ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः ३३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३२ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः ३३
[[लेखकः :|]]
अध्यायः ३४ →


सूत उवाच ।।
ऋषिकाणां सुताश्चापि विज्ञेया ऋषिपुत्रकाः ।।
ब्राह्यणानां प्रवक्तारो नामतश्च निबोधत ।। ३३.१ ।।

सप्रधानाः प्रवक्ष्यन्ते समासाच्च श्रुतर्षयः ।।
बह्वृचो भार्गवः पैलः सांकृत्यो जाजलिस्तथा ।। ३३.२ ।।

संध्यास्तिर्माठरश्चैव याज्ञवल्क्यः पराशरः ।।
उपमन्युरिंद्रप्रमतिर्माडूकिः शाकलिश्च सः ।। ३३.३ ।।

बाष्कलिः शोकपाणिश्च नैलः पैलोऽलकस्तथा ।।
पन्नगाः पक्षगंताश्च षडशीतिः श्रुतर्षयः ।। ३३.४ ।।

एते द्विजातयो मुख्या बह्वृचानां श्रुतर्षयः ।।
वैशंपायनलौहित्यौ कंठकालावशावधः ।। ३३.५ ।।

श्यामापतिः पलाडुश्च आलंबिः कमलापतिः ।।
तेषां शिष्याः प्रशिष्याश्च षडशीति श्रुतर्षयः ।। ३३.६ ।।

एते द्विजर्षयः प्रोक्ताश्चरकाध्वर्यवो द्विजाः ।।
चैमिनिः सभरद्वाजः काव्यः पौष्यंजिरेव च ।। ३३.७ ।।

हिरण्यनाभः कौशिल्यो लौगाक्षिः कुसुमिस्तथा ।।
लंगली शालिहोत्रश्च शक्तिराजश्च भार्गवः ।। ३३.८ ।।

सामगानामथाचार्य ऐलो राजा पुरूरवाः ।।
षट्चत्वारिंशदन्ये वै तेषां शिष्याः श्रुतर्षयः ।। ३३.९ ।।

कौशीतिः कंकमुद्गश्च कुंडकः सपराशरः ।।
लोभालोभश्च धर्मात्मा तथा ब्रह्म बलश्च सः ।। ३३.१० ।।

क्रंथलोऽथो मदगलो मार्कंडेयोऽथ धर्मवित् ।।
इत्येते नवतिर्ज्ञेया होत्रवद्ब्रह्मचारिणः ।। ३३.११ ।।

चरकाध्वर्यवश्चापि ह्यनुमंन्त्रं तु ब्राह्मणम् ।।
चलूभिः सुमतिश्चैव तथा देववरश्च यः ।। ३३.१२ ।।

अनुकृष्णस्तथायुश्च अनुभूमिस्तथैव च ।।
तथाप्रीतः कृशाश्वश्व सुमूलिर्बाष्कलिस्तथा ।। ३३.१३ ।।

चरकाध्वर्यकाध्वर्युनमस्युर्ब्रह्मचारिणः ।।
वैयासकिः शुको विद्वाँल्लौकिर्भूरिश्रवास्तथा ।। ३३.१४ ।।

सोमाविरतुनांतक्यस्तथा धौम्यश्च काश्यपः ।।
आरण्या इलकश्चैव उपमन्युर्विदस्तथा ।। ३३.१५ ।।

भार्गवो मधुकः पिंगः श्वेत केतुस्तथैव च ।।
प्रजादर्पः कहोडश्च याज्ञवल्क्योऽथ शौनकः ।। ३३.१६ ।।

अनंगो निरतालश्च मध्यमाध्वर्यवस्तुते ।।
अदितिर्देवमाता च जलापा चैव मानवी ।। ३३.१७ ।।

उर्वशी विश्वयोषा च ह्यप्सरःप्रवरे शुभे ।।
मुद्गला चातुजीवैव तारा चैव यशस्विनी ।। ३३.१८ ।।

प्रातिमेधी च मार्गा च सुजाता च महातपा ।।
लोपामुद्रा च धर्मज्ञा या च कोशीतिका स्मृता ।। ३३.१९ ।।

एताश्च ब्रह्मवादिन्य अप्सरो रूपंसमताः ।।
इत्येता मुख्यशः प्रोक्ता मया च ऋषिपुत्रकाः ।। ३३.२० ।।

