ब्राह्मस्फुटसिद्धान्तः

विकिस्रोतः तः
Jump to navigation Jump to search

ब्राह्मस्फुटसिद्धान्तम् ब्रह्मगुप्तस्य गणितखगोलशास्त्रग्रन्थः।

  • अध्याय १२ गणित
  • अध्याय १८ कुट्टक
  • अध्याय १९ शंकु-छाया-विज्ञान
  • अध्याय २० छन्दस्-चिति-उत्तरम्
  • अध्याय २१ गोल ( ज्या-प्रकरण के केवल श्लोक १७ से श्लोक २३ तक )
Notation (local rules)
[D: x > y] indicates that Dvivedin, the editor, suggests the reading, y, instead of x.
In Chapter 18:
[Cb.n] indicates that the stanza is given the number, n, in Colebrooke's translation.
[Cb.@] indicates that the stanza does not exist in Colebrooke's translation.
Otherwise, the stanza number coincides with Colebrooke's one.
(Colebrooke's translation is available for Chapters 12 and 18 only. In Chapter 12, all the stanza numbers given by Dvivedin coincide with Colebrooke's .)


अथ गणित-अध्यायस्[सम्पाद्यताम्]

परिकर्म-विंशतिस्[सम्पाद्यताम्]

ब्राह्म१२.१क/ परिकर्म-विंशतिम् यस् सङ्कलित-आद्याम् पृथक् विजानाति ।

ब्राह्म१२.१ग/ अष्टौ च व्यवहारान् छाया-अन्तान् भवति गणकस् सस् ॥

ब्राह्म१२.२क/ विपरीत-छेद-गुणास् राश्योस् छेद-अंशकास् सम-छेदास् ।

ब्राह्म१२.२ग/ सङ्कलिते अंशास् योज्यास् व्यवकलिते अंश-अन्तरम् कार्यम् ॥

ब्राह्म१२.३क/ रूपाणि छेद-गुणानि अंश-युतानि द्वयोस् बहूनाम् वा ।

ब्राह्म१२.३ग/ प्रत्युत्पन्नस् भवति छेद-वधेन उद्धृतस् अंश-वधस् ॥

ब्राह्म१२.४क/ परिवर्त्य भाग-हार-छेद-अंशौ छेद-संगुण-छेदस्/ [द्विवेदी - परिवर्त्त्य

ब्राह्म१२.४ग/ अंशस् अंश-गुणस् भाज्यस्य भाग-हारस् सवर्णितयोस् ॥

ब्राह्म१२.५क/ संवर्णित--अंश-वर्गस् छेद-कृति-विभाजितस् भवति वर्गस् ।

ब्राह्म१२.५ग/ संवर्णित-अंश-मूलम् छेद-पदेन उद्धृतम् मूलम् ॥

ब्राह्म१२.६क/ स्थाप्यस् अन्त्य-घनस् अन्त्य-कृतिस् त्रि-गुण-उत्तर-सङ्गुणा च तद्-प्रथमात् ।

ब्राह्म१२.६ग/ उत्तर-कृतिस् अन्त्य-गुणा त्रि-गुणा च उत्तर-घनस् च घनस् ॥

ब्राह्म१२.७क/ छेदस् घनात् द्वितीयात् घन-मूल-कृतिस् त्रि-सङ्गुणा आप्त-कृतिस् ।

ब्राह्म१२.७ग/ शोध्या त्रि-पूर्व-गुणिता प्रथमात् घनतस् घनस् मूलम् ॥

ब्राह्म१२.८क/ सदृश-छेद-अंश-युतिस् छेद-विभक्ता फलम् प्रथम-जातौ ।

ब्राह्म१२.८ग/ अंशैस् अंशास् गुणितास् छेदैस् छेदास् द्वितीयायाम् ॥

ब्राह्म१२.९क/ ऊर्ध्व-अंशास् छेद-गुणास् तृतीय-जातौ द्वयोस् प्रथम-परयोस् ।

ब्राह्म१२.९ग/ छेदैस् छेदास् गुणितास् स्व-अंश-युत-ऊनैस् उपरि-ग-अंशास् ॥

ब्राह्म१२.१०क/ त्रैराशिके प्रमाणम् फलम् इच्चा आदि-अन्तयोस् सदृश-राशी ।

ब्राह्म१२.१०ग/ इच्छा फलेन गुणिता प्रमाण-भक्ता फलम् भवति ॥

ब्राह्म१२.११क/ व्यस्त-त्रैराशिक-फलम् इच्छा-भक्तस् प्रमाण-फल-घातस् ।

ब्राह्म१२.११ग/ त्रैराशिक-आदिषु फलम् विषमेषु एकादश-अन्तेषु ॥

ब्राह्म१२.१२क/ फल-सङ्क्रमणम् उभय-तस् बहु-राशि-वधस् अल्प-वध-हृतस् ज्ञेयम् ।

ब्राह्म१२.१२ग/ सकलेषु एवम् भिन्नेषु उभय-तस् छेद-सङ्क्रमणम् ॥

ब्राह्म१२.१३क/ प्राक् मूल्य-व्यत्यासस् भाण्डप्रतिभाण्डके अन्यत् उक्त-समम् ।

ब्राह्म१२.१३ग/ परिकर्माणि अष्टानाम् व्यवहाराणाम् अभिहितानि ॥


मिश्रक-व्यवहारस्[सम्पाद्यताम्]

ब्राह्म१२.१४क/ काल-गुणितम् प्रमाणम् फल-भक्तम् वि-एक-गुण-हतम् कालस् ।

ब्राह्म१२.१४ग/ स्व-फल-युत-रूप-भक्तम् मूल-फल-ऐक्यम् भवति मूलम् ॥

ब्राह्म१२.१५क/ काल-प्रमाण-घातस् पर-काल-हृतस् द्विधा आद्य-मिश्र-वधात् ।

ब्राह्म१२.१५ग/ अन्य-अर्ध-कृति-युतात् पदम् अन्य-अर्ध-ऊनम् प्रमाण-फलम् ॥

ब्राह्म१२.१६क/ प्रक्षेप-योग-हृतया लब्ध्या प्रक्षेपकास् गुणास् लाभास् ।

ब्राह्म१२.१६ग/ ऊन-अधिक-उत्तरास् तद्-युत-ऊनया स्व-फलम् ऊन-युतम् ॥


श्रेढी-व्यवहारस्[सम्पाद्यताम्]

ब्राह्म१२.१७क/ पदम् एक-हीनम् उत्तर-गुणितम् संयुक्तम् आदिना अन्त्य-धनम् ।

ब्राह्म१२.१७ग/ आदि-युत-अन्त्य-धन-अर्धम् मध्य-धनम् पद-गुणम् गणितम् ॥

ब्राह्म१२.१८क/ उत्तर-हीन-द्वि-गुण-आदि-शेष-वर्गम् धन-उत्तर-अष्ट-वधे ।

ब्राह्म१२.१८ग/ प्रक्षिप्य पदम् शेष-ऊनम् द्वि-गुण-उत्तर-हृतम् गच्छस् ॥

ब्राह्म१२.१९क/ एक-उत्तरम् एक-आद्यम् यदि इष्ट-गच्छस्य भवति सङ्कलितम् ।

ब्राह्म१२.१९ग/ तत् द्वि-युत-गच्छ-गुणितम् त्रि-हृतम् सङ्कलित-सङ्कलितम् ॥

ब्राह्म१२.२०क/ द्वि-गुण-पद-स-एक-गुणितम् तत् त्रि-हृतम् भवति वर्ग-सङ्कलितम् ।

ब्राह्म१२.२०ग/ घन-सङ्कलितम् तद्-कृतिस् एषाम् सम-गोलकैस् चितयस् ॥


क्षेत्र-व्यवहारस्[सम्पाद्यताम्]

ब्राह्म१२.२१क/ स्थूल-फलम् त्रि-चतुर्-भुज-बाहु-प्रतिबाहु-योग-दल-घातस् ।

ब्राह्म१२.२१ग/ भुज-योग-अर्ध-चतुष्टय-भुज-ऊन-घातात् पदम् सूक्ष्मम् ॥

ब्राह्म१२.२२क/ भुज-कृति-अन्तर-भू-हृत-हीन-युता भूस् द्वि-भाजिता आवाधे/ [द्विवेदी - -कृत्यन्त्यन्तर-<-कृति-अन्तर-]

ब्राह्म१२.२२ग/ स्व-आवाधा-वर्ग-ऊनात् भुज-वर्गात् मूलम् अवलम्बस् ॥

ब्राह्म१२.२३क/ अविषम-चतुर्-अस्र-भुज--प्रतिभुज-वधयोस् युतेस् पदम् कर्णस् ।

ब्राह्म१२.२३ग/ कर्ण-कृतिस् भू-मुख-युति-दल-वर्ग-ऊना पदम् लम्बस् ॥

ब्राह्म१२.२४क/ कर्ण-कृतेस् कोटि-कृतिम् विशोध्य मूलम् भुजस् भुजस्य कृतिम् ।

ब्राह्म१२.२४ग/ प्रोह्य पदम् कोटिस् कोटि-बाहु-कृति-युति-पदम् कर्णस् ॥ [द्विवेदी - वाहु < बाहु]

