भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ००७
← अध्यायः ००६ | भविष्यपुराणम् अध्यायः ००७ वेदव्यासः |
अध्यायः ००८ → |
शकटव्रतमाहात्म्यवर्णनम्
।। श्रीकृष्ण उवाच ।। ।।
यदेतत्ते समाख्यातं गंभीरं नरकार्णवम।।
व्रतोपवासनियमप्लवेनोत्तीर्यते सुखम् ।। १ ।।
दुर्ल्लभं प्राप्य मानुष्यं विद्युत्पतनचञ्चलम् ।।
तथात्मानं समादध्याद्भ्रश्यते न पुनर्यथा ।। २ ।।
दान व्रतमयी कीर्तिर्यस्य स्यादिह देहिनः ।।
परलोकेऽपि स तया ज्ञायते ज्ञातिवर्द्धनः ।। ३ ।।
ज्ञायते नेह नामुत्र व्रतस्वाध्यायवर्जितः ।।
पुरुषः पुरुषव्याघ्र तस्माद्व्रतपरो भवेत् ।। ४ ।।
अत्र ते कथयिष्यामि इतिहासं पुरातनम् ।।
सिद्धेन सह संवादमवंत्यां ब्राह्मणस्य हि ।। ५ ।।
योगर्द्धिसिद्ध्या संसिद्धः कश्चित्सिद्धो महीतलम् ।।
चचार विकृतं कृत्वा वपुः परमभीषणम् ।। ६ ।।
निगीर्णदंतो लंबोष्ठः पिंगाक्षस्तनुमूर्द्धजः ।।
त्रुटितैक कर्णो दुर्वणः शीर्णवस्त्रो महोदरः ।। ७ ।।
चिपिटाक्षः स्फुटितपाज्जंघाढ्यः कृशकूर्परः ।।
दिशः पश्यति संहृष्टो बभ्रामोद्भ्रांतचित्तवत् ।। ८ ।।
मूलजालिकविप्रेण दृष्टः पृष्टश्च को भवान् ।।
कदा स्वर्गात्समायातः केन कार्येण मे वद ।। ९ ।।
कच्चिद्दृष्टा त्वया रंभा भाभासितदिगंतरा ।।
चित्तसंमोहनकरी देवानामेकसुन्दरी ।। १० ।।
गत्वा मद्वचनाद्वाच्या निर्वाच्या दोषदर्शिभिः ।।
आवंत्यस्त्वां कुशलिनीं पृच्छति स्म द्विजो त्तमः ।। ११ ।।
सिद्धः प्रसिद्धं तं विप्रं प्राहेदं विस्मयान्वितः ।।
कथं त्वयाहं विज्ञातः स्वर्गादभ्यागतः स्फुटम् ।। १२ ।।
ब्राह्मणस्तमथोवाच विज्ञातोऽसि मया यथा ।।
तथा तेऽहं प्रवक्ष्यामि क्षीणाघौघावधारय ।। १३ ।।
गात्रत्रयं विरूपं स्याद्द्वितीयं वा स्वरूपतः।।
दृष्ट्वा सर्वांग वैरूप्यं विज्ञातोऽसि ततो मया ।। १४ ।।
दुर्ल्लंघ्या प्रकृतिः साक्षादनुभूतकरी भवेत् ।।
प्रकृतेरन्यथाभावः सर्वथा लक्ष्यते जनैः ।। १५ ।।
विप्रस्यैवं वचः श्रुत्वा जगामादर्शनं शनैः ।।
पुनः कैश्चिदहोरात्रैराजगाम स तां पुरीम् ।। १६ ।।
मूलजालकविप्रेण पृष्टः प्राहामरावतीम् ।।
गतोऽहं पृष्टवांस्तत्र रंभां विभ्रमकारिणीम् ।। १७ ।।
शक्रस्यावसरे वृत्ते व्रजन्त्याः स्वगृहं मया ।।
त्वत्संदेशः समाख्यातः सावदत्को न वेद्मि तम् ।।१८।।
विद्यया कलया चापि पौरुषेण व्रतेन च ।।
तपसा वा पुमान्मर्त्यो दिवि विज्ञायते चिरम् ।। १९ ।।
ब्राह्मणस्तमथोवाच मुग्धा दग्धाग्निसंभवा ।।
न भक्षयामि शकटं व्रतेनैतेन वेत्ति माम् ।। २० ।।
तस्यैतद्वचनं श्रुत्वा स सिद्धः सुविशुद्धधीः ।।
प्रहस्यामंत्र्य तं विप्रं जगामादर्शनं पुनः ।। २१ ।।
कदाचिच्च रता तेन स्वर्गमार्गं यदृच्छया ।।
दृष्ट्वा रंभां द्विजप्रोक्तं सर्वमेव निवेदितम् ।। २२ ।।
।। रंभोवाच ।। ।।
को न जानामि तं विप्रं शकटव्रतचारिणम् ।।
मूलजालैर्वर्तयंतं महाकालवनाश्रयम् ।। २३ ।।
दर्शनादथ संभाषादुपकारात्सहासनात् ।।
चतुर्धा स्नेहनिर्बंधो नृणां संजायतेऽधिकः ।। २४ ।।
न दर्शनं न संभाषा कदाचित्सह तेन मे ।।
नामश्रवणमात्रेण स्नेहः संदर्शितो महान् ।। २५ ।।
इत्येवमुक्त्वा रंभोरू रंभा जंभारिणोंतिकम् ।।
विस्मयोत्फुल्लनयना जगाम गजगामिनी ।।२६।।
गत्वा निवेदयामास स्नेहव्रतविचेष्टितम् ।।
पुरतो रुद्धहृदया ब्राह्मणस्य च धीमतः ।। २७ ।।
शक्रः प्रोवाच चार्वंगीं गीर्वाणहृदयंगमाम् ।।
किमानयामि तं विप्रं समीपं तव सुव्रतम् ।। २८ ।।
दिव्यमाल्यांबरधरं दिव्यस्रगुनुलेपनम् ।।
विमानवरमारोप्य दर्शयामास तं पुनः ।। २९ ।।
तत्रस्थः स द्विजो भोगीविभुनक्ति सह रंभया ।।
शकटव्रतमाहात्म्यमित्येतत्ते मयोदितम् ।। ३० ।।
राज्यश्रियं जगति सर्वजनोपभोग्यामाप्नोति शक्रशिवकेशवयोर्निवासम्।।
नाप्राप्यमस्ति भुवने सुदृढव्रतानां तस्मात्सदा व्रतपरेण नरेण भाव्यम् ।। ३१ ।।
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शकटव्रतमाहात्म्यकथनंनाम सप्तमोऽध्यायः ।। ७ ।। छ ।।