भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०३५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यमदूतीलक्षणम्

कश्यप उवाच
सविषा दंष्ट्रयोर्मध्ये यमदूती तु वै भवेत् ।
न चिकित्सा बुधैः कार्या तं गतासुं विर्निदशेत् । । १
प्रहरार्धं दिवारात्रावेकैकं भुञ्जते बहिः ।
एकस्य च समानं च द्वितीयं षोडशं तथा । । २
नागोदयो यमुद्दिश्य हतो विद्धो विदारितः ।
कालदष्टं विजानीयात्कश्यपस्य वचो यथा । । ३
यन्मात्रं पतते बिन्दुर्वालाग्रं सलिलोद्धृतम् ।
तन्मात्रं स्रवते दंष्ट्रा विषं सर्पस्य दारुणम् । । ४
नाडीशते तु सम्पूर्णे देहे सङ्क्रमते विषम् ।
यावत्सङ्क्रामयेद्बाहुं कुञ्चितं वा प्रसारयेत् । । ५
अनेन क्षणमात्रेण विषं गच्छति मस्तके ।
वेपते विषवेगे तु शतशोऽथ सहस्रशः । । ६
वर्धते रक्तमासाद्य ततो वातैः शिखी यथा ।
तैलबिन्दुर्जलं प्राप्य यथा वेगेन वर्धते । । ७
शिखण्डी आश्रयं प्राप्य मारुतेन समीरितः ।
ततः स्थानशतं प्राप्य त्वचास्थानं विचेष्टितम् । । ८
त्वचासु द्विगुणं विद्याच्छोणितेषु चतुर्गुणम् ।
पित्ते तु त्रिगुणं याति श्लेष्मे वै षोडशं भवेत् । । ९
वायौ त्रिंशद्गुणं चैव मज्जाषष्टिगुणं तथा ।
प्राणे चैकार्णवीभूते सर्वगात्राणि सन्धयेत्१ । । 1.35.१०
श्रोत्रे निरुध्यमाने च याति दष्टस्त्वसाध्यताम् ।
ततोऽसौ म्रियते जन्तुर्निःश्वासोच्छ्वासवर्जितः । । ११
निष्क्रान्ते तु ततो जीवे भूते पञ्चत्वमागते ।
तानि भूतानि गच्छन्ति यस्य यस्य यथातथम् । । १२
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
इत्येषामेव सङ्घातः शरीरमभिधीयते । । १३
पृथिवी पृथिवीं याति तोयं तोयेषु लीयते ।
तेजो गच्छति चादित्यं मारुतो मारुतं व्रजेत् । । १४
आकाशं चैवमाकाशे सह तेनैव गच्छति ।
स्वस्थानं ते प्रपद्यन्ते परस्परनियोजिताः । । १५
न जीवेदागतः कश्चिदिह जन्मनि सुव्रत ।
विषार्तं न उपेक्षेत त्वरितं तु चिकित्सयेत् । । १६
एकमस्ति विषं लोके द्वितीयं चोपपद्यते ।
यथा नानाविधं चैव स्थावरं तु तथैव च । । १७
प्रथमे विषवेगे तु रोमहर्षोऽभिजायते ।
द्वितीये विषवेगे तु स्वेदो गात्रेषु जायते । । १८
तृतीये विषवेगे तु कम्पो गात्रेषु जायते ।
चतुर्थे विषवेगे तु श्रोत्रान्तरनिरोधकृत् । । १९
पञ्चमे विषवेगे तु हिक्का गात्रेषु जायते ।
षष्ठे च विषवेगे तु प्राणेभ्योऽपि प्रमुच्यते । ।
सप्तधातुवहा ह्येते वैनतेयेन भाषिताः । । 1.35.२०
त्वचः स्थाने विषे प्राप्ते तस्य रूपाणि मे शृणु ।
अङ्गानि तिमिरायन्ते तपन्ते च मुहुर्मुहुः । । २१
एतानि यस्य चिह्नानि तस्य त्वचि गतं विषम् ।
तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् । । २२
अर्कमूलमपामार्गं प्रियङ्गुं तगरं२ तथा ।
एतदालोड्य दातव्यं ततः सम्पद्यते सुखम् । । २३
ततस्तस्मित्कृते विप्र न निवर्तेत चेद्विषम् ।
त्वचः स्थानं ततो भित्त्वा रक्तस्थानं प्रधावति । । २४
विषे च रक्तं संप्राप्ते तस्य रूपाणि मे शृणु ।
दह्यते मुह्यते१ चैव शीतलं बहु मन्यते । । २५
एतानि यस्य रूपाणि तस्य रक्तगतं विषम् ।
तत्रागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् । । २६
उशीरं चन्दनं कुष्ठमुत्पलं तगरं तथा ।
महाकालस्य मूलानि सिन्दुवारनगस्य च । ।
हिङ्गुलं मरिचं चैव पूर्ववेगे तु दापेयत् । । २७
बृहती वृश्चिका काली इन्द्र वारुणिमूलकम्२ ।
सप्तगन्धघृतं चैव द्वितीये परिकीर्तितम् । । २८
सिन्दुवारं तथा हिङ्गुं तृतीये कारयेद्बुधः ।
तस्य पानं च कुर्वीत अञ्जनं लेपनं तथा । । २९
एतेनैवोपचारेण ततः सम्पद्यते सुखम् ।
रक्तस्थानं ततो गत्वा पित्तस्थानं प्रधावति । । 1.35.३०
