सामग्री पर जाएँ

भगवद्गीतारामानुजभाष्यम्/अध्यायः १८

विकिस्रोतः तः
← अध्यायः १७ भगवद्गीतारामानुजभाष्यम्
अध्यायः १८
[[लेखकः :|]]

अतीतेनाध्यायद्वयेन अभ्युदयनिश्श्रेयससाधनभूतं वैदिकमेव यज्ञतपोदानादिकं कर्म, नान्यत्॑ वैदिकस्य च कर्मणस्सामान्यलक्षणं प्रणवान्वयः॑ तत्र मोक्षाभ्युदयसाधनयोर्भेदः तत्सच्छब्दनिर्देश्यत्वेन॑ मोक्षसाधनं च कर्म फलाभिसन्धिरहितं यज्ञादिकम्॑ तदारम्भश्च सत्त्वोद्रेकाद्भवति॑ सत्त्ववृद्धिश्च सात्त्विकाहारसेवया इत्युक्तम् । अनन्तरं मोक्षसाधनतया निर्दिष्टयोस्त्यागसंन्यासयोरैक्यम्, त्यागस्य च स्वरूपम्, भगवति सर्वेश्वरे च सर्वकर्मणां कर्तृत्वानुसन्धानम्, सत्त्वरजस्तमसां कार्यवर्णनेन सत्त्वगुणस्यावश्योपादेयत्वम्, स्ववर्णोचितानां कर्मणां परमपुरुषाराधनभूतानां परमपुरुषप्राप्तिनिर्वर्तनप्रकारः, कृत्स्नस्य गीताशास्त्रस्य सारार्थो भक्तियोग इत्येते प्रतिपाद्यन्ते । तत्र तावत्त्यागसंन्यासयोर्पृथक्त्वैकत्वनिर्णयाय स्वरूपनिर्णयाय चार्जुनः पृच्छति

अर्जुन उवाच
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ भगवद्गीता१८.१ ॥

त्यागसंन्यासौ हि मोक्षसाधनतया विहितौ, "न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः वेदान्तविज्ञानसुनिश्चितार्थास्संन्यासयोगाद्यतयश्शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्व् ।" इत्यादिषु । अस्य संन्यासस्य त्यागस्य च तत्त्वं याथात्म्यं पृथक्वेदितुमिच्छामि । अयमभिप्रायः किमेतौ संन्यासत्यागशब्दौ पृथगर्थौ, उतैकार्थवेव यदा पृथगर्थौ, तदा अनयोः पृथक्त्वेन स्वरूपं वेदितुमिच्छामि॑ एकत्वेऽपि तस्य स्वरूपं वक्तव्यमिति ॥ भगवद्गीतारामानुजभाष्य १८.१ ॥

अथानयोरेकमेव स्वरूपम्, तच्चेदृशमिति निर्णेतुं वादिविप्रतिपत्तिं दर्शयन् श्रीभगवानुवाच

श्रीभगवानुवाच
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ भगवद्गीता१८.२ ॥

केचन विद्वांसः काम्यानां कर्मणां न्यासं स्वरूपत्यागं संन्यासं विदुः । केचिच्च विचक्षणाः नित्यानां नैमित्तिकानां च काम्यानां सर्वेषां कर्मणां फलत्याग एव मोक्षशास्त्रेषु त्यागशब्दार्थ इति प्राहुः । तत्र शास्त्रीयत्यागः काम्यकर्मस्वरूपविषयः॑ सर्वकर्मफलविषय इति विवादं प्रदर्शयनेकत्र संन्यासशब्दमितरत्र त्यागशब्दं प्रयुक्तवान् । अतस्त्यागसंन्यासशब्दयोरेकार्थत्वमङ्गीकृतमिति ज्ञायते । तथा "निश्चयं शृणु मे तत्र त्यागे भरतसत्तम" इति त्यागशब्देनैव निर्णयवचनात्, "नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागः तामसः परिकीर्तितः ॥ भगवद्गीतारामानुजभाष्य १८.", "अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ।" इति परस्परपर्यायतादर्शनाच्च तयोरेकार्थत्वमङ्गीकृतमिति निश्चीयते ॥ भगवद्गीतारामानुजभाष्य १८.२ ॥

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ भगवद्गीता१८.३ ॥

एके मनीषिणः कापिलाः वैदिकाश्च तन्मतानुसारिणः रागादिदोषवद्बन्धकत्वात्सर्वं यज्ञादिकं कर्म मुमुक्षुणा त्याज्यमिति प्राहुः॑ अपरे पण्डिताः यज्ञादिकं कर्म न त्याज्यमिति प्राहुः ॥ भगवद्गीतारामानुजभाष्य १८.३ ॥

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधस्संप्रकीर्तितः ॥ भगवद्गीता१८.४ ॥

तत्र एवं वादिविप्रतिपन्ने त्यागे त्यागविषयं निश्चयं मत्तश्शृणु॑ त्यागः क्रियमाणेष्वेव वैदिकेषु कर्मसु फलविषयतया, कर्मविषयतया, कर्तृत्वविषयतया च पूर्वमेव हि मया त्रिविधस्संप्रकीर्तितः, "मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः" इति । कर्मजन्यं स्वर्गादिकं फलं मम न स्यादिति फलत्यागः॑ मदीयफलसाधनतया मदीयमिदं कर्मेति कर्मणि ममतायाः परित्यागः कर्मविषयस्त्यागः॑ सर्वेश्वरे कर्तृत्वानुसंधानेनात्मनः कर्तृतात्यागः कर्तृत्वविषयस्त्यागः ॥ भगवद्गीतारामानुजभाष्य १८.४ ॥

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।

यज्ञदानतपःप्रभृति वैदिकं कर्म मुमुक्षुणा न कदाचिदपि त्याज्यम्, अपि तु आ प्रयाणादहरहः कार्यमेव ॥ भगवद्गीतारामानुजभाष्य १८.४ ॥

कुतः ?

यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ भगवद्गीता१८.५ ॥

यज्ञदानतपःप्रभृतीनि वर्णाश्रमसंबन्धीनि कर्माणि मनीषिणां मननशीलानां पावनानि । मननमुपासनम्॑ मुमुक्षूणां यावज्जीवमुपासनं कुर्वतामुपासननिष्पत्तिविरोधिप्राचीनकर्मविनाशनानीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.५ ॥

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ भगवद्गीता१८.६ ॥

यस्मान्मनीषिणां यज्ञदानतपःप्रभृतीनि पावनानि, तस्मादुपासनवदेतान्यपि यज्ञादिकर्माणि मदाराधनरूपाणि, सङ्गम् कर्मणि ममतां फलानि च त्यक्त्वा अहरहराप्रयाणादुपासननिवृत्तये मुमुक्षुणा कर्तव्यानीति मम निश्चितमुत्तमं मतम् ॥ भगवद्गीतारामानुजभाष्य १८.६ ॥

नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ भगवद्गीता१८.७ ॥

नियतस्य नित्यनैमित्तिकस्य महायज्ञादेः कर्मणः संन्यासः त्यागो नोपपद्यते, "शरीरयात्रापि च तेन प्रसिद्ध्येदकर्मणः" इति शरीरयात्राया एवासिद्धेः, शरीरयात्रा हि यज्ञशिष्टाशनेन निर्वर्त्यमाना सम्यग्ज्ञानाय प्रभवति॑ अन्यथा, "ते त्वघं भुञ्जते पापाः" इत्ययज्ञशिष्टाघरूपाशनाप्यायनं मनसो विपरीतज्ञानाय भवति । "अन्नमयं हि सोम्य मनः" इत्यन्नेन हि मन आप्यायते । "आहारशुद्धौ सत्त्वशुद्धिस्सत्त्वशुद्धौ ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः ॥ भगवद्गीतारामानुजभाष्य १८." इति ब्रह्मसाक्षात्काररूपं ज्ञानमाहारशुद्ध्यायत्तं श्रूयते । तस्मान्महायज्ञादिनित्यनैमित्तिकं कर्म आ प्रयाणाद्ब्रह्मज्ञानायैवोपादेयमिति तस्य त्यागो नोपपद्यते । एवं ज्ञानोत्पादिनः कर्मणो बन्धकत्वमोहात्परित्यागस्तामसः परिकीर्तितः । तमोमूलस्त्यागस्तामसः । तमःकार्याज्ञानमूलत्वेन त्यागस्य तमोमूलत्वम् । तमो ह्यज्ञानस्य मूलं, "प्रमादमोहौ तमसो भवतोऽज्ञानमेव च" इत्यत्रोक्तम् । अज्ञानं तु ज्ञानविरोधि विपरीतज्ञानम्॑ तथा च वक्ष्यते, "अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी" इति । अतो नित्यनैमित्तिकादेः कर्मणस्त्यागो विपरीतज्ञानमूल एवेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.७ ॥

दुःखमित्येव यः कर्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ भगवद्गीता१८.८ ॥