ब्राह्म१२.२५क/ कर्ण-युतौ ऊर्ध्व-अधर-खण्डे कर्ण-अवलम्ब-योगे वा ।

ब्राह्म१२.२५ग/ स्व-आवाधे स्व-युति-हृते द्विधा पृथक् कर्ण-लम्ब-गुणे ॥

ब्राह्म१२.२६क/ अविषम-पार्श्व-भुज-गुणस् कर्णस् द्वि-गुण-अवलम्बक-विभक्तस् ।

ब्राह्म१२.२६ग/ हृदयम् विषमस्य भुज-प्रतिभुज-कृति-योग-मूल-अर्धम् ॥

ब्राह्म१२.२७क/ त्रि-भुजस्य वधस् भुजयोस् द्वि-गुणित-लम्ब-उद्धृतस् हृदय-रज्जुस् ।

ब्राह्म१२.२७ग/ सा द्वि-गुणा त्रि-चतुर्-भुज-कोण-स्पृक् वृत्त-विष्कम्भस् ॥

ब्राह्म१२.२८क/ कर्ण-आश्रित-भुज-घात-ऐक्यम् उभयथा अन्योन्य-भाजितम् गुणयेत् ।

ब्राह्म१२.२८ग/ योगेन भुज-प्रतिभुज-वधयोस् कर्णौ पदे विषमे ॥

ब्राह्म१२.२९क/ विषम-चतुर्-अस्र-मध्ये विषम-त्रि-भुज-द्वयम् प्रकल्प्य पृथक् ।

ब्राह्म१२.२९ग/ कर्ण-द्वयेन पूर्व-वत् आवाधे लम्बकौ च पृथक् ॥

ब्राह्म१२.३०क/ विषम-भुज-अन्तर्-त्रि-भुजे प्रकल्प्य कर्णौ भुजौ तद्-आवाधे ।

ब्राह्म१२.३०ग/ पृथक् ऊर्ध्व-अधर-खण्डे कर्ण-युतौ कर्णयोस् अधरे ॥

ब्राह्म१२.३१क/ त्रि-भ्जे भुजौ तु भूमिस् तद्-लम्बस् लम्बक-अधरम् खण्डम् ।

ब्राह्म१२.३१ग/ ऊर्ध्वम् अवलम्ब-खण्डम् लम्बक-योग-अर्धम् अधर-ऊनम् ॥

ब्राह्म१२.३२क/ कर्ण-अवलम्बक-युतौ खण्डे कर्ण-अवलम्बकयोस् अधरे ।

ब्राह्म१२.३२ग/ अनुपातेन तद्-ऊने ऊर्ध्वे सूच्याम् स-पाटायाम् ॥

ब्राह्म१२.३३क/ कृति-युतिस् असदृश-राश्योस् बाहुस् घातस् द्वि-सङ्गुणस् लम्बस् ।

ब्राह्म१२.३३ग/ कृति-अन्तरम् असदृशयोस् द्वि-गुणम् द्वि-सम-त्रि-भुज-भूमिस् ॥

ब्राह्म१२.३४क/ इष्ट-द्वयेन भक्तस् द्विधा इष्ट-वर्गस् फल-इष्ट-योग-अर्धे ।

ब्राह्म१२.३४ग/ विषम-त्रि-भुजस्य भुजौ इष्ट-ऊन-फल-अर्ध-योगस् भूस् ॥

ब्राह्म१२.३५क/ इष्टस्य भुजस्य कृतिस् भक्ता ऊना इष्टेन तद्-दलम् कोटिस् ।

ब्राह्म१२.३५ग/ आयत-चतुर्-अस्रस्य क्षेत्रस्य इष्ट-अधिका कर्णस् ॥

ब्राह्म१२.३६क/ आयत-कर्णस् बाहू भुज-कृतिस् इष्टेन भाजिता इष्ट-ऊना ।

ब्राह्म१२.३६ग/ द्वि-हृता कोटि-अधिका भूस् मुखम् ऊना द्वि-सम-चतुर्-अस्रे ॥

ब्राह्म१२.३७क/ कर्ण-कृतिस् त्रि-सम-ह्बुजास् त्रयस् चतुर्थस् विशोध्य कोटि-कृतिम् ।

ब्राह्म१२.३७ग/ बाहु-कृतेस् त्रि-गुणायास् यदि अधिकस् भूस् मुखम् हीनस् ॥

ब्राह्म१२.३८क/ जात्य-द्वय-कोटि-भुजास् पर-कर्ण-गुणास् भुजास् चतुर्-विषमे ।

ब्राह्म१२.३८ग/ अधिकस् भूस् मुख-हीनस् बाहु-द्वितयम् भुजौ अन्यौ ॥

ब्राह्म१२.३९क/ इष्ट-गुण-कार-गुणितस् गिरि-उच्छ्रायस् पुर-अन्तरम् अनष्टम् ।

ब्राह्म१२.३९ग/ द्वि-युत-गुण-कार-भाजितम् उत्पातस् अन्यस्य सम-गत्योस् ॥

ब्राह्म१२.४०क/ व्यास-व्यास-अर्ध-कृती परिधि-फले व्यावहारिके त्रि-गुणे ।

ब्राह्म१२.४०ग/ तद्-वर्गाभ्याम् दशभिस् सङ्गुणिताभ्याम् पदे सूक्ष्मे ॥

ब्राह्म१२.४१क/ वृत्ते शर-ऊन-गुणितात् व्यासात् चतुर्-आहतात् पदम् जीवा ।

ब्राह्म१२.४१ग/ ज्या-वर्गस् चतुर्-आहत-शर-भक्तस् शर-युतस् व्यासस् ॥

ब्राह्म१२.४२क/ ज्या-व्यास-कृति-विशेषात् मूल-व्यास-अन्तर-अर्धम् इषुस् अल्पस् ।

ब्राह्म१२.४२ग/ व्यासौ ग्रास-ऊन-गुणौ ग्रास-ऊन-ऐक्य-उद्धृतौ बाणौ ॥

ब्राह्म१२.४३क/ इष्ट-शर-द्वय-भक्ते ज्या-अर्ध-कृती शर-युते फले व्यासौ ।

ब्राह्म१२.४३ग/ शरयोस् फलयोस् ऐक्यम् ग्रासस् ग्रास-ऊनम् ऐक्यम् तत् ॥


खात-व्यवहारस्[सम्पाद्यताम्]

ब्राह्म१२.४४क/ क्षेत्र-फलम् वेध-गुणम् सम-खात-फलम् हृतम् त्रिभिस् सूच्यास् ।

ब्राह्म१२.४४ग/ मुख-तल-तुल्य-भुज-ऐक्यानि एक-अग्र-हृतानि सम-रज्जुस् ॥

ब्राह्म१२.४५क/ मुख-तल-युति-दल-Rofl वेध-गुणम् व्यावहारिकम् गणितम् ।

ब्राह्म१२.४५ग/ मुख-तल-गणित-ऐक्य-अर्धम् वेध-गुणम् स्यात् गणितम् औत्रम् ॥

ब्राह्म१२.४६क/ औत्र-गणितात् विशोध्य व्यवहार-फलम् भजेत् त्रिभिस् शेषम् ।

ब्राह्म१२.४६ग/ लब्धम् व्यवहार-फले प्रक्षिप्य भवति फलम् सूक्ष्मम् ॥

चिति-व्यवहारस्[सम्पाद्यताम्]

ब्राह्म१२.४७क/ आकृति-फलम् औच्च्य-दैर्घ्य-गुणम् ।

ब्राह्म१२.४७ग/ घन-गणितम् इष्टका-घन-फलेन हृतम् इष्टका-गणितम् ॥

क्राकचिक-व्यवहारस्[सम्पाद्यताम्]

ब्राह्म१२.४८क/ विस्तार-आयाम-अङ्गुल-घातस् मार्ग-आहतस् द्वि-वेद-हृतस् ।

ब्राह्म१२.४८ग/ किष्कु-अङ्गुलानि लब्धम् तत् षण्णवतिस् भवति कर्म ॥

ब्राह्म१२.४९क/ शाका-आदिषु शाल्मल्याम् शत-द्वयम् बीजके शतम् विंशम् ।

ब्राह्म१२.४९ग/ शाल-सरल-आदिषु शतम् अथ अवि-दारुषु चतुःषष्टिस् ।


राशि-व्यवहारस्[सम्पाद्यताम्]

ब्राह्म१२.५०क/ नवमस् शूकिषु दशमस् स्थूलेषु एकादशस् भवति अणुषु ।

ब्राह्म१२.५०ग/ परिधेस् वेधस् परिधेस् षष्-अंश-वर्ग-आहतस् गणितम् ॥

ब्राह्म१२.५१क/ द्वि-चतुर्-स-त्रि-अंश-गुणस् भित्ति-अन्तर्-वाह्य-कोण-गस् परिधिस् ।

ब्राह्म१२.५१ग/ प्राक्-वत् कृत्वा गणितम् तद्-गणितम् स्व-गुण-कार-हृतम् ॥


छाया-व्यवहारस्[सम्पाद्यताम्]

