः ।
ततो दुर्योधनसुतो लक्ष्मणो लक्ष्मणोपमः ॥ ७.१८१ ॥
अभिमन्युं समभ्येत्य प्राहिणोद्विशिखावलीम् ।
लक्ष्मीलताकिसलयं संभोगतरुकन्दरम् ॥ ७.१८२ ॥
तं राजपुत्रं सौभद्रः क्षणं तुल्यमयोधयत् ।
तस्य मुक्तावलीतारापङ्क्तिसेवितमाननम् ॥ ७.१८३ ॥
शशाङ्कमिव भल्लेन कण्ठमूलाज्जहार सः ।
कौरवेन्द्रस्ततः क्रुद्धः प्रिये पुत्रे निपातिते ॥ ७.१८४ ॥
सौभद्रमाद्रवद्वीरः सह सर्वैर्महारथैः ।
नृपवैकर्तन्द्रोणद्रौणिहार्दिक्यगौतमान् ॥ ७.१८५ ॥
शरैर्विद्राव्य तरसा वृन्दारकमपातयत् ।
कोपादापततः सोऽथ कोसलाधिपतेः शिरः ॥ ७.१८६ ॥
बृहद्बलस्य चिच्छेद भल्लेनाकुलकुण्डलम् ।
ततः कर्णमभिद्रुत्य शरैरशनिदारुणैः ॥ ७.१८७ ॥
निनाय संशयतुलां मृत्युदंष्ट्राङ्कुरैरिव ।
निपात्य कर्णसचिवान्राजपुत्रान्प्रहारिणः ॥ ७.१८८ ॥
जघान मार्तिकं भोजं तथा कुञ्जरेकतनम् ।
दौःशासनिं ततः कृत्वा पृषत्केन पराङ्भुखम् ॥ ७.१८९ ॥
विधाय विरथं शल्यं शरजालैरमोहयत् ।
शत्रुंजयं मेघवेगं चन्द्रकेतुं सुवर्चसम् ॥ ७.१९० ॥
सूर्यभासं च हत्वैतान्गान्धाराणां क्षयं व्यधात् ।
विद्राव्य भिन्नसर्वाङ्गं शकुनिं क्षतजोक्षितम् ॥ ७.१९१ ॥
शिरःफलोच्चयं चक्रे राजचूतवनेषु सः ।
हेमपुङ्खेषुजालेन जनकस्पर्धयेव सः ॥ ७.१९२ ॥
चकार कौरवानीकं ज्वलत्स्वाण्डवविभ्रमम् ।
स बभौ बिम्बितो राज्ञां स्वङ्गेषु कवचेषु च ॥ ७.१९३ ॥
एको विश्वक्षयायेव प्रयातो विश्वरूपताम् ।
तं दहन्तमनेकानि दृष्ट्वा शरशतार्चिषम् ॥ ७.१९४ ॥
आचार्यमेत्य राधेयो गाढविद्धः समभ्यधात् ।
बालोऽप्यबालचरितः काकुत्स्थमविक्रमः ॥ ७.१९५ ॥
अशेषं क्षपयत्येष सैन्यं वज्रिसुतात्मजः ।
विधीयतामत्र नीतिर्दुर्जयोऽयमुपेक्षितः ॥ ७.१९६ ॥
त्वदधीना हि युद्धेऽस्मिन्कौरवाणां जयश्रियः ।
श्रुत्वैतत्सस्मितो द्रोणः सूतपुत्रमभाषत ॥ ७.१९७ ॥
सत्यं हिनस्ति पृतनां मुहुर्तेनार्जुनात्मजः ।
अस्य धैर्यममर्यादं दृष्ट्वा प्रौढं च विक्रमम् ॥ ७.१९८ ॥
रोमाञ्जकञ्चुकः कायः कस्य नाम न जायते ।
सकार्मुको न शक्योऽयं सखङ्गरथकङ्कटः ॥ ७.१९९ ॥
सचक्रो वा रणे जेतुं भास्वरैस्त्रिदशैरपि ।
तदस्य क्रियतां यत्नः सर्वायुधविनाशने ॥ ७.२०० ॥
परचक्रान्तरस्थस्य युष्माभिर्यदि शक्यते ।
ततो द्रोणः समाभाष्य कर्णेन सहितो ययौ ॥ ७.२०१ ॥
सौभद्रं द्रावितानीकं सह सर्वैर्महारथैः ।
स तानापततो वीरान्मण्डलीकृतकार्मुकः ॥ ७.२०२ ॥
शरैश्चकार विमुखान्नदीवेगानिवाचलः ।
ततश्चिच्छेद पार्श्वेन कर्णस्तस्यानतं धनुः ॥ ७.२०३ ॥
रथं जघान हार्दिक्यः सारथिं तस्य गौतमः ।
विरथं छिन्नधन्वानं द्रोणमुख्यास्तमाद्रवन् ॥ ७.२०४ ॥
स दीप्तं स्वङ्गमादाय चर्म चानेकतारकम् ।
मण्डलानि चरन्वीरो दुर्लक्ष्यः समपद्यत ॥ ७.२०५ ॥
चरन्तं व्योम्नि बाहुल्यात्सहस्रांशुमिवाभितः ।
पतितं मेनिरे मूर्ध्नि तुल्यं सर्वे महारथाः ॥ ७.२०६ ॥
प्रहारिणः क्षुरप्रेण द्रोणस्तस्याकरोद्द्विधा ।
खङ्गं भिन्नेभकुम्भाग्रसक्तमौक्तिकदन्तुरम् ॥ ७.२०७ ॥
छिन्नखङ्गः समादाय चक्रं विक्रमलाच्छनः ।
स चक्रे राजचक्राणां क्षयं चक्रायुधभ्रमम् ॥ ७.२०८ ॥
ततस्ते संहताः सर्वे द्रोणमुख्या महारथाः ।
तच्चक्रं तिलशश्चक्रुः शरैः संहारशङ्किताः ॥ ७.२०९ ॥
हेमाङ्गदगदापाणिः सोऽथ भीम इवापरः ।
सुबलस्यात्मजं वीरं कालिकेयं जघान सः ॥ ७.२१० ॥
गान्धारराजपुत्राणां स हत्वा सप्तसप्ततिम् ।
नृपान्ब्रह्मवसातीयान्गदयापातयद्दश ॥ ७.२११ ॥
निष्पिष्टकेकयरथो गजानीकं चकार सः ।
वज्रपातविनिर्भिन्नशैलमण्डलसंनिभम् ॥ ७.२१२ ॥
रथं दौःशासनेः साश्वं स निष्पिष्य ससारथिम् ।
गदया गजघातिन्या गदापाणिं तमाद्रवत् ॥ ७.२१३ ॥
मण्डलानि चरन्तौ तावन्योन्यमभिजघ्नतुः ।
गदाभ्यं भीषणाघातजातवह्निकणाकुलौ ॥ ७.२१४ ॥
गुरुप्रहाराभिहतौ पेततुस्तौ महाभुजौ ।
सौभद्रं पतितं दूराद्बाणैर्जघ्नुर्महारथाः ॥ ७.२१५ ॥
सायकाञ्चितसर्वाङ्गं विकीर्णाकुलकुन्तलम् ।
दौःशासनिस्तमुत्थान गदया मूर्ध्न्यताडयत् ॥ ७.२१६ ॥
तस्मिन्निपतिते वीरे वालचूत इवानिलैः ।
वीतशोभमभूत्सर्वं जगदुद्यानमाकुलम् ॥ ७.२१७ ॥
प्रशान्तमपि तं दृष्ट्वा क्षत्रवेणुवनानलम् ।
पुनरुत्तिष्ठतीत्यासीद्भूभुजां हृदयभ्रमः ॥ ७.२१८ ॥
तं दृष्ट्वा चन्द्रवदनं कुमारं भूमिपातितम् ।
व्योमगा मुमुचुर्बाष्पं सुरविद्याधराङ्गनाः ॥ ७.२१९ ॥
बालो लूनधनुष्स्वण्डः श्रान्तो विहतवाहनः ।
हतो महारथैः सर्वैरित्यभूद्दिवि निःश्वनः ॥ ७.२२० ॥
ततः प्रहृष्टैः कुरुभिर्लब्धलक्ष्यैः समन्ततः ।
गर्जद्भिर्निर्जिताः सेना दुद्रुवुर्धर्मनन्दनम् ॥ ७.२२१ ॥
- तृतीये दिनेऽभिमन्युवधः ॥ ९ ॥ *****
सहस्रपत्त्रनयने सौभद्रे युधि पातिते ।
शोकार्त इव रक्तांशुः पपातास्ताद्रिकन्दरात् ॥ ७.२२२ ॥
ततो युधिष्ठिरमुखाः संमुखं हतमाहवे ।
अशोच्यं शुशुचुः स्नेहाज्जम्भारितनयात्मजम् ॥ ७.२२३ ॥
समाययौ ततो जिष्णुः शिबिरं विमना इव ।
प्रायः पूर्वं मनांस्येव कथयन्ति शुभाशुभम् ॥ ७.२२४ ॥
स निजं सैन्यमालोक्य ध्वस्तच्छायमधोमुखम् ।
भ्रातॄंश्च विषनाराचनिर्भिन्नानिव मर्मसु ॥ ७.२२५ ॥
दिवसप्रोषितं पुत्रं द्रष्टुमुत्कण्ठिताशयः ।
मूकीभूतानिव शुचा तानपृच्छत्ससंभ्रमः ॥ ७.२२६ ॥
कच्चिन्न द्रोणविहितं चक्रव्यूहं ममात्मजः ।
प्रविष्टो निधनं नीतः कुरुभिः कूटयोधिभिः ॥ ७.२२७ ॥
प्रवेशं शिक्षितो व्यूहे मया बालो न निर्गमम् ।
ध्रुवं स निहतः पापौर्वीरो राजीवलोचनः ॥ ७.२२८ ॥
उक्त्वेति शोकदनक्वाथ्यमानो धनंजयः ।
श्रुत्वा तनयवृत्तान्तं मोहात्स्थाणुरिवाभवत् ।
यशोमयीं प्रविष्टोऽसौ वीरः कल्पस्थिरां तनुम् ॥ ७.२२९ ॥
इत्युच्यमानः कृष्णेन लब्धसंज्ञो जगाद सः ।
अहो नु नाभवत्कश्चिन्मत्पुत्रं योऽरिमध्यगम् ॥ ७.२३० ॥
ररक्ष मध्ये युष्माकं मिथ्याशस्त्रपरिग्रहः ।
तं समग्रगुणारामं तनयं रामविक्रमम् ॥ ७.२३१ ॥
द्रक्ष्यामि क्व पुनः कान्तं स्वप्नलब्धमिवेप्सितम् ।
व्यक्तं रिपुभिराकीर्णः पतन्सस्मार मां सुतः ॥ ७.२३२ ॥
स्वस्रीयः केशव त्वां वा लुप्तधैर्योऽथवा न सः ।
हता सुभद्रा रहिता पुत्रेणामृतवर्षिणा ॥ ७.२३३ ॥
सर्वातिशयलावण्यगुणविक्रमशालिना ।
मन्ये तं मन्यते कान्तं तारापतिनिभाननम् ॥ ७.२३४ ॥
नवं मन्मथमायातं दिवि देववधूजनः ।
परिष्वजस्व हा पुत्र क्व यातोऽसि विहाय माम् ॥ ७.२३५ ॥
इत्युक्त्वा मूलनिर्लूनो भुवि ताल इवापतत् ।
प्रतिलभ्य पुनः संज्ञां श्रुत्वा हेतुं जयद्रथम् ॥ ७.२३६ ॥
सुतक्षयप्रकोपाग्निपीतशोकार्णवोऽवदत् ।
हन्ताहं सैन्धवं पापं त्रिदशैरपि रक्षितम् ॥ ७.२३७ ॥
अनस्तनो तिग्मकरे पश्यतां सर्वभूजाम् ।
ये चरन्ति गुरुद्रोहं साधून्परिवदन्ति ये ॥ ७.२३८ ॥
विश्वस्तान्घ्नन्ति ये स्वैरं निक्षेपं भक्षयन्ति ये ।
निन्दन्ति ये स्त्रियं भुक्त्वा ये च शास्त्रार्थवर्जिताः ॥ ७.२३९ ॥
आचरन्ति निषिद्धं ये विहितं च त्यजन्ति ये ।
लोकन्व्रजेयं तत्तुल्यान्हन्या यदि न तं युधि ॥ ७.२४० ॥
असमाप्तेऽह्नि निखिले न हतश्चेज्जयद्रथः ।
तत्प्रवेक्ष्यामि दहनं हूषणानृतशान्तये ॥ ७.२४१ ॥
भुवि वा दिव पाताले मेरुमन्दरकन्दरे ।
अपि स्थितं तं मद्बाणा दारयिष्यन्त्यवारिताः ॥ ७.२४२ ॥
इत्युक्त्वा कोपताम्राक्षः समं कालियविद्विषा ।
दध्मौ शङ्खं मही येन चकम्पे सकुलाचला ॥ ७.२४३ ॥
- अर्जुनप्रतिज्ञा ॥ १० ॥ *****
अस्मिन्नवसरे चारैर्विज्ञायार्जुनभाषितम् ।
भीतो दुर्योधनायैत्य सैन्धवस्तन्न्यवेदयत् ॥ ७.२४४ ॥
कौरवस्तं समादाय द्रोममभ्येत्य सानुगः ।
प्रतिज्ञामवदद्धोरां सैन्धवे सव्यसाचिनः ॥ ७.२४५ ॥
जयद्रथो वदत्येष दिनमेकमलक्षितः ।
गच्छामि पार्थिवाः सर्वे मां वा रक्षन्तु संहताः ॥ ७.२४६ ॥
इति दुर्योधनेनोक्ते भारद्वाजस्तमब्रवीत् ।
श्वः कर्तास्मि महाव्यूहं दुर्भेद्यं त्रिदशैरपि ॥ ७.२४७ ॥
अहं धनंजयं वीरं वारयिष्यामि सायकैः ।
सैन्धवार्थिनमायान्तं वेलशैल इवोदधिम् ॥ ७.२४८ ॥
उक्ते शोणहयेनेति प्रहृष्टाः कुरुपुंगवाः ।
हतं पार्थममन्यन्त प्रतिज्ञाभङ्गवह्निना ॥ ७.२४९ ॥
अधुनैवाखिलां सेनामेकः क्रुद्धो विनाशयेत् ।
रात्रावित्यर्जुनभयात्कुरवस्तस्थुरुत्थिताः ॥ ७.२५० ॥
अत्रान्तरे पुत्रशोकव्यथाताप्रलापिनीम् ।
सुभद्रां याज्ञसेनीं च शौरिः सान्त्वयितुं ययौ ॥ ७.२५१ ॥
आश्वासिता केशवेन सुभद्रा बाष्पगद्गदम् ।
विललाप मुहुः कण्ठे स्नुषामालम्ब्य मूर्च्छिताम् ॥ ७.२५२ ॥
हा पुत्र नयनानन्द मन्दिरामृतदीधिते ।
क्व नु ते पद्मपत्त्राक्षं द्रक्ष्यामि वदनं पुनः ॥ ७.२५३ ॥
इयं ते मत्स्यदुहिता नवोढा महिषी प्रिया ।
मर्तुमाहितसंकल्पा रक्ष्यते गर्भगौरवात् ॥ ७.२५४ ॥
नाथे पितरि कृष्णे च भीमे च बलिनां वरे ।
रणे रेणुभिरकीर्णः शेषे कथमनाथवत् ॥ ७.२५५ ॥
ब्रह्मण्यानां वदान्यानां यज्वनां पुण्यकर्मिणाम् ।
सदाचारव्रतजुषां गतिमाप्नुहि पुत्रक ॥ ७.२५६ ॥
इति प्रलापमुखरां तां समाश्वास्य माधवः ।
तूर्णं गाण्डीवधन्वानं वीतनिद्रमुपाययौ ॥ ७.२५७ ॥
कृष्णाज्ञया जपपरो विधिवत्परिकल्पिते ।
पवित्रे शयने निद्रां लेभे शक्रसुतस्ततः ॥ ७.२५८ ॥
सोऽपस्यद्व्योमगः स्वप्ने विष्णुना सह संयुतः ।