यद्यपि परंपरया मोक्षसाधनभूतं कर्म, तथापि दुःखात्मकद्रव्यार्जनसाध्यत्वाद्बह्वायासरूपतया कायक्लेशकरत्वाच्च मनसोऽवसादकरमिति तद्भीत्या योगनिष्पत्तये ज्ञानाभ्यास एव यतनीय इति । यो महायज्ञाद्याश्रमकर्म परित्यजेत्, स राजसं रजोमूलं त्यागं कृत्वा तदयथावस्थितशास्त्रार्थरूपमिति ज्ञानोत्पत्तिरूपं त्यागफलं न लभते॑ "अयथावत्प्रजानाति बुद्धिस्सा पार्थ राजसी" इति हि वक्ष्यते । न हि कर्म दृष्टद्वारेण मनःप्रसादहेतुः, अपि तु भवगत्प्रसादद्वारेण ॥ भगवद्गीतारामानुजभाष्य १८.८ ॥

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव, स त्यागः सात्त्विको मतः ॥ भगवद्गीता१८.९ ॥

नित्यनैमित्तिकमहायज्ञादिवर्णाश्रमविहितं कर्म मदाराधनरूपतया कार्यं स्वयंप्रयोजनमिति मत्वा सङ्गं कर्मणि ममतां फलं च त्यक्त्वा यत्क्रियते, स त्यागः सात्त्विको मतः, स सत्त्वमूलः, यथावस्थितशास्त्रार्थज्ञानमूल इत्यर्थः । सत्त्वं हि यथावस्थितवस्तुज्ञानमुत्पादयतीत्युक्तम्, "सत्त्वात्संजायते ज्ञानम्" इति । वक्ष्यते च, "प्रवृत्तिं च निवृत्तिं च कार्याकार्यं भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥ " इति ॥

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः ॥ भगवद्गीता१८.१० ॥

एवं सत्त्वसमाविष्टो मेधावी यथावस्थिततत्त्वज्ञानः, तत एव च्छिन्नसंशयः, कर्मणि सङ्गफलकर्तृत्वत्यागी, न द्वेष्ट्यकुशलं कर्म॑ शुकले च कर्मणि नानुषज्जते । अकुशलं कर्म अनिष्टफलम्, कुशलं च कर्म इष्टरूपस्वर्गपुत्रपश्वन्नाद्यादिफलम् । सर्वस्मिन् कर्मणि ममतारहितत्वात्, त्यक्तब्रह्मव्यतिरिक्तसर्वफलत्वात्, त्यक्तकर्तृत्वाच्च तयोः क्रियमाणयोः प्रीतिद्वेषौ न करोति । अनिष्टफलं पापं कर्मात्र प्रामादिकमभिप्रेतम्॑ "नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ भगवद्गीतारामानुजभाष्य १८." इति दुश्चरिताविरतेर्ज्ञानोत्पत्तिविरोधित्वश्रवणात् । अतः कर्मणि कर्तृत्वसङ्गफलानां त्यागः शास्त्रीयत्यागः, न कर्मस्वरूपत्यागः ॥ भगवद्गीतारामानुजभाष्य १८.१० ॥

तदाह

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ भगवद्गीता१८.११ ॥

न हि देहभृता ध्रियमाणशरीरेण कर्माण्यशेषतस्त्यक्तुं शक्यम्॑ देहधारणार्थानामशनपानादीनां तदनुबन्धिनां च कर्मणामवर्जनीयत्वात् । तदर्थं च महायज्ञाद्यनुष्ठानमवर्जनीयम् । यस्तु तेषु महायज्ञादिकर्मसु फलत्यागी स एव, "त्यागेनैके अमृतत्वमानशुः" इत्यादिशास्त्रेषु त्यागीत्यभिधीयते । फलत्यागीति प्रदर्शनार्थं फलकर्तृत्वकर्मसङ्गानां त्यागीति॑ "त्रिविधः संप्रकीर्तितः" इति प्रक्रमात् ॥ भगवद्गीतारामानुजभाष्य १८.११ ॥

ननु कर्माण्यग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादीनि, महायज्ञादीनि च स्वर्गादिफलसंबन्धितया शास्त्रैर्विधीयन्ते॑ नित्यनैमित्तिकानामपि "प्राजापत्यं गृहस्थानाम्" इत्यादिफलसंबन्धितयैव हि चोदना । अतः तत्तत्फलसाधनस्वभावतयावगतानां कर्मणामनुष्ठाने, बीजावापादीनामिव, अनभिसंहितफलस्यापि इष्टानिष्टरूपफलसंबन्धः अवर्जनीयः । अतो मोक्षविरोधिफलत्वेन मुमुक्षुणा न कर्मानुष्ठेयमित्यत उत्तरमाह

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ भगवद्गीता१८.१२ ॥

अनिष्टं नरकादिफलम्, इष्टं स्वर्गादि, मिश्रमनिष्टसंभिन्नं पुत्रपश्वन्नाद्यादि॑ एतत्त्रिविधं कर्मणः फलम्, अत्यागिनां कर्तृत्वममताफलत्यागरहितानां प्रेत्य भवति । प्रेत्य कर्मानुष्ठानोत्तरकालमित्यर्थः । न तु संन्यासिनां क्वचित् न तु कर्तृत्वादिपरित्यागिनां क्वचिदपि मोक्षविरोधि फलं भवति । एतदुक्तं भवति यद्यप्यग्निहोत्रमहायज्ञादीनि तान्येव, तथापि जीवनाधिकारकामाधिकारयोरिव मोक्षाधिकारे च विनियोगपृथक्त्वेन परिह्रियते । मोक्षविनियोगश्च, "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन" इत्यादिभिरिति । तदेवं क्रियमाणेष्वेव कर्मसु
कर्तृत्वादिपरित्यागः शास्त्रसिद्धिः संन्यासः॑ स एव च त्याग इत्युक्तः ॥ भगवद्गीतारामानुजभाष्य १८.१२ ॥

इदानीं भगवति पुरुषोत्तमे अन्तर्यामिणि कर्तृत्वानुसंधानेन आत्मनि अकर्तृत्वानुसंधानप्रकारमाह, तत एव फलकर्मणोरपि ममतापरित्यागो भवतीति । परमपुरुषो हि स्वकीयेन जीवात्मना स्वकीयैश्च करणकलेवरप्राणैः स्वलीलाप्रयोजनाय कर्माण्यारभते । अतो जीवात्मगतं क्षुन्निवृत्त्यादिकमपि फलम्, तत्साधनभूतं च कर्म परमपुरुषस्यैव ।

पञ्चैतानि महाबाहो कारणानि निबोधे मे ।
सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ भगवद्गीता१८.

सांख्या बुद्धिः, सांख्ये कृतान्ते यथावस्थिततत्त्वविषयया वैदिक्या बुद्ध्या अनुसंहिते निर्णये सर्वकर्मणां सिद्धये उत्पत्तये, प्रोक्तानि पञ्चैतानि कारणानि निबोधे मे मम सकाशादनुसंधत्स्व । वैदिकी हि बुद्धिः शरीरेन्द्रियप्राणजीवात्मोपकरणं परमात्मानमेव कर्तारमवधारयति, "य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृतः", "अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा" इत्यादिषु ॥ भगवद्गीतारामानुजभाष्य १८.१३ ॥

तदिदमाह

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ भगवद्गीतारामानुजभाष्य १८.१५ ॥

न्याय्ये शास्त्रसिद्धे, विपरीते प्रतिषिद्धे वा सर्वस्मिन् कर्मणि शरीरे, वाचिके, मानसे च पञ्चैते हेतवः । अधिष्ठानं शरीरम्॑ अधिष्ठीयते जीवात्मनेति महाभूतसंघातरूपं शरीरमधिष्ठानम् । तथा कर्ता जीवात्मा॑ अस्य जीवात्मनो ज्ञातृत्वं कर्तृत्वं च, "ज्ञोऽत एव", "कर्ता शास्त्रार्थवत्त्वात्" इति च सूत्रोपपादितम् । करणं च पृथग्विधम् वाक्पाणिपादादिपञ्चकं समनस्कं कर्मेन्द्रियं पृथग्विधं कर्मनिष्पत्तौ पृथग्व्यापारम् । विविधा च पृथक्चेष्टा । चेष्टाशब्देन पञ्चात्मा वायुरभिधीयते तद्वृत्तिवाचिना॑ शरीरेन्द्रियधारणस्य प्राणापानादिभेदभिन्नस्य वायोः पञ्चात्मनो विविधा च चेष्टा विविधा वृत्तिः । दैवं चैवात्र पञ्चमम् अत्र कर्महेतुकलापे दैवं पञ्चमम् परमात्मा अन्तर्यामी कर्मनिष्पत्तौ प्रधानहेतुरित्यर्थः । उक्तं हि, "सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च" इति । वक्ष्यति च, "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया॥" इति । परमात्मायत्तं च जीवात्मनः कर्तृत्वम्, "परात्तु तच्छ्रुतेः" इत्याद्युपपादितम् । नन्वेवं परमात्मायत्ते जीवात्मनः कर्तृत्वे जीवात्मा कर्मण्यनियोज्यो भवतीति विधिनिषेधशास्त्राण्यनर्थकानि स्युः ॥ इदमपि चोद्यं सूत्रकारेण परिहृतम्, "कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयार्थ्यादिभ्यः" इति । एतदुक्तं भवति परमात्मना दत्तैस्तदाधारैश्च करणकलेबरादिभिस्तदाहितशक्तिभिः स्वयं च जीवात्मा तदाधारस्तदाहितशक्तिस्सन् कर्मनिष्पत्तये स्वेच्छया करणाद्यधिष्ठानाकारं
प्रयत्नं चारभते॑ तदन्तरवस्थितः परमात्मा स्वानुमतिदानेन तं प्रवर्तयतीति जीवस्यापि स्वबुद्ध्यैव प्रवृत्तिहेतुत्वमस्ति॑ यथा गुरुतरशिलामहीरुहादिचलनादिफलप्रवृत्तिषु बहुपुरुषसाध्यासु बहूनां हेतुत्वं विधिनिषेधभाक्त्वं चेति ॥ भगवद्गीतारामानुजभाष्य १८.१४ ॥१५॥

तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ भगवद्गीतारामानुजभाष्य १८.१६ ॥

एवं वस्तुतः परमात्मानुमतिपूर्वके जीवात्मनः कर्तृत्वे सति, तत्र कर्मणि केवलमात्मानमेव कर्तारं यः पश्यति, स दुर्मतिः विपरीतमतिः अकृतबुद्धित्वादनिष्पन्नयथावस्थितवस्तुबुद्धित्वान्न पश्यति न यथावस्थितं कर्तारं पश्यति ॥ भगवद्गीतारामानुजभाष्य १८.१६ ॥

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वापि स इमांल्लोकान्न हन्ति न निबध्यते ॥ भगवद्गीतारामानुजभाष्य १८.१७ ॥

परमपुरुषकर्तृत्वानुसंधानेन यस्य भावः कर्तृत्वविषयो मनोवृत्तिविशेषः नाहंकृतः नाहमभिमानकृतः । अहं करोमीति ज्ञानं यस्य न विद्यत इत्यर्थः । बुद्धिर्यस्य न लिप्यते अस्मिन् कर्मणि मम कर्तृत्वाभावादेतत्फलं न मया संबध्यते, न च मदीयं कर्मेति यस्य बुद्धिर्जायत इत्यर्थः । स इमान् लोकान् युद्धे हत्वापि तान्न निहन्ति॑ न केवलं भीष्मादीनित्यर्थः । ततस्तेन युद्धाख्येन कर्मणा न निबध्यते । तत्फलं नानुभवतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.१७ ॥

सर्वमिदमकर्तृत्वाद्यनुसन्धानं सत्त्वगुणवृद्ध्यैव भवतीति सत्त्वस्योपादेयताज्ञापनाय कर्मणि सत्त्वादिगुणकृतं वैषम्यं प्रपञ्चयिष्यन् कर्मचोदनाप्रकारं तावदाह

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
कारणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥ भगवद्गीतारामानुजभाष्य १८.१८ ॥

ज्ञानं कर्तव्यकर्मविषयं ज्ञानम्, ज्ञेयं च कर्तव्यं कर्म, परिज्ञाता तस्य बोद्धेति त्रिविधा कर्मचोदना । बोधबोद्धव्यबोद्धृयुक्तो ज्योतिष्टोमादिकर्मविधिरित्यर्थः । तत्र बोद्धव्यरूपं कर्म त्रिविधं संगृह्यते करणं कर्म कर्तेति । करणं साधनभूतं द्रव्यादिकम्॑ कर्म यागादिकम्॑ कर्ता अनुष्ठातेति ॥ भगवद्गीतारामानुजभाष्य १८.१८ ॥

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥ भगवद्गीतारामानुजभाष्य १८.१९ ॥

कर्तव्यकर्मविषयं ज्ञानम्, अनुष्ठीयमानं च कर्म, तस्यानुष्ठाता च सत्त्वादिगुणभेदतस्त्रिविधैव प्रोच्यते गुणसंख्याने गुणकार्यगणने । यथावच्छृणु तान्यपि तानि गुणतो भिन्नानि ज्ञानादीनि यथावच्छृणु ॥ भगवद्गीतारामानुजभाष्य १८.१९ ॥

सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ भगवद्गीतारामानुजभाष्य १८.२० ॥

ब्राह्मणक्षत्रियब्रह्मचारिगृहस्थादिरूपेण विभक्तेषु सर्वेषु भूतेषु कर्माधिकारिषु येन ज्ञानेनैकमात्माख्यं भावं, तत्राप्यविभक्तं ब्राह्मणत्वाद्यनेकाकारेष्वपि भूतेषु सितदीर्घादिविभागवत्सु ज्ञानाकारे आत्मनि विभागरहितम्, अव्ययं व्ययस्वभावेष्वपि ब्राह्मणादिशरीरेषु अव्ययमविकृतं फलादिसङ्गानर्हं च कर्माधिकारवेलायामीक्षते, तज्ज्ञानं सात्त्विकं विद्धि ॥ भगवद्गीतारामानुजभाष्य १८.२० ॥

पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ भगवद्गीतारामानुजभाष्य १८.२१ ॥

सर्वेषु भूतेषु ब्राह्मणादिषु ब्राह्मणाद्याकारपृथक्त्वेनात्माख्यानपि भावान्नानाभूतान् सितदीर्घादिपृथक्त्वेन च पृथग्विधान् फलादिसंयोगयोग्यान् कर्माधिकारवेलायां यज्ज्ञानं वेत्ति, तज्ज्ञानं राजसं विद्धि ॥ भगवद्गीतारामानुजभाष्य १८.२१ ॥

यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहेतुकम् ।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ भगवद्गीतारामानुजभाष्य १८.२२ ॥

यत्तु ज्ञानम्, एकस्मिन् कार्ये एकस्मिन् कर्तव्ये कर्मणि प्रेतभूतगणाद्याराधनरूपे अत्यल्पफले कृत्स्नफलवत्सक्तम्, अहेतुकं वस्तुतस्त्वकृत्स्नफलवत्तया तथाविधसङ्गहेतुरहितमतत्त्वार्थवत्पूर्ववदेवात्मनि पृथक्त्वादियुक्ततया मिथ्याभूतार्थविषयम्, अत्यल्पफलं च प्रेतभूताद्याराधनविषयत्वादल्पं च, तज्ज्ञानं तामसमुदाहृतम् ॥ भगवद्गीतारामानुजभाष्य १८.२२ ॥

एवं कर्तव्यकर्मविषयज्ञानस्याधिकारवेलायामधिकार्यंशेन गुणतस्त्रैविध्यमुक्त्वा अनुष्ठेयस्य कर्मणो गुणतस्त्रैविध्यमाह

नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ भगवद्गीतारामानुजभाष्य १८.२३ ॥

नियतं स्ववर्णाश्रमोचितम्, सङ्गरहितं कर्तृत्वादिसङ्गरहितम्, अरागद्वेषतः कृतं कीर्तिरागादकीर्तिद्वेषाच्च न कृतम्॑ अदम्भेन कृतमित्यर्थः॑ अफलप्रेप्सुना अफलाभिसन्धिना कार्यमित्येव कृतं यत्कर्म, तत्सात्त्विकमुच्यते ॥ भगवद्गीतारामानुजभाष्य १८.२३ ॥

यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ भगवद्गीतारामानुजभाष्य १८.२४ ॥

यत्तु पुनः कामेप्सुना फलप्रेप्सुना साहंकारेण वा वाशब्दश्चार्थे कर्तृत्वाभिमानयुक्तेन च, बहुलायासं यत्कर्म क्रियते, तद्राजसं बहुलायासमिदं कर्म मयैव क्रियत इत्येवंरूपाभिमानयुक्तेन यत्कर्म क्रियते, तद्राजसमित्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.२४ ॥

अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ भगवद्गीतारामानुजभाष्य १८.२५ ॥

कृते कर्मण्यनुबध्यमानं दुःखमनुबन्धः॑ क्षयः कर्मणि क्रियमाणे अर्थविनाशः॑ हिंसा तत्र प्राणिपीडा॑ पौरुषमात्मनः कर्मसमापनसामर्थ्यम्॑ एतानि अनवेक्ष्य अविमृश्य, मोहात्परमपुरुषकर्तृत्वाज्ञानाद्यत्कर्मारभ्यते, तत्तामसमुच्यते ॥ भगवद्गीतारामानुजभाष्य १८.२५ ॥

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ भगवद्गीतारामानुजभाष्य १८.२६ ॥

मुक्तसङ्गः फलसङ्गरहितः अनहंवादी कर्तृत्वाभिमानरहितः, धृत्युत्साहसमन्वितः आरब्धे कर्मणि यावत्कर्मसमाप्त्यवर्जनीयदुःखधारणं धृतिः॑ उत्साहः उद्युक्तचेतस्त्वम्॑ ताभ्यां समन्वितः, सिद्ध्यसिद्ध्योर्निर्विकारः युद्धादौ कर्मणि तदुपकरणभूतद्रव्यार्जनादिषु च सिद्ध्यसिद्ध्योरविकृतचित्तः कर्ता सात्त्विक उच्यते ॥ भगवद्गीतारामानुजभाष्य १८.२६ ॥

