ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १९ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः २०
[[लेखकः :|]]
अध्यायः २१ →

सूत उवाच ।.
अधःप्रमाणमूर्द्ध्व च वक्ष्यमाणं निबोधत ।।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।। २०.१ ।।

अनंता धातवो ह्येतं व्यापकास्तु प्रकीर्त्तिताः ।।
जननी सर्वभूतानां सर्वसत्त्वधरा धरा ।। २०.२ ।।

नानाजनपदाकीर्णा नानाधिष्ठानपत्तना ।।
नानानदनदीशैला नैकजातिसमाकुला ।। २०.३ ।।

अनंता गीयते देवी पृथिवी बहुविस्तरा ।।
नदीनदससुद्रस्थास्तंथा क्षुद्राश्रयस्थिताः ।। २०.४ ।।

पर्वताकाशसंस्थाश्च अंतर्भूमिगाताश्च याः ।।
आपोऽनंता हि विज्ञेयास्तथाग्निः सर्वलोकगः ।। २०.५ ।।

अनंतः पठ्यते चैव व्यापकः सर्वसंभवः ।।
तथाकाशमनालेख्यं रम्यं नानाश्रयं स्मृतम् ।। २०.६ ।।

अनन्तं पठ्यते चैव वायुश्चाकाशसम्भवः ।।
आपः पृथिव्यामुदके पृथिव्युपरि संस्थिताः ।। २०.७ ।।

आकाशश्चापरमथ पुनर्भूमिः पुनर्जलम् ।।
एवं मतमनंतस्य भौतिकस्य न विद्यते ।। २०.८ ।।

परस्परैः सोपचिता भूमिश्चैव निबोधत ।।
भूमिर्जलमथा काशमिति या या परंपरा ।। २०.९ ।।

स्थितिरेषा तु विख्याता सप्तमेऽस्मिन्नसातले ।।
दशयोजनसाहस्रमेकं भौमं रसातलम् ।। २०.१० ।।

साधुभिः परिसंख्यातमेकैकेनैव विस्तरम् ।।
प्रथमं तत्वलं नाम सुतलं तु ततः परम् ।। २०.११ ।।

ततस्तलातलं विद्यादतलं बहुविस्तरम् ।।
ततोऽर्वाक्च तलं नाम परतश्च रसातलम् ।। २०.१२ ।।

एतेषामप्यधोभागे पातालं सप्तमं स्मृतम् ।।
कृष्णभौमश्च प्रथमो भूमिभागः प्रकीर्त्तितः ।। २०.१३ ।।

पांडुभूमिर्द्वितीयस्तु तृतीयो नीलमृत्तिकः ।।
पीतभौमश्चतुर्थस्तु पंचमः शर्करामयः ।। २०.१४ ।।

षष्ठः शिलामयो ज्ञेयः सौवर्णः सप्तमः स्मृतः ।।
प्रथमेऽस्मिंस्तले ख्यातमसुरेंद्रस्य मंदिरम् ।। २०.१५ ।।

नमुचेरिंद्रशत्रोश्च महानादस्य चालयम् ।।
पुरं च शंकुकर्णस्य कबंधस्य च मंदिरम् ।। २०.१६ ।।

निष्कुलादस्य च पुरं प्रहृष्टजनसंकुलम् ।।
राक्षसस्य च भीमस्य शूलदंतस्य चालयम् ।। २०.१७ ।।

लोहिताक्षकलिंगानां नगरं श्वापदस्य च ।।
धनंजयस्य च पुरं नागेंद्रस्य महात्मनः ।। २०.१८ ।।

कालियस्य च नागस्य नगरं कौशिकस्य च।।
एवं पुरसहस्राणि नागदानवरक्षसाम् ।। २०.१९ ।।

तले ज्ञेयानि प्रथमे कृष्णभौमे न संशयः ।।
द्वितीये सुतले विप्रा दैत्येंद्रस्य च रक्षसः ।। २०.२० ।।