दिव्यपर्वतमारूढो देवं चन्द्रार्धसेखरम् ॥ ७.२५९ ॥
तं गोविन्दसखो दृष्ट्वा प्रणम्य रचिताञ्जलिः ।
भक्त्या तुष्टाव वरदं वरेण्यं हर्षनिर्भरः ॥ ७.२६० ॥
नमो भवाय भुवनप्रभवाप्यायकारिणे ।
नमः शर्वाय निःशेषदुष्कर्मविषहारिणे ॥ ७.२६१ ॥
नमो रुद्राय दैत्येन्द्रद्रावितेन्द्रभयच्छिदे ।
नमः शिवाय भीमाय श्रीकण्ठाय कपालिने ॥ ७.२६२ ॥
उग्राय श्रेयसां धाम्ने वामार्धायोर्ध्वरेतसे ।
व्यालाकुलाय सेव्याय निष्कलाय कलाभृते ॥ ७.२६३ ॥
त्रिगुणाय त्रिनेत्राय त्र्यम्बकाय त्रिमूर्तये ।
संकल्पकल्पवृक्षाय नमस्तुभ्यं त्रिशूलिने ॥ ७.२६४ ॥
इति रुद्रः स्तुतः स्वप्ने महाभुजगविग्रहम् ।
धनुरस्त्रं च पार्थाय सस्थानकमदर्शयत् ॥ ७.२६५ ॥
पूर्वलब्धं महास्त्रं तद्दृष्ट्वा पाशुपतं जयः ।
मन्त्त्रं च प्राप्य चण्डीशात्कृतकृत्यो व्यबुध्यत ॥ ७.२६६ ॥
ततः प्रभाते कृष्णाय तन्निवेद्य धनंजयः ।
प्रतिज्ञाभारमखिलं हृष्टः स्वल्पममन्यत ॥ ७.२६७ ॥
अथ स्नाताः कृतावश्यकरणीया हुताग्नयः ।
रणाङ्गणं महोत्साहा निर्ययुः कुरुपाण्डवाः ॥ ७.२६८ ॥
ततो व्यूहं व्यधाद्द्रोणः पृथुचक्रपरिष्कृतम् ।
शकटं विकटाटोपं गुप्तं सुभटकोटिभिः ॥ ७.२६९ ॥
महादलं च तन्मध्ये पद्मं नृपतिकेसरम् ।
तुरङ्गरथमातङ्गसहस्रायुतकर्णिकम् ॥ ७.२७० ॥
कृतवर्ममुखैः कृत्वा सूचिव्यूहं तदन्तरे ।
जयद्रथं वृतं वीरैः सूचीपाशे न्यवेदयत् ॥ ७.२७१ ॥
एवं व्यूढेष्वनीकेषु गुरुणाद्भुतकारिणा ।
गाण्डीवधन्वा सेनाग्रे दीप्तकेतुरदृश्यत ॥ ७.२७२ ॥
तस्य चण्डकरस्येव शररश्मिसहस्रिणः ।
सेहिरे न महीपाला द्रष्टुं तेजो महौजसः ॥ ७.२७३ ॥
आकम्पितेऽथ भुवने दुर्निमित्तशताकुले ।
श्वेताश्वे स्यन्दने कृष्णौ शुभ्रौ शङ्खौ प्रदध्मतुः ॥ ७.२७४ ॥
तयोः शब्देन पवनस्कन्दसंघट्टकारिणा ।
अकाण्डप्रलयारम्भसर्वभूतानि मेनिरे ॥ ७.२७५ ॥
ततो मिलितयोस्तूर्णं मिथः सेनासमुद्रयोः ।
व्यालनीलवलतस्वङ्गातरङ्गः संगरोऽभवत् ॥ ७.२७६ ॥
शिरोभिरथ शूराणां बाहुभिश्च सभूषणैः ।
महीमाच्छादयन्पार्थो द्रोणानीकमथाविशत् ॥ ७.२७७ ॥
स प्रणम्य गुरुं वृद्धमनुमान्य प्रसाद्य च ।
पूर्वोत्सृष्टशरं दीप्तैः शरजालैरवाकिरत् ॥ ७.२७८ ॥
ततो जयद्रथाकाङ्क्षी तूर्णमच्युतसारथिः ।
द्रोणं प्रदक्षिणीकृत्य प्रविश्यानिलरंहसा ॥ ७.२७९ ॥
लाघवाद्द्रोणमृत्सृज्य प्रविष्टे श्वेतवाहने ।
चक्ररक्षौ विविशतुर्युधामन्यूत्तमौजसौ ॥ ७.२८० ॥
ततो मन्दरसंरब्धक्षुभिताम्भोधिविभ्रमः ।
व्यूहस्यादीर्यमाणस्य निर्घोषस्तुमुलोऽभवत् ॥ ७.२८१ ॥
प्रसक्तं व्रजतस्तस्य पुरः कुञ्जरभेदिनः ।
बभुः पद्मवनानीव पतितैर्भूभुजां मुखैः ॥ ७.२८२ ॥
वृतो गतो हतो लब्धो हन्त्येष पतिता वयम् ।
इत्यभूद्दारुमः शब्दो यत्र यत्र धनंजयः ॥ ७.२८३ ॥
तूर्णं प्रविशतस्तस्य सिन्धुराजवधेप्सया ।
प्रलयाम्बुधरध्वानधीरोऽभूतस्यन्दन्स्वनः ॥ ७.२८४ ॥
अजय्यं समरे द्रोणं त्यक्त्वा धीमति फल्गुणे ।
प्रविष्टे शरवर्षाभ्रे चकम्पे कुरुकाननम् ॥ ७.२८५ ॥
कृतवर्ममुखान्वीरांस्ततस्तूर्णमभिद्रुतान् ।
जित्वा यवनकाम्बोजं जघान शतमन्युजः ॥ ७.२८६ ॥
द्रोणः पश्चादथाभ्येत्य ब्रह्मास्त्रेण धनंजयम् ।
रुन्धानः समरे चक्रे ज्वालाजालजटं नभः ॥ ७.२८७ ॥
ब्रह्मास्त्रेणैव सहसा हत्वास्त्रं शक्रनन्दनः ।
परिवर्ज्य गुरुं प्रायाद्भोजानीकं मनोजवः ॥ ७.२८८ ॥
विधाय विमुखं भोजं प्रयान्तं सव्यसाचिनम् ।
अभ्युद्ययौ वारिपतेः सुतो राजा श्रुतायुधः ॥ ७.२८९ ॥
शरैस्तेनायुतोत्सृष्टैर्विद्धो धैर्यमहोदधिः ।
रथं हत्वास्य विदधे पार्थः सर्वायुधक्षयम् ॥ ७.२९० ॥
वरुणेन पुरा पित्रा स दत्तामाददे गदाम् ।
अयोधे पातिता मोहात्तमेवैत्य निहन्ति या ॥ ७.२९१ ॥
स तया केशवं मूढो मृत्युदूत्येव घोरया ।
अताडयन्महावेगी विचचाल न चाच्युतः ॥ ७.२९२ ॥
तया प्रतीपमभ्येत्य स निष्पिष्टो नरेश्वरः ।
पपात भग्नकटको वज्रेणेव कुलाचलः ॥ ७.२९३ ॥
सरितस्तनये वीरे वर्णमायाः श्रुतायुधे ।
हते पार्थरथस्याभूदभग्नप्रणया गतिः ॥ ७.२९४ ॥
- श्रुतायुधवधः ॥ ११ ॥ *****
जयोद्धूतपताकाग्रं व्रजन्तं वानरध्वजम् ।
वेगदीर्घीकृतस्मेरकिरीटाभरणप्रभम् ॥ ७.२९५ ॥
तडितां मण्डलेनेव पिङ्गं गाण्डीवतेजसा ।
राजा सुदक्षिणोऽभ्यायात्काम्बोजः कुरुदक्षिणः ॥ ७.२९६ ॥
तस्यास्त्रवर्षिणस्तूर्णं छित्वा कार्मुकमर्जुनः ।
चकर्त शक्तिं तन्मुक्तां घनघण्टाविराविणीम् ॥ ७.२९७ ॥
सोऽथ पार्थशरासारविशरारुतनुर्नृपः ।
पपात हेममालाङ्को विद्याधर इवाम्बरात् ॥ ७.२९८ ॥
- सुदक्षिमवधः ॥ १२ ॥ *****
काम्बोजे निहते वीरे भज्यमाने बलार्णवे ।
सहाच्युतायुषा राज्ञा श्रुतायुः पार्थमाद्रवत् ॥ ७.२९९ ॥
श्रुतायुषा तोमरेम शूलेनान्येन चाहतः ।
तुल्यं बाणसहस्रैश्च मुमोह कपिकेतनः ॥ ७.३०० ॥
लब्धसंज्ञोऽथ शक्रास्रं समुदीर्य धनंजयः ।
साश्वसूतौ सुपत्रौ च कथाशेषौ चकार तौ ॥ ७.३०१ ॥
- श्रुतायुर्वधः ॥ १३ ॥ *****
अङ्गान्वङ्गान्कलिङ्गांश्च दाक्षिणात्यांश्च पाण्डवः ।
हत्वा जघान विपुलं कुञ्जरानीकमाशुगैः ॥ ७.३०२ ॥
दरत्तुरष्कचीनानां म्लेच्छानां च वरूथिनीम् ।
शरैर्निपात्य विदधे घोरां रक्ततरङ्गिणीम् ॥ ७.३०३ ॥
अम्बष्ठाधिपतेश्छित्वा मौलिरत्नोज्जवलं शिरः ।
अवारितगतिर्वीरो विवेशाच्युतसारथिः ॥ ७.३०४ ॥
अथ द्रोणं समभ्येत्य बभाषे कौरवेश्वरः ।
आचार्य पश्य पार्थेन भूभुजां कदनं कृतम् ॥ ७.३०५ ॥
कथं नु लङ्घयेद्वीर वराकस्त्वां पृथासुतः ।
शिष्यानुरोधो यदि ते न स्यात्सरलचेतसः ॥ ७.३०६ ॥
दत्ताभयोऽद्य भवता हेलयैव जयद्रथः ।
प्रवेशितः स्वयं कालकरालवदनोदरे ॥ ७.३०७ ॥
को हि गाण्डीवधन्वानं त्वयापि समुपेक्षितम् ।
चरन्तं मम सैन्येषु सामान्यो वारयिष्यति ॥ ७.३०८ ॥
इत्युक्ते कुरुराजेन भारद्वाजो जगाद तम् ।
तार्क्ष्यवेगो युवा पार्थो वृद्धमुल्लङ्घ्य चागतः ॥ ७.३०९ ॥
व्यूहद्वारे मया रुद्धा भीमसात्यकिपार्षताः ।
प्रविशन्त्येष बीभात्सुं व्रजामि यदि पृष्ठतः ॥ ७.३१० ॥
इदं तु ते करोम्यद्य हितं लोकेषु दुष्करम् ।
भविष्यसि रणे येन देवानामपि दुर्जयः ॥ ७.३११ ॥
घोरे वृत्ररणे रुद्रः सुरेन्द्राय ददौ पुरा ।
दिव्यं मन्त्रमयं वर्म दुर्भेद्यो येन सोऽभवत् ॥ ७.३१२ ॥
तदेतन्मन्त्रसंयुक्तं प्राप्तं गुरुमुखान्मया ।
बध्नामि ब्रह्मसूत्रेण तव शत्रुनिबर्हणम् ॥ ७.३१३ ॥
इत्युक्त्वा तस्य मन्त्रेण भास्वत्कनककङ्कटम् ।
प्रस्थितस्यार्जुनं जेतुं बबन्ध कुरुभूपतेः ॥ ७.३१४ ॥
आमुक्तदिव्यकवचो गुरुणा कौरवेश्वरः ।
गजवाजिरथानीकैः प्रययौ पार्थमोजसा ॥ ७.३१५ ॥
अस्मिन्नवसरे युद्धे व्यूहस्य प्रमुखेऽभवन् ।
द्रोणशल्यशलादीनां धृष्टद्युम्नपुरोगमाः ॥ ७.३१६ ॥
पाण्डवा द्रौपदेयाश्च राक्षसश्च घटोत्कचः ।
सात्यकिर्द्रुपदो मत्स्यः कुन्तिभोजस्च केकयाः ॥ ७.३१७ ॥
वीराश्चान्ये महीपालाः समभिद्रुत्य संहताः ।
दिव्यास्त्रवित्तमा वीरा जलसन्धं नराधिपम् ॥ ७.३१८ ॥
दुःशासनं विकर्णं च चित्रसेनं विविंशतिम् ।
अलायुधं राक्षसेन्द्रमलम्बुममलम्बुसम् ॥ ७.३१९ ॥
बाह्लिकं शकुनिं द्रोणिं वृषसेनं च गौतमम् ।
मुहुर्मुहारथांश्चन्यान्व्यूहगर्भविनिर्गतान् ॥ ७.३२० ॥
अवाकिरन्हेमपुङ्खैर्निजनामाङ्कितैः शरैः ।
मिथो रथाग्रे कुर्वाणा रुधिरावर्तदुर्गमम् ॥ ७.३२१ ॥
ते चक्रुर्विक्रमोदारा घोराभिः शस्त्रवृष्टिभिः ।
कबन्धताण्डवोच्चण्डसंरम्भललिता दिशः ॥ ७.३२२ ॥
अत्रान्तरे श्वेतहयः प्रविशन्कुरुवाहिनीम् ।
चकार निपतच्छत्रुराजहंसावलीसिताम् ॥ ७.३२३ ॥
शराणामर्जुनभुजोत्सृष्टानामाशुगामिनाम् ।
क्रोशद्वयं ययावग्रे स कृष्णप्रेरितो रथः ॥ ७.३२४ ॥
ते हया हेमसंनाहा गाहमाना इवाम्बरम् ।
जवदीर्घैः प्रभाजालैश्चक्रुः पल्लविता दिशः ॥ ७.३२५ ॥
हतो गजो रथश्छिन्नः पतितोऽयं नराधिपः ।
इत्यभून्निःस्वनस्तत्र चेरुर्यत्रार्जुनेषवः ॥ ७.३२६ ॥
विन्दानुविन्दावावन्त्यावभिद्रुत्याथ पाण्डवम् ।
अदृश्यं चक्रतुर्नानाशस्त्रवर्षैः सकेशवम् ॥ ७.३२७ ॥
तयोः पार्थो रथौ हत्वा छित्वा च धनुषी शरैः ।
जहार शिरसी याभ्यां द्विचन्द्रेवाभवन्मही ॥ ७.३२८ ॥
- विन्दानुविन्दवधः ॥ १४ ॥ *****
ससैन्यो राजपुत्रौ तौ हत्वा विपुलविक्रमौ ।
निजाश्वान्व्यथितान्वीक्ष्य बभाषे कृष्णमर्जुनः ॥ ७.३२९ ॥
कृष्णार्तान्वाजिनः क्लान्तान्दस्युशस्त्रशरक्षतान् ।
पाययोद्धृतशल्यांस्त्वं मुक्त्वैतान्सलिलं विभो ॥ ७.३३० ॥
उक्त्वेति सोऽवतीर्यशु पादचारी नरेश्वरान् ।
इदमन्तरमित्याप्तानेकः सर्वानयोधयत् ॥ ७.३३१ ॥
ततः पार्थास्त्रजालानां तदस्त्राणां च संघशः ।
निघर्षनिःसृतज्वालाकरालमभवन्नभः ॥ ७.३३२ ॥
अर्जुनेन कृते क्षिप्रं शरपञअजरमन्दिरम् ।
तदस्त्रभिन्नवसुधासंजातविमलोदके ॥ ७.३३३ ॥
परिवृत्तान्समाकृष्टशल्यानाघ्रातभूतलान् ।
पाययित्वा हयान्कृष्णो हृष्टान्पुनरयोजयत् ॥ ७.३३४ ॥
ते कृष्णाववहन्वाहा जातद्विगुणरंहसः ।
आरुहन्त इवाकाशं शक्राश्विविजिगीषया ॥ ७.३३५ ॥
अथ स्वल्पावशेषेऽह्नि तूर्णं सैन्धवकाङ्क्षिणः ।
चकम्पे कौरवचमूः सायकैः सव्यसाचिनः ॥ ७.३३६ ॥
विद्रुतेषु नरेन्द्रेषु भग्ने गजघटावने ।
द्रोणानुबद्धकवचः कौरवेन्द्रः समाययौ ॥ ७.३३७ ॥
