भविष्यपुराणम्/पर्व ४ (उत्तरपर्व)/अध्यायः १८६

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

श्रीकृष्ण उवाच ।। ।।
पुण्या महानवम्यस्ति तिथीनां प्रवरा तिथिः।।
सानुष्ठेया सुरैः सर्वैः प्रजापालैर्विशेषतः।।१।।
भवानुत्थापयेत्पार्थ संवत्सरसुखाय वै ।।
भूतप्रेतपिशाचानां प्रीत्यर्थं चोत्सवाय वा ।। २ ।।
।। युधिष्ठिर उवाच ।। ।।
कस्मात्कालात्प्रवृत्तेयं नवमी महशब्दयुक् ।।
किमादावुपान्नोऽस्ति भगवन्नवमीविधिः ।। ३ ।।
यशोदागर्भसंभूतेरुत यात्रा प्रवर्तते ।।
उताहो पृर्वमेवासीत्कृतत्रेतायुगादिषु ।।४।।
यदस्यां प्राणिनः केचिन्मन्यंते घातयंति च ।।
हतानां प्राणिनां तेषां का गतिः पारलौकिकी ।। ५ ।।
स्वयं घ्नतां घातयतामनुमोदयतां तथा ।।
एतन्मे संशयं पूर्वं वक्तुमर्हसि केशव ।। ६ ।।
।। श्रीकृष्ण उवाच ।। ।।
पार्थ या परमा शक्तिरनंता लोकविश्रुता ।।
आद्या सर्वगता शुद्धा भाव गम्या मनोहरा ।। ७ ।।
आद्याष्टमी कलाकाली द्वितीया सर्वमंगला ।।
माया कात्यायनी दुर्गा चामुंडा शंकरप्रिया ।। ८ ।।
ध्यायंति यां योगरतां सा देवी परमेश्वरी ।।
रूपभेदैर्नामभेदैर्भवानी पूज्यते शिवा।।९।।
अष्टम्यां तु नवम्यां तु देवदानवराक्षसैः।।
गंधर्वैरुरगैर्यज्ञैः पूज्यते किन्नरैर्नरैः।।१०।।
अन्येष्वपि युगेष्वादौ सृष्टेः पूर्वं प्रदर्शिता।।
पूज्यतेयं पुरा देवी तेभ्यः पूर्वतरैः शुभैः।।११।।
आश्वयुक्शुक्लपक्षे च याष्टमी मूल संयुता ।।
सा महानवमी नाम त्रैलोक्येऽपि सुदुर्लभा ।। १२ ।।
कन्यागते सवितरि शुक्लपक्षेऽष्टमी तु या ।।
मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता ।। १३ ।।
अष्टम्यां च नवम्यां च जगन्मातरमम्बिकाम् ।।
पूजयित्वाऽऽश्विने मासि विशोको जयति द्विषः ।। १४ ।।
संतर्जयंती हुंकारैः खड्गादिभिरहर्निशम् ।।
नवम्यां पूजिता देवी ददाति नवमं फलम् ।। १५ ।।
सा पुण्या सा पवित्रा च सा धर्मसुखदायिनी ।।
तस्मात्सदा पूजनीया चामुंडा मुंडमालिनी ।। १६ ।।
तस्यां यद्युपयुज्यंते प्राणिनो महिषादयः ।।
सर्वे ते स्वर्गतिं यांति घ्नतां पापं न विद्यते ।। १७ ।।
न तथा बलिदानेन पुष्पधूपविलेपनैः ।।
यथा संतुष्यते लोके महिषैर्विंध्यवासिनी ।। १८ ।।
उद्दिश्य दुर्गां हन्यंते विधानाद्येऽत्र जंतवः ।।
स्वर्गं ते यांति कौंतेय घातयंतोऽपि भक्तिः ।। १९ ।।
भवानीप्राङ्गणे प्राणा येषां याता युधिष्ठिर ।।
तेषां स्वर्गे ध्रुवं वासो वरास्तेऽप्यरसां प्रियाः ।। २० ।।
