सामग्री पर जाएँ

भगवद्गीतारामानुजभाष्यम्/अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ भगवद्गीतारामानुजभाष्यम्
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →

अतीतेनाध्यायत्रयेण प्रकृतिपुरुषयोर्विविक्तयोः संसृष्टयोश्च याथात्म्यं तत्संसर्गवियोगयोश्च गुणसङ्गतद्विपर्ययहेतुत्वम्, सर्वप्रकारेणावस्थितयोः प्रकृतिपुरुषयोर्भगवद्विभूतित्वम्, विभूतिमतो भगवतो विभूतिभूतादचिद्वस्तुनश्चिद्वस्तुनश्च बद्धमुक्तोभयरूपादव्ययत्वव्यापनभरणस्वाम्यैरर्थान्तरतया पुरुषोत्तमत्वेन याथात्म्यञ्च वर्णितम् । अनन्तरम्, उक्तस्य कृत्स्नस्यार्थस्य स्थेम्ने शास्त्रवश्यतां वक्तुं शास्त्रवश्यतद्विपरीतयोर्देवासुरसर्गयोर्विभागं

श्रीभगवानुवाच
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ भगवद्गीता१६.१ ॥
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ भगवद्गीता१६.२ ॥
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति संपदं दैवीमभि जातस्य भारत ॥ भगवद्गीता१६.३ ॥

इष्टानिष्टवियोगसंयोगरूपस्य दुःखस्य हेतुदर्शनजं दुःखं भयम्, तन्निवृत्तिरभयम् । सत्त्वसंशुद्धिः सत्त्वस्यान्तःकरणस्य रजस्तमोभ्यामस्पृष्टत्वम् । ज्ञानयोगव्यवस्थितिः प्रकृतिवियुक्तात्मस्वरूपविवेकनिष्ठा । दानं न्यायार्जितधनस्य पात्रे प्रतिपादनम् । दमः मनसो विषयोन्मुख्यनिवृत्तिसंशीलनम् । यज्ञः फलाभिसन्धिरहितभगवदाराधनरूपमहायज्ञाद्यनुष्ठानम् । स्वाध्यायः सविभूतेर्भगवतस्तदाराधनप्रकारस्य च प्रतिपादकः कृत्स्नो वेद इत्यनुसन्धाय वेदाभ्यासनिष्ठा । तपः कृच्छ्रचान्द्रायणद्वादश्युपवासादेर्भगवत्प्रीणनकर्मयोग्यतापादनस्य करणम् । आर्जवं मनोवाक्कायवृत्तीनामेकनिष्ठता परेषु । अहिंसा परपीडावर्जनम् । सत्यं यथादृष्टार्थगोचरभूतहितवाक्यम् । अक्रोधः परपीडाफलचित्तविकाररहितत्वम् । त्यागः आत्महितप्रत्यनीकपरिग्रहविमोचनम् । शान्तिः इन्द्रियाणां विषयप्रावण्यनिरोधसंशीलनम् । अपैशुनं परानर्थकरवाक्यनिवेदनाकरणम् । दया भूतेषु सर्वभूतेषु दुःखासहिष्णुत्वम् । अलोलुप्त्वमलोलुपत्वम् । अलोलुत्वमिति वा पाठः॑ विषयेषु निस्स्पृहत्वमित्यर्थः । मार्दवमकाठिन्यम्, साधुजनसंश्लेषार्हतेत्यर्थः । ह्रीः अकार्यकरणे व्रीडा । अचापलं स्पृहणीयविषयसन्निधौ अचञ्चलत्वम् । तेजः दुर्जनैरनभिभवनीयत्वम् । क्षमा परनिमित्तपीडानुभवेऽपि परेषु तं प्रति चित्तविकाररहितता । धृतिः महत्यामप्यापदि कृत्यकर्तव्यतावधारणम् । शौचं बाह्यान्तरकरणानां कृत्ययोग्यता शास्त्रीया । अद्रोहः
परेष्वनुपरोधः॑ परेषु स्वच्छन्दवृत्तिनिरोधरहितत्वमित्यर्थः । नातिमानिता अस्थाने गर्वोऽतिमानित्वम्॑ तद्रहितता । एते गुणाः दैवीं संपदमभिजातस्य भवन्ति । देवसंबन्धिनी संपद्दैवी॑ देवा भगवदाज्ञानुवृत्तिशीलाः॑ तेषां संपत् । सा च भगवदाज्ञानुवृत्तिरेव । तामभिजातस्य तामभिमुखीकृत्य जातस्य, तां निवर्तयितुं जातस्य भवन्तीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १६.१_३ ॥

दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमसुरीम् ॥ भगवद्गीता१६.४ ॥

दम्भः धार्मिकत्वख्यापनाय धर्मानुष्ठानम् । दर्पः कृत्याकृत्याविवेककरो विषयानुभवनिमित्तो हर्षः । अतिमानश्च स्वविद्याभिजनाननुगुणोऽभिमानः । क्रोधः परपिडाफलचित्तविकारः । पारुष्यं साधूनामुद्वेगकरः स्वभावः । अज्ञानं परावरतत्त्वकृत्याकृत्याविवेकः । एते स्वभावाः आसुरीं संपदमभिजातस्य भवन्ति । असुराः भगवदाज्ञातिवृत्तिशीलाः ॥ भगवद्गीतारामानुजभाष्य १६.४ ॥

दैवी संपद्विमोक्षाय निबन्धायासुरी मता ।

दैवी मदाज्ञानुवृत्तिरूपा संपद्विमोक्षाय बन्धान्मुक्तये भवति । क्रमेण मत्प्राप्तये भवतीत्यर्थः । आसुरी मदाज्ञातिवृत्तिरूपा संपन्निबन्धाय भवति अधोगतिप्राप्तये भवतीत्यर्थः ॥

एतच्छ्रुत्वा स्वप्रकृत्यनिर्धारणादतिभीतायार्जुनायैवमाह

मा शुचस्संपदं दैवीमभिजातोऽसि पाण्डव ॥ भगवद्गीता१६.५ ॥

शोकं मा कृथाः॑ त्वं तु दैवीं संपदमभिजातोऽसि । पाण्डव । धार्मिकाग्रेसरस्य हि पाण्डोस्तनयस्त्वमित्यभिप्रायः ॥ भगवद्गीतारामानुजभाष्य १६.५ ॥

द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ भगवद्गीता१६.६ ॥

अस्मिन् कर्मलोके कर्मकराणां भूतानां सर्गो द्विविधौ दैवश्चासुरश्चेति । सर्गः उत्पत्तिः, प्राचीनपुण्यपापरूपकर्मवशाद्भगवदाज्ञानुवृत्तितद्विपरीतकरणायोत्पत्तिकाल एव विभागेन भूतान्युत्पद्यन्त इत्यर्थः । तत्र दैवः सर्गो विस्तरशः प्रोक्तः देवानां मदाज्ञानुवृत्तिशीलानामुत्पत्तिर्यदाचारकरणार्था, स आचारः कर्मयोगज्ञानयोगभक्तियोगरूपो विस्तरशः प्रोक्तः । असुराणां सर्गश्च यदाचारार्थः, तमाचारं मे शृणु मम सकाशाच्छृणु ॥ भगवद्गीतारामानुजभाष्य १६.६ ॥

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ भगवद्गीता१६.७ ॥

प्रवृत्तिं च निवृत्तिं च अभ्युदयसाधनं मोक्षसाधनं च वैदिकं धर्ममासुरा न विदुः न जानन्ति । शौचं वैदिककर्मयोग्यत्वं शास्त्रसिद्धम्॑ तद्बाह्यमान्तरं चासुरेषु न विद्यते । नापि चाचारः तद्बाह्यान्तरशौचं येन सन्ध्यावन्दनादिना आचारेण जायते, सोऽप्याचारस्तेषु न विद्यते । यथोक्तम्, "संध्याहीनोऽशुचिर्नित्यमनर्हस्सर्वकर्मसु" इति । तथा सत्यं च तेषु न विद्यते यथाज्ञातभूतहितरूपभाषणं तेषु न विद्यते ॥ भगवद्गीतारामानुजभाष्य १६.७ ॥

