ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः १५
[[लेखकः :|]]
अध्यायः १६ →

सूत उवाच ।।
एवं प्रजासन्निवेशं श्रुत्वा वै शांशपायनिः ।।
पप्रच्छ नियतं सूतं पृथिव्युद धिविस्तरम् ।। १५.१ ।।

कति द्वीपा समुद्रा वा पवता वा कति स्मृताः ।।
कियंति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः ।। १५.२ ।।

महा भूतप्रमाणं च लोकालोकं तथैव च ।।
पर्यायं परिमाणं च गतिं चन्द्रार्कयोस्तथा ।।
एतत्प्रबूहि नः सर्वं विस्तरेण यथार्थतः ।। १५.३ ।।

सूत उवाच ।।
हंत वोऽहं प्रवक्ष्यामि पृथिव्यायामविस्तरम् ।। १५.४ ।।

संख्यां चैव समुद्राणां द्वीपानां चैव विस्तरम् ।।
द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि च ।। १५.५ ।।

न शक्यंते क्रमेणेह वक्तुं यैः सततं जगत् ।।
सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह ।। १५.६ ।।

तेषां मनुष्या स्तर्क्केण प्रमाणानि प्रचक्षते ।।
अचिंत्याः खलु ये भावा न तांस्तर्केण साधयेत् ।। १५.७ ।।

प्रकृतिभ्यः परं यच्च तदचिन्त्यं प्रचक्षते ।।
नववर्षं प्रवक्ष्यामि जंबूद्वीपं यथातथम् ।। १५.८ ।।

विस्तरान्मण्डलाच्चैव योजनैस्तन्निबोधत ।।
शतमेकं सहस्राणां योजनाग्रात्समंततः ।। १५.९ ।।

नानाजनपदाकीर्णः पुरैश्च विविधैश्शुभैः ।।
सिद्धचारणसंकीणः पर्वतैरुपशोभितः ।। १५.१० ।।

सर्वधातुनिबद्धैश्च शिलाजाल समुद्भवैः ।।
पर्वतप्रभवाभिश्च नदीभिः सर्वतस्ततः ।। १५.११ ।।

जंबूद्वीपः पृथुः श्रीमान् सर्वतः पृथुमंडलः ।।
नवभिश्चावृतः सर्वो भुवनैर्भूतभावनैः ।। १५.१२ ।।

लवणेन समुद्रेण सर्वतः परिवारितः ।।
जंबूद्वीपस्य विस्तारात् समेन तु समंततः ।। १५.१३ ।।

प्रागायताः सूपर्वाणः षडिमे वर्षपर्वताः ।।
अवगाढा ह्युभयतः मसुद्रौ पूर्वपश्चिमौ ।। १५.१४ ।।

हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान् ।।
सर्वर्त्तुषु सुखश्चापि निषधः पर्वतो महान् ।। १५.१५ ।।

चतुर्वर्णश्च सौवर्णो मेरुश्चारुतमः स्मृतः ।।
द्वात्रिंशच्च सहस्राणि विस्तीर्णः स च मूर्द्धनि ।। १५.१६ ।।

वृत्ताकृतिप्रमाणश्च चतुरस्रः समुच्छ्रितः ।।
नानावर्णास्तु पार्श्वेषु प्रजापतिगुणान्वितः ।। १५.१७ ।।

नाभिबंधनसंभूतो ब्रह्मणोऽव्यक्तजन्मनः ।।
पूर्वतः श्र्वेतवर्णश्च ब्राह्मणस्तस्य तेन तत् ।। १५.१८ ।।

पार्श्वमुत्तरतस्तस्य रक्तवर्मः स्वभावतः ।।
तेनास्य क्षत्र्रभावस्तु मेरोर्नानार्थकारणात् ।। १५.१९ ।।

पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते ।।
भृंगपत्रनिभश्चापि पश्चिमेन समाचितः ।। १५.२० ।।

