ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः ३१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३० ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः ३१
[[लेखकः :|]]
अध्यायः ३२ →

सूत उवाच ।।
अत ऊर्द्धं प्रवक्ष्यामि द्वापरस्य विधिं पुनः ।।
तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते ।। ३१.१ ।।

द्वापरादौ प्रजानां तु सिद्धिस्त्रेतायुगे तु या ।।
परिवृत्ते युगे तस्मिंस्ततस्ताभिः प्रणश्यति ।। ३१.२ ।।

ततः प्रवर्त्तते तासां प्रजानां द्वापरे पुनः ।।
संभेदश्चैव वर्णानां कार्याणां च विपर्ययः ।। ३१.३ ।।

यज्ञावधारणं दंडो मदो दंभः क्षमा बलम् ।।
एषा रजस्तमोयुक्ता प्रवृत्तिर्द्वापरे स्मृता ।। ३१.४ ।।

आद्ये कृते यो धर्मोऽस्ति स त्रेतायां प्रवर्त्तते ।।
द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ।। ३१.५ ।।

वर्णानां विपरिध्वंसः संकीयत तथाश्रमाः ।।
द्वैविध्यं प्रतिपद्येतेयुगे तस्मिञ्छ्रुति स्मृती ।। ३१.६ ।।

द्वैधात्तथा श्रुतिस्मृत्योर्निश्चयो नाधिगम्यते ।।
अनिश्चयाधिगमनाद्धर्मतत्त्वं न विद्यते ।। ३१.७ ।।

धर्मासत्त्वेन मित्राणां मतिभेदो भवेन्नृणाम् ।।
परस्परविभिन्नैस्तैदृष्टीनां विभ्रमेण च ।। ३१.८ ।।

अयं धर्मो ह्ययं नेति निश्चयो नाधिगम्यते ।।
कारणानां च वैकल्प्यात्कार्याणां चाप्यनिश्चयात् ।। ३१.९ ।।

मतिभेदेन तेषां वै दृष्टीनां विभ्रमो भवेत् ।।
ततो दृष्टिविभन्नैस्तु कृतं शास्त्राकुलं त्विदम् ।। ३१.१० ।।

एको वेदश्चतुष्पाद्धि त्रेतास्विह विधीयते ।।
संक्षयादायुपश्चैव व्यस्यते द्वापरेषु च ।। ३१.११ ।।

ऋषिमंत्रात्पुनर्भेदाद्भिद्यते दृष्टिविभ्रमैः ।।
मंत्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः ।। ३१.१२ ।।

संहिता ऋग्यजुःसाम्नां संपठ्यंते महर्षिभिः ।।
सामान्या वैकृताश्चैव दृष्टिभिन्ने क्वचित्क्वचित् ।। ३१.१३ ।।

ब्राह्मणं कल्पसूत्राणि मंत्रप्रवचनानि च ।।
अन्येऽपि प्रस्थितास्तान्वै केचित्तान्प्रत्यवस्थिताः ।। ३१.१४ ।।

द्वापरेषु प्रवर्त्तंते निवर्त्तंते कलौ युगे ।।
एकमाध्वर्यवं त्वासीत्पुनर्द्वैधमजायत ।। ३१.१५ ।।

सामान्यविपरीतार्थैः कृतशास्त्राकुलं त्विदम् ।।
आध्वर्यवस्य प्रस्थानैर्बहुधा व्याकुलीकृतैः ।। ३१.१६ ।।

तथैवाथर्वऋक्साम्नां विकल्पैश्चापि संज्ञया ।।
व्याकुलेद्वापरे नित्यं क्रियते भिन्न दर्शनैः ।। ३१.१७ ।।

तेषां भेदाः प्रतीभेदा विकल्पाश्चापि संख्याया ।।
द्वापरे संप्रवर्त्तते विनश्यंति ततः कलौ ।। ३१.१८ ।।

तेषां विपर्ययोत्पन्ना भवंति द्वापरे पुनः ।।
अवृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः ।। ३१.१९ ।।

वाङ्मनः कर्मर्जेदुःखैर्निर्वेदो जायते पुनः ।।
निर्वेदाज्जायते तेषां दुःखमोङविचारणा ।। ३१.२० ।।

विचारणाच्च वैराग्यं वैराग्याद्दोषदर्शनम् ।।
दोषदर्शनतस्चैव द्वापरेऽज्ञानसंभवः ।। ३१.२१ ।।

