ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः २८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २७ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः २८
[[लेखकः :|]]
अध्यायः २९ →


ऋषिरुवाच ।।
अगात्कथममावस्यां मासि मासि दिवं नृपः ।।
ऐलः पुरूरवाः सूत कथं वा तर्पयत्पितॄन् ।। २८.१ ।।
सूत उवाच ।।
तस्य तेऽहं प्रवक्ष्यामि प्रभावं शांशपायने ।।
ऐलस्यादित्यसंयोगं सोमस्य च महात्मनः ।। २८.२ ।।
अंतःसारमयस्येंदोः पक्षयोः शुक्लकृष्णयोः ।।
ह्रासवृद्धी पितृमतः पित्र्यस्य च विनिर्णयम् ।। २८.३ ।।
सोमाच्चैवामृतप्राप्तिं पितॄणां तर्पणं तथा ।।
काव्याग्निष्वात्तसौम्यानां पितॄणां चैव दर्शनम् ।। २८.४ ।।
यथा पुरूरवाश्चैव तर्पयामास वै पितॄन् ।।
एतत्सर्वं प्रवक्ष्यामि पर्वाणि च यथाक्रमम् ।। २८.५ ।।
यदा तु चंद्रसूर्यौ वै नक्षत्रेण समागतौ ।।
अमावस्यां निवसत एकरात्रैकमंडलौ ।। २८.६ ।।
स गच्छति तदा द्रष्टुं दिवाकरनिशाकरौ ।।
अमावस्याममावास्यां मातामहपितामहौ ।। २८.७ ।।
अभिवाद्य स तौ तत्र कालापेक्षः प्रतीक्षते ।।
प्रस्यंदमानात्सोमात्तु पित्रर्थं तु परिश्रवान् ।। २८.८ ।।
ऐलः पुरूरवा विद्वान्मासश्राद्धचिकीर्षया ।।
उपास्ते पितृमंतं तं सोमं दिवि समास्थितः ।। २८.९ ।।
द्विलवां कुहूमात्रां च ते उभे तु विचार्य सः ।।
सिनीवालीप्रमाणेभ्यः सिनीवालीमुपास्य सः ।। २८.१० ।।
कुहूमात्रः कलां चैव ज्ञात्वोपास्ते कुहूं तथा ।।
स तदा तामुपासीनः कालापेक्षः प्रपश्यति ।। २८.११ ।।
सुधामृतं तु तत्सोमात्स्रवद्वै मासतृप्तये ।।
दशभिः पंचभिश्चैव सुधामृतपरिस्रवैः ।। २८.१२ ।।
कृष्णपक्षे भुजां प्रीत्या दह्यमानां तथांशुभिः ।।
सद्यः प्रक्षरता तेन सौम्येन मधुना तु सः ।। २८.१३ ।।
निर्वातेष्त्रथ पक्षेषु पित्र्येण विधिना दिवि ।।
सुधामृतेन राजैंद्रस्तर्प यामास वै पितॄन् ।। २८.१४ ।।
सौम्यान्बर्हिषदः काव्यानग्निष्वात्तांस्तथैव च ।।
ऋतमग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः ।। २८.१५ ।।
जज्ञिरे ह्यृतवस्तस्माद्ध्यृतुभ्यश्चार्त्तवास्तथा ।।
आर्तवा ह्यर्द्धमासाख्याः पितरो ह्यृतुसूनवः ।। २८.१६ ।।
ऋतवः पितामहा मासा अयनाह्यब्दसूनवः ।।
प्रपितामहास्तु वै देवाः पंचाब्दा ब्रह्मणः सुताः ।। २८.१७ ।।
सौम्यास्तु सोमजा ज्ञेयाः काव्या ज्ञेयाः कवेः सुताः ।।
उपहूताः स्मृता देवाः सोमजाः सोमपाः स्मृताः ।। २८.१८ ।।
आज्यपास्तु स्मृताः काव्यास्तिस्रस्ताः पितृजातयः ।।
काव्या बर्हिषद श्चैव अग्निष्वात्ताश्च तास्त्रिधा ।। २८.१९ ।।