मन्वन्तरेषु सर्वेषु कल्पेषु कुरुनदन ।।
तेषु सर्वेषु चैवासन्नवमीयं पुरार्चिता ।। २१ ।।
प्रसिद्धानादिनिधना वर्षेवर्षे युधिष्ठिर ।।
भूयोभूयोऽवतारैश्च भवानीपूज्य तेसुरैः ।। २२ ।।
अवतीर्णा भुवि सदा नित्यं दैत्यनिबर्हिणी ।।
स्वर्गपातालमर्त्येषु करोति स्थितिपालनम् ।। २३ ।।
पुनश्चैषा महादेवी यशोदा गर्भसंभवा ।।
कंसासुरस्योत्तमाङ्गे पादं दत्त्वा गतायुषः ।। २४ ।।
ततः प्रभृति लोकेषु यशोदानंददायिनीम् ।।
विंध्याचले स्थापयित्वा पुनः पूजा प्रवर्तिता ।। २५ ।।
पूर्वप्रवृद्धोऽपि पुनर्भगिन्या महिमा कृतः ।।
भुवि सर्वोपकाराय सर्वोपद्रवशांतये ।। २६ ।।
एवं विंध्योपवासिन्या नवरात्रोपवासिनः ।।
एकरात्रेण नक्तेन स्वशक्त्याऽयाचितेन वा ।। २७ ।।
यजनैर्याजनैर्देवाः स्थानेस्थाने पुरेपुरे ।।
गृहेगृहे भक्तिपरे र्ग्रामेग्रामे वनेवने ।। २८ ।।
स्नातैः प्रमुदितैर्हृष्टैर्ब्राह्मणैः क्षत्रियैर्नृपैः ।।
वैश्यैः शूद्रैर्भक्तिचित्रैर्म्लेच्छैरन्यैश्च मानवैः ।। २९ ।।
स्त्रीभिश्च कुरुशार्दूल तद्विधानमिदं शृणु ।।
जयाभिलाषी नृपतिः प्रतिपत्प्रभृतिक्रमात् ।। ३० ।।
लोहाभिहारिकं कर्म कारयेद्यावदष्टमि ।।
प्रागुदक्प्रवणे देशे पताकाभिरलंकृतम् ।। ३१ ।।
मण्डपं कारयेद्दिव्यं नवसप्तकरं वरम् ।।
आग्नेय्यां कारयेत्कुण्डं हस्तमात्रं सुशोभनम् ।। ३२ ।।
मेखलात्रयसं युक्तं योन्यश्वत्थदलाभया ।।
राजचिह्नानि सर्वाणि शस्त्राण्यस्त्राणि यानि च ।। ३३ ।।
आनीय मण्डपे तानि सर्वाण्येवाधिवासयेत् ।।
ततस्तु ब्राह्मणः स्नातः शुक्लांबरधरः शुचिः।। ३४ ।।

ॐकारपूर्वकैर्मन्त्रैस्तल्लिंगैर्जुहुयाद्घृतम्।।
लोहनामाभवत्पूर्वं दानवस्तु महाबलः ।। ३५ ।।
स देवैः समरे क्रुद्धैर्बहुधा शकलीकृतः ।।
तदंगसम्भवं लोहं यत्सर्वंदृश्यते क्षितौ ।। ३६ ।।
शस्त्रास्त्रमन्त्रैर्होतव्यं पायसं घृतसंयुतम् ।।
हुतशेषं तुरंगाणां गजानामुपहारयेत् ।। ३७ ।।
लोहाभिहारिकं कर्म तेनैतदृषिभिः स्मृतम् ।।
बद्धप्रतिशरव्यं च गजाश्वसमलंकृतम् ।। ३८ ।।
भ्रामयेन्नगरे नित्यं नंदि घोषपुरस्सरम्।।
प्रत्यहं नृपतिः स्नात्वा संपूज्य पितृदेवताः ।। ३९ ।।
पूजयेद्राजचिह्नानि फलमाल्यानुलेपनैः ।।
हुतशेषं प्रदातव्यमौपनायनिके द्विजे ।। ४० ।।
तस्याभिहरणाद्राज्ञो विजयः समुदाहृतः ।।
पूजामंत्रान्प्रवक्ष्यामि पुराणोक्तानहं तव ।। ४१ ।।
यैः पूजिताः प्रयच्छन्ति कीर्तिमायु र्यशोबलम।।
