भारतमञ्जरी/गदापर्व
- गदापर्व
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १०.१ ॥
ततो द्रौणिमुखा वीराः समभ्येत्य रथास्त्रयः ।
ह्रदं प्रविष्टं राजानमूचुर्मानधनं शरैः ॥ १०.२ ॥
राजन्नुत्तिष्ठ संग्रामे जहि शत्रुं धनुर्धर ।
सहास्माभिरयं कालो विक्रमस्य यशोभुवः ॥ १०.३ ॥
इति श्रुत्वा कुरुपतिः प्रशंसंस्तत्पराक्रमम् ।
ऊचे प्रातः समाश्वास्य मम क्षत्रोचिता गतिः ॥ १०.४ ॥
इति तेषां समालापं श्रुत्वा ज्ञात्वा सुयोधनम् ।
शशंसुर्भीमसेनाय लुब्धका धनलुब्धकाः ॥ १०.५ ॥
भीमसेनगिरा राजा ससैन्योऽथ युधिष्ठिरः ।
कृष्णप्रधानैः सहितस्तं देशं तूर्णमाययौ ॥ १०.६ ॥
गर्जद्गजरथानीकैः पार्थान्वीक्ष्य समागतान् ।
नरेन्द्रसूचनभयात्प्रययुर्गौतमादयः ॥ १०.७ ॥
तस्य कृष्णस्य वचसा धर्मसूनुः सुयोधनम् ।
ततः स सलिलान्तःस्थमुवाच क्ष्माभृतां वरः ॥ १०.८ ॥
राजन्रजतकर्पूररजनीपतिसुन्दरम् ।
अहो वीर यशः शुभ्रं भवता मलिनीकृतम् ॥ १०.९ ॥
घातयित्वा नरपतींल्लक्ष्मीकुलगृहान्रणे ।
प्राणरक्षापरो मानी कथं जीवन्न लज्जसे ॥ १०.१० ॥
उत्तिष्ठ युद्धे स्वां लक्ष्मीं त्रिदिवं वा समाप्नुहि ।
लाक्षः समो हि वीराणां विजयो निधनं नु वा ॥ १०.११ ॥
इति यौधिष्ठिरं श्रुत्वा वचो मन्युविषाकुलः ।
प्राह दूर्योधनस्तोये स्तम्भेरमिव श्वसन् ॥ १०.१२ ॥
एवमेतद्यथात्थ त्वं श्रियं निधनमेव मे ।
बन्धुस्वजनहीना तु लक्ष्मीः कस्य मनः स्पृशेत् ॥ १०.१३ ॥
ध्वजिनी वीरहीनेन गोष्ठीव बुधवर्जिता ।
स्वजनेन विना लक्ष्मीः कस्य प्रीणाति मानसम् ॥ १०.१४ ॥
स कर्णः सुहृदामग्र्यः स गुरुः स पितामहः ।
विना तपोवनमहो सुमुनेः कस्य विस्मरेत् ॥ १०.१५ ॥
बन्धुमित्त्रवियुक्तानां भूतयो हि विडम्बनाः ।
अन्धानामिव सौन्दर्यविचित्राश्चित्रमालिकाः ॥ १०.१६ ॥
भुङ्क्ष्व भुक्तां मया पृथ्वीं वीररत्नविवर्जिताम् ।
वैराग्यमुक्ताभरणां जरतीमिव योषितम् ॥ १०.१७ ॥
इत्याकर्ण्य पृथासूनुर्धार्तराष्ट्रमभाषत ।
दिष्ट्या तपोवनरुचिः शान्तोऽसि वसुधापते ॥ १०.१८ ॥
सूच्यग्रमपि न त्याज्यं पाण्डवान्प्रति ते भुवः ।
समग्रां पृथिवीमद्य दातुमिच्छसि कौतुकम् ॥ १०.१९ ॥
