सामग्री पर जाएँ

भगवद्गीतारामानुजभाष्यम्/अध्यायः ९

विकिस्रोतः तः
← अध्यायः ८ भगवद्गीतारामानुजभाष्यम्
अध्यायः ९
[[लेखकः :|]]
अध्यायः १० →

उपासकभेदनिबन्धना विशेषाः प्रतिपादिताः । इदानीमुपास्यस्य परमपुरुषस्य माहात्म्यम्, ज्ञानिनां विशेषं च विशोध्य भक्तिरूपस्योपासनस्य स्वरूपमुच्यते ।

श्रीभगवानुवाच
इदं तु गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्षसेऽशुभात् ॥ भगवद्गीता९.१ ॥

इदं तु गुह्यतमं भक्तिरूपमुपासनाख्यं ज्ञानं विज्ञानसहितमुपासनगतविशेषज्ञानसहितम्, अनसूयवे ते प्रवक्ष्यामि मद्विषयं सकलेतरविसजातीयमपरिमितप्रकारं माहात्म्यं श्रुत्वा, एवमेव संभवतीति मन्वानाय ते प्रवक्ष्यामीत्यर्थः । यज्ज्ञानमनुष्ठानपर्यन्तं ज्ञात्वा मत्प्राप्तिविरोधिनः सर्वस्मादशुभान्मोक्ष्यसे ॥ भगवद्गीतारामानुजभाष्य ९.१ ॥

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ भगवद्गीता९.२ ॥

राजविद्या विद्यानां राजा, राजगुह्यं गुह्यानां राजा । राज्ञां विद्येति वा राजविद्या । राजानो हि विस्तीर्णागाध्यमनसः । महामनसामियं विद्येत्यर्थः । महामनस एव हि गोपनीयगोपनकुशला इति तेषामेव गुह्यम् । इदमुत्तमं पवित्रं मत्प्राप्तिविरोध्यशेषकल्मषापहम् । प्रत्यक्षावगमम् । अवगम्यत इत्यवगमः विषयः॑ प्रत्यक्षभूतोऽवगमः विषयो यस्य ज्ञानस्य तत्प्रत्यक्षावगमम् । भक्तिरूपेणोपासनेनोपास्यमानोऽहं तादानीमेवोपासितुः प्रत्यक्षतामुपगतो भवामीत्यर्थः । अथापि धर्म्यं धर्मादनपेतम् । धर्मत्वं हि निश्श्रेयससाधनत्वम् । स्वरूपेणैवात्यर्थप्रियत्वेन तदानीमेव मद्दर्शनापादनतया च स्वयं निश्श्रेयसरूपमपि निरतिशयनिश्श्रेयसरूपात्यन्तिकमत्प्राप्तिसाधनमित्यर्थः । अत एव सुसुखं कर्तुं सुसुखोपादानम् । अत्यर्थप्रियत्वेनोपादेयम् । अव्ययमक्षयम्॑ मत्प्राप्तिं साधयित्वा+अपि स्वयं न क्षीयते । एवंरूपमुपासनं कुर्वतो मत्प्रदाने कृतेऽपि किंचित्कृतं मया+अस्येति मे प्रतिभातीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.२ ॥

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ भगवद्गीता९.३ ॥

अस्योपासनाख्यस्य धर्मस्य निरतिशयप्रियमद्विषयतया स्वयं निरतिशयप्रियरूपस्य परमनिश्श्रेयसरूपमत्प्राप्तिसाधनस्याव्ययस्योपादानयोग्यदशायां प्राप्य अश्रद्दधानाः विश्वासपूर्वकत्वरारहिताः पुरुषाः मामप्राप्य मृत्युरूपे संसारवर्त्मनि नितरां वर्तन्ते । अहो महदिदमाश्चर्यमित्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.३ ॥

शृणु तावत्प्राप्यभूतस्य ममाचिन्त्यमहिमानम्

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ भगवद्गीता९.४ ॥
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ भगवद्गीता९.५ ॥