यथांबुदश्छादयति शिवायेमां वसुन्धराम् ।। ४२ ।।
तथाच्छादय राजानं विजयारोग्यवृद्धये ।। ( इति छत्रमन्त्रः) ।।
गन्धर्व कुलजातस्त्वं माभूयाः कुलदूषकः ।। ४३ ।।
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ।।
प्रभावाञ्च हुताशस्य वर्द्धस्व त्वं तुरंगम ।। ४४ ।।
तेजसा चैव सूर्यस्य मुनीनां तपसा यथा ।।
रुद्रस्य ब्रह्मचर्येण पवनस्य वलेन च।। स्मृ ।।
स्मर त्वं राजपुत्रोऽसि कौस्तुभं च मणिं स्मर ।।
यां गतिं ब्रह्महा गच्छेत्पितृहा मातृहा तथा ।। ४६ ।।
भूम्यर्थेनृतवादी च क्षत्रियश्च पराङ्मुखः ।।
सूर्याचन्द्रमसौ वायुः पावकश्च न यत्र वै ।। ४७।।
व्रजेच्च तां गतिं क्षिप्रं तच्च पापं भवेत्किल ।।
विकृतिं यदि गच्छेस्त्वं युद्धेध्वनि तुरंगम ।।
रिपून्विजित्य समरे सह भर्त्रा सुखी भव ।। ४८ ।।।। ।। ( इत्यश्वमंत्रः) ।। ।।
शक्रकेतो महावीर्य सुपर्णस्त्वय्युपस्थितः ।।
पतत्रिराड्वैनतेयस्तथा नारायणध्वजः ।। ४९ ।।
काश्यपेयोऽमृतो ज्ञेयो नागारिर्विष्णुवाहनः ।।
अप्रमेयो दुराधर्षो देवशत्रुनिषूदनः ।। ५० ।।
गरुत्मान्मारुतगतिस्त्वयि सन्निहितः स्थितः ।।
शस्त्रवर्मायुधान्योधान्रक्षास्मांश्च रिपून्दह ।। ५१ ।। ।। (इति ध्वजमंत्रः) ।। ।।
कुमुदैरावणौ पद्मः पुष्पदंतोऽथ वामनः ।।
सुप्रतीकोञ्जनो नील एतेऽष्टौ देवयोनयः ।।।। ५२ ।।
एतेषां पुत्रपौत्राश्च बलान्यष्टौ समाश्रिताः ।।
भद्रो मन्द्रो मृगश्चैव गजः संकीर्ण एव च ।।
वनेवने प्रसूतास्ते करियोनिं महागजाः।।५३।।
पातु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ।।
भर्तारं रक्ष नागेन्द्र समयं प्रतिपालयन् ।। ५४ ।।
अवापुर्हि जयं युद्धे गमने स्वस्ति नो व्रज ।।
श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्याज्जवोनिलात् ।।
स्थैर्यं मेरोर्जयं रुद्राद्यशो देवात्पुरंदरात् ।। ५५ ।।
युद्धे रक्षंतु नागास्त्वां दिशश्च सह दैवतैः ।।
अश्विनौ सह गंधर्वैः पांतु त्वां सर्वतः सदा ।। ५६ ।। ( इति हस्तिमंत्रः ।।)
हुतभुग्वसवो रुद्रा वायुः सोमो महर्षयः ।।
नागकिन्नरगन्धर्वयक्ष भूतगणाग्रहाः ।। ५७ ।।
प्रमथाश्च सहादित्यैर्भूतेशो मातृभिः सह ।।
शक्रसेनापतिः स्कन्दो वरुणश्चाश्रितास्त्वयि ।। ५८ ।।
प्रदहंतु रिपून्सर्वान्राजा विजयमृच्छतु ।।
यानि प्रयुक्तान्यरिभिर्दूषणानि समंततः ।। ५९ ।।
एतानि परशत्रूणां हतानि तव तेजसा ।।
कालनेमिवधे युद्धे युद्धे त्रिपुरघातने ।। ६० ।।