तेषाम ज्ञानिनां पूर्वमाद्ये स्वायंभुवेऽन्तरे ।।
उत्पद्यंते हि शास्त्राणां द्वापरे परिपंथिनः ।। ३१.२२ ।।

आयुर्वेदविकल्पश्च ह्यगानां ज्योतिषस्य च ।।
अर्थशास्त्रविकल्पाश्च हेतुशास्त्रविकल्पनम् ।। ३१.२३ ।।

प्रक्रियाकल्पसूत्राणां भाष्यविद्याविकल्पनम् ।।
स्मृतिशास्त्रप्रभेदश्च प्रस्थानानि पृथक्पृथक् ।। ३१.२४ ।।

द्वापरेष्वभिवर्त्तंते मतिभेदाश्रयान्नृणाम् ।।
मनसा कर्मणा वाचा कृच्छ्राद्वार्ता प्रसिद्ध्यति ।। ३१.२५ ।।

द्वापरे सर्वभूतानां कायक्लेशपुरस्कृता ।।
लोभो वृत्तिर्वणिक्पूर्वा तत्त्वानामविनिश्चयः ।। ३१.२६ ।।

वेदशास्त्रप्रणयनं धर्माणां संकरस्तथा ।।
वर्णाश्रमपरिध्वंसः कामक्रोधौ तथैव च ।। ३१.२७ ।।

द्वापरेषु प्रवर्त्तन्ते रागो लोभो वधस्तथा ।।
वेदं व्यासश्चतुर्द्धा तु व्यस्यते द्वापरादिषु ।। ३१.२८ ।।

निःशेषे द्वापरे तस्मिंस्तस्य संध्या तु यादृशी ।।
प्रतिष्ठते गुणैर्हीनो धर्मोऽसौ द्वापरस्य तु ।। ३१.२९ ।।

तथैव संध्या पादेन ह्यंगः संध्या इतीष्यते ।।
द्वापरस्यावशेषेण तिष्यस्य तु निबोधत ।। ३१.३० ।।

द्वापरस्याशसेषण प्रतिपत्तिः कलेरपि ।।
हिंसासूयानृतं माया वधश्चैव तपस्विनाम् ।। ३१.३१ ।।

एते स्वभावास्तिष्यस्य साधयंति च वै प्रजाः ।।
एष धर्मः कृतः कृत्स्नो धर्मश्च परिहीयते ।। ३१.३२ ।।

मनसा कर्मणा स्तुत्या वार्ता सिध्यति वा न वा ।।
कलौ प्रमारकी रोगः सततं क्षुद्भयानि च ।। ३१.३३ ।।

अनावृष्टिभयं घोरं देशानां च विपर्ययः ।।
न प्रमाणं स्मृतेरस्ति तिष्ये लोकेषु वै युगे ।। ३१.३४ ।।

गर्भस्थो म्रियते कश्चिद्यौव नस्थस्तथापरः ।।
स्थविराः केऽपि कौमारे म्रियन्ते वै कलौ प्रजाः ।। ३१.३५ ।।

दुरिष्टैर्दुरधीतैश्च दुष्कृतैश्च दुरागमैः ।।
विप्राणां कर्मदोषैस्तैः प्रजानां जायते भयम् ।। ३१.३६ ।।

हिंसा माया तथेर्ष्या च क्रोधोऽसूया क्षमा नृषु ।।
तिष्ये भवंति जंतूनां रागो लोभश्च सर्वशः ।। ३१.३७ ।।

संक्षोभो जायतेऽत्यथै करिमासाद्य वै युगम् ।।
पूर्णे वर्षसहस्रे वै परमायुस्तदा नृणाम् ।। ३१.३८ ।।

नाधीयते तदा वेदान्न यजं ते द्विजातयः ।।
उत्सीदंति नराश्चैव क्षत्रियाश्च विशः क्रमात् ।। ३१.३९ ।।

शूद्राणामंत्ययोनेस्तु संबंधा ब्राह्मणैः सह ।।
भवंतीह कलौ तस्मिञ्छयनासनभोजनैः ।। ३१.४० ।।

राजानः शूद्रभूयिष्ठाः पाखंडानां प्रवर्त्तकाः ।।
गुणहीनाः प्रजाश्चैव तदा वै संप्रवर्त्तते ।। ३१.४१ ।।

आयुर्मेधा बलं रूपं कुलं चैव प्रणश्यति ।।
शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः ।। ३१.४२ ।।