रगी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ भगवद्गीतारामानुजभाष्य १८.२७ ॥

रागी यशोऽर्थी, कर्मफलप्रेप्सुः कर्मफलार्थी॑ लुब्धः कर्मापेक्षितद्रव्यव्ययस्वभावरहितः, हिंसात्मकः परान् पीडयित्वा तैः कर्म कुर्वाणः, अशुचिः कर्मापेक्षितशुद्धिरहितः, हर्षशोकान्वितः युद्धादौ कर्मणि जयादिसिद्ध्यसिद्ध्योर्हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ भगवद्गीतारामानुजभाष्य १८.२७ ॥

अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ भगवद्गीतारामानुजभाष्य १८.२८ ॥

अयुक्तः शास्त्रीयकर्मायोग्यः, विकर्मस्थः, प्राकृतः अनधिगतविद्यः, स्तब्धः अनारम्भशीलः, शठः अभिचारादिकर्मरुचिः, नैकृतिकः वञ्चनपरः, अलसः आरब्धेष्वपि कर्मसु मन्दप्रवृत्तिः, विषादी अतिमात्रावसादशीलः दीर्घसूत्री अभिचारादिकर्म कुर्वन् परेषु दीर्घकालवर्त्यनर्थपर्यालोचनशीलः, एवंभूतो यः कर्ता, स तामसः ॥ भगवद्गीतारामानुजभाष्य १८.२८ ॥

एवं कर्तव्यकर्मविषयज्ञाने कर्तव्ये च कर्मणि अनुष्ठातरि च गुणतस्त्रैविध्यमुक्तम्॑ इदानीं सर्वतत्त्वसर्वपुरुषार्थनिश्चयरूपाया बुद्धेर्धृतेश्च गुणतस्त्रैविध्यमाह

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥ भगवद्गीतारामानुजभाष्य १८.२९ ॥

बुद्धिः विवेकपूर्वकं निश्चयरूपं ज्ञानम्॑ धृतिः आरब्धायाः क्रियाया विघ्नोपनिपातेऽपि धारणम्, तयोस्सत्त्वादिगुणतस्त्रिविधं भेदं पृथक्त्वेन प्रोच्यमानं यथावच्छृणु ॥ भगवद्गीतारामानुजभाष्य १८.२९ ॥

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ भगवद्गीतारामानुजभाष्य १८.३० ॥

प्रवृत्तिः अभ्युदयसाधनभूतो धर्मः, निवृत्तिः मोक्षसाधनभूतः, तवुभौ यथावस्थितौ या बुद्धिर्वेत्ति॑ कार्याकार्ये सर्ववर्णानां प्रवृत्तिनिवृत्तिधर्मयोरन्यतरनिष्ठानां देशकालावस्थाविशेषेषु "इदं कार्यम्, इदमकार्यम्" इति या वेत्ति॑ भयाभये शास्त्रातिवृत्तिर्भयस्थानं तदनुवृत्तिरभयस्थानम्, बन्धं मोक्षं च संसारयाथात्म्यं तद्विगमयाथात्म्यं च या वेत्ति॑ सा सात्त्विकी बुद्धिः ॥ भगवद्गीतारामानुजभाष्य १८.३० ॥

यथा धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ भगवद्गीतारामानुजभाष्य १८.३१ ॥

यथा पूर्वोक्तं द्विविधं धर्मं तद्विपरीतं च तन्निष्ठानां देशकालावस्थादिषु कार्यं चाकार्यं च यथावन्न जानाति, सा राजसी बुद्धिः ॥ भगवद्गीतारामानुजभाष्य १८.३१ ॥

अधर्मं धर्ममिति या मन्यते तमसावृता ।
सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ भगवद्गीतारामानुजभाष्य १८.३२ ॥

तामसी तु बुद्धिः तमसावृता सती सर्वार्थान् विपरीतान्मन्यते । अधर्मं धर्मं, धर्मं चाधर्मं, सन्तं चार्थमसन्तम्, असन्तं चार्थं सन्तं, परं च तत्त्वमपरम्, अपरं च तत्त्वं परम् । एवं सर्वं विपरीतं मन्यत इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.३२ ॥

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ भगवद्गीतारामानुजभाष्य १८.३३ ॥

यया धृत्या योगेनाव्यभिचारिण्या मनःप्राणेन्द्रियाणां क्रियाः पुरुषो धारयते॑ योगः मोक्षसाधनभूतं भगवदुपासनम्॑ योगेन प्रयोजनभूतेनाव्यभिचारिण्या योगोद्देशेन प्रवृत्तास्तत्साधनभूता मनःप्रभृतीनां क्रियाः यया धृत्या धारयते, सा सात्त्विकीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.३३ ॥

यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ भगवद्गीतारामानुजभाष्य १८.३४ ॥

फलाकाङ्क्षी पुरुषः प्रकृष्टसङ्गेन धर्मकामार्थान् यया धृत्या धारयते, सा राजसी । धर्मकामार्थशब्देन तत्साधनभूता मनःप्राणेन्द्रियक्रिया लक्ष्यन्ते । फलाकाङ्क्षीत्यत्रापि फलशब्देन राजसत्वाद्धर्मकामार्था एव विवक्षिताः । अतो धर्मकामार्थापेक्षया मनःप्रभृतीनां क्रिया यया धृत्या धारयते, सा राजसीत्युक्तं भवति ॥ भगवद्गीतारामानुजभाष्य १८.३४ ॥

यया स्वप्नं भयं शोकं विषादं मदमेव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ भगवद्गीतारामानुजभाष्य १८.३५ ॥

यया धृत्या ।स्वप्नं निद्राम् । मदं विषयानुभवजनितं मदम् । स्वप्नमदवुद्दिश्य प्रवृत्ता मनःप्राणादीनां क्रियाः दुर्मेधा न विमुञ्चति धारयति । भयशोकविषादशब्दाश्च भयशोकादिदायिविषयपराः॑ तत्साधनभूताश्च मनःप्राणादिक्रिया यया धारयते, सा धृतिस्तामसी ॥ भगवद्गीतारामानुजभाष्य १८.३५ ॥

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।

पूर्वोक्ताः सर्वे ज्ञानकर्मकर्त्रादयो यच्छेषभूताः, तच्च सुखं गुणतस्त्रिविधमिदानीं शृणु ॥

अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ भगवद्गीतारामानुजभाष्य १८.३६ ॥
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ भगवद्गीतारामानुजभाष्य १८.३७ ॥

यस्मिन् सुखे चिरकालाभ्यासात्क्रमेण निरतिशयां रतिं प्राप्नोति, दुःखान्तं च निगच्छति निखिलस्य सांसारिकस्य दुःखस्यान्तं निगच्छति ॥ तदेव विशिनष्टि यत्तत्सुखम्, अग्रे योगोपक्रमवेलायां बह्वायाससाध्यत्वाद्विविक्तस्वरूपस्याननुभूतत्वाच्च विषमिव दुःखमिव भवति, परिणामेऽमृतोपमम् । परिणामे विपाके अभ्यासबलेन विविक्तात्मस्वरूपाविर्भावे अमृतोपमं भवति, तच्च आत्मबुद्धिप्रसादजमात्मविषया बुद्धिः आत्मबुद्धिः, तस्याः निवृत्तसकलेतरविषयत्वं प्रसादः, निवृत्तसकलेतरविषयबुद्ध्या विविक्तस्वभावात्मानुभवजनितं सुखममृतोपमं भवति॑ तत्सुखं सात्त्विकं प्रोक्तम् ॥ भगवद्गीतारामानुजभाष्य १८.३७ ॥

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ भगवद्गीतारामानुजभाष्य १८.३८ ॥

अग्रे अनुभववेलायां विषयेन्द्रियसंयोगाद्यत्तदमृतमिव भवति, परिणामे विपाके विषयाणां सुखतानिमित्तक्षुदादौ निवृत्ते तस्य च सुखस्य निरयादिनिमित्तत्वाद्विषमिव पीतं भवति, तत्सुखं राजसं स्मृतम् ॥ भगवद्गीतारामानुजभाष्य १८.३८ ॥

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ भगवद्गीतारामानुजभाष्य १८.३९ ॥

यत्सुखमग्रे चानुबन्धे च अनुभववेलायां विपाके च आत्मनो मोहनं मोहहेतुर्भवति॑ मोहोऽत्र यथावस्थितवस्त्वप्रकाशोऽभिप्रेतः॑ निद्रालस्यप्रमादोत्थं निद्रालस्यप्रमादजनितम्, निद्रादयो ह्यनुभववेलायामपि मोहहेतवः । निद्राया मोहहेतुत्वं स्पृष्टम् । आलस्यमिन्द्रियव्यापारमान्द्यम् । इन्द्रियव्यापारमान्द्ये च ज्ञानमान्द्यं भवत्येव । प्रमादः कृत्यानवधानरूप इति तत्रापि ज्ञानमान्द्यं भवति । ततश्च तयोरपि मोहहेतुत्वम् । तत्सुखं तामसमुदाहृतम् । अतो मुमुक्षुणा रजस्तमसी अभिभूय सत्त्वमेवोपादेयमित्युक्तं भवति ॥ भगवद्गीतारामानुजभाष्य १८.३९ ॥