हिरण्यकशिपोर्युद्धे युद्धे देवासुरे तथा ।।
शोभितासि तथैवाद्य शोभमानास्तु भूपतेः ।। ६१ ।।
नीलां श्वेतामिमां दृष्ट्वा नश्यंत्वद्य नृपारयः ।।
व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्जिताः ।। ६२ ।।
सद्यः स्वस्था भवंति स्म त्वद्वातेनापमार्जिताः ।। ६३ ।।
पूतना रेवती नाम्ना कालरात्रीति या स्मृता ।।
दहंत्वाशु रिपून्सर्वान्पताके त्वामुपागताः ।। ६४ ।। (इति पताकामन्त्रः ।।)
असिश्च रिपुहा खड्गस्तीक्ष्णकर्मा दुरासदः ।।
श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च ।। ६९ ।।
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।।
नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ।। ६६ ।।
हिरण्यं च शरीरंते धाता देवोजनार्दनः ।।
पिता पितामहो देवस्त्वं मां पालय सर्वदा ।। ६७ ।। (इति खड्गमन्त्रः ।।)

शर्मप्रदस्त्वं समरे वर्म सर्वायसो ह्यसि ।।
रक्ष मां रक्षणीयोऽहं तव वर्मन्नमोऽस्तु ते ।। ६८ ।। ( इति वर्ममन्त्रः ।।) ।।
दुन्दुभे त्वं सपत्नानां .घोषाद्धृदयकम्पन् ।।
भव भूमिप सैन्यानां तथा विजयवर्द्धनः ।। ६९ ।।
यथा जीमूतघोषेण हृष्यंति वरवारणाः ।।
तथास्तु तव शब्देन हर्षोऽस्माकं मुदावहः ।।७०।।
यथा जीमूतशब्देन स्त्रीणां त्रासोऽभिजायते ।।
तथा च तव शब्देन त्रस्यंत्वस्मद्द्विषो रणे।।७१।।( इति दुंदुभिमंत्रः ।।)
सर्वायुध महामात्र सर्वदेवारिसूदन ।।
चाप मां सर्वदा रक्ष साकं सायकसत्तमैः ।। ७२।। ( इति चापमन्त्रः।।)
पुण्यस्त्वं शङ्ख पुष्पाणां मङ्गलानां च मङ्गलम् ।।
विष्णुना विधृतो नित्यं मनःशांतिप्रदो भव ।। ७३ ।। ( इति शङ्खमन्त्रः ।।)
शशांककरसंकाश हिम डिंडीरपांडुर ।।
प्रोत्सारयाशु दुरितं चामरामरवल्लभ ।। ७४ ।। ( इति चामरमंत्रः ।।)
सर्वायुधानां प्रथमा निर्मिताऽसि पिनाकिना ।।
शूलायुधाद्विनिष्कृष्य कृत्वा मुष्टिपरिग्रहम् ।। ७५ ।।
चंडिकायाः प्रदत्तासि सर्वदुष्टनिबर्हिणि ।।
तथा विस्तारिता चासि देवानां प्रतिपादिता ।। ७६ ।।

सर्व सत्त्वांगभूतासि सर्वाशुभनिवारिणि ।।
छुरिके रक्ष मां नित्यं शान्तिं यच्छ नमोऽस्तु ते ।। ७७ ।। ( इतिच्छूरिकामंत्रः ।।)
प्रोत्सारणाय दुष्टानां साधुसंग्रहणाय च ।।
ब्रह्मणा निर्मितश्चासि व्यवहारप्रसिद्धये ।।७८।।
यशो देहि सुखं देहि जगदो भव भूपतेः ।।
ताडयाशु रिपून्सर्वान्हेमदंड नमोस्तु ते ।। ७० ।। ( इति कनकदण्डमन्त्रः ।।)