महाजंभस्य तु तथा नगरं प्रथमस्य तु ।।
इयग्रीवस्य कृष्णस्य निकुम्भस्य च मंदिरम् ।। २०.२१ ।।

शंखख्यस्य च दैत्यस्य नगरं गोमुखस्य च ।।
राक्षसस्य च नीलस्य मेघस्य कथनस्य च ।। २०.२२ ।।

आलयं कुकुपादस्य महोष्णीषस्य चालयम् ।।
कंबलस्य च नागस्य पुरमश्वतरस्य च ।। २०.२३ ।।

कद्रूपुत्रस्य च पुरं तक्षकस्य महात्मनः ।।
एवं पुरसहस्राणि नागदानवरक्षसाम् ।। २०.२४ ।।

द्वितीयेऽस्मिन् तले विप्राः पांडुभौमे न संशयः ।।
तृतीये तु तले ख्यातं प्रह्लादस्य महात्मनः ।। २०.२५ ।।

अनुद्रादस्य च पुरं पुरमग्निमुखस्य च ।।
तारकाश्यस्य च पुरं पुरं त्रिशिरसस्तथा ।। २०.२६ ।।

शिशुमारस्य च पुरं त्रिपुरस्य तथा पुरम् ।।
पुरंजनस्य दैत्यस्य हृष्टपुष्टजनाकुलम् ।। २०.२७ ।।

च्यवनस्य तु विज्ञेयं राक्षसस्य च मंदिरम् ।।
राक्षसेंद्रस्य च पुरं कुम्भिलस्य खरस्य च ।। २०.२८ ।।

विराधस्य च क्रूरस्य पुरमुल्कासुखस्य च ।।
हेमकस्य च नागस्य तथा पांडुरकस्य च ।। २०.२९ ।।

मणिनागस्य च पुरं कपिलस्य च मंदिरम् ।।
नेदकस्योरगपतोर्विशालाक्षस्य मंदिरम् ।। २०.३० ।।

एवं पुरसहस्राणि नागदानवरक्षसाम् ।।
तृतीयेऽस्मिंस्तले विप्रा नीलभौमे न संशयः ।। २०.३१ ।।

चतुर्थे दैत्यसिंहस्य कालनेमेर्महात्मनः ।।
गजकर्णस्य च पुरं नगरं कुञ्जरस्य च ।। २०.३२ ।।

राक्षसेंद्रस्य च पुरं सुमालेर्बहुविस्तरम् ।।
मुंजस्य लोकनाथस्य वृकवक्त्रस्य चालयम् ।। २०.३३ ।।

बहुयोजनविस्तीर्णं बहुपक्षिसमाकुलम् ।।
नगलं वैनतेयस्य चतुर्थेऽस्मिन्नसातले ।। २०.३४ ।।

पञ्चमे शर्कराभौमे बहुयोजनविस्तरम् ।।
विरोजनस्य नगरं दैत्यसिंहस्य धीमतः ।। २०.३५ ।।

वैद्युतस्याग्निजि ह्वस्य हिरण्याक्षस्य चालयम् ।।
पुरं च विद्युज्जिह्वस्य राक्षसेन्द्रस्य धीमतः ।। २०.३६ ।।

सहामेघस्य च पुरं राक्षसेंद्रस्य मालिनः ।।
किर्मीरस्य च नागस्य स्वस्तिकस्य जयस्य च ।। २०.३७ ।।

एवं पुरसहस्राणि नागदानवरक्षसाम् ।।
पञ्चमेऽस्मिंस्तले ज्ञेयं शर्करानिचये सदा ।। २०.३८ ।।

षष्ठे तले दैत्यपतेः केसरे नगरोत्तमम् ।।
सुपर्वणः पुलोम्नश्च नगरं महिषस्य च ।। २०.३९ ।।

