भाट्टरहस्यम्
श्रीमत्पूर्वोत्तरमीमांसापारावारपारीण श्रीमदाचार्यखण्डदेवविरचितम्।
भाट्टतन्त्ररहस्यम्
मङ्गलाचरणम्
(1) स्मृत्वा स्मृत्वा मुरारातिं तत्प्रसादावलम्बनात्।
रहस्यं भट्टतन्त्रस्य विशदीकर्तुमीश्महे।।
(2)कर्तव्यार्थप्रतिज्ञा
यज्ज्ञानाज्जैमिनीयोक्तिः स्फुटीभवति तत्वतः।
तद्रहस्यं खण्डदेवः प्रकाशयितुमुद्यतः।।
तत्र तावत् द्वादशलक्ष्यां धर्माधर्मावेव जैमिनिनाऽनुष्ठानोपयोगितया विचारितौ।यद्यपि धर्माधर्मावद्दष्टविशेषात्मकौ,न क्रियारूपौ।अत एव"धर्मः क्षरति कीर्तनादि"त्यादौ, वैशेषिकतन्त्रे च क्रियाजन्याद्दष्टे धर्माधर्मशब्दप्रयोगः, तथापि "धर्मस्वनुष्ठितः पुंसां "इत्यादौ; तज्जनकविहित-
निषिद्धक्रियायामपि धर्माधर्मशब्दप्रयोगात्, ताविहप्राधान्येन विचार्येते।
धर्माधर्मलक्षणाक्षेपः
अथ किन्नाम धर्मत्वमधर्मत्वं वा। नतावतद् विहितक्रियात्वम्.निषिद्धक्रियात्वं वा तत्।
विहित-निषद्धद्रव्यादौ तदनापत्तेः, नहि फलार्थगुणानुष्ठातॄणाम्, यज्ञे रजताद्यनुष्ठातॄणाञ्च
"धार्मिकः, अधार्मिकः" इति व्यवहाराभावः। तथात्वे-इन्द्रियकामाद्यधिकरणादौ शास्त्रसङ्गत्यना-
पत्तेश्च। तस्य धर्मत्वाभावे तज्जन्याद्दष्टस्य धर्मत्वाभावेन कीर्तननाश्यत्वानापत्तेश्च। नापिक्रियात्वरहितं तत्; विवाहार्थानृतवदनादावभ्यनुज्ञाविधिविषये धर्मत्वापत्तेः, षोडशिग्रहणेऽधर्मत्वा
पत्तेश्चेति चेत्।
पूर्वोक्ताक्षेपनिरासमुखेन धर्माधर्मयोर्लक्षणकथनम्
न। वेदबोधितश्रेयस्साधनताकत्वं धर्मत्वम्, तद्बोधितऽनिष्टसाधनताकत्वमधर्मत्वम्, इत्येव तल्लक्षणोपपत्तेः। ज्योतिष्टोम-कलञ्जभक्षणादीनां हीष्टानिष्टसाघनता वेदबोधितेति, तत्र लक्षणसमन्वयः।
अत्र वेदबोधितत्वं ब्रम्हस्वर्ग-नरकादावपीत्युत्तरदलम्। अन्न विषभक्षणादेरिष्टानिष्टसाधनत्वेऽपि तस्य
वेदबोधितत्वाभावादाद्यम्।
श्येनयागस्य धर्मत्वाक्षेप-समाधाने
श्येने चेष्टसाधनताया एव वेदबोधितत्वात् धर्मत्वमेव, अनिष्टजनकत्वं तु श्येनफलस्य वैरिमरणानुकूल शश्त्रघातादिरूपहिंसात्मकाभिचारस्यैव। तस्यैव च वेदबोधितानिष्टसाधनताकत्वात् अधर्मत्वम्, नतु श्येनस्येति व्यत्तञ्चतुर्थे।
वैरिमरणसाधनस्य यागस्याधर्मत्वशंका-निरासौ धर्मत्वाधर्मत्वयोरुपाधिरुपत्ववर्णनञ्च
यत्र तु "वैरिमरणकामो यजेते"त्येवंविधिः, तत्रापिविधिना इष्टसाधनताबोधनाद्यागादेर्धर्मत्वमेव, नच तत्र यागस्यैव मरणानुकूलव्यापारत्वेनहिंसात्वात् "न हिंस्यादि"ति निषेधविषयत्वम्, निषेधस्य रागप्राप्तहिंसो उपजीवनेनापि उपपत्तौ विहितेऽप्रवृत्तेः। न चैवं तादृशले श्येनवत्परम्परयापि प्रत्यवायानुत्पत्तेश्शिष्टानां तत्र
निष्कम्पप्रवृत्यापत्तिः,
" परस्योत्सादनार्थं यत् तत्तामसमुदाह्रृतम् "
इत्यादिवाक्यपर्यालोचनया अभिचारजनकश्येनवदभिचारस्यापि कर्मणस्तामसत्वेन निन्दितत्वात् तदुन्नीतनिषेधबलेन फलार्थं विहितस्यापि तस्यानिष्टजनकत्वेनाऽधर्मस्यापि सत्वात्तदनापत्तेः। अत एव धर्मत्वाधर्मत्वयोरुपाधिरूपत्वात्साङ्कर्येऽप्यदोषः।
अर्थसंग्रहाद्युक्तार्थस्योपन्यास-निरासौ
यत्तु धर्मलक्षणे बलवदनिष्टानुबन्धित्वस्यापि प्रवेशात् श्येनादौ च तदभावान्नधर्मत्वमिति तन्न। तत्प्रवेशे प्रयोजनाभावात्, अनिष्टगतद्वेषौत्कट्यरूपस्य बलवत्वस्य प्राचीनकर्मघीनतया उत्तविध अननुबन्धित्वस्य श्येनेऽपि कदाचित्सम्भवाच्च। इतरथा श्येने सामग्र्याभावेन प्रवृत्यनापत्तेः। किञ्ज श्येनादौधर्मत्वाभावे तामसधर्मत्वकथनानुपपत्तिः। अत उत्तलक्षणेयोर्युत्तस्तत्रापिसमन्वयः।
अभ्यनुज्ञाविधिना च दोषाभावमात्रास्यैवाक्षेपदिष्टसाधनतानाक्षेपेण रागप्राप्तेष्टसाधनताकस्यापि अनृतवदनस्य वेदबोधितेष्टसाधनताकत्वाभावान्नधर्मत्वापत्तिः।
षोडशिग्रहणे च निषेधेन नानिष्टसाधनत्वाक्षेपः, प्रमाणाभावाद्,गौरवाच्च। अपि त्वेतदभावेपीतराङगैः क्रतुमहोपकारसिद्धिमात्रस्यैव; तावन्मात्रेणैव पुरुषस्यनिवृत्युपपत्तेः अत एव तत्र प्रवृत्यर्थं विधिनाफलाधिक्याक्षेपः। अतस्तत्रापि नाधर्मत्वापत्तिः।
वेदबोध्यत्वञ्च वेदातिरिक्तप्रमाणेन स्वातन्त्रेणाबोध्यत्वे सति वेदबोध्यत्वम्, तेन तत्त्वसाक्षात्काररूप ब्रह्मज्ञानस्य ब्रह्मविषयकसविलासाज्ञान निवृत्तिरूपमोक्षजनकत्वस्य प्रमाणान्तरसिद्धस्योपनिषद्बोध्यत्वेऽपि न तस्य धर्मात्वापत्तिः।
यदापि प्रपञ्जस्य सत्यत्वेन नाज्ञानकार्यत्वम्। मोक्षश्चैकविंशतिदुःखध्वंसादिरूपस्तत्त्वज्ञानजन्य इति मतमपि प्रामाणिकम्, तदा मोक्षजनकत्वस्य प्रमाणान्तरागम्यत्वात् तत्र धर्मत्वपरिहारार्थं वेदबोधितत्वं विहाय, विधिबोधितत्वं देयम्, ज्ञानस्य प्रमाणवस्तु परतन्त्रत्वेन प्रवर्तनाविषयत्वाभावान्न विधिबोध्यत्वम्।।
वस्तुतस्तु "अयन्तु परमो धर्मो यद्योगेनात्मदर्शनम्" इत्यादौ ज्ञानेऽपि धर्मशब्दप्रयोगात्तस्य धर्मत्वेऽपि न क्षतिः। न च तत्रत्यदर्शनशब्दो ध्यानपरः, लक्षणायां प्रमानाभावात्। ध्याने चित्तवृत्तिनिरोधरूपमुख्ययोगजन्यत्वासभ्वाच्च। उपासनादिवच्च ज्ञानस्य धर्मत्वेऽपि, ब्रह्मणो वेदबोधितश्रेयस्त्वावच्छिन्नसाधनकत्वाभावेन धर्मत्वाभावाद्धर्ममीमांसातो ब्रह्ममीमांसाया भेदोपपत्तिः।
अस्तु वा ब्रह्मणि धर्मलक्षणस्यातिव्याप्तिपरिहारार्थं पुरुषकृतिव्याप्यत्वं वेदबोधितश्रेयस्साधनताकत्व
विशेषणम्, गुणस्यापि चाश्रयविशिष्टस्य कृतिव्याप्यत्वान्नाव्यातिः। ज्ञानस्यापि च स्वरूपेण
कृतिव्याप्यत्वाभावेऽपि सम्यग्जरणादिवत्तदनुकूलमनःप्रणिधानादेः कृपिव्याप्यत्वेन परम्परया तदाविष्टस्य कृतिव्याप्यत्वोपपत्तेर्नाव्याप्तिः। अत एव "आत्मा वा अरे द्रष्टव्य" इति विधिप्रत्ययोऽप्येतदभिप्रायक इत्यप्येतन्मते सुवचम्। "असाधारणी वा कारणता लक्षणेप्रवेशणीया",
तत्तल्लक्षणमेव धर्माधर्म पदशक्यतावच्छेदकम्, तस्य च क्रिया-तज्जन्यादृष्टसधारण्येनैकयैव शक्त्या धर्माधर्म शब्दौ क्रियातज्जन्य अदृष्टपराविति संक्षेपः।।
।।इति श्रीमदाचार्यखण्डदेवविरचिते भाट्टतन्त्ररहस्ये धर्मलक्षणविचारस्समाप्तः।।
अथ विधिवादः
धर्मलक्षणघटकसाधनत्वोपपादनम्
ननु करणत्वबोधकशब्दाभावात् " दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत " इत्यादौ कथं यागगत श्रेयस्साधनत्वस्य वेदबोध्यत्वं कश्च वा विधिः ? यद् बोध्यत्वं श्रेयस्साधनत्वस्येति चेत्-
लिङर्थे तार्किकाणामभिप्रायः
अत्र तार्किकाः-लिङादिश्रवणोत्तरं प्रवृत्तिदर्शनात्प्रवृत्तिसामग्रीजननद्वारा लिङादिज्ञानस्य प्रवृत्तावुपयोग इति तावदविवादम्, तत्सामग्री च कृतिसाध्यत्वप्रकारकेच्छारूपा चिकार्षा, तस्याश्च स्वरूपसत्याः कारणत्वात्तत्रलिङादिज्ञानस्यानुपयोगेपि चिकीर्षाकारणीभूतज्ञाने तदुपयोगः कल्प्यते। तच्च बलवदनिष्टाननुबन्धित्वज्ञानम्,कृतिसाध्यत्वज्ञानम्,इष्टसाधनत्वज्ञानञ्च। अन्यतमाभावे इतरद्वयसत्वेऽपि मधु विषसम्पृत्तान्नभोजने, चन्द्रस्पर्शे, मण्डलीकरणादौ च प्रवृत्यदर्शनात्। अतो लिज्ञादिज्ञानेन त्रितयज्ञानजननाल्लिङादेर्बलवदनिष्टाननुबन्धित्वे,कृतिसाध्यत्वे, इष्टसाधनत्वे च शत्तिः। तत्रापि विशेषण
विशेष्यभावे विनिगमनाविरहात्प्रत्येकं शत्तिः। पुष्पवन्दशब्दवच्च व्युत्पत्तिवैचित्र्याद्युगपदर्थत्रयस्यापि बोधः।
तार्किकमते लिङर्थानामन्वयोपादानम्
अन्वयश्चास्य योग्यताबलाध्दात्वर्थे यागादावेव, " न कलञ्जं भक्षयेदित्यादौ च नञर्थे अभावे। सोऽपि न त्रितयस्यापि, कलञ्जभक्षणस्य कृतिसाद्यत्वादिष्टसाधनत्वाच्च। अपितु बलवदनिष्ट अननुबन्धित्वस्यैव। अत एव तस्मिन् बलवदनिष्टाननुबन्धित्वाभावो बलवदनिष्टानुबन्धित्वं निषेधेन बोध्यत् इति, कारणाभावात् तत्राऽप्रवृत्तिः। तस्यचाऽधर्मत्वं, यागादेश्च धर्मत्वम्।
श्येनादौ च कृतिसाद्यत्वेष्टसाधनत्वयोरेवाऽन्वयः, न तु बलवदनिष्टाननुबन्धित्वस्य, प्रमाणान्तरेण
तत्फलस्याभिचारस्य नरकसाधनत्वावगमेन तस्य नरकप्रयोजकत्वरूपबलवदनिष्टानुबन्धित्वात् अतः तत्रास्तिकानामप्रवृत्तिः- इत्याहुः।
तार्किकमतनिराकरणम्
तन्न। शत्तित्रयकल्पने गौरवात् बलवदनिष्टाननुबन्धित्वज्ञानाभावमात्रेणेष्टसाधनताज्ञादिनैव प्रवृत्तेरानुभविकत्वाच्च।अतो बलवदनिष्टानुबन्धित्वज्ञानं प्रवृत्तिप्रतिबन्धकम्, तदभावश्च स्वरूपसन्नेव कारणम्। अतश्च तत्रेच्छावदेव लिङादेरनुपयोगान्न तस्य तद्वाच्यत्वम्।
किञ्चैवं नञ्समभिव्याहृतलिङर्थबलवदनिष्टाननुबन्धित्वप्रकारकशाब्दबोधे नञ्पदजन्योपस्थितिः कारणम्। नञ्समभिव्याहृतबलवदनिष्टाननुबन्धित्वातिरित्तलिङर्थप्रकारकशाब्दबोधे धातुपदजन्योपस्थितिः कारणम्। नञ्स भिव्याहृतलिङर्थप्रकारकशाब्दबोधे धातुपदजन्योपस्थितिः कारणम्। लिङ्समभिव्याहृतनञर्थप्रकारकशाब्दबोधे प्रथमान्तपदजन्योपस्थितिः कारणम्। लिङ्समभिव्याहृतनञर्थ प्रकारकशाब्दबोधे धातुपदजन्योपस्थितिः कारणम्। नञसमभिव्याहृताख्यातार्थकृतिप्रकारकशाब्दबोधे प्रथमान्तपदजन्योपस्थितिःकारणम्। नञ्समभिहृताख्यातार्थकृतिप्रकारकशाब्दबोधे नञ्पदजन्योपस्थितिः कारणमिति सप्त कार्यकारणभावाः।
किञ्चैवं बलवदनिष्टाननुबन्धित्वरूपलिङर्थस्यैव नञ्समभिव्याहारसत्त्वे तत्रान्वयः। तद्भिन्न लिङर्थस्य तु सर्वत्र धात्वर्थ एव, नञोऽसत्त्वे धात्वर्थ इति गुरुभूतानेकसमभिव्याहारज्ञानकार्यकारणभाव कल्पनापत्तिः।
एवं घटो नास्ति, न पचति चैत्र इत्यादौ लिङादिसमभिव्याहाराभावे नञर्थस्याभावस्याश्रये प्रथमान्तपदोपास्थाप्येऽन्वयः। लिङादिसमभिव्याहारसत्त्वेतु धात्वर्थ एवेति व्युत्पत्त्यनेकत्वम्।
तथाऽऽख्यातार्थस्य कृत्यादेर्नञोऽसत्वे आश्रयतासम्बन्धेन प्रथमान्तपदोपस्थाप्ये, तत्सत्वे तदर्थे
प्रतियोगिताकत्वसम्बन्धेनेति गुरुभूताः कार्यकारणभावाः।"नातिरात्रे षोडशिनं गृह्णाति " इत्येदर्थमन्योऽपि।
मीमांसकमते लाघवप्रदर्शनम्
अस्मन्मतेतु वक्ष्यमाणरीत्या विध्यर्थस्य नञोऽसत्वे प्रयोज्यत्वसंसर्गेणाख्यातार्थौ, तत्सत्वे स्वप्रयोज्याभावप्रतियोगित्वसंसर्गेण, नञर्थस्य सर्वत्र प्रतियोगितासंसर्गेण, प्रथमान्तार्थस्य चाधेयत्व संसर्गेणाख्यातार्थे कृतौ, इति चत्वारा वक्ष्यमाणरीत्या एक एव वेति लाघवम्।
किञ्च "न कलञ्जं भक्षयेदि" त्यत्र भक्षणे बलवदनिष्टाननुबन्धित्वबोधे अपीष्टसाधनत्वस्यापि विधिना बोधितत्वात्तस्य च लोकावगततृप्तिमादाय निर्वाहे वैयथ्र्यापत्तेः, भवन्मते विश्वजिन्न्यायेन स्वर्गकल्पनापत्तिः। तदधिकस्यैव नरकस्य कल्पनान्न बलवदनिष्टानुबन्धित्वविरोधः। अत एव यत्र कृतिसाध्यत्वबोधे न कथञ्चिदपि वैयथ्र्यपरिहारः, तत्र लोकसध्दानुवादकत्वमपि नानुपपन्नम्।
किञ्च यदि त्रितयमपि लिङर्थः, तदा श्येने बलवदनिष्टाननुबन्धित्वस्य कुतो न बोधः, बाधादिति चेत्। कोऽयं बाधो नाम, श्येनफलस्याभिचारस्य हिंसात्वेन न हिंस्यादिति निषेध विषयत्वेमेव बाधकमिति चेत्, तस्य सामान्यशाश्त्रत्वेन रागप्रप्तहिंसोपजीवनेनापि चरितार्थतयायागीयपशुहिंसायामिव, श्येने बलवदनिष्टाननुबन्धित्वस्य विशिष्य विधिप्रमितत्वेन तन्निर्वाहार्थं श्येनेप्यप्रवृत्तेः कथञ्चित् प्रवृत्ताव अभिचारजन्यनरकस्याधिकत्वाकल्पनेनाभयोपपत्तेश्च।
बलवदनिष्टाननुबन्धित्वस्वरूपविचारः
किञ्च बलवदनिष्टाननुबन्धित्वं न तावदिष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखाजनकत्वं, विधितस्तच्ज्ञान सत्वेऽपि स्वद्रव्यव्ययद्वेषवतोऽलसस्य च यागादौ प्रवृत्यदर्शनेन तज्ज्ञानस्य प्रवृतिं्त प्रत्यकारणत्वात्। इष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखजनकत्वस्य निषेधशाश्त्रतः कलञ्जभक्षणादौ ज्ञानेऽपि रागिणः प्रवृत्ति दर्शनेन तज्ज्ञानस्य न प्रवृत्तिप्रतिबन्धकत्वमपि। अतोऽनिष्टेबलवत्वम् - उत्कटद्वेषविषयत्वम्, औत्कट्यञ्च- जातिविशेषः फलैकोन्नेयः, तादृश द्वेषश्च प्राचीनकर्मानुरोधेन।अतश्च यागादिजन्येपि दुःखे यदा प्राचीनकर्मवशादुत्कटो द्वेषः, तदा तस्य बलवदनिष्टानुबन्धित्वज्ञानसत्वात् तत्राप्रवृत्तिः, यदा तु शभकर्मवशात् नोत्कटो द्वेषः, तदा तस्य बलवदनिष्टानुबन्धित्वज्ञानाभावसत्वात् प्रतिबन्धकाभावेन तत्र प्रवृत्तिः।
एवं कलञ्जभक्षणादौ श्येने च प्राचीनकर्मवशेनैव प्रवृत्त्यप्रवृत्ती कादाचित्के उपपादनीये। अतश्च यागादौ नैयत्येन बलवदनिष्टाननुबन्धित्वस्य विधिना बोधयितमशक्यत्वात्कलञ्जभक्षणादौ च नैयत्येन तदभावस्य नञाबोधयितुमशक्यत्वाच्च न तत्र लिङादेश्शक्तिः।
तस्य विध्यर्थत्वानभ्युपगमेऽनिष्टापादन-तन्निरासौ
यत्तु-बलवदनिष्टाननुबन्धित्वस्य विद्यर्थत्वाभावे "तृप्तिकामः कलञ्जं भक्षयेदि"ति लौकिकवाक्यस्य प्रामाण्यापत्तिः, बलवदनिष्टाननुबन्धित्वातिरित्तेष्टसाधनत्वादिरूपविध्यर्थस्य तत्राबाधात्।अस्मन्मते तु
बलवदनिष्टानुबन्धित्वस्य तत्र श्रुतिबोधितत्वादप्रामाण्योपपत्तिः-इति।
तन्न। बलवदनिष्टाननुबन्धित्वातिरित्तेष्टसाधनत्वादिविध्यर्थवादिनाम्मते तदापत्तावपि प्रवर्तनाविध्यर्थवादिमते तदनापत्तेः। तथाहि-नञोऽसत्वे वक्ष्यमाणा प्रवर्तना प्रयोज्यत्वसंसर्गेणाख्यातार्थे कृतावन्वेतीति वक्ष्यते, तच्च प्रयोज्यत्वं स्वविषयकज्ञानजन्यानुमितिप्रयोज्यत्वमिति च,तद्यत्र प्रमाणान्तरेण यागादाविष्टसाधनता न
बुध्यते,तत्रेष्टसाधनत्वस्यैव प्रवर्तनाज्ञानादनुमितिः। यत्र तु तत् प्रमाणान्तरेणाऽवगतम्, निषेधेन च तस्यानिष्टसाधनत्वमपि। यथा दीक्षितान्नभोजनस्य "न दीक्षितस्यान्नमश्नीयादि" ति निषेधात्, तत्र "हुतायां वपायां दीक्षितस्यान्नमश्नीयादि" ति पुनर्विधिरनिष्टसाधनत्वाभावस्यैवाक्षेपकः,न त्विष्टसाधनत्वस्य, तस्य
प्रमाणान्तरसिद्धत्वेन सिषाधयिषाभावेनानुमित्यनुत्पत्तेः।अनिष्टसानत्वाभावज्ञानस्यापि स्वविषयकविशेष्यका-
निष्टसानत्वज्ञाने अप्रामाण्यनिनिश्चायकतया प्रवृत्तावुपयोगः। प्रवृत्तौ ह्यप्रामाण्यज्ञानानास्कन्दितानिष्टसधन-
ताज्ञानमेव द्वेषबलवत्तादशायां प्रतिबन्धकम्।अतश्च तेनाप्रामाण्यनिश्चये विशिष्टाभावसम्पादकतया तस्य
प्रवृत्तावुपयोगस्सुलभ एव।अतश्च निषेधविषयविषयकेन विधिनाभ्यनज्ञाविधिरूपेण स्वनिषयेऽनिष्टसाधनत्वा-
भावस्यैवाक्षेपात्, तस्य च लोकिकवाक्ये प्रत्यक्षश्रुतिविरोधेन बाधित्वादप्रामाण्योपपत्तिः,अतो न तावतद्
बलवदनिष्टाननुबन्धित्वं लिङर्थः।
कृतिसाध्यत्वस्य लिङर्थत्वलिराकरणम्
नापि कृतिसाध्यत्वम्, तस्य भवन्मते पाकानुकूलत्वस्य कृतौ भने समानसंवित्संवेद्यतया पाकेऽपि कृतिसाध्यत्वस्य भानोपपत्तेरन्यलभ्यतया लिङादिवाच्यत्वानुपपत्तेः। अस्मन्मतेऽपि प्रवर्तनाक्षेपादेवेष्टसाधन-
त्वादिवद्भावनोपपत्तेरन्यलभ्यत्वम्। अतः परिशेषादिष्टसाधनत्वमेव लिङाद्यर्थ इति वक्तव्यम्।
इष्टसाधनत्वं लिङर्थ इति मतखण्डनम्
इष्यते च कैश्चिदाधुनिकैरिदमेव। नञ्समभिव्याहारस्थले त्वनिष्टसाधनतायां लिङो लक्षणा,अतो लिङादेरिष्टसाधनत्वमेवार्थः-इति। तदपि न तथात्व इष्टसाधनत्वज्ञानादेव प्रवृत्तेः "आचार्यप्रेरितोऽहं
गामानयामी"त्यादावाचार्यदेः प्रवर्तकत्वव्यवहारानुपपत्तेः। न च प्रवृत्तिजनकेष्टसाधनताबोधकलिङुच्चारयितृ
त्वात्तस्य प्रवर्तकत्वव्यवहारः। तथात्वे राजप्रेरितपदातेस्तादृशलिङुच्चारयितृत्वेन प्रवर्कत्वापत्तौ पदातिप्रेरितोऽहं न गामानयामि, किन्तु राजप्रेरित इति पदातौ प्रवर्तकत्वाभावव्यवहारानुपपत्तेः।
अथ अन्याप्रेरित्वे सति तादृशलिङुच्चारयितृत्वं प्रवर्तकत्वम्, तथात्वे पिशुनप्रेरिते राज्ञे प्रवर्तकत्वानापत्तेः
अतश्चैतादृशव्यवहारबलात् प्रवृत्तिकारणीभूतज्ञानविषयीभूतेच्छाश्रयत्वेनैव राज्ञादेःप्रवर्तकत्वं वाच्यम्।न
चेच्छाया लिङादिवाच्यत्वाभावेऽपि ज्ञानं सम्भवति, विषयविशेषस्येष्टसाधनत्वेऽपि परेच्छाविषयत्वाभावेन व्यभिचारादिष्टसाधनत्वस्यानुमापकत्वानुपपत्तेः।अतः परिशेषाल्लिङादिवाच्यैव सा, तथ च प्रवृत्तिविषये
यागादाविष्टसाधनत्वदेवानुमानेनैव बोधोपपत्तेर्नपुनर्वाच्यत्वकल्पनावसरः। भवति हि "अयमत्र प्रवर्ततामि"
त्याकारकाप्तेच्छाविषयत्वमिष्टसाधनत्वव्याप्तम्, अतस्तेन तदनुमानम्।
हेतुघटकदलानां प्रयोजनकथनम्
अत्रासुखे सुखत्वभ्रमेण सुख एव वा सुखं मे जायतामितीच्चविषयत्वसत्वेपि इष्टसाधनत्वाभावात्तत्रव्यभिचार वारणाय हेतावाकारकपर्यन्तानुधावनम्। प्रकारतादृशेच्छविषये व्यभिचारवारणाय आप्तेति। अत्र चेच्छविषयत्वमिच्छाविषयीभूतप्रवृत्तिविषयत्वं बोध्यम्।तेन प्रवृत्तौ,तदाश्रये पुरुषे वा इच्छाविषय इष्टसाधनत्वाभावेऽपि न व्यभिचारः। यागादावेव च हेतुसत्वादिष्टसाधनत्वानुमानम्।
लिङादिपदशक्यतावच्छेदकविचारः
अत्र च यद्यपि वक्ष्यमाणरीत्या व्यापारत्वम्, इच्छात्वमेव वा लिङादिपदशक्यतावचछेदकम्। तथापि तेन
रूपेणोत्तविधेच्छाया एव लिङादिपदाद्बोधः, तत्तद्धातुप्रत्ययादिसमभिव्याहारस्य नियामकत्वात्।भवति हि
"मृदस्ति पात्रं करिष्यामी" त्यादौ पात्रत्वेन सामान्यरूपेण मृण्मयपात्रविशेष्यको बोधः, समभिव्याहारात्, प्रवृत्ति-
सामथ्र्याच्च प्रवृत्याश्रयस्य पुरुषस्य बोधः, वचनेङगितादिना चाप्तत्वेऽवगते इच्छायामाप्तनिष्टत्वस्य