उत्तिष्ठ युद्धमेकेन तवास्तु विजितः स चेत् ।
जिताः सर्वे त्वया राजन्मा प्रलापैः कृशो भव ॥ १०.२० ॥
उदतिष्ठन्निशम्यैतत्पार्थवाक्यं नृपः क्रुधा ।
सावलेपं वचः श्रुत्वा न सहन्ते हि मानिनः ॥ १०.२१ ॥
हेमाङ्गदगदापाणिः सुमेरुरिव शृङ्गवान् ।
उत्थितः स बभौ राजा दण्डधार इवापरः ॥ १०.२२ ॥
कृष्णवाक्यात्स संनद्धो गदापाणिर्वृकोदरः ।
तस्य तस्थौ पुरः कृष्णानिकारगणनापरः ॥ १०.२३ ॥
- दुर्योधनाविर्भावः ॥ १ ॥ *****
अत्रान्तरे हलधरः कुरुपाण्डवसंक्षये ।
बन्धुनाशभयोद्विग्नस्तीर्थयात्रागतः शनैः ॥ १०.२४ ॥
तदाभ्येत्य कुरुक्षेत्रं तावपश्यद्गदायुधौ ।
शिष्ययोः समरं पश्यञ्शृण्वन्निव गिरो मिथः ॥ १०.२५ ॥
स पूजितः कृष्णमुख्यैः पार्थैः शशिशतद्युतिः ।
उपाविशन्नीलवासा हिमवानिव साम्बुदः ॥ १०.२६ ॥
इत्याकर्ण्य कथापध्ये पप्रच्छ जनमेजयः ।
तीर्थयात्रां हलभृतो वैशम्पायनमादरात् ॥ १०.२७ ॥
सोऽब्रवीत्प्रस्तुते युद्धे कुरुपाण्डवभूभुजाम् ।
आमन्त्र्य कृष्णं प्रययौ क्षयाशङ्की प्रलम्बहा ॥ १०.२८ ॥
पुष्पेण निर्गतो रामो द्विजेभ्यः सर्वकामदः ।
सरस्वतीमवाप्याथ प्रभासं शयनेन सः ॥ १०.२९ ॥
यत्र तारापतिं तारा रोहिणीसक्तमानसम् ।
खिन्ना न्यवेदयत्पित्रे तच्छापात्सोऽभवत्क्षयी ॥ १०.३० ॥
क्षणेन शापात्प्रक्षीणे शशलक्ष्मणि यक्ष्मणा ।
सर्वक्षयभयोद्विग्नैर्दैवैर्दिष्टं तदा ययौ ॥ १०.३१ ॥
तत्प्रभासं हसंस्तूर्णं तत्रापि प्राप पूर्णताम् ।
तत्र भराद्वजः स्नात्वा त्रितकूपं समाययौ ॥ १०.३२ ॥
उपेक्षितः पुरा यत्र भ्रातृभ्यां नृपतिस्त्रितः ।
स चक्रे मानसं यज्ञं ततो देवाः समभ्ययुः ॥ १०.३३ ॥
ततो वरात्सकूपोऽभूत्सोमपानफलप्रदः ।
तस्मिन्सरस्वतीतीरे सस्ने रामेण सादरम् ॥ १०.३४ ॥
ततो विनशनं पुण्यं प्राप यत्र सरस्वती ।
शूद्रभीरुकविद्विष्टा विनष्टा दुष्टनाशिनी ॥ १०.३५ ॥
स भूमिकं ततः प्रायाद्बली यत्राप्सरःसखा ।
क्रीडन्ति सुरगन्धर्वा नृत्यगीतविनोदनैः ॥ १०.३६ ॥
दुर्गस्रोतः शङ्खतीर्थं पुण्यं द्वैतवनं तथा ।
अवाप्य नगधन्वानं वसतिर्यत्र वासुकेः ॥ १०.३७ ॥
विवेश नैमिष रामो यत्र प्राची सरस्वती ।
मुनीनां दर्शनं यत्र नैमिषारण्यवासिनाम् ॥ १०.३८ ॥