ब्राह्म१२.५२क/ छाया-नर-स-एक-हृतम् द्यु-दलम् प्राक्-अपरयोस् द्यु-गत-शेषम् ।

ब्राह्म१२.५२ग/ दिन-गत-शेष-अंश-हृतम् द्यु-दलम् छाया-नर-वि-एकम् ॥

ब्राह्म१२.५३क/ दीप-तल-शङ्कु-तलयोस् अन्तरम् इष्ट-प्रमाण-शङ्कु-गुणम् ।

ब्राह्म१२.५३ग/ दीप-शिख-औच्च्यात् शङ्कुम् विशोध्य शेष-उद्धृतम् छाया ॥

ब्राह्म१२.५४क/ छाया-अग्र-अन्तर-गुणिता छाया छाया-अन्तरेण भक्ता भूस् ।

ब्राह्म१२.५४ग/ भूस् शङ्कु-गुणा छाया-विभाजिता दीप-शिखया औच्च्यम् ॥


प्रत्युत्पन्न-आदयस्[सम्पाद्यताम्]

ब्राह्म१२.५५क/ गुण-कार-खण्ड-तुल्यस् गुण्यस् गो-मूत्रिका-कृतस् गुणितस् ।

ब्राह्म१२.५५ग/ सहितस् प्रत्युत्पन्नस् गुण-कारक-भेद-तुल्यस् वा ॥

ब्राह्म१२.५६क/ गुण्यस् राशिस् गुण-कार-राशिना इष्ट-अधिक-ऊनकेन गुणस् ।

ब्राह्म१२.५६ग/ गुण्य-इष्ट-वध-ऊन-युतस् गुणके अभ्यधिक-ऊनके कार्यस् ॥

ब्राह्म१२.५७क/ छेदेन इष्ट-युत-ऊनेन आप्तम् भाज्यात् अनष्टम् इष्ट-गुणम् ।

ब्राह्म१२.५७ग/ प्रकृति-स्थ-छेद-हृतम् लब्ध्या युत-हीनकम् अनष्टम् ॥

ब्राह्म१२.५८क/ गुण्यस् छेद-फल-वधस् गुणक-हृतस् गुण्य-भाजितस् गुणकस् ।

ब्राह्म१२.५८ग/ छेद-उद्धृतस् फलम् गुण्य-गुण-वधस् फल-हृतस् छेदस् ॥

ब्राह्म१२.५९क/ गुण्य-गुण-कारयोस् छेद-लब्धयोस् यदि द्वयोस् द्वयोस् नाशस् ।

ब्राह्म१२.५९ग/ तेषाम् दृश्यौ व्यस्तौ कृत्वा तद्-स्थानयोस् च इष्टौ ॥

ब्राह्म१२.६०क/ गुण्यम् गुण-कारम् वा गुणयेत् छेदेन भाग-हारस्य ।

ब्राह्म१२.६०ग/ गुण्य-गुण-कार-राश्योस् छेद-गुणस् भाग-हारस् च ॥

ब्राह्म१२.६१क/ अच्छेदस्य छेदम् रूपम् कृत्वा अन्यत् उक्त-वत् सर्वम् ।

ब्राह्म१२.६१ग/ अपवर्त्यौ छेद-गुणौ तुल्येन इष्टेन गुण्यौ वा ॥[द्विवेदी - अवपर्त्त्यौ < अपवर्त्यौ]

ब्राह्म१२.६२क/ स्व-विकल-षष्टि-अंश-गुणस् सकलस् त्रिंश-उद्धृतस् विकल-वर्गस् ।

ब्राह्म१२.६२ग/ प्रक्षेप्यस् सकल-कृतौ वर्ग-घनौ द्वि-त्रि-तुल्य-वधौ ॥

ब्राह्म१२.६३क/ राशेस् ऊनम् द्वि-गुणम् बहुतर-गुणम् ऊन-कृति-युतम् वर्गस् ।

ब्राह्म१२.६३ग/ राशेस् इष्ट-युत-ऊनात् वधस् कृतिस् वा इष्ट-कृति-युक्तस् ॥

ब्राह्म१२.६४क/ इष्ट-अल्प-राशि-वर्गौ युक्त-ऊनौ इतर-विकल-वर्गाभ्याम् ।

ब्राह्म१२.६४ग/ द्वि-गुण-इतर-राशिभ्याम् भक्तौ तेन अधिक-ऊनाभ्याम् ॥

ब्राह्म१२.६५क/ स्थान-अन्तरेषु लब्धम् येन समम् फल-युत-ऊनक-छेदस् ।

ब्राह्म१२.६५ग/ दलितस् कृति-योग-अन्तर-पदम् इतरस् वा फल-युत-ऊनस् ॥

ब्राह्म१२.६६क/ दिक्-मात्रम् एतत् अन्यत् ज्या-उत्पत्तौ कुट्टके च कथयिष्ये ।

ब्राह्म१२.६६ग/ सङ्कलित-आदिषु आर्यास् षट्षष्टिस् द्वादशस् अध्यायस् ॥

ब्राह्म१२.६६प्/ इति श्री-ब्राह्म-स्फुट-सिद्धान्ते द्वादशस् अध्यायस् ॥१२ ॥



अथ कुट्टक-अध्यायस्[सम्पाद्यताम्]

ब्राह्म१८.१क/ प्रायेण यतस् प्रश्नास् कुट्टाकारात् ऋते न शक्यन्ते ।

ब्राह्म१८.१ग/ ज्ञातुम् वक्ष्यामि ततस् कुट्टाकारम् सह प्रश्नैस् ॥

ब्राह्म१८.२क/ कुट्टक-ख-ऋण-धन-अव्यक्त-मध्य-हरण-एक-वर्ण-भावितकैस् ।

ब्राह्म१८.२ग/ आचार्यस् तन्त्र-विदाम् ज्ञातैस् वर्ग-प्रकृत्या च ॥


कुट्टकम्[सम्पाद्यताम्]

ब्राह्म१८.३क/ अधिक-अग्र-भाग-हारात् ऊन-अग्र-छेद-भाजितात् शेषम् ।

ब्राह्म१८.३ग/ यत् तत् परस्पर-हृतम् लब्धम् अधस् अधस् पृथक् स्थाप्यम् ॥

ब्राह्म१८.४क/ शेषम् तथा इष्ट-गुणितम् यथा अग्रयोस् अन्तरेण संयुक्तम् ।

ब्राह्म१८.४ग/ शुध्यति गुणकस् स्थाप्यस् लब्धम् च अन्त्यात् उपान्त्य-गुणस् ॥

ब्राह्म१८.५क/ स्व-ऊर्ध्वस् अन्त्य-युतस् अग्र-अन्तस् हीन-अग्र-छेद-भाजितस् शेषम् ।

ब्राह्म१८.५ग/ अधिक-अग्र-छेद-हतम् अधिक-अग्र-युतम् भवति अग्रम् ॥

ब्राह्म१८.६क/ छेद-वधस्य द्वि-युगम् छेद-वधस् युग-गतम् द्वयोस् अग्रम् ।

ब्राह्म१८.६ग/ कुट्टाकारेण एवम् त्रि-आदि-ग्रह-युग-गत-आनयनम् ॥

ब्राह्म१८.७क/ भ-गण-आदि-शेषम् अग्रम् छेद-हृतम् खम् च दिन-ज-शेष-हृतम् ।

ब्राह्म१८.७ग/ अनयोस् अग्रम् भ-गण-आदि-दिन-ज-शेष-उद्धृतम् द्यु-गणस् ॥ [Cb.८]

ब्राह्म१८.८क/ दिन-ज-भ-गण-आदि-शेषम् येन गुणम् मण्डल-आदि शेषकयोस् ।

ब्राह्म१८.८ग/ स-दृश-छेद-उद्धृतयोस् तद्-घातम् अहर्-गण-आद्यम् अतस् ॥ [Cb.१०]

ब्राह्म१८.९क/ हृतयोस् परस्परम् यत् छेषम् गुण-कार-भाग-हारकयोस् ।

ब्राह्म१८.९ग/ तेन हृतौ निस्-छेदौ तौ एव परस्परम् हृतयोस् ॥ [Cb.११]

ब्राह्म१८.१०क/ लब्धम् अधस् अधस् स्थाप्यम् तथा इष्ट-गुण-कार-सङ्गुणम् शेषम् ।

ब्राह्म१८.१०ग/ शुध्यति यथा एक-हीनम् गुणकस् स्थाप्यस् फलम् च अन्त्यात् ॥ [Cb.१२]

ब्राह्म१८.११क/ अग्र-अन्तम् उपान्त्येन स्व-ऊर्ध्वस् गुणितस् अन्त्य-संयुतस् भक्तम् ।

ब्राह्म१८.११ग/ निस्-शेष-भाग-हारेण एवम् स्थिर-कुट्टकस् शेषम् ॥ [Cb.१३]

ब्राह्म१८.१२क/ इष्ट-भ-गण-आदि-शेषात् स्व-कुट्टक-गुणात् स्व-भाग-हार-गुणात् ।

ब्राह्म१८.१२ग/ शेषम् द्यु-गणस् गत-निस्-अपवर्त-गुण-भाग-हार-युतस् ॥ [Cb.१५॑ द्विवेदी - -अपवर्त्त- < -अपवर्त-]