इदं चेतनाचेतनात्मकं कृत्स्नं जगदव्यक्तमूर्तिना अप्रकाशितस्वरूपेण मया अन्तर्यामिणा, ततमस्य जगतो धारणार्थं नियमनार्थं च शेषित्वेन व्याप्तमित्यर्थः । यथान्तर्यामिब्राह्मणे, "यः पृथिव्यां तिष्ठन् ... यं पृथिवी न वेद", "य आत्मनि तिष्ठन् ... यमात्मा न वेद" इति चेतनाचेतनवस्तुजातैरदृष्टेणान्तर्यामिणा तत्र तत्र व्याप्तिरुक्ता । ततो मत्स्थानि सर्वभूतानि सर्वाणि भूतानि मय्यन्तर्यामिणि स्थितानि । तत्रैव ब्राह्मणे, "यस्य पृथिवी शरीरं ... यः पृथिवीमन्तरो यमयति, यस्यात्मा शरीरं ... य आत्मानमन्तरो यमयति" इति शरीरत्वेन नियाम्यत्वप्रतिपादनात्तदायत्ते स्थितिनियमने प्रतिपादिते॑ शेषित्वं च । न चाहं तेष्ववस्थितः अहं तु न तदायत्तस्थितिः॑ मत्स्थितौ तैर्न कश्चिदुपकार इत्यथः । न च मत्स्थानि भूतानि न घटादीनां जलादेरिव मम धारकत्वम् । कथम्? मत्सङ्कल्पेन । पश्य ममाइश्वरं योगमन्यत्र कुत्रचिदसंभावनीयं मदसाधारणमाश्चर्यं योगं पश्य । कोऽसौ योग? भूतभृन्न च भूतस्थो ममात्मा भूतभावनः । सर्वेषां भूतानां भर्ताहम्॑ न च तैः कश्चिदपि ममोपकारः । ममात्मैव भूतभावनः मम मनोमयस्सङ्कल्प एव भूतानां भावयिता धारयिता नियन्ता च ॥ भगवद्गीतारामानुजभाष्य ९.४,५ ॥

सर्वस्यास्य स्वसङ्कल्पायत्तस्थितिप्रवृत्तित्वे निदर्शनमाह

यथा+आकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ भगवद्गीता९.६ ॥

यथा आकशे अनालम्बने महान् वयुः स्थितः सर्वत्र गच्छति॑ स तु वायुर्निरालम्बनो मदायत्तस्थितिरित्यवश्याभ्युपगमनीयः एवमेव सर्वाणि भूतानि तैरदृष्टे मयि स्थितानि मयैव धृतानीत्युपधारय । यथा+आहुर्वेदविदः, "मेघोदयः सागरसन्निवृत्तिरिन्दोर्विभागः स्फुरितानि वायोः । विद्युद्विभङ्गो गतिरुष्णरश्मेर्विष्णोर्विचित्राः प्रभवन्ति मायाः" इति विष्णोरनन्यसाधारणानि महाश्चर्याणीत्यर्थः । श्रुतिरपि, "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः", "भीषा+अस्माद्वातः पवते,भीषोदेति सूर्यः, भीषा+अस्मादग्निश्चेन्द्रश्च" इत्यादिका ॥ भगवद्गीतारामानुजभाष्य ९.६ ॥
सकलेतरनिरपेक्षस्य भगवतस्सङ्कल्पात्सर्वेषां स्थितिः प्रवृत्तिश्चोक्ता तथा तत्सङ्कल्पादेव सर्वेषामुत्पत्तिप्रलयावपीत्याह

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ भगवद्गीता९.७ ॥

स्थावरजङ्गमात्मकानि सर्वाणि भूतानि, मामिकां मच्छरीरभूताम्, प्रकृतिं तमश्शब्दवाच्यां नामरूपविभागानर्हाम्, कल्पक्षये चतुर्मुखावसानसमये मत्सङ्कल्पाद्यान्ति॑ तान्येव भूतानि कल्पादौ पुनर्विसृज्याम्यहम्॑ यथा+आह मनुः "आसीदिदं तमोभूतं ... सोऽभिध्याय शरीरात्स्वात्" इति । श्रुतिरपि "यस्याव्यक्तं शरीरम्", "अव्यक्तमक्षरे लीयते, अक्षरं तमसि लीयते" इत्यादिका, "तमासीत्तमसा गूढमग्रे प्रकेतम्" इति च ॥ भगवद्गीतारामानुजभाष्य ९.७ ॥

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ भगवद्गीता९.८ ॥

स्वकीयां विचित्रपरिणामिनीं प्रकृतिमवष्टभ्य अष्टधा परिणाम्य्यिमं चतुर्विधं देवतिर्यङ्मनुष्यस्थावरात्मकं भूतग्रामं मदीयाया मोहिन्या गुणमय्याः प्रकृतेर्वशादवशं पुनः पुनः काले काले विसृजामि ॥ भगवद्गीतारामानुजभाष्य ९.८ ॥

एवं तर्हि विषमसृष्ट्यादीनि कर्माणि नैघृण्याद्यापादनेन भवन्तं बध्नन्तीत्यत्राह

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ भगवद्गीता९.९ ॥

न च तानि विषमसृष्ट्यादीनि कर्माणि मां निबध्नन्ति मयि नैर्घृण्यादिकं नापादयन्ति, यतः क्षेत्रज्ञानां पूर्वकृतान्येव कर्माणि देवादिविषमभावहेतवः॑ अहं तु तत्र वैषम्ये असक्तः तत्रोदासीनवदासीनः॑ यथा +आह सूत्रकारः "वैषम्यनैर्घृण्ये न सापेक्षत्वात्", न कर्माविभागादिति चेन्नानादित्वात्" इति ॥ भगवद्गीतारामानुजभाष्य ९.९ ॥