विलोक्य विपुलानीकं तमायान्तं महौजसम् ।
उवाच कैटभारातिर्निवातकवचान्तकम् ॥ ७.३३८ ॥
अयं स कर्ता दर्पान्धो निकाराणां स्थवीयसाम् ।
प्राप्तो मूलमनर्थानां जह्येनं कुलकण्टकम् ॥ ७.३३९ ॥
इत्युक्ते पुष्कराक्षेण वीरौ जिष्णुसुयोधनौ ।
क्षणं विलोक्य चक्राते सुरेन्द्रनमुचिप्रभम् ॥ ७.३४० ॥
प्रेरिता कुरुराजेन शुभ्रपक्षा किरीटिनम् ।
क्रौञ्चाद्रिमिव हंसाली विवेश विशिखावली ॥ ७.३४१ ॥
गाण्डीवधन्वनो बाणान्वन्ध्यान्दृष्ट्वा सुयोधने ।
किमेतदिति गोविन्दो जगाद पृथुविस्मयः ॥ ७.३४२ ॥
धनंजयस्तमवदत्स्मितधौताधरद्युतिः ।
ज्ञातं कृष्ण मया येन पापोऽयं प्रतिभां श्रितः ॥ ७.३४३ ॥
वर्मास्य गुरुणा बद्धं विद्यया वज्रसंनिभम् ।
प्रतियोगं च जानेऽहं कृत्स्नमेतद्विनाशने ॥ ७.३४४ ॥
इत्युक्त्वास्त्रं महद्दिव्यं कवचोच्छित्तये व्यधात् ।
तच्च दूरान्महास्त्रेण द्रोणपुत्रो व्यदारयत् ॥ ७.३४५ ॥
द्विष्प्रयोज्यं न दिव्यास्त्रमित्युक्त्वा पाण्डुनन्दनः ।
चक्रे सुयोधनं छिन्नरथसारथिकार्मुकम् ॥ ७.३४६ ॥
हस्तयोश्च शरैरस्य चकाराप्राप्तवर्मणोः ।
लक्ष्याभ्यासमिवासक्तं येनासौ विमुखोऽभवत् ॥ ७.३४७ ॥
ततो द्रौणिप्रभृतयः पार्थं सर्वे महारथाः ।
अभ्याद्रवन्सुसंरब्धा विचित्रकवचध्वजाः ॥ ७.३४८ ॥
शिखिध्वजः कर्णसुतः सीराङ्को मद्रभूपतिः ।
मणिनागध्वजः श्रीमान्स्वयं राजा सुयोधनः ॥ ७.३४९ ॥
भूरिश्रवा यूपकेतुरन्ते च विविधध्वजाः ।
हेमदीप्तायुधधरा घोरं युयुधिरे नृपाः ॥ ७.३५० ॥
तेषामापततां तूर्णं लघुहस्तो धनंजयः ।
चिच्छेद बाणैर्मर्माणि छत्त्राणि च धनूंषि च ॥ ७.३५१ ॥
शरैर्विवर्मणां तेषां पद्मगर्भनिभानि सः ।
बालातपारुणानीव वपूंषि रुधिरैर्व्यधात् ॥ ७.३५२ ॥
वध्यमानेषु वीरेषु जिष्णुना सर्वराजसु ।
वलत्स्वङ्गभुजः कालो ननर्तेव निजोत्सवे ॥ ७.३५३ ॥
अत्रान्तरे धर्मसुतं द्रोणो व्यूहमुखे स्थितः ।
महारथैः परिवृतं जिघृक्षुस्तूर्णमाद्रवत् ॥ ७.३५४ ॥
स कृत्वा मत्स्यपाञ्चालचेदिसृञ्जयकेकयान् ।
अल्पावशेषान्राजानं चकार विरथं शरैः ॥ ७.३५५ ॥
हताश्वं कृत्तचापं च दृष्ट्वा सर्वे युधिष्ठिरम् ।
हृतो हृतो नृप इति स्फारतारं प्रचुक्रुशुः ॥ ७.३५६ ॥
ततः पाण्डुसुतः शक्तिं प्राहिणोत्प्राणहारिणीम् ।
ब्रह्मस्त्रेण च तां द्रोणो भस्मसादकरोत्क्षणात् ॥ ७.३५७ ॥
छिन्नसर्वायुधो विद्धः शरैः कुलिशदारुणैः ।
सह देवरथेनाशु मुक्त्वा द्रोणं ययौ नृपः ॥ ७.३५८ ॥
विद्रुते धर्मतनये भारद्वाजो रुषा ज्वलन् ।
ददाह पाण्डवचमूं शरश्रेणीशिकाशतैः ॥ ७.३५९ ॥
केकयोऽथ बृहत्क्षत्रः पाण्डवानीकनायकः ।
द्रोणानुगं क्षेमधूतिं महीपालमपातयत् ॥ ७.३६० ॥
त्रैगर्तं वीरधन्वानं धृष्टकेतुं महारथम् ।
विधाय च्छिन्नमूर्धानं कबन्धं विदधे क्षणम् ॥ ७.३६१ ॥
निरपत्यं हातमित्रं सहदेवोऽवधीद्युधि ।
सात्यकिर्व्याघ्रदत्तं च राजपुत्रमपातयत् ॥ ७.३६२ ॥
विध्यमानं बलं दृष्ट्वा भारद्वाजसुतः परैः ।
शिरःकूटावसेषाणि पाण्डुसैन्यान्यकल्पयत् ॥ ७.३६३ ॥
राक्षसोऽथ बकभ्राता भीमसेनमलम्बुसः ।
योधयित्वा शरशतैस्तत्सेनां माययावधीत् ॥ ७.३६४ ॥
प्रवर्तितां राक्षसेन भीमो दृष्ट्वासृगापगाम् ।
त्वाष्ट्रेणास्त्रेण तन्मायां छित्वारमजयत्कृती ॥ ७.३६५ ॥
वधाय भीमसेनस्य रक्षस्तत्पुनरागमत् ।
अवारयन्महाकायं महाकायो घटोत्कचः ॥ ७.३६६ ॥
स रथाद्रथमुत्सृज्य कालः काल इवोन्नदन् ।
आकृष्यालम्बुसं वेगान्निष्पिष्य विदधे व्यसुम् ॥ ७.३६७ ॥
- अलम्बुसवधः ॥ १५ ॥ *****
घटोत्कचेन निहते राक्षसे जम्भविक्रमे ।
भयमाविरभूद्धोरं समरे सर्वभूभुजाम् ॥ ७.३६८ ॥
अत्रान्तरे धर्मसुतो दूरस्थस्य किरीटिनः ।
अशृण्वञ्शङ्खनिर्घोषं किमप्याशङ्कितोऽभवत् ॥ ७.३६९ ॥
भीतोऽभिमन्युवृक्तान्ताद्विषण्णो भ्रातृवत्सलः ।
उवाच सात्यकिं मत्वा स धुर्यं सर्वधन्विनाम् ॥ ७.३७० ॥
सात्यके पश्य बन्धूनां गुरूणां सुहृदां तथा ।
दोर्दर्पस्य च संप्राप्तः कालोऽयमुचितस्तव ॥ ७.३७१ ॥
स ते गुरुः सखा बन्धुः किरीटि शत्रुमध्यगः ।
न ज्ञायते प्रणष्टेऽत्र शङ्खशब्दे कथं स्थितः ॥ ७.३७२ ॥
ऋते त्वामुज्ज्वलाचारं प्रवरं शौर्यशालिनाम् ।
भारः कस्मिन्नसह्योऽयं धुरंधर निधीयताम् ॥ ७.३७३ ॥
पात्रे वितरतां पृथ्वीं रक्षतां शरणागतम् ।
मित्त्रार्थे त्यजतां प्राणान्समानं श्रूयते फलम् ॥ ७.३७४ ॥
धन्या भवद्विधा एव क्रियते यैः स्थिरं यशः ।
पवनाकम्पिकदलीदलालोलैर्निजासुभिः ॥ ७.३७५ ॥
त्वयि यातेर्ऽजुनं द्रष्टुं द्रोणग्रहणजं भयम् ।
भीमपार्षतगुप्तस्य सत्यं मे न भविष्यति ॥ ७.३७६ ॥
उक्त युधिष्ठिरेणेति सात्यकिः सत्वसागरः ।
सज्जोऽभवत्तथेत्युक्त्वा परानीकबिभित्सया ॥ ७.३७७ ॥
स हेमकवचः स्रग्वी शुभ्राश्वं रथमास्थितः ।
दीप्तसंहध्वजः श्रीमान्घननिर्घोषकार्मुकः ॥ ७.३७८ ॥
दाता हुतानलो हृष्टो नृपमान्त्र्य सानुजम् ।
भीमे रक्षां निधायास्य मङ्गलालंकृतो ययौ ॥ ७.३७९ ॥
स भारद्वाजमासाद्य वैनतेय इवाशुगः ।
चक्रे राजभुजङ्गानां क्षणमाकम्पविभ्रमम् ॥ ७.३८० ॥
ततो युद्धमभूद्धोरमाचार्ययुयुधानयोः ।
मोहनं सर्वलोकानां स्कन्दतारकयोरिव ॥ ७.३८१ ॥
द्रोणं स दुर्जयं मत्वा धीमान्सात्यकिरब्रवीत् ।
गुरो शिष्यं तवान्वेष्टुं फल्गुणं प्रस्थितस्य मे ।
अस्मिन्नल्पावशेषेऽह्नि न विघ्नं कर्तुमर्हसि ॥ ७.३८२ ॥
श्रुत्वैतच्चापमाकृष्य बभाषे कुम्भसंभवः ।
न प्रवेष्टुं त्वया शक्यं मयि जीवति सात्यके ॥ ७.३८३ ॥
इति ब्रुवाणं शैनेयो मनो मारुतरंहसा ।
रथेन वञ्चयित्वा तं पराहूतं समाविशत् ॥ ७.३८४ ॥
स व्रजन्दुर्जयाञ्जित्वा कृतवर्ममुखान्रणे ।
घोरान्म्लेच्छान्किरातांश्च काम्बोजांश्च न्यपातयत् ॥ ७.३८५ ॥
सानुगान्पाण्डुतनयान्भेत्तुं व्यूहाग्रमुद्यतान् ।
निर्गत्यावारयन्सर्वान्कृतवर्मा धनुर्धनः ॥ ७.३८६ ॥
जवेन प्रविशन्तं च सात्यकिं सुभटाशनिम् ।
भिन्दानं कुञ्जरघटा रुन्धानं सायकैर्दिशः ॥ ७.३८७ ॥
शस्त्रवृष्टिं तदुत्सृष्टां शरैर्विक्षिप्य सात्यकिः ।
चिच्छेद जलसंधस्य शक्रायुधनिभं धनुः ॥ ७.३८८ ॥
कुपितश्छिन्नचापास्त्रः कृत्वा सर्वायुधव्ययम् ।
सावेगं प्रेरितगजः सोऽथ सात्यकिमाद्रवत् ॥ ७.३८९ ॥
जवादापततस्तस्य शैनेयश्चन्दनोक्षितौ ।
छित्वा भुजौ जहाराशु सरत्नमुकुटं शिरः ॥ ७.३९० ॥
तस्मिन्हते स नागेन्द्रो युयुधानशरार्दितः ।
विद्रुतः कौरवचमूं पिपेषालम्बि कङ्कटः ॥ ७.३९१ ॥
- जलसंधवधः ॥ १६ ॥ *****
विदार्य मागधानीकं प्रविशन्वृष्णिपुंगवः ।
दुर्योधनमुखान्वीरानयोधयदसंभ्रमः ॥ ७.३९२ ॥
पराङ्मुखीकृताशेषसुभटः सोऽथ मानिनः ।
सुदर्शनस्य नृपतेश्चकर्त रुचिरं शिरः ॥ ७.३९३ ॥
शबरान्यवनान्भोजान्बर्बरांस्ताम्रलिप्तिकान् ।
शकान्मुण्डान्कुविन्दांश्च हरन्दूरान्मतङ्गजान् ॥ ७.३९४ ॥
दस्युसंघांश्च विविधान्स हत्वा क्रूरविक्रमान् ।
चक्रे करभकुट्टाकः क्षितं मस्तिष्ककर्दमाम् ॥ ७.३९५ ॥
दुःशासनोऽथ निशितैर्विद्धः सात्यकिना शरैः ।
विहाय समरं तूर्णं भारद्वाजान्तिकं ययौ ॥ ७.३९६ ॥
तं दृष्ट्वा विह्वलं द्रोणो बभाषे पार्श्वर्तिनम् ।
कोऽयं ते संभ्रमो वीर गत्वा रक्ष यजद्रथम् ॥ ७.३९७ ॥
अहो न सात्यकिशरैर्भिन्नां दृष्ट्वा वरूथिनीम् ।
कृतवैरश्च मानी च योद्धव्ये विद्रुतोऽसि किम् ॥ ७.३९८ ॥
एतत्तावत्कृतं कर्म शैनेयेनातिमानुषम् ।
अतो बहुगुणं वीरौ भीमपार्थौ करिष्यतः ॥ ७.३९९ ॥
नैषा सभा सा पाञ्चाली यत्र त्वं कृष्टवानसि ।
इमाः प्राणपणप्राप्या यशोविक्रमभूमयः ॥ ७.४०० ॥
अद्यापि रोचतां संधिर्युष्माकं पाण्डुनन्दनैः ।
अन्तं न याता वीराणां संप्रत्यर्जुनसायकाः ॥ ७.४०१ ॥
युध्यस्व तूर्णमथवा शात्रवैरपराङ्मुखः ।
भग्नप्रधाना हि चमूर्वार्यमाणापि दीर्यते ॥ ७.४०२ ॥
इति रुक्मरथेनोक्तो वैलभ्यात्क्ष्मां विलोकयन् ।
निघ्नन्साहाय्यकं चक्रे मृत्योरिव जगत्क्षते ॥ ७.४०३ ॥
वीरकेतुं सुधन्वानं चित्रकेतुं च पार्थिवम् ।
तथा चित्रर्थं वीरं पाञ्चालानवधीद्युधि ॥ ७.४०४ ॥
धृष्टद्युम्नस्ततः क्रुद्धः सर्वाभरणभेदिभिः ।
विद्ध्वा द्रोणमसंभ्रान्तः शरैः सेनामदारयत् ॥ ७.४०५ ॥
आचार्यं भृशमाकीर्णं शरैर्मूर्छामुपागतम् ।
खड्गपाणिरभिद्राव्य पार्षतो हन्तुमुद्ययौ ॥ ७.४०६ ॥
लब्धसंज्ञस्ततो द्रोणः शरैरासन्नपातिभिः ।
किष्कुप्रमाणैर्वैतस्तैर्वंशोत्थैस्तमपूरयत् ॥ ७.४०७ ॥
वृश्चिकैरिव तैर्व्याप्तो धृष्टद्युम्नः पराङ्मुखः ।
प्रययौ गुरुणा पश्चाद्दारितः पृथुसायकैः ॥ ७.४०८ ॥
ततः शोणहयः क्रुद्धः पाण्डवानामनीकिनीम् ।
दारयन्भूमिपालानां शिरोभिः क्ष्मामपूरयत् ॥ ७.४०९ ॥
दुःशासनमथायान्तं सात्यकिः शरवर्षिणम् ।
चकार च्छिन्नवर्माणं विरथध्वजसायकम् ॥ ७.४१० ॥
संत्यक्तं विद्रुतैर्म्लेच्छैः प्रहारशकलीकृतैः ।
रक्षन्प्रतिज्ञां भीमस्य विमुखं नावधीद्गतम् ॥ ७.४११ ॥
अत्रान्तरे रुक्मरथो विशन्पाञ्चालवाहिनीम् ।
द्रोणाय प्राहिणोद्दीप्तां शिशुपालसुतो बली ॥ ७.४१२ ॥
तस्य तूर्णं शितैर्बाणैर्गुरुः कृत्वा युधि क्षयम् ।
चकार मौलिरत्नांशुच्छुरितोष्णीषमाननम् ॥ ७.४१३ ॥
धृष्टकेतौ विनिहते जलसंधसुतो बली ।
बाणवर्षी क्षणात्प्राप द्रोणानलपतङ्गताम् ॥ ७.४१४ ॥