समानसंवित्संवेद्यतया यागादौ तादृशेच्छाविषयत्वस्य बोध इति न हेत्वसिध्दिः। तेनोत्तविधसामग्रिया हेतुज्ञाने जाते इष्टसाधनत्वाद्यनुमानं सुलभमेव। अतश्चान्यलभ्यत्वादिष्टसाधनत्वादेर्नलिङादिवाच्यत्वम्।
इष्टसाधनत्वस्य विध्यर्थत्वेऽतिप्रसक्तयः
किञ्च भवन्मते येन स्वत एव पाकादाविष्टसाधनत्वादि बुद्वा प्रवृत्तम्, तस्य पाकवर्तमानदशायां"चैत्रः पचेदि"ति प्रयोगापत्तिः, इष्टसाधनत्वादिविशिष्टपाकानुकूलकृतिमत्वस्य चैत्रेऽबाधित्वात्, चैत्रःपचतीतिवत् वर्तमानत्वाबोधेऽपि क्षतिविरहात्। मन्मते तु तादृशप्रवृत्तेः प्रेरणाप्रयोज्यत्वाभावाद्विषय बाधेनाप्रामाण्योपपत्तिः तादृशप्रयोगस्येति वैषम्यम्।
प्रेरणावादिमतेऽतिप्रसत्तेरुद्भावन-तद्वारणे
ननु भवन्मतेऽपि यत्रान्यप्रेरणया चैत्रस्य प्रवृत्तिः, तत्र पाकवर्तमानतादशायां "चैत्रः पचेदि"ति प्रयोगस्य प्रामान्यापत्तिः,पाकानुकूलायाश्चैत्रनिष्ठप्रवृत्तेः प्रेरणाप्रयैज्यत्वस्याबाधात्। वस्तुतस्तु स्वतस्सिद्धेष्टसाधनता ज्ञानजन्य प्रवृत्तेरपि प्रेरणाप्रयोज्यत्वस्वरूपयोग्यतया प्रेरणाप्रयोज्यत्वात्तत्रापि चैत्रः पचेदिति प्रयोगापत्तिः अनिवार्यैव। न हि तव फलोपहितप्रयोज्यत्वविशिष्टा कृतिश्शाब्दबोधे भासते। बहुशश्शाब्दबोधेऽयालस्यादिना प्रवृत्यनुत्पत्तेरिति चेत्। न। प्रवृत्तित्वावच्छिन्नं प्रति न प्रेरणायाः प्रयोजकता, व्यभिचारात् ;अपि तु प्रेरणोत्तर प्रवृत्तित्वावच्छिन्नं प्रति, "इयं प्रवृत्तिःप्रेरणाप्रयोज्या,इयं न ,किन्तु स्वत एव" इत्यादिसार्वलोकिकव्यवहारात्।
अत्रैव प्रकारान्तरवर्णनम् यद्वा प्रेरणा प्रयोज्यतावच्छेदकतया प्रवृत्तित्वव्यप्यं धर्मान्तरमेवेत्यपि वक्तुं शक्यम्, अत एव तत्प्रयोजकतावच्छेदकतया प्रेरणात्वमखण्डो धर्मो लोकवेदसाधारण इत्यपि वक्ष्यते। तस्य च प्रवृत्तित्वव्याप्यधर्मस्य लिहादिसमभिव्यहारस्थले लक्षणया आख्याताद् बोधः, सामान्यधर्मेणैव वा प्रेरणा प्रयोज्यव्यत्तपस्थितिरित्याद्यन्येदतत्। सर्वथा स्वतःसिद्धेष्टसाधनताज्ञानजन्य प्रवृतिं्त प्रति न प्रेरणाया स्वरूपयोग्यतयापि प्रयोजकत्वमिति न तादृश प्रवृत्तिमति लिङादिमद्वाक्यप्रयोगापत्तिः।
प्रेरणाप्रयोज्यप्रवृत्तिवर्तमानतादशायां पचेदिति प्रयोगवारणम्
प्रेरणाप्रयोज्यप्रवृत्तिवर्तमानतागशायां तु प्रयोगापत्तिरेवं निवार्या।नास्माभिः प्रेरणाया विषयतासम्बन्धेनैव प्रवृत्तावन्वय इत्युच्यते। न वा प्रेरणाविषयीभूत प्रवृत्तिविषयत्वेन यागादौ येन तादृशप्रयोगापत्तिश्शंक्येत।किन्त्वत एव साक्षात्सम्बन्धपरित्यागेन स्वज्ञानजन्यानुमितिप्रयोज्यत्वसंसर्गेणाख्यातार्थप्रवृत्तौ प्रेरणाया प्रकारत्वम्।अस्ति हि प्रेरणाज्ञानजन्येष्टसाधनत्वाद्यनुमितेः प्रवृतिं्त प्रति जनकत्वात्प्रयोजकत्वम्।उपपादयिष्यते एतदुपरिष्टात्।
तत्प्रेरणाज्ञानं स्वप्राक्कालीन-स्वज्ञानोपधेयमेव स्वरूपेण तद्व्यत्तित्वेन संसर्गमध्ये निवेश्यते।प्रथमस्वपदम्-
तत्तत्प्रवृत्तिव्यत्तिपरम्, द्वितीयस्वपदं-तत्तल्लिङादिव्यत्तिपरम्, तेन तत्तत्प्रवृत्तिप्रागभावकाले यल्लिङादिपद-ज्ञानं
तेनोत्पादितं यत् प्रेरणाज्ञानं तज्जन्येष्टसाधनत्वानुमितिप्रयोज्यत्वस्वरूप-योग्यत्वं संसर्ग इति फलितार्थः।अतश्च
प्रवृत्तिवर्तमानतादशायामनेन संसर्गेण प्रेरणावत्वस्य प्रवृत्तौ बाधान्नतादृशप्रयोगापत्तिरस्मन्मते।
अन्यदीयप्रेरणाप्रयोज्यप्रवृत्तिप्राक्काले अन्यदीयलिङतप्रयोगस्तु राजप्रेरितप्रवृत्तिकाले पदात्यादीनामन्येषाम् आप्तादीनाञ्च लिङतप्रयोगदर्शनादिष्टापत्यैव नापादनीया।सम्भवति हि तत्र राजप्रेरणामादाय प्रयोगः, अन्यदीयप्रेरमामादाय च, तज्ज्ञानजन्यानुमितेरपि प्रवृत्तिस्वरीपयोग्यत्वात्। अतः सिद्धं न तार्किकरीत्या
इष्टसाधनत्वादेर्लिङाद्यर्थत्वम्, अपि तु पूर्वोत्तरीत्या प्रवर्तकेच्छाया एव।
प्रेरणावादे पाणिनिसम्मतिप्रदर्शनम्, इतरेषां विध्यर्थानां विवरणं च
"विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्, लोट् च; छन्दसि "लिङर्थे लेडि" इत्यादि पाणिन्यनुशासनादयमेवार्थो विज्ञायते। विधिः-निकृष्टस्य प्रेरणम् निमन्त्रणम् - अनिष्टजनकीभूताकरण प्रतियोगित्वानुमापकप्रवर्तकेच्छा। यथा श्राद्धादौ दौहित्रादेः प्रवर्तनम्।तत्र प्रमाणान्तरेणाऽभोजने प्रत्यवायपावगमात्।
अत एव विधिस्थल इवाग्रिमयोरपि च लाघवादिष्टसाधनत्वानुमापकत्वमेव। कृतिसाध्यत्वानुमापकत्वं सर्वत्रैव। मास्तु वा तत्।आमन्त्रणम् कामचारानुज्ञा। तत्र प्रेरकस्याऽऽग्रहभावमात्रम्।
प्रेरणावादे पाणिनिसम्मतिप्रदर्शनम्, इतरेषां विध्यर्थानां विवरणं च "विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्, लोट् च; छन्दसि "लिङर्थे लेडि" इत्यादिपाणिन्यनुशासनादयमेवार्थो विज्ञायते। विधिः-निकृष्टस्य प्रेरणम्
निमन्त्रणम्-अनिष्टजनकीभूताकरणप्रतियोगित्वानुमापकप्रवर्तकेच्छा। यथा श्राद्धादौ दौहित्रादेः प्रवर्तनम्।तत्र प्रमाणान्तरेणाऽभोजने प्रत्यवायपावगमात्।अत एव विधिस्थल इवाग्रिमयोरपि च लाघवादिष्टसाधनत्व अनुमापकत्वमेव। कृतिसाध्यत्वानुमापकत्वं सर्वत्रैव। मास्तु वा तत्। आमन्त्रणम् कामचारानुज्ञा। तत्र प्रेरकस्याऽऽग्रहभावमात्रम्। अन्यत्र सर्वत्राऽऽग्रहोऽप्यधिको भासते। अधीष्टम्सत्कारपूर्वकमुत्तमं प्रति प्रेरणम्।एतेषु चतुर्षु प्रवर्तनात्वस्यैकस्यानुगतत्वात् तेनैव रूपेण एकैव शत्तिः, अन्यांशस्य तु प्रमाणान्तरलभ्यत्वान्न शक्यत्वम्। संप्रश्न-प्रार्थनयोस्त्वतिरित्तैव शत्तिः। "किन्त्वमधीयीथाः भवति मे प्रार्थना वेदमधीयीये"त्यादौ, तत्र प्रवर्तनात्वाभावात्। अनुशासनिकी वा निरूढलक्षणा। "हेतुहेतुमतोर्लिङ्" "कामप्रवेदने कच्चिति"इत्याद्यनुशासनेनेव हेतुत्वादौ, प्रचुरप्रयोगेण प्रवर्तनात्वस्यैव शक्यतावच्छेदकत्वात्।
प्रवर्तनात्वं च प्रवृत्यनुकूलव्यापारत्वम्,अनुकूलत्वं च जनकत्वम्। तच्च लोके पुरुषाशयवृत्ति, वेदे च
तदभावादिच्छाभिन्नस्य कस्यचित् प्रवर्तनात्वं बोध्यम्।
मण्डन पार्थसारथ्योः मतम्
अत्रापीष्टसाधनत्वमेव प्रवर्तनात्वेन रूपेण वेदे लिङाद्यर्थ इति मण्डनमिश्राः। अर्थभावनाभिधानानुकूलाया लिङादिनिष्ठशत्तेरेवाभिधाख्यायाः प्रवर्तनात्वेन रूपेण लिङ्वाच्यत्वं परिकल्प्य तज्ज्ञानस्य प्रवृतिं्त प्रति कारणत्वमात्रं कल्प्यत इति तु पार्थसारथिः।
वस्तुतस्तु इष्टसाधनत्व-कृतिसाध्यत्वयोर्विनिगमनाविरहः, तथात्वे वा लोकेऽपि तस्यैव तथात्वापत्तेः तार्किकमतोत्तदूषणापत्तिः शत्तिप्रवर्तनावादिमतेपि उत्तशत्तेः संख्याभिधानानुकूलशक्त्या लिङ्त्वादिनैव वा विनिगमनाविरहस्तदवस्थ एव।
अतः "क्लृप्तैर्विनिगमनाविरहे कल्प्यमन्यत्सिद्यती"ति न्यायेन अलौकिको धर्म एव लिङादिनिष्ठः प्रवर्तनात्वेन लिङादिवाच्यश्च कल्प्यते, तज्ज्ञानञ्च प्रवृतिं्त प्रति कारणमिति न्यायसुधाकृन्मतमेव
कथञ्चिद्युत्तमिति व्यत्तं कौस्तुभे।
व्यापारस्य लिङ्वाच्यत्वनिरूपणम्
वस्तुतस्तु लोके नेच्छायाः स्वरूपेण प्रवृतिं्त प्रति कारणत्वम्, तदभावेऽपि तद्भ्रमेण प्रवृत्युदयात्, स्वरूपेण कारणत्वे लिङुत्तिवैयथ्र्याच्च, नापि तज्ज्ञानस्यकारणत्वम्, इष्टसाधनत्वाद्यनुमापकतया.
प्रवृत्तिविशेषं प्रति प्रयोजकतयैवान्वयव्यतिरेकसिद्धौ कारणत्वकल्पने मानाभावात्। अतः प्रवृत्तिप्रयोजकमेव प्रवर्तनात्वं वाच्यम्।तदपि च न लिङादेश्शक्यतावच्छेदकम्, गौरवादन्यलभ्यत्वाच्च। प्रवृत्तिर्हि आख्यातादेव लभ्यते।प्रयोजकत्वं तु संसर्गबलेनेति न तदपि शक्यतावच्छेदककोटिप्रविष्टम्, अपितु लोकवेदसाधारण्येन व्यापारत्वमेव शक्यतावच्छेदकम्।अस्ति हि लौकिके लिङादिशब्दोपस्थाप्ये पुरुषाशये प्रवृत्तिसाधनीभूत इष्टसाधनत्वाद्यनुमापकतया प्रवृत्तिप्रयोजकव्यापरत्वम्। वेदेऽपि शब्दश्रवणोत्तर कालमनुमायैव तत्कार्यदर्शनादिच्छायाश्चापौरुषेये वेदे बाधात्कार्यानुमेयमलौकिकं धर्मं लिङादिनिष्ठं लिङादिवाच्यं परिकल्प्य, तस्य तदनुमापकत्वकल्पनात्तत्रापि प्रवृतिप्रयोजकव्यापारत्वम्। अत उभय साधारण्येन व्यापारत्वमेव शक्यतावच्छेदकम्।
यद्यपि च तदन्यत्राप्यतिप्रसक्तम्, तथापि समभिव्याहारबलाद् विशेषलाभः। तथाहि -- लिङ्पदाद् व्यापारत्वावच्छिन्नव्यापारमात्रोपस्थितावपि तस्याख्यातोपात्तकृतौ निरुक्तसंसर्गेणान्वये बुद्धे पश्चात्तत्संसर्गस्य तत्त्वेन रूपेण बोधवेलायां तेन तेन प्रमाणेन विशेषलाभो नासुलभः। इष्यत एव हि
"भूतलं घटवदि"त्यादौ घटपदात् घटत्वावच्छिन्नघटमात्रप्रतीतावपि तस्य, योग्यसंसर्गेण भूतले घटान्वये बुद्धे तत्संसर्गस्य तत्वेन जिज्ञासायां प्रमाणान्तरेण संयोगत्वादिना संयोगादिरूपसंसर्गप्रतीतिवद् भूतलवृत्ति
घटविशेषप्रतीतिः।
तद्विशेषलाभप्रकारोपन्यासः
तदयमत्र क्रमः,- प्रथमं लिङादिपदाद्व्यापारत्वेन सामान्यरूपेणैव व्यपारोपस्थितिः। पश्चादाख्यात उपस्थितकृतौ तस्य स्वविषयकज्ञानविशेषजन्यानुमितिप्रयोज्यत्वसंसर्गेण तत्वेनानुपस्थितेनैवान्वयः। शाब्दबोधश्च व्यापारवती यागादिकृतिरिति। न च लिङर्थविशेष्यक एव शाब्दबोध इति भ्रमितव्यम्, "भावप्रधानमाख्यातमि"ति स्मृत्या लकारार्थप्रकारकशाब्दबोधत्वावच्छिन्नं प्रति अर्थभावनाविशेष्यतासम्बन्धेनाऽऽख्यातपदजन्योपस्थितिः कारणमिति कालादिसाधारण्येनैक कार्यकारणभावकल्पनालाघवानुरोधेन चाख्यातार्थकृतेरेव मुख्यविशेष्यत्वात्।
अवशिष्टलिङर्थानां अन्वयप्रदर्शनम्
सम्प्रश्न-प्रार्थनयोरपि विषयतासम्बन्धेन तस्यामेवान्वयः, हेतुत्वादेरपि स्वरूपसम्बन्धेन तस्यामन्वयेपि
तस्या उपलक्षणत्वादिनेतरक्रियायामन्वयः। लिङो वा हेतुमत्वरूपसंसर्गतात्पर्यग्राहकत्वम्। तेनाख्यातार्थस्यैव "आर्तिमार्छेदि"त्यादावितरक्रियान्वयो हेतुमत्वसंसर्गेणैवेति न कश्चिद्विरोधः।
कामप्रवेदनस्याप्यन्वयोपपादनम्
एवं "यदि शालीन् भुञ्जीत, तर्हि दध्युपसिञ्चे"दित्यादौ कामप्रवेदनेपि स्वविषयकेच्छानिमित्तकत्वं संसर्गः, लिङ् तात्पर्यग्राहकः।आख्यातमेव वा इच्छालक्षकम्, "यदि शालीन्भोक्तुमिच्छेदि"त्यत्र निमित्तत्वमेव संसर्ग इति न क्वापि व्युत्पत्यन्तरम्। अतश्च "देवदत्तः पचेदि"त्यादौ लोके तावच्छाब्दबोधोत्तरं स्वसंसर्गस्य तत्वेन जिज्ञासायां "चैत्रप्रेरितोऽहं पचामि"इत्यादिव्यवहारवशात् व्यापारस्येच्छारूपत्वेऽवगते, पाकविषयकृतिसम्बन्धात् "पाकोऽयं प्रवर्ततामि"त्याकारकत्वे च तस्यास्सिद्धे, तदाश्रयस्य प्रयोजकवृद्धस्य प्रमाणान्तरेणाप्तत्वावगमे समानसंवित्संवेद्यतया "पाकेऽयं प्रवर्ततामि" त्याद्याकारकाप्त निष्ठेच्छाविषय कृतिविषयत्वरूपहेतुज्ञानं मानसं जायते, ततश्च तस्मिन् हेतौ क्रियान्तरदृष्टान्तेनेष्ट साधनत्व - कृतिसाध्यत्वयोः व्याप्तिस्मरणादुभयविषयणी अनुमितिरुत्पद्यते।
नित्यकर्मविधौ लिङर्थविचारः
क्वचिच्चानिष्टसाधनीभूताकरणप्रतियोगित्वादेरपि, सामग्रीवशात्।तत्सामग्री च "अयमत्र प्रवर्ततामि"त्याकारक स्वभङगनिमित्तकाऽनिष्टकत्र्तृच्छाविषयत्वरूपहेतुपरामर्शादिरूपा। स्वपदमिच्छापरम्, इदञ्च तत्र तत्र कौस्तुभादौ स्पष्टम्। तस्याश्च प्रवृत्तिप्रयोजकत्वं स्पस्टमेवेति संसर्गस्य तत्वेन लाभः, इच्छाविशेषलाभश्चोभयं सुलभम्।
वैदिकलिङ्स्थलेऽनुमितिप्रकारनिरूपणम्, मीमांसकमतेन आप्तत्वनिर्वचनं च
वेदेऽपि लिङादिशब्दश्रवणोत्तरकालं व्यापारत्वरूपेण व्यपाररूप पदार्थोपत्स्थित्या "निरुत्तसम्बन्धेन व्यपारवती यागादिकृतिरि"ति शाब्दबोधे जाते, सम्बन्धस्य तत्वेन जिज्ञासायां, "वेदस्थलिङादिप्रेरितोऽहं यागादि करोमी"त्यादिव्यवहाराद्यागविषयकृतिसम्बन्धाच्च तस्य लिङादिनिष्ठत्वं "याग्ऽयम्प्रवर्तामि" त्याकारकत्वञ्च अवगम्यते। अत एव वर्णात्मकलिङादेर्नित्यत्वात् तद्वृत्यलौकिकधर्मस्यापि नित्यत्वम्।न च भ्रम-प्रमासाधारण्येन
तञ्ज्ञानस्यैवानुमितिजनकत्वाल्लोकवदेव तत्सिद्धौ प्रमाणाभावः।वेदोत्थज्ञानस्य भ्रमत्वानुपपत्या तत्सिद्धेः। तस्मिन् यागविषयककृतिविषयिता च न ज्ञानादिविषयितासाधारणी, अतिरित्ता वा, अपि तु "पाकेऽयं प्रवर्ततामि" त्यादिलौकिकेच्छानिष्ठविषयिता साधारणी इच्छासामान्यनिष्ठविषयिताभिन्ना लिङाद्यर्थमात्रनिष्ठा, अनुगतप्रतीतेरेव तत्र प्रमाणत्वात्। अतश्च लिङादेर्निर्दोषत्वेनानाप्तभिन्नत्वेऽवधारिते समानसंवित्संवेद्यतयैव प्रतारणाद्यजन्यहिताहितोपदेशजनकनिष्ठनिरुत्ताकारकव्यापारविषयीभूतकृतिविषयत्वरूपहेतुज्ञानं तथैव मानसं जायते।अत एव लोक-वेदसाधारणं प्रतारणाद्यजन्यहिताहितोपदेशकर्तृत्वे सति तद्भिन्नोपदेशाकर्तृत्वमाप्तत्वम्।
अतश्च तेनेष्टसाधनत्वाद्यनुमितिर्लोकवदेव नानुपपन्ना। न च भ्रम-प्रमासाधारण्येनेष्टसाधनत्वाद्यनुमितेरेव प्रवृत्तिप्रयोजकत्वान्न भवन्मते यागादावपीष्टसाधनत्वादिसिद्धिः, ज्ञानस्यास्मन्मते स्वतः प्रमाणत्वेन दोषाद्यभावे
प्रमात्वस्यैव सिद्धेः। सल्लिङ्गकपरामर्शस्य भ्रान्तानुमित्यजनकत्वाच्च।अतस्सिद्धं शक्यतावच्छेदकस्यातिप्रसत्त
त्वेऽपि लोक वेदे वा विशेषलाभो निरुत्तसंसर्गलाभश्चेति।
अखण्डस्य व्यापारत्वरूपधर्मस्य लिङ्पदशक्यतावच्छेदकत्वम्
अथवा लोक-वेदसाधारणः पूर्वोत्तविधया प्रवृत्तिविशेषप्रयोजकतावच्छेदकतया सिद्धो व्यपारत्वरूप अखण्डधर्म एवानतिप्रसत्तो लिङादिपद शक्यतावच्छेदकः।
तात्पर्यज्ञानदृष्टान्तेन विषयिताविशेषस्य लिङ्शक्यतावच्छेदकत्वोपपादनम्
अथवा"अयमत्र प्रवर्ततामि"त्याकारकत्वरूपस्य लोक वेदसाधारणस्य विषयिताविशेषस्य पूर्वमुत्तत्वात्स एव
लिङादिशक्यतावच्छेदकः।एष्टव्यश्चायमेव प्रकारः शाब्दबोधत्वावच्छिŽर्ाि रर््िैंर्दिं्यर्,ि फख़्र्द्मिर्र्र्िििंन्न्ठर्ि™र्म्र्र्–िििन्न्–र्र्âििŒर्द्यिब्र्र्र्ब्र्र्र्ििििंझ्र्र्Žिर्ाि
रर््िैंर्दिं्यर् िब्र्र्र् ििफर्âिक़ ब्र्र्âिन्न्ळ्र्र्Œििर्र्œििद्म™र्âिर् िद्यर्र्द्यििर्™िर्ििडर्र्ििर्ळ्™िर् ि—र्त्˜िर्द्यिर्âि क़र्œिद्मर्द्यिब्र्र्र्ििंर्ब्र्र्र्ििििश्व्र्न्र्र्ििि˜र्ंि।र् ि"स्र्ळ्˜र्र्द्यििर्ंि र्न्न्र्न्न्™ििर्˜िर्न्र्र्र्ेििि बोद्धव्यः"इत्याकारकेच्छारूपं तात्पर्यं वेदे सम्भवति।अतस्तत्रातिरित्तश्शब्दनिष्ठो धर्मविशेष एव तात्पर्यं—र्त्˜िर्द्यिर्âि ब्र्र्र्झ्™ििर्˜िर्ंि।
र् िझ्र् िद्यर्ज्ज्ञिानस्य कारणत्वं लोके क्लृप्तम्।अत्रैवातिरित्तकार्यकारणभावकल्पने मानाभाव एव। अतो विषयिता
र्बिं्र्र्म्र्âििर्ळ्™िरर््िेब्र्र्र्ििर्ुिग्र्र्द्यिर्ब्र्™िर्ब्र्र्श्व्र्œिििर्न्न्ुि—र्™िर्ळ्र्र्Œिििर्र्œििद्मर्द्यिब्र्र्˜िर्ज़र््िींक़ॄद्य™र्क़िर्œिद्मर्द्यिर्र्ब्र्र्झ्ञ्âिििन्न्क़द्यब्र्र्ाि ब्र्र्र्झ्™ििर्˜िर्ंि, द्यर्ˆिर्निं्न्श्व्र्र्ििंर् िर्बिं्र्र्िर्र्ििं™र्द्यिर्र्र्िििंब्र्र्म्र्âििर्ळ्™िरर््िेब्र्र् िरर््िैंब्र्र्ॄिर्दिं्वर् ि रर््िैं™र्र्âििठर्क़िद्यर्र्ब्र्र्झ्ञ्âिििन्न्क़द्यब्र्र्ाि र्फिंङर्र्ििंन्न्र्न्न्म्र्किि™र्द्यिर्र्ब्र्र्झ्ञ्âिििन्न्क़द्यब्र्र्ाि झ्र्।ि
इच्छासाधारणी विषयिता शब्दधर्म इति पक्षकथनम्
यदि तु निरुत्तविषयिताविशेषस्येच्छात्वव्याप्यत्वमेवेत्याग्रहः, तदा वैदिकलिङादिनिष्ठव्यापारस्यापि इच्छारूपत्वे न काचित्क्षतिः, गुणे ग्र्र्ुिद्मर्र्ििर्ज़र््िींक़र्œिळ्™र् िनिर्युत्तिकत्वेनाऽश्रद्धेयत्वात्, श्रद्धेयत्वेऽपि वा शब्दस्य द्रव्यत्वोपपत्तेः, जीवातिरित्तेश्वरेर्िंर्द्यि™र्âिझ्ञ्र्ज़र््िींक़र्œिब्र्र्र्ˆिेर्निं्न्क़म्र्–िन्न्âऽर्िंर् िर्िंर्द्यि™र्âिझ्ञ्र्ज़र््िींक़र्œिâ–र्र्Œििर्क़िर्—िर्र्ब्र्र्र्द्यििििर्ंि।
यदि त्विच्छात्वस्यात्मनिष्ठत्वव्याप्यत्वमेवेत्याग्रहः, तदा लिङादिवैदिकशब्दे श्रौतात्मशब्दप्रयोगाभावेनेश्वर इब्र्र्र्द्यिि˜र्द्यिब्र्र्र्ज़र््ििींक़र्œिâ ˜र्र्ििर्र्—ििर्र्ब्र्र्र्न्न्ुििििर्र्ििंर्िर्न्न्र्र्िििंन्न्रर््िैं˜र्र्द्मििर्ग्र्र्˜िि™र्˜िरर््िींय्र्र्œि˜र्ि™र्ज़र््िींक़ॄद्य™र् िद्यर्र्ििंन्न्झ्ञर््ेब्र्र् िद्यर्द्विर्न्न्र्क़ििर्र्ििंœक़र् िब्र्र्âिन्न्â र्फिंङर्†िन्र्र्ििळ्द्यर्र्द्यििर्™िर्ििžर्र् ििझ्र् ि ब्र्र्âिन्न्ळ्न्र्र्र्ििंफङर्र्ििंन्न्–र्र्âििŒ™र्द्यिब्र्र्र्र्िििंन्न्र्दिं्यर् िळ्र्ब्र्र्िििन्र्र्र् ििर्âिरळ्र्र्Œििर्िर्द्यिब्र्र्र्र्िििंन्न्क़ा र्बिं्र्र्Œि™र्न्र्र्ििि:। ब्र्र्ळ्द्यिर्ुिद्यर्ळ्द्यिर्ुि इझ्ञ्र्द्यिब्र्र्ाि ठर्र्र्िििंद्यर्œिâब्र्र् िर्फिंङर्र्ििंन्न्म्र्कि™र्द्यिर्र्ब्र्र्झ्ञ्âिििर्निं्न्क़र्,ि
फर्घ्र्र्ब्र्र्र्द्यििििर्ंि।र्बिं्र्र्म्र्âििर्फिर्—िर्:ि र्Üिब्र्र्ििब्र्र्द्यिर्ंि। ब्र्र्âिन्न्â द्यब्र्र्फिरर््िेर्क़िंक़रर््िैंâœद्मर्र्™ििर्र्ािि फख़्र्द्मिर्™िर्र्,िि अ™र्द्यिळ्र्ब्र्र्िििं र्Üिब्र्र्ििब्र्र्र्ििंन्न्द्य™र्र्ििंर् िब्र्र्द्विर्ुिा म्र्कि™र्˜िर्ंि।
र्िंर्िर्âिŒर्ब्र्र्र्कििि™र्âिर्ुि र्फिंङन्र्र्ििर्िंर्žिर्द्मिर्˜िर्ंि