तेनास्य शूद्रभावः स्यादिति वर्णाः प्रकीर्त्तिताः ।।
वृत्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः ।। १५.२१ ।।

नीलश्च वैदुर्यमयः श्वेतः घुक्लो हिरण्मयः ।।
मयुरबर्हवर्णस्तु शातकौंभश्च श्रृंगवान् ।। १५.२२ ।।

एते पर्वतराजानः सिद्धचारणसेविताः ।।
तेषामंतरविष्कंभो नवसाहस्र उच्यते ।। १५.२३ ।।

मध्ये त्विलावृतं नाम महामेरोः समंतमः ।।
नवैवं तु सहस्राणि विस्तीर्णं सर्वतस्तु तत् ।। १५.२४ ।।

मध्ये तस्य महामेरुर्विधूम इव पावकः ।।
वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम् ।। १५.२५ ।।

वर्षाणि यानि षट् चैव तेषां ये वर्षपर्वताः ।।
द्वे द्वे सहस्रे विस्तीर्णा योजनानां समुच्छ्रयात् ।। १५.२६ ।।

जंबूद्वीपस्य विस्तारात्तेषामायाम उच्यते ।।
योजनानां सहस्राणि शतं द्वावायतौ गिरी ।। १५.२७ ।।

नीलश्च निषधश्चैव ताभ्यां हीनास्तु ये परे ।।
श्वेतश्च हेमकूटश्च हिमवाञ्छृंगवांस्तथा ।। १५.२८ ।।

नवती द्वे अशीती द्वे सहस्राण्यायतास्तु तेः ।।
तेषां मध्ये जनपदास्तानि वर्णाणि सप्त वै ।। १५.२९ ।।

प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु ।।
संततानि नदीभेदैरगम्यानि परस्परम् ।। १५.३० ।।

वसंति तेषु सत्त्वानि नानाजातीनि सर्वशः ।।
इदं हैमवतं वर्षं भारतं नाम विश्रुतम् ।। १५.३१ ।।

हेमकूटं परं ह्यस्मा न्नान्ना किंषुरुपं स्मृतम् ।।
नैषधं हेमकूटात्तु हरिवर्षं तदुच्यते ।। १५.३२ ।।

हरिवर्षात्परं चापि मेरोश्व तदिलावृतम् ।।
िलावृतात्परं नीलं सम्यकं नाम विश्रुतम् ।। १५.३३ ।।

रम्यकात्परतः श्र्वेतं विश्रुतं तद्धिरण्मयम् ।।
हिरण्मयात्परं चैव श्रृंगवत्तः कुरु स्मृतम् ।। १५.३४ ।।

धनुःसंस्थे तु विज्ञेये द्वे वर्षे दक्षिणोत्तरे ।।
दीर्घाणि तत्र चत्वारि मध्यमं तदिलावृतम् ।। १५.३५ ।।

अर्वाक् च निषधस्याथ वेद्यर्द्धं दक्षिणं स्मृतम् ।।
परं नीलवतो यच्च वेद्यर्द्धं तु तदुत्तरम् ।। १५.३६ ।।

वेद्यर्द्धे दक्षिणे त्रीणि त्रीणि वर्षाणि चोत्तरे ।।
तयोर्मध्ये तु विज्ञेयो मेरुर्मध्य इलावृतम् ।। १५.३७ ।।

दक्षिणेन तु नीलस्य निषधस्योत्तरेम तु ।।
उदगायेतो महाशैलो माल्यवान्नाम नामतः ।। १५.३८ ।।

योजनानां सहस्रं तु आनील निषधायतः ।।
आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः ।। १५.३९ ।।

तस्य प्रतीच्यां विज्ञेयः पर्वतो गंधमादनः ।।
आयामतोऽथ विस्तारान्माल्यवा नितिविश्रुतः ।। १५.४० ।।