वैदशाखाप्रणयनास्ततस्ते ऋषयः स्मृताः ।।
ईश्वरा मंत्रवक्तार ऋषयो ह्यृषिकास्तथा ।। ३३.२१ ।।

ऋषिपुत्राः प्रवक्तरः कल्पानां ब्राह्मणस्य तु ।।
ईश्वराणामृषीणां च ऋषिकाणां सहात्मजैः ।। ३३.२२ ।।

तथा वाक्यानि जनीष्व यथैषां मंत्रदृष्टयः ।।
तत्राज्ञायुक्तमद्वैतं दीप्तं गंभीरशब्दवत् ।। ३३.२३ ।।

अत्यंतमपरोक्षं च लिंगं नाम तथैव च ।।
सर्वभूतान्यभूतं च परिदानं च यद्भवेत् ।। ३३.२४ ।।

क्वचिन्निरुक्तप्रोक्तार्थं वाक्यं स्वायंभुवं विदुः ।।
यत्किंचिन्मंत्रसंयुक्तं तत्र नामविभक्तिभिः ।। ३३.२५ ।।

प्रत्यक्षाभिहितं चैवमृषीणां वचनं मतम् ।।
नैगमैर्विविधैः शब्दैर्निपातैर्बहुलं च यत् ।। ३३.२६ ।।

यच्चाप्यस्ति महद्वाक्यमृषीकाणां वचः स्मृतम् ।।
अविस्पष्टपदं यच्च यच्च स्याद्बहुसंशयम् ।। ३३.२७ ।।

ऋषिपुत्रवचस्तद्वै सर्वाश्च परिदेवताः ।।
हेतुदृष्टांत बहुलं चित्रशब्दमपार्थकम् ।। ३३.२८ ।।

सर्वास्तु तमशक्तं च वाक्यमेतत्तु मानुषम् ।।
मिश्रा इति समाख्याताः प्रभावादृषितां गाताः ।। ३३.२९ ।।

समुत्कर्षाय कर्षाभ्यां जातिव्यत्याससंभवाः ।।
भूतभव्यभवज्ज्ञान जन्मदुःखचिकित्सनम् ।। ३३.३० ।।

मिश्राणां तद्भवेद्वाक्यं गुरोर्बलप्रवर्त्तनम् ।।
धर्मशास्त्रप्रणेतारो महिम्ना सर्वगाश्च वै ।। ३३.३१ ।।

तपःप्रकर्षः सुमहान्येषां ते ऋषयः स्मृताः ।।
बृहस्पतिश्च शुक्रश्च व्यासः सारस्वतस्तथा ।। ३३.३२ ।।

व्यासाः शास्त्रप्रणयना वेदव्यास इति स्मृताः ।।
यस्मादवारजाः संतः पूर्वेभ्यो मेधयाधिकाः ।। ३३.३३ ।।

ऐश्वर्येण च संपन्नास्ततस्ते ऋषयः स्मृताः ।।
यस्मिन्कालो न चं वयः प्रमाणमृषिभावने ।। ३३.३४ ।।

दृश्यते हि पुमान्कश्चित्कश्चिज्ज्येष्ठतमो धिया ।।
यस्माद्बुद्ध्या च वर्षीयान्बलोऽपि श्रुतवानृषिः ।। ३३.३५ ।।

यः कश्चित्पादवान्मध्ये प्रयुक्तोऽक्षर संपदा ।।
विनियुक्तावसानां तु तामृचं परिचक्षते ।। ३३.३६ ।।

यः कश्चित्करणैर्मंत्रो न च पादक्षरैर्मितः ।।
अतियुक्तावसानं च तद्यजुर्वै प्रचक्षते ।। ३३.३७ ।।

ह्रींकारः प्रणवो गीतः प्रस्तावश्च चतुर्थकम् ।।
पंचमः प्रतिहोत्रश्च षष्ठमाहुरुपद्रवम् ।। ३३.३८ ।।

निधनं सप्तमं साम्नः सप्तविंध्य मिदं स्मृतम् ।।
पंचविंध्य इति प्रोक्तं ह्रींकारः प्रणवादृते ।। ३३.३९ ।।