पित्तस्थानगते विप्र विषरूपाणि मे शृणु ।
उत्तिष्ठते निपतते दह्यते मुह्यते तथा । । ३१
गात्रतः पीतकः स्याद्वै दिशः पश्यति पीतिका ।
प्रबला च भवन्मूर्च्छा न चात्मानं विजानते । ।
विषक्रियां तस्य कुर्याद्यथा सम्पद्यते सुखम् । । ३२
पित्तस्थानमतिक्रम्य श्लेष्मस्थानं च गच्छति । । ३३
पिप्पल्यो मधुकं चैव मधु खण्डं घृतं तथा ।
मधुसारमलाबूं च जातिं शङ्करवालुकाम् । ।
इन्द्रवारुणिकामूलं गवां मूत्रेण पेषयेत् । । ३४
नस्यं तस्य प्रयुञ्जीत पानमालेपनाञ्जनम् ।
एतेनैवोपचारेण ततः सम्पद्यते सुखम् । । ३५
श्लेष्मस्थानं ततः प्राप्ते तस्य रूपाणि मे शृणु ।
गात्राणि१ तस्य रुध्यन्ते निःश्वासश्च न जायते । ।
लाला च स्रवते तस्य कण्ठो घुरुघुरायते । । ३६
एतानि यस्य रूपाणि तस्य श्लेष्मगतं विषम् ।
तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् । । ३७
त्रिकुटकी श्लेष्मातको लोध्रञ्च मधुसारकम् ।
एतानि समभागानि गवां मूत्रेण पेषयेत् । । ३८
तस्य पानं च कुर्वीत अञ्जनं लेपनं तथा ।
एतेनैवोपचारेण ततः सम्पद्यते सुखम् । । ३९
श्लेष्मस्थानमतिक्रम्य वायुस्थानं च गच्छति ।
तत्र रूपाणि वक्ष्यामि वायुस्थानगते विषे । । 1.35.४०
आध्मायते च जठरं बान्धवांश्च न पश्यति ।
ईदृशं कुरुते रूपं वृष्टिभङ्गश्च जायते । । ४१
एतानि यस्य रूपाणि तस्य वायुगतं विषम् ।
तस्यागदं प्रक्ष्यामि येन सम्पद्यते सुखम् । ।४ २
शोणामूलं प्रियालं च रक्तं च गजपिप्पलीम् ।
भार्ङ्गीं वचां पिप्पलीं च देवदारुं मधूककम् । । ४३
मधूकसारं सहसिन्दुवारं हिङ्गुं च पिष्टा गुटिकां च कुर्यात् ।
दद्याच्च तस्याञ्जनलेपनादि एषोऽगदः सर्पविषाणि हन्यात् । । ४४
अञ्जनं चैव नस्यं च क्षिप्रं दद्याद्विषान्विते ।
वायुस्थानं ततो मुक्त्वा मज्जास्थानं प्रधावति । ।४५
विषे मज्जागते विप्र तस्य रूपाणि मे शृणु ।
दृष्टिश्च हीयते तस्य भृशमङ्गानि मुञ्चति । ।४ ६
एतानि यस्य रूपाणि तस्य मज्जागतं विषम् ।
तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् । । ४७
घृतमधुशर्करान्वितमुशीरं चंदनं तथा ।।
एतदालोड्य दातव्यं पानं नस्यं च सुव्रत ।। ४८ ।।
ततः प्रणश्यते दुःखं ततः संपद्यते सुखम् ।।
अथ तस्मिन्कृते योगे विषं तस्य निवर्तते ।।४९।।
मज्जास्थानं ततो गत्वा मर्मस्थानं प्रधावति।।
विषे तु मर्म संप्राप्ते शृणु रूपं यथा भवेत्।।1.35.५०।।
निश्चेष्टः पतते भूमौ कर्णाभ्यां बधिरो भवेत्।।
वारिणा सिच्यमानस्य रोमहर्षो न जायते ।।५१।।
दंडेन हन्यमानस्य दंडराजी न जायते।।
शस्त्रेण च्छिद्यमानस्य रुधिरं न प्रवर्तते ।। ५२ ।।
केशेषु लुच्यमानेषु नैव केशान्प्रवेदते ।।
यस्य कर्णौ च पार्श्वे च हस्तपादं च संधयः ।।
शिथिलानि भवंतीह स गतासुरिति श्रुतिः ।। ५३।।
एतानि यस्य रूपाणि विपरीतानि गौतम ।।
मृतं तु न विजानीयात्कश्यपस्य वचो यथा ।।५४।।
वैद्यास्तस्य न पश्यंति ये भवंति कुशिक्षिताः ।।
विचक्षणास्तु पश्यंति मंत्रौषधिसमन्विताः ।।५५।।
तस्यागदं प्रवक्ष्यामि स्वयं रुद्रेण भाषितम् ।।
मयूरपित्तं मार्जारपित्तं गन्धनाडीमूलमेव च ।। ५६ ।।
कुंकुमं तगरं कुष्ठं कासमर्दत्वचं तथा।।
उत्पलस्य च किंजल्कं पद्मस्य कुमुदस्य च ।। ५७ ।।
एतानि समभागानि गोमूत्रेण तु पेषयेत् ।।
एषोऽगदो यस्य हस्ते दष्टो न म्रियते स वै ।।
कालाहिनापि दष्टेन क्षिप्रं भवति निर्विषः ।।५८।।
क्षिप्रमेव प्रदा तव्यं मृतसंजीवनौषधम् ।।
अंजनं चैव नस्यं च क्षिप्रं दद्याद्विचक्षणः ।। ५९ ।।

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पंचमीकल्पे धातुगतविषक्रियावर्णनं नाम पंचत्रिंशोऽध्यायः ।। ३५ ।।