- केकयधृष्टकेतुवधः ॥ १७ ॥ *****
धृष्टद्युम्नसुतं हत्वा कृतवर्माणमाशुगैः ।
द्रोणो जघान पाञ्चालान्हेहयानिव भार्गवः ॥ ७.४१५ ॥
भग्नासु पाण्डुसेनासु घोरे तस्मिन्महाहवे ।
निनिन्द क्रूरवर्माणमाचार्यं व्यथितो जनः ॥ ७.४१६ ॥
- सात्यकिप्रवेशः ॥ १८ ॥ *****
चिरप्रविष्टे शेनेये शङ्कितो धर्मजः पुनः ।
लम्बमाने रवौ भीमं समभ्येत्याभ्यभाषत ॥ ७.४१७ ॥
यथा न श्रूयते भीम शङ्खशब्दः किरीटिनः ।
तथा मन्ये किमप्यस्य कृतं सर्वैर्महारथैः ॥ ७.४१८ ॥
तं वीरममरारातितमोविध्वंसभास्करम् ।
विना तवानुजं भीम कथं जीवितुमुत्सहे ॥ ७.४१९ ॥
निर्घोषः श्रूयते घोरः पाञ्चजन्यस्य दुःसहः ।
जानेर्ऽजुनवधक्रोधान्माधवो योद्धुमुद्यतः ॥ ७.४२० ॥
तद्गत्वा वीर जानीहि वृत्तान्तं सव्यसाचिनः ।
पश्यामि तिमिराक्रान्ताः कश्मलाभिहतो दिशः ॥ ७.४२१ ॥
उक्ते युधिष्ठिरेणेति तं जगाद वृकोदरः ।
राजन्धनंजये शङ्कां न मिथ्या कर्तुमर्हसि ॥ ७.४२२ ॥
को नाम विबुधारातिवधूवैधव्यदायिनः ।
प्रगल्भते धुरं धत्ते युधि गाण्डीवधन्वनः ॥ ७.४२३ ॥
तथाप्यद्य गृहीत्वाहं शिरसा तव शासनम् ।
चरामि पदवीं जिष्णोर्दारयन्कुरुवाहिनीम् ॥ ७.४२४ ॥
इत्युक्त्वा मारुतसुतः स्यन्दनेनाभ्रनादिना ।
हेमचित्रतनुत्राणः पत्त्रिराज इवाद्रवत् ॥ ७.४२५ ॥
स रुक्मरथमारुह्य रुक्मपुङ्खैः शिलीमुखैः ।
अपूरयत्कुरुवनं रत्नदीप्तैरिवाहिभिः ॥ ७.४२६ ॥
प्रवेष्टुकाममाचार्यस्तमभ्येत्याब्रवीत्ततः ।
मामनिर्जित्य कौन्तेय भेत्तुं शक्या न वाहिनी ॥ ७.४२७ ॥
त्वद्विधैः कुरुराजस्य संरम्भं मा कृथा वृथा ।
इत्युक्त्वा पाण्डवं द्रोणः शरवर्षैरवाकिरत् ॥ ७.४२८ ॥
तद्बाणजालनिर्भिन्नो बभाषे च वृकोदरः ।
यथा त्वं मन्यसे द्रोण नेदानीं नो गुरुर्भवान् ॥ ७.४२९ ॥
पूजयत्यर्जुनो मान्यान्भीमोऽहं पश्य मामिति ।
इत्युक्त्वा प्राहिणोत्तस्मै गदामशनिगौरवाम् ॥ ७.४३० ॥
तया द्रोणपरित्यक्तो रथः शकलतां ययौ ।
अपक्रान्ते क्षणं द्रोणे सानुजं कौरवेश्वरम् ॥ ७.४३१ ॥
शरैरपूरयद्भीमो भीमसायकवर्षिणम् ।
क्षुरप्रोत्कृत्तवदनान्स जघानाथ कौरवान् ॥ ७.४३२ ॥
वृन्दारकं दीर्घनेत्रं सुषेणं दुर्विमोचनम् ।
रौद्रकर्माणमभयं चित्रकान्तिं सुदर्शनम् ॥ ७.४३३ ॥
निपात्यैतान्गदाभिन्नसैन्यश्चक्रे तलस्वनम् ।
विद्रुतं स्वबलं दृष्ट्वा तं द्रोमः पुनराद्रवत् ॥ ७.४३४ ॥
रथेनाकालजलदध्वनिगम्भीरनादिना ।
संप्रहारस्ततः क्षिप्रं दारुणो द्रोणभीमयोः ॥ ७.४३५ ॥
ययौ भार्गवकाकुत्स्थरणस्मरणहेतुताम् ।
स्यन्दनादवरुह्याथ क्रूरकर्मा वृकोदरः ॥ ७.४३६ ॥
चिक्षेप दोर्भ्यामुत्क्षिप्य दूरदूरे रथं गुरोः ।
भग्नचक्रध्वजहयाद्विकीर्णयुगकूबरात् ॥ ७.४३७ ॥
अवप्लुत्य ययौ तस्माद्द्रोणो गरुडविक्रमः ।
अथान्तरं समासाद्य दारयन्वरवारणान् ॥ ७.४३८ ॥
पोथयन्रणसंघातान्विवेश पवनात्मजः ।
पातयन्राजवक्त्राणि पुनः सस्मार मारुतिः ॥ ७.४३९ ॥
निर्लूननालनलिनां कुबेरनलिनीं मुहुः ।
स व्रजन्बोजकाम्बोजान्विजित्य विजयाग्रजः ॥ ७.४४० ॥
विवेशाकुलितं तूर्णं कर्णानीकमनाकुलः ।
तस्य नादं परिज्ञाय दूरात्कृष्णधनंजयौ ॥ ७.४४१ ॥
आकर्ण्य कार्मुकरवं ननाद प्रमदाकुलः ।
तस्य नादं परिज्ञाय दूरात्कृष्णधनंजयौ ॥ ७.४४२ ॥
मन्दरोद्धूतदुग्धाब्धिघोषौ सङ्खौ प्रदध्मतुः ।
तेन दिक्तटसंघट्टपट्टटाङ्कारशालिना ॥ ७.४४३ ॥
शब्देन साध्वसकृता भुवनानि चकम्पिरे ।
आकर्ण्य कृष्णयोस्तुल्यं शङ्खनादं युधिष्ठिरः ॥ ७.४४४ ॥
हृष्टो मेने समुत्तीर्णमर्जुनं रिपुसागरात् ।
भज्यमानं बलं दृष्ट्वा भीमेन भुजशालिना ॥ ७.४४५ ॥
कोपादभ्याययौ कर्णः कुर्वन्बाणमयं जगत् ।
तमायान्तं शरैर्विद्ध्वा नदत्पवननन्दनः ॥ ७.४४६ ॥
चकार विमुखं कृत्तध्वजस्यन्दनकार्मुकम् ।
भग्ने समिति राधेये धौरेये धैर्यशालिनाम् ॥ ७.४४७ ॥
उवाच द्रोणमागत्य म्लानमानः सुयोधनः ।
अर्जुनस्ते प्रियः शिष्यस्त्वामुल्लङ्घ्य गतो यदि ॥ ७.४४८ ॥
तत्किं प्रविष्टौ प्रसभं युयुधानवृकोदरौ ।
किमन्यद्विधिवैमुख्यं सत्यमस्मासु जृम्भते ॥ ७.४४९ ॥
यत्र वेलामतिक्रान्तो भवान्वीर्यमहोदधिः ।
इत्युक्तः कुरुराजेन बभाषे कुम्भसंभवः ॥ ७.४५० ॥
सैन्यं पुरश्च पश्चाच्च गृहीतं धार्यते कथम् ।
रक्ष्यमाणमितो यत्नात्पुरतः प्रविदीर्यते ॥ ७.४५१ ॥
अवारिता विशन्त्येव सर्वे पाञ्चालसृञ्जयाः ।
सैन्यद्वारमितो यत्नाद्रक्ष्यं सर्वात्मना मया ॥ ७.४५२ ॥
भवान्कर्णमुखैः सार्धमेभिः सर्वैर्महारथैः ।
पार्थसात्यकिभीमानां पर्याप्तः किं न वारणे ॥ ७.४५३ ॥
अस्मिन्मुहूर्तशेषेऽह्नि गत्वा रक्ष जयद्रथम् ।
अधुना तत्पणावेव रणद्यूते जयाजयौ ॥ ७.४५४ ॥
इत्युक्तो गुरुणा राजा गत्वा पाञ्चालनन्दनौ ।
सर्वैश्चकार विरथौ चक्ररक्षौ किरीटिनः ॥ ७.४५५ ॥
अत्रान्तरे पुनः कर्णः समागत्य वृकोदरम् ।
हेमुपुङ्खैः शरैश्चक्रे ज्वलितानलसंनिभम् ॥ ७.४५६ ॥
ततो भीमभुजोत्सृष्टैः पत्त्रिभिर्गिरिभेदिभिः ।
विद्धश्छिन्नायुधरथो रणं तत्याज सूतजः ॥ ७.४५७ ॥
ततो भग्ने कुरुबले नदन्तं वायुनन्दनम् ।
कर्णो मानी समाश्वस्य रथेन पुनराद्रवत् ॥ ७.४५८ ॥
घोरे प्रवृत्ते समरे सुचिरं कर्णभीमयोः ।
बभूव विशिखव्रातैर्नरनागरथक्षयः ॥ ७.४५९ ॥
भीमोऽथ सूतपुत्रस्य च्छित्वा तालोपमं धनुः ।
जघान घननिर्घोषं रथं सह मनोरथैः ॥ ७.४६० ॥
विरथं कर्णमालोक्य युध्यमानं प्रयत्नतः ।
आदिष्टः कुरुराजेन दुर्जयस्तमुपाद्रवत् ॥ ७.४६१ ॥
दुर्योधनानुजं वीरमायान्तं शरवर्षिणम् ।
तं हत्वा विनदन्भीमः शरैः कर्णमपूरयत् ॥ ७.४६२ ॥
पुनः स्यन्दनमास्थाय सूतपूत्रो वृकोदरम् ।
अभ्यधावत्पृथुशरज्वालाजटिलकार्मुकम् ॥ ७.४६३ ॥
तद्बाणदारिततनुः पावनिः कोपकम्पितः ।
गुर्वी गदां विसृज्यास्य निष्पिपेष रथं जवात् ॥ ७.४६४ ॥
भुवि स्थितं शरैर्भिन्नं कर्णं दृष्ट्वा सुयोधनः ।
आदिदेशानुजं कोपाद्दुर्मुखं कर्णगुप्तये ॥ ७.४६५ ॥
वेगात्कौरवमायान्तं तं शस्त्राशनिदुःसहम् ।
रथादपातयद्भीमो निर्भिन्नहृदयं शरैः ॥ ७.४६६ ॥
आरुह्य दुर्मुखरथं कर्णो दुःखानलाकुलः ।
भीमाय प्राहिणोद्बाणाञ्ज्वलितानिव दुःसहान् ॥ ७.४६७ ॥
ततो भीमभुजोत्सृष्टाः सनिःश्वासा इवोरगाः ।
अङ्गराजं विनिर्भिद्य शराः पातालमाविशन् ॥ ७.४६८ ॥
स गाढविद्धो दुद्राव जवव्यालोलकेतुना ।
रथेन कुरुसेनानां धृतिमुन्मूलयन्निव ॥ ७.४६९ ॥
अभ्यधावंस्ततो भीमं पञ्च दुर्योधनानुजाः ।
जगदुः शल्यदुर्ग्राह्याः सदुर्दर्शनदुष्प्रभाः ॥ ७.४७० ॥
युध्यमानान्स तान्बाणैर्महार्हाभरणोज्ज्वलान् ।
अपातयन्महावात इव सेन्द्रायुधान्घनान् ॥ ७.४७१ ॥
हतेषु तेषु राधेयो धुनानो विपुलं धनुः ।
अयोधयत्पुनर्भीमं महाकालेऽप्यसंभ्रमः ॥ ७.४७२ ॥
तस्य भीमो धनुश्छित्वा रथं च गुरुविक्रमः ।
नर्दन्करेऽभ्यो वीराणामायुधानि न्यपातयत् ॥ ७.४७३ ॥
विषमे वर्तमानस्य राधेयस्य सुयोधनः ।
सप्तानुजान्सहायार्थं प्रेषयामास सत्वरम् ॥ ७.४७४ ॥
चित्राक्षश्चित्रवर्मा च चित्रबाणः शरासनः ।
उपचित्रः सचित्रश्च चारुचित्रश्च ते समम् ॥ ७.४७५ ॥
आयान्त एव विमुखास्तुल्याभरणवाससः ।
शरैभर्मिभुजोत्सृष्टैः प्रेताः पेतुर्महीतले ॥ ७.४७६ ॥
तान्वीक्ष्य पतितान्वीरान्क्षीणपुण्यानिव ग्रहान् ।
कर्णोऽस्रुपूर्णनयनो रथमन्यं समाददे ॥ ७.४७७ ॥
क्रोधादधिकसंरम्बो युध्यमानो वृकोदरः ।
तं निर्विकारो विशिखैर्वज्रवेगैरपूरयत् ॥ ७.४७८ ॥
कर्णमाच्छादितं दृष्ट्वा भीमचापच्युतैः शरैः ।
व्यादिदेशानुजान्सप्त तद्गुप्त्यै कौरवेश्वरः ॥ ७.४७९ ॥
चित्रायुधः शत्रुसहः शत्रुः शत्रुंजयस्तथा ।
चित्रासुश्चित्रसेनश्च विकेशश्चेति तान्द्रुतम् ॥ ७.४८० ॥
वीरानभिमुखान्बाणविद्धान्पवननन्दनः ।
उन्ममाथ रताग्रेभ्यः शैलेभ्यः पादपानिव ॥ ७.४८१ ॥
हतेषु राजपुत्रेषु तेषु विक्रमशालिषु ।
भीमकर्णशरैः क्षिप्रं बभूव जनसंक्षयः ॥ ७.४८२ ॥
भीमबाणविनिर्भिन्नः संस्तम्भ्याधिरथिर्व्यथाम् ।
मण्डलीकृतकोदण्डश्चक्रे बाणमयं नभः ॥ ७.४८३ ॥
ततः कर्णशराश्चक्रुर्व्यश्वसूतधनुर्ध्वजम् ।
एकीभूता इव जवाद्भीमं विस्मयकारिणः ॥ ७.४८४ ॥
सर्वायुधानि संरब्धो विरथस्योपसर्पतः ।
वैकर्तनश्चकर्तास्य संवर्तक इवोन्नदन् ॥ ७.४८५ ॥
क्षीणायुधोऽथ द्विरदान्हयांश्च पवनात्मजः ।
प्राहिणोत्सूतपुत्राय शरैश्चिच्छेद तांश्च सः ॥ ७.४८६ ॥
विषमस्थं रणे कर्णो न जघान वृकोदरम् ।
वीरः कुन्तीवचः स्मृत्वा सत्यशीला हि साधवः ॥ ७.४८७ ॥
तं स्पृशन्निव चापेन प्रोवाच विनदन्नृपः ।
महद्भिर्मूढमा युद्धमकृतास्त्रः पुनः कृथाः ॥ ७.४८८ ॥
हंहो बहुभुजो नेयमुचिता तव युद्धभूः ।
मांसास्तिकूटकुट्टाक सूदशालासु शोभसे ॥ ७.४८९ ॥
अथवा भारयोग्यस्य शरीरस्यास्य ते पशोः ।
युक्तास्तूवरकाः स्फीताः कानने लब्धवृत्तयः ॥ ७.४९० ॥
इति ब्रुवाणे राधेये भीमं कृच्छ्रदशाश्रितम् ।
विलोक्य दूरात्कंसारिः फ्लगुणाय न्यवेदयत् ॥ ७.४९१ ॥
ततो मुहूर्तगणने हेमरेखानुकारिणी ।
तूर्णं बाणावली कर्णं गाण्डीवपतिताविशत् ॥ ७.४९२ ॥
खाण्डवानलसंक्रान्तशिखयेव भृतो भृशम् ।
व्याप्तो दुद्राव राधेयो जयोद्धूतध्वजांशुकः ॥ ७.४९३ ॥
- भीमसेनप्रवेशः ॥ १९ ॥*****
आरूढे सात्यकिरथं कोपतप्ते वृकोदरे ।