विजयो जयदो जेता रिपुघाती प्रियंकरः ।।
दुःखहा धर्मदः शांतः सर्वारिष्टविनाशनः ।।८०।।
एतेऽष्टौसंनिधौ यस्मात्तव सिंहा महाबलाः।।।
तेन सिंहासनेति त्वं विप्रैर्वेदेषु गीयसे ।।८१।।
त्वयि स्थितः शिवः साक्षात्त्वयि शक्रः सुरेश्वरः।।
त्वयि स्थितो हरिर्देवस्त्वदर्थं तप्यते तपः ।। ८२ ।।
नमस्ते सर्वतो भद्र भद्रदो भव भूपतेः ।।
त्रैलोक्यजयसर्वस्व सिंहासन नमोऽस्तु ते ।। ८३ ।। ( इति सिंहासनमंत्रः ।।)
लोहाभिहारिकं कर्म कृत्वेदं मंत्रपूर्वकम्।।
फलनैवेद्यकुसुमैर्धूपदीपविलेपनैः ।।८४।।
अष्टम्यां धावनं कृत्वा पूर्वाह्णे स्नानमाचरेत्।।।। ८५ ।।
( अथ गद्यम्)
दुर्गां कांचनमूर्तिं रौप्यां वा पैत्तलीं वार्क्षी चैत्रीं ताम्रीं वाधिभवतः कृत्वा दारुविचित्रतोरणविन्यस्तां शोभने स्थाने पुरतो विन्यस्तदृष्टां विचित्रगृहमध्यगां स्नातां कुंकुमचंदनगंधैश्चतुःसमैश्चीरपट्टैश्चर्चितगात्रां देवीं कुसुमैरभ्यर्च्य तां बहुभिः पुष्यमाणकीर्तिस्तैर्द्विजननैर्जनितपरितोषैर्दिवान्वितो नरेंद्रः स्वयं प्रयच्छेत्पुरोहितैः सार्धं बिल्वपत्रेणार्चनेन मंत्रेणानेन भगवत्यै ।।
( इति गद्यं सम्पूर्णं) ।।
जयंती मंगला काली भद्रकाली कपालिनी ।।
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोस्तु ते ।। ८६ ।।
अमृतोद्भवः श्रीवृक्षो महादेवीप्रियः सदा ।।
बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरि ।। ८७ ।।
दुर्गा संपूजनीया च तद्दिनाद्द्रोणपुष्पया ।।
सा चाभीष्टा सुरेशान्यास्तथा रूढव्रणायुतः ।।।८८।।।
ततः खड्गं नमस्कृत्य शत्रूणां मानमर्द्दनम् ।।
इच्छेत्स्वविजयं राज्यं सुभिक्षं चात्मनो नृप ।। ८९ ।।
पुनः पुनः प्रणम्याथ ध्यायेच्च हृदये शिवाम्।।
महिषघ्रीं बहुभुजां कुमारीं सिंहवाहिनीम् ।। ९० ।।
दानवांस्तर्जयंतीं च खड्गोद्धतकरां शुभाम् ।।
घंटाक्षस्रग्धरां दुर्गां रणारंभे व्यवस्थिताम् ।। ९१ ।।
ततो जयजयाकारैः स्तवं कुर्यादिमं ततः ।। ९२ ।।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।।
शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तु ते ।। ९३ ।।
कुंकुमेन समालब्धे चन्दनेन विलेपिते ।।
बिल्वपत्रकृतामाले दुर्गेऽहं शरणं गतः ।।९४।।
कृत्वैवमर्च्चां कौरव्य अष्टम्यां जागरं निशि ।।
नटनर्तनगीतैश्च कारयेत्तु महोत्सवम् ।।९५।।
एवं हृष्टैर्निशां नीत्वा प्रभाते चारुणोदये ।।
पातयेन्महिषान्मेषानग्रतो नतकन्धरान् ।।९६।।