सप्त सारस्वतं प्रायाद्यत्र चङ्कणको मुनिः ।
ननर्त गात्रादालोक्य निजाच्छाकरसं स्रुतम् ॥ १०.३९ ॥
नृत्यतस्तस्य सावेगं सखेलं वरकाननम् ।
मुनेस्तपःप्रभावेन जगत्सर्वं ननर्त च ॥ १०.४० ॥
देवैरथार्थितोऽभ्येत्य तस्य शम्बरदर्शनात् ।
स्वकरान्निःसृतं भस्म तेनाभून्निर्मदो मुनिः ॥ १०.४१ ॥
तस्मै स्तुतिकृते तुष्टस्तपोवृद्धिं ददौ विभुः ।
सप्तसारस्वते तीर्थे संनिधानं च शंकरः ॥ १०.४२ ॥
कपालमोचनं प्राप तीर्थमौशनसं बलः ।
यत्र जङ्घाग्रहान्मुक्तो मुनिर्घोरान्महोदरः ॥ १०.४३ ॥
राघवेषुनिकृत्तस्य राक्षसस्य शिरः पुरा ।
महोदरस्य जङ्घायां लग्नं किल विसर्पदम् ॥ १०.४४ ॥
सर्वतीर्थनिमग्नोऽपि तत्रैव स्वास्थ्यमाप सः ।
उत्तङ्काश्रममासाद्य पृथूदकमवाप च ॥ १०.४५ ॥
वसिष्ठेन जितः पूर्वं धेनुहृद्ब्रह्मतेजसा ।
राजन्यवंश्यो यत्राप ब्रह्मतां कौशिको मुनिः ॥ १०.४६ ॥
तत्र रामो ददौ भूरि धनं वार्ष्णेयनन्दनः ।
ततः सारस्वते कुञ्जे यत्रेन्द्रो नमुचेर्वधात् ॥ १०.४७ ॥
ब्रह्महत्याकुलो मुक्तस्तं प्राप दारुणं शनैः ।
सोमतीर्थं ततः प्राप यत्रेष्टममृतत्विषा ॥ १०.४८ ॥
तारकख्यो हतो यत्र षण्मुखेन महासुरः ।
स्कन्दाभिषेकात्स्नात्वाथ वह्नितीर्थं समाययौ ॥ १०.४९ ॥
यत्रानलो भृगोः शापान्नष्टोऽभून्निर्वृतः पुनः ।
कौबेरमिन्द्रतीर्थं च यामुनं चाच्युताग्रजः ॥ १०.५० ॥
देवलस्याश्रमं प्राप्य जैजीषव्यः सुयोगवित् ।
यत्र सर्वगतं ब्रह्म देवलाय जगौ मुनिः ॥ १०.५१ ॥
ततः सारस्वतं तीर्थमाससाद हलायुधः ।
अपसरोदर्शनात्पूर्वं शुक्रं निपतितं जले ॥ १०.५२ ॥
दधीचस्य मुनेस्तेन पुत्रं लेभे सरस्वती ।
दधीचस्यास्थिनिचये महेन्द्रायुधतां गते ॥ १०.५३ ॥
अनावृष्ट्यां स तनयस्तया मत्स्याशनैर्वृतः ।
सारस्वतः सुतो वेदान्स सस्मार महामतिः ॥ १०.५४ ॥
दुर्भिक्षकर्षिता नाम विस्मृतेऽध्ययने ततः ।
सर्वेषां मुनिमुख्यानां बभूव गुरुरर्थितः ॥ १०.५५ ॥
तस्मिंस्तीर्थे बलः स्नात्वा ययौ यत्र पुरा वपुः ।
सनत्कुमारी तपसा स्वर्गाय त्यक्तुमुद्यता ॥ १०.५६ ॥
नारदः प्राह नोद्वाहं विना स्वर्गो भवेदिति ।
सा गालवसुतायैव दिनभोग्यां तनुं ददौ ॥ १०.५७ ॥