कर्णाय प्राहिणोत्पार्थो नाराचं व्योमवर्त्मना ॥ ७.४९४ ॥
वज्रतुल्यं तमायान्तं दारुणं सर्वभूभुजाम् ।
दूरादलक्षितो द्रौणिश्चिच्छेदाशु पतत्रिभिः ॥ ७.४९५ ॥
अथार्जुनो बाणशतैर्द्रेणात्मजमपूरयत् ।
सोऽपि तत्सायकैर्भिन्नः सेनासंगरमाविशत् ॥ ७.४९६ ॥
ततः कनकपृष्ठानां शराणां धनुषां तथा ।
रश्मिभिः कोपरचना रटन्तमिव राजकम् ॥ ७.४९७ ॥
विदारयन्नाससाद सूचिव्यूहं धनंजयः ।
आस्ते महारथैर्गुप्तो यत्र पापो जयद्रथः ॥ ७.४९८ ॥
अत्रान्तरे शरज्वालीञक्षितिपकाननम् ।
अलम्बिषो घनध्वानो गर्जन्सात्यकिमाद्रवत् ॥ ७.४९९ ॥
तं राजवरमायान्तं पूरयन्तं शरैर्दिशः ।
अवारयन्महानीकं सात्यकिः सत्यपौरुषः ॥ ७.५०० ॥
तयोः काञ्चनपुङ्खाभिः शरमालाभिरावृताः ।
सिक्ता वीररसेनेव दिशः पल्लविता बभुः ॥ ७.५०१ ॥
ततश्चकर्त भल्लेन शिरस्तस्याशु सात्यकिः ।
मौलिशोणमणिच्छायाच्छुरितेन समाहरन् ॥ ७.५०२ ॥
निहत्यालम्बिपं वीरं प्रवराणां प्रहारिणाम् ।
शतानि राजपुत्राणां न्यवधीत्पञ्च सात्यकिः ॥ ७.५०३ ॥
क्षपयन्तं कुरुचमूं तं रणे दीप्तविक्रमम् ।
अभ्यधावद्वीरकेतुर्वीरो भूरिश्रवाः स्वयम् ॥ ७.५०४ ॥
तयोर्विचित्रधनुषोः शरदुर्दिनमेघयोः ।
गर्जितं चकिताः सर्वे राजहंसा न सेहिरे ॥ ७.५०५ ॥
तौ मिथः शरसंपातनिर्घर्षणसमुत्थितैः ।
विरेजतुः स्फुलिङ्गौघैः कीटरत्नौरिवाचलौ ॥ ७.५०६ ॥
छित्वा परस्परं चापं स्यन्दनं संप्रमथ्य च ।
खङ्गचर्मधरौ वीरौ युयुधाते चिराय तौ ॥ ७.५०७ ॥
जवादलक्ष्यवपुषोश्चित्रमण्डलचारिणोः ।
तयोः स्थगितसंग्रामा वीराः प्रेक्षकतां ययुः ॥ ७.५०८ ॥
ततः सात्यकिमाकृष्य माल्यवद्भिः शिरोरुहैः ।
हत्वा वक्षसि पादेन सौमदत्तिरपातयत् ॥ ७.५०९ ॥
खड्गेन सात्यकिशिरश्छेत्तुं दृष्ट्वा तमुद्यतम् ।
उवाच सहसा पार्थं संभ्रान्तः कैटभान्तकः ॥ ७.५१० ॥
प्रेषितं धर्मराजेन त्वदर्थं वृष्णिपुंगवम् ।
पश्य शत्रुवशं यातं श्रान्तं सात्यकिमाहवे ॥ ७.५११ ॥
अनित्यौ सर्वथा नूनं सुभटानां जयाजयौ ।
यदिमां सात्यकिरपि प्राप्तः क्लीबोचितां दशाम् ॥ ७.५१२ ॥
एष भूरिश्रवास्तूर्णं खड्गेनाखण्डविक्रमः ।
समुद्यतः शिरो हर्तुं शिष्यस्य तव सात्यकेः ॥ ७.५१३ ॥
उक्ते जनार्दनेनेति प्रहाराभिमुखं भुजम् ।
भल्लेन भूरिश्रवसो जहार कपिकेतनः ॥ ७.५१४ ॥
कृत्ते दूराददृश्येन भुजस्तम्भे किरीटिना ।
कालवक्त्रान्निपतितं सात्यकिं मेनिरे जनाः ॥ ७.५१५ ॥
पतन्स भुवि दोर्दण्डः कङ्कणावलिनिःस्वनः ।
निनादैरिव कौन्तेयं तारतारैरतर्जयत् ॥ ७.५१६ ॥
तस्मिञ्जयद्विपालाने विश्रान्तिसदने क्षितेः ।
प्रतापमन्दिरस्तम्भे भुजे भुवि निपातिते ॥ ७.५१७ ॥
त्यक्त्वा वामकराकृष्टां सात्यकेर्मूर्धजावलीम् ।
उवाचानल्पसंकल्पो यूपकेतुर्धनंजयम् ॥ ७.५१८ ॥
अहो वीरव्रतं पार्थ कीदृशं दर्शिनं त्वया ।
येनान्यरणसक्तस्य च्छद्मना मे हतो भुजः ॥ ७.५१९ ॥
उचितं वा तवैवैतन्मन्त्री यस्य जनार्दनः ।
जाता हृद्यार्थलोभेन कूटयुद्धविग्धता ॥ ७.५२० ॥
इत्युक्त्वा वामहस्तेन शरशय्यां विधाय सः ।
उपविश्य विशन्नन्तः सहितः स्वर्शवृत्तिभिः ॥ ७.५२१ ॥
हुत्वा प्राणानलं बाणैर्भ्रुमध्ये निहितेक्षणः ।
तेजः प्रविदधे मूर्ध्नि शशिसूर्यानलोत्तरम् ॥ ७.५२२ ॥
ततो बीभत्सुरवदन्निन्दामुखरितान्नृपान् ।
विह्वलो विषमात्मा च रक्षितः सात्यकिर्मया ॥ ७.५२३ ॥
हन्ता शिष्यस्य सख्युश्च कृत्तहस्तः कृतो यदि ।
तत्र किं नाम मन्यध्वं निर्देषा यूयमाहवे ॥ ७.५२४ ॥
एकोऽभिमन्युर्निहतः समायैः सर्वपार्थिवैः ।
श्रान्तश्छिन्नधनुःखड्गस्तत्किं नाम वदन्ति नः ॥ ७.५२५ ॥
इत्युक्तवति कौन्तेये लब्धसंज्ञोऽथ सात्यकिः ।
ययाचे प्रणतः पूर्वं रणं प्रायजुषो रिपोः ॥ ७.५२६ ॥
खड्गेन यज्ञशीलस्य वीरस्य यशसां निधेः ।
वक्त्रं मुक्तावलीभाभिर्जातहासमिवाहरत् ॥ ७.५२७ ॥
स कृष्णेन च भूपालैर्वार्यमाणेन संभ्रमात् ।
क्रोधादज्ञातवृत्तेन तस्मिन्सात्यकिना हते ॥ ७.५२८ ॥
धिक्शब्दः सर्ववीराणामुत्तस्थौ स्थगिताम्बरः ।
सौमदत्तेश्च चरितं प्रशशंसुः सुरा दिवि ॥ ७.५२९ ॥
- भूरिश्रवसो वधः ॥ २० ॥ *****
स तेन निर्जितः पूर्वं सोमदत्तोऽतिमन्युना ।
आराध्य तपसा देवं रूद्रं त्रिपुरदारणम् ॥ ७.५३० ॥
लेभे सात्यकिजेतारं भूरिश्रवसमात्मजम् ।
शेखरं सर्ववीराणां वदान्यं बहुयाजिनम् ॥ ७.५३१ ॥
तस्मिन्निपतिते वीरे जयद्रथवधोत्सुकः ।
तूर्णं विवेश श्वेताश्वो निबिडं राजमण्डलम् ॥ ७.५३२ ॥
अस्ताद्रिचूडामणितां गन्तुमिच्छति भास्करे ।
ददर्श सैन्धवं पार्थो गुप्तं सर्वैर्महारथैः ॥ ७.५३३ ॥
आकर्णाञ्चितगाण्डीवस्तं दूराद्दुःसहागमम् ।
दृशैव कोपारुणया तस्य दाहमिवाकरोत् ॥ ७.५३४ ॥
ततो विलुलिते सैन्ये परावृत्त इवाम्बुधौ ।
हतो हतः सिन्धुराजो बभूवेति महास्वनः ॥ ७.५३५ ॥
अथ कर्णकृपद्रौणिदुःशासनसुयोधनाः ।
सह सर्वैर्महीपालैर्धनंजयमयोधयत् ॥ ७.५३६ ॥
तान्विधाय शरैस्तूर्णं द्वस्तवर्मरथध्वजान् ।
पातयन्राजवक्त्राणि जिष्णुः सैन्धवमाद्रवत् ॥ ७.५३७ ॥
जयद्रथोऽपि विजयं विलोक्याच्युतसारथिम् ।
स निष्कृष्यासकृत्तैस्तैः सायकैस्तमपूरयत् ॥ ७.५३८ ॥
ततोऽब्रवीन्मधुरिपुर्दिनान्ते सव्यसाचिनम् ।
छिन्धि सिन्धुपतेः क्षिप्रं शिरो दिव्येन पत्रिणा ॥ ७.५३९ ॥
वृद्धक्षत्त्रः पिता प्रादाद्वरमस्य क्षितौ शिरः ।
पातयिष्यति यस्तुल्यं तस्यापि निपतिष्यति ॥ ७.५४० ॥
समन्तपञ्चकाभ्यर्णे पितास्य तपसि स्थितः ।
तदङ्के पातय रिपोः सिरस्तस्मात्प्रयातु गाम् ॥ ७.५४१ ॥
इत्युक्ते शौरिणा जिष्णुश्छित्त्वा सिन्धुशिरो जवात् ।
शरेण संध्याध्यानस्थजनकाङ्के न्यपातयत् ॥ ७.५४२ ॥
अङ्कादज्ञासवृत्तस्य क्षिपतस्तच्छिरः क्षितौ ।
वृद्धक्षत्त्रस्य सहसा पपाताग्रे निजं शिरः ॥ ७.५४३ ॥
- जयद्रथवधः ॥ २१ ॥*****
तस्मिन्निपतिते वीरे त्रैलोक्याश्चर्यकारिणा ।
गाण्डीवधन्वना कृष्णो ननादास्फोटयन्दिशः ॥ ७.५४४ ॥
ततो विघटिते व्यूहे कुरुराजवरूथिनी ।
नौरिवाब्धेर्महावातैर्बभ्रामावर्तनर्तिता ॥ ७.५४५ ॥
भीमो ननर्द तं नादं हतं मत्वा जयद्रथम् ।
प्रहृष्टः प्रतिजग्राह नानावाद्यं युधिष्ठिरः ॥ ७.५४६ ॥
अक्षौहिणीः सप्त हत्वा हतः पार्थेन सैन्धवः ।
नूनं न दुर्गं दैवस्य किंचिदित्यूचिरे जनाः ॥ ७.५४७ ॥
निर्विभागे ततो युद्धे प्रवृत्ते नृपतिक्षये ।
द्रोणं कृपं च विदधे शरैर्जिष्णुः पराङ्मुखम् ॥ ७.५४८ ॥
भीमसायकनिर्भिन्नजिह्वाकर्णं(?) च सात्यकिः ।
आरुरोह रथं वीरो वितीर्ण हरिणा निजम् ॥ ७.५४९ ॥
मारुतेरवमानं च कलयञ्शतमन्युजः ।
पुनः प्रतिज्ञां कर्णस्य वृषसेनवधे व्यधात् ॥ ७.५५० ॥
ततो युधिष्ठिरं प्राप्य तौ च सात्यकिफल्गुणौ ।
मिथः शशंसुः प्रमदादभिनन्द्य पराक्रमम् ॥ ७.५५१ ॥
कृष्णावथ परिष्वज्य मानन्दं धर्मनन्दनः ।
तुष्टाव जगतां नाथं विष्णुं विजयकारणम् ॥ ७.५५२ ॥
बाष्पाकुलस्ततो राजा द्रोणमेत्य सुयोधनः ।
ऊचे त्वया कृताश्वासो निहतः स जयद्रथः ॥ ७.५५३ ॥
श्रुत्वैतदवदद्द्रोणो निधनायैव दीक्षितः ।
त्यक्ष्यामि कवचं राजन्नाहत्वा तव वैरिणः ॥ ७.५५४ ॥
आचार्येणेत्यभिहिते सर्वे दुर्योधनानुगाः ।
प्राणहव्ये रणमखे तस्थुराबद्धनिश्चयाः ॥ ७.५५५ ॥
अथांशुमति यातेऽस्तं दिनकृत्कमलत्विषि ।
शोणच्छत्र इवाकृष्टे संध्यारक्तसरित्प्लवैः ॥ ७.५५६ ॥
नक्षत्रैस्तारतरलैः कोपकम्पजुषां रणे ।
हतानां भूभुनां जीवैरिव व्याप्ते नभस्तले ॥ ७.५५७ ॥
तमोभिरावृते व्योम्नि कृपाणवनमेच्कैः ।
दिव्यास्त्रदग्धैर्मातङ्गैरिव त्रिदिवगामिभिः ॥ ७.५५८ ॥
विस्फुरन्मौलिकेयूरहेमसायककार्मुकाः ।
चक्रिरे समरं घोरं दुर्योधनमुखाः परैः ॥ ७.५५९ ॥
अर्जुनध्वानगर्जाभिः सिंहनादैश्च मारुतेः ।
द्रोणकार्मुकनिर्घोषैः पृथिवी समकम्पत ॥ ७.५६० ॥
अश्रान्तं युध्यमानानां कुरुपाण्डवभूभुजाम् ।
बभौ साक्षादिवायाता कालरात्रिर्विभावरी ॥ ७.५६१ ॥
प्रापुस्तमांसि वैपुल्यं खड्गेषु द्विरदेषु च ।
प्रापुस्तमांसि दारिद्र्यं छत्त्रेषु व्यजनेषु च ॥ ७.५६२ ॥
गृध्रभूतोत्सवे तस्मिन्विकराला वसुंधरा ।
अवर्तमानमानेन तमसेव विदारिता ॥ ७.५६३ ॥
दत्तवेतालतालोऽभूदकाण्डधृतिखण्डनः ।
कबन्धोद्दण्डदोर्दण्डताण्डवाडम्बरोत्सवः ॥ ७.५६४ ॥
शिरस्त्रकङ्कटापातिशस्त्रज्वालाजटा बभुः ।
तमःपिशाचसंघानां पिङ्गाः श्मश्रुसटा इव ॥ ७.५६५ ॥
तत्र द्रोणो महास्त्रौघैः क्षपयन्राजमण्डलम् ।
आदीप्तरत्नमुकुटं प्रोच्चकर्त शिनेः शिरः ॥ ७.५६६ ॥
भीमसेनोऽपि कालिङ्गं राजपुत्रं तरस्विनम् ।
रथाद्रथमभिप्लुत्य निजघानाशु मुष्टिना ॥ ७.५६७ ॥
तस्य मुष्टिहतस्याजौ पेतुरस्थीनि भूतले ।
फल्गुन्यश्महतस्येव चिरपक्वस्य शाखिनः ॥ ७.५६८ ॥
कलिङ्गकुलसंहारं कृत्वा तूर्णं वृकोदरः ।
ध्रुवं च जलधारं च राजपुत्रावदारयत् ॥ ७.५६९ ॥
विधाय विमुखं कर्णं भीमो दुर्योधनानुजम् ।
निष्पिपेष पदा हत्वा वीरो दुष्करदुर्मदः ॥ ७.५७० ॥
सोमदत्तस्य तनयं शलं हत्वाथ सात्यकिः ।
तं पुत्रशोकविधुरं चकार विमुखं शरैः ॥ ७.५७१ ॥
दारयन्तं कुरुचमूं सात्यकिं शरवर्षिणम् ।
दिशः संपूरयन्बाणैरश्वत्थामा समाद्रवत् ॥ ७.५७२ ॥
क्षपयन्तमनीकानि दृष्ट्वा रुद्रमिवापरम् ।
निशीथे द्विगुणोत्साहस्तमधावद्धटोत्कचः ॥ ७.५७३ ॥