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ भगवद्गीतारामानुजभाष्य १८.४० ॥

पृथिव्यां मनुष्यादिषु दिवि देवेषु वा प्रकृतिसंसृष्टेषु ब्रह्मादिषु स्थावरान्तेषु प्रकृतिजैरेभिस्त्रिभिर्गुणैर्मुक्तं यत्सत्त्वं प्राणिजातम्, न तदस्ति ॥ भगवद्गीतारामानुजभाष्य १८.४० ॥

"त्यागेनैके अमृतत्वमानशुः" इत्यादिषु मोक्षसाधनतया निर्दिष्टस्त्यागः संन्यासशब्दार्थादनन्यः॑ स च क्रियमाणेष्वेव कर्मसु कर्तृत्वत्यागमूलः फलकर्मणोस्त्यागः॑ कर्तृत्वत्यागश्च परमपुरुषे कर्तृत्वानुसंधानेनेत्युक्तम् । एतत्सर्वं सत्त्वगुणवृद्धिकार्यमिति सत्त्वोपादेयताज्ञापनाय सत्त्वरजस्तमसां कार्यभेदाः प्रपञ्चिताः । इदानीमेवंभूतस्य मोक्षसाधनतया क्रियमाणस्य कर्मणः परमपुरुषाराधनवेषतां तथानुष्ठितस्य च कर्मणस्तत्प्राप्तिलक्षणं फलं प्रतिपादयितुं ब्राह्मणाद्यधिकारिणां स्वभावानुबन्धिसत्त्वादिगुणभेदभिन्नं वृत्त्या सह कर्तव्यकर्मस्वरूपमाह
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ भगवद्गीतारामानुजभाष्य १८.४१ ॥

ब्राह्मणक्षत्रियविशां स्वकीयो भावः स्वभावः ब्राह्मणादिजन्महेतुभूतं प्राचीनकर्मेत्यर्थः॑ तत्प्रभवाः सत्त्वादयो गुणाः । ब्राह्मणस्य स्वभावप्रभवो रजस्तमोऽभिभवेनोद्भूतः सत्त्वगुणः॑ क्षत्रियस्य स्वभावप्रभवः तमस्सत्त्वाभिभवेनोद्भूतो रजोगुणः॑ वैश्यस्य स्वभावप्रभवः सत्त्वरजोऽभिभवेनाल्पोद्रिक्तस्तमोगुणः॑ शूद्रस्य स्वभावप्रभवस्तु रजस्सत्त्वाभिभवेनात्युद्रिक्तस्तमोगुणः । एभिः स्वभावप्रभवैर्गुणैः सह प्रविभक्तानि कर्माणि शास्त्रैः प्रतिपादितानि । ब्राह्मणादय एवंगुणकाः, तेषां चैतानि कर्माणि, वृत्तयश्चैता इति हि विभज्य प्रतिपादयन्ति शास्त्राणि ॥ भगवद्गीतारामानुजभाष्य १८.४१ ॥

शमो दमस्तपश्शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्राह्मं कर्म स्वभावजम् ॥ भगवद्गीतारामानुजभाष्य १८.४२ ॥

शमः बाह्येन्द्रियनियमनम्॑ दमः अन्तःकरणनियमनम्॑ तपः भोगनियमनरूपः शास्त्रसिद्धः कायक्लेशः॑ शौचं शास्त्रीयकर्मयोग्यता॑ क्षान्तिः परैः पीड्यमानस्याप्यविकृतचित्तता॑ आर्जवं परेषु मनोऽनुरूपं बाह्यचेष्टाप्रकाशनम्॑ ज्ञानं परावरतत्त्वयाथात्म्यज्ञानम्॑ विज्ञानं परतत्त्वगतासाधारणविशेषविषयं ज्ञानम्॑ आस्तिक्यं वैदिकस्य कृत्स्नस्य सत्यतानिश्चयः प्रकृष्टः॑ केनापि हेतुना चालयितुमशक्य इत्यर्थः । भगवान् पुरुषोत्तमो वासुदेवः परब्रह्मशब्दाभिदेयो निरस्तनिखिलदोषगन्धः स्वाभाविकानवधिकातिशयज्ञानशक्त्याद्यसङ्ख्येयकल्याणगुणगणो निखिलवेदवेदान्तवेद्यः॑ स एव निखिलजगदेककारणं निखिलजगदाधारभूतः॑ निखिलस्य स एव प्रवर्तयिता॑ तदाराधनभूतं च वैदिकं कृत्स्नं कर्म॑ तैस्तैराराधितो धर्मार्थकाममोक्षाख्यं फलं प्रयच्छतीत्यस्यार्थस्य सत्यतानिश्चय आस्तिक्यम्॑ "वेदैश्च सर्वैरहमेव वेद्यः", "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते ", "मयि सर्वमिदं प्रोतम्", "भोक्तारं यज्ञतपसां ..... ज्ञात्वा मां शान्तिमृच्छति", "मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय", "यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः", "यो मामजमनादिं च वेत्ति लोकमहेश्वरम्" इति ह्युच्यते । तदेतद्ब्राह्मणस्य स्वभावजं कर्म ॥ भगवद्गीतारामानुजभाष्य १८.४२ ॥

शैर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ भगवद्गीतारामानुजभाष्य १८.४३ ॥

शैर्यं युद्धे निर्भयप्रवेशसामर्थ्यम्, तेजः परैरनभिभवनीयता, धृतिः आरब्धे कर्मणि विघ्नोपनिपातेऽपि तत्समापनसामर्थ्यम्, दाक्ष्यं सर्वक्रियानिर्वृत्तिसामर्थ्यम्, युद्धे चाप्यपलायनं युद्धे चात्ममरणनिश्चयेऽप्यनिर्वर्तनम्॑ दानमात्मीयस्य धनस्य परस्वत्वापादनपर्यन्तस्त्यागः ईश्वरभावः स्वव्यतिरिक्तसकलजननियमनसामर्थ्यम्॑ एतत्क्षत्रियस्य स्वभावजं कर्म ॥ भगवद्गीतारामानुजभाष्य १८.४३ ॥

कृषिगोरक्ष्यवाणिज्यं वैश्यं कर्म स्वभावजम् ।

कृषिः सत्योत्पादनं कर्षणम् । गोरक्ष्यं पशुपालनमित्यर्थः । वाणिज्यं धनसञ्चयहेतुभूतं क्रयविक्रयात्मकं कर्म । एतद्वैश्यस्य स्वभावजं कर्म ॥

परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ भगवद्गीतारामानुजभाष्य १८.४४ ॥

पूर्ववर्णत्रयपरिचर्यारूपं शूद्रस्य स्वभावजं कर्म । तदेतच्चतुर्णा वर्णानां वृत्तिभिस्सह कर्तव्यानां शास्त्रविहितानां यज्ञादिकर्मणां प्रदर्शनार्थमुक्तम् । यज्ञादयो हि त्रयाणां वर्णानां साधारणाः । शमादयोऽपि त्रयाणां वर्णानां मुमुक्षूणां साधारणाः । ब्राह्मणस्य तु सत्त्वोद्रेकस्य स्वाभाविकत्वेन शमदमादयः सुखोपादाना इति कृत्वा तस्य शमादय स्वभावजं कर्मेत्युक्तम् । क्षत्रियवैश्ययोस्तु स्वतो रजस्तमःप्रधानत्वेन शमदमादयो दुःखोपादाना इति कृत्वा न तत्कर्मेत्युक्तम् । ब्राह्मणस्य वृत्तिर्याजनाध्यापनप्रतिग्रहाः॑ क्षत्रियस्य जनपदपरिपालनम्॑ वैश्यस्य च कृष्यादयो यथोक्ताः॑ शूद्रस्य तु कर्तव्यं वृत्तिश्च पूर्ववर्णत्रयपरिचर्यैव ॥

स्वे स्वे कर्मण्यभिरतस्संसिद्धिं लभते नरः ।
स्वकर्मनिरतस्सिद्धिं यथा विन्दति तच्छृणु ॥ भगवद्गीतारामानुजभाष्य १८.४५ ॥

स्वे स्वे यथोदिते कर्मण्यभिरतो नरः संसिद्धिं परमपदप्राप्तिं लभते । स्वकर्मनिरतो यथा सिद्धिं विन्दति परमपदं प्राप्नोति, तथा शृणु ॥ भगवद्गीतारामानुजभाष्य १८.४५ ॥

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ भगवद्गीतारामानुजभाष्य १८.४६ ॥

यतो भूतानामुत्पत्त्यादिका प्रवृत्तिः, येन च सर्वमिदं ततम्, स्वकर्मणा तं मामिन्द्राद्यन्तरात्मतयावस्थितमभ्यर्च्य मत्प्रसादान्मत्प्राप्तिरूपां सिद्धिं विन्दति मानवः । मत्त एव सर्वमुत्पद्यते, मया च सर्वमिदं ततमिति पूर्वमेवोक्तम्, "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत्किंचिदस्ति धनञ्जय ।", "मया ततमिदं सर्वं जगदव्यक्तमूर्तिना", "मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्", "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते" इत्यादिषु ॥ भगवद्गीतारामानुजभाष्य १८.४६ ॥