कृत्वा ललितमाकारं त्रिदिवं च ययौ ततः ।
तत्र स्नात्वा च दत्वा च प्लक्षप्रस्रवणे तथा ॥ १०.५८ ॥
अवाप कारपवनं तीर्थान्यालोकयञ्शनैः ।
नारदात्तत्र शुश्राव कुरुक्षेत्रे नृपक्षयम् ॥ १०.५९ ॥
- रामतीर्थयात्रा ॥ २ ॥ *****
पृष्टोऽथ धृतराष्ट्रेण संजयो युद्धमब्रवीत् ।
भीमसेनस्य विरथं कौरवस्य च मानिनः ॥ १०.६० ॥
समन्तपञ्चकं गत्वा पद्भ्यामेव सुयोधनः ।
तस्थावकम्पो महतामधिकं धैर्यमापदि ॥ १०.६१ ॥
ततो दुर्योधनोऽवादीद्धर्मपुत्रं सहानुगाः ।
उपविश्य निरीक्षन्तां भवन्तो युध्यमानयोः ॥ १०.६२ ॥
अजातशत्रुः श्रुत्वैतत्सह पाञ्चालसैनिकैः ।
उपाविशत्कृष्णसखः परिवार्य हलायुधम् ॥ १०.६३ ॥
अथ भीमं गदापाणिं बद्धकक्षस्तरस्विनम् ।
आजुहाव वचोयुद्धे प्रवृत्ते कुरुनन्दनः ॥ १०.६४ ॥
ततस्तयोर्गदाघातजाता वह्निकणावली ।
विदधे संभ्रमावृत्तहेमाभरणविभ्रमम् ॥ १०.६५ ॥
सुरैरापूरिते व्योम्नि युद्धदर्शनलालसैः ।
बभूव नाककान्तानां कोऽपि कौतुकविभ्रमः ॥ १०.६६ ॥
आक्षेपे वर्जने मोक्षे राजवृत्तौ निवर्तके ।
धावने समवस्थाने विप्लुते समविप्लुते ॥ १०.६७ ॥
तौ प्रगल्भतया वीरौ चित्रमण्डलचारिणौ ।
सनिर्घोषं महावेगः पार्श्वदेशमताडयत् ॥ १०.६८ ॥
ततो भीमः समाधूय गदामशनिनिःस्वनाम् ।
भ्रामयामास येनाभूद्धोरो घरघरारवः ॥ १०.६९ ॥
ततस्तां प्रहिणोद्भीमो गिरिगुर्वीं गदां जवात् ।
अकम्पितस्ताडितोऽपि पुनर्भीमोऽसृजद्गदाम् ।
पुनर्मोघीकृता राज्ञा सापतत्कम्पितावनिः ॥ १०.७० ॥
अथ वक्षस्तटे भीमः कौरवेण समाहतः ।
न विवेद क्षणं किंचिन्मूर्छाव्याकुलिताशयः ॥ १०.७१ ॥
पाञ्चालसृञ्जयानीके संदेहाकुलिते ततः ।
शनैर्भीमः समाश्वस्य पार्श्वे नृपमताडयत् ॥ १०.७२ ॥
गाढप्रहाराभिहतः पतितः कौरवेश्वरः ।
उत्थाय तूर्णमाहत्य भुवि भीममपातयत् ॥ १०.७३ ॥
अथापतत्सुरोत्सृष्ट पुष्पवृष्टिर्यशःसिता ।
साधुवादावली मूर्धि सूनवे कुरुभूपतेः ॥ १०.७४ ॥
अथोत्थिते भीमसेने परिमृज्याशु शोणितम् ।
कोऽनयोरधिको योद्धा पप्रच्छेत्यर्जुनो हरिम् ॥ १०.७५ ॥
सोऽब्रवीद्बलवान्भीमो भीमवीर्यः किमुच्यते ।
उपदेशे गदायुद्धे किंतु युद्धपराक्रमे ॥ १०.७६ ॥