राजवृत्ताः स्थिताश्चोरा श्चोराचाराश्च पार्थिवाः ।।
भृत्या एते ह्यसुभृतो युगांते समवस्थिते ।। ३१.४३ ।।

अशीलिन्योऽनृताश्चैव स्त्रियो मद्यामिषप्रियाः ।।
मायाविन्यो भविष्यंति युगांते मुनिसत्तम ।। ३१.४४ ।।

एकपत्न्यो न शिष्यंति युगांते मुनिसत्तम ।।
श्वापदप्रबलत्वं च गवां चैव ह्युपक्षयः ।। ३१.४५ ।।

साधूनां विनिवृत्तिं च विद्यास्तस्मिन्युगक्षये ।।
तदा धर्मो महोदर्को दुर्लभो दानमूलवान् ।। ३१.४६ ।।

चातुराश्रमशैथिल्यो धर्मः प्रविचरिष्यति ।।
तदा ह्यल्पफला भूमिः क्वचिच्चापि महाफला ।। ३१.४७ ।।

न रक्षितारो बोक्तारो बलिभागस्य पार्थिवाः ।।
युगान्ते च भविष्यंति स्वरक्षणपरायणाः ।। ३१.४८ ।।

अरक्षितारो राजानो विप्राः शूद्रोपजीविनः ।।
शूद्राभिवादिनः सर्वे युगान्ते द्विजसत्तमाः ।। ३१.४९ ।।

अदृशूला जनपदाः शिवशूला द्विजास्तथा ।।
प्रमदाः केशशूलाश्च युगान्ते समुपस्थिते ।। ३१.५० ।।

तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः ।।
यतयश्च भविष्यंति बहवोऽस्मिन्कलौ युगे ।। ३१.५१ ।।

चित्रवर्षी यदा देवस्तदा प्राहुर्युगक्षयम् ।।
सर्वे वाणिजकाश्चा पि भविष्यंत्यधमे युगे ।। ३१.५२ ।।

भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः ।।
कुशीलचर्यापाखंडैर्व्याधरूपैः समावृतम् ।। ३१.५३ ।।

पुरुषाल्पं बहुस्त्रीकं युगान्ते समुपस्थिते ।।
बाहुयाचनको लोको भविष्यति परस्परम् ।। ३१.५४ ।।

अव्याकर्ता क्रूरवाक्या नार्जवो नानसूयकः ।।
न कृते प्रतिकर्त्ता च युगे क्षीणे भविष्यति ।। ३१.५५ ।।

अशंका चैव पतिते युगान्ते तस्य लक्षणम् ।।
ततः शून्य वसुमती भविष्यति वसुन्धरा ।। ३१.५६ ।।

गोप्तारश्चाप्यगोप्तारः प्रभविष्यंति शासकाः ।।
हर्त्तारः पररत्नानां परदारविमर्शकाः ।। ३१.५७ ।।

कामात्मानो दुरात्मानो ह्यधमाः साहसप्रियाः ।।
प्रनष्टचेष्टना धूर्त्ता मुक्तकेशास्त्त्वशूलिनः ।। ३१.५८ ।।

ऊनषोडशवर्षाश्च प्रजा यन्ते युगक्षये ।।
शुक्लदंता जिताक्षाश्च मुंडाः काषायवाससः ।। ३१.५९ ।।

शूद्रा धर्मं चरिष्यति युगान्ते समुपस्थिते ।।
सस्यचोरा भविष्यंति तथा चैलापहारिणः ।। ३१.६० ।।

चोराच्चोराश्च हर्त्तारो हर्तुर्हर्त्ता तथापरः ।।
ज्ञानकर्मम्युपरते लोके निष्क्रियतां गते ।। ३१.६१ ।।

कीटमूषकसर्पाश्च धर्षयिष्यंति मानवान् ।।
अभीक्ष्णं क्षेममारोग्यं सामर्थ्यं दुर्लभं तथा ।। ३१.६२ ।।

कौशिकान्प्रतिवत्स्यंति देशाः क्षुद्भयपीडिताः ।।
दुःखेनाभिप्लुतानां च परमायुः शतं तदा ।। ३१.६३ ।।

दृश्यंते च न दृश्यंते वेदा कलियुगेऽखिलाः ।।
तत्सीदन्ते तथा यज्ञाः केवलाधर्मपीडिताः ।। ३१.६४ ।।