ब्राह्म१८.१३क/ एवम् समेषु विषमेषु ऋणम् धनम् धनम् ऋणम् यत् उक्तम् तत् ।

ब्राह्म१८.१३ग/ ऋण-धनयोस् व्यस्तत्वम् गुण्य-प्रक्षेपयोस् कार्यम् ॥ [Cb.१६]

ब्राह्म१८.१४क/ गुणकस् छेदस् छेदस् गुणकस् धनम् ऋणम् ऋणम् धनम् कार्यम् ।

ब्राह्म१८.१४ग/ वर्गम् पदम् पदम् कृतिस् अन्त्यात् विपरीतम् आद्यम् तत् ॥ [Cb.१७]

ब्राह्म१८.१५क/ यस् जानाति युग-आदि ग्रह-युग-यातैस् पृथक् पृथक् कथितैस् ।

ब्राह्म१८.१५ग/ द्वि-त्रि-चतुर्-प्रभृतीनाम् कुट्टाकारम् सस् जानाति ॥ [Cb.७]

ब्राह्म१८.१६क/ भ-गण-आद्यम् इष्ट-शेषम् कदा इन्दु-दिवसे रवेस् गुरु-दिने वा ।

ब्राह्म१८.१६ग/ ज्ञ-दिने राशीन् कथयति कुट्टाकारम् सस् जानाति ॥ [Cb.१९]

ब्राह्म१८.१७क/ ज्ञ-दिने यत् अंश-शेषम् विकला-शेषम् कदा तत् इन्दु-दिने ।

ब्राह्म१८.१७ग/ भानोस् अथ वा शशिनस् यस् कथयति कुट्टक-ज्ञस् सस् ॥ [Cb.२०]

ब्राह्म१८.१८क/ तिथि-मान-दिनेषु इष्टास् ये अर्क-आद्यास् ते पुनर् कदा तेषु ।

ब्राह्म१८.१८ग/ इष्ट-ग्रह-वारेषु यस् कथयति कुट्टक-ज्ञस् सस् ॥ [Cb.२१]

ब्राह्म१८.१९क/ इष्ट-भ-गण-आदि-शेषात् द्यु-गणस् तत् कुट्टकेन संयुक्तस् ।

ब्राह्म१८.१९ग/ तद्-छेद-दिनैस् तावत् दिन-वारस् यावत् इष्टस् स्यात् ॥ [Cb.२२]

ब्राह्म१८.२०क/ यस् राशि-आदीन् दृष्ट्वा मध्यस्य इष्टस्य कतह्यति द्यु-गणम् ।

ब्राह्म१८.२०ग/ द्वि-आदि-ग्रह-संयोगात् ग्रह-अन्तरात् वा सस् कुट्ट-ज्ञस् ॥ [Cb.२३]

ब्राह्म१८.२१क/ निस्-छेद-भाग-हारात् राशि-आदि-कला-आदिना हतात् भक्तात् ।

ब्राह्म१८.२१ग/ भ-गण-कलाभिस् लब्धम् मण्डल-शेषम् दिन-गणस् अस्मात् ॥ [Cb.२४]

ब्राह्म१८.२२क/ एवम् राशि-अंश-कला-विकला-शेषात् अहर्-गणस् प्राक्-वत् ।

ब्राह्म१८.२२ग/ नष्ट-स्थेषु इष्टान् तान् कृत्वा भक्त्वा उक्त-वत् शेषम् ॥ [Cb.२५]

ब्राह्म१८.२३क/ राशि-अंश-कला-विकला-शेषात् कथितात् अभीष्टतस् नष्टान् ।

ब्राह्म१८.२३ग/ यस् साधयति उपरितनान् स-मध्यमान् कुट्टक-ज्ञस् सस् ॥ [Cb.२६]

ब्राह्म१८.२४क/ येन गुणस् शेष-युतस् छेदस् शुध्यति हृतस् स्व-गुणकेन ।

ब्राह्म१८.२४ग/ तद्-भुक्तम् शेषम् फलम् एवम् शेषात् ग्रह-द्यु-गणौ ॥ [Cb.२७]

ब्राह्म१८.२५क/ जानाति यस् युग-गतम् कथितात् अधिमास-शेषकात् इष्टात् ।

ब्राह्म१८.२५ग/ अवम-अवशेषतस् वा तद्-योगात् वा सस् कुट्ट-ज्ञस् ॥ [Cb.२८]

ब्राह्म१८.२६क/ इष्टेषु मान-दिवसेषु अधिमास-न्यून-रात्र-शेषे वा ।

ब्राह्म१८.२६ग/ भूयस् ते यस् कथयति पृथक् पृथक् वा सस् कुट्ट-ज्ञस् ॥ [Cb.॰]

ब्राह्म१८.२७क/ अंशक-शेषात् त्रि-ऊनात् सप्त-हृतात् मूलम् ऊनम् अष्टाभिस् ।

ब्राह्म१८.२७ग/ नवभिस् गुणम् स-रूपम् कदा शतम् बुध-दिने सवितुस् ॥ [Cb.१८]

ब्राह्म१८.२८क/ त्रि-ऊन-अधिमास-शेषात् मूलम् द्वि-अधिकम् विभाजितम् षड्भिस् ।

ब्राह्म१८.२८ग/ द्वि-ऊनम् वर्गितम् अधिकम् नवभिस् नवतिस् कदा भवति ॥ [Cb.२९]

ब्राह्म१८.२९क/ अवम-अवशेष-वर्गस् वि-एकस् विंशति-विभाजितस् द्वि-अधिकस् ।

ब्राह्म१८.२९ग/ अष्ट-गुणस् दश-भक्तस् द्वि-युतस् अष्टादश कदा भवति ॥ [Cb.३०]


धन-ऋण-शून्यम्[सम्पाद्यताम्]

ब्राह्म१८.३०क/ धनयोस् धनम् ऋणम् ऋणयोस् धन-ऋणयोस् अन्तरम् सम-ऐक्यम् खम् ।

ब्राह्म१८.३०ग/ ऋणम् ऐक्यम् च धनम् ऋण-धन-श्ऊन्ययोस् श्ऊन्ययोस् श्ऊन्यम् ॥ [Cb.३१]

ब्राह्म१८.३१क/ ऊनम् अधिकात् विशोध्यम् धनम् धनात् ऋणम् ऋणात् अधिकम् ऊनात् ।

ब्राह्म१८.३१ग/ व्यस्तम् तद्-अन्तरम् स्यात् ऋणम् धनम् धनम् ऋणम् भवति ॥ [Cb.३२]

ब्राह्म१८.३२क/ श्ऊन्य-विहीनम् ऋणम् ऋणम् धनम् धनम् भवति श्ऊन्यम् आकाशम् ।

ब्राह्म१८.३२ग/ शोध्यम् यदा धनम् ऋणात् ऋणम् धनात् वा तदा क्षेप्यम् ॥ [Cb.३३]

ब्राह्म१८.३३क/ ऋणम् ऋण-धनयोस् घातस् धनम् ऋणयोस् धन-वधस् धनम् भवति ।

ब्राह्म१८.३३ग/ श्ऊन्य-ऋणयोस् ख-धनयोस् ख-श्ऊन्ययोस् वा वधस् श्ऊन्यम् ॥ [Cb.३४]

ब्राह्म१८.३४क/ धन-भक्तम् धनम् ऋण-हृतम् ऋणम् धनम् भवति खम् ख-भक्तम् खम् ।

ब्राह्म१८.३४ग/ भक्तम् ऋणेन धनम् ऋणम् धनेन हृतम् ऋणम् ऋणम् भवति ॥ [Cb.३४]

ब्राह्म१८.३५क/ ख-उद्धृतम् ऋणम् धनम् वा तद्-छेदम् खम् ऋण-धन-विभक्तम् वा ।

ब्राह्म१८.३५ग/ ऋण-धनयोस् वर्गस् स्वम् खम् खस्य पदम् कृतिस् यत् तत् ॥ [Cb.३६]


सङ्क्रमणम्[सम्पाद्यताम्]

ब्राह्म१८.३६क/ योगस् अन्तर-युत-हीनस् द्वि-हृतस् सङ्क्रमणम् अन्तर-विभक्तम् वा ।

ब्राह्म१८.३६ग/ वर्ग-अन्तरम् अन्तर-युत-हीनम् द्वि-हृतम् विषम-कर्म ॥ [Cb.३७]


करणी[सम्पाद्यताम्]

ब्राह्म१८.३७क/ करणी लम्बस् तद्-कृतिस् इष्ट-हृता इष्ट-ऊन-संयुता अल्पा भूस् ।

ब्राह्म१८.३७ग/ अधिकस् द्वि-हृतस् बाहुस् संक्षेप्यस् यद्-वधस् वर्गस् ॥ [Cb.३८॑ द्विवेदी - संक्षेप्पस्]

ब्राह्म१८.३८क/ इष्ट-उद्धृत-करणी-पद-युति-कृतिस् इष्ट-गुणिता अन्तर-कृतिस् वा ।

ब्राह्म१८.३८ग/ गुण्यस् तिर्यक् अधस् अधस् गुणक-समस् तद्-गुणस् सहितस् ॥ [Cb.३९]