एवं "चैत्रो न पचेत्, न कलञ्जं भक्षयेत्"इत्यादौ नञ्समभिव्याहृत लिङादिस्थलेऽपि न तावद्बलवदनिष्टाननुबन्धित्वं लिङर्थः, तदभावो नञाबोध्यत इति पक्षस्सुवचः, पूर्वमेव निरस्तत्वात्। नापि अनिष्टसाधनत्वे लिङो लक्षणा, नञ्पदं तात्पर्यग्राहकमिति नवीनतार्किकमतं युत्तम्।"ज्योतिष्टोमेन न यजेते"ति लौकिकवाक्यस्य प्रामाण्यापत्तेः, श्रुत्या स्वर्गसाधनत्वावगमेपि तात्कालिकानिष्टसाधनत्वस्य यागे बाधाभावात्। नहि नरकादिरूप- कालान्तरभाव्यनिष्टजनकत्वमेव निषेधार्थ इत्यत्र प्रमाणमस्ति, अÏग्न न स्पृशेदित्यादि लौकिकवाक्ये
व्यभिचारात्। "नातिरात्रे षोडशिनं गृह्णाति"इत्यादावुभयथापि व्यभिचाराच्च। यदि हि तात्कालिकानिष्टसाधनत्वं तत्र निषेधार्थः, तदा तस्य प्रमाणान्तरसिद्धानुवादकत्वेऽपि "अतिरात्रे षोडशिनं गृह्णाती"त्यनेनेष्टसाधनत्वस्य बोधात् र्क़ैद्यब्र्र्ज़्द्यिर्™िर्र् ििर्िंर्द्यि™र्ब्र्र्द्यििक़œद्मर्र्ििर्र्ििंद्वर्:ि। अन्र्र् िद्यर्ध्र्र् ििब्र्रर््िे™र्न्र्™िर्ििर्—िंर्™िर्र् ििर्क़ैद्यर्ुिब्र्रर््िेग्र्र्ुिद्म™र्žिर्र् िि र्िंर्रिळ्र्र्Œििर्िर्द्यिब्र्र्˜िर्âिब्र्र् ि"र्र्ििर्ॄिद्यर्ाि ब्र्र्न्न्âिर्निं्न्"र्दिं्यर्ब्र्र्द्वििर्न्न्न्र्र्ििि:, द्यर्न्नर््िेक़ळ्™रर््िेब्र्र् िर्क़ैद्यर्ुिळ्र्र्प्ुििद्म™र्-िद्यर्र्ˆिेग्र्र्ुिद्म™र्ठिर्िर्क़िद्यब्र्र्र्ििंब्र्र्œिर्âिŒर्:ि। अन्र्र् िर्बिं्र्र्œिर्âिŒर्िर्र्ििंœश्व्र्œिर्न्र्र्िििं ब्र्रर््िेग्र्र्ुिद्म™र्र्ििर्âिख़्र्™िर्र् ििळ्र्र्प्ुििद्म™र्र्र्िििंŒर्कि™र्ाि क़Ÿ™र्âिद्यर्।ि द्यर्न्न्र् ििद्यर्र्द्यििक़र्र्ििंफक़र्र्ििंर्रिळ्र्र्Œििर्िर्द्यिब्र्र्ब्र्र्न्न्ंिि ब्र्रर््िेग्र्र्ुिद्म™र्ळ्™िर्र्र्िििंर् िर्र्ििद्यर्र्œिीं™र्क़िद्यब्र्र्र्ििर्द्विर्âिÏर्द्यि™र्ब्र्र्द्यििक़œद्मर्र्ििर्र्ििंद्वर्:ि। अळ्˜र्ि˜र्द्यिर्âि द्यर्ुि ब्र्र्ख़्™िर्˜िर्र्ििर्र्œिींद्य™र्र् ििरर््िैंब्र्र्ॄिद्य™र्—िर्र्ब्र्र्िििरर््िैं™र्र्âििठर्क़ि रर््िैंब्र्र्ॄिर्दिं्वर्ळ्र्र्˜िििर्ग्र्रर्र््ििैंींर्बिं्र्र्घ्र्र्ण्ििर्र्™ििर् िर्र्âििदर्मिं्र्ग्र्रर््ििैंश्व्द्मर्र्—ििर्र्ब्र्र्âिििरर््िींद्यर्œिर्ज़र््िेरेव क्रतुमहोपकारसिद्ध्यनुमितेरेव तत्र संसर्गघटकतयोत्तविधानुमित्या
प्रवृत्यभावोपपत्तौ तत्रानिष्टसाधनत्वाननुमानात्। अत एव विध्युत्तरनिषेधे सर्वत्र विधिप्रमितेष्टसाधनत्वाभावस्यैव बोधनात्, द्वयोर्वैदिकत्वे प्रयोगभेदेन प्रामाण्योपपत्तावपि श्रौतविधिविरोधे लौकिकवाक्यस्याप्रामाण्यं नानुपपन्नम्।
तार्किकाभिमतपूर्वोत्तनिषेधवाक्यर्थमनूद्य निराकरणम्
एतेनेष्टोत्पत्तिनान्तरीयकदुःखाजनकत्वमेव शक्त्या, लक्षणया वा नञ्समभिव्याहारे लिङाद्यर्थः। तदभावस्तादृश दुःखजनकत्वरूपो बलवदनिष्टानुबन्धित्वं नञर्थः। तस्य च धात्वर्थेऽन्वयः। नातो लोकिकवाक्यस्य प्रामान्यापत्तिर्निर्मूलत्वादित्यपास्तम्, "नातिरात्रे षोडशिनं गृह्णाती"त्यादावपि तदापत्तेः।
पूर्वोत्तपक्षेषु न्यायमते दोषापादनम्, स्वमते तदभावोत्तिश्च
किञ्चेतेषु सर्वेष्वपि पक्षेषु रागिणः कलञ्जभक्षणवर्तमानतावेलायाम्, "चैत्रः कीदृशः"इति प्रश्ने इष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखजनककलञ्जभक्षणानुकूलकृतिमानित्युत्तरवन्न "कलञ्जं भक्षयेदि"त्युत्तरवत्तु-
रसम्बन्धप्रलापित्वानापत्तिः। श्येनवर्तमानतादशायां च श्येनेन न यजेतेत्युत्तरापत्तिः। अस्मन्मते तु वक्ष्यमानरीत्या
लिङर्थस्येच्छायाः स्वज्ञानविशेषजन्यानुमितिसम्पादितप्रवृत्तिसामग्र्याभावकालीनाभावप्रतियोगित्वसम्बन्धेनाख्यातार्थे
कृतावन्वयान्न तदापत्तिरिति वैषम्यम्।
किञ्च "चैत्रः कीदृशः"इति प्रश्नस्य नैवेदमुत्तरम्, प्रथमान्तमुख्यविशेष्यकत्वाभावात्। "कीदृशशी
कृतिरि"त्यस्यापि नोत्तरम्,लिङ्गधर्मितावच्छेदकप्रश्ने तदनालिङ्गितोत्तरस्याऽसम्बद्धत्वात्। अत एव कीदृशी
कृतिरिति प्रश्नस्यापि "चैत्रः पचति, न पचती"त्यादि नैवोत्तरम्, र्फिंज़्र्िर्र्र्िििंफर्ङिंद्यर्द्यिब्र्र्र्द्यििर्ंि।अत एव कृतिमुख्यविशेष्यकत्वमेव —र्त्ळ्र्˜िि˜र्द्यिर्˜िर्ंि। रर््िैंन्र्र्˜िर्र्ििद्यर्˜िर्ुिख्र्™र्र्ििंब्र्र्म्र्âिि™र्क़िद्यब्र्र्âि तादृशोत्तरस्यासम्बद्धत्वानापत्तेः।
अतो नञ्समभिव्याहारस्थले प्रवर्तनावन्निवर्तनापि निवृत्तिप्रयोजकतया अभ्युपेया, आचार्योपदेशादहं निवृत्तः,न स्वतः, न वाऽन्योपदेशादिति व्यवहारदर्शनात्। निवर्तनात्वञ्च प्राचां मते प्रवर्तनात्ववदेव निवृत्तिजनकव्यापारत्वादिरूपं भिन्नं बोध्यम्। तदवच्छिन्नं च लोके इच्छा, वेदे चाऽलौकिको धर्मः इत्यादि सर्वं
पूर्ववत्।शक्ततावच्छेदकञ्च तस्या नञ्पदत्वम्।प्रवर्तनावाचकञ्च लिङादिपदं तात्पर्यग्राहकम्, इतरथा न पचति
चैत्र इत्यादौ नञ्पदादत्यन्ताभावस्यैव बोधात्।लिङा वा निवर्तनोच्यते, नञ्पदं तु प्रवृत्यभावानुवादकं सत्तात्पर्यग्राहकमित्यादि प्राचीनमतं कौस्तुभ एव व्यत्तम्।
नञ्समभिव्याहृतलिङर्थविषयकशाब्दबोधस्यान्यथोपपादनम्
वस्तुतस्त्वनेकशत्तिकल्पनापत्तेर्न प्रवर्तना-निवर्तनयोः पृथक्शत्तिः, प्रवृत्यभाव-निवृत्योर्वा भेदः, प्रमाणाभावाद् गौरवाच्च।अपितु आख्यातस्य कृतावेव , नञोऽभाव एव .लिङादेः प्रवर्तना - निवर्तनासाधारण व्यापारादावेव। शक्यतावच्छेदकं च पूर्ववदतिप्रसत्तमनतिप्रसत्तं वा प्रवर्तना-निवर्तनासाधारणमेकमेव। यदि तु प्रवर्तना-निवर्तना साधारण्येन नैका विषयितेत्याग्रहः, तदाऽस्तु निवृत्तिविषयित्वावच्छिन्ने लिङादेर्लक्षणा, नञ्पदं तात्पर्यग्राहकमिति। तस्य च लिङर्थस्य स्वविषयकज्ञान विशेषजन्यानुमिति प्रयोज्याभावप्रतियोगित्व संसर्गेणाख्यातार्थे कृतावेवान्वयः,
नञ्पदञ्च संसर्गविशेषेपि तात्पर्यग्राहकम्। अतो निरुत्तसंसर्गेण व्यापारवती कलञ्जभक्षणकरणिका कृतिरिति शाब्दबोधेवृत्ते संसर्गस्य तत्वेन भानं पूर्ववत्। अत्र हि निवारणाविषयकज्ञानात् "कलञ्जभक्षणादयं निवर्ततामि"त्याकारकाप्तेच्छाविषयीभूताभावप्रतियोगिकृतिविषयत्वरूपहेतुज्ञानम्, तेन कलञ्जभक्षणेऽनिष्टसाधनत्व अनुमितिर्जायते।
विहित-निषेधवाक्येषु शाब्दबोधे विशेषवर्णनम्
एवं "नातिरात्रे षोडशिनं गृह्णाती"त्यादौ विहितनिषेधे तादृशोत्तविधहेतुज्ञानात् षोडशिग्रहणेऽतिरात्रानुपकारकत्वानुमितिद्वारा तद्व्यतिरेकेणैवेतराङ्गैः क्रतूपकारसिद्देरप्यनुमानम्, उत्तानुनितेश्च प्रवृत्तिसामग्रीविघटकतया प्रवृत्यभावप्रयोजकत्वम्। तथाहि- यत्रानिष्टसाधनत्वानुमितिः, तत्र प्राचीन कर्मवशाद्वेषगत बलवत्वे सति बलवदनिष्टानुबन्धित्वज्ञानरूपप्रतिबन्धकसम्पादनात्तदभावधटितसामग्रीविघटनम्।
नञर्थान्वयनिष्कर्षः
यद्यपि चोभयत्रापि प्रतिबन्धकसंसर्गाभावस्यात्यन्तावादिरूपस्य नित्यतया नानुमितिनाश्यत्वम्, तथापि प्रतियोगिसत्वस्याभावसम्बन्धनाशकत्वादभावीयविशेषणतासम्बन्धरूपस्य कारणतावच्छेदकसम्बन्धस्य प्रतियोगिसत्वे नाशात्तस्याः प्रवृत्तिसामग्रीविघटकत्वं सुलभमेव। अतश्च लिङर्थस्य स्वविषयकज्ञानजन्यानुमिति
जन्यस्वनिरूपितकारणतावच्छेदकीभूतसम्बन्धनाशकालीनाभावप्रतियोगित्वसंसर्गेणाख्यातार्थकृतावन्वय इति फलितोऽर्थः। प्रथमस्वपदं लिङर्थपरम्। द्वतीयस्वपदं प्रवृत्तिपरम्। अत्र च दैववशसम्पन्नप्रवृत्तिसामग्र्यत्यन्ताभाव
कालीनप्रवृत्यभावदशायां "न कलञ्जं भक्षये"दिति प्रयोगापत्तिवारणायेत्तं सम्बन्धनाशकालीनेति। यत्र कलञ्जभक्षणमनिष्टसाधनमिति वाक्यादनिष्टसाधनत्वादिशाब्दबोधः, तत्र तज्जन्यसम्बन्धनाशकालीनाभावदशायां
उत्तप्रयोगापत्तिवारणाया नुमितिजम्येति नाशविशेषणम्। अनिष्टान्वय-व्यतिरेकानुविधायित्वादिहेत्वन्तरज्ञानजन्य
अनिष्टसाधनत्वानुमितिजन्यसम्बन्धनाशकालीनप्रवृत्यभावदशायां तादृशप्रयोगापत्तिवारणाय स्वविषयकेत्यादि।
अत्र निरुत्ते सम्बन्धेन निवारणाप्रयोज्याभाववर्तमानतादशायां तादृशप्रयोगापत्तिः, अतस्स्वविषयकज्ञानमपि स्वध्वंसासमानकालीनस्वज्ञानोपधेयमेव विशिष्य तत्तद्व्यत्तित्वेन प्रविष्टमिति ज्ञापनाय विशेषपदम्। अत्र प्रथमस्वपदं प्रवृत्तिकारणतावच्छेदकीभूततत्तत्सम्बन्धिपरम्। द्वितीयस्वपदन्तु पूर्ववल्लिङादितत्तद्व्यत्तिपरम्। तेन
निरुत्तसम्बन्धध्वंसासमानकालीनलिङादिज्ञानोपधेयहेतुज्ञानजन्यानुमितिजन्येत्यादिः फलितोऽर्थः। एवञ्चानुमितित्वस्य विशिष्याप्रवेशेपि न क्षतिः। तत्सिद्धं निवारणरूपस्य लिङर्थस्यानेन सम्बन्धेन आख्यातार्थ
कृतावन्वय इति, नञ्पदं तु स्वार्थस्याभावस्य प्रतियोगितासंसर्गेणाख्यातार्थकृतावन्वयानुवादकं सल्लिङाद्यर्थ
तात्पर्यग्राहकमिति सर्वमनाकुलम्।
तत्सिद्धं प्रवर्तना-प्रेरणा-विध्यपरपर्यायभूता भावना नञ् रहितेवाक्येलिङाद्यर्थः। तत्सहिते तु निवर्तना- निवारणा-निषेध-प्रतिषेधापरपर्याया, सैव च शब्दनिष्ठत्वाद्वेदे शाब्दीभावनेत्युच्यते।तत्तच्छत्ततावच्छेदकं तु लिङ्त्वं लोट्त्वञ्च, न तु तव्यत्वादिकमपि, तेषां"प्रैषातिसर्गप्राप्तकालेषु कृत्याश्चे"ति स्मृत्या प्रैषाद्यर्थकत्वेन विध्यर्थकत्वास्मृतेः। प्रमाणान्तरप्रमितेऽर्थे पुरुषनिष्ठा पुरुषप्रवर्तना-प्रैषः। अतिसर्गः - कामचारः। "स्वाध्यायोऽध्येतव्यः" इत्यादौ तु अप्राप्तार्थत्वात्प्रैषबाधेन विधौ लक्षणेति साम्प्रदायिकाः।लिङाद्यादेशत्वं वा शत्ततावच्छेदकम्, श्रूयमाणत्वात्।
शाब्दीभावनाया अंशत्रयनिरूपणम्
अस्याश्च शाब्दभावनाया अर्थभावनावदेवांशत्रयमिति व्यवहरन्ति। तत्र प्रवृत्ति-निवृत्त्योर्यथाक्रमं विधि-निषेधप्रयोज्यत्वात्पुरुषार्थानुबन्धित्वाच्च भाव्यत्वम्। लिङादिजन्यविधिनिषेधज्ञानाञ्च भाव्यप्रयोजकत्वात् करणम् अस्य च करणत्वेन व्यवहारमात्रम्, न तु तस्य शाब्दबोधे करणत्वेनान्वयः, अशाब्दत्वात्। एवं प्राशस्त्याप्राशस्त्य ज्ञानं यथाक्रमं विधि-निषेधयोरितिकर्तव्यता, तदपि वस्तुत एव , न तु शाब्दबोधेऽन्वयः,
अशाब्दत्वादेव। ते च प्राशस्त्याप्राशस्त्ये तत्तद्विधि- निषेधसन्निधिपठितार्थवादैर्लक्षणया प्रतिपाद्येते।
अर्थवादप्रतिपाद्यप्राशस्त्याप्राशस्त्यस्वरूपविचारः
ननु किमिदं प्राशस्त्यम्, अप्राशस्त्यं वा, न तावद्गुणवत्वम्, दोषवत्त्वं वा, गुण-दोषत्वयोरेव निर्वत्तुमशक्यत्वात्। न हि "वायुर्वै क्षेपिष्ठा देवता""अपशवो वाऽन्ये गोश्वेभ्यः"इत्यादौ वायुक्षेपिष्ठत्वादिकं गुणः,अपशुत्वंगवाश्वगत प्राशस्त्याभाववत्त्वं वा दोषः। तज्ज्ञानस्य प्रवृत्ति-निवृत्तित्वावच्छिन्नं प्रति व्यभिचरितत्वेन अनुपगोगित्वात्, क्षेपिष्ठत्वादेः शक्त्यैवोपस्थितत्वेन लाक्षणिकत्वसिद्धान्तभङ्गापत्तेश्च। नापि स्वर्ग नरकादिजनकत्वे, स्वर्गादिपदसमभिव्याहारादेव
तत्सिद्धावर्थवादवैयथ्र्यापत्तेरिति चेत्, क्रियाजन्यदुःखापेक्षया अधिकेष्टसाधनत्वं प्राशस्त्वम्। तज्जन्यसुखापेक्षयाधिकानिष्टजनकत्वमप्रशस्तत्वमित्येवंविधयोस्तयोरुपपत्तेः। न ह्ययमर्थोऽन्यतस्सिद्धः, विधिनेष्टानिष्टसाधनत्वमात्रस्यैवाक्षेपात्।
आर्थवादिकप्राशस्त्यज्ञानादेरावश्यकत्वनिरूपणम्
अत एव यत्र नार्थवादः पठितः, तत्र विधिना तदाक्षिप्यत एव। न चैवंविधतज्ज्ञानस्य प्रवृत्ति- निवृत्त्योः अनुपयोगः एवंविधज्ञानाभावेऽपि प्राचीनकर्मवशेनैव तात्कालिकसुख-दुःखयोरुत्कटराग-द्वेषसत्वे प्रवृत्ति-निवृत्त्योरुदयसत्त्वात्, एवंविधज्ञानसत्त्वेऽपि च प्राचीनकर्मवशेनैव प्रवृत्ति-निवृत्त्योरनुदयाच्चेति वाच्यम्। तथात्वेऽप्येवंविधज्ञानसत्वे क्रियाजन्यतात्कालिकदःखापेक्षयाऽधिकेष्टे प्रायशो लोके वेदे वा सर्वेषां पुरुषाणामुत्कटरागदर्शनेन, तात्कालिक सुखापेक्षयाऽधिकेदुःखे उत्कटद्वेषदर्शनेन च तज्ज्ञानस्य रुच्यरुच्यात्मकोत्कटराग-द्वेषोपयोकित्वस्य सर्वसिद्धत्वात्। क्वचिदेव तु प्राचीनकर्मणः औत्कट्ये तत्सत्त्वेऽपि तदभावः, न तु सर्वत्र। अत उत्कटप्राचीनकर्माभावे उत्तविधप्राशस्त्याप्राशस्त्यज्ञानस्य उत्कटराग-द्वेषजनकत्वात् तद्द्वारा प्रवृत्ति-निवृत्त्योरुपयोगः। न चैवं यस्य स्वत एव रुच्यरुची, तं प्रति प्राशस्त्याप्राशस्त्यज्ञानस्यानुपयोगेन सर्वान् पुरुषान्प्रत्यनुपयोग इति वाच्यम्, सर्वपुरुषान्प्रत्यनुपयोगेपि पुरुषविशेषं प्रत्युपयोगेनैवार्थवादप्रामान्योपपत्तेः। स्वतस्सिद्धस्मरणवतो मन्त्रजन्यस्मरणस्यानुपयोगेपि मन्त्राम्नानवशेन तज्जन्यस्मरणस्य अभ्युदयकारित्व कल्पनवदर्थवादाम्नानबलेन तद्बोधितप्राशस्त्याभ्युदयकारित्वकलपनयोपपत्तेश्च। एवंविधप्राशस्त्यादेश्च लक्षणयैवार्थवादैः प्रतिपादनात् लाक्षणिकत्वसिद्धान्तस्यापि न भङ्गः। सा च वाक्यलक्षणायां बाधकाभावार्थवादस्थपदसमुदाये,एकस्मिन्नेव वा पदे लक्षणा, इतरपदानि तात्पर्यग्राहकाणीत्यन्यदेतत्।
प्राशस्त्यादेरन्वयप्रकारः
तच्च प्राशस्त्यमप्राशस्त्यं वा इतिकर्तव्यतात्वसम्बन्धेन शाब्दभावनायामन्वेतीति बहवः। स्वरूपसम्बन्धेन धात्वर्थादावेवान्वेतीति केचित्। वस्तुतस्तु वक्ष्यमाणरीत्याऽन्यसुबन्तार्थवदेककार्यकारणभावकल्पनालाघवानुरोधेन
प्राशस्त्यस्य स्वविषयकज्ञानजन्येष्टविषयकोत्कटरागजन्यत्वसम्बन्धेनप्रवृत्तौ,अप्राशस्त्यस्य स्वविषयक ज्ञानजन्यानिष्टविषयकोत्कटद्वेषप्रयोज्याभावप्रतियोगित्वसम्बन्धेन प्रवृत्तावेवान्वयः। न चैवं प्रधानार्थवादेनैव क्रियाजन्यतात्कालिकदःखापेक्षया स्वफले आधिक्यसिद्धौ अङ्गार्थवादवैयथ्र्यम्,प्रधानजन्यफलापेक्षया अङ्गजन्य फलस्यभेदाभावात्, क्रतूपकारे चाधिक्यासम्भवादिति वाच्यम्। तत्तदङ्गजन्यतात्कालिकदुःखकूटापेक्षया प्रधानफले आधिक्यबोधनार्थत्वात्। अतो विध्यर्थवादेषु प्रकृष्ट फलकत्वरूपप्राशस्त्यलक्षणा, निषेधार्थवादेषु च प्रकृष्टदुःखजनकत्वरूपाप्राशस्त्यलक्षणेति मूलग्रन्थोन्नीतः पन्थाः।
स्वाभिमतप्राशस्त्याप्राशस्त्यस्वरूपकथनम्
वस्तुतस्तु-अभ्यनुज्ञाविध्यर्थवादेषु "नातिरात्रे षोडशिनं गृह्णाति"इत्यादिनिषेधार्थवादेषु च नैवंविधप्राशस्त्य अप्राशस्त्यलक्षणासम्भवः। न हि "हुतायां वपायां दीक्षितस्यान्नमश्नीयादि"त्यत्र क्रियाजन्यानिष्टापेक्षया तृप्त्याख्यस्य फलस्याधिक्यं बोधयितुं शक्यम्। निषेधप्रमितानिष्टस्याधिक्यावश्यम्भावात्। क्रियाजन्यतात्कालिक दुःखापेक्षयाऽऽधिक्यस्य लोकसिद्धत्वेन निषेधसत्वे तज्ज्ञानस्य प्रवृत्त्यनुपयोगित्वात्। षोडशि ग्रहणजन्य सुखापेक्षया
तज्जन्यदुःखस्याधिक्यं नैव सम्भावयितुं शक्यम्। अपि च श्येनार्थवादे श्येनजन्यतात्कालिक दुःखापेक्षया यद्यभिचाराधिक्यं बोध्यते , तदा तज्ज्ञानस्य नैव प्रवृत्युपयोगित्वम्। श्येनप्रयोज्यनरकादि दुःखापेक्षयाऽधिक्यं तु नैव बोधयितुं शक्यम्। "न हिंस्या"दिति निषेधार्थवादेन तस्याभिचारापेक्षया आधिक्यबोधनाच्च।
अतो विध्यर्थवादेषु विधेयतावच्छेदकसामानाधिकरण्येन बलवदनिष्टाननुबन्धित्वरूपं प्राशस्त्यं लक्ष्यते। निषेधार्थवादेषु च निषेध्यतावच्छेदकसामानाधिकरण्येन बलवदनिष्टानुबन्धित्वरूपमप्राशस्त्यम्। अत्रानिष्टे
बलवत्त्वमुत्कटद्वेषविषयत्वम्, नत्वाधिक्यम्। स्वर्गन्यूनेपि तात्कालिकदुःखे प्राचीनकर्मवशेन कादाचिदुत्कट द्वेषोदयात् अत एव नैव तदा यागादौ प्रवर्तते। नरकन्यूनेऽपि च तात्कालिकसुखे प्राचीनकर्मवशेनोत्कट द्वेषोदयाच्च। अत एवाभिचारादौ प्रवर्तते। अत एव यागादौ कदाचित् प्राचीनसुभकर्मवशात् बलवदनिष्ट अननुबन्धित्वम्, न तु सर्वदा। अत एव विधेयतावच्छेदकसामानाधिकरण्येनेत्यनेन तस्य कालिकाव्याप्यवृत्तित्वं विवक्षितम्।
एवं कलञ्जभक्षणादौ कदाचिदेव शुभकर्मवशाद्बलवदनिष्टानुबन्धित्वज्ञानम्। अतस्तत्रापि कालिक अव्याप्यवृत्तित्वसिध्यर्थं निषेध्यतावच्छेदकेत्यादि। एतादृसाव्यप्यवृत्तित्वज्ञानार्थमेव कौस्तुभादौ योग्यतापदम्।
प्राशस्त्याप्राशस्त्यज्ञानयोरुपयोगः
एवंविधबलवदनिष्टाननुबन्धित्वज्ञानस्य च येन पुरुषेण यागे सर्वदैव बलवदनिष्टानुबन्धित्वं बुद्धम्, तं प्रति तद् वृत्तिज्ञानेऽप्रामान्यज्ञानसम्पादकतयोपयोगः। येन च कलञ्जभक्षणे बलवदनिष्टाननुबन्धित्वं सर्वदैव बुद्धम्, तं प्रति तद्वृत्तिज्ञानेऽप्रामान्यज्ञानसम्पादकतया एवंविधबलवदनिष्टानुबन्धित्वज्ञानस्योपयोगः, अवच्छेदकावच्छेदेन तद्वत्ताबुदिं्ध प्रति सामानाधिकरण्येन तदभाववत्तानिश्चयस्य विरोधित्वात्। अतश्चैतादृश प्राशस्त्यज्ञानस्य सामग्रीसम्पादनद्वारा प्रवृत्तावुपयोगः। तादृशाप्राशस्त्यज्ञानस्य च प्रवृत्तिसामग्रीविघटनद्वारा निवृत्तावुपयोगः।
सम्भवति चेदमभ्यनुज्ञाविध्यर्थवादे वपाहोमोत्तरदीक्षितान्नभोजनस्यनिषेधप्रयुत्तानिष्टाननुबन्धित्वज्ञापनात्। न च तस्यदोषाभावरूपस्य विधिनैवाक्षेपात् कृतमर्थवादेनेति वाच्यम्, तेन तदाक्षेपेऽपि सामानाधिकरण्येन बलवदनिष्टाननुबन्धित्वस्यार्थवादेन बोधनोपपत्तेः।
एवं षोडशिग्रहणनिषेदार्थवादेऽपि ग्रहणजन्ये तात्कालिके स्वल्पेऽपि दुःखे सामानाधिकरण्येनोत्कट द्वेषविषयत्वाख्यं बलवत्वं बोध्यत इति, न काचिदनुपपत्तिः।
स्तुति निन्दयोरर्थवादपदैः लक्षणाप्रकारः
