भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः २७

विकिस्रोतः तः

।। सूत उवाच ।। ।।
अथेतिहासं शृणुत यथा भिल्लाः कृतार्थिनः ।।
विचरंतो वने नित्यं निषादाः काष्ठवाहिनः ।।१।।
वनात्काष्ठानि विक्रेतुं पुरीं काशीं ययुः क्वचित्।।
एकस्तृषाकुलो यातो विष्णुदासाश्रमं तदा ।।२।।
ददर्श विपुलैश्वर्यं सेवितं च द्विजैर्हरिम् ।।
जलं पीत्वा विस्मितोऽभूद्भिक्षुकस्य कुतो धनम्।।३।।
यो दृष्टोऽकिंचनो विप्रो दृश्यतेऽद्य महाधनः।।
इति संचिंत्य हृदये स पप्रच्छ द्विजोत्तमम्।।४।।
ऐश्वर्यं ते कुतो ब्रह्मन्दुर्गतिस्ते कुतो गता ।।
आज्ञापय महाभाग श्रोतुमिच्छामि तत्त्वतः ।। ५ ।।
।। सदानंद उवाच ।। ।।
सत्यनारायणस्यांग सेवया किं न लभ्यते ।।
न किंचित्सुखमाप्नोति विना तस्यानुकंपया ।। ६ ।।
।।निषाद उवाच ।। ।।
अहो किमिति माहात्म्यं सत्यनारायणार्चने ।।
विधानं सोपचारं च ह्युपदेष्टुं त्वमर्हसि ।। ७ ।।
साधूनां समचित्तानामुपकारवतां सताम् ।।
न गोप्यं विद्यते किंचिदार्तानामार्तिनाशनम् ।। ८ ।।
इति पृष्टो विधिं वक्तुमितिहासमथाब्रवीत् ।।
चन्द्रचूडो महीपालः केदारमणिपूरके ।। ९ ।।
ममाश्रमं समायातः सत्यनारायणार्चने ।।
विधानं श्रोतुकामोऽसौ मामाह सादरं वचः ।। 3.2.27.१० ।।
मया यत्कथितंतस्मै तन्निबोध निषादज ।।
संकल्प्य मनसा कामं निष्कामो वा जनः क्वचित् ।। ११ ।।
गोधूमचूर्णं पादार्धं सेटकाद्यैः सुचूर्णकम् ।।
संस्कृतं मधुगंधाज्यैर्नैवेद्यं विभवेऽर्पयेत् ।। १२ ।।
पंचामृतेन संस्नाप्य चन्दनाद्यैश्च पूजयेत् ।।
पायसापूपसंयावदधिक्षीरमथोहरेत् ।। १३ ।।
उच्चावचः फलैः पुष्पैर्धूपदीपैमर्नोरमैः ।।
पूजयेत्परया भक्त्या विभवे सति विस्तरैः ।। १४ ।।
न तुष्येद्द्रव्यसंभारैर्भक्त्या केवलया यथा ।।
भगवान्परितः पूर्णो न मानं वृणुयात्क्वचित् ।। १५ ।।
दुर्योधनकृतां त्यत्क्वा राजपूजां जनार्दनः ।।
विदुरस्याश्रमे वासमातिथ्यं जगृहे विभुः ।। १६ ।।
सुदाम्नस्तंडुलकणाञ्जग्ध्वा मानुष्यदुर्लभाः ।।
संपदोऽदाद्धरिः प्रीत्या भक्तिमात्रमपेक्ष्यते ।। १७ ।।
गोपो गृध्रो वणिग्व्याधो हनुमान्सविभीषणः ।।
येऽन्ये पापात्मका दैत्या वृत्रकायाधवादयः ।। १८ ।।
नारायणान्तिकं प्राप्य मोदंतेऽद्यापि यद्वशाः ।।
इति श्रुत्वा नरपतिः पूजासंभारमादरात् ।। १९ ।।
कृतवान्स धनं लब्ध्वा मोदते नर्मदातटे ।।
निषाद त्वमपि प्रीत्या सत्यनारायणं भज ।। 3.2.27.२० ।।
इह लोके सुखं प्राप्य चान्ते सान्निध्यमाप्नुयाः ।।
कृतकृत्यो निषादोऽभूत्प्रणम्य द्विजपुंगवम् ।। २१ ।।
स गत्वा स्वगणानाह माहात्म्यं हरिसेवने ।।
ते हृष्टमनसः सर्वे समयं चक्रुरादृताः ।। २२ ।।
सत्यनारायणे पूजां काष्ठलब्धेन यावता ।।
वयं कुलैः करिष्यामः पुण्यवृक्षविधानतः ।। २३ ।।
इति निश्चित्य मनसा काष्ठं विक्रीय लेभिरे ।।
चतुर्गुणं धनं हृष्टाः स्वंस्वं भवनमाययुः ।।२४।।
मुदा स्त्रीभ्यस्समाचख्युर्वृत्तांतं सर्वमादितः।।
ताः श्रुत्वा हृष्टमनसः पूजनं चक्रुरादरात् ।।२५।।
कथान्ते प्रणमन्भक्त्या प्रसादं जगृहुस्ततः ।।
स्वजातिभ्यः परेभ्यश्च ददुस्तच्चूर्णमुत्तमम् ।। २६ ।।
पूजाप्रभावतो भिल्लाः पुत्रदारादिभिर्युताः ।।
लब्ध्वा भूमितले द्रव्यं ज्ञानचक्षुर्महोत्तमम् ।। २७ ।।
भुक्त्वा भोगान्यथेष्टन्ते दरिद्रान्धा द्विजोत्तम ।।
जग्मुस्ते वैष्णवं धाम योगिनामपि दुर्लभम् ।। २८ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये सप्तर्विशोऽध्यायः ।। २७ ।।