ब्राह्म१८.३९क/ स्व-इष्ट-ऋण-छेद-गुणौ भाज्य-छेदौ पृथक् युजौ असकृत् ।

ब्राह्म१८.३९ग/ छेद-एक-गत-हृतस् वा भाज्यस् वर्गस् सम-द्वि-वधस् ॥ [Cb.४०]

ब्राह्म१८.४०क/ इष्ट-करणी-ऊनायास् रूप-कृतेस् पद-युत-ऊन-रूप-अर्धे ।

ब्राह्म१८.४०ग/ प्रथमम् रूपाणि अन्यत् ततस् द्वितीयम् करणी असकृत् ॥ [Cb.४१]

ब्राह्म१८.४१क/ अव्यक्त-वर्ग-घन-वर्ग-वर्ग-पञ्च-गत-षष्-गत-आदीनाम् ।

ब्राह्म१८.४१ग/ तुल्यानाम् सङ्कलित-व्यवकलिते पृथक् अतुल्यानाम् ॥ [Cb.४२]

ब्राह्म१८.४२क/ सदृश-द्वि-वधस् वर्गस् त्रि-आदि-वधस् तद्-गतस् अन्य-जाति-वधस् ।

ब्राह्म१८.४२ग/ अन्योन्य-वर्ण-घातस् भावितकस् पूर्व-वत् शेषम् ॥ [Cb.४३]


एक-वर्ण-समी-करणम्[सम्पाद्यताम्]

ब्राह्म१८.४३क/ अव्यक्त-अन्तर-भक्तम् व्यस्तम् रूप-अन्तरम् समे अव्यक्तस् ।

ब्राह्म१८.४३ग/ वर्ग-अव्यक्तास् शोध्यास् यस्मात् रूपाणि तद्-अधस्तात् ॥ [Cb.४४]

ब्राह्म१८.४४क/ वर्ग-चतुर्-गुणितानाम् रूपाणाम् मध्य-वर्ग-सहितानाम् ।

ब्राह्म१८.४४ग/ मूलम् नध्येन ऊनम् वर्ग-द्वि-गुण-उद्धृतम् मध्यस् ॥ [Cb.४८]

ब्राह्म१८.४५क/ वर्ग-आहत-रूपाणाम् अव्यक्त-अर्ध-कृति-संयुतानाम् यत् ।

ब्राह्म१८.४५ग/ पदम् अव्यक्त-अर्ध-ऊनम् तत् वर्ग-विभक्तम् अव्यक्तस् ॥ [Cb.५०]

ब्राह्म१८.४६क/ स-एकात् अंशक-शेषात् द्वादश-भागस् चतुर्-गुणस् अष्ट-युतस् ।

ब्राह्म१८.४६ग/ स-एक-अंश-शेष-तुल्यस् यदा तदा अहर्-गणम् कथय ॥ [Cb.४५]

ब्राह्म१८.४७क/ द्वि-ऊनम् अधिक-मास-शेषम् त्रि-हृतम् सप्त-अधिकम् द्वि-सङ्गुणितम् ।

ब्राह्म१८.४७ग/ अधिमास-शेष-तुल्यम् यदा तदा युग-गतम् कथय ॥ [Cb.४६]

ब्राह्म१८.४८क/ वि-एकम् अवम-अवशेषम् षष्-उद्धृतम् त्रि-युतम् अवम-शेषस्य ।

ब्राह्म१८.४८ग/ पञ्च-विभक्तस्य समम् यदा तदा युग-गतम् कथय ॥ [Cb.४७]

ब्राह्म१८.४९क/ मण्डल-शेषात् द्वि-ऊनात् मूलम् वि-एकम् दश-आहतम् द्वि-युतम् ।

ब्राह्म१८.४९ग/ मण्डल-शेषम् वि-एकम् भानोस् ज्ञ-दिने कदा भवति ॥

ब्राह्म१८.५०क/ अधिमास-शेष-पादात् त्रि-ऊनात् वर्गस् अधिमास-शेष-समस् ।

ब्राह्म१८.५०ग/ अवम-अवशेषतस् वा अवम-शेष-समस् कदा भवति ॥ [Cb.५१]


अनेक-वर्ण-समी-करणम्[सम्पाद्यताम्]

ब्राह्म१८.५१क/ आद्यात् वर्णात् अन्यान् वर्णान् प्रोह्य आद्य-मानम् आड्य-हृतम् ।

ब्राह्म१८.५१ग/ सदृश-छेदौ असकृत् द्वौ व्यस्तौ कुट्टकस् बहुषु ॥ [Cb.५२]

ब्राह्म१८.५२क/ गत-भगण-युतात् द्यु-गणात् तद्-शेष-युतात् तद्-ऐक्य-संयुक्तात् ।

ब्राह्म१८.५२ग/ तद्-योगात् द्यु-गणम् वा यस् कथयति कुट्टक-ज्ञस् सस् ॥ [Cb.५३]

ब्राह्म१८.५३क/ गत-भगण-ऊनात् द्यु-गणात् तद्-शेष-ऊनात् तद्-ऐक्य-हीनात् वा ।

ब्राह्म१८.५३ग/ तद्-विवरात् द्यु-गणम् वा यस् कथयति कुट्टक-ज्ञस् सस् ॥ [Cb.५४]

ब्राह्म१८.५४क/ राशि-आद्यैस् तद्-शेषैस् च एवम् भुक्त-अधिमास-दिन-हीनैस् ।

ब्राह्म१८.५४ग/ तद्-शेषैस् च युग-गतम् यस् कथयति कुट्टक-ज्ञस् सस् ॥ [Cb.५५]

ब्राह्म१८.५५क/ अंशक-शेषेण युतात् लिप्ता-शेषात् तद्-अन्तरात् अथ वा ।

ब्राह्म१८.५५ग/ भानोस् ज्ञ-दिने द्यु-गणम् यस् कथयति कुट्टक-ज्ञस् सस् ॥ [Cb.५६]

ब्राह्म१८.५६क/ अंशक-शेषम् त्रि-युतम् लिप्ता-शेषम् कदा रवेस् ज्ञ-दिने ।

ब्राह्म१८.५६ग/ षट् सप्त अष्टौ नव वा कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.५७]

ब्राह्म१८.५७क/ अंश-समम् अंश-शेषम् कला-समम् वा कला-शेषम् ।

ब्राह्म१८.५७ग/ दिवस-करस्य इष्ट-दिने कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.५८]

ब्राह्म१८.५८क/ अवम-अवशेषम् अवमैस् अधिमासक-शेषम् अधिमासैस् ।

ब्राह्म१८.५८ग/ इष्ट-युत-ऊनम् तुल्यम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.५९]

ब्राह्म१८.५९क/ निस्-छेद-भाग-हारस् भानोस् सप्तति-गुणस् अंश-शेष-ऊनस् ।

ब्राह्म१८.५९ग/ शुध्यति अयुत-विभक्तस् कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.६०]


भावितकम्[सम्पाद्यताम्]

ब्राह्म१८.६०क/ भावितक-रूप-गुणना स-अव्यक्त-वधा इष्ट-भाजिता इष्ट-आप्त्योस् ।

ब्राह्म१८.६०ग/ अल्पे अधिकस् अधिके अल्पस् क्षेप्यस् भावित-हृतौ व्यस्तम् ॥ [Cb.६१]

ब्राह्म१८.६१क/ भानोस् राशि-अंश-वधात् त्रि-चतुर्-गुणितान् विशोध्य राशि-अंशान् ।

ब्राह्म१८.६१ग/ नवतिम् दृष्ट्वा सूर्यम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.६२]

ब्राह्म१८.६२क/ भावितके यद्-घातस् विनष्ट-वर्णेन तद्-प्रमाणानि ।

ब्राह्म१८.६२ग/ कृत्वा इष्टानि तद्-आहत-वर्ण-ऐक्यम् भवति रूपाणि ॥ [Cb.६६]

ब्राह्म१८.६३क/ वर्ण-प्रमाण-भावित-घातस् भवति इष्ट-वर्ण-सङ्ख्या एवम् ।

ब्राह्म१८.६३ग/ सिध्यति विना अपि भावित-सम-करणात् किम् कृतम् तत् अतस् ॥ [Cb.६४]


वर्ग-प्रकृतिस्[सम्पाद्यताम्]

ब्राह्म१८.६४क/ मूलम् द्विधा इष्ट-वर्गात् गुणक-गुणात् इष्ट-युत-विहीनात् च ।

ब्राह्म१८.६४ग/ आद्य-वधस् गुणक-गुणस् सह अन्त्य-घातेन कृतम् अन्त्यम् ॥ [Cb.६५]

ब्राह्म१८.६५क/ वज्र-वध-ऐक्यम् प्रथमम् प्रक्षेपस् क्षेप-वध-तुल्यस् ।

ब्राह्म१८.६५ग/ प्रक्षेप-शोधक-हृते मूले प्रक्षेपके रूपे ॥ [Cb.६६]