मया+अध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुना+अनेन कौन्तेय जगद्धि परिवर्तते ॥ भगवद्गीता९.१० ॥

तस्मात्क्षेत्रज्ञकर्मानुगुणं मदीया प्रकृतिः सत्यसङ्कल्पेन मया+अध्यक्षेणेक्षिता सचराचरं जगत्सूयते । अनेन क्षेत्रज्ञकर्मानुगुणमदीक्षणेन हेतुना जगत्परिवर्तत इति मत्स्वाम्यं सत्यसङ्कल्पत्वं नैर्घृण्यादिदोषरहितत्वमित्येवमादिकं मम वसुदेवसूनोरैश्वरं योगं पश्य । यथा+आह श्रुतिः, "अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः । मायां तु प्रकृतिं विद्यान्मायिनं तु म्हेश्वरम् ॥ भगवद्गीतारामानुजभाष्य १." इति ॥९१०॥

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ भगवद्गीता९.११ ॥

एवं मां भूतमहेश्वरं सर्वज्ञं सत्यसङ्कल्पं निखिलजगदेककारणं परमकारुणिकतया सर्वसमाश्रयणीयत्वाय मानुषीं तनुमाश्रितं स्वकृतैः पापकर्मभिर्मूढा अवजानन्ति प्राकृतमनुष्यसमं मन्यन्ते । भूतमहेश्वरस्य ममापारकारुण्योदार्यसौशील्यवात्सल्यनिबन्धनं मनुष्यत्वसमाश्रयणलक्षणमिमं परं भावमजानन्तो मनुष्यत्वसमाश्रयणमात्रेण मामितरसजातीयं मत्वा तिरस्कुर्वन्तीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.११ ॥

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ भगवद्गीता९.१२ ॥

मम मनुष्यत्वे परमकारुण्यादिपरत्वतिरोधानकरीं राक्षसीमासुरीं च मोहिनीं प्रकृतिमाश्रिताः, मोघाशाः मोघ्वाञ्छिताः निष्फलवाञ्छिताः, मोघ्कर्माणः मोघारम्भाः, मोघज्ञानाः सर्वेषु मदीयेषु चराचरेष्वर्थेषु विपरीतज्ञानतया निष्फलज्ञानाः, विचेतसः तथा सर्वत्र विगतयाथात्म्यज्ञानाः मां सर्वेश्वरमितरसमं मत्वा मयि च यत्कर्तुमिच्छन्ति, यदुद्दिश्यारम्भान् कुर्वते, तत्सर्वं मोघं भवतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.१२ ॥

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ भगवद्गीता९.१३ ॥

ये तु स्वकृतैः पुण्यसञ्चयैः मां शरणमुपगम्य विध्वस्तसमस्तपापबन्धा दैवीं प्रकृतिमाश्रिता महात्मानः, ते, भूतादिमव्ययं वाङ्मनसागोचरनामकर्मस्वरूपं परमकारुणिकतया साधुपरित्राणाय मनुष्यत्वेनावतीर्णं मां ज्ञात्वा+अनन्यमनसो मां भजन्ते॑ मत्प्रियत्वातिरेकेण मद्भजनेन विना मनसश्चात्मनश्च बाह्यकरणानां च धारणमलभमाना मद्भजनैकप्रयोजना भजन्ते ॥ भगवद्गीतारामानुजभाष्य ९.१३ ॥

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ भगवद्गीता९.१४ ॥

अत्यर्थमत्प्रियत्वेन मत्कीर्तनयतननमस्कारैर्विना क्षणाणुमात्रेऽप्यात्मधारणमलभमानाः, मद्गुणविशेषवाचीनि मन्नामानि स्मृत्वा पुलकाञ्चितसर्वाङ्गाः हर्षगद्गदकण्ठाः, नारायणकृष्णवासेदेवेत्येवमादीनि सततं कीर्तयन्तः, तथैव यतन्तः मत्कर्मस्वर्चनादिकेषु, तदुपकारेषु भवननन्दनवनकरणादिकेषु च दृढसङ्कल्पा यतमानाः, भक्तिभारावनमितमनोबुद्ध्यभिमानपदद्वयकरद्वयशिरोभिरष्टाङ्गैरचिन्तितपांसुकर्दमशर्करादिके धरातले दण्डवत्प्रणिपतन्तः, सततं मां नित्ययुक्ताः नित्ययोगं काङ्क्षमाणा आत्मान्तं मद्दास्यव्यवसायिनः उपासते ॥ भगवद्गीतारामानुजभाष्य ९.१४ ॥