काषायिणोऽथ निर्ग्रंथा तथा कापालिकाश्च ह ।।
वेदविक्रयिमश्चन्ये तीर्थविक्रयिणोऽपरे ।। ३१.६५ ।।

वर्णाश्रमाणां ये चान्ये पाखण्डाः परिपंथिनः ।।
उत्पद्यंते तदा ते वै संप्राप्ते तु कलौ युगे ।। ३१.६६ ।।

अधीयते तदा वेदाञ्छूद्रा धर्मार्थ कोविदाः ।।
यजंते चाश्वमेधेन राजानः शूद्रयोनयः ।। ३१.६७ ।।

स्त्रीबालगोवधं कृत्वा हत्वान्ये च परस्परम् ।।
अपहत्य तथाऽन्योन्यं साधयंति तदा प्रजाः ।। ३१.६८ ।।

दुःखप्रवचनाल्पायुर्देहाल्पायुश्च रोगतः ।।
अधर्माभिनिवेशित्वात्तमोवृत्तं कलौ स्मृतम् ।। ३१.६९ ।।

प्रजासु भ्रूणहत्या च तदा वैरात्प्रवर्त्तते ।।
तस्मादायुर्बलं रूपं कलिं प्राप्य प्रहीयते ।। ३१.७० ।।

तदा चाल्पेन कालेन सिद्धिं गच्छंति मानवाः ।।
धन्या धर्मं चरिष्यंति युगान्ते द्विजसत्तमाः ।। ३१.७१ ।।

श्रुतिस्मृत्युदितं धर्मं ये चरंत्यनसूयकाः ।।
त्रेतायामाब्दिको धर्मो द्वापरे मासिकः स्मृतः ।। ३१.७२ ।।

यथाशक्ति चरन्प्राज्ञस्तदह्ना प्राप्नुयात्कलौ ।।
एषा कलियुगावस्था संध्यांशं तु निबोधत ।। ३१.७३ ।।

युगेयुगे तु हीयंते त्रित्रिपादास्तु सिद्धयः ।।
युगस्वभावात्संध्यासु तिष्ठन्तीह तु यादृशः ।। ३१.७४ ।।

संध्यास्वभावाः स्वांशेषु पादशेषाः प्रतिष्ठिताः ।।
एवं संध्यांशके काले संप्राप्ते तु युगांतिके ।। ३१.७५ ।।

तेषां शास्ता ह्यसाधूनां भृगूणां निधनोत्थितः ।।
गोत्रेण वै चंद्र मसो नाम्ना प्रमतिरुच्यते ।। ३१.७६ ।।

माधवस्य तु सोंऽशेन पूर्वं स्वायंभुवेऽन्तरे ।।
समाः सविंशतिः पूर्णाः पर्यटन्वै वसुंधराम् ।। ३१.७७ ।।

अनुकर्षन्स वै सेनां सवाजिरथकुंजराम् ।।
प्रगृहीतायुधैर्विप्रैः शतशोऽथ सहस्रशः ।। ३१.७८ ।।

स तदा तैः परिवृतो म्लेच्छान्हंति स्मसर्वशः ।।
सह वा सर्वशश्चैव राज्ञस्ताञ्छूद्रयोनिजान् ।। ३१.७९ ।।

पारवण्डास्तु ततः सर्वान् निः शेषं कृतवान्विभुः ।।
नात्यर्थ धार्मिका ये च तान्सर्वान्हंति सर्वशः ।। ३१.८० ।।

वर्णव्यत्यासजाताश्च ये च ताननुजीविनः ।।
उदीच्यान्मध्यदेश्यांश्च पवतीयांस्तथैव च ।। ३१.८१ ।।

प्राच्यान्प्रतीच्यांश्च तथा विंध्यपृष्ठचरानपि ।।
तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह ।। ३१.८२ ।।

गांधारान्पारदांश्चैव पह्लवान्यव नाञ्शकान् ।।
तुषारान्बर्बरांश्चीनाञ्छूलिकान्दरदान् खशान् ।। ३१.८३ ।।

लंपाकारान्सकतकान्किरातानां च जातयः ।।
प्रवृत्तचक्रो बलवान्म्लेच्छानामंतकृत्प्रभुः ।। ३१.८४ ।।

अदृष्टः सर्वभूतानां चचाराथ वसुन्धराम् ।।
माधवस्य तु सोंऽशेन देवस्येह विजज्ञिवान् ।। ३१.८५ ।।