ब्राह्म१८.६६क/ रूप-प्रक्षेप-पदे पृथक् इष्ट-क्षेप्य-शोध्य-मूलाभ्याम् ।

ब्राह्म१८.६६ग/ कृत्वा अन्त्य-आद्य-पदे ये प्रक्षेपे शोधने वा इष्टे ॥ [Cb.६८]

ब्राह्म१८.६७क/ चतुर्-अधिके अन्त्य-पद-कृतिस् त्रि-ऊना दलिता अन्त्य-पद-गुणा अन्त्य-पदम् ।

ब्राह्म१८.६७ग/ अन्त्य-पद-कृतिस् वि-एका द्वि-हृता आद्य-पद-आहता आद्य-पदम् ॥ [Cb.६९]

ब्राह्म१८.६८क/ चतुर्-ऊने अन्त्य-पद-कृती त्रि-एक-युते वध-दलम् पृथक् वि-एकम् ।

ब्राह्म१८.६८ग/ वि-एक-आड्य-आहतम् अन्त्यम् पद-वध-गुणम् आद्यम् आन्त्य-पदम् ॥ [Cb.७१]

ब्राह्म१८.६९क/ वर्गे गुणके क्षेपस् केन चित् उद्धृत-युत-ऊनितस् दलितस् ।

ब्राह्म१८.६९ग/ प्रथमस् अन्त्य-मूलम् अन्यस् गुण-कार-पद-उद्धृतस् प्रथमस् ॥ [Cb.७३]

ब्राह्म१८.७०क/ वर्ग-छिन्ने गुणके प्रथमम् तद्-मूल-भाजितम् भवति ।

ब्राह्म१८.७०ग/ वर्ग-छिन्ने क्षेपे तद्-पद-गुणिते तदा मूले ॥ [Cb.७५]

ब्राह्म१८.७१क/ गुणक-युतिस् अष्ट-गुणिता गुणक-अन्तर-वर्ग-भाजिता राशिस् ।

ब्राह्म१८.७१ग/ गुणकौ त्रि-गुणौ व्यस्त-अधिकौ हृतौ अन्तरेण पदे ॥ [Cb.७८]

ब्राह्म१८.७२क/ वर्गस् अन्य-कृति-युत-ऊनस् तद्-संयोग-अन्तर-अर्ध-कृति-भक्तस् ।

ब्राह्म१८.७२ग/ तद्-गुणितौ युति-वियुतौ वर्गौ घाते च रूप-युते ॥ [Cb.७२]

ब्राह्म१८.७३क/ यैस् ऊनस् यैस् च युतस् रूपैस् वर्गस् तद्-ऐक्यम् इष्ट-हृतम् ।

ब्राह्म१८.७३ग/ इष्ट-ऊनम् तद्-दल-कृतिस् ऊना अभ्यधिका भवति राशिस् ॥ [Cb.८४]

ब्राह्म१८.७४क/ याभ्याम् कृतिस् अधिक-ऊनस् तद्-अन्तरम् हृत-युत-ऊनम् इष्टेन ।

ब्राह्म१८.७४ग/ तद्-दल-कृतिस् अधिक-ऊना अधिकयोस् अधिक-ऊनयोस् राशिस् ॥ [Cb.८२]


उदाहरणानि[सम्पाद्यताम्]

ब्राह्म१८.७५क/ राशि-कला-शेष-कृतिम् द्विनवति-गुणिताम् त्र्यशीति-गुणिताम् वा ।

ब्राह्म१८.७५ग/ स-एका ज्ञ-दिने वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.६७]

ब्राह्म१८.७६क/ सूर्य-विलिप्ता-शेषम् पञ्चभिस् ऊन-आहतम् तथा दशभिस् ।

ब्राह्म१८.७६ग/ वर्गे बृहस्पति-दिने कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.८६]

ब्राह्म१८.७७क/ भ-गण-आदि-शेष-वर्गम् त्रिभिस् गुणम् संयुतम् शतैस् नवभिस् ।

ब्राह्म१८.७७ग/ कृतिम् अष्ट-शत-ऊनम् वा कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.७०]

ब्राह्म१८.७८क/ भ-गण-आदि-शेष-वर्गम् चतुर्-गुणम् पञ्चषष्टि-संयुक्तम् ।

ब्राह्म१८.७८ग/ षष्टि-ऊनम् वा वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.७४]

ब्राह्म१८.७९क/ इष्ट-भगण-आदि-शेषम् द्विनवति-ऊनम् त्र्यशीति-संगुणितम् ।

ब्राह्म१८.७९ग/ रूपेण युतम् वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.८७]

ब्राह्म१८.८०क/ अधिमास-शेष-वर्गम् त्रयोदश-गुणम् त्रिभिस् शतैस् युक्तम् ।

ब्राह्म१८.८०ग/ त्रि-घन-ऊनम् वा वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.७२]

ब्राह्म१८.८१क/ इन्दु-विलिप्ता-शेषम् सप्तदश-गुणम् त्रयोदश-गुणम् च अपि ।

ब्राह्म१८.८१ग/ पृथक् एक-युतम् वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.७९]

ब्राह्म१८.८२क/ अवम-अवशेष-वर्गम् द्वादश-गुणितम् शतेन संयुक्तम् ।

ब्राह्म१८.८२ग/ त्रिभिस् ऊनम् वा वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.७६]

ब्राह्म१८.८३क/ ज्ञ-दिने अर्क-कला-शेषम् गुरु-दिन-विकला-अवशेष-युक्त-ऊनम् ।

ब्राह्म१८.८३ग/ वर्गम् वधम् च स-एकम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.८१]

ब्राह्म१८.८४क/ विकला-शेषम् सहितम् त्रिनवत्या सप्तषष्टि-हीनम् च ।

ब्राह्म१८.८४ग/ भानोस् ज्ञ-दिने वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.८५]

ब्राह्म१८.८५क/ ज्ञ-दिने अर्क-कला-शेषम् द्वादशभिस् संयुतम् त्रिषष्ट्या च ।

ब्राह्म१८.८५ग/ षष्ट्या अष्टभिस् च ऊनम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.८३]

ब्राह्म१८.८६क/ इन्दु-विलिप्ता-शेषात् रवि-लिप्ता-शेषम् अंश-शेषम् वा ।

ब्राह्म१८.८६ग/ अथ वा मध्यमम् इष्टम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.८८]

ब्राह्म१८.८७क/ जीव-विलिप्ता-शेषात् कु-जम् इन्दुम् भौम-लिप्तिका-शेषात् ।

ब्राह्म१८.८७ग/ रविम् इन्दु-भाग-शेषात् कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.८९]

ब्राह्म१८.८८क/ इष्ट-ग्रह-इष्ट-शेषात् द्यु-गणस् गत-निस्-अपवर्त-संगुणितैस्/ [द्विवेदी - -अपवर्त्त- < -अपवर्त-]

ब्राह्म१८.८८ग/ छेद-दिनैस् अधिकस् अस्मात् अन्य-ग्रह-शेषम् इष्टस् वा ॥ [Cb.९०]

ब्राह्म१८.८९क/ निस्-छेद-भाग-हारौ ग्रहयोस् विपरीतौ ग्रहयोस् द्यु-गणात् ।

ब्राह्म१८.८९ग/ यस्मात् तद्-निस्-छेदेन उद्धृतयोस् लब्ध-संगुणितौ ॥ [द्विवेदी - उद्धतयोस् < उद्धृतयोस्, Cb.८९]

ब्राह्म१८.९०क/ निस्-छेद-भाग-हारौ विपरीतौ तद्-युतात् पुनर् तस्मात् ।

ब्राह्म१८.९०ग/ शेषे द्यु-गणात् एवम् त्रि-आदीनाम् प्राक्-वत् इष्ट-दिने ॥ [Cb.९१]

ब्राह्म१८.९१क/ द्यु-गणम् अवम-अवशेषात् रवि-चन्द्रौ मध्यमौ स्फुटौ अथ वा ।

ब्राह्म१८.९१ग/ एवम् तिथिम् ग्रहम् वा कुर्वन् आ वत्सरात् गणकस् ॥ [Cb.९२]

ब्राह्म१८.९२क/ एक-दिनम् अवम-शेषम् यद्-गुणम् एक-रवि-चन्द्र-भ-गण-ऊनम् ।

ब्राह्म१८.९२ग/ शुध्यति भू-दिन-भक्तम् वि-एकम् चान्द्रैस् तद्-उक्तिस् इयम् ॥ [Cb.९३]

ब्राह्म१८.९३क/ इषु-श्अर-कृत-अष्ट-३दिग्भिस् १०८४५५ सङ्गुणितात् अवम-शेषकात् भक्तात् ।

ब्राह्म१८.९३ग/ रूप-अष्ट-वेद-रस-श्ऊन्य-श्अर-गुणैस् ३५०६४८१ दिन-गणस् शेषम् ॥ [Cb.९४]

ब्राह्म१८.९४क/ जिन-रस-गो-अब्धि-रद-३२४९६२४-गुणात् श्अशि-वसु-कृत-रस-ख-भूत-राम-३५०६४८१-हृतात् ।

ब्राह्म१८.९४ग/ इष्ट-अवम-शेषात् यत् शेषम् रवि-भ-गण-शेषम् तत् ॥ [Cb.९५]