श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।

एवं त्यक्तकर्तृत्वादिको मदाराधनरूपः स्वधर्मः । स्वेनैवोपादातुं योग्यो धर्मः॑ प्रकृतिसंसृष्टेन हि पुरुषेणेन्द्रियव्यापाररूपः कर्मयोगात्मको धर्मः सुकरो भवति । अतः कर्मयोगाख्यः स्वधर्मो विगुणोऽपि परधर्मात् इन्द्रियजयनिपुणपुरुषधर्माज्ज्ञानयोगात्सकलेन्द्रियनियमनरूपतया सप्रमादात्कदाचित्स्वनुष्ठिताच्श्रेयान् । तदेवोपपादयति

स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ भगवद्गीतारामानुजभाष्य १८.४७ ॥

प्रकृतिसंसृष्टस्य पुरुषस्य इन्द्रियव्यापाररूपतया स्वभावत एव नियतत्वात्कर्मणः, कर्म कुर्वन् किल्बिषं संसारं न प्राप्नोति॑ अप्रमादत्वात्कर्मणः । ज्ञानयोगस्य सकलेन्द्रियनियमनसाध्यतया सप्रमादत्वात्तन्निष्ठस्तु प्रमादात्किल्बिषं प्रतिपद्येतापि ॥ भगवद्गीतारामानुजभाष्य १८.४७ ॥

अतः कर्मनिष्ठैव ज्यायसीति तृतीयाध्यायोक्तं स्मारयति

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ भगवद्गीतारामानुजभाष्य १८.४८ ॥

अतः सहजत्वेन सुकरमप्रमादं च कर्म सदोषं सदुःखमपि न त्यजेत्॑ ज्ञानयोगयोग्योऽपि कर्मयोगमेव कुर्वीतेत्यर्थः । सर्वारम्भाः, कर्मारम्भाः ज्ञानारम्भाश्च हि दोषेण दुःखेन धूमेनाग्निरिवावृताः । इयांस्तु विशेषः कर्मयोगः सुकरोऽप्रमादश्च, ज्ञानयोगस्तद्विपरीतः इति ॥ भगवद्गीतारामानुजभाष्य १८.४८ ॥

असक्तबुद्धिस्सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ भगवद्गीतारामानुजभाष्य १८.४९ ॥

सर्वत्र फलादिषु असक्तबुद्धिः, जितात्मा जितमनाः, परमपुरुषकर्तृत्वानुसंधानेनात्मकर्तृत्वे विगतस्पृहः, एवं त्यागादनन्यत्वेन निर्णीतेन संन्यासेन युक्तः कर्म कुर्वन् परमां नैष्कर्म्यसिद्धिमधिगच्छति परमां ध्याननिष्ठां ज्ञानयोगस्यापि फलभूतमधिगच्छतीत्यर्थः । वक्ष्यमाणध्यानयोगावाप्तिं सर्वेन्द्रियकर्मोपरतिरूपामधिगच्छति ॥ भगवद्गीतारामानुजभाष्य १८.४९ ॥

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ भगवद्गीतारामानुजभाष्य १८.५० ॥

सिद्धिं प्राप्तः आप्रयाणादहरहरनुष्ठीयमानकर्मयोगनिष्पाद्यध्यानसिद्द्धिं प्राप्तः, यथा येन प्रकारेण वर्तमानो ब्रह्म प्राप्नोति, तथा समासेन मे निबोध । तदेव ब्रह्म विशेष्यते निष्ठा ज्ञानस्य या परेति । ज्ञानस्य ध्यानात्मकस्य या परा निष्ठा परमप्राप्यमित्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.५० ॥

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।
शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ भगवद्गीतारामानुजभाष्य १८.५१ ॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ भगवद्गीतारामानुजभाष्य १८.५२ ॥
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कल्पते ॥ भगवद्गीतारामानुजभाष्य १८.५३ ॥

बुद्ध्या विशुद्धया यथावस्थितात्मतत्त्वविषयया युक्तः, धृत्या आत्मानं नियम्य च विषयविमुखीकरणेन योगयोग्यं मनः कृत्वा, शब्दादीन् विषयान् त्यक्त्वा असन्निहितान् कृत्वा, तन्निमित्तौ च रागद्वेषौ व्युदस्य, विविक्तसेवी सर्वैर्ध्यानविरोधिभिर्विविक्ते देशे वर्तमानः, लघ्वाशी अत्यशनानशनरहितः, यतवाक्कायमानसः ध्यानाभिमुखीकृतकायवाङ्मनोवृत्तिः, ध्यानयोगपरो नित्यम् एवंभूतस्सना प्रायाणादहरहर्ध्यानयोगपरः, वैराग्यं समुपाश्रितः ध्येयतत्त्वव्यतिरिक्तविषयदोषावमर्शेन तत्र तत्र विरागतां वर्धयन्, अहंकारम् अनात्मनि आत्माभिमानं, बलं तद्वृद्धिहेतुभूतवासनबलं, तन्निमित्तं दर्पं कामं क्रोधं परिग्रहं विमुच्य, निर्ममः सर्वेष्वनात्मीयेष्वात्मीयबुद्धिरहितः, शान्तः आत्मानुभवैकसुखः, एवंभूतो ध्यानयोगं कुर्वन् ब्रह्मभूयाय कल्पते सर्वबन्धविनिर्मुक्तो यथावस्थितमात्मानमनुभवतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.५१ ५३ ॥

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समस्सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ भगवद्गीतारामानुजभाष्य १८.५४ ॥

ब्रह्मभूतः आविर्भूतापरिच्छिन्नज्ञानैकाकारमच्छेषतैकस्वभावात्मस्वरूपः, "इतस्त्वन्यां प्रकृतिं विद्धि मे पराम्" इति हि स्वशेषतोक्ता । प्रसन्नात्मा क्लेशकर्मादिभिरकलुषस्वरूपो मद्व्यतिरिक्तं न कंचन भूतविशेषं प्रति शोचति॑ न किंचन काङ्क्षति॑ अपि तु मद्व्यतिरिक्तेषु सर्वेषु भूतेषु अनादरणीयतायां समो निखिलं वस्तुजातं तृणवन्मन्यमानो मद्भक्तिं लभते परां मयि सर्वेश्वरे निखिलजगदुद्भवस्थितिप्रलयलीले निरस्तसमस्तहेयगन्धेऽनवधिकातिशयासंख्येयकल्याणगुणगणैकताने लावण्यामृतसागरे श्रीमति पुण्डरीकनयने स्वस्वामिनि अत्यर्थप्रियानुभवरूपां परां भक्तिं लभते ॥ भगवद्गीतारामानुजभाष्य १८.५४ ॥

तत्फलमाह

भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ भगवद्गीतारामानुजभाष्य १८.५५ ॥

स्वरूपतः स्वभावतश्च योऽहम्॑ गुणतो विभूतितोऽपि यावांश्चाहम्, तं मामेवंरूपया भक्त्या तत्त्वतोऽभिजानाति॑ मां तत्त्वतो ज्ञात्वा तदनन्तरम् तत्त्वज्ञानानन्तरं ततः भक्तितः मां विशते प्रविशति । तत्त्वतस्स्वरूपस्वभावगुणविभूतिदर्शनोत्तरकालभाविन्या अनवधिकातिशयभक्त्या मां प्राप्नोतीत्यर्थः । अत्र तत इति प्राप्तिहेतुतया, निर्दिष्टा भक्तिरेवाभिधीयते॑ "भक्त्या त्वनन्यया शक्यः" इति तस्य एव तत्त्वतः प्रवेशहेतुत्वाभिधानात् ॥ भगवद्गीतारामानुजभाष्य १८.५५ ॥

एवं वर्णाश्रमोचितनित्यनैमित्तिककर्मणां परित्यक्तफलादिकानां परमपुरुषाराधनरूपेणानुष्ठितानां विपाक उक्तः । इदानीं काम्यानामपि कर्मणामुक्तेनैव प्रकारेणानुष्ठितानां स एव विपाक इत्याह

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ भगवद्गीतारामानुजभाष्य १८.५६ ॥

न केवलं नित्यनैमित्तिकानि कर्माणि, अपि तु सर्वाणि काम्यान्यपि कर्माणि, मद्व्याश्रयः मयि संन्यस्तकर्तृत्वादिकः कुर्वाणो मत्प्रसादाच्छाश्वतं पदमव्ययमविकलं प्राप्नोति । पद्यते गम्यत इति पदम्॑ मां प्राप्नोतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.५६ ॥

यस्मादेवम्, तस्मात्

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।
बुद्धियोगमुपाश्रित्य मच्चित्तस्सततं भव ॥ भगवद्गीतारामानुजभाष्य १८.५७ ॥