अत एवंविधे स्तुति-निन्देक्वचित् "वायुर्वैक्षेपिष्ठे "त्यादावर्थवादपदैः स्वशक्यार्थज्ञानजन्य शाब्दबोधविषयीभूत वाक्यार्थसम्बन्धादेव लक्ष्येते। स च वाक्यार्थः-क्षेपिष्ठत्वादिगुणको वायुस्स्वदेवताकर्मजन्यं फलं शीघ्रं प्रयच्छतीत्येवंरूपः। अत्र हि "स एव "इत्यत्रैवकारस्य वैयथ्र्यपरिहारार्थं गमयत्येवेत्येवं योजना।
ततश्च तेनोदासीन्यस्यापि व्युदासाद्दाने शीघ्रत्वादिप्रतीतिः। शाब्दबोधश्च तात्पर्याविषयीभूत एव जन्यते, गङ्गापदेन प्रवाहोपस्थितिवत्। फलगतशैघ्र्यज्ञानस्य च प्रायशः फले रागौत्कट्यजनकत्वदर्शनात्तत्सम्बन्धसत्वेन
स्तुतिलक्षणासिद्धिः।एवमन्यत्राप्यूह्यम्।
गौणार्थकार्थवादैः स्तुतिलक्षणाप्रकारः
यत्र त्वयोग्यतानिश्चयसत्त्वे नैतादृशशाब्दबोधः। यथा- "यजमानः प्रस्तरः"इत्यादौ अभेदान्वयस्य बाधितत्वात्, तत्र यजमानपदं यजमानकार्यकारित्वसमानजातीयकार्यकारित्वरूपगुणयोगेन प्रस्तरे गौणमङ्गीकृत्य "यजमानः प्रस्तरः" इति वाक्यजन्यशाब्दबोधोत्तरं स्वकार्यकर्तृत्वरूपवाक्यार्थसम्बन्धात्तेनवाक्येन बलवदनिष्टाननुबन्धित्वरूप स्तुतिलक्षणा। न च यजमानपदे गौणीमङ्गीकृत्यैव बलवदनिष्टाननुबन्धित्व लक्षणामङ्गीकृत्य तस्य प्रस्तरेऽन्वयः किं न स्यादिति वाच्यम्, यजमानपदस्य प्रस्तरवृत्तिनिरुत्तस्तुतिलक्षणायां शक्यसम्बन्धाभावात्। अस्मन्मते सुबन्तयोः परस्परसम्बन्धाभावेन प्रस्तरेऽन्वयानुपपत्तेश्च। न चैवं
तात्पर्याविषयीभूतशाब्दबोधदशायां गौण्या वृत्त्या उत्तस्य स्वकार्यकारित्वविशिष्टस्याप्यभेदसम्बन्धेन प्रस्तरेऽन्वयानुपपत्तिः, अध्याहृताऽस्त्याख्यातार्थ एवोभयोरण्वयेन परस्परान्वयस्य पाÐष्टकत्वात्। तस्मादध्याहृताख्यातपदेन वाक्येन शाब्दबोधे जनिते पश्चात्तल्लक्षितप्राशस्त्यस्य विधावन्वयः।
न चैवं पश्चादपि यजमानपदेनैव प्राशस्त्यवन्तं लक्षयित्वा तस्य पाÐष्ठकान्वयलभ्य परस्पर सम्बन्धाङ्गीकारेण अध्याहृताख्यातार्थ एव उभयान्वयो भवतु, पूर्वमेव यजमानपदे गौणीगर्भां स्तुतिलक्षणाम् अङ्गीकृत्य तदन्वयोपपत्तेः। एक एव वा शाब्दबोधोऽस्तु, कृतं विध्यन्वयेन, वाक्यैक्यवाक्यतयैव तदाकांक्षित पूरणोपपत्तेरिति वाच्यम्, वाक्ये लक्षणामङ्गीकृत्यैकवाक्यत्वे सम्भवति वाक्यभेदस्यान्याय्यत्वात्। न चास्मदुत्तरीत्याऽध्याहृताख्यातार्थान्वयेऽपि "पश्य मृगो धावती "तिवदेकाख्यातार्थस्य विध्याख्यातार्थे प्रकारतया अन्वयेनाप्येकवाक्यतोपपत्तिः। आख्यातार्थस्य मुख्यविशेष्यत्वव्युत्पत्तिभङ्गभयेन "स्योनं ते"इतिवदाख्यातद्वयसत्त्वे भिन्नवाक्यस्यैवापातात्। अन्यथा प्रयाजाद्यङगभावनाया अपि इतिकर्तव्यतात्वेन प्रधानभावनान्वयापत्तेः सर्वस्याप्येकवाक्यतापत्तिः। "पश्य मृगो धावती "इत्यादौ तु पश्येत्यस्य कर्मान्वयं विना शाब्दबोधाजनकत्वाद्युत्तो धावनभावनायाः कर्मत्वेन तस्यामन्वयः। न हि कर्मान्वयं विना शाब्दबोधापर्यवसानवदितरकारकान्वयं विना तदपर्यवसानम्, वाक्यमात्रस्य साकाक्षत्वापत्तेः। तस्माद्यजमानपदमात्रे प्राशस्त्यलक्षणामङ्कीकृत्य अध्याहृताख्यातार्थेऽन्वयाङ्गीकारे वाक्यभेदापत्तेर्वाक्ये लक्षणाङ्गीकरणम्।
अर्थवादानां विधिभिः क्वचित् वाक्यैकवाक्यत्वपक्षस्वीकारः
वस्तुतस्तु आख्यातद्वयसत्वे वाक्यभेदस्यादोषत्वेन वाक्यलक्षणायां प्रमाणाभावः। तेन "यजमानः प्रस्तरः"इत्यादौ वाक्यैकवाक्यत्वेऽपि न काचित् क्षतिः। "जर्तिलयवाग्वा वा जुहुयादि"त्यादावपि प्राशस्त्यलक्षणया पयोहोमविध्येकवाक्यतानापत्तेर्भिन्नवाक्यतापत्तिः। तत्र वाशब्देनैकवाक्यत्व प्रतीतेः। "एकं वृणीत"इत्यादावपि
विधायकतया भिन्नवाक्यत्वस्य विकल्पापादकतयाऽनुपपत्तेः, अगत्या वाक्ये प्राशस्त्यलक्षणयापि एकवाक्यत्वाङ्गीकरणम्। न हि तत्र "यजमानः प्रस्तरः" इतिवदेकस्मिन्पदे लक्षणामङ्गीकृत्य
लक्षित प्राशस्त्यस्योत्तरपदार्थेऽन्वयः सम्भवति। अतस्तत्र वाक्य एव लक्षणा। तेन यत्रैकस्मिन्पदे प्राशस्त्यलक्षणामङ्गीकृत्य तस्येतरपदार्थान्वयमङङ्गीकृत्य वाक्यार्थ पर्यवसानम्, तत्रार्थवाद - विध्योर्वाक्यैकवाक्यता। यत्र तु न तथा, तत्र सर्वत्र वाक्य एव प्राशस्त्यलशक्षणामङ्गीकृत्य पदार्थविधयोपस्थितस्य विध्याख्यातार्थे एवान्वयाद्विध्यर्थवादयोः पदैकवाक्यतैवेति युत्तमुत्पश्यामः त। तत्सिद्धं
लिङादिवाच्या शाब्दीभावना प्राशस्त्यज्ञानाद्यनुगृहीता इष्टसाधनत्वाद्याक्षेपमुखेन मुख्यविशेष्यभूतायामाख्यातार्थ कृतावन्वेतीति।
इति श्रीमादाचार्यखण्डदेवविरचिते भाट्टतन्त्ररहस्ये विधिवादस्समाप्तः।
अथ प्रथमान्तार्थमुख्यविशेष्यत्वनिरासमुखेन भावनावादः
तार्किकाभिमतप्रथमान्तार्थमुख्यविशेष्यकबोधस्यानुवादः
नन्वाख्यातार्थस्य कृतेर्मुख्यविशेष्यत्वे मानाभावः। तथाहि-तिङुपात्तैकत्वादिसंख्या तावन्याविशेषणीभूतप्रथमान्त पदोपस्थाप्ये चैत्रादावाश्रयतासम्बन्धेनावन्वेतीति तावदविवादम्। स च "चैत्र ओदनं पचती "त्यत्र कत्र्राख्याते चैत्रः, "ओदनः पच्यते चैत्रेणे "त्यत्र कर्माख्याते चौदन, तस्यैवान्यविशेषणत्वात्। इतरस्य कर्मत्वादिविशेषणत्वात् अत्र च "चैत्र इव गच्छति मैत्रः "इत्यादौ चैत्रे प्रतमान्तपदोपस्थाप्येऽपि न तिङुपात्तसंख्यान्वयः, तस्य इव शब्दार्थे सादृश्ये प्रतियोगिताकत्वसंसर्गेण विशेषणत्वात्, अपि तु मैत्रे एव। एत एव "चन्द्र इव मुखं, चन्द्रश्च भासत "इत्यत्रोभयत्र संख्यान्वयः। उभयोरप्यन्याविशेषणीभूतपदोपस्थाप्यत्वात्। भावाख्याते धात्वर्थस्यान्याविशेषणत्वात्तत्र संख्यान्वयवारणार्थं प्रथमान्तेति । अतश्च तद्वदेवाख्यातोपात्तार्थभावनाया अपि तस्मिन्नेवाश्रयतासम्बन्धेनान्वयः, न तु तस्य मुख्यविशेष्यत्वम्। कालादिव्यतिरित्ताख्यातार्थ प्रकारक
शाब्दबुद्धित्वावच्छिन्नं प्रत्युत्तविधप्रथमान्तपदजन्योपस्थितिः कारणमित्येककार्यकारणकल्पने लाघवादिति चेत्।
तन्निरासमुखेन भावनामुख्यविशेष्यकत्वस्योपन्यासः
उत्तप्रथमान्तार्थस्यैवाधेयतासम्बन्धेन कृतावन्यस्य कालादिवत्सम्भवेन तादृशकार्यकारणकल्पन एव नियामकाभावात्। न ह्याख्यातार्थभावनायाः प्रथमान्तार्थं प्रति प्रकारत्वेनैवान्वयबोध इत्यत्र नियामकं किञ्चिदस्ति
जैमिनि पाणिन्याद्यनुभवविरुद्धानुभवस्य शपथनिर्णेयत्वात्। "तद्भूतानां क्रियार्थेन समाम्नायः"इति जैमिनिना क्रियामुख्यविशेष्यकानुभवस्योत्तत्वात्। न चैवं गौतमानुभवोप्यस्ति।
तिङुपात्तसंख्याया नामार्थेऽनन्वयोपादानम्
किञ्च संख्याया अपि तिङुपात्ताया नैव नामार्थे चैत्रादावन्वयः, तस्य प्रथमोत्तसंख्याविरोधात्। न च तस्यास्साधुत्वार्थत्वान्नावरोधकत्वम्। एकपदोपात्तत्वप्रत्यासत्त्या झटित्युपस्थितस्य तस्यान्वयेन विलम्बोपस्थितायास्तिङुपात्ताया एव साधुत्वार्थकत्वौचित्यात्। न चैवं "चैत्रो मैत्रश्च गच्छतः"इत्यत्र द्वित्वान्वयानुभवानापत्तिः। द्वित्वान्वयानुभववत् सुपा प्रत्येकैकत्वान्वयानुभवस्याप्यपन्नोतुमशक्यतयाऽवश्यमेकस्या-
नुभवस्याशाब्दत्वे वाच्ये, पदान्तरोपात्तद्वित्वस्यैव तदौचित्यात्।
आख्यातलक्ष्ये कर्तरि संख्यान्वयोपपादनम्
वस्तुतस्तु तिङो लाघवानुरोधेन कृतौ शक्तावपि वक्ष्यमानरीत्या कत्र्रादेर्निरूढलक्षणया भानस्यावस्यकत्वात्तत्रचैक पदोपात्तत्वप्रत्यासत्त्या संख्याया अन्वयेन, न कुत्रापि तस्याः प्रथमान्तेऽन्वयः। अतश्च "एकपदोपात्तानामेकविशेष्य कत्वमौत्सर्गिकमि"ति न्यायेन, एककार्यकारणभावकल्पनालाघवानुरोधेन च, यदि संख्याविशेष्ये भावनान्वयः इत्या ग्रहः,तदाऽस्त्याख्यातलक्ष्य एव कत्र्रादौ उभयान्वयः। न तु प्रथमान्तपदोपस्थाप्ये। यथा चैवं सति भावनायास्तं प्रति मुख्यविशेष्यत्वम्,तथाऽग्रे निरूपयिष्यामः।।
तार्किकमतेन कार्यकारणभावं निष्कष्र्य तत्रानुपपत्तिप्रदर्शनम्
किञ्च भवन्मते कालाद्यतिरित्ताख्यातार्थनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेनाख्यातपदज्ञानजन्य शाब्दबुद्धित्वावच्छिन्नं प्रति विशेष्यतासम्बन्धेन प्रथमान्तानामपदजन्यान्याविशेषणीभूतार्थविशेष्यकोपस्थितित्वेन कारणतेत्येवं कार्य कारणभावः पर्यवसन्नः। नचासौ सम्भवति। न पचति चैत्रः,पचत्येव चैत्रः,पचत्यपि चैत्रः इत्यादावाख्यातार्थ भावनायाश्चैत्र एवान्वयप्रसङ्गेन नञर्थेऽभावे,एवकारार्थान्ययोगव्यावृत्त्यैकदेशभेदे,अपिशब्दार्थभूते समुच्चये वा अन्वयानापत्तेः,तत्र चैत्रे संख्यान्वयेन,भावनाविशेष्ये संख्याऽन्वय इति।
उत्तकार्यकारणभावे निपातासमभिव्याहृतत्वविशेषणदानेऽपि न विस्तारः, अननुगमः, गौरवज्चेतिकथनम्
नियमस्यापि व्यभिचारापत्तेश्च। अत एव निपातसमभिव्याहृतत्वं,नाख्यातेत्यस्य विशेषणम्। संख्यायाश्चैत्रेऽन्वयानपत्तेः। न चोत्तकार्यकारणभावे तेन विशेषणेऽपि,निपातसमभिव्याहृतस्थले संख्या- भावनयोः पृथक्कार्यकारणभावमङ्गीकृत्य स्वस्वविशेष्येऽन्वयोपपत्तिः।
स्वमते च तत्र लाघवकथनम्
अनेककार्यकारणभावकल्पनापत्तेः। अस्मन्मते त्वेककार्यकारणभावेनैव वक्ष्यमानरूत्या सर्वेषा भानान्वयेन भावनाया मुख्यविशेष्यत्वात्तदनापत्तिः। किञ्च सर्वनिपातसाधारण्येनापि नैकरूप्यम्। "चैत्र एव पचति,घट एव दृश्यते"इत्यादौ निपातसमभिव्याहारेऽन्वय प्रतीतेः। न च क्रियासमभिव्याहृतस्थल एव संख्या भावनयोर्वैरूप्यम्नान्यत्रेति नियमोऽपि संभवति। पचति न चैत्रः,चैत्रो न पचतीत्यादावुभयथाऽपि वैरूप्यात्। अतो भवन्मते कार्यकारणभावानन्त्याद्वयव्यभिचाच्चन न प्रथमान्तपदोपस्थाप्यस्य भावनाविशेष्यत्वम्।
भानामुख्यविशेष्यत्वे युत्तिविशेषः
अपि च ओदनं पचतीत्यत्र प्रथमान्तपदाभावे कारणाभावादेव भावनाप्रकारकबोधानुपपत्तेः इतरसामग्रीवशाद् भावनायां मुख्यविशेष्यत्वे बाधकाभावः,न चानुभवानुरोधेन भावनाप्रकारकबोधत्वावच्छिन्नं प्रत्येवाख्यातपदज्ञानस्य कारणत्वं कल्पयित्वा तादृशबोधार्थं प्रथमान्तपदाध्याहार इति वाच्यम्;अनुभवस्य शपथनिर्णेयत्वेन तत्कार्यकारणभावकल्पने गौरवात्। न च तवापि "पण्डितश्चैत्रः"इत्यादावाख्यातपदाभावे प्रथमान्तस्य मुख्यविशेष्यत्वापत्तिः। सुबर्थप्रकारकबोधत्वावच्छिन्नं प्रत्येव सुब्ज्ञानस्य कारणत्वात्,वक्ष्यमानरीत्या प्रथमाया अपि संख्यातिरित्तार्थसद्भावाच्च। अनतिरित्तत्वेऽपि प्रथमान्तनामपदोपस्थाप्यप्रकारकबोधत्वावच्छिन्नं प्रति प्रथमान्त पदज्ञानस्य कारणत्वाकल्पनेन तादृशस्थले आख्यातपदाध्याहारोपपत्तेः। न च विनिगमनाविरहः,स्मृत्यनुमतत्वेन तस्यादोषत्वात् "अस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्ति" इत्यनुशासनज्ञानाभावे निरुत्तबोधस्येष्टत्वाच्च।
किञ्च भावनाप्रकारकबोधत्वावच्छिन्नं प्रत्याख्यातपदज्ञानत्वेन कारणत्वे "चैत्रेण सुप्यते,गगनेन स्थीयते"
इत्यादिभावाख्यातस्थले प्रथमान्तपदाध्याहारापत्तिः अथ तत्राख्यातार्थविशेष्यकबोधमेवाङ्गीकृत्य कारणतावच्छे
दकेभावभिन्नत्वं निवेश्यते,तदा तदपि गौरवम्। अस्मन्मते तु सर्वत्र आख्यातार्थविशेष्यकत्वाद्भावाख्यातस्थले च
कर्तुरनभिधानेन प्रथमान्तस्याप्रसत्तिः।
किञ्च यदि अन्याविशेषणीभूतप्रथमान्ते भावना-संख्ययोरन्वयः,तदा चैत्र एव पचति, "घट एव दृश्यते" इत्यादौ कुत्र भावना-संख्ययोरन्वयः,कथं वा शाब्दबोधः। नतावत्चैत्रादौ;तस्यैवकारार्थभूतान्ययोगव्यावृत्त्येकदेशे
भेदे प्रतियोगिताकत्वसंसर्गेण भावनायाः,आश्रयतासंसर्गेण च एवकारार्थभूते अन्यस्मिन् संख्याया अन्वयः,
तयोः प्रथमान्तपदोपस्थाप्यत्वाभावात्। न चाव्ययोरपि सुपो लोपेन "दधि तिष्ठती "तिवत् प्रथमान्तत्वाविरोधः।
तथात्वेपि "चैत्रः एव पचती "त्येकवचनप्रयोगाच्च।
अत एव पचतिपदस्य व्युत्पतिवैचित्र्येण वारद्वयमन्वयमङ्गीकृत्य पाकानुकूलकृतिमच्चैत्रभिन्नः पाकानुकूलकृत्यभावाश्रय इत्येवमेवकारार्थैकदेशविशेष्यकशाब्दबोधः-इत्यपास्तम् ,तद्बहुत्वेनैकवचनस्य तत्रान्वयानुपपत्तेः। चैत्रस्यान्यविशेषणतया तत्राप्यन्वयानुपपत्तेश्च।
न च चैत्रपदस्य विशेष्यतया,विशेषणतया च वारद्वयमर्थबोधकत्वम्। ततश्च पाकानुकूलकृत्यभाव वांश्चैत्रान्य इति शाब्दबोधः। इतराविशेषणत्वञ्च विशेष्यत्वाभावविशिष्टं यद्विशेषणत्वं तदभाव इति वाच्यम्। तथात्वेऽपि "चैत्रो मैत्रश्च गच्छतः, इति "चैत्रो मैत्रादयश्च गच्छन्ती" तिवद्द्विवचन-बहुवचनयोरप्यापत्तेः। न च "चैत्रो गच्छति न मैत्रः" इतिवदेकवचनोपपत्तिः। तथात्वे तत्र गच्छतिपदानुषङ्गेण भिन्नवाक्यवदिहापि मुख्यविशेष्यभेदेनभिन्नवाक्यत्वापत्तेः। अस्मन्मते तु चैत्रवृत्तिश्चैत्रान्यवृत्तिश्चैककर्तृका भावनेति बोधः। भेदे च चैत्रप्रतियोगिकत्वं पार्ठिकम्। एवकारस्यैव वा तत्र लक्षणेति न विरोधः।
भावनामुख्यविशेष्यकत्वस्यानुभविकता
वस्तुतस्तु पचति चैत्रे,मैत्रे चाऽपचति "कीदृशौ चैत्रमैत्रावि"ति प्रश्ने चैत्र एव पचतीत्युत्तरापत्तिः,अत एव कीदृशश्चैत्र इति प्रश्ने पचतीत्युत्तरापत्तेर्नप्रथमान्त विशेष्यको बोध इत्युत्तम्। अतोऽनुभवसिद्धमेव भावनामुख्यवि विशेष्यकत्वम्।
इति श्रीमदाचार्यखडदेव विरचिते भाट्ट तन्त्र रहस्ये
भावनावादस्समाप्तः।
अथ प्रथमाप्रयोजक विचारः
किञ्च सत्यपि संख्या-भावनोभयसाधारण्येनोत्तविधप्रथमान्तपदजन्योपस्थितेः कारणत्वे भवन्मते प्रथमा -
तृतीयादि प्रयोजकं किम् ? न तावत् कत्र्राद्यभिधानानभिधाने तत्प्रयोजके,तस्य त्वयाऽनङ्गीकारात्। नापि संख्याभिधानानभिधाने, संख्यायास्सर्वत्राख्याताभिधेयत्वेन सर्वत्र प्रथमापत्तेर्द्वितीयादिविभत्यभावप्रसङ्गात्। अथ तिङुपात्तसंख्यान्वयित्वमेव प्रथमाप्रयोजकम्। तदन्वयश्च यागादिसमभिव्याहारसत्त्वे कृतिविषयत्वाख्यफलाश्रये कर्मणि, शबादि समभिव्यारे कृत्याश्रयाख्ये कर्तरि, यादृशसमभिव्याहारे आख्यातस्य कर्तृवाचित्वं वैयाकरणमते,मीमांसकमते वा कर्तृलक्षकत्वम्,तादृशसमभिव्याहारे तिङुपात्तसंख्यायाः कृत्याश्रयरूपकर्तृगामित्वं। यादृशसमभिव्याहारे च तयोर्मते कर्मपरत्वं,तादृशसमभिव्याहारे तिङुपात्तसंख्यायाः कृतिविषयरूपकर्मगामित्वम्। अतस्तादृशसंख्याभिधानमेव संख्याविशेष्यवाचिनामपदोत्तरप्रथमाप्रयोजकम्। तादृशसंख्यानभिधानं तु तदविशेष्यवाचिनामपदोत्तरकर्तृ-कर्माद्यभिधायक तृतीया-द्वितीयादिविभत्तिप्रयोजकम्। अत एव भावाख्यातस्थले कर्तृ-कर्मगतसंख्यानभिधानाच्चैत्रेण सुप्यत इति तृतीया,चैत्रेण पच्यते ओदनः"इत्यत्र कर्माख्याते कर्मवाचिपद एव प्रथमा, चैत्रः पचतीत्यत्र कत्र्राख्याते कर्तृवाचिपदे एवेति व्यवस्थालाभ इति चेत्,
तथात्वे चैत्रेण पाचकस्य पुत्रः,ओदनः पक्वस्य विक्लृत्तिरित्यादिप्रयोगापत्तेः। कृत्प्रत्ययेनकर्तृ-कर्मगत-
संख्याया अनुत्तत्वात्। चैत्रस्य पाचकस्य पुत्रः,ओदनस्य विक्लृत्तिरिति प्रयोगानापत्तेः।
" विषवृक्षोऽपि संवध्र्य स्वयं छेत्तुमसाम्प्रतम् "
इत्यादावपि प्रथमानापत्तेश्च। न च तत्र कृत्प्रत्ययेन,निपातेन च कत्र्राद्यभिधानादेव प्रथमासिद्धिः। संख्या कत्र्राद्यन्यतरानभिधाने च तृतीयादिरिति सूत्रार्थ इति वाच्यम्। तथात्वेऽपि "चैत्र इव गच्छति मैत्रः"इत्यादौ चैत्रे प्रथमानापत्तेः। गच्छतीति तिङा चैत्रगतसंख्यायाः,चैत्रगतकर्तृत्वस्य चानुत्तत्वात्। यत्तु- कृत्यनभिधाने तृतीया,फलानभिधाने द्वितीया,अभिधाने तु सर्वत्र प्रथमेति-मतम्। तदपि न। भावाख्याते - भावनाभिधानेन प्रथमापत्तेः। कर्माख्यतेऽपि क्रियत इति विवरणानुरोधेन कृतिवाचित्वस्य आवश्यकत्वात् प्रथमापत्तेश्च।
अस्मन्मते तु सत्यपि तिङो भावनावाचित्वे वक्ष्यमाणरीत्या कत्र्रादेरपि लक्षणयाऽभिधानात् कृत्प्रत्ययेन,-
साम्प्रतमिति लिपातेन च शक्त्यैव कत्र्राद्यभिधाना सर्वत्र प्रथमोपपत्तिः। साम्प्रतमिति निपातेन योग्य इत्यर्थकेन-
कर्माभिधानात्। चैत्र इवेत्यादावपि इवशब्देन गमनकर्तृत्वरूपसादृश्याभिधानात् कत्र्रभिधानम्। चन्द्र इव मुखमित्यादावपि अस्तीति क्रियापदाध्याहारस्यावस्यकत्वादाह्लादकत्वावच्छिन्नसत्ताश्रयत्वरूपकत्र्रभिधानम्।
अत एव क्त्वाप्रत्ययेनापि समानकर्तृकत्वाभिधानात् "चैत्रः पक्त्वा चैत्रो भुङ्ते "इत्यत्राद्यचैत्रपदेऽपि प्रथमोपपत्तिः। न चैवं चैत्रेण पक्त्वा चैत्रेण भुज्यत इत्यत्राद्यचैत्रपदे तृतीयानापत्ति,। क्त्वाप्रत्ययेन कर्तुरुपादाना-
दिति वाच्यम्। तत्र "आत्मानमात्मना वेत्सि,अनेन जीवेनाऽत्मानाऽनुप्रविश्य नामरूपे व्याकरवाणि"इत्यादिवत्
करणत्वस्य तृतीयार्थत्वात्।
अत एव "यद्वृत्ति कारकं स्वान्वयिक्रियाप्रतिपादकेन पदेन वृत्त्या प्रतिपाद्यते,तत्त्वं प्रथमाप्रयोजकीभूताभि
हितत्वमित्युत्तं भाट्टदीपिकायाम्। अस्तिचेदं चैत्रः पचति,ओदनः पच्यत इत्यादौ,चैत्रादिवृत्ति कर्तृत्व-कर्मत्वादे
र्निरुत्तक्रियापदेनाभिधानात्। "पाचकेन गम्यते "इत्यादौ च कृदुपात्तस्य पुरुषस्य गमनक्रिययैवान्वयः,न तु पाकक्रियया। प्रथमं तस्या एव तस्मिन्नन्वयात्। अन्वयश्चात्र प्राथमिक शाब्दबोधविषयीभूत एव विवक्षितः। तेन-
"औदुम्बरो यूपो भवति,स्वर्गकामो यजेत "इत्यादौ यूप-स्वर्गादीनां प्रथमया कर्मत्वादिलक्षणायामपि प्राथमिक-
यूपकर्तृकभावनाश्रयत्वादिशाब्दबोधेकर्तृत्वस्योत्तत्वात् प्रथमोपपत्तिः। न च तत्र प्रमाणाभावः। तथात्वे धार्मिकज्ञानाभावेन वैयथ्र्यप्रतिसन्धानाभावात्तात्पर्यज्ञानाभावेन लक्षणानुपपत्तेः।