ब्रह्मणे धर्ममत्युक्तौ यत्तदा ज्ञाप्यतेऽर्थतः ।।
आशास्तिस्तु प्रसंख्याता विलापः परिदेवना ।। ३३.४० ।।

क्रोधाद्वा द्वेषणाच्चैव प्रश्राख्यानं तथैव च ।।
एतत्तु सर्वविद्यानां विहितं मंत्रलक्षणम् ।। ३३.४१ ।।

मंत्रा नवविधाः प्रोक्ता ऋग्यजुः सामलक्षणाः ।।
मूर्तिर्निन्दा प्रशंसा चाक्रोशस्तोषस्तथैव च ।। ३३.४२ ।।

प्रश्रानुज्ञास्तथाख्यानमाशास्मतिविधयो मताः ।।
मंत्रभेदांश्च वक्ष्यामि चतुर्विशतिलक्षणान् ।। ३३.४३ ।।

प्रशंसा स्तुतिराक्रोशो निंदा च परिदेवना ।।
अभिशापो विशापश्च प्रश्नः प्रतिवचस्तथा ।। ३३.४४ ।।

आशीर्यज्ञस्तथाऽक्षेप अर्थाख्यानं च संकथा ।।
वियोगा ह्यभियोगाश्च कथा संस्था वरश्च वै ।। ३३.४५ ।।

प्रतिषेधोप देशौ च नमस्कारः स्पृहा तथा ।।
विलापश्चेति मंत्राणां चतुर्विंशतिरुद्धृताः ।। ३३.४६ ।।

ऋषिभिर्यज्ञतत्त्वज्ञैर्विहितं ब्रह्मणं पुरा ।।
हेतु र्निर्वचनं निन्दा प्रशस्तिः संशयो निधिः ।। ३३.४७ ।।

पुराकृतिपुराकल्पौ व्यवधारणकल्पना ।।
ुपमा च दशैते वै विधयो ब्राह्मणस्य तु ।। ३३.४८ ।।

लक्षणं ब्राह्मणस्यैनद्विहितं सर्वशाखिनाम ।।
हेतुर्हंतेः स्मृतो धातोर्यन्निहंत्युदितं परैः ।। ३३.४९ ।।

अथवार्थे परिप्राप्ते हिनो तेर्गतिकर्मणा ।।
तथा निर्वचनं ब्रूयाद्वाक्यार्थस्यावधारणम् ।। ३३.५० ।।

निन्दां तामाहुरायार्या यद्दोषे निन्दनं वचः ।।
प्रपूर्वाच्छंसतेर्धातोः प्रशंसागुणवत्तया ।। ३३.५१ ।।

इदं त्विदमिदं नैदमित्यनिश्चित्य संशयम् ।।
इदमेवं विधातव्यमित्ययं विधिरुच्यते ।। ३३.५२ ।।

अन्यस्यान्यस्य चौक्तिर्या बुधैः सोक्ता पुराकृतिः ।।
यो ह्यत्यंतपरोक्षार्थः स पुराकल्प उच्यते ।। ३३.५३ ।।

पुरातिक्रांतवाचित्वात्पुराकल्पस्य कल्प नाम् ।।
मंत्रब्राह्मणकल्पैश्च निगमैः शुद्धविस्तरैः ।। ३३.५४ ।।

अनिश्चित्य कृतामाहुर्व्यवधारणकल्पनाम् ।।
यथा हीदं तथा तद्वै इदं चैव तथैव तत् ।। ३३.५५ ।।

इत्येवमेषा ह्युपमा दशमो ब्राह्मणस्य तु ।।
इत्येतद्ब्रह्मणस्यादौ विहितं रक्षणं बुधैः ।। ३३.५६ ।।

तस्य तद्विद्भिरुद्दिष्टा व्याख्याम्यनुपदं द्विजैः ।।
मंत्राणां कल्पना चैव विधिदृष्टिषु कर्मसु ।। ३३.५७ ।।

मंत्रो मन्त्रयतेर्द्धातोर्ब्राह्मणो ब्राह्मणेन तु ।।
अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् ।।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ।। ३३.५८ ।।

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
ऋषिलक्षणं नाम त्रयस्त्रिंत्तमोऽध्यायः ।। ३३ ।।