गृहस्था ये च यज्वान ऋतुर्बर्हिषदो ध्रुवम् ।।
गृहस्थाश्चाप्ययज्वान अग्निष्वात्तास्तथार्त्तवाः ।। २८.२० ।।
अष्टकापतयः काव्याः पंचाब्दास्तान्निबोधत ।।
तेषां संवत्सरो ह्यग्निः सूयस्तु परिवत्सरः ।। २८.२१ ।।
सोम इड्वत्सरः प्रोक्तो वायुश्चैवानुवत्सरः ।।
रुद्रस्तु वत्सरस्तेषां पंचाब्दास्ते युगात्मकाः ।। २८.२२ ।।
काव्याश्चैवोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः ।।
ये ते पिबंत्यमावस्यां मासिमासि सुधां दिवि ।। २८.२३ ।।
तांस्तेन तर्पयामास यावदासीत्पुरूरवाः ।।
यस्मात्प्रस्रवते सोमान्मासि मासि धिनोति च ।। २८.२४ ।।
तस्मात्सुधामृतं तद्वै पितॄणां सोमपायिनाम् ।।
एवं तदमृतं सौम्यं सुधा च मदु चैव ह ।। २८.२५ ।।
कृष्णपक्षे यथा वेंदोः कलाः पंचदश क्रमात् ।।
पिबंत्यंबुमयं देवास्त्रयस्त्रिंशत्तु छंदनाः ।। २८.२६ ।।
पीत्वार्द्धमासं गच्छंति चतुर्दश्यां सुधामृतम् ।।
इत्येवं पीयमानैस्तु देवैः सर्वैर्निशाकरः ।। २८.२७ ।।
समागच्छत्यमावस्यां भागे पंचदशे स्थितः ।।
सुषुम्णाप्यायितं चैव ह्यमावस्यां यथा क्रमम् ।। २८.२८ ।।
पिबंति द्विलवं कालं पितरस्ते सुधामृतम् ।।
पीतक्षयं ततः सोमं सूर्योऽसावेकरश्मिना ।। २८.२९ ।।
आप्याययत्सुषुम्णातः पुनस्तान्सोमपायिनः ।।
निः शेषायां कलायां तु सोममाप्याययत्पुनः ।। २८.३० ।।
सुषुम्णाप्यायमानस्य भागं भागमहः क्रमात् ।।
कलाः क्षीयंति ताः कृष्णाः शुक्ला चाप्याययंति तम् ।। २८.३१ ।।
एवं सूर्यस्य वीर्येण चंद्रस्याप्यायिता तनुः ।।
दृश्यते पौर्णमास्यां वै शुक्लः संपूर्णमंडलः ।। २८.३२ ।।
संसिद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः ।।
इत्येवं पितृमान्सोमः स्मृत इड्वत्सरात्मकः ।। २८.३३ ।।
क्रांतः पंचदशैः सार्द्धं सुधामृतपरिस्रवैः ।।
अतः पर्वाणि वक्ष्यामि पर्वणां संधयश्च ये ।। २८.३४ ।।
ग्रंथिमंति यथा पर्वाणीक्षुवेण्वोर्भवंत्युत ।।
तथार्द्धमासि पर्वाणि शुक्लकृष्णानि चैव हि ।। २८.३५ ।।
पूर्णामावस्ययोर्भेदौ ग्रंथयः संधयश्च वै ।।
अर्द्धमासं तु पर्वाणि द्वितीयाप्रभृतीनि तु ।। २८.३६ ।।
अन्वाधानक्रिया यस्मात्क्रियते पर्वसंधिषु ।।
तस्मात्तु पर्वणामादौ प्रतिपत्सर्वसंधिषु ।। २८.३७ ।।
सायाह्नेऽह्यनुमत्यादौ कालो द्विलव उच्यते ।।
लवौ द्वावेव राकायां कालो ज्ञेयोऽपराह्णकः ।। २८.३८ ।।
प्रतिपत्कृष्णपक्षस्य कालेऽतीतेऽपराह्णके ।।
सायाह्ने प्रतिपन्ने च स कालः पौर्णमासिकः ।। २८.३९ ।।
व्यतीपाते स्थिते सूर्ये लेखार्द्धे तु युगांतरे ।।