अत एव यत्रान्वयानुपपत्त्यैव लक्षणा,तत्र लक्षणाजन्यशाब्दबोधस्यैव प्राथमिकत्वात्,तत्र च कर्तृत्वानुत्तौ प्रथमान्तपदस्यायोग्यत्वमेव। यथ अग्निना चैत्रः पाके यतत इत्यर्थे अग्निश्चैत्रः पाके यतत इति।
अत्र हि प्रथमायाः करणत्वलक्षणया शाब्दबोधः। अत्र हि अन्वयानुपपत्त्यैव करणत्वलक्षणा। अतस्तत्र लक्षणातः
पूर्वं शाब्दबोधाभावादयमेव बोधः प्राथमिको वाच्यः। न च तदानीं भासमानं कारणत्वं स्वान्वयिक्रियाप्रतिपादकेन
यतत इति पदेनोत्तम्। यत्तु यतत इत्यनेनोत्तं कर्तृत्वम्,न तदग्निवृत्तीति प्रथमाप्रयोजकरूपाभावात् तद्वाक्यं -
तस्मिन्नर्थेऽसाधु। उत्तविधं तद्वृत्ति कर्तृत्वं न कर्माख्यातेनाभिहितमिति,युत्तैव तत्र तृतीया।
एवं "चैत्रेण भुक्त्वा गम्यते "इत्यत्र चैत्रस्य भुजिक्रियायामनन्वयात् गमनक्रियायामन्वयाङ्गीकारेण तृतीयोपपत्तिः। एवंञ्च "पक्त्वौदनो भुज्यते "इत्यादौ पचिधातोः कर्माकांक्षायां द्वितीयान्तौदनपदाध्याहारेण -
वाक्यपूरणम्। न हि प्रथानक्रियायामुत्तस्य कारकस्य गुणभूतक्रियायामप्युत्तिरिति नियमे प्रमाणमस्ति,येनाध्याहारं
विनाऽपि वाक्यं पूर्येत। तथात्वे "ओदनं भुक्त्वा शास्त्रं पठ्यते " झ्र्श्रुत्वाप्यर्थं नानुमतः स्तेन सोऽर्थः कुबुद्धिने "ट
त्यादौ द्वितीयाप्रयोगो नोपपद्येत। अतस्सकर्मकधातूत्तरक्त्वाप्रत्ययस्थले द्वितीयान्तौदनपदाध्याहारेऽपि कर्तृविशेष-
वाचिपदं विनाऽपि शाब्दबोधोपपत्तेः "चैत्रेण भुक्त्वा गम्यते "इति प्रयोगे बाधकाभावः। यदित्वस्मिन्पक्षे चैत्रो भुक्त्वा चैत्रेण गम्यत इति प्रयोगापत्तिरिति विभाव्यते,तदा माऽस्तु क्त्वाप्रत्ययस्य समानकर्तृकत्व पूर्वकालत्वयोः शक्तिः। किन्तु भावकृत्त्वात् भाव एव,तस्यैवोत्तरक्रियायां समानकर्तृकत्व-पूर्वकालत्वसंसर्गेणान्वयः इति।
संबोधनप्रथमाप्रयोजकनिरूपणम्
इदञ्च असंम्बुद्धिविषये,संबोधनप्रथमायाः स्वतन्त्रविधेयत्वात् अत एव तद्वृत्तिकर्तृत्वानभिधानेऽपि चैत्र मैत्रः पचतीति प्रयोगः। एवञ्च "चैत्रः पक्त्वा चैत्रो भुङत्ते"इत्यपप्रयोग एव।प्रधानक्रियायामुत्तस्य कर्तृकारकस्यैव
गुणभूतक्रियायामप्युत्तिरिति नियमाङ्गीकारेण वा तस्य साधुत्वम्। प्रधानक्रियावाचिनः कत्र्राख्यातत्वे क्त्वाप्रत्यय-
स्यापि समानकर्तृकत्वादौ लक्षणेति वा ध्येयम्। अत एव "चैत्रेण पक्त्वा चैत्रो भुङत्ते "इत्यप्यप्रयोगः। अत एव -
मयैव पक्त्वा मयैव भुज्यते इत्यत्रापि कर्तर्येव तृतीया। "पक्त्वौदनो भुज्यते इत्यादौ कर्मकारकाध्याहार एव-
ओदनं भुक्त्वा शास्त्रं पठ्यत इत्यादयः प्रयोगाश्च सुखोपपादाः।
एवं पचनी स्थाली,दानीयो ब्राह्मणः,कुठारः करणमित्यादौ अधिकरणत्वादेः कृदुत्तत्वात्प्रथमोपपत्तिः।
न चैवमपि यत्र तिङन्तोपरि पचतितरां,पचतिकल्पम्,पचतः कल्पम् ,पचन्तिकल्पमित्यादावतिशयार्थकः,ईषद
समाप्त्यर्तको वा प्रत्ययः कृतः,तस्य तद्धितत्वेन प्रातिपदिकसंज्ञया प्रातिपदिकार्थमात्रविवक्षायां प्रथमान्तत्वात्तत्र-
प्रथमाप्रयोजकरूपाभावः। तद्वृत्तिकर्तृत्वस्य तिङाऽनुत्तत्वात्। ईषत्वाद्याश्रयस्य भेदसम्बन्धेन पाकभावनायामेवान्व-
यादिति वाच्यम्। तादृशस्थले धात्तोरेव ईषदसमाप्यादौ लक्षणाङ्गीकारात्। कबादिप्रत्ययस्य लक्षणातात्पर्यग्राह-
कत्वाङ्गीकारेण तदर्थान्वयस्यैवाऽनङ्गीकारे तत्रत्यप्रथमायास्साधुत्वमात्रार्थत्वात्। अत एव शाब्दबोधजनक-
प्रथमाया एवेदं प्रयोजकम् ,न तु साधुत्वार्थायाः। तस्यास्तु प्रथमातिक्रमे कारणाभाव एव।
अभिधानानभिधानयोः केषांचिन्मतेन प्रयोजकविचारः
केचित्तु-कृदादिभिरनभिहितत्वमेव तृतीयादिविभत्तिप्रयोजकम्। प्रथमायां तु कर्तृत्वाभिधानम्,कर्तृत्वद्यविवक्षा च प्रयोजिका। अतश्च पचतिकल्पमित्यादौ विभक्त्यर्थाविवक्षायां प्रातिपदिकार्थमात्रविवक्षायां प्रथमोत्पत्तावपि भाधकाभावः। अत एवाऽविवक्षाविरहविशिष्टानभिधानं तृतीयादिप्रयोजकम्,तदभावः प्रथमाप्रयोजक इत्येवानुगमः। न चैवमपि प्रकारतया करणत्वाद्यविवक्षायां भवन्ते करणत्वादिसंसर्गेण काष्ठादीनां भावनान्वयापत्तेः चैत्रः काष्ठानि स्थाली ओदनः पचतीति प्रयोगापत्तिः। परमते हि तेषां धात्वर्थेऽन्वयात्तत्र चाऽभेदसम्बन्धेनैव नामार्थान्वयान्न तथाप्रयोगापत्तिः। तेषामपि "दधिपश्यती "त्यादिवत् काष्ठकरणत्वलक्षणया प्रयोगापत्तिरनिवार्यैव। भवन्मते तु सर्वस्याख्यातार्थ एवान्वयात् तत्र च नामार्थस्यापि चैत्रादेर्भेदसंसर्गेण अन्वयाङ्गीकारात्। काष्ठादीनामप्यन्वयोपपत्तिरिति वाच्यम्।एतादृशप्रयोगापत्तिभयादेव मयाऽपि स्वबोधककृदाद्यभिहितकारकवाचिनामभिन्ननामार्थस्य तद्गतलिङ्गसंख्यादेर्वा क्रियासम्बन्धे सुबुपात्तलिङ्गसंख्याव्यतिरिक्तद्वितीयादिविभक्त्युपस्थितार्थ द्वारकत्वं तन्त्रमिति नियमस्य कलपनात्। स्वपदं स्वान्वयिक्रियापरम्। अत्र नामार्थस्यापि चैत्रादेः पचतीत्यादौ साक्षादेव क्रियायामन्वयात् भिन्नेत्यन्तम्। पाचकमानयेत्यादौ कृदाद्यभिहितकारकवाचिनोऽपि पाचकपदस्यानयनानु कूलकृतावन्वये द्वितीयोपस्थापित कर्मत्वद्वारत्वस्यावश्यकत्वात्स्वबोधकेत्युत्तम्। पाचकः पाकमित्यादावपि लक्षणया भावनाबोधस्य वक्ष्यमाणत्वात् तत्र काष्ठादीनामन्वये तत्र कारणत्वादिबोधकतृतीयादि आवश्यकम्। अत एवैतन्नियमानुरोधेनैव कौस्तुभादौ
प्रातिपदिकार्थस्य सुबुपात्तलिङ्गसंख्ययोश्च साक्षाद्भावनान्वयो नाङ्गीकृतः। अतः पचतिकल्पमित्यादौ प्रातिपदिकार्थमात्रविवक्षायां प्रथमा-इत्याहुः।
उत्तमतखण्डनम्
तन्न। एवमपि ईषदसमाप्तेः कल्पप्प्रत्ययवाच्याया भावनयासह भेदसम्बन्धविवक्षया षष्ठ्यापत्तेर्दुवारत्वात्।
ईषदसमाप्तेरपि तादृशनामार्थतया निरुत्तक्रियासम्बन्धे द्वितीयादिविभत्यर्थद्वारकत्वाभावातद् व्यभिचारापत्तेश्च।
अतोऽन्यत्र व्याकरणस्य वृत्तिबोधकत्वेऽपि प्रकृते तात्पर्यग्राहकतामात्रपरतेति युत्तमुत्पश्यामः।
पचतिकल्पमित्यादेर्मतान्तरेणान्वयोपपादनम् , तन्निराकरणं च
केचित्तु-पचतिकल्पमित्यादौ तिष्ठतीत्यध्याहारात् पाकभावनावृत्तिरीषदसमाप्तिस्थिष्ठतीत्यर्थः। अस्मिन्श्च पक्षे पचतीति तिङर्थोऽपि कल्पप्रत्ययार्थेन भेदसम्बन्धेनान्वेति,एकपदोपात्तत्वात्। अतश्च कल्पप्प्रत्ययस्तय वाचकत्वेऽपि तस्य तिष्ठतीत्यत्रैवान्वयात् प्रथमोपपत्तिरित्याहुः।तन्न।बहुत्वविवक्षायां पचन्तिकल्पाः इत्यस्याप्यापत्तेः
एवञ्चास्मन्मते सर्वत्र प्रथमाप्रयोजकरूपलाभस्सुलभः,न तु भवन्मत इति सिद्धम्।
इति श्रीमदाचार्यखण्डदेवविरचिते भाट्टतन्त्ररहस्ये प्रथमाप्रयोजकविचारस्समाप्तः
अथ कर्तृलक्षणावादः
आख्यातस्य कर्तृलक्षकत्वे प्रमाणकथनम्
नन्विदमाख्यातस्य कृतिवादिनः कर्तृलक्षकत्वे सिद्ध्येत्,तत्रैव तु प्रमाणाभाव इति चेत्,पचतीत्युत्ते कीदृग्विध इति प्रश्नस्यैव तत्र प्रमाणत्वात्। न हि धर्मिज्ञानं विना धर्मविशेषप्रश्नो युज्यते। न च धर्मिज्ञानं त्वन्मते सम्बवति पचतिपदार्थपाकप्रकारकानुकूलतासंसर्गाख्यातार्थविशेष्यकाखण्डवाख्यार्थबोधस्यैव जननात्। प्रथमान्तपदजन्योपस्थितिरूपकारणाभावेनकृतिप्रकारकाश्रयविशेष्यकबोधस्य जनयितुमशक्यत्वात्। यद्यपि भवन्मते कृतिप्रकारकबोधं प्रति आख्यातपदज्ञानत्वेनापि कारणताऽस्ति, तथापि तत्कार्यतावच्छेदकं यदि
कृतिप्रकारकबोधत्वम्,तदा आश्रयताज्ञानाभावाद्धर्मिज्ञानाभावस्सुलभ एव। यदि तु कृतिप्रकारकाश्रयविशेष्यक-
बोधत्वम्, तदाऽपि तत्र प्रथमान्तपदजन्योपस्थितेरपि दण्डचक्रादिवत् समुच्चित्यकारणत्वात्तदभावेनाभस्सुलभः
अतोऽवश्यं प्रश्नोपपादकधर्मिज्ञानार्थम्, प्रथमान्तपदाध्याहारार्थं चाश्रयज्ञानं वाच्यम्।
तच्च शाब्दम्,मानसम् ,स्मरणं वेति वप्रतिपत्तिः। तत्र "लः कर्मणि च भावे चाकर्मकेभ्यः "झ्र्3-4-69 ट
इत्यनुशासनाच्छाब्दमेव। अत्र चकारात् "" कर्तरि कृत् ""झ्र्3-4-67 ट इति सूत्रीयस्य कर्तरीत्यस्यानुकर्षणात् कर्तर्यपि लकारलाभः। इदं हि न लकारस्य कत्र्रादौ शत्तिरित्येवम्परम्। पदार्थे वृत्तौ च तात्पर्यकल्पने गौरवात्।
लाघवेन कृतौ शत्ताववधारितायां तदनुशासनस्य निरूढलक्षणयैव व्याख्येयत्वाच्च। कर्तुर्मानसत्वे तत्र संख्यान्वयानुपपत्तेः। पचतीत्येतावन्मात्रश्रवणे कर्तरि एकत्वसंशयापत्तेश्च। पचतीति पाचक इत्येवं कृदर्थ- विवरणाच्च। अत आश्रयज्ञानस्य शाब्दत्वमुत्तम्।
कर्तुश्शाब्दत्वे लाघवप्रदर्शनम्
युत्तञ्चैतत् आख्यातोपात्तसंख्याप्रकारकशाब्दबोधं प्रति आख्यातपदस्य प्रथमान्तपदापेक्षयोपस्थितत्वेन आख्यातपद जन्योपस्थितित्वेन कारणत्वकल्पने लाघवम्। अतो लाघवादनुशासनात् धर्मिज्ञानानुरोधात् आख्यातस्य कत्र्रादौ लक्षणा।
कर्तुः संसर्गविधया भानवादिमतनिराकरणम्
एतेन एकत्वादेरस्मन्मते कत्र्रादिघचितसामानाधिकरण्सम्बन्धेनैव भावनान्वायत्कत्र्रादेः सांसर्गिकविषय
तयैव बोध इत्यापास्तम्। पाककर्ता एको नचेत्यस्य संशयस्य पचतीत्यतो व्युदासानुपपत्तः, अनुशासनवैयथ्र्यापत्तेश्च लक्षणेति न कश्चिद्विरोधः। धर्मितावच्छेदकाविशिष्टधर्मिज्ञानाभावात्पाककर्ता क इति संशयानापत्तेश्च। न च क्वचिदपि शक्तिमात्रजन्यशाब्दबोधाभावे तस्यैव पदस्यार्थान्तरलक्षकत्वासम्भव इत्यत्र प्रमाणमस्ति। मुख्यार्था- सम्भवस्येवार्थान्तरबोधानुपपत्तेश्च लाघवतर्कसहकृतायाः लक्षणातात्पर्यग्राहकत्वात्। तत्रापि शबादिविकरणस्थले कर्तरि, यगादिविकरणस्थले च कर्मणीत्येवं व्यवस्थया लक्षणा। लक्ष्यतावच्छेदकञ्चाश्रयत्वं कर्तृत्व-कर्मत्वादि, अखण्डोपाधिर्वा।
कर्तृत्वादेरखण्डोपाधित्वप्रसाधनम्
कर्तृत्वादिकं हि कृत्याश्रयत्वादिसमनियतोऽखण्डधर्मोऽनुगतव्यवहारसाक्षिकः, नतु कृत्याश्रयत्वादिकमेव। तथात्वे चैत्रेण पाकः क्रियत इत्यत्र चैत्रेण पाक इत्येतावतैव चैत्रनिष्ठकृतिसाध्यः पाक इत्यर्थबोधोपपत्तेः पुनः क्रियत इति कृतिवाचकपदप्रयोगवैयथ्र्यापत्तेः। अतः कर्तृत्वादिकमखण्डमेव तृतीयाद्यर्थः। तस्य चाश्रयत्वादिवदेव कृत्यादिनिरूपितत्वादिधर्मकल्पनाच्चैत्रनिष्ठकर्तृत्वनिरूपककृतिसाध्यः पाक इत्यर्थबोधोपपत्तिः। इदञ्च परमतेनोक्तम्, स्वमते उक्तकृतिसाध्यत्वं पाकवृतीत्येवं शाब्दबोधस्य वक्ष्यमाणत्वात्। सर्वथा कर्तृत्वादिकमखण्डो- पाधिः, । इष्टञ्चैतत्प्राचां तम्पत्योव्र्यासज्यवृत्तिकर्तृत्वसिद्धयर्थम्, अग्निषोमयोव्र्यासज्यवृत्तिदेवतात्वसिद्ध्यर्थञ्च। अन्यथा कृत्याश्रयत्वरूपकर्तृत्ववस्य, त्यज्यमानद्रव्योद्देश्यत्वरूपस्य च देवतात्वस्य, आश्रयभेगेन भिन्नतया व्यासज्यवृत्तिवसिद्धान्तानुपपत्तेः। अतः कर्तृत्वम्, कर्मत्वञ्च लक्ष्यतावच्छेदकीकृत्य कर्तृ-कर्मणोराख्यातस्य लक्षणा। इदञ्चौत्सर्गिकी रीतिमनुसृत्योक्तम्।
यजेतेत्यादौ दम्पत्योः सहाधिकारे कर्तृत्वलक्षणा
यत्र षष्ठोक्तन्यायेनाश्रयानेकत्वग्राहकं प्रमाणान्तरमस्ति, यथा-दम्पत्योः,तत्र विधिवाक्ये एकवचनश्रवणा-
दाख्याते नाश्रयलक्षणा,एकवचनत्वानन्वयापत्तेः अतस्तत्र द्वित्वलक्षणायां प्रमाणाभावादाख्यातेनैव लाघवात्-
कर्तृत्वत्वेन कर्तृत्वं लक्ष्यते। न तदाश्रयोऽपि। तस्यार्थादेव बोधोपपत्तेः।इष्यते च कर्तृत्वत्वादिना-
कर्तृत्वबोधस्तृतीयादौ।स परं शक्त्या तत्र। अत्र तु लक्षणया इत्येतावान् भेदः। तत्रैव च साक्षात्सम्बन्धेनैकत्वान्वयः। नत्वाश्रये, तस्य द्वित्वात्।
यदपि तत्राख्यातसामानाधिकरणं स्वर्गकामपदम् ,तदपि न कर्तृपरम् , अपितु लक्षणयोपस्थितस्वर्गाख्य-
भाव्यपरमेव। प्रथमा च तत्रत्या लक्षणया कर्मत्वार्थिकेति , न तत्सामानाधिकरण्यबलेनाप्याख्यातेनाश्रयलक्षणा।
प्रथमाप्रयोजकन्तु सर्वत्र कर्तृत्वोत्तिखे। सा परं कर्तृत्वप्रकारिका कर्तृत्वविशेष्यिकावेत्यन्यदेतत्।अतस्सिद्धाऽऽख्या
तेऽपि कर्तृत्वादिलक्षणा।
भावनाया मुख्यविशेष्यत्वे युक्त्तयः
तदपि न भावनां प्रति विशेष्यम्। किन्तु भावनैव तद्विशेष्या। इतरथा "पचति ब्रूते"इति प्रयोगापत्तिः। "पक्त्ता ब्रूते इतिवत् तस्य योग्यत्वात्। "पचति भवती"ति भाष्योदाहृतप्रयोगानापत्तेश्च।
यत्तु "अपाक्षीद्भवति, पक्ष्यति-भवती"ति तदुदाहृतप्रयोगः। स च भूधातुना युत्तत्वलक्षणया भूत-भाविपाक भावनावृत्ति वर्तमानयुत्तत्वाश्रयत्वमिति शाब्दबोधाङ्गीकारान्नायुत्तः।
दृश्यते च युज्यत इत्यर्थे लोके भवतीति प्रयोगः। एवं "पचति भवती"ति प्रयोगोऽपि कर्तृविशेष्यत्वपक्षे
नोपपद्यते। तथात्वे "पचन्ति भवन्ती"ति प्रयोगापत्तेश्च। "भावप्रधानमाख्यातम्" इति निरुत्तस्मृत्या भावनातिरित्त
आख्यातार्थमात्रं प्रति भावपदवाच्यभावनाया विशेष्यत्वोत्तेश्च। अत्र हि न प्रकृत्यर्थं प्रति भावनायाः प्राधान्यं बोध्यते।
"प्रकृति-प्रत्ययौ प्रत्ययार्थं सह ब्रूतः,तयोस्तु प्रत्ययः प्राधान्येन " इति स्मृत्यैव प्रकृत्यत्थनिरूपित-
प्रत्ययार्थप्राधान्यस्य सुबर्थसाधारण्येन सिद्धेः।
धात्वर्थ एव भावपदार्थ इति वैयाकरणमतखण्डनम्
न च "धात्वर्थः केवलश्शुद्धो भाव इत्यभिधीयते" इति वैयाकरणस्मृत्यनुरोधेन भावशब्दस्य धात्वर्थपरत्वावसयात्, तस्यैवाख्यातार्थापेक्षया प्राधान्यमनया स्मृत्या नियम्यते, प्रत्ययार्थप्राधान्यस्मृतिस्तु सामान्यविषयत्वात् सुबर्थाभिप्रायेण व्याख्येयेति वैयाकरणमतमेव युत्तमिति वाच्यम् ,एतस्य परिभाषारूपत्वेन नदीवृद्ध्यादिवदन्यत्राप्रवृत्तेः। अतएव व्याकरणशास्त्र एव तस्य "भावे घञ्" झ्र्3-3-18टइत्यादौ प्रवृत्तिः। सापि न सर्वत्र, "भावे त्व-तलावि"त्यादावप्रवृत्तेः। अतश्च निरुत्तभावशब्देन णिजन्त भूधातोरच्प्रत्ययान्तत्वव्युत्पत्त्या भवनानुकूलव्यापाररूपा भावनैवोच्यते, न धात्वर्थः।
अतएव "सर्वमाख्यतजं नामे"ति स्मृत्याऽऽख्यातशब्दस्य धातुपरत्वावसायादनयाऽपि स्मृत्या धातोरेव -
भावप्राधान्यनियमाद्धात्वर्थमुख्यविशेष्यकत्वोपपत्तिरित्यपास्तम्।
कृदन्ते पाचकपदादौ आख्यातशब्दप्रयोगाभावेन तत्रत्याख्यातशब्दस्य धातौ लाक्षणिकत्वस्य कौस्तुभे -
व्युत्पादितत्वात्। अतश्चाख्यातार्थानेकत्वे कस्य प्राधान्यम्, कस्य वा गुणत्वमित्यपेक्षिते"भावप्रधानमाख्यातम्"इति स्मृत्या भावनातिरित्ताख्यातार्थं प्रति भावनाया एव प्राधान्यमिति नियम्यते। अतएव कालादिसाधारण्येनैकः-
कार्यकारणभाव इत्यपि लाघवम्।
आख्यातार्थकालस्य भावनान्वयप्रकारः
कालोपि नञ्समभिव्याहाराभावे कालिकसम्बन्धेन भावनायामन्वेति, नञ्समभिव्याहारे तु तत्कालीनाभाव प्रतियोगित्वसम्बन्धेन झ्र्साक्षादेव वा टतस्यामेव। तथाहि- "वर्तमाने लट् "झ्र् 3-2-123 टइति सूत्रात्पचतीत्यत्र-
वर्तमानत्वं लडर्थः। तच्च लडुच्चारणकालाभिन्नकालकत्वम्। तच्च कालिकवृत्तित्वसम्बन्धेन कृतावन्वेति,-
विक्लृत्त्युपधायककृतिकूटान्तर्गतयत्किञ्चित्कृतेस्तदुच्चारणकालीनत्वात्। अत्र सर्वत्र कृतिशब्दो भावनापरः।
तेन जानातीत्यादावाश्रयत्वस्य वर्तमानत्वान्न क्षतिः। नश्यतीत्यादौ च धातुना नाशस्यैवोत्तिः। प्रत्ययेन च प्रतियोगित्वस्य लक्षणा। वर्तमानकालस्य परमनुभवानुरोधेन स्ववृत्त्युत्पत्तिकनाशीयत्वसम्बन्धेन प्रतियोगित्व एवान्वयः। तथा च घटवृत्तिनाशप्रतियोगित्वं वर्तमानकालोत्पत्तिकनाशीयत्वसम्बन्धेन वर्तमानत्ववदित्येव अस्मन्मते शाब्दबोधः। एवञ्च धातुना उत्पतिं्त लक्षयित्वा, तस्यां कालस्य कथञ्चिदन्वय इत्यपि न कल्पनीयम्।
एवं सम्बन्धभेदसत्त्वेऽपि वर्तमानकालस्सर्वत्रकृतावेवान्वतीति,न क्वापि तस्य विशेष्यान्तरकल्पना।
संबन्धभेदेनान्वये कार्य-कारणभावानन्त्य शङ्का-परिहारौ
न चैकविशेष्यत्वलाभेऽपि संबन्धभेदेन समभिव्याहारज्ञानस्य कार्यकारणभावानन्त्य तादवस्थ्यमिति वाच्यम्। वस्तुतस्सम्बन्धभेदेऽपि सम्बन्ध सामान्येन तत्प्रकारक-तद्विशेष्यकशाब्दबुद्धित्वावच्छिन्नम्प्रति तादृशसमभिव्याहार ज्ञानस्य कारणतेत्येवमेकस्यैव तस्योपपत्तौ,सम्बन्धाननुगमस्यादोषत्वात्। यथैव हि संयोग-समवाय कालिकादि सम्बन्दभेदेऽपि "घटवद्द्रव्यमि"त्येवंविधवाक्यात्सम्बन्धसामान्यसंसर्गके घटप्रकारके मत्वर्थद्रव्यविशेष्यके शाब्दबोधेजाते, पश्चात् सम्बन्धस्य तत्वेन जिज्ञासायां प्रमाणान्तरेण तात्पर्येऽवधारिते यत्रैकस्मिन्नेव संसर्गे तात्पर्यमवधारितम्, तत्र तत्संसर्ग एव शाब्दबोधपर्यवसानम्। यत्रानेकेषुतात्पर्यम्,तत्रानेकेषु शाब्दबोधपर्यवसानम्। तत्र च वस्तुतस्तात्पर्यविषयीभूतस्यापि सम्बन्धस्य तत्त्वेन बोधस्य प्रमाणान्तराधीनत्वात्, शाब्दबोधे च सम्बन्धत्वेनैव बोदान्न "घटवत्द्रव्यमि"त्येवंविधसमभिव्याहारज्ञानस्य कार्य-कारणभावानन्त्यम्। पर्यवसितबोधमादायैव बाधबुद्धिप्रतिबद्ध्यप्रतिबन्धकभावः। अतएव संयोगेन "न घटवद्द्रव्यमि"ति बुद्धिसत्त्वेऽपि
"घटवद्रव्यमि"ति बुद्धिर्जायमाना सम्बन्धान्तरमादाय पर्यवस्यति। संयोगविषयता तु तस्या आपाततः प्रतीता-
बाध्यत इति स्वानुभवसिद्धमेतत्। "घटो नास्ती"त्यादौ वा संयोग-समवायाद्यवच्छिन्नप्रतियोगितारूपसम्बन्धभेदोऽनु
सन्धेयः।
एवं विशेष्य-प्रकारभेदेऽपि तदनुगमकधर्मैक्ये न तदानन्त्यम्। न हि श्वेत-रत्तादिप्रकारभेदे, घट-पटादिरूपविशेष्यभेदे वा नामार्थयोरभेदान्वयः इति व्यत्पत्तिर्भिद्यते।