ब्राह्म१८.९५क/ गो-अग-इन्दु-ख-ईश-११०१७९-गुणितात् भक्तात् नख-पक्ष-यम-रस-इषु-गुणैस् ३५६२२२० ।

ब्राह्म१८.९५ग/ शेषम् अवम-अवशेषात् तिथयस् अवम-शेषकात् विकलम् ॥ [Cb.९६]

ब्राह्म१८.९६क/ भाग-कला-विकला-ऐक्यम् दृष्ट्वा विकला-अन्तरम् च के शेषे ।

ब्राह्म१८.९६ग/ ऐक्यम् द्विधा अन्तर-अधिक-हीनम् च द्वि-भाजितम् शेषे ॥ [Cb.९७]

ब्राह्म१८.९७क/ तद्-वर्ग-अन्तरम् आद्ये तद्-अन्तरम् च अनतर-उद्धृत-युत-ऊनम् ।

ब्राह्म१८.९७ग/ वर्ग-अन्तरम् विभक्तम् द्वाभ्याम् शेषे ततस् द्यु-गणस् ॥ [Cb. ९८]

ब्राह्म१८.९८क/ [कृति-संयोगात् द्वि-गुणात् युति-वर्गम् प्रोह्य शेष-मूलम् यत् ।

ब्राह्म१८.९८ग/ तेन युत-ऊनस् योगस् दलितस् शेषे पृथक् अभीष्टे ॥ Cb.९९]

ब्राह्म१८.९९क/ शेष-वधात् द्वि-कृति-गुणात् शेष-अन्तर-वर्ग-संयुतात् मूलम् ।

ब्राह्म१८.९९ग/ शेष-अन्तर-ऊन-युक्तम् दलितम् शेषे पृथक् अभीष्टे ॥ [Cb.१००]

ब्राह्म१८.१००क/ हृदि-घात्रम् अमी प्रश्नास् प्रश्नान् अन्यान् सहस्र-शस् कुर्यात्/ [द्विवेदी - हृदि-घात्रम् > हृद्-मात्रम्]

ब्राह्म१८.१००ग/ अन्यैस् दत्तान् प्रश्नान् उक्त्या एवम् साधयेत् करणैस् ॥ [Cb.१०१]

ब्राह्म१८.१०१क/ जन-संसदि दैव-विदाम् तेजस् नाशयति भानुस् इव भानाम् ।

ब्राह्म१८.१०१ग/ कुट्टाकार-प्रश्नैस् पथितैस् अपि किम् पुनर् शत-शस् ॥ [Cb.१०२, द्विवेदी - शत-शस् > सूत्रैस्]

ब्राह्म१८.१०२क/ प्रति-सूत्रम् अमी प्रश्नास् पथितास् स-उद्देशकेषु सूत्रेषु ।

ब्राह्म१८.१०२ग/ आर्या-त्रि-अधिक-शतेन च कुट्टस् च अष्टादशस् अध्यायस् ॥ [Cb.१०३]

ब्राह्म१८.१०२प्/ इति श्री-ब्राह्मस्फुटसिद्धान्ते कुट्टक-अध्यायस् अष्टादशस् ॥



शङ्कु-छाया-आदि-ज्ञानम्[सम्पाद्यताम्]

प्रश्नास्[सम्पाद्यताम्]

ब्राह्म१९.१क/ दृष्ट्वा दिन-अर्ध-घटिका यस् अर्क-ज्ञस् अक्ष-अंशकान् विजानाति ।

ब्राह्म१९.१ग/ उदय-अन्तर-घटिकाभिस् ज्ञातात् ज्ञेयम् सस् तन्त्र-ज्ञस् ॥

ब्राह्म१९.२क/ अस्त-अन्तर-घटिकाभिस् यस् ज्ञातात् ज्ञेयम् आनयति तस्त्मात् ।

ब्राह्म१९.२ग/ मध्य-गतिम् युग-भ-गणान् आनयति ततस् सस् तन्त्र-ज्ञस् ॥

ब्राह्म१९.३क/ आनयति यस् तमस्-रवि-शश-अङ्क-मानानि दीपक-शिख-औच्च्यात् ।

ब्राह्म१९.३ग/ शङ्कु-तल-अन्तर-भूमि-ज्ञाने छायाम् सस् तन्त्र-ज्ञस् ॥

ब्राह्म१९.४क/ इष्ट-गृह-औच्च्य-ज्ञस् यस् तद्-अन्तर-ज्ञस् निरीक्ष्यते तु जले ।

ब्राह्म१९.४ग/ गृह-भित्ति-अग्रम् दर्शयति दर्पणे वा सस् तन्त्र-ज्ञस् ॥

ब्राह्म१९.५क/ छाया-द्वितीय-भा-अग्र-अन्तर-विज्ञानेन वेत्ति दीप-औच्यम् ।

ब्राह्म१९.५ग/ शङ्कु-छाया-ज्ञस् वा भूमेस् छायाम् सस् तन्त्र-ज्ञस् ॥ [द्विवेदी - शङ्क- < शङ्कु-]

ब्राह्म१९.६क/ दृष्ट्वा गृह-तल-अन्तर-जालभोस् दृष्ट्वा अग्रम् गृहस्य भूमि-ज्ञस्/ [द्विवेदी - दृष्ट्वा गृह-तल-अन्तर-जालभोस् > गृह-पुरुष-अन्तर-सलिले यस्]

ब्राह्म१९.६ग/ वेत्ति गृह-औच्च्यम् दृष्ट्वा तैल-स्थम् वा सस् तन्त्र-ज्ञस् ॥

ब्राह्म१९.७क/ वीक्ष्य गृह-अग्रम् सलिले प्रसार्य सलिलम् पुनर् स्व-भू-ज्ञाने ।

ब्राह्म१९.७ग/ आनयति जलात् भूमिम् गृहस्य वा औच्च्यम् सस् तन्त्र-ज्ञस् ॥

ब्राह्म१९.८क/ ज्ञातैस् छाया-पुरुषैस् विज्ञाते तोय-कुड्ययोस् विवरे ।

ब्राह्म१९.८ग/ कुड्ये अर्क-तेजसस् यस् वेत्ति आरूढिम् सस् तन्त्र-ज्ञस् ॥


उत्तराणि[सम्पाद्यताम्]

ब्राह्म१९.९क/ इष्ट-दिवस-अर्ध-घटिका घटिका-पञ्चदश-अन्तर-प्राणास् ।

ब्राह्म१९.९ग/ तद्-दिवस-चर-प्राणास् तैस् अक्षम् साधयेत् प्राक्-वत् ॥

ब्राह्म१९.१०क/ ज्ञात-ज्ञेय-ग्रहयोस् उदय-अन्तर-नाडिकाभिस् अधिक-ऊनस् ।

ब्राह्म१९.१०ग/ उदयैस् ज्ञातस् ज्ञातात् ज्ञेयस् प्राक्-अपरयोस् ज्ञेयस् ॥

ब्राह्म१९.११क/ ज्ञातस् स-भ-अर्धस् उदयैस् अस्त-अन्तर-नाडिकाभिस् अधिक-ऊनस् ।

ब्राह्म१९.११ग/ ज्ञातात् पूर्व-अपरयोस् ज्ञेयस् भ-अर्ध-ऊनके ज्ञेयस् ॥

ब्राह्म१९.१२क/ ज्ञातम् कृत्वा मध्यम् भूयस् अन्य-दिने तद्-अन्तरम् भुक्तिस् ।

ब्राह्म१९.१२ग/ त्रैराशिकेन भुक्त्या कल्प-ग्रह-मण्डल-आनयनम् ॥

ब्राह्म१९.१३क/ स्थिति-अर्धात् विपरीतम् तमस्-प्रमाणम् स्फुटम् ग्रहणे ।

ब्राह्म१९.१३ग/ मान-उदयात् रवि-इन्द्वोस् घटिका-अवयवेन भ-उदय-तस् ॥

ब्राह्म१९.१४क/ दीप-तल-शङ्कु-तलयोस् अन्तरम् इष्ट-प्रमाण-शङ्कु-गुणम् ।

ब्राह्म१९.१४ग/ दीप-शिख-औच्च्यात् शङ्कुम् विशोध्य शेष-उद्धृतम् छाया ॥

ब्राह्म१९.१५क/ शङ्कु-अन्तरेण गुणिता छाया छाया-अन्तरेण भक्ता भूस् ।

ब्राह्म१९.१५ग/ स-छाया शङ्कु-गुणा दीप-औच्च्यम् छायया भक्ता ॥

ब्राह्म१९.१६क/ ज्ञात्वा शङ्कु-छायाम् अनुपातात् साधयेत् समुच्छ्रायान् ।

ब्राह्म१९.१६ग/ गृह-चैत्य-तरु-नगानाम् औच्च्यम् विज्ञाय वा छायाम् ॥

ब्राह्म१९.१७क/ युत-दृष्टि-गृह-औच्च्य-हृता हि अन्तर-भूमिस् दृक्-औच्च्य-सङ्गुणिता ॥