युगांतरोदिते चैव लेशार्द्धे शशिनः क्रमात् ।। २८.४० ।।
पौर्णमासी व्यतीपाते यदीक्षेतां परस्परम् ।।
यस्मिन्काले समौ स्यातां तौ व्यतीपात एव सः ।। २८.४१ ।।
तं कालं सूर्यनिर्द्देश्यं दृष्ट्वा संख्यां तु सर्पति ।।
स वै वषट्क्रियाकालः सद्यः कालं विधीयते ।। २८.४२ ।।
पूर्णेंदोः पूर्णपक्षे तु रात्रिसंधिश्च पूर्णिमा ।।
ततो विरज्यते नक्तं पौर्णमास्यां निशाकरः ।। २८.४३ ।।
यदीक्षेते व्यतीपाते दिवा पूर्णे परस्परम् ।।
चन्द्रार्कावपराह्णे तु पूर्णात्मानौ तु पूर्णिमा ।। २८.४४ ।।
यस्मात्तामनुमन्यंते पितरो दैवतैः सह ।।
तस्मादनुमतिर्नाम पूर्णिमा प्रथमा स्मृता ।। २८.४५ ।।
अत्यर्थं भ्राजते यस्माद्व्योम्न्यस्यां वै निशाकरः ।।
रंजनाच्चैव चन्द्रस्य राकेति कवयोऽब्रुवन् ।। २८.४६ ।।
अमावसेतामृक्षे तु यदा चन्द्रदिवाकरौ ।।
राका पञ्चदशी रात्रिरमावास्या ततः स्मृता ।। २८.४७ ।।
व्युच्छिद्य तममावस्यां पश्यतस्तौ समागतौ ।।
अन्योन्यं चन्द्रसूर्यौ तौ यदा तद्दर्श उच्यते ।। २८.४८ ।।
द्वौ द्वौ लवावमावास्या स कालः पर्वसंधिषु ।।
द्व्यक्षर कुहुमात्रश्च पर्वकालास्त्रयः स्मृताः ।। २८.४९ ।।
नष्टचन्द्रा त्वमावस्या या मध्याह्नात्प्रवर्त्तते ।।
दिवसार्द्धेन रात्र्या च सूर्यं प्राप्य तु चंद्रमाः ।। २८.५० ।।
सूर्येण सह सामुद्रं गत्वा प्रातस्तनात्स वै ।।
द्वौ कालौ संगमं चैव मध्याह्ने नियतं रविः ।। २८.५१ ।।
प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्य मंडलात् ।।
विमुच्यमानयोर्मध्ये तयोर्मंडलयोस्तु वै ।। २८.५२ ।।
स तदा ह्याहुतेः कालो दर्शस्य तु वषट्क्रिया ।।
एतदृतुमुखं ज्ञेयममावास्यास्य पर्वणः ।। २८.५३ ।।
दिवापर्व ह्यमावास्या क्षीणेंदौ बहुले तु वै ।।
तस्माद्दिवा ह्यमावास्यां गृह्यतेऽसौ दिवाकरः ।। २८.५४ ।।
गृह्यते तु दिवा तस्मादमावास्यां दिवि क्षयाम् ।।
कलानामपि चैतासां वृद्धिहान्या जलात्मनः ।। २८.५५ ।।
तिथीनां नामधेयानि विद्वद्भिः संज्ञितानि वै ।।
दर्शयेतामथात्मानं सूर्याचन्द्रमसावुभौ ।। २८.५६ ।।
निष्क्रामत्यथ तेनैव क्रमशः सूर्यमंडलात् ।।
द्विलवोनमहोरात्रं भास्करं स्पृशते शशी ।। २८.५७ ।।
स तदा ह्याहुतेः कालो दर्शस्य तु वषट्क्रिया ।।
कुहेति कोकिलेनोक्तो यः स कालः समाप्यते ।। २८.५८ ।।
तत्कालसंमिता यस्मादमावास्या कुहूः स्मृता ।।
सिनीवालीप्रमाणस्तु क्षीणशेषो निशाकरः ।। २८.५९ ।।
आमावस्यां विशत्यर्कस्सिनीवालीततः स्मृता ।।
अनुमत्याश्चराकायाः सिनीवाल्याः कुहूं विना ।। २८.६० ।।