अस्तु वा एवमदिस्थले सर्वत्र तद्भेदः, तथाऽपि एककार्यकारणभावकल्पनादशायामुपस्थितस्य विशेषस्यैव कार्यकारणभावान्तरे विशेष्यत्वकल्पनौचित्यात्। न च विनिगमनाविरहः। द्वितीयान्तादिपदानां तावत् क्रियापदं विना निराकांक्षत्वाभावस्योभयवादिसिद्धतया क्रियाप्रतिपादकपदस्य विशेष्यप्रतिपादकत्वावश्यम्भावात्, तत्रापि धात्वर्थं प्रति , कालादिकञ्च प्रति विशेष्यभूताया भावनाया एव "प्रधानभूतविशेष्यत्वे सम्भवति,प्रकारविशेष्यत्वस्यान्याय्यत्वादि"ति न्यायेन विशेष्यत्वोपस्थितिलाघवानुरोधेन च विशेष्यत्वकल्पनौचित्यात्। न च
प्रथमान्तस्य क्रियापजसाकांक्षत्वे प्रमाणाभावः,चैत्र इत्येतान्मात्रस्य शाब्दबोधाजनकत्वेन तस्यापि साकाङ्क्षत्वात्
न च तथात्वेऽपिपण्डितादिपदसमभिव्याहारेणापि शाब्दबोधजननात् क्रियापदसाकाङ्क्षत्वे प्रमाणाभावः।
"अस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोप्यस्ति"इति कात्यायनस्मरणेन तस्यापि क्रियापदसाकांक्षत्वात्।
भवन्तीपरः-लङत इत्यर्थः। न च क्रियापदान्तराध्याहारस्यापि योक्यतानुसारेणावश्यकत्वादेतदनुशासनवैयथ्र्यम्।
योग्यतासाधारण्ये वेदादौ तात्पर्यग्रहाभावे च सत्यस्त्यध्याहारनियमार्थत्वात्। प्रथमान्तमुख्यविशेष्यकत्वभ्रमनिरासा
र्थत्वेनैव वा सार्थक्याच्च। न चैवं तर्हि प्रथमपुरुषभिन्ने "अहं पण्डितः,त्वं पण्डितः"इत्यादौ तत्साकांक्षत्वे प्रमाणाभावः। तत्रापि प्रातिपदिकार्थप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति विशेष्यतासम्बन्धेन सुब्जन्योपस्थितिः कारणम्,लिङग संख्याव्यतिरित्तसुबर्थप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति च क्रियापदजन्योपस्थितिः कारणमिति
क्लृप्तकार्यकारणभवयोरेव प्रमाणत्वात्।अत एव प्रथमस्थलेऽपि न प्रातिपदिकोपस्थितस्यैव चैत्रस्य क्रियायामन्वयः,अपि तु प्रथमोपस्थितस्यैव। यदात्वभिहितकारकवाचिनी प्रथमेति मतम्,तदा सुताराम्।
अतस्सिद्धं लाघवानुरोधेन सर्वत्र भावनैव मुख्यविशेष्यभूतेति।
भावनामुख्यविशेष्यत्वे शङ्का-परिहारौ
न चानुभवानुरोधेन व्युत्पत्तिनानात्वमप्यङ्गीकृत्य योग्यतया साक्षात्सम्बन्धेन तत्तद्विशेष्ये तस्य तस्यान्वयो नायुत्त इति वाच्यम्। तथात्वे "राजपुरुषः"इत्यादावपि राज्ञस्साक्षात्स्वस्वामिभावसम्बन्धेनैवान्वयानुभवात् समासस्थले व्युत्पत्त्यन्तरमङ्गीकृत्य राज्ञ एव भेदसम्बन्धेन पुरुषान्वयोपपत्तेः पूर्वपदेसम्बन्धिलक्षणापत्तेः। अर्धपिप्पलीत्यादौ उत्तरपदे लक्षणानापत्तेश्च। "यजेत स्वर्गकामः"इत्यादौ स्वर्गसाधनत्वस्य यागे प्रतीयमानस्य मानसबोधविषयत्वमङ्गीकृत्य क्लृप्तव्यत्पत्तित इष्टसाधनीभूतयागानुकूलकृतिमान् स्वर्गकाम इत्येवंविध शाब्दबोधस्य भवत्सम्मतस्यानापत्तेश्च। तस्मादनुभूयमानस्य साक्षात्सम्बन्धस्य परम्परासम्बन्धघटकत्वेन, मानसबोधविषयतया वा उपपत्तेर्न प्रथमक्लृप्तव्युत्पत्तिभङ्गेन व्युत्पत्त्यन्तरकल्पनं प्रमाणवत्। अतस्सिद्धं सर्वत्र वर्तमानकालस्य कृतावेवान्वयः-इति। अतस्तत्क्षणेष्वेव लटश्शत्तिः,न तु लडुच्चारणस्य सक्यतावच्छेदक कोटिप्रवेशः। तस्य तदादौ बुद्धिस्थत्वस्येव शत्तिग्रहोपलक्षणत्वात्।
अथवा लडादेर्लट्त्वादिकमेव शक्यतावच्छेदकम्। तदवच्छिन्नस्य च कालिकसम्बन्धेन प्रकृतशाब्दबोधोपधायकस्ववृत्तित्वं कृतौ सम्बन्धः। कृतेः आख्यातत्वेन रूपेन लड्बोध्यत्वात्। तेन मैत्रीयप्रयोगकालीनकृतिध्वंसकाले नचैत्रलट्प्रयोगापत्तिः।
लिडर्थः, तदन्वयप्रकारश्च
एवं लिङर्थोऽपि भूतानद्यतनत्वविशिष्टपारोक्ष्यरूपो भावनायामन्वेति। तत्र भूतत्वं लिडुच्छारण कालीनध्वंस प्रतियोगिक्षणवत्त्वम्। तच्च कालिकसम्बन्धेन कृतावन्वेति। इदञ्चान्तिमकृतावेव, तेनानेकदिन साध्यपाकस्थलेप्याद्य कृतिध्वंसकाले न पपाचेति लिट्प्रयोगः। लिडुच्चारणकालीनध्वंसप्रतियोगित्वं वा। तदपि स्वरूपसम्बन्धेनान्तिम कृतावन्वेति। लिडुच्चारण काल एव वा लिडर्थः। लिडेव वा पूर्ववत्। तस्य च स्ववृत्तिध्वंसप्रतियोगित्वादिसम्बन्धेनतस्यामन्वयः। ननाशेत्यादौ भूतत्वान्वयः पूर्ववत्। अनद्यतनत्वम्
लिडुच्चारणदिन भिन्नदिनवृत्तित्वम्। परोक्षत्वञ्च प्रयोक्तृवृत्तिसाक्षात्करोमीत्येतादृशविषयताशालिज्ञानाविषयत्वम्। इदं द्वयमपि कृतावन्वेति।परन्त्वाद्यं साक्षात्सम्बन्धेन,द्वितीयं तु स्वसम्बन्धिधात्वर्थावच्छिन्नत्वसम्बन्धेन। चैत्रवृत्तिकृतेः प्रयोक्तृसाक्षात्काराविषयत्वेन, तस्यां तदभावबोधस्य व्यर्थत्वात्। बुध्यतां वा स्वकृतौ प्रसिद्धस्य साक्षात्कारविषयत्वस्य तस्यामभावः। उत्तम पुरुषेऽप्यनवधानेन पारोक्ष्यं द्रष्टव्यम्। शत्तिस्त्वर्थत्रये प्रत्येकम्,विशेषण विशेष्यभावे विनिगमनाविरहात्। अतवोत्तक्षणेऽपि न विशेषणता,विनिगमनाविरहात्।
लुडर्थस्तु - पत्ता इत्यादौ अनद्यतनत्वविशिष्टं भावित्वम्।तच्च लुङुच्चारणकालीन प्रागभाव प्रतियोगिक्षणवत्त्वादिकं पूर्ववदाद्यकृतावन्वेति।
लृडर्थोऽपि पक्ष्यतीत्यादौ अनद्यतनानद्यतनसाधारणभविष्यत्वसामान्यं तत्रैव।
लेट् वेद एव तदर्थो लिङर्थ एव "समिधो यजती "त्यादौ।
लोडर्थोऽपि लिङर्थ एव,प्रैषादयः,कृत्यप्रत्ययथार्थाश्च। "प्रषातिसर्गप्राप्तकालेषु कृत्याश्च "झ्र्3-3-136ट इति सूत्रे चकारेण लोटोऽप्यनुकर्षणात्।
लङर्थ स्त्वनद्यतनभूतत्वम्। अपचदित्यत्र "भूते"इत्यनुवृत्तौ "अनद्यतने लङ्"झ्र्3-2-111टइति सूत्रात्। लिङर्थस्तु पूर्वमेव निरूपितः।
लुङर्थः अपाक्षीदित्यत्र भूतत्वमात्रम्।
लृङर्थस्तु हेतुहेतुमत्भावविशिष्टक्रियातिपत्तिः। यथा "यदि सुवृष्टिः अभविष्यत्, तदा
सुभिक्षमभविष्यदि"ति। अत्र वृष्टि-सुभिक्षयोर्हेतुहेतुमत्भावात्।उभयोरनिष्पत्त्या च क्रियातिपत्तिः।अयं भाविनि-भूते
च। दृष्टो मया भवतः पुत्रोऽन्नार्थे चक्रममाण; दृष्टश्चापरो द्विजो ब्राह्मणार्थी,यदि तेन स दृष्टः अभविष्यत्ततो-
अभोक्ष्यत,नतु भुत्तवानित्यादौ भूतेऽपि प्रयोगदर्शनात्। अनयोः चार्थयोस्साक्षादेव स्वरूपसम्बन्धेन भावनान्वयः।
अत्र च सर्वत्र लकारेषु शत्ततावच्छेदकं तत्तल्लकारत्वम्,वक्ष्यमाणरीत्या वा तत्तदादेशविशेषत्वं बोध्यम्।
सर्वथा तदर्थस्य भावनायामेवान्वयः इति सिद्धम्।
आत्मनेपदार्थस्यान्वयप्रकारः
एवमुपग्रहविशेषस्यात्मनेपदादेरर्थः कर्तृगामिफलादिरूपः,सोऽपि कर्मतादिसम्बन्धेन तस्यामेवावन्वेति,यद्यपि स्वर्गत्वादिरूपेणासौ स्वर्गकामादिपदैरुत्तः,तथाऽपि कर्तृगामित्वादिना तदबिधानमात्मनेपदादिना नानुपपन्नम्। अस्तु वा कर्तृगामित्वादिकमेव तदर्थः,स च स्वाश्रयफलकर्मत्वादिसम्बन्धेन कृत्यन्वयी।
आख्यातवाच्यसंख्याया अन्वयप्रकारः
एवमेकत्वादिसंख्याया अपि तिबाद्युत्तायास्सामानाधिकरण्यसम्बन्धेन तस्यामेवान्वयः,न तु साक्षात्सम्बन्धेन कत्र्रादौ,"भावप्रधानमिति"स्मृतिसंकोचे प्रमाणाभावात्। कार्यकारणभावादिकल्पनागौरवापत्तेश्च। तत्रापि कत्र्राख्यात स्थले स्वाश्रयसमवेतत्वसम्बन्धेन,"चैत्रेणौदनः पच्यते" इत्यत्र हि चैत्रेण पाकेनौदनः क्रियत इति विवरणानुसारात् कृतिरेवाख्यातार्थः।पाकस्य करमत्वम्,चैत्रस्य च कर्तृत्वं प्रतीयते। आत्मनेपदेन च लक्षणयाकर्म,उत्तानुशासनानुरोधात्। फलन्तु विक्लृत्त्यादि न कस्यापि पदस्यार्थः,तस्यान्यलभ्यत्वात्। अत एव फलमात्मनेपदस्यार्थः,कृतिस्तृतीयार्थ इत्यप्यपास्तम्। "चैत्रः पचती"त्यादौ कृतावपि शत्तेरावश्यकत्वेनानेकशत्ति-
कल्पने गौरवात्। "चैत्रेणोदनः क्रियते "इति तृतीयातः कृतेः पृथग्विवरणाच्च। अतश्च तत्र कृतेरेव आख्यातार्थत्वात्तस्यामेकत्वान्वयः स्वाश्रयीभूततौदनवृत्तिविक्लृत्तिरूपफलजनकपाकचनकत्वसम्बन्धेन नानुपपन्नः।
भावाख्यतार्थनिरूपनम्
एवं भावाख्यतेऽपि "चैत्रेण सुप्यते,गगनेन स्थीयते" इत्यादौ आख्यातेन स्वापः क्रियत इति विवरणात्
भावनैवोच्यते। स्थीयत इत्यत्राप्याश्रयत्वम्। न च तत्र लक्षणायां प्रमाणाभावः,"चैत्रो जानाती"त्यादौ विशेषणीभूतधात्वर्थान्वयस्येव "गगनेन स्थीयते"इत्यादौ विशेषणीभूतधात्वर्थान्वयस्यापि लक्षणाबीजत्वोपपत्तेः। न च तत्र धात्वर्थविशेष्यक एव बोध,भावनाप्रकारबोधत्वावच्छिन्नं प्रत्याख्यत पदज्ञानत्वेन कारमत्वस्यान्यत्र क्लृप्ततया "समिधो यजती"त्यादौ प्रथमान्तपदाध्याहरस्येव,धात्वर्थप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति धातुपदज्ञानत्वेन कारणत्वस्यान्यत्र क्लृप्ततया तन्निर्वाहार्थं भावाख्यातेप्याश्रयत्वलक्षणोपपत्तेः। तत्रापि "भावप्रधान
मिति"स्मृत्या,प्रत्ययार्थप्राधान्यस्मृत्या च भावनाया एव प्राधान्यम्। अनुशासनबलाच्चाख्यातेन कर्तृ-कर्म - लक्षणावद्भावरूपधात्वर्थस्यापि गुणत्वेन लक्षणा। तथा गगननिष्ठं स्थितिमत् स्थित्याश्रयत्वमिति शाब्दबोधः।
द्वितीयवारं स्थितिबोधस्त्वनुवादस्साधुत्वार्थः। अतः स्थीयत इत्येकत्वमपि स्वाश्रयीभूतभावरूपधात्वर्थनिरूपितत्व-
सम्बन्धेनाश्रयत्वादावेवान्वेति। भावप्रधानमिति स्मृतिसंकोचे प्रमाणाभावात्। न चैवं धात्वर्थस्य द्वित्वादिविवक्षायां-
द्विवचनाद्यापत्तिः। प्रयोगाभावसहकृतानुशासनबलेन एकवचनेनैव द्वित्वादिलक्षणात्। अत एव "उष्ट्रासिका -
आस्यन्ते "इति महाभाष्यकारवचनात् भावेऽपि बहुवचनं क्वाचित्कमेव। एवं "कर्मवत्कर्मणा तुल्यक्रियः "-
इति सूत्रात् "पच्यते ओदनस्वयमेवे"त्यादौ यत्र सकर्मकधातोर्यत्कर्मकारकं तद्वृत्त्यखण्डोपाधिरूपकर्मत्वाविवक्षया-
कर्तृत्वविवक्षा,तत्राख्यातेन तस्यैव गुणत्वेन लक्षणयोपादानादाख्यातेन विवरणानुसारेण शक्त्यैव कृतेरुपादानात्-
तस्यामेव कर्तृत्वस्य स्वनिरूपक विक्लृत्तिरूप फलजनक पाकजनकत्वसम्बन्धेन,ओदनस्य च स्वनिष्ठकर्मत्व-
निरूपकफलप्रयोजकत्वसम्बन्धेनान्वय इति व्यत्तं कौस्तुभे।
तत्सिद्धं भावनातिरित्ताख्यातार्थस्य सर्वस्य भावनायामेव प्रकारतेति,तस्या मुख्यविशेष्यत्वम्। धात्वर्थं प्रतितु तस्या विशेष्यत्वम्,"प्रकृति-प्रत्ययौ प्रत्ययार्थं सह ब्रूतः,स्तयोस्तु प्रत्ययः प्राधान्येन"इति स्मृतिवशादेवाविवादम्। अत एव न तस्य प्रत्ययार्थान्तरं प्रति प्रकारता ; विशेष्यगामित्वे सम्भवति,प्रकारगामित्वस्यान्याय्यत्वात्।
इति श्रीमदाचार्यखण्डदेवविरचिते भाट्टतन्त्ररहस्ये
भावनावादः समाप्तः
अथ धात्वर्थनिरूपणम्
मण्डनमिश्रमतोपन्यास-तन्निरासौ
अथ कोऽयं धात्वर्थो नाम?अत्र विवदन्ते बहवः तत्र मण्डनमिश्राः तावत् विक्लृप्त्यदिरूरूपं फलमेव धातर्थः, तदनुकूलफूत्कारादिरूपो व्यापारसंघस्तु सर्वोऽपि व्यापारत्वेन प्रत्ययार्थः, फलस्य च तं प्रति प्रकारत्वमित्याहुः।
तन्न। गमनजन्यसंयोगाश्रयो ग्राम इति प्रयोगानापत्तेः। संयोगाख्यस्य फलस्य गमनरूपत्वेन-
तज्जन्यत्वाभावात्। गमनाश्रयो ग्राम इति प्रयोगापत्तेश्च। न च ल्युटो भावनावाचकत्वेन व्यापाराभिधानान्नैतादृशप्रयोगाद्यापत्तिः। गम्यर्थवान् ग्राम इति प्रयोगस्यैवमप्यापत्तेः। गम्यर्थजन्यसंयोगाश्रयो-
ग्राम इति प्रयोगानापत्तेश्च। स्वत्वध्वंसाख्यस्य फलस्य यजिपदार्थत्वे तस्यैव फलभावनाकरणत्वेन स्वर्गसाधनतापत्तेः, स्थायिनस्तस्मादेव स्वर्गोत्पत्त्युपपत्तावपूर्वकल्पनानापत्तेश्च।
व्यापारमात्रं धात्वर्थ इति प्राचीनशाब्दिकमतम्
अतो व्यापारमात्रं धात्वर्थः,फलञ्च द्वितीयार्थ इत्यन्ये। तदपि न, व्यापरत्वेन वाच्यत्वे, सर्वधातूनां-
पर्यायतापत्तेः, क्रियात्वादिना विशेषरूपेण वाच्यत्वे, त्यजि-गम्योः पर्यायतापत्तेश्च। पूर्वदेशविभागानुकूला
क्रिया त्यजेरर्थः। उत्तरदेशसंयोगानुकूला सैव गमेः। तद्यदि क्रियामात्रं धात्वर्थः, फलसामान्यञ्च -
द्वितीयार्थः, तदा तयोः पर्यायतापत्तिः।
धात्वर्थविषये नव्यवैयाकरणमतोपन्यासः
अत उभयं-फलम्, व्यापारश्च धात्वर्थः, उभयत्र च प्रत्येकं शत्तिः। नात ओदनादिपदार्थस्यैकदेशान्वय-
शङ्का। तयोश्च जन्यजनकभावस्संसर्गः। व्यापारविशेष्यकश्च बोधः। तत्रैव कर्मकारकातिरित्तसर्व- कारकाणामन्वयः, कर्मकारकस्य च फले।व्यापारश्च शरीरनिष्ठः फूत्कारादिः, आत्मनिष्ठः प्रयत्नादिश्च-
तत्वेन वाच्यः। अनुगतैकधर्मान्तरस्य निर्वत्तुमशत्तेः। न चैवं सर्वकारकव्यापाराणां तत्त्वेन वाच्यत्वे नानार्थकत्वापत्तिः, इष्टापत्तौ वा सर्वकारकाणां प्रथमान्ततापत्तिः। नानार्थत्वेऽपि यत्कारकव्यापाराणां यदा विवक्षा, तदा तेषामेव बोधस्तदादाविव बुद्धिस्थस्य। तत्कारकस्यैव च तदा प्रथमान्तत्वम्, अतएव "स्थाली पचती"त्यादिप्रयोगोऽपि विवक्षायां संगच्छते। अतस्सर्वोऽपि व्यापारो धात्वर्थः। आख्यातार्थस्तु यागादि विकरणस्थले कर्म, शबादिविकरणस्थले कर्ता, अकर्मकधातूत्तरयागादिविकरणस्थले च भावरूपो धात्वर्थ एव। "लः कर्मणि"इत्याद्यनुशासनात्। सर्वेषाञ्च धात्वर्थं प्रति योग्यसंम्बन्धेन गुणत्वम्। "भावप्रधानमाख्यातमि"ति स्मृत्या भावपदवाच्यधात्वर्थस्याख्यातार्थं प्रति प्राधान्योत्तेः। प्रत्ययार्थप्राधान्यस्मृतिस्तु सुबादिविषया-इति वैयाकरणाः।
वैयाकरणमतखडनम्
तदपि न। फूत्कारत्वादेः पचतीत्यतोऽप्रतीतेः, अभासमानस्य शक्यतावच्छेदकत्वायोगात्। फूत्कारादिकं विनाऽपि चैत्रनिठक्रियान्तरमादाय स्वतस्सिद्धज्वालया जायमाने ओदने "चैत्रः पचती"ति प्रयोगाच्च।
तत्तद्व्यापारस्य तत्त्वेनानुभवे यागः, इच्छा, ज्ञानं वेति वादिविप्रतिपत्त्यनुपपत्तेश्च।अतः अनुभूयमानं पाकत्वं यागत्वादिकमेव-तत्तत्फलोपधायकतावद्व्यापारवृत्तिसामान्यं पच्यादिपदशक्यतावच्छेदकम्। तत्सत्त्वे पाकः पाक इत्याद्यनुगतप्रतीतिः प्रमाणम्। फलोपधायकतावच्छेदकतया, शक्यतावच्छेदकतयैव वा
तत्सिद्धिः। फलोपधायकव्यापरत्वादेः प्रमाणान्तरतो बोधः, न तु शाब्दबोधः।
अत एव फलस्यापि न द्वितीयया बोधः, अखडोपाधिरूप कर्मत्वस्यैव तदर्थतायाः स्थापयिष्यमाणत्वात्।
शक्यतावच्छेदकञ्च तत्तद्धातुत्वम्।
पाकपदार्थनिर्वचनम्
पाकत्वादिकञ्च विक्लृत्तिजनकव्यापारवृत्त्येव, न तु तत्प्रयत्नादिवृत्त्यपि।"पाकं करोमी "त्यादिना यत्नादेः पाकात्पृथग्विव्रियमाणत्वात्। न च घञादिसमभिव्याहृतधातोः फल एव शत्तिकल्पनात् पृथग्विवरणोपपत्तिः, अनेकशत्तिकल्पने व्यापारविषयकशत्तिप्रतिबन्धकल्पने वा गौरवात्। "ग्रामो गमनवानि"ति प्रतीत्यापत्तिभयेन व्यापारप्रतीतेरप्यावश्यकत्वाच्च। अत एव विक्लृत्तिजनकव्यापारसमूह एव पाकपदार्थः,न तु तज्जनकयत्नादिरपि,तस्य पृथग्विव्रियमाणत्वेन पच्यर्थत्वाभावात्। अत एव -तेजस्संयोगमात्रं पच्यर्थः, न तु विक्लृत्त्यनुकूलव्यापारसामान्यमित्यपि प्रत्युत्तम्। अग्निसंयोगानुकूलकृत्यभाववत्यपि भत्तविक्लृत्त्यनुकूलावस्रावणकर्तरि पचतीति प्रयोगात्।
अत एव पाकात्पृथग्विव्रियमाणयत्नादेर्भासमानस्य भानकारणजिज्ञासायां पारिशेष्यादाख्यातार्थत्वमेव। तÏस्मश्च पाकादेः प्रकारत्वम्,प् प्रकृत्यर्थत्वादेव। एवञ्च प्रत्ययार्थप्राधान्यस्मृतिरपि न संकोचिता भवति।
इति श्रीमदाचार्यखण्डदेवविरचिते भाट्टतन्त्ररहस्ये
धात्वर्थनिरूपणं समाप्तम्
अथाख्यातार्थनिरूपणम्
पार्थसारथिमिश्राणां मतरीत्याऽऽख्यातार्थविवरणम्
अत्र च पाकाद्यनुकूलव्यापारसामान्यस्यैव प्रत्ययार्थत्वम्,"पाकं भावयती"ति णिजन्तभूधातुना
व्यापारसामान्यवाचकेन विवरणात्। यदपि पाकं करोतीति विवरणम्,तदपि करोतेव्र्यापारसामान्यवाचकत्वादनुकूलमेव। नहि करोतिर्यत्नार्थकः,तथात्वे करोतेर्यततेरिवाकर्मकतापत्तेः।
फलव्यधिकरणव्यापारवाचित्वं हि धातोस्सकर्मकत्वम्। पलसमानाधिकरणव्यापारवाचित्वञ्चाकर्मकत्वम्। पचेः फलं विक्लृत्तिरोदनवृत्तिः, व्यापारश्चैत्रवृत्तिरिति व्यधिकणत्वात्सकमर्कः। स्वापस्य फलं सुखम्, तच्चै त्र एवेति द्वयोस्समानाधिकरणत्वमिति, सोऽकर्मकः। तद्यदि करोति-यतत्योरेकार्थकत्वम्, तदा एकस्यैवार्थस्य फलव्यधिकरणत्वम्, फलसमानाधिकरणत्वञ्च विरुद्धम्। अतः करोतिरपि व्यापार सामान्यवाच्येव।
अत एव "रथो गच्छती"त्यत्र रथो गमनं करोतीति विवरणमपि संगच्छते। अतः करोति-भावयतिभ्यां विवरणादाख्यातस्यापि फलोद्देश्यकं प्रकृतधात्वर्थातिरिक्तं व्यापारसामान्यं वाच्यम्। तच्च फलं क्वचिद्धात्वर्थः, क्वचित्स्वर्गादीत्यन्यदेतत्। व्यापारसामान्यस्य च विशेषाकांक्षारूपेतिकर्तव्यताकांक्षायां प्रयाजादि वाक्यैर्विशेषसमर्पणमिति पार्थसारथिः।
अत्रास्वरसः, यत्नस्यैवाख्यातवाच्यत्वमिति स्वमतञ्च
वस्तुतस्तु तत्तफलभेनेन, तत्तद्व्यापारभेदेन चानुगतैकलघूभूतशक्यतावच्छेदकाभावात् पचति-पाके यतते,पाकं करोतीत्यादिविवरणाच्चाख्यातस्य यत्नत्वमेव शक्यतावच्छेदकम्। न च
करोतिस्तदनुकूलव्यापारवाची। वातरोगादिना स्पन्दमाने चैत्रे स्पन्दानुकूलविजातीयवायुसंयोगरूपव्यापारवत्यपि
"नाहं स्पन्दं करोमि,अपितु वातरोगेण मच्छरीरं स्पन्दते"इति प्रतीत्या करोतेर्यत्नार्थकत्वप्रतीतेः,यत्नत्वस्य शक्यतावच्छेदकत्वे लाघवाच्च। एवञ्च रथो गमनं करोतीत्यादावनुकूलव्यापारे कृञो लक्षणेति ध्येयम्।
न च भवत्यर्थकर्तृकर्मत्वाविशेषात् करोतेर्भावयतिपर्यायत्वम्। पर्यायत्वाभावेऽपि भावयतिशक्यतावच्छेदक-