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ भगवद्गीता९.१५ ॥

अन्येऽपि महात्मनः पूर्वोक्तैः कीर्तनादिभिर्ज्ञानाख्येन यज्ञेन च यजन्तो मामुपासते । कथम्? बहुधा पृथक्त्वेन जगदाकारेण, विश्वतोमुखं विश्वप्रकारमवस्थितं मामेकत्वेनोपासते । एतदुक्तं भवति भगवान् वासुदेव एव नामरूपविभागानर्हातिसूक्ष्मचिदचिद्वस्तुशरीरस्सन् सत्यसङ्कल्पो विविधविभक्तनामरूपस्थूलचिदचिद्वस्तुशरीरः स्यामिति संकल्प्य स एक एव देवतिर्यङ्मनुष्यस्थावराख्यविचित्रजगच्छरीरोऽवतिष्ठत इत्यनुसंदधानाश्च मामुपासते इति ॥ भगवद्गीतारामानुजभाष्य ९.१५ ॥

तथा हि विश्वशरीरोऽहमेवावस्थित इत्याह

अहं क्रतुरहं यज्ञः स्वधा+अहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ भगवद्गीता९.१६ ॥

अहं क्रतुः अहं ज्योतिष्टोमादिकः क्रतुः॑ अहमेव महायज्ञः॑ अहमेव पितृगणपुष्टिदा स्वधा॑ औषधं हविश्चाहमेव॑ अहमेव च मन्त्रः॑ अहमेव च आज्यम् । प्रदर्शनार्थमिदं सोमादिकं च हविरहमेवेत्यर्थः॑ अहमाहवनीयादिकोऽग्निः॑ होमश्चाहमेव ॥ भगवद्गीतारामानुजभाष्य ९.१६ ॥

पिता+अहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ भगवद्गीता९.१७ ॥

अस्य स्थावरजङ्गमात्मकस्य जगतः, तत्र तत्र पितृत्वेन, मातृत्वेन, धातृत्वेन, पितामहत्वेन च वर्तमानोऽहमेव । अत्र धातृशब्दो मातापितृव्यतिरिक्ते उत्पत्तिप्रयोजके चेतनविशेषे वर्तते । यत्किञ्चिद्वेदवेद्यं पवित्रं पावनम्,तदहमेव । वेदकश्च वेदबीजभूतः प्रणवोऽहमेव । ऋक्सामयजुरात्मको वेदश्चाहमेव ॥ भगवद्गीतारामानुजभाष्य ९.१७ ॥

गतिर्भर्ता प्रभुस्साक्षी निवासश्शरणं सुहृत् ।
प्रभवप्रलयस्थानं निधानं बीजमव्ययम् ॥ भगवद्गीता९.१८ ॥

गम्यत इति गतिः॑ तत्र तत्र प्राप्यस्थानमित्यर्थः॑ भर्ता धारयिता, प्रभुः शासिता, साक्षी साक्षाद्दृष्टा, निवासः वासस्थानं वेश्मादि । शरणम् । इष्टस्य प्रापकतया+अनिष्टस्य निवारणतया च समाश्रयणीयश्चेतनः शरणम् । स चाहमेव॑ सुकृद्धितैषी, प्रभवप्रलयस्थानं यस्य कस्यचिद्यत्र कुत्रचिदुत्पत्तिप्रलययोर्यत्स्थानम्, तदहमेव । निधानं निधीयत इति निधानम्, उत्पाद्यमुपसंहार्यं चाहमेवेत्यर्थः॑ अव्ययं बीजं तत्र तत्र व्ययरहितं यत्कारणम्, तदहमेव ॥ भगवद्गीतारामानुजभाष्य ९.१८ ॥

तपाम्यहमहं वर्षं निगृह्णाम्यित्युत्सृज्यामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ भगवद्गीता९.१९ ॥

अग्न्यादित्यादिरूपेणाहमेव तपामि॑ ग्रीष्मादावहमेव वर्षं निगृह्णामि । तथा वर्षासु चाहमेवोत्सृजामि । अमृतं चैव मृत्युश्च । येन जीवति लोको येन च म्रियते, तदुभयमहमेव । किमत्र बहुनोक्तेन॑ सदसच्चाहमेव । सद्यद्वर्तते, असद्यदतीतमनागतं च सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्तत्प्रकारोऽहमेवावस्थित इत्यर्थः । एवं बहुधा पृथक्त्वेन विभक्तनामरूपावस्थितकृत्स्नजगच्छरीरतया तत्प्रकारोऽहमेवावस्थित इत्येकत्वज्ञानेनाननुसंदधानाश्च मामुपासते ॥ भगवद्गीतारामानुजभाष्य ९.१९ ॥