स प्रयत्नः कुरुपतिर्भीमसेनाद्विलोक्यते ।
तस्मान्न धर्मयुद्धेन भीमः शक्तो निपातने ॥ १०.७७ ॥
मायया निहता दैत्या मायावध्या हि मायिनः ।
ऊरुभङ्गमतो भीमो विदधात्वस्य मायया ॥ १०.७८ ॥
अन्यथा दुर्जयो राजा त्रयोदशसमाव्यधात् ।
एष लोकभयं भीमो(मे) विधाय गदया श्रमम् ॥ १०.७९ ॥
व्यायामचतुरो वेगादूर्ध्वचारी सुयोधनः ।
महाशैलेयभङ्गोऽस्मिन्सुकरश्छिद्रदर्शनात् ॥ १०.८० ॥
उक्ते जनार्दनेनेति भीमश्चिक्षेप भीषणाम् ।
गदां तां कुरुराजोऽपि विलङ्घ्य तमताडयत् ॥ १०.८१ ॥
व्यथां संस्तम्भ्य भीमोऽथ घूर्णमानतनुः क्षणम् ।
गदां रन्ध्रं विचिन्त्यास्मै प्राहिणोत्कनकाङ्गदाम् ॥ १०.८२ ॥
पुष्पायुधपुरोदारहेमाभरणविभ्रमे ।
ऊरुयुग्मे भुजङ्गीव सा पपात महीपतेः ॥ १०.८३ ॥
निर्घातघोरघनघोषगदानिपातनिष्पेषजर्जरतरत्रुटितोरुसंधिः ।
दुर्योधनोऽथ निपपात दिवं विलोक्य वज्रावपातहतपक्ष इवाद्रिराजः ॥ १०.८४ ॥
अक्षौहिणीपतिनरेश्वरमौलिरत्नरश्मिच्छटापटलपाटलपादपीठे ।
अस्मिन्महीपरिवृढे पतिते च भूमौ कैर्निन्दितं न भवभङ्गुरभङ्गि जन्म ॥ १०.८५ ॥
- गदायुद्धम् ॥ ३ ॥ *****
तस्मिन्नेकादशचमूनाथे भुवि निपातिते ।
चकम्पे लोलतटिनीरशना वसुधावधूः ॥ १०.८६ ॥
बभूव भयदैर्व्याप्तं दुर्निमित्तशतैर्जगत् ।
प्रशंसन्तश्च तद्युद्धं प्रययुर्व्योमचारिणः ॥ १०.८७ ॥
भीमो निकारगणनां कुर्वन्कुरुपतेः शिरः ।
चरणेनास्पृशल्लक्ष्मीविलाससदनं ततः ॥ १०.८८ ॥
तं विलोक्य रुरोदेव पतितं चक्रवर्तिनम् ।
त्वङ्गद्गदाङ्गदच्छिन्नहारमुक्ताश्रुभिर्मही ॥ १०.८९ ॥
भीमं निरस्य गर्जन्तं धर्मराजः सुयोधनम् ।
ऊचे राजंस्तवैवायमनयात्सुहृदां क्षयः ॥ १०.९० ॥
दृष्ट्वा शिरः पदा स्पृष्टं भीमेन जगतीभुजः ।
प्राहोत्तालहलः कोपकरालस्ताललाञ्छनः ॥ १०.९१ ॥
प्रतापतापितरिचोर्यशः शत्रुहृतश्रियः ।
शिरो व्याजहतस्यास्य कः स्पृशेदपशुः पदा ॥ १०.९२ ॥
इत्युक्त्वा क्रोधशिखिना तं भीमं दग्धुमुद्यतम् ।
शमयामास कंसारिस्तैस्तैर्विनयभाषितैः ॥ १०.९३ ॥
विषद्युताग्निदोषाणां प्रभावोऽसीति वादिनम् ।
कृष्णं दुर्योधनोऽवादीत्संस्तम्भ्य रुजमुत्कटाम् ॥ १०.९४ ॥
गोपालबाल मूर्खाणां संज्ञां कृत्वास्मि वञ्चितः ।