शतं चापि शतार्धं वा तदर्द्धं वा यथेच्छया ।।
सुरासवभृतैः कुंभैस्तर्पयेत्परमेश्वरीम् ।। ९७ ।।
कापालिकेभ्यस्तद्देयं दासीदासजनैस्तथा ।।
विभज्य सर्वं कौंतेय सुहृत्संबंधिबंधुषु ।।९८।।
ततोपराह्णसमये नवम्यां स्यंदने स्थिताम् ।।
भवानीं भ्रामयेद्राष्ट्रे स्वयं राजा ससैन्यवान् ।।९९।।
सहस्रैः पुरुषैर्वापि रथयुक्तैः सुशिक्षितैः ।।
शनैः शनैरधिकया दीप्त्या प्रज्वलदीपकैः ।।१००।।
आकृष्टखड्गैर्वीरैश्च धातुरक्तैर्गजैस्तथा ।।
नदद्भिः शंखपटहैर्नृत्यद्भिर्वारयौवतैः ।।
अलंकृताभिर्नारीभिर्बालकैः सुविभूषितैः ।।१०१।।
भूतेभ्यस्तु बलिं दद्यान्मंत्रेणानेन सामिषम् ।।
सरक्तं सजलं सान्नं गन्धपुष्पाक्षतैर्युतम् ।।१ ०२।।
त्रींस्त्रीन्वारांस्त्रिशूलेन दिग्विदिक्षु क्षिपेद्बलिम् ।।
बलिं गृह्णन्त्विमं देवा आदित्या वसवस्तथा ।। १०३ ।।
मरुतोऽथाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ।।
असुरा यातुधानाश्च मातरश्च पिशाचकाः ।। १०४
शाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ।।
जृंभकाः सिद्धगन्धर्वा व्याला विद्याधरा धराः।। १०५।।
दिक्पाला लोकपालाश्च ये च विघ्नविनायकाः ।।
जगतां शांतिकर्तारो ब्रह्माद्याश्च महर्षयः ।।१०६।।
सविघ्नं मम पापं ते शाम्यंतु परिपन्थिनः।।
सौम्या भवंतु तृप्ताश्च भूताः प्रेताः सुखावहाः ।।१०७।।
इत्येवं भ्रामयेद्राष्ट्रे दुर्गां देवीं रथे स्थिताम्।।
नरयानेन वा पार्थ ततोऽविघ्नं समापयेत् ।।१ ०८।।
अथोत्पन्नेषु विघ्नेषु भूतशांतिं समाचरेत् ।।
येन विघ्ना न जायंते यात्रासंपूर्णतां व्रजेत्।।१ ०९।।
एवं ये कुर्वते यात्रां राजानोऽन्येऽपि मानवाः।।
महानवम्यां नंदायां पुत्रका हृष्टमानसाः ।।११ ०।।
ते सर्वे पापनिर्मुक्ता यांति भागवतीं पुरीम् ।।१ ११।।
न तेषां शावकोनाग्निर्न चौरा न विनायकाः ।।
विघ्नं कुर्वन्ति राजेन्द्र येषां तुष्टा महेश्वरी ।। ११२ ।।
नीरुजः सुखिनो भोगभोक्तारो भयवर्जिताः।।
भवंति भक्ताः पुरुषाः भगवत्याः किमुच्यते ।। ११३ ।।
इत्येष ते समाख्यातो दुर्गादेव्या महोत्सवः ।।
पठतां शृण्वतां चैव सर्वाशुभविनाशनः ।। ११४ ।।
शूलाग्रभिन्नमहिषासुरपृष्ठविष्टामृतखातखड्गरुचिरांगदबाहुदण्डाम् ।।
अभ्यर्च्य पंचवदनानुगतां नवम्यां दुर्गां सुदुर्गगहनानि तरंति मर्त्याः ।। ११५ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महानवमीव्रतवर्णनं नामाष्टत्रिंशदुत्तरशततमोऽध्यायः।।१३८।।