एवं महात्मनां ज्ञानिनां भगवदनुभवैकभोगानां वृत्तमुक्त्वा तेषामेव विशेषं दर्शयितुमज्ञानां कामकामानां वृत्तमाह

त्रैविद्या मां सोमपाः पूतपापाः यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान् ॥ भगवद्गीता९.२० ॥
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्नाः गतागतं कामकामा लभन्ते ॥ भगवद्गीता९.२१ ॥

ऋग्यजुस्सामरूपास्तिस्रो विद्याः त्रिविद्यम्॑ केवलं त्रिविद्यनिष्ठास्त्रैविद्याः, न तु त्रय्यन्तनिष्ठाः । त्रय्यन्तनिष्ठा हि महात्मनः पूर्वोक्तप्रकारेण निखिलवेदवेद्यं मामेव ज्ञात्वा+अतिमात्रमद्भक्तिकारितकीर्तनादिभिर्ज्ञानयज्ञेन च मदेकप्राप्या मामेवोपासते । त्रैविद्यास्तु वेदप्रतिपाद्यकेवलेन्द्रादियागशिष्टसोमान् पिबन्तः, पूतपापाः स्वर्गादिप्राप्तिविरोधिपापात्पूताः, तैः केवलेन्द्रादिदेवत्यतया+अनुसंहितैर्यज्ञैर्वस्तुतस्तद्रूपं मामिष्ट्वा, तथावस्थितं मामजानन्तः स्वर्गगतिं प्रार्थयन्ते । ते पुण्यं दुःखासंभिन्नं सुरेन्द्रलोकं प्राप्य तत्र तत्र दिव्यान् देवभोगानश्नन्ति । ते तं विशालं स्वर्गलोकं भुक्त्वा तदनुभवहेतुभूते पुण्ये क्षीणे पुनरपि मर्त्यलोकं विशन्ति । एवं त्रय्यन्तसिद्धज्ञानविधुराः काम्यस्वर्गादिकामाः केवलं त्रयीधर्ममनुप्रपन्नाः गतागतं लभन्ते अल्पास्थिरस्वर्गादीननुभूय पुनः पुनर्निवर्तन्त इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.२०,२१ ॥

महात्मनस्तु निरतिशयप्रियरूपमच्चिन्तनं कृत्वा मामनवधिकातिशयानन्दं प्राप्यन पुनरावर्तन्त इति तेषां विशेषं दर्शयति

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ भगवद्गीता९.२२ ॥

अनन्याः अनन्यप्रयोजनाः, मच्चिन्तनेन विना+आत्मधारणालाभान्मच्चिन्तनैकप्रयोजनाः मां चिन्तयन्तो ये महात्मानो जनाः पर्युपासते सर्वकल्यान्णगुणान्वितं सर्वविभूतियुक्तं मां परित उपासते, अन्यूनमुपासते, तेषां नित्याभियुक्तानां मयि नित्याभियोगं काङ्क्षमाणानाम्, अहं मत्प्राप्तिलक्षणं योगम्, अपुनरावृत्तिरूपं क्षेमं च वहामि ॥ भगवद्गीतारामानुजभाष्य ९.२२ ॥

ये त्वन्यदेवताभक्ता यजन्ते श्रद्धया+अन्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ भगवद्गीता९.२३ ॥

ये त्विन्द्रादिदेवताभक्ताः केवलत्रयीनिष्ठाः श्रद्धया+अन्विताः इन्द्रादीन् यजन्ते, तेऽपि पूर्वोक्तेन न्यायेन सर्वस्य मच्छरीरतया मदात्मकत्वेन, इन्द्रादिशब्दानां च मद्वाचित्वाद्वस्तुतो मामेव यजन्ते॑ अपि त्वविधिपूर्वकं यजन्ते । इन्द्रादीनां देवतानां करम्स्वाराध्यतया अन्वयं यथा वेदान्तवाक्यानि, "चतुर्होतारो यत्र संपदं गच्छन्ति देऐः" इत्यादीनि विदधति, न तत्पूर्वकं यजन्ते । वेदान्तवाक्यजातं हि परमपुरुषशरीरतया+अवस्थितानामिन्द्रादीनामाराध्यत्वं विदधदत्मभूतस्य परमपुरुषस्यैव साक्षादाराध्यत्वं विदधाति । चतुर्होतारः अग्निहोत्रदर्शपूर्णमासादीनि कर्माणि, यत्र परमात्मन्यात्मतया+अवस्थिते सत्येव तच्छरीरभूतेन्द्रादिदेवैः॑ संपदं गच्छन्ति इन्द्रादिदेवानामाराधनान्येतानि कर्माणीतीमां संपदं गच्छन्तीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.२३ ॥