तस्य नादेन महता दिशः समभिपूरिताः ।
स्फुटिता यत्र दलशस्तदाश्चर्यमिवाभवत् ॥ ७.५७४ ॥
अश्वत्थाम्नि प्रभाधाम्नि बाणोग्रकिरणे रणे ।
कुर्वन्घटोत्कचो रेजे राहुजृम्भाविजृम्भितम् ॥ ७.५७५ ॥
शराणां द्रौणिमुक्तानां दिव्यानां समरे रुचः ।
न कूणितानि नेत्राणि रात्रौ भूतानि सेहिरे ॥ ७.५७६ ॥
अक्षौहिणीं राक्षसानां हैडम्बवशवर्तिनाम् ।
तटायुधानि दलयन्नेको द्रौणिरयोधयत् ॥ ७.५७७ ॥
छित्त्वा घटोत्कटो हृष्टं चक्रं कालानलप्रभम् ।
जघानाञ्जनपर्वाणं तत्पुत्रं घोरविक्रमम् ॥ ७.५७८ ॥
ततो विमोहनीं मायां द्रौणिः क्रुद्धस्य रक्षसः ।
छित्त्वा जघान विसिखैर्धृम्नानुजान्रणे ॥ ७.५७९ ॥
कुन्तिभोजसुतान्हत्वा सहस्राणि प्रहारिणाम् ।
जघान राजपुत्राणां द्रौणिः काल इवाकुलः ॥ ७.५८० ॥
अत्रान्तरे भीमसेनो बाह्लिकाधिपतेः शिरः ।
गदया वीरघातिन्या निष्पिपेषाशु मौलिनः ॥ ७.५८१ ॥
ततो जघान संरब्धान्दश दुर्योधनानुजान् ।
वीरबाहुं दृढरथं नागदन्तमयोभुजम् ॥ ७.५८२ ॥
प्रमाथिनं विरजसं सुहस्तं सुदृढं तथा ।
हत्वैतान्सप्त गान्धारानवधीत्सुबलात्मजान् ॥ ७.५८३ ॥
निघ्नन्तं कौरवचमूं स्वयं युधि युधिष्ठिरम् ।
ऐन्द्रवारुणवायव्यैरस्त्रैर्द्रेणोऽप्ययोधयत् ॥ ७.५८४ ॥
ततः प्रयुक्तं ब्रह्मास्त्रं गुरुणा तज्जिहीर्षया ।
अवारयदसंरम्भो ब्रह्मास्त्रेणैव धर्मजः ॥ ७.५८५ ॥
सानुगैः पाण्डुतनयैर्गजैरिव सरोजिनीम् ।
मृद्यमानां चमूं दृष्ट्वा कर्णमूचे सुयोधनः ॥ ७.५८६ ॥
कर्णाकर्णय संग्रामे जयिभिः पाण्डुसूनुभिः ।
विरावं वध्यमानानां सैन्यानां च तरस्विनाम् ॥ ७.५८७ ॥
तुमुलेऽस्मिन्निरालोके विषमे समुपस्थिते ।
तेजसामाश्रयः शूर त्वमेवैकः परायणम् ॥ ७.५८८ ॥
प्रणयादिति राधेयो भूभुजा स्वयमर्थितः ।
उवाच पाण्डुसेनासु क्षिपन्निव शरवलीः ॥ ७.५८९ ॥
वीरशय्यास्थिते भीष्मे शेखरे सर्वधन्विनाम् ।
राजन्भारः क्रमायातो ममैवायं किमुच्यते ॥ ७.५९० ॥
अद्य वीरव्रतहरं हरस्यापि किरीटिनम् ।
पातयाम्येष समरे शक्त्या वासवदत्तया ॥ ७.५९१ ॥
इत्युक्ते सूतपुत्रेण प्रोवाच प्रहसन्कृपः ।
लोके सूत्यमवीरेऽस्मिन्नेकस्त्वं वीरतां गतः ॥ ७.५९२ ॥
अहो नु मिथ्या राधेय कथितेन तावमुना ।
सततं सर्ववीराणां श्रवणौ बधिरीकृतौ ॥ ७.५९३ ॥
कुतस्त्वमश्रुतोदन्त इवायातः पराक्रमी ।
यदा हतः सिन्धुपतिः कृतवान्न भवांस्तदा ॥ ७.५९४ ॥
दृष्टसारा वयं सर्वे तव पाण्डुसुतस्य च ।
बलानुसारं युध्यस्व वृथा श्लाघां तु मा कृताः ॥ ७.५९५ ॥
इति शारद्वतेनोक्ते कोपाद्वैकर्तनोऽब्रवीत् ।
गर्जन्ति सफलं वीराः प्रावृषेण्या इवाम्बुदाः ॥ ७.५९६ ॥
त्वं तु वृद्ध निराचारो मोहादेवं प्रभाषसे ।
अन्यपक्षाश्रयः को हि बन्दीवान्यान्प्रशंसति ॥ ७.५९७ ॥
ब्रह्मबन्धो पुनर्द्वेषाद्यद्येवमभिधास्यति ।
छेतस्यामि जिह्वां कटुकां तदनेनासिना तव ॥ ७.५९८ ॥
इति कर्णेन संरम्भात्कोपितं वीक्ष्य मातुलम् ।
करवालमथाकृष्य क्रुध्यंस्तं द्रौणिराद्रवत् ॥ ७.५९९ ॥
रुद्रतुल्यं तमायान्तं त्रिजगत्प्रलयक्षमम् ।
न्यवारयत्स्वयं राजा नयवाग्भिः सगौतमम् ॥ ७.६०० ॥
द्रोणिकर्णौ प्रसाद्याथ कुरुराजे रणोन्मुखः ।
विवेश पाण्डवचमूं सह सर्वैर्महारथैः ॥ ७.६०१ ॥
आकर्णाञ्चितकोदण्डमुक्तैः कर्णशरैस्तथा ।
अभूद्यौधिष्ठिरं सैन्यं विप्रकीर्णं समन्ततः ॥ ७.६०२ ॥
शरत्वालाकरालं तं कर्णपावकमुत्कटम् ।
अभ्येत्य पार्थजलदो बाणधाराभिरावृणोत् ॥ ७.६०३ ॥
क्षणादथार्जुनशरच्छिन्नचापरथध्वजः ।
कर्णः कृपस्यारुहोह रथं भग्नमनोरथः ॥ ७.६०४ ॥
दृष्ट्वा दुर्योधनं वीरं युध्यमानमरातिभिः ।
जघान पाञ्चालचमूं द्रौणिराहवदुर्मदः ॥ ७.६०५ ॥
सहस्रशो वध्यमानाः क्षत्रकाननवह्निना ।
पाञ्चाला द्रोणपुत्रेण हतशेषा दिशो ययुः ॥ ७.६०६ ॥
धृष्टद्युम्नं ततो जित्वा वीरं हत्वास्य चानुगान् ।
द्रौणिरायोधनं चक्रे कृतान्तोद्यानविभ्रमम् ॥ ७.६०७ ॥
भीमार्जुनाभ्यां सहितः स्वयं राजा युधिष्ठिरः ।
विद्राव्य कौरवीं सेनां द्रोणशेषामिवाकरोत् ॥ ७.६०८ ॥
सोमदत्तमथायान्तं सात्यकिः पृथुविक्रमम् ।
अयोधवदसंभ्रान्तः कुमार इव तारकम् ॥ ७.६०९ ॥
तद्बाणशतनिर्भिन्नो व्यथां संस्तम्ब्य सात्यकिः ।
शरेणाशनितुल्येन विदार्य तमपातयत् ॥ ७.६१० ॥
ततो द्रोणार्जुनरणे दिव्यास्त्रग्रामदुःसहे ।
बभौ रक्ताम्बरवती कालरात्रीव शर्वरी ॥ ७.६११ ॥
ततः किरीटिप्रमुखैर्द्रैणिकृपेरितैः ।
सैन्यानां भज्यमानानां बभूव भयदो रवः ॥ ७.६१२ ॥
ततो दुर्योधनादेशाद्गाढे तमसि संततैः ।
दीपैर्युयुधिरे वीरा गजाश्वेत्सङ्गसङ्गिभिः ॥ ७.६१३ ॥
ते सेने दीपनिकरैरभितो बभतुः क्षणात् ।
हतानां कणशो यातैस्तेजोभिरिव भूभुजाम् ॥ ७.६१४ ॥
विरेजुस्तान्यनीकानि दीपैः खड्गेषु बिम्बितैः ।
ज्वलितानि वनानीव नक्तमोषधिमण्डलैः ॥ ७.६१५ ॥
दीपदीप्ता नरेन्द्राणां रत्नाभरणरोचिषः ।
तमःकषणपाषाणे हेमलेखा इवाबभुः ॥ ७.६१६ ॥
ततो विमर्दनष्टेषु तेषु दीपेषु संगरे ।
निशीथो यौवनं प्राप वैराण्यपनयैरिव ॥ ७.६१७ ॥
निर्विभागे ततो युद्धे प्रवृत्ते शौर्यशालिनि ।
स्वयं जिते धर्मजेन सानुगे कौरवेश्वरे ॥ ७.६१८ ॥
मृत्युवीथीमपि प्राप्तं सहदेवमवारयत् ।
न जघान रणे कर्णः स्मरन्कुन्तीवचो मुहुः ॥ ७.६१९ ॥
ततः कर्णसुतो वीरो वृषसेनोऽरिवाहिनीम् ।
विवेशास्त्रावलीज्वालालीढक्षत्त्रियकाननः ॥ ७.६२० ॥
विद्रावितेषु वीरेषु वृषसेनेन सायकैः ।
कुपितो द्रौपदो रोषात्कुरुसैन्यं व्यदारयत् ॥ ७.६२१ ॥
वर्तमाने रणे घोरे भारद्वाजस्य पश्यतः ।
धृष्टद्युम्नोऽवधीद्वीरं द्रुमसेनं नराधिपम् ॥ ७.६२२ ॥
ततो दुर्योधनगिरा द्रोणकर्णौ महीभुजाम् ।
कृत्तैः शिरोभिश्चक्राते भुवि पद्माकरानिव ॥ ७.६२३ ॥
धृष्टद्युम्नमुखाञ्जित्वा क्षपितानीकनायकः ।
विद्राव्य पाण्डवचमूं कर्णश्चक्रे नृपक्षयम् ॥ ७.६२४ ॥
तं कर्णं सायकानेन किरन्तं तेजसां निधिम् ।
न सेहिरे परे द्रष्टुं रणे तपनसंभवम् ॥ ७.६२५ ॥
भज्यमानेष्वनीकेषु कर्णेन रणशालिना ।
जयाशा पाण्डुपुत्राणां सकला तनुतां ययौ ॥ ७.६२६ ॥
अथ कृष्णस्य वचनात्कृष्णरात्रौ घटोत्कचः ।
अवधीत्त्वरितं कर्णं कृष्णाकोप इवापतन् ॥ ७.६२७ ॥
तस्मिन्नभ्युद्गते दीप्तश्मश्रुजिह्वाविलोचने ।
वाहिन्यः शतधा जग्मुः प्रतापपतिता इव ॥ ७.६२८ ॥
स तदा जलदच्छायो भ्रुकुटी विद्युदुत्कटः ।
स्फाराभिः शतधाराभिः पार्थः कर्णमपूरयत् ॥ ७.६२९ ॥
आस्थितस्तप्तहेमाङ्गं चतुर्हस्तशतं रथम् ।
सर्वाकारस्य लग्नाग्नेर्नीलाद्रेरुपमाक्षमम् ॥ ७.६३० ॥
दशहस्तपरीणाहं दधानो भासुरं धनुः ।
दावानलप्रज्वलितं महासालमिवानलः ॥ ७.६३१ ॥
विस्फुरत्स्फारमुकुटो दीप्तजाम्बूनदाङ्गदः ।
तमःशैलशिखासज्जो बभौ विघटयन्निव ॥ ७.६३२ ॥
अट्टहासपटुर्नादस्तस्याभूत्तमसामिव ।
तं दृष्ट्वा विकटाज्वालं पाटितानां व्यथारवः ॥ ७.६३३ ॥
विद्रुतेष्वरिसैन्येषु संभोगार्हेषु राजसु ।
राधेयगिरिरेवास्य जग्राह शरदुर्दिनम् ॥ ७.६३४ ॥
अथाङ्गराजरक्षायै जटासुरसुतो बली ।
कौरवेश्वरमामन्त्र्य समभ्यायादलम्बुसः ॥ ७.६३५ ॥
ततस्तस्याभवद्धोरः संप्रहारः प्रहारिणा ।
घटोत्कचेन सश्त्रास्त्रशिलापावकवर्षिणः ॥ ७.६३६ ॥
तयोर्मायामयाश्चर्यकूटप्रकटयोधिनोः ।
ऊर्जितैः शतशो योधा गर्जितैर्व्यसवोऽभवत् ॥ ७.६३७ ॥
रथाद्रथमभिद्रुत्य ततो भैमिरलम्बुसम् ।
दोर्भ्यां मित्त्रमिवालिङ्ग्य गाढगाढमपीडयत् ॥ ७.६३८ ॥
तस्य निष्पीड्यमानस्य निर्ययुः स्रोतसां मुखैः ।
सधूमाः सानलज्वालाः सशब्दं शोणितच्छटाः ॥ ७.६३९ ॥
ततो भुवि विनिष्पिष्य राविणं तं घटोत्कचः ।
उद्धृत्य तच्छिरो वेगाद्दुर्योधनमथाययौ ॥ ७.६४० ॥
तमुवाच हतोऽयं ते मया बन्धुर्निशाचरः ।
प्रियस्य पातय शिरः पुनरेव नृपाधम् ॥ ७.६४१ ॥
उक्त्वैतत्कर्णमभ्यायाद्विनदन्रजनीचरः ।
चण्डानिलसमुद्धूतः कालमेव इवाकुलः ॥ ७.६४२ ॥
- अलम्बुसवधः ॥ २२ ॥ *****
ततः प्रवृत्ते समरे घोरे राधेयरक्षसोः ।
रामरावणसंग्राममस्मरन्विबुधा दिवि ॥ ७.६४३ ॥
स्तम्भप्रमाणैर्विशखैर्ज्वलितैरुल्मुकैरिव ।
विद्धोऽपि रक्षसा कर्णो न चचाल महाशयः ॥ ७.६४४ ॥
अथ क्रोधविनिर्मुक्तैर्विपुलैः कर्णसायकैः ।
निर्भिन्नो राक्षसश्चक्रं प्राहिणोत्कर्णपावकम् ॥ ७.६४५ ॥
प्रेक्ष्य चायत्सहस्रारं तेजःपिञ्जरिताम्बरम् ।
चकार खण्डशश्चक्रं कर्णः सावेगमाशुगैः ॥ ७.६४६ ॥
ततो घटोत्कचः कोपान्मायां कृत्वा विमोहनीम् ।
पिष्ट्वा सूतध्जरथं विशालमविशन्नभः ॥ ७.६४७ ॥
शान्ततेजोमये वह्नौ तारा तारास्थिसंकुले ।
व्योम श्मशाने तस्यासन्मत्तवेतालकोटयः ॥ ७.६४८ ॥
मुहुर्गजो मुहुः सिंहः क्षणं मेघः क्षणं गिरिः ।
सर्वभूतमहाकायो वर्षन्स विपुलाः शिलाः ॥ ७.६४९ ॥
भुवो वह्निं दिवः शस्त्रं दिग्भ्यो राक्षसमण्डलम् ।
विसृजन्कुरुसेनासु वैकर्तनमयोधयत् ॥ ७.६५० ॥
ततो विधूय तां मायां कर्णो दिव्यास्त्रतेजसा ।
निर्दहन्पाण्डवचमूं रक्षो विव्याध सायकैः ॥ ७.६५१ ॥
हेडिहन्पाण्डव यातुधानान्सहस्रशः ।
कर्णो धनुष्मतां धुर्यो विबभौ रामविक्रमः ॥ ७.६५२ ॥
अष्टाष्टचक्रामशनिं कालजिह्वविभीषणाम् ।
भैमः ससर्ज कर्णाय स्वयं रुद्रेण निर्मिताम् ॥ ७.६५३ ॥
विसृष्टा राक्षसेन्द्रेण शैलसंघप्रमाथिनी ।