त्वया भीष्ममुखा वीरास्ते व्याजैरेव पातिताः ॥ १०.९५ ॥
भुक्तं सुहृद्भिर्विहृतं कान्ताभिर्हुतमग्र्यजैः ।
वधः क्षत्रोचितः प्राप्तः कोऽन्योऽस्ति सदृशो मया ॥ १०.९६ ॥
भ्रूभङ्गेन निवासिता वनभुवं शुष्यन्मुखाः शत्रवो दृष्टा श्रीः स्वयमर्पिताग्र्यसुहृदामुष्णीषहारस्मिता ।
संग्रामेऽप्यपराङ्मुखस्य निधनं दिक्षु प्ररूढं यशः कर्तव्य स्पृहणीयमन्यदिचितं युक्तं किमस्त्यायुषः ॥ १०.९७ ॥
इत्याकर्ण्य वचस्तस्य लज्जिता इव मानिनः ।
नृपैः सह ययुः पार्था नादयन्तो रथैर्जयम् ॥ १०.९८ ॥
अथावरोप्य प्रथमं फल्गुणं मधुसूदनः ।
रथादवातरत्पस्चाज्जज्वाल स रथस्ततः ॥ १०.९९ ॥
द्रोणकर्णास्त्रदग्धोऽयमत्यन्तं ज्वलितो रथः ।
इति पृष्टोऽवदत्पार्थं विस्मितं कालियान्तकः ॥ १०.१०० ॥
श्रुत्वेति संजयाद्राजा दारुणं मोहविह्वलः ।
शुशोच पुत्रान्वाक्यानि विदुरस्य स्मरन्मुहुः ॥ १०.१०१ ॥
ततः कृष्णमुनौ प्राप्ते कुरुवेश्म हरिर्नृपम् ।
गान्धारीं चावदत्प्राप्य विसृष्टोऽजातशत्रुणा ॥ १०.१०२ ॥
याचितोऽपिशमं नैच्छत्कौरवो निजदुर्नयात् ।
न च धर्माच्च्युताः पार्थास्तेन तेन पदं रुषः ॥ १०.१०३ ॥
पुत्रास्ते युवयोरद्य पाण्डुपुत्राः सुरत्विषः ।
युवाभ्यामेव चोक्तं प्राग्यतो धर्मस्ततो जयः ॥ १०.१०४ ॥
इति प्रसाद्य तौ याते वृष्णिवीरेऽम्बिकासुतः ।
मुनावाश्वास्य याते च शेषं पप्रच्छ संजयम् ॥ १०.१०५ ॥
सोऽब्रवीदथ पुत्रस्ते वेष्य(प)मानो महीतले ।
मामूचे पश्य सूदेन माययाहं निपातितः ॥ १०.१०६ ॥
अत्रान्तरे समभ्येत्य द्रौणिहार्दिक्यगौतमाः ।
ददृशुः कौरवपतिं नीतं कालेन तां दशाम् ॥ १०.१०७ ॥
ततो गुरुसुतः कोपाद्विनिष्पिष्य करे करम् ।
निःशेषशत्रुनिधने प्रतिज्ञां निःश्वसन्व्यधात् ॥ १०.१०८ ॥
अथ वीरं तमालिङ्ग्य चक्रे सेनापतिं नृपः ।
न ह्यहंकारशैथिल्यं पर्यन्तेऽप्यभिमानिनाम् ॥ १०.१०९ ॥
प्रलयाम्बुदनिर्घोषं विनद्य द्रोणनन्दनः ।
निशायां तां रुजा राजा विषमामगमद्दशाम् ॥ १०.११० ॥
ततो गौतमहार्दिक्यगुरुपुत्रा महावनम् ।
विविशुः कलयन्तोऽन्तः श्रियः कल्लोललोलताम् ॥ १०.१११ ॥
- इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां गदापर्व