चेतसा आत्मनो मदीयत्वमन्नियाम्यत्वबुद्ध्या । उक्तं हि, "मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा" इति । सर्वकर्माणि सकर्तृकाणि साराध्यानि मयि संन्यस्य, मत्परः अहमेव फलतया प्राप्य इत्यनुसंधानः, कर्माणि कुर्वनिममेव बुद्धियोगमुपाश्रित्य सततं मच्चित्तो भव ॥ भगवद्गीतारामानुजभाष्य १८.५७ ॥

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ भगवद्गीतारामानुजभाष्य १८.५८ ॥

एवं मच्चित्तः सर्वकर्माणि कुर्वन् सर्वाणि सांसारिकाणि दुर्गाणि मत्प्रसादादेव तरिष्यसि । अथ त्वमहंकारादहमेव कृत्याकृत्यविषयं सर्वं जानामीति भावान्मदुक्तं न श्रोष्यसि चेत्, विनङ्क्ष्यसि विनष्टो भविष्यसि । न हि कश्चिन्मद्व्यतिरिक्तः कृत्स्नस्य प्राणिजातस्य कृत्याकृत्ययोर्ज्ञाता प्रशासिता वास्ति ॥ भगवद्गीतारामानुजभाष्य १८.५८ ॥

यद्यहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ भगवद्गीतारामानुजभाष्य १८.५९ ॥

यदि अहंकारमात्मनि हिताहितज्ञाने स्वातन्त्र्याभिमानमाश्रित्य मन्नियोगमनादृत्य न योत्स्य इति मन्यसे, एष ते स्वातन्त्र्यव्यवसायो मिथ्या भविष्यति॑ यतः प्रकृतिस्त्वां युद्धे नियोक्ष्यति मत्स्वातन्त्र्योद्विग्नं त्वामज्ञं प्रकृतिर्नियोक्षति ॥ भगवद्गीतारामानुजभाष्य १८.५९ ॥

तदुपपादयति

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ भगवद्गीतारामानुजभाष्य १८.६० ॥

स्वभावजं हि क्षत्रियस्य कर्म शौर्यम् । स्वभावजेन शौर्याख्येन स्वेन कर्मणा निबद्धः, तदेवावशः, परैर्धर्षणमसहमानस्त्वमेव तद्युद्धं करिष्यसि, यदिदानीं मोहादज्ञानात्कर्तुं नेच्छसि ॥ भगवद्गीतारामानुजभाष्य १८.६० ॥

सर्वं हि भूतजातं सर्वेश्वरेण मया पूर्वकर्मानुगुण्येन प्रकृत्यनुवर्तने नियमितम्॑ तच्छृणु ।

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ भगवद्गीतारामानुजभाष्य १८.६१ ॥

ईश्वरः सर्वनियमनशीलो वासुदेवः सर्वभूतानां हृद्देशे सकलप्रवृत्तिमूलज्ञानोदयप्रदेशे तिष्ठति । कथं किं कुर्वंस्तिष्ठति ? यन्त्रारूढानि सर्वभूतानि मायया भ्रामयन् । स्वेनैव निर्मितं देहेन्द्रियावस्थं प्रकृत्याख्यं यन्त्रमारूढानि सर्वभूतानि स्वकीयया सत्त्वादिगुणमय्या मायया गुणानुगुणं प्रवर्तयंस्तिष्ठतीत्यर्थः । पूर्वमप्येतदुक्तम्, "सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च" इति॑ "मत्तस्सर्वं प्रवर्तते" इति च । "य आत्मनि तिष्ठन्" इत्यादिका श्रुतिश्च ॥ भगवद्गीतारामानुजभाष्य १८.६१ ॥

एतन्मायानिवृत्तिहेतुमाह

तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ भगवद्गीतारामानुजभाष्य १८.६२ ॥

यस्मादेवम्, तस्मात्तमेव सर्वस्य प्रशासितारम्, आश्रितवात्सल्येन त्वत्सारथ्येऽवस्थितम्, "इत्थं कुरु " इति च शासितारं सर्वभावेन सर्वात्मना शरणं गच्छ । सर्वात्मनानुवर्तस्व । अन्यथापि तन्मायाप्रेरितेनाज्ञेन त्वया युद्धादिकरणमवर्जनीयम् । तथा सति नष्टो भविष्यसि । अतस्तदुक्तप्रकारेण युद्धादिकं कुर्वित्यर्थः । एवं कुर्वाणस्तत्प्रसादात्परां शान्तिं सर्वकर्मबन्धोपशमं शाश्वतं च स्थानं प्राप्स्यसि । यदभिधीयते श्रुतिशतैः, "तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः, "ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः", "यत्र ऋषयः प्रथमजा ये पुराणाः", "परेण नाकं निहितं गुहायाम्", "योऽस्याध्यक्षः परमे व्योमन्", "अथ यदतः परो दिवो ज्योतिर्दीप्यते", "सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" इत्यादिभिः ॥

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ भगवद्गीतारामानुजभाष्य १८.६३ ॥

इति एवं ते मुमुक्षुभिरधिगन्तव्यं ज्ञानं सर्वस्माद्गुह्याद्गुह्यतरं कर्मयोगविषयं ज्ञानयोगविषयं भक्तियोगविषयं च सर्वमाख्यातम् । एतदशेषेण विमृश्य स्वाधिकारानुरूपं यथेच्छसि, तथा कुरु कर्मयोगं ज्ञानयोगं भक्तियोगं वा यथेष्टमातिष्ठेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.६३ ॥

सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ भगवद्गीतारामानुजभाष्य १८.६४ ॥

सर्वेष्वेतेषु गुह्येषु भक्तियोगस्य श्रैष्ठ्याद्गुह्यतममिति पूर्वमेवोक्तम् "इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे" इत्यादौ । भूयोऽपि तद्विषयं परमं मे वचः शृणु । इष्टोऽसि मे दृढमिति ततस्ते हितं वक्ष्यामि ॥ भगवद्गीतारामानुजभाष्य १८.६४ ॥

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ भगवद्गीतारामानुजभाष्य १८.६५ ॥

वेदान्तेषु, "वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यतेऽयनाय" इत्यादिषु विहितं वेदनं ध्यानोपासनादिशब्दवाच्यं दर्शनसमानाकारं स्मृतिसंतानमत्यर्थप्रियमिह मन्मना भवेति विधीयते । मद्भक्तः अत्यर्थमत्प्रियः । अत्यर्थमत्प्रियत्वेन निरतिशयप्रियां स्मृतिसंततिं कुरुष्वेत्यर्थः । मद्याजी । तत्रापि मद्भक्त इत्यनुषज्यते । यजनं पूजनम् । अत्यर्थप्रियमदाराधनपरो भव । आराधनं हि परिपूर्णशेषवृत्तिः । मां नमस्कुरु । नमः नमनम् । मय्यतिमात्रप्रह्वीभावमत्यर्थप्रियं कुर्वित्यर्थः । एवं वर्तमानो मामेवैष्यसि । एतत्सत्यं ते प्रतिजाने तव प्रतिज्ञां करोमि॑ नोपच्छन्दनमात्रम्॑ यतस्त्वं प्रियोऽसि मे । "प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः" इति पूर्वमेवोक्तम् । यस्य मय्यतिमात्रता प्रीतिर्वर्तते, ममापि तस्मिनतिमात्रा प्रीतिर्भवतीति तद्वियोगमसहमानोऽहं तं मां प्रापयामि । अतः सत्यमेव प्रतिज्ञातम्, मामेवैष्यसीति ॥ भगवद्गीतारामानुजभाष्य १८.६५ ॥

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ भगवद्गीतारामानुजभाष्य १८.६६ ॥

कर्मयोगज्ञानयोगभक्तियोगरूपान् सर्वान् धर्मान् परमनिश्श्रेयससाधनभूतान्, मदाराधनत्वेन अतिमात्रप्रीत्या यथाधिकारं कुर्वाण एव, उक्तरीत्या फलकर्मकर्तृत्वादिपरित्यागेन परित्यज्य, मामेकमेव कर्तारमाराध्यं प्राप्यमुपायं चानुसंधत्स्व । एष एव सर्वधर्माणां शस्त्रीयः परित्याग इति, "निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥ भगवद्गीतारामानुजभाष्य १८." इत्यारभ्य, "सङ्गं त्यक्त्वा फलं चैव स त्यागस्सात्तिविको मतः ॥ ... न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ भगवद्गीतारामानुजभाष्य १८." इति अध्यायादौ सुदृढमुपपादितम् । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि एवं वर्तमानं त्वां मत्प्राप्तिविरोधिभ्योऽनादिकालसंचितानन्ताकृत्यकरणकृत्याकरणरूपेभ्यः सर्वेभ्यः पापेभ्यो मोक्षयिष्यामि । मा शुचः शोकं मा कृथाः । अथ वा, सर्वपापविनिर्मुक्तात्यर्थभगवत्प्रियपुरुषनिर्वर्त्यत्वाद्भक्तियोगस्य, तदारम्भविरोधिपापानामानन्त्यात्तत्प्रायश्चित्तरूपैर्धर्मैः परिमितकालकृतैस्तेषां दुस्तरतया आत्मनो भक्तियोगारम्भानर्हतामालोच्य शोचतोऽर्जुनस्य शोकमपनुदन् श्रीभगवानुवाच सर्वधर्मान् परित्यज्य मामेकं शरणं व्रजेति । भक्तियोगारम्भविरोध्यनादिकालसंचितनानाविधानन्तपापानुगुणान् तत्तत्प्रायश्चित्तरूपान् कृच्छ्रचान्द्रायणकूश्माण्डवैश्वानरव्रातपतिपवित्रेष्टित्रिवृदग्निष्टोमादिकान्नानाविधाननन्तांस्त्वया परिमितकालवर्तिना दूरनुष्ठानान् सर्वान् धर्मान् परित्यज्य भक्तियोगारम्भसिद्धये मामेकं परमकारुणिकमनालोचितविशेषाशेषलोकशरण्यम्
आश्रितवात्सल्यजलधिं शरणं प्रपद्यस्व । अहं त्वा सर्वपापेभ्यः यथोदितस्वरूपभक्त्यारम्भविरोधिभ्यः सर्वेभ्यः पापेभ्यः मोक्षयिष्यामि॑ मा शुचः ॥ भगवद्गीतारामानुजभाष्य १८.६६ ॥

इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ भगवद्गीतारामानुजभाष्य १८.६७ ॥

इदं ते परमं गुह्यं शास्त्रं मयाख्यातमतपस्काय अतप्ततपसे त्वया न वाच्यम्॑ त्वयि वक्तरि, मयि चाभक्ताय कदाचन न वाच्यम् । तप्ततपसे चाभक्ताय न वाच्यमित्यर्थः । न चाशुश्रूषवे । भक्तायाप्यशुश्रूषवे न वाच्यम् । न च मां योऽभ्यसूयति । मत्स्वरूपे मदैश्वर्ये मद्गुणेषु च कथितेषु यो दोषमाविष्करोति, न तस्मै वाच्यम् । असमानविभक्तिनिर्देशः तस्यात्यन्तपरिहरणीयताज्ञापनाय ॥ भगवद्गीतारामानुजभाष्य १८.६७ ॥

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ भगवद्गीतारामानुजभाष्य १८.६८ ॥

इदं परमं गुह्यं मद्भक्तेषु यः अभिधास्यति व्याख्यास्यति, सः मयि परमां भक्तिं कृत्वा मामेवैष्यति॑ न तत्र संशयः ॥ भगवद्गीतारामानुजभाष्य १८.६८ ॥

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ भगवद्गीतारामानुजभाष्य १८.६९ ॥

सर्वेषु मनुष्येष्वितः पूर्वं तस्मादन्यो मनुष्यो मे न कश्चित्प्रियकृत्तमोऽभूत्॑ इत उत्तरं च न भविता । अयोग्यानां प्रथममुपादानं योग्यानामकथनादपि तत्कथनस्यानिष्टतमत्वात् ॥

अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ भगवद्गीतारामानुजभाष्य १८.७० ॥

य इममावयोर्धर्म्यं संवादमध्येष्यते, तेन ज्ञानयज्ञेनाहमिष्टस्स्यामिति मे मतिः अस्मिन् यो ज्ञानयज्ञोऽभिधीयते, तेनाहमेतदध्ययनमात्रेणेष्टः स्यामित्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.७० ।

श्रद्धावाननसूयुश्च शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभांल्लोकान् प्राप्नुयात्पुण्यकर्मणाम् ॥ भगवद्गीतारामानुजभाष्य १८.७१ ॥

श्रद्धावाननसूयुश्च यो नरः शृणुयादपि, तेन श्रवणमात्रेण सोऽपि भक्तिविरोधिपापेभ्यो मुक्तः पुण्यकर्मणां मद्भक्तानां लोकान् समूहन् प्राप्नुयात् ॥ भगवद्गीतारामानुजभाष्य १८.७१ ।

कश्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय ॥ भगवद्गीतारामानुजभाष्य १८.७२ ॥

मया कथितमेतत्पार्थ त्वया अवहितेन चेतसा कच्चिच्श्रुतम्, तवाज्ञानसंमोहः कच्चित्प्रनष्टः, येनाज्ञानेन मूढो न योत्स्यामीत्युक्तवान् ॥ भगवद्गीतारामानुजभाष्य १८.७२ ॥

अर्जुन उवाच
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ॥ भगवद्गीतारामानुजभाष्य १८.७३ ॥

मोहः विपरीतज्ञानम् । त्वत्प्रसादान्मम तद्विनष्टम् । स्मृतिः यथावस्थिततत्त्वज्ञानम् । त्वत्प्रसादादेव तच्च लब्धम् । अनात्मनि प्रकृतौ आत्माभिमानरूपो मोहः, परमपुरुषशरीरतया तदात्मकस्य कृत्स्नस्य चिदचिद्वस्तुनः अतदात्माभिमानरूपश्च, नित्यनैमित्तिकरूपस्य कर्मणः परमपुरुषाराधनतया तत्प्राप्त्युपायभूतस्य बन्धकत्वबुद्धिरूपश्च सर्वो विनष्टः । आत्मनः प्रकृतिविलक्षणत्वतत्स्वभावरहितताज्ञातृत्वैकस्वभावतापरमपुरुषशेषतातन्नियाम्यत्वैकस्वरूपताज्ञानम्, निखिलजगदुद्भवस्थितिप्रलयलीलाशेषदोषप्रत्यनीककल्याणैकस्वरूपस्वाभाविकानवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजःप्रभृतिसमस्तकल्याणगुणगणमहार्णवपरब्रह्मशब्दाभिधेयपरमपुरुषयाथात्म्यज्ञानं च, एवंरूपपरावरतत्त्वयाथात्म्यविज्ञानतदभ्यासपूर्वकाहरहरुपचीयमानपरमपुरुषप्रीत्येकफलनित्यनैमित्तिककर्मनिषिद्धपरिहारशमदमाद्यात्मगुणनिवर्त्यभक्तिरूपतापन्नपरमपुरुषोपासनैकलभ्यो वेदान्तवेद्यः परमपुरुषो वासुदेवस्त्वमिति ज्ञानं च लब्धम् । ततश्च बन्धस्नेहकारुण्यप्रवृद्धविपरीतज्ञानमूलात्सर्वस्मादवसादाद्विमुक्तो गतसंदेहः स्वस्थः स्थितोऽस्मि । इदानीमेव युद्धादिकर्तव्यताविषयं तव वचनं करिष्यति यथोक्तं युद्धादिकं करिष्यति इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.७३ ॥

धृतराष्ट्राय स्वपुत्राः पाण्डवाश्च युद्धे किं करिष्यन्तीति पृच्छते

सञ्जय उवाच
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ भगवद्गीतारामानुजभाष्य १८.७४ ॥

इति एवं वासुदेवस्य वसुदेवसूनोः, पार्थस्य च तत्पितृष्वसुः पुत्रस्य च महात्मनः महाबुद्धेस्तत्पदद्वन्द्वमाश्रितस्येमं रोमहर्षणमद्भुतं संवादमहं यथोक्तमश्रौषं श्रुतवानहम् ॥ भगवद्गीतारामानुजभाष्य १८.७४ ॥

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् ।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ भगवद्गीतारामानुजभाष्य १८.७५ ॥

व्यासप्रसादाद्व्यासानुग्रहेण दिव्यचक्षुश्श्रोत्रलाभादेतत्परं योगाख्यं गुह्यं योगेश्वराज्ज्ञानबलाइश्वर्यवीर्यशक्तितेजसां निधेर्भगवतः कृष्णात्स्वयमेव कथयतः साक्षाच्श्रुतवानहम् ॥ भगवद्गीतारामानुजभाष्य १८.७५ ॥

राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ भगवद्गीतारामानुजभाष्य १८.७६ ॥

केशवार्जुनयोरिमं पुण्यमद्भुतं संवादं साक्षाच्छ्रुतं स्मृत्वा मुहुर्मुहुर्हृष्यामि ॥

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥ भगवद्गीतारामानुजभाष्य १८.७७ ॥

तच्चार्जुनाय प्रकाशितमैश्वरं हरेरत्यद्भुतं रूपं मया साक्षात्कृतं संस्मृत्य संस्मृत्य हृष्यतो मे महान् विस्मयो जायते॑ पुनः पुनश्च हृष्यामि ॥ भगवद्गीतारामानुजभाष्य १८.७७ ॥
किमत्र बहुनोक्तेन ?

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ भगवद्गीतारामानुजभाष्य १८.७८ ॥

यत्र योगेश्वरः कृत्स्नस्योच्चावचरूपेणावस्थितस्य चेतनस्याचेतनस्य च वस्तुनो ये ये स्वभावयोगाः, तेषां सर्वेषां योगानामीश्वरः, स्वसंकल्पायत्तस्वेतरसमस्तवस्तुस्वरूपस्थितिप्रवृत्तिभेदः, कृष्णः वसुदेवसूनुः, यत्र च पार्थो धनुर्धरः तत्पितृष्वसुः पुत्रः तत्पदद्वन्द्वैकाश्रयः, तत्र श्रीर्विजयो भूतिर्नीतिश्च ध्रुवा निश्चला इति मतिर्ममेति ॥ भगवद्गीतारामानुजभाष्य १८.७८ ॥