व्याप्ययत्नत्वशक्यतावच्छेदककत्वेनापि भवत्यर्थकर्तृकर्मकत्वोपपत्तेः।
सकर्मकत्वाकर्मकत्वनिर्वचनम्
न च करोतेर्यत्नार्थकत्वे यततेरिवाकर्मकतापत्तिः। सत्यपि यत्नरूपैकार्थत्वे धात्वर्थतावच्चेदकफलभेदेन सकर्मकत्वाकर्मकत्वव्यवस्थोपपत्तेः। यततेर्हि चैत्रनिष्ठा क्रियैव यत्नसमानाधिकरणं फलम्। करोतेस्तु तद्व्यधिकरणमुत्पत्त्याख्यं धात्वर्थतावच्छेदकं फलम्। ततश्च यथैव पचति-गच्छत्योव्यापाररूपक्रियैकत्वेऽपि फलभेदादेव व्यवस्था,एवमिहापि व्यापाररूपक्रियैकत्वेऽपि फलभेदादेव सकर्मकत्वाकर्मकत्वव्यस्थोपपत्तिः। तत्फलं पपुनरुभयत्रापि प्रमाणान्तरगतमेव धात्वर्थोपलक्षणम्,धातुवाच्यमेव वेत्यन्यदेतत्।
उक्तलक्षणखडनम्, लक्षणान्तरप्रणयनञ्च
वस्तुतस्तु-एतल्लक्षणस्य कोस्तुभोत्तरीत्या अव्याप्त्यादिदोषदुष्टत्वात् अविवक्षाविरहविशिष्ट कर्माकांक्षधातुत्वमेव सकर्मकत्वम्,तदभावश्चाकर्मकत्वमित्येवं कौस्तुभोत्तलक्षणं युत्तम्। अत्र चाकांक्षा समभिव्याहारात्मिका शब्दधर्मः। तेन सत्यप्यर्थैकत्वे यथा घटः कर्मत्वमित्यादावनाकांक्षत्वम्, घटमित्यादौ साकांक्षत्वम्,तथैव यततेः कर्मानाकांक्षत्वम्, करोतेश्च कर्म साकांक्षत्वेऽप्यविवक्षादशायाम् अकर्मकत्वा दविवक्षाविरहेति। अत एव ओदनस्य पच्यत इति भावेऽपि प्रयोगः,आसादिधातूनाञ्च स्वरूपेणाकर्मकाणामपि मासादिकालयोगे कर्मसाकांक्षत्वात् सकर्मकत्वाच्चैत्रेणास्यते सास इति प्रयोगापत्तिः।
एवमेकस्यैव ग्रथधातोः चैत्रनिष्ठव्यापारवाचित्वरूपधर्मपुरस्कारेण कर्माकांक्षत्वात् सकर्मकत्वम्, पुष्पनिष्ठ
व्यापारवाचित्वेन कर्मानाकांक्षत्वादकर्मकत्वञ्च द्रष्टव्यम्।
अतो यत्नार्थकत्वेऽपि करोतेस्सकर्मकत्वाक्षतेः,तेन विव्रियमाणाख्यातस्यापि यत्नार्थकत्वम्। एवञ्च "रथो गच्छति,जानाति, इच्छति,प्रयतते"इत्यादौ यत्र यत्नस्य बाधः,तत्रानुकूलव्यापारस्य,आश्रयत्वस्य वा लक्षणेति
द्रष्टव्यम्,नश्यतीत्यादौ प्रतियोगित्वे लक्षणा। तत्सिद्धं भात्त-मुख्यसाधारण्येन सर्वत्र धात्वर्थातिरित्ता भावनाऽऽख्यातार्थः-इति।
शत्ततावच्छेदकननिरूपणम्
तस्याश्च शत्ततावच्छेदकं करोतीतिविव्रियमाणाख्यतत्वम्। अतश्च भवतीत्यादौ करोतिना विवरणाभावेन भावनाभावात्,धात्वर्थ एव कारकान्वयः,परम्परासम्बन्घेनैकत्वान्वयश्चेति प्राञ्चः।
वस्तुतस्तु लाघवादाख्यातत्वमेव शत्ततावच्छेदकम्। भवतीत्यादावाश्रयत्वे लक्षणा।एवञ्च कारकाद्यन्वयेन
व्युत्पत्त्यन्तरकल्पनाऽपि। शत्ततावच्छेदकञ्च न लत्वम्। यथाकथञ्चिदुपस्थितलकारादपि भवनोपस्थित्यापत्तेः। नाप्यादेशोपस्थापितलत्वम्, शानजाद्यादेशोपस्थापितलकारादपि शक्त्या भावनाबोधापत्तेः। नापि तिबाद्यादेशोपस्थापितलत्वम्।तथात्वे तिबादीनामनेकेषां प्रवेशात् शत्ततावच्छेदकानामननुगमेन शक्त्यनेकत्वापत्तेः।
तद्वरं तिप्त्वादिनैव प्रत्येकं शत्तिः। अत एव तिप्त्वादिना लकारानुपस्थितावपि शाब्दबोधः। अन्यथाऽनेकेषु तिबादिषु तावतां शत्तिभ्रमाणां कारणत्वकल्पने गौरवात्।
एतेन-आख्यातत्वमेवैकं शत्ततावच्चेदम्। तच्च शक्यत्वसम्बन्धेनाख्यातपदवत्त्वम्। तद्वत्वञ्च तिबादिष्विति,ते शत्ताः-इत्यपास्तम्। तिबादिषु आख्यातपदवाच्यत्वाज्ञानेपि तिप्त्वेन पचतीत्यादौ ज्ञानेऽपि भावनाबोधात्। अतस्सिद्धमाख्यातार्थो भावनेति।
भावनायाः प्राधान्योपसंहारः
तस्याञ्च धात्वर्थस्य प्रकारत्वेनान्वयः। प्रत्ययार्थप्राधान्यस्मृतेस्संकोचेप्रणाभावात् । भावप्रधानमित्यस्य आख्यातार्थेषु अनेकेषु कस्य प्रधान्यमित्यपेक्षिते,भावपदवाच्यभावनाप्राधान्यमित्यपेक्षितार्थविधायकत्वोपपत्तौ प्रत्ययार्थप्राधान्यस्मृतिसंकोचानुपपत्तेः। अतोनिरुत्तस्मृतौ भावपदेन वैयाकरणपरिभाषितधात्वर्थस्य न ग्रहणमित्युत्तमेव।
न च प्रत्ययार्थप्राधान्यस्मृतेः सुबाद्यर्थलिङ्ग-संख्यादेः प्रकृत्यर्थं प्रति प्रकरतया संकोचावश्यकत्वे, यत्र करणत्वादौ प्रमाणान्तरेण प्रकृत्यर्थं प्रति प्राधान्यं प्रमितम्,तदनुवादमात्रतया भावनाविषयेऽपि बाधकाभावः।
"प्रत्ययार्थं सह ब्रूतः,तयोस्तु प्रत्ययः प्राधान्येन"इत्येकवचनश्रवणेन प्रत्ययार्थत्वसामानाधिकरण्येन प्रकृत्यर्थं प्रति प्राधान्यनियमात्। सुबाद्यर्थलिङ्ग-संख्यादानामप्राधान्येऽपि क्षतिविरहात्।
वस्तुतस्तु लिङ्ग-संख्यादीनामपि प्रत्ययार्थान्तराणां न प्रकृत्यर्थप्रकारता,अपि तु समानाबिधानश्रुत्या करमत्वादिरूपप्रत्ययार्थान्तरम्प्रत्येवेति वक्ष्यते। अतस्सिद्धं धात्वर्थस्य भावनायां प्रकारता-इति।
इतिश्रीमदाचार्यखण्डदेवविरचिते भाट्टतन्त्ररहस्ये आख्यातार्थनिरूपणं समाप्तम्
अथ धात्वर्थस्य भावनायां प्रकारतानिरूपणम्
धात्वर्थश्च क्वचिच्छक्यार्थ एव प्रकारः। "सोमेन यजेत "त्यादौ। क्वचिल्लक्ष्यार्थ एव। यथा-"अग्नीषोमीयं पशुमालभेत"त्यादौ यागः। लक्ष्यार्थोऽपि क्वचिच्छक्यार्थयुत्तः। यथा "पृष्ठैरुपतिष्ठे"इत्यादावात्मनेपदानुरोधेन-
समीपस्थितिरूपशक्यार्थविशिष्टमभिधानम्। वस्तुतस्तु "सोमेन यजेत"त्यादौ, तत्तद्विधिष्वपि विजातीययागत्वादिनैव लक्षणेति शक्यार्थान्वयोऽत्रानुसन्धेयः।
धात्वर्थस्य भावनान्वये संसर्गविमर्शः
तस्य च कृतौ संसर्गो नानुकूलत्वम्,पचति-पाकं करोतीति पाककर्मत्वस्यैव विवरणबलेन संसर्गत्वप्रतीतेः। अत एवौदनं पचती"त्यादौ पाकेनौदनं करोतीति विवरणात् पाककरणत्वस्यापि प्रतीतेस्तस्यापि संसर्गत्वम्। अतश्च कर्मत्व करणत्वान्यतरसंसर्गेणैव सर्वत्र भावनायां धात्वर्थस्यान्वयः। यद्यपि कृतिं प्रति पाकस्य करणत्वं
बाधितम्, कृतिसाद्यत्वात्पाकादेः। तथापि स्वनिष्ठकरणत्वनिरूपकौदनोद्देश्यकत्वसम्बन्धेन पाकस्य कृतावन्वयात्, करणत्वस्यापि संसर्गघटकतया संसर्गोपपत्तिः। अस्ति चौदनस्यापि कृतावुद्देश्यताख्या विषयतेतिनैतादृशसंसर्गबाधः।
तत्र च यत्र विध्यश्रवणम्,तत्र द्वितीयान्तपदाद्यश्रवणे "पचति चैत्रः "इत्यादौ धात्वर्थस्येष्टसाधनत्व अज्ञानेऽपि तस्य कर्मत्वमेव। आख्यातोपात्तभावनायाः करोत्यर्थतया तद्वदेव सकर्मकत्वनियमात्। अत एवाऽर्मकधातुस्थले अपि आख्यातोपात्ताया भावनायाः सकर्मकत्वमेव। अत एव तस्यास्तदाकांक्षायां "स्वास्थ्यकामः शयीते"त्यादौ कामपदोपात्तस्वास्थ्यादेरेव कर्मत्वेनान्वयः,स्वर्गकामपदेनेव लक्षणया स्वर्गादेः। धातुस्त्वकर्मक एव। अत एवात्र न भावनाकर्मणि द्वितीया। सा तु धात्वर्थकर्मण्येव।
सकर्मकधातुस्थले यथा "व्रीहीनवहन्ती"त्यादौ, तत्र तेषां प्रथमतो भावनायां कर्मत्वेनान्वयेऽपि, पाÐष्ठकं धात्वर्थेऽपि कर्मत्वमिति, तेषां धातूनां सकर्मकत्वोपपत्तिः। अतो भावनाया नित्यं सकर्मकत्वात् " पचति चैत्रः -
इत्यादि निरुत्तस्थले भावनायाः कर्माकांक्षायां समानपदश्रुत्या धात्वर्थस्यैव कर्मत्वम्। लौकिकवाक्यत्वाच्च तस्य वैयथ्र्येऽपि न दोषः।वेदे तु विध्यन्तरैकवाक्यत्वादिनास्तावकत्वाद्यसम्भवेन स्वाध्यायविध्यवगतप्रयोजनवत्त्वानुरोधेन
लडादेरेव लेट्त्वम्,लेडर्थकत्वं वा लक्षणया परिकल्प्य,भावनायास्वर्गादिभाव्यान्तरपरिकल्पनया धात्वर्थस्य तत्र
करणत्वेनान्वयः। विधेः प्रवर्तकत्वान्यथानुपपत्तत्या तत्समभिव्याहृतायां भावनायामिष्टभाव्यकत्वावश्यम्भावात्।
"घटं पटञ्चानये"त्यादौ चकारं विना कर्मद्वयान्वयदर्शनात्,करोतेरिवाख्यातोपात्तभावनाया अपि एककर्मकत्व-
नियमेन यागादेरपि तस्यां कर्मत्वानुपपत्तेश्च। अत एव यत्र विधिसमभिव्याहारस्य सत्त्वे,असत्त्वे वा द्वितीयादिना भाव्यान्तरं निर्दिष्टम्। यथा-"व्रीहीनवहन्यात्,ओदनं पचतीत्यादौ"तत्र धात्वर्तस्य करणत्वमेव।
यत्र तु तादृशस्थले अप्राप्तकरणान्तरसत्त्वम्, धात्वर्थस्य च प्रकरणादिनाप्राप्तिः। यथा "गोदोहनेन पशुकामस्य प्रणयेत्,दध्नेन्द्रियकामस्य जुहुयादित्यादौ,तत्राश्रयतया प्रकरणप्राप्तधात्वर्थानुवादमात्रं साधुत्वसिद्धयर्थं धातुः। न तु तदर्थस्य करणत्वेनान्वयः,न वाऽऽश्रयत्वेन। कर्मत्वातिरित्तस्याश्रयत्वस्य निर्वत्तुमसक्यत्वेन भावनायामिन्द्रियरूपकर्मावरुद्धायां होमस्यापिकर्मत्वेनान्वये एककर्मत्वभङ्गापत्तेः। अत एवानेकोद्देश्यनिमित्त वाक्यभेदेऽपि एककर्मकत्वभङ्ग एव दूषकताबीजमुत्तं कौस्तुभादौ।
भावनाया एककर्मकत्वस्वरूपविचारः
एककर्मकत्वञ्च नैककर्मकत्वम्,एककर्मकत्वाश्रय झ्र्कर्म टकत्वं वा, सर्वेभ्यो दर्शपूर्णमासौ,घटमानयेत्यादौ तदनापत्तेः। तत्र पुत्रादिवृत्तिकर्मत्वानाम् ,कर्मत्वाश्रयपुत्रादीनां वाऽनेकत्वात्। नाप्येककर्मत्वावच्छेदकत्वम्। "सर्वेभ्यो दर्शपूर्णमासावि "त्यादौ,व्रीहीन् प्रोक्षती"त्यादै च तदनापतत्तेः। तत्र पुत्रत्व-पशुत्वादीनाम्,तदपूर्वसाधनत्वानाञ्च कर्मतावच्छेदकानां भेदात्। किन्त्वेकबोधविषयकर्मत्व पर्याप्यधिकरणतावच्छेदक धर्मवत्त्वमित्युत्तं कौस्तुभे। निरुत्तस्थलेषु च सर्वत्र कर्मत्वपर्याप्ति अधिकरणतावच्छेदकधर्माणामेकेन पदेनैकस्यैव समूहालम्बनात्मकस्य बोधस्य जननादेककर्मकत्वोपपत्तिः। "अध्वर्यु-यजमानौ वाचं यच्छतः"इत्यत्र चाध्वर्युत्व यजमानत्वयोः कर्मत्वाधिकरणतावच्छेदकयोरेकबोध विषयत्वाभावात् द्विकर्मकत्वापत्तिः। अतः पर्याप्तीति । तत्र -द्वन्द्वोत्तरविभत्तया देवतात्वादेरिव कर्मत्वादेरपि व्यासज्यवृत्तित्वावसायात्,तत्पर्याप्यधिकरणतावच्छेदकधर्मस्याध्वर्यु-यजमानोभयत्वस्य द्वन्द्वजन्यैकबोधविषयत्वेन एककर्मत्वोपपत्तेः। उपपादितञ्चैतत् कौस्तुभादौ। एवं "शुक्लं घटमानये"त्यादौ शुक्लस्य घटे अभेदान्वयात् पदद्वयेन,घट पदेनैव वा शुक्लगुणविशिष्टघटलक्षणादेककर्मत्वोपपत्तिः। एवं "घटं पटञ्चानये"त्यादौ इतरेतरयोगार्थचकाररूपतात्पर्यग्राहकानुरोधेन द्वितीयान्तपदद्वये लक्षणया तदुपपत्तिः। यथा चैवं सति निमित्तद्वयस्थले उद्देश्यानेकत्वनिमित्तकवाक्यभेदस्य दूषकताबीजमेककर्मकत्वभङ्गापत्तिः तथा कौस्तुभे व्यत्तम्।
तत्सिद्धं यत्र द्वितीयादिना भाव्यान्तरं भावनायामन्वययोग्यमुपात्तम्,तत्र न धात्वर्थस्य कर्मत्वम्-इति,
धात्वर्थस्य कर्मत्वेनाऽन्वयस्थलानि
यत्र तु तन्नोपात्तम्,धात्वर्थस्य चेष्टसाधनत्वं प्रमानान्तरेण प्रमितम्,तत्र स्ववाक्यविधेयगुणान्तरसत्त्वे धात्वर्थस्य कर्मत्वमेव। यथा-"दध्ना जुहोती"त्यादौ। न चैवं "जुह्वा जुहोती"त्यादौ जुहोतेस्सकर्मकत्वम्,कर्मान्तरावश्यंभावेन भावनाया द्विकर्मकत्वापत्तिः। सकर्मकस्यापि भावाख्यात इव कर्माविवक्षोपपत्तेः। एतादृशेऽपि
विषये यदि तृतीयान्तनामधेयश्रवणम्,तदा करणत्वमेव। यथा-"समे दर्श-पूर्णमासाभ्यां यजेत,उच्चैः प्रवग्र्येणे"त्यादौ। यत्र तु तादृशगुणश्रवणाभावः,तत्र धात्वर्थस्यैव कर्मत्वेन प्रयोजनान्तरार्थमनुवादः। यथा-विद्वद्वाक्ययोः,तदभावे तु "तनूनपादं यजती"त्यादौ कर्मान्तरमेव करणत्वेनेत्याद्याकरे व्यत्तम्।
यत्र तु नेष्टसाधनत्वं प्रमितम्,स्ववाक्ये चोद्भिदादिवन्न वा तृतीयान्तनामधेयश्रवणम्। यथा-सोमेन यजेत,अग्निहोत्रं जुहोती"त्यादौ,तत्र स्ववाक्ये इष्टविशेषानवगमेऽपि विधिबलेन भावनाया इष्टभाव्यकत्व अवगमात्, इष्टसामान्यस्यैव तत्र भाव्यत्वमङ्गीकृत्य धात्वर्थस्य करणत्वमेव। अग्निहोत्रमित्यत्र द्वितीयाऽपि तत्र करणत्वलणार्थैवेति सांप्रदायिकाः। एतादृशे विषये समानपदश्रुत्या भावनापेक्षितं कर्म धात्वर्थ एव,ळ्र्ुिद्यर्œिर्˜िर्र्ििंग्र्र्îिश्व्र्âिध्र्र्र्ििं˜र्र्ििंद्यर् िर्ˆिंद्यरर््िीं™र्र्ििद्यर््ियर्ब्र्र्द्मििर्âि।
न च इष्टसाधनत्वेनाज्ञातस्य कर्मत्वानुपपत्तिः,अनीप्सितकर्मत्वेन अन्वयोपपत्तेः। न च विधेः प्रवर्तकत्वव्याघातः, विध्यवगतेष्टभाव्यकत्वज्ञानस्य प्रवृतिं्त प्रति कारणत्वेऽपि शाब्दबोधं प्रत्यकारणत्वात्,तदभावेऽपि होमकर्मकभावनाशाब्दज्ञानोपपत्तेः। न च भाव्यत्वेनान्वितस्य तस्य भाव्यान्तरानाकांक्षत्वात् फलवाक्येऽपि स्वर्गसाधनत्वबोधानापत्तिः। साधनत्वेनान्वितस्यार्थाद्विध्यनुरोधेन कृतिसाध्यत्वज्ञानवत्,कृतिसाध्यत्वेन बुद्धस्यापि विध्यपेक्षानुरोधेनैव इष्टविशेषसाधनतया वाक्यान्तरेण,विश्वजिन्न्यायेन वा बोधोपपत्तेः।
अत उत्पत्तिवाक्ये धात्वर्थस्य कर्मत्वेनैवान्वय इति प्रभाकरोत्तमपि युत्तमिति तर्करसिकाः। सर्वथा सिद्धं धात्वर्थस्य कर्मत्व-करणत्वान्यतरसंसर्गेणभावनायां प्रकारता-इति।
करणत्व-कर्मत्वादेर्धातुलक्ष्यत्वमिति संप्रदायमतम्
साम्प्रदायिकास्तु-धातुना स्वार्थवृत्तिकर्मत्व-करणत्वान्यतरत् लक्षणया प्रतिपाद्यते। तस्यैव स्वनिरूपकत्व स्वनिरूपकोद्देश्यकत्वान्यतरसंसर्गेण भावनायामन्वयः,न तु कर्मत्वादेरपि संसर्गत्वम्। तथात्त्वे "प्रकृति-प्रत्ययौ प्रत्ययार्थं सह ब्रूतः,इति साहित्यरूपान्वयानुशासनवैयथ्र्यापत्तेः। न हि पदार्थानुशासनप्रवृत्तानां तेषांमन्वयानुशासकत्वं युज्यते। अतः कर्मत्व-करणत्वादिरूपान्योऽपि वृत्त्यैव पदार्थविधया भासते। अत एव ज्योतिष्टोमेनेति तृतीयाऽपि पदार्थविधया भसमानकरणत्वानुवादिकेति संगच्छते। विशेषण-विशेष्ययो प्रकारतया
भासमानकारवत्वस्यौत्सर्गिकत्वात्-इत्याहुः।
तत्सिद्धं धात्वर्थस्य सर्वत्र भावनायां प्रकारतेति। सा परमाख्यातोपात्ता कृदाद्युपात्ता च लिङ्गानन्वयिनीति वक्ष्यते,तेन वस्तुपदोपात्तायां भावनायां नान्वयः।
इति श्रीमदाचार्यखण्डदेवविरचिते भाट्टतन्त्ररहस्ये धात्वर्थस्य भावनायां प्रकारतानिरूपणं समाप्तम्
सुबर्थस्य भावनान्वयनिरूपणम्, संबुद्ध्यर्थश्च
एवं सुबर्थस्यापि लिङ्ग-संख्याभिन्नस्य तस्यामेवान्वयः प्रकारतयेति ज्ञेयम्। तथाहि प्रथमार्थस्तावल्लिङ्ग-संख्याभिन्नस्तस्यां प्रकारत्वेनान्वेति। न च तस्याः साधुत्वमात्रार्थमुच्चारणेन तदर्थे मानाभावः। सम्बोधनेऽभिमुखत्वस्यापि भासमानत्वेन तदसिद्धेः। तच्च प्रकृतशाब्दबोधाश्रयत्व प्रकारकवक्तृभिन्न विशेष्यकवक्तृच्चछाविषयीभूतशाब्दज्ञानवत्त्वम्, प्रकृतशाब्दबोधनिष्ठविषयतानिरूपितवक्तृभिन्ननिष्ठ वक्त्रिच्छाविषयतावत्वं वा। युष्मत्पदशक्यतावच्छेदकञ्च तदेव। अस्ति "चेदं देवदत्त ?गामानयेत्यादौ,देवदत्त चैत्रो गामनयतीत्यादौ च। तस्य उत्तविधज्ञानवत्त्वात्। तादृशविषयतावत्त्वाद्वा।
न च यत्र स्नुषां बोधयितुं कन्यासम्बोध्यवाक्यप्रयोगः,तत्र स्नुषायामतिव्याप्तिः। तत्र स्नुषायास्सम्बोध्यत्वेऽपि तत्संबोधनस्य शब्दतात्पर्यविषयत्वाभावेन तस्यां सम्बोधनप्रथमानापत्तेः।
तात्पर्यविषयत्वसत्त्वे च भवत्येव सा। अतएव चेतन एव सम्बोधनं मुख्यम्,अचेतने तु ज्ञानवत्त्वारोपेण गौणो- व्यवहारः।
संबोधनार्थस्य भावनान्वयनिरूपणम्
अत एवाद्योदाहरणेऽभिमुखत्वम्,कर्तृत्वञ्चेत्युभयं प्रथमार्थः,तत्र चाधेयत्वं प्रातिपदिकार्थसंसर्गः,तयोश्च विषयत्व निरूपकत्वाभ्यां भावनायामन्वयः। अन्त्ये चाभिमुखत्वस्यैव विषयत्वसंसर्गेण। "चैत्र मैत्रः कीदृशः" इत्यादावपि "अस्तिर्भवन्ती"त्यादिना क्रियापदाध्याहारस्यावश्यकत्वाच्छाब्दबोधाविघातः। चैत्र मैत्रो ग्रामं गच्छतु इत्यादौ तु लोडर्थप्रार्थनाया विषयीभूतायां भावनायां निरुत्तसम्बन्धेन सम्बोध्यत्वस्य,स्वरूपसम्बन्धेन स्वनिष्ठव्यापारप्रयोज्यत्वस्यचान्वयः,प्रतीत्यनुसारेण तत्तदर्थकलोडादेरेव तात्पर्यग्राहकत्वात्। अत्र च
प्रथमादेशविशेषाणामेव सम्बोधने शत्तिः,पृथगनुशासनबलात्। हे शब्दादिकं तात्पर्यग्राहकम्। व्यापारप्रयोज्यत्वादौ तु लक्षणैव। चैत्र मैत्रो ग्रामं गच्छती"त्यादौ प्रथमान्ते च तार्किकमतेऽपि भावनाविशेष्यत्वं नास्ति, प्रथमार्थरूपान्यविशेषणत्वात्। तत्राख्यातोपात्तसंख्यान्वयाभावाच्च। अतस्तैस्सम्बुद्धिभिन्नप्रथमान्तपद जन्योपस्थितिरेव भावनान्वयप्रयोजिकेति वाच्यम्। न च तदपि वत्तुं शक्यम्,चैत्र गामानये"त्यादौ तदनापत्तेः,न च तत्र त्वं पदाध्याहारः,तथात्वे "ब्राह्मणाः त्वं पचे"ति प्रयोगापत्तिः। न च युष्मदर्थकर्तृ - सम्बुद्ध्योः एकसंख्याकत्वम्,व्युत्पत्त्यन्तरकल्पनापत्तेः।
एतेनाभिमुखत्वादेः सर्वत्र प्रातिपदिकार्थप्रकारत्वमित्यपास्तम्। "चैत्र मैत्रः पचती"त्यादौ चैत्रे-
भावनाद्यन्वयापत्तेः।
वस्तुतस्तु अस्मन्मतेऽपि चैत्र ?मैत्रः पचतीत्यादौ चैत्रस्य कर्तृत्वेन भावनान्वयस्य निवारयितुमशक्यत्वात् सर्वत्र सम्बोधनमेव सम्बुद्धिप्रथमायाः अर्थः,न तु कर्तृत्वमपि। चैत्र?पचे"त्यादौ मध्यमपुरुषस्थले आख्यातेन सम्बोध्यायास्तद्व्यत्तेरेव कर्तृत्वेन लक्षणान्न सम्बोद्धयतिरित्तस्य कर्तृत्वप्रसङ्गः इति ध्येयम्। अतो द्वितीयादिसाधारण्येन प्रथमासुबर्थस्यापि प्रकारत्वमेव सर्वत्र युत्तम्।
इति श्रीमदाचार्यखण्डदेवविरचिते भाट्टतन्त्ररहस्ये सुबर्थस्य संबुद्धयर्थस्य च भावनान्वयनिरूपणं समाप्तम्
अथ पाणिनिमतेन प्रथमाविभक्त्यर्थनिरूपणम्
प्रथमायाः प्रातिपदिकार्थेन अर्थवत्वोपपादनम्
न च प्रथमायाः लिङ्ग-संख्ययोरिव सम्बोधनरूपार्थवत्त्वेपि तदरित्तार्थाभावात् "चैत्रः पचती"त्यादौ प्रातिपदिकार्थातिरित्तस्य विशेष्यभूतार्थस्याभावेन कथं द्वितीयादिसाधरण्येन सर्वत्र प्रथमार्थस्य प्रकारत्वमिति वाच्यम्। असम्बुद्धिप्रथमाया अपि अनुशासनबलेन लिङ्ग-संख्यातिरित्तार्थवाचित्वावगतेः। तथाहि- पाणिनिमतं-