राक्षसेंद्रस्य च पुरं सुरोषस्य महात्मनः ।।
तत्रास्ते सुरमापुत्रः शतशीर्षो मुदा युतः ।। २०.४० ।।

महेंद्रस्य सखा श्रीमान्वासुकिनाम नागराट् ।।
एवं पुरसहस्राणि नागदानवरक्षसाम् ।। २०.४१ ।।

षष्ठे तलेऽस्मिन्विख्याते शिलाभौमे रसातले ।।
सप्तमे तु तले ज्ञेयं पाताले सर्वपश्चिमे ।। २०.४२ ।।

पुरं बलेः प्रमुदितं नरना रीगणाकुलम् ।।
असुराशीविषैः पूर्णं सुखितैर्देवशत्रुभिः ।। २०.४३ ।।

मुचुकुन्दस्य देत्यस्य तत्रैव नगरं महात् ।।
अनेकैर्दितिपुत्राणां समुदीर्णैर्महापुरैः ।। २०.४४ ।।

तथैव नागनगरैर्द्युतिमद्भिः सहस्रशः ।।
दैत्यानां दानवानां च समुदीर्णैर्महापुरैः ।। २०.४५ ।।

उदीर्णै राक्षसावासैरनेकैश्च समाकुलम् ।।
पातालांते च विप्रेंद्रा विस्तीण बहुयोजने ।। २०.४६ ।।

आस्ते रक्तारविंदाक्षो महात्मा ह्यजरामरः ।।
धौतशंखोदरवपुर्नील वासा महाबलः ।। २०.४७ ।।

विशालभोगो द्युतिमांश्चित्रमाल्यधरो बली ।।
रुक्मश्रृङ्गावदातेन दीप्तास्येन विराजता ।। २०.४८ ।।

प्रभुर्मुख सहस्रेण शोभते चैककुण्डली ।।
स जिह्वामालया दीप्तो लोलज्ज्वालानलार्चिषा ।। २०.४९ ।।

ज्वालामालापरिक्षिप्तः कैलास इव लक्ष्य ते ।।
स तु नेत्रसहस्रेण द्विगुणेन विराजता ।। २०.५० ।।

बालसूर्याभिताम्रेण शरीरस्निग्धपांडुना ।।
तस्य कुंदेंदुवर्णस्य नेत्रमाला विराजते ।। २०.५१ ।।

तरुणादित्यमालेव श्वेतपर्वतमूर्द्धनि ।।
विकरालोच्छ्रिततनुर्लक्ष्यते शयनासने ।। २०.५२ ।।

विस्तीर्ण इव मेदिन्यां सहस्रशिखरो गिरिः ।।
महानागैर्महाभोगैर्महाविज्ञैर्महात्मभिः ।। २०.५३ ।।

उपास्यते महातेजा महानागपतिः स्वयम् ।।
स राजा सर्वनागानां शेषोऽनंतो महाद्युतिः ।। २०.५४ ।।

सा वैष्णवी व्यवहृतिर्मर्यादा या व्यवस्थिता ।।
सप्तैवमेते कथिता व्यवहार्या रसातलाः ।। २०.५५ ।।

देवासुरम हानागराक्षसाध्युषिताः सदा ।।
अतः परमनालोकमगम्यं सिद्धसाधुभिः ।। २०.५६ ।।

देवानामप्यविदितं व्यवहारविवक्षया ।।
पृथ्व्यंबुव ङ्निवायूनां नभसश्च द्विजोत्तमाः ।। २०.५७ ।।

महत्त्वमृषिभिश्चैवं वर्ण्यते नात्र संशयः ।।
अत ऊर्द्ध्वं प्रवक्ष्यामि सूर्याचंद्रमसोर्गतिम् ।। २०.५८ ।।

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे
द्वितीयेऽनुषंगपादेऽधोलोकवर्णनं नाम विंशतितमोऽध्यायः ।। २० ।।