ब्राह्म१९.१७ग/ फल-भूस् न्यस्ते तोये प्रति-रूप-अग्रम् गृहस्य नरात् ॥

ब्राह्म१९.१८क/ गृह-पुरुष-अन्तर-सलिले वीक्ष्य गृह-अग्रम् दृक्-औच्च्य-सङ्गुणितम् ।

ब्राह्म१९.१८ग/ गृह-तोय-अन्तरम् औच्च्यम् गृहस्य नृ-जल-अन्तरेण हृतम् ॥

ब्राह्म१९.१९क/ प्रथम-द्वितीय-नृ-जल-अन्तर-अन्तरेण उद्धृता जल-अपसृतिस् ।

ब्राह्म१९.१९ग/ दृष्टि-औच्च्य-गुणा उच्छ्रायस् तोयात् नृ-जल-अन्तर-गुणा भूस् ॥

ब्राह्म१९.२०क/ छाया-पुरुष-छिन्नम् जल-कुड्य-अन्तरम् अवाप्तम् आरूढिस् ।

ब्राह्म१९.२०ग/ अध्यायस् विंशति-आर्याणाम् एकोनविंशस् अयम् ॥


छन्दस्-चिति-उत्तरम्[सम्पाद्यताम्]

ब्राह्म२०.१क/ ऋग्वर्गः पर्यायः समूहयोगावयुक्षु युग्मेषु ।

ब्राह्म२०.१ग/ सोयाः प्राग्वत्प्राप्तादाश्चतुष्ककाः शेषयुक्त्योन्त्यः ॥

ब्राह्म२०.२क/ एकादियुतविहीनावाद्यन्तौ तद्विपर्ययौ यावत् ।

ब्राह्म२०.२ग/ वर्गादिषु विषमयुजां क्रमोत्क्रमाद्वर्धयेत्पादान् ॥

ब्राह्म२०.३क/ एकैकेन द्व्याद्व्याः सोप्पप्पधिकेषु तत्प्रतिष्ठेषु ।

ब्राह्म२०.३ग/ वर्गादिरभीष्टान्तः प्रस्तारो भवति यवमध्यः ॥

ब्राह्म२०.४क/ सूनोन्त्यो द्विपदाग्रं त्रिपदाद्यानामधः पृथक् संख्या ।

ब्राह्म२०.४ग/ तच्छोध्यो व्येकः पृथग्न्ताद्रूपमूर्ध्वयुतम् ॥

ब्राह्म२०.५क/ यावत् पादाव्येकागच्छाद्वर्णेष्वथैकवृद्धेषु ।

ब्राह्म२०.५ग/ रूपाद्युतघाते वर्गाद्यानां परा संख्या ॥

ब्राह्म२०.६क/ रूपाधिकपादार्धेविषमेषूर्ध्वः समेषु पादार्धे ।

ब्राह्म२०.६ग/ अर्धाद्विगुणाव्येकांयुलान्यधस्तस्य सर्वेषाम् ॥

ब्राह्म२०.७क/ माध्यैस् तथार्धहीनैः क्रमपादैर् व्यस्ततुल्यपादाद्यः ।

ब्राह्म२०.७ग/ विषमेरव्येकं मध्ये प्रोह्याद्यान्यतः कुर्यात् ॥

ब्राह्म२०.८क/ सैकक्रमतुल्याद्यैर् न्यासोऽभ्यधिको विशोधितश् चाधः ।

ब्राह्म२०.८ग/ संख्यैक्यं तादृक् यादृक् प्रथमस् त्रिरहितो नष्टे ॥

ब्राह्म२०.९क/ माध्यैः कृतैश् च दलितैः समसंख्यायां क्रमोत्क्रमात् क्षेप्पम् ।

ब्राह्म२०.९ग/ विषमायां व्येकायां दलम् क्रमाद् उत्त्क्रमात् सैकम् ॥

ब्राह्म२०.१०क/ समसंख्यायां सोपानक्रमोत्क्रमाभ्यां तथैव विषमाभ्याम् ।

ब्राह्म२०.१०ग/ कल्प्या पचिते दृष्टे प्रथमः शेषाक्षराण्यन्ते ॥

ब्राह्म२०.११क/ समदलसमविषमाणां संख्यापादार्धसर्वकल्पवधः ।

ब्राह्म२०.११ग/ स्वाद्यवधोऽन्यैः पादैः स्वपरस्य प्राग्वधः सैकैः ॥

ब्राह्म२०.१२क/ आद्यादनन्तरोऽधः कल्प्पोऽन्यतुल्यमाद्यः प्राक् ।

ब्राह्म२०.१२ग/ न्यासो वर्गोऽन्योनः प्रस्तारोऽर्धसमविषमाणाम् ॥

ब्राह्म२०.१३क/ नष्टेन्त्यात् स्वाधस्थोनकल्पघातोऽर्धतुल्यविषमाणाम् ।

ब्राह्म२०.१३ग/ व्येकः पृथक् स्ववर्गोद्धृतः फलं तुल्यकल्यानाम् ॥

ब्राह्म२०.१४क/ उद्दिष्टे कल्पहृतेऽतीतैः प्रथमः फले सरूपे ऽन्यः ।

ब्राह्म२०.१४ग/ असकृद्वर्गांशयुते सैके वार्धसमविषमाणाम् ॥

ब्राह्म२०.१५क/ कपेषु पृथक् गुरुलघुसंख्यैकादिभाजिता प्राग्वत् ।

ब्राह्म२०.१५ग/ विषमेष्वाद्यलघूनो लघुभिर् मेरुः समादीनाम् ॥

ब्राह्म२०.१६क/ एकद्वितयोः परतो द्विसंगुणोऽनन्तराद्विरूपोऽधः ।

ब्राह्म२०.१६ग/ वर्गधराद्योनोदलसमविषमाणां ध्वजो लघुभिः ॥

ब्राह्म२०.१७क/ लघुसंख्या पददलिता परतोऽधोऽधश् च शुध्यति हृता यैः ।

ब्राह्म२०.१७ग/ द्विगुणान्तैः शुद्धैर् वर्गपरैर् मन्दरो लघुभिः ॥

ब्राह्म२०.१८क/ कृत्वाधोऽधः कल्प्यान्येकाद्येकोत्तरानधस्तेषाम् ।

ब्राह्म२०.१८ग/ स्वात् परतोऽन्यैक्यम् अधः प्रस्ताराद् उक्तवद् इहाद्यैः ॥

ब्राह्म२०.१९क/ गुरुषष्ट्येकानिघटीद्विगुणान्येकांगुलानि संख्या स्यात् ।

ब्राह्म२०.१९ग/ द्राविंशतिर् आर्याणां छन्दश्चित्युत्तरोऽध्यायः ॥

ब्राह्म२०.१९प्/ इति श्री-ब्राह्मस्फुट-सिद्धान्ते छन्दश्चित्युत्तराध्यायो विंशतितमः ॥


गोल[सम्पाद्यताम्]

ज्या-प्रकरणम्[सम्पाद्यताम्]

ब्राह्म२१.१७क/ राशि-अष्ट-अंशेषु अङ्कान् पद-सन्धिभ्यस् क्रम-उत्क्रमात् कृत्वा ।

ब्राह्म२१.१७ग/ बध्नीयात् सूत्राणि द्वयोस् द्वयोस् ज्यास् तद्-अर्धानि ॥

ब्राह्म२१.१८क/ ज्या-अर्धानि ज्या-अर्धानाम् ज्या-खण्डानि अन्तराणि ।

ब्राह्म२१.१८ग/ व्यस्तानि अन्त्यात् अथ वा इषुस् उत्क्रम-ज्या धनुस् ताभ्याम् ॥

ब्राह्म२१.१९क/ एक-द्वि-त्रि-गुणायास् व्यास-अर्ध-कृतेस् पृथक् चतुर्थेभ्यस् ।

ब्राह्म२१.१९ग/ मूलानि अष्ट-द्वादश-षोडश-खण्डानि अतस् अन्यानि ॥

ब्राह्म२१.२०क/ तुल्य-क्रम-उत्क्रम-ज्या-सम-खण्डक-वर्ग-युति-चतुर्-भागम् ।

ब्राह्म२१.२०ग/ प्रोह्य अनष्टम् व्यास-अर्ध-वर्गतस् तद्-पदे प्रथमम् ॥

ब्राह्म२१.२१क/ तद्-दल-खण्डानि तद्-ऊन-जिन-समानि द्वितीयम् उत्पत्तौ ।

ब्राह्म२१.२१ग/ कृत-यमल-एक-दिश्-ईश-इषु-सप्त-रस-गुण-नव-आदीनाम् ॥

ब्राह्म२१.२२क/ एवम् जीवा-खण्डानि अल्पानि बहूनि वा आद्य-खण्डानि ।

ब्राह्म२१.२२ग/ ज्या-अर्धानि वृत्त-परिधेस् षष्ठ-चतुर्थ-त्रि-भागानाम् ॥

ब्राह्म२१.२३क/ उत्क्रम-सम-खण्ड-गुणात् व्यासात् अथ वा चतुर्थ-भागात् यत् ।

ब्राह्म२१.२३ग/ कृत्वा उक्त-खण्डकानि ज्या-अर्ध-आनयनम् न लघु अस्मात् ॥


संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कडियाँ[सम्पाद्यताम्]