एतासां द्विलवः कालः कुहूमात्रं कुहूः स्मृताः ।।
चंद्रसूर्यव्यतीपाते संगते पूर्णिमांतरे ।। २८.६१ ।।
प्रतिपत्प्रतिपद्येत पर्वकालो द्विमात्रकः ।।
कालः कहूसिनीवाल्योः सामुद्रस्य तु मध्यतः ।। २८.६२ ।।
अर्काग्नि मंडले सोमे पर्वकालः कलासमः ।।
एवं स शुक्लपक्षे वै रजन्यां पर्वसंधिषु ।। २८.६३ ।।
संपूर्ममंडलः श्रीमांश्चंद्रमा उपरज्यते ।।
यस्मादा दाप्यायते सोमः पञ्चदश्यां तु पूर्णिमा ।। २८.६४ ।।
दशभिः पंचभिश्चैव कलाभिर्दिवसक्रमात् ।।
तस्मात्कलाः पञ्चदश सोमेनास्य तु षोडशी ।। २८.६५ ।।
तस्मात्सोमस्य भवति पञ्चदश्याप्रपां क्षयः ।।
इत्येते पितरो देवाः सोमपाः सोमवर्द्धनाः ।। २८.६६ ।।
आर्तवा ऋतवो ह्यृद्धा देवास्तान्भावयंति वै ।।
अतः पितॄन्प्रवक्ष्यामि मासश्राद्धभुजस्तु ये ।। २८.६७ ।।
तेषां गतिं सतत्त्वां च प्राप्तिं श्राद्धस्य चैव हि ।।
न मृतानां गतिः शक्या ज्ञातुं न पुनरागतिः ।। २८.६८ ।।
तपसापि प्रसिद्धेन किंपुनर्मासचक्षुषा ।।
अनुदेवपितॄनेते पितरो लौकिकाः स्मृताः ।। २८.६९ ।।
देवाः सौम्याश्च काव्याश्च अयज्वानो ह्यचोनिजाः ।।
देवास्ते पितरः सर्वे देवास्तान्वादयन्त्युत ।। २८.७० ।।
मनुष्यपितरश्चैव तेभ्योऽन्ये लौकिकाः स्मृताः ।।
पिता पितामहश्चापि तथा यः प्रपितामहः ।। २८.७१ ।।
यज्वानो ये तु सामेन सोमवंतस्तु ते स्मृताः ।।
ये यज्वानो हविर्यज्ञे ते वै बर्हिषदः स्मृताः ।। २८.७२ ।।
अग्निष्वात्ताः स्मृतास्तेषां होमिनोऽयाज्ययाजिनः ।।
तेषां तु धर्मसाधर्म्यात्स्मृताः सायुज्यगा द्विजैः ।। २८.७३ ।।
ये चाप्याश्रमधर्माणां प्रस्थानेषु व्यवस्थिताः ।।
अन्ते तु नावसीदंति श्रद्धायुक्तास्तु कर्मसु ।। २८.७४ ।।
तपसा ब्रह्मचर्येण यज्ञेन प्रजया च वै ।।
श्राद्धेन विद्यया चैव प्रदानेन च सप्तधा ।। २८.७५ ।।
कर्मस्वेतेषु ये युक्ता भवंत्यादेहपातनात् ।।
दैवैस्तैः पितृभिः सार्द्धं सूक्ष्मजैः सोमयाजनैः ।। २८.७६ ।।
स्वर्गता दिवि मोदंते पितृवत्त उपासते ।।
तेषां निवापे दत्ते तु तत्कुलीनैश्च बंधुभिः ।। २८.७७ ।।
मासश्राद्धभुजस्तृप्तिं लभंते सोमलौकिकाः ।।
एते मनुष्यपितरो मासश्राद्धभुजस्तु ये ।। २८.७८ ।।
तेभ्योऽपरे तु येऽप्यन्ये संकीर्णाः कर्मयोनिषु ।।
भ्रष्टाश्चाश्रमधर्मेभ्यः स्वधास्वाहाविवर्जिताः ।। २८.७९ ।।
भिन्नदेहा दुरात्मानः प्रेतभूता यमक्षये ।।
स्वकर्माण्य नुशोचंतो यातनास्थानमागताः ।। २८.८० ।।
दीर्घायुषोऽतिशुष्काश्च श्मश्रुलाश्च विवाससः ।।
क्षुत्पिपासापरीताश्च विद्रवन्तस्ततस्ततः ।। २८.८१ ।।