किं च

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसंभूतं किमन्यत्कामहेतुकम् ॥ भगवद्गीता१६.८ ॥

असत्यं जगदेतत्सत्यशब्दनिर्दिष्टब्रह्मकार्यतया ब्रह्मात्मकमिति नाहुः । अप्रतिष्ठं तथा ब्रह्मणि प्रतिष्ठितमिति न वदन्ति । ब्रह्मणानन्तेन धृता हि पृथिवी सर्वान् लोकान् बिभर्ति । यथोक्तम्, "तेनेयं नागवर्येण शिरसा विधृता मही । बिभर्ति मालां लोकानां सदेवासुरमानुषाम्" इति । अनीश्वरम् । सत्यसंकल्पेन परेण ब्रह्मणा सर्वेश्वरेण मयैतन्नियमितमिति च न वदन्ति । "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते" इति ह्युक्तम् । वदन्ति चैवमपरस्परसंभूतम्॑ किमन्यत् । योषित्पुरुषयोः परस्परसंबन्धेन जातमिदं मनुष्यपश्वादिकमुपलभ्यते॑ अनेवंभूतं किमन्यदुपलभ्यते ? किंचिदपि नोपलभ्यत इत्यर्थः । अतः सर्वमिदं जगत्कामहेतुकमिति ॥ भगवद्गीतारामानुजभाष्य १६.८ ॥

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽशुभाः ॥ भगवद्गीता१६.९ ॥

एतां दृष्टिमवष्टभ्य अवलम्ब्य, नष्टात्मानः अदृष्टदेहातिरिक्तात्मानः, अल्पबुद्धयः घटादिवज्ज्ञेयभूते देहे ज्ञातृत्वेन देहव्यतिरिक्त आत्मोपलभ्यत इति विवेकाकुशलाः, उग्रकर्माणः सर्वेषां हिंसका जगतः क्षयाय प्रभवन्ति ॥ भगवद्गीतारामानुजभाष्य १६.९ ॥

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद्गृहीत्वासद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः ॥ भगवद्गीता१६.१० ॥

दुष्पूरं दुष्प्रापविषयं काममाश्रित्य तत्सिसाधयिषया मोहादज्ञानात्, असद्ग्राहानन्यायगृहीतपरिग्रहान् गृहीत्वा, अशुचिव्रताः अशास्त्रविहितव्रतयुक्ताः दम्भमानमदान्विताः प्रवर्तन्ते ॥ भगवद्गीतारामानुजभाष्य १६.१० ॥

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥ भगवद्गीता१६.११ ॥

अद्य श्वो वा मुमूर्षवः चिन्तामपरिमेयाम् अपरिच्छेद्यां प्रलयान्तां प्राकृतप्रलयावधिकालसाध्यविषयामुपाश्रिताः, तथा कामोपभोगपरमाः कामोपभोग एव परमपुरुषार्थ इति मन्वानाः, एतावदिति निश्चिताः इतोऽधिकः पुरुषार्थो न विद्यत इति संजातनिश्चयाः ॥ भगवद्गीतारामानुजभाष्य १६.११ ॥

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ भगवद्गीता१६.१२ ॥

आशापाशशतैः आशाख्यपाशशतैर्बद्धाः, कामक्रोधपरायणाः कामक्रोधैकनिष्ठाः, कामभोगार्थमन्यायेनार्थसंचयान् प्रति ईहन्ते ॥ भगवद्गीतारामानुजभाष्य १६.१२ ॥