सा भस्मसान्महाघोषा रथमाधिरथेर्व्यधात् ॥ ७.६५४ ॥
ततोऽपरं समास्थाय स्यन्दनं सूतनन्दनः ।
पिशाचवदनानन्याञ्जघान पिशिताशिनः ॥ ७.६५५ ॥
विरथः कोपहुतभुग्ज्वालावलयितेक्षणः ।
घटोत्कचो महामायः पुनरन्तरधीयत ॥ ७.६५६ ॥
अत्रान्तरे राक्षसेन्द्रो बकस्य दयितः सखा ।
सुयोधनाभ्यनुज्ञातो बीममायादलायुधः ॥ ७.६५७ ॥
हयानां हस्तिकर्णानां पिशाचमुखवर्चसाम् ।
युक्ते शतेन गम्भीरनिर्घोषे स्यान्दने स्थितम् ॥ ७.६५८ ॥
तं भीमः प्रतिजग्राह संरम्भगुरुगर्जितम् ।
सिद्धमन्त्र इवाकम्पो वीरो वेतालमुत्थितम् ॥ ७.६५९ ॥
आकीर्यमाणो घोरेण शिलशस्त्रस्त्रवर्षिणा ।
राक्षसेन गदां भीमः प्राहिणोत्तद्वधाशया ॥ ७.६६० ॥
तां गदां गदया रक्षो हत्वा जाम्बूनदाङ्गदाम् ।
नदन्नकालजलदध्वानधीरः खमाविशत् ॥ ७.६६१ ॥
अलायुधेन संसक्तं रजन्यां कूटयोधिना ।
भीमं दृष्ट्वा क्षणं कृष्णः संदेहाकुलितोऽभवत् ॥ ७.६६२ ॥
ततः शौरेर्गिरा वीरः प्रवरो रौद्रकर्मणाम् ।
अलायुधं समभ्यायात्त्यक्त्वा कर्णं घटोत्कचः ॥ ७.६६३ ॥
तयोः संरब्धयोर्व्योम्नि संनिपातो घनस्वनः ।
अभूद्भृशं शिलाशस्त्रनिर्घर्षोद्धूतपावकः ॥ ७.६६४ ॥
चिताग्निपङ्गलश्मश्रुजटाभीषणयोस्तयोः ।
दन्तनिष्पेषसंजाताः स्फुलिङ्गा इव बभ्रमुः ॥ ७.६६५ ॥
अग्निकुण्डोपमानाभ्यां कुण्डलाभ्यां विराजितम् ।
अलायुधस्याशु शिरश्चिच्छेद च घटोत्कचः ॥ ७.६६६ ॥
- अलायुधवधः ॥ २३ ॥ *****
तं हत्वा विनदन्घोरं हैडिम्बो घोरविक्रमः ।
द्रुतं कर्णं समभ्येत्य शिलवर्षैरताडयत् ॥ ७.६६७ ॥
वैकर्तनोऽपि पार्थानां क्षपयित्वा वरूथिनीम् ।
घटोत्कचसंभ्रान्तः शरजालैरपूरयत् ॥ ७.६६८ ॥
अथास्त्रेण रथं हत्वा कर्णस्य रजनीचरः ।
त्रिजगन्मोहनीं मायां समादायाविशन्नभः ॥ ७.६६९ ॥
उल्मुकैरायुधैर्वृक्षैः शिलाभिः पर्वतैस्तथा ।
स जघान महाघोषः कौरवाणामनीकिनीम् ॥ ७.६७० ॥
निशीथे सर्ववीरेषु युध्यमानेषु रक्षसा ।
दुद्रुवुः पृथिवीपाला भग्नस्यन्दनकुञ्जराः ॥ ७.६७१ ॥
संहारे सर्वयोधानां तस्मिन्नतिभयंकरे ।
निष्कम्पः समरे कर्णः सायकैः खमपूरयत् ॥ ७.६७२ ॥
गगने विध्यमानानां शिलानां कर्णमार्गणैः ।
ज्वालाजालजटालानामभूच्चटचटारवः ॥ ७.६७३ ॥
ततः परिघनिस्त्रिंशशतघ्निप्रासमुद्गराः ।
सत्रिशूलगदाचक्रभुसुण्डिशरतोमराः ॥ ७.६७४ ॥
कर्णानने राक्षसेन प्रास्त विषमयोधिना ।
चक्रिरे कौरवानीकं हतं कालशतैरिव ॥ ७.६७५ ॥
विद्रुते च तथा सैन्ये रक्तकुल्यावरोहिनि ।
विद्यमाने निराधारे राधेये धैर्यशालिनि ॥ ७.६७६ ॥
स्वस्तीत्युक्त्वा प्रयातेषु व्योम्नः सिद्धसुरर्षिषु ।
अकम्पत जगत्सर्वं राक्षसेन्द्रस्य मायया ॥ ७.६७७ ॥
युध्यमानं ततो वीरं कर्णमभ्येत्य कौरवः ।
अवदत्सर्वसंहारसंत्रासायासकातरः ॥ ७.६७८ ॥
त्वयार्जुनवधे शक्तिर्धार्यते किमनर्थका ।
अस्मिन्निशीथे को ह्यस्मान्मुच्यते यः पुनर्जयेत् ॥ ७.६७९ ॥
एतदाकर्ण्य राधेयः शक्रदत्तां महाप्रभाम् ।
एकवीरवधायत्तां सुचिरं परिरक्षिताम् ॥ ७.६८० ॥
दारणीं दैत्यसङ्घानामुत्ससर्ज नभस्तले ।
यस्या ज्वालावलीधाम्ना सीमन्तितमिवाभवत् ॥ ७.६८१ ॥
तेजस्विनो राक्षसस्य दृढं वक्षो विदार्य सा ।
जगाम त्रिदिवं दीप्ता प्राणशक्तिरिवापरा ॥ ७.६८२ ॥
दग्धमायस्तदा क्षिप्रं हैडिम्बो मन्दराकृतिः ।
पतन्निर्भिन्नहृदयः पिपेष कुरुवाहिनीम् ॥ ७.६८३ ॥
- रात्रियुद्धे घटोत्कचवधः ॥ २४ ॥ *****
हते घटोत्कचे वीरे दशकण्ठपराक्रमे ।
प्रहृष्टाः कुरवः कर्णं रामोपममपूजयन् ॥ ७.६८४ ॥
शक्तिहीने ततः कर्णे नदत्कालियसूदनः ।
विष्णो पाण्डवानीके ननर्तानन्दनिर्भरः ॥ ७.६८५ ॥
वलत्पीतांशुकास्तस्य नृत्यतो विबभुर्भुजाः ।
स्फूर्जतिकञ्जल्कपटला वातलोला इव द्रुमाः ॥ ७.६८६ ॥
तमूचे निन्दयन्पार्थो हैडिम्बवधदुःखितः ।
कोऽयं विषादसमये प्रहर्षस्ते जनार्दन ॥ ७.६८७ ॥
श्रुत्वैतदब्रवीत्कृष्णो जितः कर्णोऽधुना सखे ।
हैडिम्बवपुषः प्राणश्चिन्ताचपलचेतसः ॥ ७.६८८ ॥
शक्तिश्च कर्णदोर्दण्डात्समं याता जयाय वः ।
एकलव्यजरासंधशिशुपालादयो मया ॥ ७.६८९ ॥
पुरा युद्धमिदं ज्ञात्वा दुर्जयाः शक्तिभिर्हताः ।
एवमेव रणे कर्णो न जेयस्त्रिदशैरपि ॥ ७.६९० ॥
किं पुनर्घोरया पार्थ शक्त्या वासवदत्तया ।
त्वयि नोत्सृष्टवाञ्शक्तिं सततं मोहितो मया ।
कर्ण प्रतिनिशं पापैः प्रेर्यमाणोऽपि कौरवैः ॥ ७.६९१ ॥
इत्युक्तवति दाशार्हे सिद्धवीरवधार्दिताः ।
निर्विभागं युयुधिरे क्रोधान्धाः कुरुपाण्डवाः ॥ ७.६९२ ॥
हैडिम्बे निहते राजा शोकतप्तो युधिष्ठिरः ।
आश्वासितः केशवेन कुपित्तः कर्णमाद्रवत् ॥ ७.६९३ ॥
नृपैरनुगतः सर्वैः प्रविष्टः कुरुवाहिनीम् ।
अभ्येत्य भगवान्व्यासो धर्मराजमभाषत ॥ ७.६९४ ॥
दिष्ट्या नाधिरथेः शक्त्या कृतं जगदनर्जुनम् ।
अधुना वीर युध्यस्व निःसंरम्भमनाकुलः ॥ ७.६९५ ॥
इतश्चतुर्भिर्दिवसैर्न भविष्यन्ति भूमिपाः ।
धर्मवीर त्जज क्रोधं सदा धर्मानुगो जयः ॥ ७.६९६ ॥
इत्युक्त्वान्तर्हिते व्यासे भीमार्जुनयुधिष्ठिराः ।
चक्रिरे समरं घोरं द्रोणकर्णकृपादिभिः ॥ ७.६९७ ॥
सा कालरात्रिः शूराणामुत्सवो यक्षरक्षसाम् ।
सहस्रयामतां याता त्रियामाबून्महीभुजाम् ॥ ७.६९८ ॥
ततो निद्राकुले सैन्ये शान्ते शस्त्रकृतक्षते ।
दृष्ट्वा जगाद कारुण्याच्छ्वेताश्वो यशसां निधिः ॥ ७.६९९ ॥
मुहुर्तेऽस्मिन्निरालोके खिन्नाः सर्वे महारथाः ।
क्षणं भजन्तु विश्रान्तिं निद्रामुकुलितेक्षणाः ॥ ७.७०० ॥
इत्युक्ते सैनिकाः सर्वे प्रशंसन्तो धनंजयम् ।
क्षणं गजरथस्कन्दनिष्ण्णास्तत्यजुः श्रमम् ॥ ७.७०१ ॥
निःस्यन्दनागतुरगा निस्चलच्छत्रचामराः ।
अङ्कन्यस्तायुधभाटास्ताः सेना निश्चला भभुः ॥ ७.७०२ ॥
अथोद्ययौ व्योमकृपाणपट्टदन्तत्सरुः कान्तिसरिन्मरालः ।
चन्द्रो जगत्कुञ्जरकर्णशङ्खो दिगङ्गनामण्डनदर्पणश्रीः ॥ ७.७०३ ॥
ततः समस्तवीराणां संमुखाहवपातिनाम् ।
यशोभिरिव शीतांशुरंशुभिर्द्यामपूरयत् ॥ ७.७०४ ॥
तुषारहररुचिरैः किरणैरमृतत्विषः ।
चामरैरिव भूपाला वीज्यमानाः क्षणं बभुः ॥ ७.७०५ ॥
शरेष्वङ्कुरितश्चन्द्रः सान्द्रं पल्लवितोमिंषु ।
हरेषु फुल्लितो राज्ञां शङ्खेषु फलितोऽभवत् ॥ ७.७०६ ॥
प्रतिबिम्बगतो रक्ततटिनीषु निशाकरः ।
बभौ संध्यासवेनेव घूर्णमानारुणच्छविः ॥ ७.७०७ ॥
ततः क्षीणे क्षपाकाले ध्वजिनी राजयक्ष्मणि ।
उद्ययौ शोणिताताम्रो भगवान्वासरेश्वरः ॥ ७.७०८ ॥
- चतुर्थदिवसे रात्रियुद्धम् ॥ २५ ॥ *****
दुर्योधनेन वाक्यल्यैरर्दितः कुम्भसंभवः ।
ततो ददाह दिव्यास्त्रैरनस्त्रज्ञानपि क्रुधा ॥ ७.७०९ ॥
पुनः प्रवृत्ते समरे निर्मर्यादे जगत्क्षये ।
द्रोणेन वध्यमानानामानन्दस्तुमुलोऽभवत् ॥ ७.७१० ॥
तस्मिन्नकालकल्पान्ते रुद्रः किं वापुषामुना ।
संहर्तुमुद्यतो लोकानित्यूचुर्व्योमचारिणः ॥ ७.७११ ॥
चेदिसोमकपाञ्चालमत्स्यकेकयसृञ्जयाः ।
न शर्म लेभिरे वीराः पीडिता द्रोणसायकैः ॥ ७.७१२ ॥
ततो विराटद्रुपदौ भारद्वाजं शितैः शरैः ।
संच्छाद्य चक्रतुः क्षिप्रं विस्मयं तव धन्विनाम् ॥ ७.७१३ ॥
द्रोणोऽथ पार्षतसुतान्हत्वा विपुलविक्रमान् ।
कण्ठाञ्जहार भल्लाभ्यां विराटद्रुपदौ समम् ॥ ७.७१४ ॥
- विराटद्रुपदवधः ॥ २६ ॥ *****
मत्स्यपाञ्चालसेनासु भग्नासु पवनात्मजः ।
धृष्टद्युम्नमुखैः सार्धं द्रोणानीकमुपाद्रवत् ॥ ७.७१५ ॥
कर्णसौबलहार्दिक्यदुःशासनमुखास्ततः ।
भीमपार्षतसैनेयफल्गुनाद्यानयोधयन् ॥ ७.७१६ ॥
संघट्टः सर्ववीराणां तुमुले संप्रहारिणि ।
आयात्सोल्लोलकीलालकुल्या कल्लोलमालिनी ॥ ७.७१७ ॥
पाञ्चालचेदिमत्स्यानां कुर्वाणां कदनं रणे ।
द्रोणं विलोक्य कंसारिर्बभाषे पाण्डुनन्दनम् ॥ ७.७१८ ॥
जामदग्न्यस्य शिष्योऽयं प्रवृद्धः क्षत्रियानलः ।
दिव्यास्त्रदुःसहशिखः सोढुं नः केन पार्यते ॥ ७.७१९ ॥
सर्वात्मना युध्यमानो दुर्जयः सायुधो गुरुः ।
उद्यतः कर्तुमद्यैव जाने निष्पाण्डवं जगत् ॥ ७.७२० ॥
पुत्रं तु निहतं श्रुत्वा ध्रुवमेष न योत्स्यते ।
तस्माद्युक्तिमुपाश्रित्य जये नीतिर्विधीयताम् ॥ ७.७२१ ॥
श्रुत्वैतदर्जुने कर्णौ पिधायाधोमुखस्थिते ।
कथंचिदभ्युपगमान्मूके पाण्डवभूपतौ ॥ ७.७२२ ॥
अश्वत्थामाभिधं हत्वा गदया मदकुञ्जरम् ।
उच्चैः पुत्रवधं भीमो द्रोणमश्रावयत्पुरः ॥ ७.७२३ ॥
लज्जमानेन भीमेन व्याहृतं भृशमप्रियम् ।
दुर्जयं तनयं मत्वा द्रोणो मेने न तत्तथा ॥ ७.७२४ ॥
स प्रविश्याथ पाञ्चालान्धृष्टद्युम्नजिघांसया ।
जघान वीरयोधानां रथानामयुतानि षट् ॥ ७.७२५ ॥
चेदिपाञ्चालमत्स्यानां ब्रह्मस्त्रेणोग्रविक्रमः ।
प्रयुतान्यदहत्क्रुद्धो द्रोणो रुद्र इवापरः ॥ ७.७२६ ॥
निघ्नन्प्रभद्रकान्वीरान्सोमकाश्च प्रहारिणः ।
चतुर्वर्षशतो दर्पाद्युवेव विचचार सः ॥ ७.७२७ ॥
ऋषयोऽथ समभ्येत्य तं क्रूरतरकारिणम् ।
तस्मादवारयन्घोराल्लोकसंहारवैशसात् ॥ ७.७२८ ॥
मुनिसंघे गते व्योम्ना द्रोणो भीमवचः स्मरन् ।
युधिष्ठिरं शङ्कितधीरपृच्छत्सत्यविक्रमम् ॥ ७.७२९ ॥
गोविन्देनार्थितो यत्नाल्लोकसंहारशान्तये ।
युधिष्ठिरस्तदेवोक्त्वा स्वैरं हस्तीत्यभाषत ॥ ७.७३० ॥
अस्पृशन्तो हया भूमिमवहन्ये युधिष्ठिरम् ।
ते नीचगामिनस्तूर्णमसत्यगुरवोऽभवन् ॥ ७.७३१ ॥