सरित्सरस्तडागानि वापीश्चाप्युपलिप्सवः ।।
परान्नानि च लिप्संतः काल्यमानास्ततस्ततः ।। २८.८२ ।।
स्थानेषु पात्यमानाश्च यातनाश्च पुनः पुनः ।।
शाल्मले वैतरण्यां च कुंभीपाके तथैव च ।। २८.८३ ।।
करंभवालुकायां च असिपत्रवने तथा ।।
शिला संपेषणे चैव पात्यमानाः स्वकर्मभिः ।। २८.८४ ।।
तत्रस्थानां हि तेषां वै दुः खितानामनाशिनाम् ।।
तेषां लोकांतरस्थानां बांधवैर्नाम गोत्रतः ।। २८.८५ ।।
भूमावसव्यं दर्भेषु दत्ताः पिंडास्त्रयस्तु वै ।।
यांति तास्तर्पयंते च प्रेतस्थानेष्वधिष्ठितान् ।। २८.८६ ।।
अप्राप्ता यातनास्थानं प्रभ्रष्टा य च पंचधा ।।
पश्चाद्ये स्थावरांते वै जाता नीचैः स्वकर्मभिः ।। २८.८७ ।।
नानारूपासु जायन्ते तिर्यग्योनिष्वयोनिषु ।।
यदाहारा भवंत्येते तासु तास्विह योनिषु ।। २८.८८ ।।
तस्मिंस्तस्मिंस्तदाहारे श्राद्धं दत्तं प्रतिष्ठते ।।
काले न्यायागतं पात्रे विधिना प्रतिपादितम् ।। २८.८९ ।।
प्राप्नोत्यन्नं यथादत्तं जंतुर्यत्रावतिष्ठते ।।
यथा गोषु प्रनष्टामु वत्सो विंदति मातरम् ।। २८.९० ।।
तथा श्राद्धेषु दत्तान्नं मन्त्रः प्रापयते पितॄन् ।।
एवं ह्यविफलं श्राद्धं श्रद्धादत्तं तु मन्त्रतः ।। २८.९१ ।।
तत्तत्कुमारः प्रोवाच पश्यन्दिव्येन चक्षुषा ।।
गतागतज्ञः प्रेतानां प्राप्तिं श्राद्धस्य तैः सह ।। २८.९२ ।।
बाह्लीकाश्चोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः ।।
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ।। २८.९३ ।।
इत्येते पितरो देवा देवाश्च पितरश्च वै ।।
ऋत्वर्तवार्द्धमासास्तु अन्योन्यं पितरः स्मृताः ।। २८.९४ ।।
इत्येत पितरो देवा मनुष्यपितरश्च ये ।।
प्रीतेषु तेषु प्रीयंते श्राद्धयुक्तेषु कर्मसु ।। २८.९५ ।।
इत्येष विचयः प्रोक्तः पितॄणां सोमपायिनाम् ।।
एवं पितृसतत्त्वं हि पुराणे निश्चयं गतम् ।। २८.९६ ।।
इत्यर्कपितृसोमानामैलस्य च समागमः ।।
सुधामृतस्य च प्राप्तिः पितॄणां चैव तर्प्पणम् ।। २८.९७ ।।
पूर्णा मावास्ययोः कालो यातनास्थानमेव च ।।
समासात्कीर्तितस्तुभ्यमेष सर्गः मनातनः ।। २८.९८ ।।
वैश्वरूप्यं तु सर्गस्य कथितं ह्येकदैशिकम् ।।
न शक्यं परिसंख्यातुं श्रद्धेयं भूतिमिच्छता ।। २८.९९ ।।
स्वायंभुवस्य हि ह्येष सर्गः क्रांतो मया तु वै ।।
विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम् ।। २८.१०० ।।
इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
अमावस्याश्राद्धे पितृविचयोनामाऽष्टाविंशति तमोऽध्यायः ।। २८ ।।