परिमंडलयोर्मेरुर्मध्ये कनकपर्वतः ।।
चतुर्वणः स सौवर्णः चतुरस्रः समुच्छ्रितः ।। १५.४१ ।।

सुमेरुः शुशुभेशुभ्रो राजव त्समधिष्ठितः ।।
तरुणादित्यवर्णाभो विधूम इव पावकः ।। १५.४२ ।।

योजनानां सहस्राणि चतुरशीतरुच्छ्रितः ।।
प्रविष्टः षोडशाधस्ताद्विस्तृतः षोडशैव तु ।। १५.४३ ।।

शरावसंस्थितत्वात्तु द्वात्रिंशन्मूर्ध्निविस्तृतः ।।
विस्तारात्रिगुणस्तस्य परिणाहः समंततः ।। १५.४४ ।।

मंडलेन प्रमाणेन त्र्यस्रे मानं तदिष्यते ।।
चत्वारिंशत्सहस्राणि योजनानां समंततः ।। १५.४५ ।।

अष्टाभिरधिकानि स्युस्त्र्यस्रे मानं प्रकीर्त्तितम् ।।
चतुरस्रेण मानेन परिणाहः समंततः ।। १५.४६ ।।

चतुः षष्टिसहस्राणि योजनानां विधीयते ।।
स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः ।। १५.४७ ।।

भुवनैरावृतः सर्वो जातरूपमयैः शुभैः ।।
तत्र देवगणाः सर्वे गंधर्वोरगराक्षसाः ।। १५.४८ ।।

शैलराजे प्रदृश्यंते शुभाश्चाप्सरसां गणाः ।।
स तु मेरुः परिवृतो भुवनैर्भूतभावनैः ।। १५.४९ ।।

चत्वारो यस्य देशा वै चतुःपार्श्वेष्वधिष्ठिताः ।।
भद्राश्वा भरताश्वैव केतुमालाश्च पश्चिमाः ।। १५.५० ।।

उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः ।।
गंधमादनपर्श्वे तु परैषाऽपरगंडिका ।। १५.५१ ।।

सर्वर्त्तुरमणीया च नित्यं प्रमुदिता शिवा ।।
द्वात्रिंशत्तु सहस्राणि योजनैः पूर्वपश्चिमात् ।। १५.५२ ।।

आयामतश्चतुस्त्रिंशत्सहस्राणि प्रमाणतः ।।
तत्र ते शुभकर्माणः केतुमालाः प्रतिष्ठिताः ।। १५.५३ ।।

तत्र काला नराः सर्वे महासत्त्वा महाबलाः ।।
स्त्रियश्चोत्पल पत्राभाः सर्वास्ताः प्रियदर्शनाः ।। १५.५४ ।।

तत्र दिव्यो महावृक्षः पनसः पड्रसाश्रयः ।।
ईश्वरो ब्रह्मणः पुत्रः कामचारी मनोजवः ।। १५.५५ ।।

तस्य पीत्वा फलरसं जीवंति च समायुतम् ।।
पार्श्वे माल्यवतश्चापि पूर्वेऽपूर्वा तु गंडिका ।। १५.५६ ।।

आयामादथ विस्ताराद्यथैषापरगंडिका ।।
भद्राश्वास्तत्र विज्ञेया नित्यं मुदितमानसाः ।। १५.५७ ।।

भद्रशालवनं चात्र कालाम्रस्तु महाद्रुमः ।।
तत्र ते पुरुषाः स्वेता महोत्साहा बलान्विताः ।। १५.५८ ।।

स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः ।।
चन्द्रप्रभाश्चंद्रवर्णाः पूर्णचन्द्र निभाननाः ।। १५.५९ ।।

चंद्रशीतलगात्र्यस्ताः स्त्रिय उत्पलगंधिकाः ।।
दशवर्षसहस्राणि तेषामायुरनामयम् ।। १५.६० ।।