अतस्त्रैविद्या इन्द्रादिशरीरस्य परमपुरुषस्याराधनान्येतानि कर्माणि॑ आराध्यश्च स एवेति न जानन्ति, ते च परिमितफलभागिनश्च्यवनस्वभावाश्च भवन्ति॑ तदाह

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ भगवद्गीता९.२४ ॥

प्रभुरेव च तत्र तत्र फलप्रदाता चाहमेव इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.२४ ॥

अहो महदिदं वैचित्र्यम्, यदेकस्मिन्नेव कर्मणि वर्तमानाः सङ्कल्पमात्रभेदेन केचिदत्यल्पफलभागिनश्च्यवनस्वभावाश्च भवन्ति॑ केचन अनवधिकातिशयानन्दपरमपुरुषप्राप्तिरूपफलभागिनोऽपुनरावर्तिनश्च भवन्तीत्याह

यान्ति देवव्रता देवान् पित़्न् यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्याः यान्ति मद्याजिनोऽपि माम् ॥ भगवद्गीता९.२५ ॥

व्रतशब्दः सङ्क्ल्पवाची॑ देवव्रताः दर्शपूर्णमासादिभिः कर्मभिः इन्द्रादीन् यजामहे इति इन्द्रादियजनसङ्कल्पा ये, ते इन्द्रादीन् देवान् यान्ति । ये च पितृयज्ञादिभिः पित़्न् यजामहे इति पितृयजनसङ्कल्पाः, ते पित़्न् यान्ति । ये च "यक्षरकषःपिशाचादीनि भूतानि यजामहे" इति भूतयजनसङ्कल्पाः, ते भूतानि यान्ति । ये ते तैरेव यज्ञैः "देवपितृभूतशरीरकं परमात्मानं भगवन्तं वासुदेवं यजामहे" इति मां यजन्ते, ते मद्याजिनो मामेव यान्ति । देवादिव्रताः देवादीन् प्राप्य तैस्सह परिमितं भोगं भुक्त्वा तेषां विनशकाले तैस्सह विनष्टा भवन्ति । मद्याजिनस्तु मामनादिनिधनं सर्वज्ञं सत्यसङ्कल्पमनवधिकातिशयासंख्येयकल्याणगुणगणमहोदधिमनवधिकातिशयानन्दं प्राप्य न पुनर्निवर्तन्त इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.२५ ॥

मद्याजिनामयमपि विशेषोऽस्तीत्याह

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ भगवद्गीता९.२६ ॥

सर्वसुलभं पत्रं वा पुष्पं वा फलं वा तोयं वा यो भक्त्या मे प्रयच्छति अत्यर्थमत्प्रियत्वेन तत्प्रदानेन विना+आत्मधारणमलभमानतया तदेकप्रयोजनो यो मे पत्रादिकं ददाति॑ तस्य प्रयतात्मनः तत्प्रदानैकप्रयोजनत्वरूपशुद्धियुक्तमनसः, तत्तथाविधभक्त्युपहृतम्, अहं सर्वेश्वरो निखिलजगदुदयविभवलयलीला+अवाप्तसमस्तकामः सत्यसङ्कल्पोऽनवधिकातिशयासंख्येयकल्याणगुणगणः स्वाभाविकानवधिकातिशयानन्दस्वानुभवे वर्तमानोऽपि, मनोरथपथदूरवर्ति प्रियं प्राप्यैवाश्नामि । यथोक्तं मोक्षधर्मे, "याः क्रियाः संप्रयुक्तास्स्युरेकान्तगतबुद्धिभिः । ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम्" इति ॥ भगवद्गीतारामानुजभाष्य ९.२६ ॥

यस्माज्ज्ञानिनां महात्मनां वाङ्मनसागोचरोऽयं विशेषः, तस्मात्त्वं च ज्ञानी भूत्वा उक्तलक्षणभक्तिभारावनमितात्मा आत्मीयः कीर्तनयतनार्चनप्रणामादिकं सततं कुर्वाणो लौकिकं वैदिकं च नित्यनैमित्तिकं कर्म चेत्थं कुर्वित्याहा

यत्करोषि यदश्नासि यज्जहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ भगवद्गीता९.२७ ॥

यद्देहयात्राशेषभूतं लौकिकं कर्म करोषि, यच्च देहधारणायाश्नासि, यच्च वैदिकं होमदानतपःप्रभृति नित्यनैमित्तिकं कर्म करोषि, तत्सर्वं मदर्पणं कुरुष्व । अर्प्यत इत्यर्पणं सर्वस्य लौकिकस्य वैदिकस्य च कर्मणः कर्तृत्वं भोक्तृत्वमाराध्यत्वं च यथा मयि समर्पितं भवति तथा कुरु । एतदुक्तं भवति यागदानादिषु आराध्यतया प्रतीयमानानां देवादीनां कर्मकर्तुर्भोक्तुः तव च मदीयतया मत्सङ्कल्पायत्तस्वरूपस्थितिप्रवृत्तितया च मय्येव परमशेषिणि परमकर्तरि त्वां च कर्तारं भोक्तारमाराधकम्, आराध्यं च देवताजातम्, आराधनं च क्रियाजातं सर्वं समर्पय॑ तव मन्नियाम्यतापूर्वकमच्छेषतैकरसतामाराध्यादेस्चैतत्स्वभावगर्भतामत्यर्थप्रीतियुक्तोऽनुसंधत्स्व इति ॥ भगवद्गीतारामानुजभाष्य ९.२७ ॥