तावत् "प्रातिपदिकार्थ-लिङ्ग-परिमाणवचनमात्रे प्रथमा"झ्र्2-3-46टइति सूत्रात् प्रातिपदिकार्थ एव। इदं हि लिङ्गाद्यंशे शक्यत्वानुशासनवत् प्रातिपदिकार्थांशे शक्यत्वानुशासनमेव,न तु प्रातिपदिकार्थे प्रातिपदिकेन विवक्षिते प्रथमायास्साधुत्वमित्येवम्परम्,वैयथ्र्यापत्तेः,वैरूप्यापत्तेश्च। अतश्च प्रातिपदिकार्थश्चैत्रादिरेव प्रथमार्थः।
न चैवमपि तस्य प्रातिपदिकेनैव बोधसिद्धेः"प्रथमायास्तदंशे साधुत्वार्थमनुवादकतया न प्रथमार्थस्यान्यत्र प्रकारतेति वाच्यम्। प्रातिपदिकस्यैव प्रथमार्थविशेषतात्पर्यग्राहकत्वाङ्गीकारेण प्रथमार्थस्यान्यत्र
प्रकारत्वे बाधकाभावात्।इतरथा सुबर्थप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति धात्वादिपदजन्योपस्थितिः कारणमित्येवंविधकार्यकारणभावे प्रथमातिरित्तत्वप्रवेशे गौरवात्।
प्रकृत्यर्थस्य प्रत्ययार्थं प्रति प्रकारत्वे प्रथमान्तप्रातिपदिकातिरित्तत्वप्रवेशे गौरवाच्च। आख्याताद्यर्थभावनादेः प्रथमान्तार्थं प्रति प्रकारत्वे व्युत्पत्त्यन्तर कल्पनापत्तेश्च। अतो लाघवात् सुबर्थत्वेन प्रथमार्थस्यापि चैत्रादेराख्यातार्थभवनायामेव प्रकारता। अत एवैतादृशे विषये प्रकृत्यर्थस्य चैत्रादेर्न प्रथमार्थ चैत्रादावन्वयः,
प्रकृतिप्रत्ययार्थयोः व्युत्पन्नस्यभेदान्वयस्य बाधात्, अभेदान्वयस्य चाव्युत्पन्नत्वात्। अतः प्रातिपदिकं तत्र प्रथमार्थविशेषतात्पर्यग्राहकमेव प्रथमोपस्थापितस्तु स एवाख्यातार्थभावनान्वयी।
नीलो घट इत्यादौ क्रियापदाध्याहारेणैव बोधः
न चैवमाख्यातपदाभावे तस्यानन्वयः। "काष्ठैरोदनमि"त्यादौ क्रियापदाध्याहारेणेव नीलो घट इत्यादावपि अस्तीत्यध्याहारस्यानुशासनविशिष्टतया सुतरामुपपत्तेः। नीलपदस्यापि वक्ष्यमानरीत्या नीलगुणे,नीलत्वजातौ वा
शत्तस्य लक्षणया लक्षितलक्षणया वा ,नीलत्वावच्छिन्नगुणविशिष्टद्रव्यपरस्य तात्पर्यग्राहकत्वात्,तदुत्तरप्रत्ययोत्तस्य तद्द्रव्यस्यापि न घटेन सहाभेदेनान्वयः। अपि तु घटवदेवास्तीत्याख्यातोपात्तभावनायामेव,
एकव्युत्पत्त्यैव शाब्दबोधोपपत्तेः। इतरथा विशेषणवाचकनामार्थस्याभेदसम्बन्धेन नामार्थान्तरान्वयकल्पना, तदुत्तर
द्वितीयादिविभत्तेरपि साधुत्वार्थकत्वकल्पना प्रकृत्यर्थस्य प्रत्ययार्थेऽन्वयव्युत्पत्तेश्च विशेषणवाचकप्रकृतिभिन्नविषयत्वकल्पनेत्येवं गौरवापत्तेः
नीलगुणस्य घटे भानोपपत्तिः
न च नील-घटयोरभेदानुभवानुरोधेन गौरवाङ्गीकरणमपि न दोष इति वाच्यम्। प्रथमाद्वयार्थस्य, नीलगुणविशिष्टस्य धटस्य च कर्तृतासंसर्गेण शाब्दबोधे भावनाविशेष्यके जाते,पश्चातद् घटस्य
परिच्छेदकीभूतगुणापेक्षायां गुणविशिष्टस्य च जात्यपेक्षायां मानसोऽभेदानुभव इति पाÐष्टकभोधमादायानुभवोपपत्तेः ।
अरुणैकहायन्योरभेदभानप्रकारः
न च शाब्दादाभासमानस्याभेदस्य वेदोत्थज्ञानविषयत्वाभावात्,अरुणयैकहायन्ये" त्यत्रारुण्यस्यैकहायन्यामन्वयाकरणेऽपि दोषाभावापत्तिः। वेदापेक्षितार्थविषयकस्य मानसस्यापि
ज्ञानस्य तात्पर्यविषयतया वेदार्थत्वात्।न हि वेदपदवृत्तिविषयत्वम्,वेदजन्यशाब्दबोधविषयत्वमेव वा वेदतात्पर्यविषयत्वप्रयोजकम्। तथात्वे "इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते"इत्यत्र शाब्दबोधे मन्त्राश्वाभिधानीसम्बन्धमात्रस्यैव विषयीकरणात्।तस्य च लिङ्गकल्प्यश्रुत्यैव सिद्धावेतद्वाक्यवैयथ्र्यापत्ते। तत्परिहारार्थमनुमीयमानस्य लैङ्गिकश्रुत्यभावस्यापि वेदतात्पर्यविषयत्वानापत्तेः परिसंख्याफलकत्वानापत्तिः।
अतो वेदापेक्षाशामकज्ञानविषयत्वमेव वेदतात्पर्यविषयत्वप्रयोजकम्। तच्च गुणविशिष्टद्रव्यस्य एकहायन्याश्चाभेदेऽपि अक्षतमेव।
आवश्यकञ्चैतत् परेषामपि। इष्टसामान्यसाधनत्वस्यैव लिङर्थत्वात् स्वर्गादिपदार्थस्य च कामनाविशेषणत्वेनेष्टेऽभेदान्वयानुपपत्तेः,इष्टसाधनीभूतयागानुकूलकृतिमान् स्वर्गकाम इति शाब्दबोधस्य आवश्यकत्वात्,तदुत्तरमिष्टेस्वर्गाभेदबोधो मानस एव शास्त्रतात्पर्यविषय इति। एतादृशतात्पर्यविषयीभूतबोध एव चेष्टे स्वर्ग भेदनिश्चयप्रतिबद्ध्यः,न तु शाब्दबोध इति,त्वायाप्यङ्गीकार्यमिति न ममैव तच्चोद्यावकाशः।
अरुणैकहायन्योरभेदस्य शाब्दत्वोपपादनम्
यदि तु त्वया एतादृशदोषभिया स्वर्गादिसाधनत्वमेव शत्तया,लक्षणया वा लिङ्गर्थः,,स्वर्गादिपदंञ्च तात्पर्यग्राहकमित्यभ्युपेयते,तदा मयाऽपि नीलपदोत्तरप्रथमार्थस्य गुणविशिष्टद्रव्यस्य स्वाभिन्नघटवृत्तिकर्तृत्व संसर्गेण भावनाऽन्वयः, घटपदञ्च संसर्गेऽपि तात्पर्यग्राहकम्। घटपदोत्तरप्रथमार्थस्यस्ववृत्ति कर्तृत्वेनेति शक्यं वक्तुम्,ततश्चाभेदस्यापि शाब्दत्वोपपत्तेः न कश्चिद्दोषः।
केचित्तु-विशिष्टविध्यादौ विशेषणविध्यादिवाचकपदसमूहकल्पनावदभेदबोधकवाक्यान्तरकल्पनैवेत्याहुः। सर्वथा प्रथमार्थस्य भावनायां द्वितीयादिसाधारण्येन भेदसम्बन्धेन प्रकारतेति सिद्धम्। एतेन-चैत्रादेर्नामार्थस्य,प्रथमार्थस्यैव वाऽऽक्यातोपात्तकत्र्रादावभेदान्वय इति वैय्याकरणमतमप्यपास्तम्;व्युत्पत्यन्तरकल्पने प्रमणाभावात्।
प्रथमार्थस्य चैत्रादेराख्यातार्थकत्र्रभेदान्वये युक्त्यन्तरम्, तत्खण्डनञ्च
यत्तु-"स्तोकं पचति"इत्यादौ नामार्थस्य स्तोकस्य पाके अभेदान्वयार्थं अभेदसम्बन्धेन निरर्थक सुप्समभिव्याहृतनामार्थप्रकारकशाब्दत्वावच्छिन्नम्प्रतिनिरुत्तनामसमभिव्याहृतपदजन्योपस्थितिः कारणमिति
कार्यकारणभावस्यैवावश्यकत्वात्,तेनैव चैत्रादेः योग्यतया कत्र्रादावभेदान्वयोपपत्तिः-इति।
तन्न-चैत्रपदोत्तरप्रथमाया निरर्थकत्वस्य पाणिन्यादिविरुद्धत्वात् स्वलेखनविरुद्धत्वाच्च। स्तोकमित्यत्र स्तोकप्रातिपदिकार्थः स्तोकत्वम्,द्वितीयार्थो लक्षणया आश्रयत्वम्,तस्य च साक्षात्, परम्परया वा पाकादौ,भावनायां वान्वयान्न निरर्थकसुप्त्वमिति तादृशव्युत्पत्तिकल्पनाया असिद्धेश्च।
यस्यापि स्तोकत्वविशिष्टं प्रातिपदिकार्थः,तस्यापि मते अभेदो लक्षणया द्वितीयार्थः,स च स्तोकप्रतियोगिकान्योन्याभावरूपः स्तोकत्वमेव,तस्य च भेदसम्बन्धेनैव पाकादावन्वयः।
"द्रव्यत्वावच्छिन्नवृत्तिद्रव्यत्ववान् पटः"इतिवच्च स्तोकवत्वावच्छिन्नवृत्तिस्तोकत्ववान् पाकादिरिति शाब्दबोध इति,
ख् र्र्˜ििर्र्न्र्र्ििििळ्™र्र्—ििर्âिन्न्ळ्र्˜ि–र्िŒर्âिर्र्ििब्र्र्™िर्:ि, ख् ब्र्र्र् ििर्ˆिंद्यरर््िीं™र्र्™ििर्र् ििर्िंर्œिन्र्र्ििक़द्यब्र्र्˜िर्ंि।
र् िझ्र् िफख़्र्द्मिर्र्न्न्र्âिििर्र्ििं—र्™िर्र् ििब्र्™र्ुिद्यर्द्वि™र्िद्यर्œिक़Ÿर्िर्˜िर्ंि ,र्ˆिंद्यरर््िीं™र्र्™ििर्र् ििर्िंर्œिन्र्र्ििक़द्यब्र्र्क़िŸर्िर्ढिर् िर् िन्न्र्âिर्:ि। द्यर्न्र्र्र्द्यिििब्र्र्âि "झ्रर््िेध्र्र्र्âिि-
ठर्र्ििर्र्द्यििरर््िीं"द्य™र्र्न्न्र्ब्र्र्र््ििििियर्™िर्द्यिब्र्र्फिख़्र्द्मिर्र्™ििर्र्Ñििम्म्र्œिर्âि˜र्र्ििंद्मर्ळ्र्˜िि˜र्द्यिर्र्™ििर्र् ििअर्र्ििर्द्विर्âि:। अध्र्र्र्र्िििंर् िक़ॄद्य™र्र्ििंब्र्र्िर्™िरर््िीं—र्Üिद्यर्र्न्र्र्ििििक़Œर्र्द्यििब्र्र्न्र्र्िििळ्™र् िब्र्™र्ुिद्यर्द्वि™र्िद्यर्œिâद्मरर््िेब्र्र् िर्र्˜ििर्र्न्र्र्ििििरर््िैंक़र्œिक़द्यब्र्र्र्âििर्िर्द्विर्âि:,फख़्र्द्मिर्™िर्र् ििश्व्फ˜र्ुिख्र्र्द्यिब्र्र्र्झ्र्र्।ििि अ™र्न्र्र्र् िििफख़्र्द्मिर्र्âििझ्ञ्âन्न्र्िर्द्विर्âि:। द्यर्ळ्˜िर्र्†ििुद्वर्ाि रर््िैंन्र्र्˜िर्र्न्र्र्ििििळ्™र्र्र्िििंर् िक़द्यर्ॄिद्यिब्र्र्-िक़˜र्ििद्यब्र्र्žिर् ि ळ्र्ािळ्र्ग्र्र्ेििद्मर्र्ख्र्™ििर्र्द्यििर्र्न्र्र्िििि—र्र्ब्र्र्िििर्र्™ििर्र्˜ििर्िब्र्र्™िर्:ि , रर््िैंर्र्ििंद्यर्िर्र्ििंन्न्क़ढर् िद्यर्र्द्यििर्™िर्ििग्र्रर््िैंर्श्व्क़ि˜र्ंि , र्फिंज़्-ळ्र्ािख्र्™र्र्ििब्र्र्™िर्म्र्र् ििरर््िैंन्र्र्˜िर्र्न्र्र्िििि क़्ब्र्र्âिर्दिं्यर् िळ्र्ब्र्र्ििि˜र्िर्ब्र्र्†िि˜र्ंि।
र्बिं्र्र्म्र्âििर्द्मिर्िरर््िैंन्र्र्˜िर्र्न्र्र्ििििळ्™र् ि—र्ब्र्र्ििर्र्ििब्र्र्™िर्âि ळ्र्ािळ्र्ग्र्र्िििरर््िैंन्न्म्र्ििर्˜िर्ंि
अर्ख्र्™िर्र्द्यििर्-िर्िंर्िर्र्द्यििर्र्âििर्र्द्वििर्क़िद्यर्ॄिद्यिब्र्र्-िक़˜र्ििद्यब्र्र्˜िर्âिब्र्र् ि,र् िद्यर्ुि क़ॄन्न्र्†िुर्र्द्वििर्˜िर्र्ििंर्।ि द्यर्âिर् ि"र्र्थ्क़ििझ्रर््िेध्र्र्:ि र्झ्र्द्यििरर््िीं "द्य™र्ध्र्र् ििझ्रर््िेध्र्र्žिर्िरर््िैंन्र्र्˜िर्र्न्र्र्ििििळ्™र् िर्र्क़ििर्र्क़िंै™र्र्क़ििद्यर्ॄिद्यिब्र्र्ळ्र्ाििळ्र्ग्र्र्ेििद्मर्र्ऽििब्र्र्™िर्:ि ,अद्यर्âिब्र्र्र्ख्र्™ििर्र्द्यििर्र्âििर्र्द्वििर्—िर्र्ब्र्र्िििर्र्™ििर्र्˜ििर्âिब्र्र् ि,™र्र्âििग्र्™र्द्यिब्र्र्र्द्यििर्ंि ,र् िद्यर्ुि र्फिंज़्र्िर्िब्र्र्र्ििं™र्द्यिब्र्र्âिऽर्िंर् िक़ॄन्न्ुर्र्द्वििर्र्™ििर्र्ािि र्र्थ्क़ििॄद्यर्रर््ििे ,द्यर्ळ्™िर्र्˜ििर्र्ख्र्™ििर्र्द्यििर्र्âििर्र्द्वििर्क़िद्यर्ॄिद्यिब्र्र्ळ्र्ाििळ्र्ग्र्र्ेििद्मर् िअ™र्र्âििग्र्™र्द्यिब्र्र्र्द्यििर्ंि। क़्द्यर्र्एििम्र्ळ्र्ाििळ्र्ग्र्र्िििर्बिं्र्र्म्र्âििर्र्ििर्ज़र््िींक़र्œिâ झ्र् ि"झ्रर््िेध्र्र्:ि र्र्थ्क़ििâर् िर्झ्™िर्द्यिर्âि-
अर्âिन्न्र्:ि, इद्य™र्ळ्™िर्र्िि™र्र्ििर्द्विर्âि:। अद्यर्म्र्रर््ििेध्र्र् िर्र्थ्क़ििद्यर्र्ििि झ्र् िˆर्ब्र्र्र्िििंर् िर्र्क़ििक़ॄद्यर्र्ब्र्र्âिििब्र्र् िद्यर्र्ििंŽर्žिर्िंर्द्यिर्क़िद्यर्ॄिद्यिब्र्र्ळ्र्ाििळ्र्ग्र्र्ेििद्मर्र्ििब्र्रर््िीं™र्âिद्यर्âि , द्यर्™िर्र्âिि: र्œिळ्र्œिर्—िर्âिन्न्—र्र्ििर्ाि द्यर्ुि र्Üिब्र्र्ििब्र्र्द्यिर्ंि। झ्रर््िेध्र्र्ळ्™िर् िर्र्थ्क़ििॄद्य™र्र््िियर्™िर्द्यिब्र्र्—िर्र्ििर्िद्यर्ुि ळ्र्ब्र्र्ििि˜र्द्यिर्âि ˜र्र्ििर्ळ्र्˜ििर्âिब्र्र्।ि
क़्ब्र्र्ाि "र्ख् िअर्âिन्न्र्र्âिि —र्ुिठ™र्द्यिर्âि" इद्य™र्ध्र्र्र्र्ििििंर् िअर्âिन्न्र्žिर्िरर््िैंन्र्र्˜िर्र्न्र्र्ििििळ्™र् ि—र्र्âििठर्िर्क़िॄर्दिं्यर्र्ििंर्žिर्िंर्द्यिर्क़ि˜र्ििद्यब्र्र्ळ्र्ाििळ्र्ग्र्र्ेििद्मर् ि—र्र्âििन्न्र्क़िॄद्यर्र्ब्र्र्âिििब्र्र्र्ििब्र्र्™िर्:ि,र् िद्यर्ुि र्र्क़ििक़ॄर्दिं्यर्क़ि˜र्ििद्यब्र्र्âिर् िर्र्क़ििक़ॄद्यर्रर््ििे द्यर्न्न्ुिर्र्द्वििर्र्™ििर्र्˜ििर्ंि,द्यर्न्र्र्र्द्यिििब्र्र्âि "अर्âिन्न्र्:ि र्खि झ्रर््िेध्र्र्र्âिि —र्ुिाङक्तâ " इद्य™र्ळ्™िर्र्िि™र्र्ििर्द्विर्âि:। अद्यर्ळ्द्यिर्ध्र्र्र्र्ििििंर् िर्Üिब्र्र्ििब्र्र्न्न्âिब्र्र्र्ििब्र्र्™िर्:ि। "झ्रर््िेध्र्र् िइब्र्र् ि˜रर््िेध्र्र्र्âिि ग्र्र्र्™ििर्र्ििंद्यर्"ि"र्बिं्र्र्िर्ब्र्र्ॄििख़्र्र्âििऽर्िंर् िळ्र्ािब्र्र्Œि™र्िि ळ्ब्र्र्™िर्ाि झ्ञ्âद्यर्ुि˜र्ळ्र्र्˜िििरर््िैंद्यर्र्ििं˜र्द्यि™र्ध्र्र्र्ख्र्™िििर्र्द्यििर्र्âििर्र्द्वििर्क़िद्यर्ॄिद्यिब्र्र्-िक़˜र्ििद्यब्र्र्र्—ििर्र्ब्र्र्âिििऽर्िंर् िइब्र्र्र्र्िििंन्न्र्िंर्िर्र्न्न्र्âिििर्र्द्वििर्क़िद्यर्ॄिद्यिब्र्र्ळ्र्ाििळ्र्ग्र्र्ेििद्मर् िद्यर्न्न्ुिर्र्द्वििर्—िर्र्ब्र्र्िििर्र्™ििर्र्ािि र्फिंङग्र्र्र्ििब्र्र्™िर्œिर्शिं्व्द्यर्र्™ििर्र्ािि झ्रर््िेध्र्र्-िर्बिं्र्र्िर्ब्र्र्ॄििख़्र्™िर्र्âिि: रर््िैंन्र्र्˜िर्र्âििर्र्द्वििर्™िर्र्âििœब्र्र्™िर्र्झ्र्र् िििर्िंर्िर्र्द्यििर्âिर्दिं्यर्।ि
द्यर्न्न्âिब्र्र्ाि र्र्र्िििंद्मर्र्ििंर्˜िर्द्यिर्âि रर््िैंन्र्र्˜िर्र्न्र्र्ििििर्िंर्िक़र्िि:। र्र्र्िििंद्मर्र्ििंर्˜िर्द्यिर्âिर् िप्रथमाविभक्त्यर्थनिरूपणं समाप्तम्
अथ कात्यायनमतेन प्रथमाविभक्त्यर्थनिरूपणम्
कात्यायनस्तु न प्रातिपदिकार्थे प्रथमा,तथात्वे प्रातिपदिकस्य तात्पर्यग्राहकत्वमात्रकल्पनया शाब्दबोधजनकत्व अनापत्तेः। अपितु अभिहितकारकत्वमेव प्रथमार्थः। तस्मिश्च कर्तृत्वादिरूपे प्रथमार्थे प्रातिपदिकार्थश्चैत्रादिर्भेद सम्बन्धेनैवान्वेति,संख्यादिकञ्च द्वितीयान्तपद इवेति न क्वापि व्युत्पत्त्यन्तरकल्पना, कर्तृत्वादिकञ्च सुबन्तरार्थवदेव क्रियापदार्थ इति, न तत्रापि सा। न च कर्तृत्वादेराख्यातावगतस्य भावनायामन्वितत्वात् पुनर्बोधवैयथ्र्यम्। चैत्रत्वावच्छिन्नवृत्तित्वेन तस्याख्यातेनावगमात् सार्थक्योपपत्तेः। न च तथापि आख्यातजन्यस्य सामान्यधर्मप्रकारकबोधस्य वैयथ्र्यम्,तस्य प्रथमोत्पत्ति प्रयोजकत्वात्,इतरथा तृतीयाद्यापत्तेः। नहि कृत्याद्यभिधानमात्रं तत्प्रयोजकम्। भावाख्यातेऽपि "चैत्रेण सुप्यते"इत्यादौ कृञा विवरणेन कृत्यभिधानात्प्रथमोपपत्तेः। अतः कतृत्वाद्यभिधानमेव प्रथमाप्रयोजकम्। तच्च शक्त्या,लक्षणयावेत्यन्यदेतत्।
तस्मादभिहितकारकत्वं प्रथमार्थः।
न च "प्रसाद आस्ते,पक्वं भुङ्त्ते"इत्यादौ कृत्प्रत्ययेनाधिकरणत्व कर्मत्वयोरुत्तत्वात् प्रथमापत्तिः। तिङ्-निपाताभिहितकर्तृत्व-कर्मत्वयोरेव प्रथमार्थत्वात् प्रासाद इत्यत्र सदिधातूत्तरघञाऽधिकरणत्वाभिधानेऽपि-
सत्तम्यविरोधात्। पक्वमित्यत्र त्तप्रत्ययेन कर्मत्वाभिधानेऽपि द्वितीयायाः अविरोधाच्च। तिङ्-निपातोदाहरणानि पूर्वमेव प्रदर्शितानि।
तिङ्-निपाताभिहितकर्तृत्वं प्रथमार्थ इत्यत्र शङ्का
नन्वेवं तिङ्-निपाताभिहितकारके प्रथमा,तदनभिहिते तु तृतीयादिरित्यर्थापत्तेस्तिङर्थान्वयिनि चैत्रादौ, प्रथमोपपत्तावपि कत्र्रर्थककृदुपात्तभावनान्वये विवक्षिते तृतीयापत्तेः "चैत्रेण पाचको भुङत्ते"इति प्रयोगापत्तिः। नहि
कृदुपात्तभावनायां कारकाणामनन्वयः। "काष्टैस्थालयामोदनस्य पाचकोऽन्नं भुङत्ते"इत्यादौ काष्टादीनाम् अन्वयदर्शनात्। अतश्च तद्वदेव कर्तृकारकस्यापि अन्वयोपपत्तेः,तत्र च तिङुपात्तक्रियान्वयविवक्षाभावेन प्रथमानुपपत्तेः कृदुपात्तक्रियान्वयित्वेन विवक्षितस्य चैत्रस्य तिङाद्यनभिहितकर्तृत्वार्थका तृतीया दुर्वारा। एवम् "ओदनं पक्वो भुज्यते चैत्रेण"इत्यपि द्वितीयान्तप्रयोगापत्तिः। कर्मत्वस्य पाकनिरूपितस्य तिङाऽनुत्तत्वात्। शाब्दबोधश्च तत्र चैत्रकर्तृक पाकानुकूलकृत्याश्रयो भुङत्त इति। वारद्वयं कर्तृत्वबोधश्च "घटत्ववान् घटः"इतिवन्नानुपपन्नः। एवं ओदनं पक्वो भुज्यते इत्यत्रापि शाब्दबोधः,वारद्वयं कर्मत्वबोधश्चानुसन्धेय इति चेत्,
उक्तशङ्कापरिहारः
"अनभिहिते"इत्यस्य स्वान्वयिभिः कृदादिभिरनभिहिते इत्यर्थात्। अतश्च तत्र कृता कर्तृत्व-कर्मत्वयोः उक्तत्वान्न तृतीयाद्यापत्तिः। प्रथमायास्तु तदन्वयविवक्षायां निमित्ताभाव एव। न चैवं तदन्वयविवक्षायां षष्ट्यापत्तिः। अनभिहित इत्यधिकारस्य प्रथमाविधायकसूत्रेण विच्छेदात् "कर्तृ-कर्मणोः कृति"इति कर्तृषष्ठीविधायकसूत्रेऽनुवृत्त्यभावादिति वाच्यम् ,मण्डूकप्लुति न्यायेन तत्रापि तदनुवृत्तेः सर्वसम्मतत्वात्।
अन्यथा "चैत्रः पाचको भुंत्ते"इति वत्तव्ये,चैत्रस्य पाचको भुंत्ते"इत्यपि प्रयोगापत्तेः। अतस्चैत्र पाचक इति प्रथमान्तयोरुभयोरपि भुंत्ते इति क्रियायामेवान्वयः,परस्परमभेदान्वयबोधस्तु पूर्ववत्। यत्रापि क्रियापदाश्रवणम्,तत्रापि "अस्तिर्भवन्ती-इत्यनेनाध्याहर्तव्यम्।
लटि तिङोऽभावापत्तिशङ्का, तत्परिहारश्च
न चैवं प्रथमायास्तिङ्नपातान्यतरसामानाधिकरण्यनिमित्तत्वेन "चैत्रः पच् ल् इति स्थितिदशायां तिङोऽभावात् प्रथमानिमित्ताभावेन अप्रथमासमानाधिकरणपदत्वरूपस्य शतृ-शानचोर्निमित्तस्य सत्वात् "लटश्शतृशानचावप्रथमा समानाधिकरणे"झ्र्3-2-124ट इत्यनेन विशेषविधिना शतृ-शानचोरेव लटि प्राप्त्यापत्तेः
तिङादेर्लिडादिमात्रविषयत्वेनाऽपि शामान्यविधिवशादुपपत्तेः। लटि तिङोऽभावापत्तिरिति वाच्यम्,एतादृशार्थस्य लटि शतृ-शानज्विधानसिद्धेरप्रथमासमानाधिकरण-इति, पदवैयथ्र्यापत्तेः।तत्परिहारार्थं प्रथमाया लट्यपि ज्ञापकबलेन सिद्धेः तस्याश्च प्रयोदकीभूततिङादिसामानाधिकरण्यं विनानुपपत्तेः लटि तिङ् सिद्धयुपपत्तेः। अत एव ज्ञपकेन भावि तिङादिकं निमित्तीकृत्य सर्वा एव विभत्तयो लटि भवन्तीति ज्ञाप्यते। तत्र च प्रथमाभिन्नविभत्तिसामानाधिकरण्ये शतृ-शानचोः विधानेऽपि,न तयोः पूर्वप्रमिततिङादिबाधकत्वम्। एवञ्चाप्रथमासमानाधिकरणे इत्यस्य पर्युदासत्वेऽपि लटि तिङाद्युपपत्ति। प्रसज्यप्रतिषेधत्वपक्षेतु सुतराम्। महाभाष्यकारीया लटि तिङाद्युपपत्ति-परिहारस्तु दुरुपात्तत्वादिह न लिखिताः। सर्वथा तिङ्निपातोभयाभिहितकर्तृत्व-कर्मत्वयोः प्रथमेत्याह। तयोश्च द्वितीयाद्यर्थवदेवाख्यातोपात्तभावनान्वय इति सिद्धम्
नचैवमपि प्रथमार्थस्याख्यातार्थ एवान्वयः,द्वितीयार्थादेस्तु कृदाद्यर्थेऽपीति,कथं कार्यकारणभवैक्यमिति वाच्यम्,
सुबर्थप्रकारकशाब्दत्वावच्छिन्नं प्रति लिङानन्वयिपदजन्योपस्थितेर्भावनाविशेष्यतासम्बन्धेन कारणत्वेऽपि प्रमाणान्तरदन्याभिहितत्वाद्युपस्थितिरूपकारणान्तरवशेन विशेषलाभोपपत्तेरिति दिक्।
इति श्रीमदाचार्यखण्डदेवविरचिते भाट्टतन्त्ररहस्ये कात्यायनमतेन प्रथमाविभक्यर्थनिरूपणं समाप्तम्