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ भगवद्गीता१६.१३ ॥

इदं क्षेत्रपुत्रादिकं सर्वं मया मत्सामर्थ्येनैव लब्धम्, नादृष्टादिना॑ इमं च मनोरथमहमेव प्राप्स्ये, नादृष्टादिसहितः । इदं धनं मत्सामर्थ्येन लब्धं मे अस्ति, इदमपि पुनर्मे मत्सामर्थ्येनैव भविष्यति ॥ भगवद्गीतारामानुजभाष्य १६.१३ ॥

असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।

असौ मया बलवता हतः शत्रुः । अपरानपि शत्रूनहं शूरो धीरश्च हनिष्ये । किमत्र मन्दधीभिर्दुर्बलैः परिकल्पितेनादृष्टपरिकरेण ॥

तथा च

ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥ भगवद्गीता१६.१४ ॥

ईश्वरोऽहं स्वाधीनोऽहम्॑ अन्येषां चाहमेव नियन्ता । अहं भोगी स्वत एवाहं भोगी॑ नादृष्टादिभिः । सिद्धोऽहं स्वतस्सिद्धोऽहम्॑ न कस्माच्चिददृष्टादेः । तथा स्वत एव बलवान्॑ स्वत एव सुखी ॥ भगवद्गीतारामानुजभाष्य १६.१४ ॥

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ भगवद्गीता१६.१५ ॥

अहं स्वतश्चाढ्योऽस्मि॑ अभिजनवानस्मि स्वत एवोत्तमकुले प्रसूतोऽस्मि॑ अस्मिन् लोके मया सदृशः कोऽन्यः स्वसामर्थ्यलब्धसर्वविभवो विद्यते? अहं स्वयमेव यक्ष्ये दास्यामि, मोदिष्ये इत्यज्ञानविमोहिताः ईश्वरानुग्रहनिरपेक्षेण स्वेनैव यागदानादिकं कर्तुं शक्यमित्यज्ञानविमोहिता मन्यन्ते ॥ भगवद्गीतारामानुजभाष्य १६.१५ ॥

अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ भगवद्गीता१६.१६ ॥

अदृष्टेश्वरादिसहकारमृते स्वेनैव सर्वं कर्तुं शक्यमिति कृत्वा, एवं कुर्याम्, तच्च कुर्याम्, अन्यच्च कुर्यामित्यनेकचित्तविभ्रान्ताः, एवंरूपेण मोहजालेन समावृताः, कामभोगेषु प्रकर्षेण सक्ताः, मध्ये मृताः अशुचौ नरके पतन्ति ॥ भगवद्गीतारामानुजभाष्य १६.१६ ॥

आत्मसंभाविताः स्तब्धाः धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ भगवद्गीता१६.१७ ॥

आत्मनैव संभाविताः । आत्मनैवात्मानं संभावयन्तीत्यर्थः । स्तब्धाः परिपूर्णं मन्यमाना न किंचित्कुर्वाणाः । कथम् ? धनमानमदान्विताः धनेन विद्याभिजनाभिमानेन च जनितमदान्विताः, नामयज्ञैः नामप्रयोजनैः यष्टेतिनाममात्रप्रयोजनैर्यज्ञैः यजन्ते । तदपि दम्भेन हेतुना यष्टृत्वख्यापनाय, अविधिपूर्वकमयथाचोदनं यजन्ते ॥ भगवद्गीतारामानुजभाष्य १६.१७ ॥

ते चेदृग्भूता यजन्त इत्याह

अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ भगवद्गीता१६.१८ ॥

अनन्यापेक्षोऽहमेव सर्वं करोमीत्येवंरूपमहंकारमाश्रिताः, तथा सर्वस्य करणे मद्बलमेव पर्याप्तमिति च बलम्, अतो मत्सदृशो न कश्चिदस्तीति च दर्पम्, एवंभूतस्य मम काममात्रेण सर्वं संपत्स्यत इति कामम्, मम ये अनिष्टकारिणस्तान् सर्वान् हनिष्यामीति च क्रोधम्, एवमेतान् संश्रिताः, स्वदेहेषु परदेहेषु चावस्थितं सर्वस्य कारयितारं पुरुषोत्तमं मामभ्यसूयकाः प्रद्विषन्तः, कुयुक्तिभिर्मत्स्थितौ दोषमाविष्कुर्वन्तो मामसहमानाः । अहंकारादिकान् संश्रिता यागादिकं सर्वं क्रियाजातं कुर्वत इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १६.१८ ॥

तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ भगवद्गीता१६.१९ ॥

य एवं मां द्विषन्ति, तान् क्रूरान्नराधमानशुभानहमजस्रं संसारेषु जन्मजरामरणादिरूपेण परिवर्तमानेषु संतानेषु, तत्राप्यासुरीष्वेव योनिषु क्षिपामि मदानुकूल्यप्रत्यनीकेष्वेव जन्मसु क्षिपामि । तत्तज्जन्मप्राप्त्यनुगुणप्रवृत्तिहेतुभूतबुद्धिषु क्रूरास्वहमेव संयोजयामीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १६.१९ ॥

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ भगवद्गीता१६.२० ॥

मदानुकूल्यप्रत्यनीकजन्मापन्नाः पुनरपि जन्मनि जन्मनि मूढाः मद्विपरीतज्ञाना मामप्राप्यैव "अस्ति भगवान् सर्वेश्वरो वासुदेवः" इति ज्ञानमप्राप्य ततः ततो जन्मनोऽधमामेव गतिं यान्ति ।२०॥

अस्यासुरस्वभावस्यात्मनाशस्य मूलहेतुमाह

त्रिविधं नरकस्यैतद्द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ भगवद्गीता१६.२१ ॥

अस्यासुरस्वभावरूपस्य नरकस्यैतत्त्रिविधं द्वारम्, तच्चात्मनो नाशनम्॑ कामः क्रोधो लोभ इति त्रयाणां स्वरूपं पूर्वमेव व्याख्यातम् । द्वारं मार्गः॑ हेतुरित्यर्थः । तस्मादेतत्त्रयं त्यजेत्॑ तस्मादतिघोरनरकहेतुत्वात्कामक्रोधलोभानाम्, एतत्त्रितयं दूरतः परित्यजेत् ॥ भगवद्गीतारामानुजभाष्य १६.२१ ॥

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ भगवद्गीता१६.२२ ॥

एतैः कामक्रोधलोभैः तमोद्वारैः मद्विपरीतज्ञानहेतुभिः विमुको नरः आत्मनः श्रेय आचरति लब्धमद्विषयज्ञानो मदानुकूल्ये प्रयतते । ततो मामेव परां गतिं याति ॥ भगवद्गीतारामानुजभाष्य १६.२२ ॥

शास्त्रानादरोऽस्य नरकस्य प्रधानहेतुरित्याह

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ भगवद्गीता१६.२३ ॥

शास्त्रं वेदाः॑ विधिः अनुशासनम् । वेदाख्यं मदनुशासनमुत्सृज्य यः कामकारतो वर्तते स्वच्छन्दानुगुणमार्गेण वर्तते, न स सिद्धिमवाप्नोति न कामप्यामुष्मिकीं सिद्धिमवाप्नोति॑ न सुखं किंचिदवाप्नोति । न परां गतिम् । कुतः परां गतिं प्राप्नोतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १६.२३ ॥

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ भगवद्गीता१६.२४ ॥

तस्मात्कार्याकार्यव्य्वस्थितौ उपादेयानुपादेयव्यवस्थायां शास्त्रमेव तव प्रमाणम् । धर्मशास्त्रेतिहासपुराणाद्युपबृंहिता वेदाः यदेव पुरुषोत्तमाख्यं परं तत्त्वं तत्प्रीणनरूपं तत्प्राप्त्युपायभूतं च कर्मावबोधयन्ति, तच्शास्त्रविधानोक्तं तत्त्वं कर्म च ज्ञात्वा यथावदन्यूनातिरिक्तं विज्ञाय, कर्तुं त्वमर्हसि तदेवोपादातुमर्हसि ॥ भगवद्गीतारामानुजभाष्य १६.२४ ॥