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ भगवद्गीता९.२८ ॥

एवं संन्यासाख्ययोगयुक्तमनाः आत्मानं मच्छेषतामन्नियाम्यतैकरसं कर्म च सर्वं मदाराधनमनुसंदधानो लौकिकं वैदिकं च कर्म कुर्वन् शुभाशुभफलैरनन्तैः प्राचीनकर्माख्यैर्बन्धनैर्मत्प्राप्तिविरोधिभिस्सर्वैर्मोक्ष्यसे॑ तैर्विमुक्तो मामेवोपैष्यसि ॥ भगवद्गीतारामानुजभाष्य ९.२८ ॥

ममेमं परममतिलोकं स्वभावं शृणु

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ भगवद्गीता९.२९ ॥

देवतिर्यङ्मनुष्यस्थावरात्मना+अवस्थितेषु जातितश्चाकारतः स्वभावतो ज्ञानतश्चात्यन्तोत्कृष्टापकृष्टरूपेण वर्तमानेषु सर्वेषु भूतेषु समाश्रयणीयत्वे समोऽहम्॑ अयं जात्याकारस्वभावज्ञानादिभिर्निर्कृष्ट इति समाश्रयणे न मे द्वेष्योऽस्ति उद्वेजनीयतया न त्याज्योऽस्ति । तथा समाश्रितत्वातिरेकेण जात्यादिभिरत्यन्तोत्कृष्टोऽयमिति तद्व्युक्ततया समाश्रयणे न कश्चित्प्रियोऽस्ति न संग्राह्योऽस्ति । अपि तु अत्यर्थमत्प्रियत्वेन मद्भजनेन विना+आत्मधारणालाभान्मद्भजनैकप्रयोजना ये मां भजन्ते, ते जात्यादिभिरुत्कृष्टा अपकृष्टा वा मत्समानगुणवद्यथासुखं मय्येव वर्तन्ते । अहमपि तेषु मदुत्कृष्टेष्विव वर्ते ॥ भगवद्गीतारामानुजभाष्य ९.२९ ॥

तत्रापि

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ भगवद्गीता९.३० ॥

तत्र तत्र जातिविशेषे जातानां यः समाचार उपादेयः परिहरणीयश्च, तस्मादतिवृत्तोऽप्युक्तप्रकारेण मामनन्यभाक्भजनैकप्रयोजनो भजते चेत्, साधुरेव सः वैष्णवाग्रेसर एव सः । मन्तव्यः बहुमन्तव्यः पूर्वोक्तैस्सम इत्यर्थः । कुत एतत्? सम्यग्व्यवसितो हि सः यतोऽस्य व्यवसायः सुसमीचीनः भगवान्निखिलजगदेककारणभूतः परं ब्रह्म नारायणश्चराचरपतिरस्मत्स्वामी मम गुरुर्मम सुहृन्मम परमं भोग्यमिति सर्वैर्दुष्प्रापोऽयं व्यवसायस्तेन कृतः॑ तत्कार्यं चानन्यप्रयोजनं निरन्तरं भजनं तस्यास्ति अतः साधुरेव॑ बहुमन्तव्यः । अस्मिन् व्यवसाये, तत्कार्ये चोक्तप्रकारभजने संपन्ने सति तस्याचारव्यतिक्रमः स्वल्पवैकल्यमिति न तावता+अनादरणीयः, अपि तु बहुमन्तव्य एवेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.३० ॥

ननु "नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशन्तमानसो वा+अपि प्रज्ञानेनैनमाप्नुयात् ॥ भगवद्गीतारामानुजभाष्य १." इत्यादिश्रुतेः आचारव्यतिक्रम उत्तरोत्तरभजनोत्पत्तिप्रवाहं निरुणद्धीत्यत्र आह