कालाम्रस्य रसं पीत्वा सर्वे च स्थिरयौवनाः ।।
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण च ।। १५.६१ ।।

वर्षं रमणकं नाम जायंते तत्र मानवाः ।।
रतिप्रधाना विमला जरादौर्गंध्यवर्जिताः ।। १५.६२ ।।

शुक्लाऽभिजनसंपन्नाः सर्वे च प्रियदर्शनाः ।।
तत्रापि सुमहान्वृक्षो न्यग्रोधो रोहितो महान् ।। १५.६३ ।।

तस्यापि ते फलरसं पिबंतो वर्त्तयंति वै ।।
दशवर्षसहस्राणि शतानि दश पंच च ।। १५.६४ ।।

जीवंति ते महाभागाः सदा त्दृष्टा नरोत्तमाः ।।
दक्षिणे वै श्रृंगवतः श्वेतस्याप्युत्तरेण च ।। १५.६५ ।।

वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी ।।
महाबलाः सुतेजस्का जायंते तत्र मानवाः ।। १५.६६ ।।

यक्षा वीरा महासत्त्वा धनिनः प्रियदर्शनाः ।।
एकादशसहस्राणि वर्षाणां ते महौजसः ।। १५.६७ ।।

आयुः प्रमाणं जीवंति शतानि दश पंच च ।।
यस्मिन्वर्षे महावृक्षो लकुचः षड्रसाश्रयः ।। १५.६८ ।।

तस्य पीत्वा फलरसं ते जीवंति निरामयाः ।।
त्रीणि श्रृंगवतः श्रृंगाण्युच्छ्रितानि महांति च ।। १५.६९ ।।

एकं मणिमयं तेषामेकं चैव हिरण्मयम् ।।
सर्वरत्नमयं चैकं भवनैरुपशोभितम् ।। १५.७० ।।

उत्तरे वै श्रृंगावतः समुद्रस्य च दक्षिणे ।।
कुरवस्तत्र तद्वर्षं पुण्यं सिद्धनिषेवितम् ।। १५.७१ ।।

तत्र वृक्षा मधु फला नित्यपुष्पफलोपगाः ।।
वस्त्राणि च प्रसूयंते फलेष्वाभरणानि च ।। १५.७२ ।।

सर्वकामप्रदास्तत्र केचिद्वक्षा मनोरमाः ।।
गंधवर्णरसो पेतं प्रक्षरंति मधूत्तमम् ।। १५.७३ ।।

अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः ।।
ये क्षरंति सदा क्षीरं षड्रसं ह्यमृतोपमम् ।। १५.७४ ।।

सर्वा मणिमयी भूमिः सूक्ष्मकांचनवालुका ।।
सर्वर्तुसुखसंपन्ना न्निष्पंका नीरजा शुभा ।। १५.७५ ।।

देवलोकच्युतास्तत्र जायंते मानवाः शुभाः ।।
शुक्लाभिजनसंपन्नाः सर्वे च स्थिरयौवनाः ।। १५.७६ ।।

मिथुनानि प्रसूयंते स्त्रियश्चाप्सरसः समाः ।।
तेषां ते क्षीरिणां क्षीरं पिबंति ह्यमृतो पमम् ।। १५.७७ ।।

मिथुनं जायते सद्यः समं चैव विवर्द्धते ।।
समं शीलं च रूपं च प्रियता चैव तत्समा ।। १५.७८ ।।

अन्योन्यमनुरक्ताश्च चक्रवाकसधर्मिणः ।।
अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः ।। १५.७९ ।।

त्रयोदशसहस्राणि शतानि दश पंच च ।।
जीवंति ते महावीर्या न चान्यस्त्रीनिषेविणः ।। १५.८० ।।

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वीतीयेऽनुषंगपादे
पृथिव्यायामविस्तरो नाम पञ्चदशोऽध्यायः ।। १५ ।।