पूर्वजन्मनि विख्यातः प्रमतिर्न्नाम वीर्यवान् ।।
गोत्रतो वै चंद्रमसः पूर्वे कलियुगे प्रभुः ।। ३१.८६ ।।

द्वात्रिंशेऽभ्युदिते वर्षे प्रक्रांतो विंशतीः समाः ।।
विनिघ्नन्सर्वभूतानि मानवानेव सर्वशः ।। ३१.८७ ।।

कृत्वा बीजावशेषं तु पृथ्व्यां कूरेण कर्मणा ।।
परस्पर निमित्तेन कोपेनाकस्मिकेन तु ।। ३१.८८ ।।

सुसाधयित्वा वृषलान्प्रायशस्तानधर्मिकान् ।।
गंगायमुनयोर्मध्ये निष्ठां प्राप्तः सहानुगः ।। ३१.८९ ।।

ततो व्यतीते कल्पे तु सामान्ये सहसैनिकः ।।
उत्साद्य पार्थिवान्सर्वान्मलेच्छांश्चैव सहस्रशः ।। ३१.९० ।।

तत्र संध्यांशके काले संप्राप्ते तु युगांतके ।।
स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित्क्वचित् ।। ३१.९१ ।।

अपग्रहास्ततस्ता वै लोभाविष्टास्तु वृंदशः ।।
उपहिसंति चान्योन्यं पोथयंतः परस्परम् ।। ३१.९२ ।।

अराजके युगवशात्संक्षये समुपस्थिते ।।
प्रजास्ता वै ततः सर्वाः परस्परभयार्द्दिताः ।। ३१.९३ ।।

व्याकुलाश्च परिभ्रांतास्त्यक्त्वा दारान्गृहाणि च ।।
स्वान्प्रणाननपेक्षंतो निष्कारणसुदुःखिताः ।। ३१.९४ ।।

नष्टे श्रौते स्मृतौ धर्मे परस्परहतास्तदा ।।
निर्मर्यादा निराक्रंदा निःस्नेहा निरपत्रपाः ।। ३१.९५ ।।

नष्टे धर्मे प्रतिहता ह्रस्वकाः पंचविंशतिम् ।।
हित्वा पुत्रांश्च दारांश्च विषादव्याकुलेद्रियाः ।। ३१.९६ ।।

अनावृष्टिहताश्चैव वार्त्तामुत्सृज्य दुःखिताः ।।
प्रत्यंतांस्ता निषेवंते हित्वा जनपदान्स्वकान् ।। ३१.९७ ।।

सरितः सागरानूपान्सेवंते पर्वतांस्तथा ।।
मांसैर्मूलफलैश्चैव वर्तयंतः सुदुःखिताः ।। ३१.९८ ।।

चीरपत्राचिनधरा निष्क्रिया निष्परिग्रहाः ।।
वर्णाश्रमपरिभ्रष्टाः संकरं घोरमास्थिताः ।।
एतां काष्ठामनुप्राप्ता अल्पशेषाः प्रजास्ततः ।। ३१.९९ ।।

जराव्याधिक्षुधा विष्टा दुःखान्निर्वेदमागमन् ।।
विचारणा तु निर्वेदात्साम्यावस्था विचारणात् ।। ३१.१०० ।।

साम्यावस्थात्मको बोधः संबोधाद्धर्मशीलता ।।
तासूपशमयुक्तासु कलिशिष्टासु वै स्वयम् ।। ३१.१०१ ।।

अहोरात्रं तदा तासां युगान्ते परिवर्त्तिनि ।।
चित्तसंमोहनं कृत्वा तासां वै सुप्तमत्तवत् ।। ३१.१०२ ।।

भाविनोऽर्थस्य च बलात्ततः कृतमवर्त्तत ।।
प्रवृत्ते तु ततस्तस्मिन्पूते कृतयुगे तु वै ।। ३१.१०३ ।।

उत्पन्नाः कलिशिष्टासु प्रजाः कार्तयुगास्तदा ।।
तिष्ठंति चेह ये सिद्धा अदृष्टा विचरंति च ।। ३१.१०४ ।।

सह सप्तर्षिभिश्चैव तत्र ते च व्यवस्थिताः ।।
ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह ।। ३१.१०५ ।।

कलिजैः सह ते संति निर्विशेषास्तदाभवन् ।।
तेषां सप्तर्षयो धर्मं कथयंतीतरेषु च ।। ३१.१०६ ।।