ततः सविषनाराचैर्निर्भिन्न इव मर्मसु ।
निश्चित्यात्मवधं द्रोणश्चित्रार्पित इवाभवत् ॥ ७.७३२ ॥
तं जिह्वादीप्तविशिखो धृष्टद्युम्नोऽवदद्द्रुतम् ।
अहो तनु ब्राह्मणो भूत्वा पिशिताशीव निष्कृपः ।
करोषि कलुषं कर्म निहतेऽपि प्रिये सुते ॥ ७.७३३ ॥
तच्छ्रुत्वा सहसा द्रोणस्त्यक्त्वा चापं सह क्रुधा ।
दत्त्वा सर्वाभयं मौनी ददर्श ज्योतिरान्तरम् ॥ ७.७३४ ॥
तस्य षट्कोशसंघस्य संपुटत्रयपातनात् ।
ब्रह्मरन्ध्रविनिष्क्रान्तं ज्योतिर्व्योम समाविशत् ॥ ७.७३५ ॥
अत्रान्तरे समाकृष्य धृष्टद्युम्नः शिरोरुहैः ।
क्रोधान्धः पाण्डुतनयैर्वार्यमाणोऽपि संभ्रमम् ॥ ७.७३६ ॥
गुरोरकृष्टशस्त्रस्य धाम्नि संक्रान्ततेजसः ।
शिरो जहार खड्गेन धिक्कृतः स्रवराजभिः ॥ ७.७३७ ॥
- द्रोणवधः ॥ २७ ॥ *****
हते रुक्मरथे वीरे गुरौ सर्वधनुष्मताम् ।
संभ्रान्ता दुद्रुवुः सर्वे कौरवाणां महारथाः ॥ ७.७३८ ॥
भग्नं कुरुबलं दृष्ट्वा शङ्कितो द्रोणनन्दनः ।
किमेतदिति पप्रच्छ साश्रुनेत्रं सुयोधनम् ॥ ७.७३९ ॥
तस्मिन्नधोमुखे दुःखाद्धोरं वक्तुमनीश्वरे ।
तत्प्रेरितः पितृवधं गौतमोऽस्मौ न्यवेदयत् ॥ ७.७४० ॥
श्रुत्वा स वैशसं घोरं छद्मना विहितं गुरौ ।
पाञ्चाल्येन नृशंसेन जज्वाल क्रोधवह्निना ॥ ७.७४१ ॥
तस्य निःश्वसतः कोपात्कालस्येव दिधक्षतः ।
संरम्भः सर्वभूतानां बभूवातिभयंकरः ॥ ७.७४२ ॥
निष्पिष्यपाणिना पाणिं सोऽब्रवीत्साश्रुलोचनः ।
अहो ममापि जनकः केशग्रहणमाप्तवान् ॥ ७.७४३ ॥
घातयित्वा मृषावादी गुरुं राजा बकव्रतः ।
मयि जीवति कौन्तेयः कथं प्राप्स्यति मेदिनीम् ॥ ७.७४४ ॥
अद्य मत्कोपनिर्दग्धे पाण्डुपुत्रे सराजके ।
भार्गवस्य स्मरिष्यन्ति वीराः क्षत्त्रकुलच्छिदः ॥ ७.७४५ ॥
कृत्वाद्य पार्षतपशुं क्रोधाग्नेरुपहारताम् ।
अकृष्णपार्थां पृथिवीमेषोऽहं कर्तुमुद्यतः ॥ ७.७४६ ॥
पुरा मह्यं पिता प्रादादस्त्रं नारायणोदितम् ।
तेनाद्य संहृतांल्लोकान्मया पश्यन्तु खेचराः ॥ ७.७४७ ॥
इत्युक्त्वा संदधे धीप्तं तदस्त्रं नियतः शुचिः ।
येनाश्वत्थदलालोला विचचालजगत्त्रयी ॥ ७.७४८ ॥
ततो ननाद मन्थाद्रिक्षुभिताम्भोधिनिःस्वनम् ।
द्रौणिर्येन दिशः सर्वा ययुः शकलतामिव ॥ ७.७४९ ॥
ततो व्यथितमालोक्य स्वसैन्यं श्वेतवाहनः ।
जगाद धर्मतनयं श्वसन्ननुशयाकुलः ।
व्याजाद्विभवलुब्धेन शिष्येण निहतो गुरुः ॥ ७.७५० ॥
इति प्रलापमुखरे सुरराजसुते गुरोः ।
कोपादाताम्रनयनः प्रोवाच पवनात्मजः ॥ ७.७५१ ॥
न नाम मुनिवत्पार्थ क्षत्त्रियो वक्तुमर्हसि ।
घोरापकारे कः शत्रौ रणे न्यायमुपेक्षते ॥ ७.७५२ ॥
अस्मिन्मम भुजे वीरे गदाप्रणयिनि स्थिते ।
त्वयि कृष्णे च किं नाम द्रौणिश्लाघाभिनन्द्यते ॥ ७.७५३ ॥
इत्युक्ते भीमसेनेन पार्षतोर्ऽजुनमब्रवीत् ।
लोकान्तको विकर्मस्थो ब्रह्मबन्धुर्हतो मया ॥ ७.७५४ ॥
ब्रह्मास्त्रेण हतो येन मुक्तवर्मा पृथग्जनः ।
सर्वोपायैः स हन्तव्योऽसुरवद्विश्वकण्टकः ॥ ७.७५५ ॥
त्वया हतः कथं भीष्मः स च प्राग्ज्योतिषेश्वरः ।
पितुः सखा किमेतेन गहना वीरवृत्तयः ॥ ७.७५६ ॥
धृष्टद्युम्नवचः श्रुत्वा तिर्यग्जिह्मीकृतेक्षणः ।
निःश्वस्य कोपसंतप्तो धिग्धिगित्यर्जुनोऽब्रवीत् ॥ ७.७५७ ॥
लज्जानते धर्मसुते मूकीभूतेषु राजसु ।
सात्यकिः कोपसंतप्तो धृष्टद्युम्नमभाषत ॥ ७.७५८ ॥
बत पाप वयं सर्वे ये गुरुघ्नं पुरः स्थितम् ।
स्वस्तिवत्प्रतिभाषन्ते हन्तव्यं त्वां प्रयत्नतः ॥ ७.७५९ ॥
इत्युक्तवति शैनेये जगाद द्रुपदात्मजः ।
अहो नु परदोषज्ञो निर्देष इव भाषसे ॥ ७.७६० ॥
भूरिश्रवाः प्रायगतः कृत्तबाहुः किरीटिना ।
नृशंस पतिताचार केनान्येन निपातितः ॥ ७.७६१ ॥
नैतद्वाच्यं त्वया भूपो बाणैस्त्वामन्यथा शितैः ।
करोमि शिक्षागुरुभिर्विनयावनिवर्तिनम् ॥ ७.७६२ ॥
इति ब्रुवाणौ संरम्भात्तौ मिथो हन्तुमुद्यतौ ।
नि(न्य)वारयत्कृष्णगिरा भीमसेनः सहानुजैः ॥ ७.७६३ ॥
ततः क्षणात्समावृत्ते कुरुराजबलार्णवे ।
द्रोणात्मजास्त्रपिहिता नालक्ष्यन्त दिशो दश ॥ ७.७६४ ॥
नारायणास्त्रनिःसृतैः प्रदीप्तायुधमण्डलैः ।
बध्यमानाल्पशेषाभूत्पाण्डवानामनीकिनी ॥ ७.७६५ ॥
तस्मिन्नायुधसंघर्षजातज्वालाशताकुले ।
घोरे सुभटसंहारे त्रस्तो राजा युधिष्ठिरः ॥ ७.७६६ ॥
उवाच पार्षतमुखान्वीक्षमाणः किरीटिनम् ।
पलायन्तामितः सर्वे महद्भयमुपस्थितम् ॥ ७.७६७ ॥
माध्यस्थ्यमास्थितो जिष्णुः कोपितो निधनाद्गुरोः ।
येनाभिमन्युर्वृद्धेन व्याजाद्बालो निपातितः ॥ ७.७६८ ॥
सत्यजित्प्रमुखा येन हतास्ते ते महारथाः ।
दुर्भेद्यं कवचं प्रादाद्दिव्यं दुर्योधनाय यः ॥ ७.७६९ ॥
क्रियतां नाधुना युद्धं स्वस्ति पार्थाय धीमते ।
एवं वह्निं प्रवेक्ष्यामि द्रौणिं कालं सहेत कः ॥ ७.७७० ॥
इत्युक्ते धर्मराजेन भुजावुत्क्षिप्य केशवः ।
उच्चैरुवाच भूपालाञ्ज्वलितान्स्त्रतेजसा ॥ ७.७७१ ॥
भो भोः शस्त्रं परित्यज्य रथेभ्यो व्रजत क्षितिम् ।
अस्त्रेणानेन हन्यन्ते न विशस्त्रा भुवि स्थिताः ॥ ७.७७२ ॥
इति ब्रुवाणे संरम्भात्सावेगं कैटभद्विषि ।
भीमो बभाषे भूपालानभयं कर्तुमर्हथ ॥ ७.७७३ ॥
एषोऽहं समयप्रख्यां गदामादाय दंशितः ।
द्रौणिमभ्युद्यतो हन्तुं पश्यन्तु कुरुपाण्डवाः ॥ ७.७७४ ॥
इति गर्जन्तमायान्तं पावनिं द्रोणनन्दनः ।
हसन्मूढोऽयमित्युक्त्वा शरजालैरपूरयत् ॥ ७.७७५ ॥
ततो नारायणास्त्रेण दह्यमानाः समन्ततः ।
अवातरन्वाहनेभ्य शस्त्राण्युत्सृज्य भूमिपाः ॥ ७.७७६ ॥
रथे स्थितं युध्यमानं भीमसेनमसंभ्रमात् ।
अस्त्रज्वालावलीचक्रमेकीभूतं समापतत् ॥ ७.७७७ ॥
प्रजवाग्निशिखाकूटसंघट्टन्तरितं क्षणात् ।
अर्जुनो भीममालोक्य वरुणास्त्रमवासॄजत् ॥ ७.७७८ ॥
नारायणास्त्रदहनैस्तदस्त्रमभितो हतम् ।
मोधीकृतं क्षणेनाभूदप्रयुक्तमिवाम्बरे ॥ ७.७७९ ॥
महास्त्रसंकटे घोरे वर्तमानं वृकोदरम् ।
अवरुह्य रथात्कृष्णौ द्राग्भुजाभ्यां विकृष्य तम् ॥ ७.७८० ॥
शस्त्रं हृत्वा बलाद्वीरं नीत्वाशु स्यन्दनाद्भुवम् ।
वीरौ चित्रोज्ज्वलौ हृष्टौ तस्थातुः कृष्णपाण्डवौ ॥ ७.७८१ ॥
अस्त्रे ततः स्वयं शान्ते प्रसन्ने भुवनत्रये ।
ऊचे दुर्योधनो द्रौणिं पुनरस्त्रं प्रयुज्यताम् ॥ ७.७८२ ॥
द्विष्प्रयोज्यं न दिव्यास्त्रमित्युक्त्वा द्रौणिराकुलः ।
शरैश्वकार पाञ्चालमत्स्यकेकयसंक्षयम् ॥ ७.७८३ ॥
स सात्यकिं पार्षतं च जित्वा विद्राव्य वाहिनीम् ।
जघान पौरवं वीरं राजानं च सुदर्शनम् ॥ ७.७८४ ॥
पाण्डुसैन्येषु भग्नेषु द्रौणिं पश्चादभिद्रुतम् ।
अवारयत्स्वयं क्रुद्धो बाणवर्षैर्धनंजयः ॥ ७.७८५ ॥
प्रादुश्चक्रे ततो घोरं ज्वालावलयिताम्बरम् ।
आग्नेयमस्त्रं लोकानां क्षयाय द्रौणिरुद्यतः ॥ ७.७८६ ॥
अथ काञ्चनसंनाहौरिव सर्वे समावृताः ।
महास्त्रतेजसा व्याप्ताः पेतुर्भूमिभृतां वराः ॥ ७.७८७ ॥
अस्त्रेणाक्षौहिणीं दग्धां वह्निव्याप्तो धनंजयः ।
दृष्ट्वा प्रादुश्चकारोग्रं ब्रह्मास्त्रं तत्प्रशान्तये ॥ ७.७८८ ॥
अस्त्रे तिरोहिते तस्मिन्विमुक्तौ केशवार्जुनौ ।
दृष्ट्वा द्रोणसुतः क्रुद्धो धिगस्त्राणीत्यभाषत ॥ ७.७८९ ॥
अत्रान्तरे ज्ञानसहस्ररश्मिरपारवेदामृतसिन्धुसेतुः ।
सरस्वतीमानसराजहंसः कृष्णोऽप्यकृष्णो मुनिराजगाम ॥ ७.७९० ॥
रथं समुत्सृज्य तमुग्रकर्मा प्रणम्य पप्रच्छ गुरोस्तनूजः ।
अस्त्राणि दिव्यान्यफलानि कस्मात्पार्थे सकृष्णे भगवन्गतानि ॥ ७.७९१ ॥
पृष्टः कोपाकुलेनेति तमुवाच मुनीश्वरः ।
वीरौ कृष्णार्जुनावेतौ नरनारायणावृषी ॥ ७.७९२ ॥
षष्टिं वर्षसहस्राणि तपः कृत्वा पिनाकिनम् ।
नारायणस्तोषयित्वा लेभे तत्तुल्यतां पुरा ॥ ७.७९३ ॥
स एष दुर्जयः कृष्णः स्वयं लिङ्गार्चनव्रतः ।
द्रौणे त्वमपि रुद्रांशस्तस्मान्मा विक्रियां गमः ॥ ७.७९४ ॥
एतद्व्यासवचः श्रुत्वा शान्तमन्युर्गुरोः सुतः ।
धिया रुद्रं नमस्कृत्य देवौ कृष्णावमन्यत ॥ ७.७९५ ॥
ततोऽवहारे सैन्यानां विहिते कुरुपाण्डवैः ।
निवृत्तः समरात्पार्थः पथि व्यासं व्यलोकयत् ॥ ७.७९६ ॥
तं नमस्कृत्य पप्रच्छ भगवन्समरे पुरः ।
दृष्टो मया शूलहस्तः पुरुषो दहनद्युतिः ॥ ७.७९७ ॥
तच्छूलिनःसृतैर्दीप्तैरसंख्यैः शूलमण्डलैः ।
कुरुसेना मया दृष्टा दह्यमाना समन्ततः ॥ ७.७९८ ॥
क्रोशार्धस्पृष्टवसुधो रौद्रो रुद्र इवापरः ।
पृष्टो धनंजयेनेति हृष्ये द्वैपायनोऽब्रवीत् । ७.७९९ ॥
स देवस्त्रिपुरारातिर्गजासुरविमर्दनः ।
रुद्रः कृतान्तदहनस्त्रिजगत्प्रलयक्षमः ॥ ७.८०० ॥
यं नमस्कृत्य वरदं राजन्ते दिवि देवताः ।
अस्तम्भयद्बुजस्तम्भं जम्भारातेः स्मिताननः ॥ ७.८०१ ॥
स्मरहरमसुरारिं तं स्मर स्मेरकान्तिं हरमजरमजय्यं शाश्वतं विश्वरूपम् ।
विषमदृशमनीशं शान्तमीसानमीशं तरुणतरणिमालास्फारतेजःप्रकारम् ॥ ७.८०२ ॥
क्षपितदिनकराक्षं दक्षदीक्षाविघातं भवमभवमभेदं स्वच्छभावोपलभ्यम् ।
शिवमचलमचिन्त्यं बालचन्द्रावतंसं गिरिपरिवृढपुत्रीद्यूतगोष्ठीगरिष्ठम् ॥ ७.८०३ ॥
हत्याग्रहात्परममाग्रहमिन्द्रसूनोः प्रीत्या विधाय मुनिमौलिमणौ प्रयाते ।
भूपाः प्रविश्य शिबिराणि दिनावसाने चक्रुः कथाः प्रवरवीरकथानुबद्धाः ॥ ७.८०४ ॥
- इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां द्रोणपर्व