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ भगवद्गीता९.३१ ॥

मत्प्रियत्वकारितानन्यप्रयोजनमद्भजनेन विधूतपापतयैव समूलोन्मूलितरजस्तमोगुणः क्षिप्रं धर्मात्मा भवति क्षिप्रमेव विरोधिरहितसपरिकरमद्भजनैकमना भवति । एवंरूपभजनमेव हि "धर्मस्यास्य परन्तप" इति उपक्रमे धर्मशब्दोदितम् । शश्वच्छान्तिं निगच्छति शश्वतीमपुनरावर्तिनीं मत्प्राप्तिविरोध्याचारनिवृत्तिं गच्छति । कौन्तेय त्वमेवास्मिन्नर्थे प्रतिज्ञां कुरु मद्भक्तावुपक्रान्तो विरोध्याचारमिश्रोऽपि न नश्यति॑ अपि तु मद्भक्तिमाहात्म्येन सर्वं विरोधिजातं नाशयित्वा शाश्वतीं विरोधिनिवृत्तिमधिगम्य क्षिप्रं परिपूर्णभक्तिर्भवतीति ॥ भगवद्गीतारामानुजभाष्य ९.३१ ॥

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ भगवद्गीता९.३२ ॥
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ भगवद्गीता९.३३ ॥

स्त्रियो वैश्याः शूद्राश्च पापयोनयोऽपि मां व्यपाश्रित्य परां गतिं यान्ति॑ किं पुनः पुण्ययोनयो ब्राह्मणा राजर्षयश्च मद्भक्तिमास्थिताः । अतस्त्वं राजर्षिरस्थिरं तापत्रयाभिहततया असुखं चेमं लोकं प्राप्य वर्तमानो मां भजस्व ॥ भगवद्गीतारामानुजभाष्य ९.३२,३३ ॥

भक्तिस्वरूपमाह

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ भगवद्गीता९.३४ ॥

मन्मना भव मयि सर्वेश्वरेश्वरे, निखिलहेयप्रत्यनीककल्याणैकताने, सर्वज्ञे, सत्यसङ्कल्पे निखिलजगदेककारणे, परस्मिन् ब्रह्मणि, पुरुषोत्तमे, पुण्डरीकदलामलायताक्षे, स्वच्छनीलजीमूतसङ्काशे, युगपदुदितदिनकरसहस्रसदृशतेजसि, लावण्यामृतमहोदधौ, उदारपीवरचतुर्बाहौ, अत्युज्ज्वलपीताम्बरे, अमलकिरीटमकरकुण्डलहारकेयूरकटकभूषिते, अपारकारुण्यसौशील्यसौन्दर्यमाधुर्यगाम्भीर्याउदार्यवात्सल्यजलधौ, अनालोचितविशेषाशेषलोकशरण्ये सर्वस्वामिनि तैलधारावदविच्छेदेन निविष्टमना भव । तदेव विशिनष्टि मद्भक्तः अत्यर्थमत्प्रियत्वेन युक्तो मन्मना भवेत्यर्थः । पुनर्पि विशिनष्टि मद्याजी अनवधिकातिशयप्रियमदनुभवकारितमद्यजनपरो भव । यजनं नामपरिपूर्णशेषवृत्तिः । औपचारिकसांस्पर्शिकाभ्यवहारिकादिसकलभोगप्रदानरूपो हि यागः । यथा मदनुभवजनितनिर्वधिकातिशयप्रीतिकारितमद्यजनपरो भवसि, तथा मन्मना भवेत्युक्तं भवति । पुनरपि तदेव विशिनष्टि मां नमस्कुरु । अनवधिकातिशयप्रियमदनुभवकारितात्यर्थप्रियाशेषशेषवृत्तौ अपर्यवस्यन्मय्यन्तरात्मनि अतिमात्रप्रह्वीभावव्यवसायं कुरु । मत्परायणः अहमेव परमयनं यस्यासौ मत्परायणः॑ मया विना+आत्मधारणासंभावनया मदाश्रय इत्यर्थः । एवमात्मानं युक्त्वा मत्परायणसेवमनवधिकातिशयप्रीत्या मदनुभवसमर्थं मनः प्राप्य मामेवैष्यसि । आत्मशब्दो ह्यत्र मनोविषयः । एवंरूपेण मनसा मां ध्यात्वा मामनुभूय मामिष्ट्वा मां नमस्कृत्य मत्परायणो मामेव प्राप्स्यसीत्यर्थः । तदेवं लौकिकानि शरीरधारणार्थानि, वैदिकानि च नित्यनैमित्तिकानि कर्माणि मत्प्रीतये मच्छेषतैकरसो
मयैव कारित इति कुर्वन् सततं मत्कीर्तनयतननमस्कारादिकान् प्रीत्या कुर्वाणो मन्नियाम्यं निखिलजगन्मच्छेषतैकरसमिति चानुसन्धानः अत्यर्थप्रियमद्गुणगणं चानुसन्धायाहरहरुक्तलक्षणमिदमुपासनमुपाददानो मामेव प्राप्स्यसि ॥ भगवद्गीतारामानुजभाष्य ९.३४ ॥