वर्णाश्रमाचारयुक्तः श्रौतः स्मार्त्तो द्विधा तु सः ।।
ततस्तेषु क्रियावत्सु वर्तंते वै प्रजाः कृते ।। ३१.१०७ ।।

श्रौतस्मार्त्ते कृतानां च धर्मे सप्तर्षिदर्शिते ।।
केचिद्धर्मव्यवस्थार्थं तिष्ठंतीहायुगक्षयात् ।। ३१.१०८ ।।

मन्वंतराधिकारेषु तिष्ठंति मुनयस्तु वै ।।
यथा दावप्रदग्धेषु तृणेष्विह तपेन तु ।। ३१.१०९ ।।

वनानां प्रथमं वृष्ट्या तेषां मूलेषु संभवः ।।
तथा कार्तयुगानां तु कलिजष्विह संभवः ।। ३१.११० ।।

एवं युगो युगस्येह संतानस्तु परस्परम् ।।
वर्त्तते ह्यव्यवच्छेदाद्यावन्मन्वंतरक्षयः ।। ३१.१११ ।।

सुखमायुर्बलं रूपंधर्मोऽर्थः काम एव च ।।
युगेष्वेतानि हीयंते त्रित्रिपादाः क्रमेण च ।। ३१.११२ ।।

ससंध्याशेषु हीयंते युगानांधर्मसिद्धयः ।।
इत्येष प्रतिसंधिर्यः कीर्त्तितस्तु मया द्विजाः ।। ३१.११३ ।।

चतुर्युगानां सर्वेषामेतेनैव प्रसाधनम् ।।
एषा चतुर्युगावृत्तिरासहस्रद्गुणीकृता ।। ३१.११४ ।।

ब्रह्मणस्तदहः प्रोक्तं रात्रिश्चैतावती स्मृता ।।
अत्रार्जवं जडीभावो भूतानामायुगक्षयात् ।। ३१.११५ ।।

एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम् ।।
एषा चतुर्युगानां च गुणिता ह्येकसप्ततिः ।। ३१.११६ ।।

क्रमेण परिवृत्ता तुमनोरंतरमुच्यते ।।
चतुर्युगे यथैकस्मिन्भवतीह यथा तु यत् ।। ३१.११७ ।।

तथा चान्येषु भवति पुनस्तद्वद्यथाक्रमम् ।।
सर्गे सर्गे तथा भेदा उत्पद्यंते तथैव तु ।। ३१.११८ ।।

पंचत्रिंशत्परिमिता न न्यूना नाधिकाः स्मृताः ।।
तथा कल्पा युगैः मार्द्धं भवंति सह लक्षणैः ।।
मन्वंतराणां सर्वेषामेतदेव तु लक्षणम् ।। ३१.११९ ।।

यथा युगानां परिवर्त्तनानि चिरप्रवृत्तानि युगस्वभावात् ।।
तथा न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्त्तमानः ।। ३१.१२० ।।

इत्येत ल्लक्षणं प्रोक्तं युगानां वै समासतः ।। ३१.१२१ ।।

अतीतानागतानां हि सर्वमन्वंतरोष्विह ।।
मन्वंतरेण चैकेन सर्वाण्येवांतराणि वै ।। ३१.१२२ ।।

ख्यातानीह विजानीध्वं कल्पं कल्पेन चैव ह ।।
अनागतेषु तद्वच्च तर्कः कार्यो विजानता ।। ३१.१२३ ।।

मन्वंतरेषु सर्वेषु अतीतानागतेष्विह ।।
तुल्याभिमानिनः सर्वे नामरूपैर्भवंत्युत ।। ३१.१२४ ।।

देवा ह्यष्टविधा ये वा इह मन्वंतरेश्वराः ।।
ऋषयो मनवश्चैव सर्वे तुल्याः प्रयोजनैः ।। ३१.१२५ ।।

एवं वर्णाश्रमाणां तु प्रविभागं पुरा युगे ।।
युगस्वभावांश्च तथा विधत्ते वै सदा प्रभुः ।। ३१.१२६ ।।

वर्णाश्रमविभागाश्च युगानि युगसिद्धयः ।।
अनुषंगात्समाख्याताः सृष्टिसर्गं निबोधत ।।
विस्तरेणानुपूर्व्या च स्थितिं वक्ष्ये युगेष्विह ।। ३१.१२७ ।।

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
चतुर्युगाख्यानं नामैकत्रिंशत्तमोऽध्यायः ।। ३१ ।।