ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः ०२

विकिस्रोतः तः
← अध्यायः १ ब्रह्माण्डपुराणम्
पूर्वभागः, अध्यायः २
[[लेखकः :|]]
अध्यायः ३ →

प्रत्यवोचन्पुनः सूतमृषयस्ते तपोधनाः ।
कुत्र सत्रं समभत्तेवषामद्भुतकर्मणाम् ॥ १,२.१ ॥
कियन्तं चैव तत्कालं कथं च समवर्त्तत ।
आचचक्षे पुराणं च कथं तत्सप्रभञ्जनः ॥ १,२.२ ॥
आचख्यौ विस्तरेणैव पर कौतूहलं हि नः ।
इति संचोदितः सूतः प्रत्युवाच शुभं वचः ॥ १,२.३ ॥
शृणुध्वं यत्र ते धीरा मेनिरे मन्त्रमुत्तमम् ।
यावन्तं चाभवत्कालं यथा च समवर्तत ॥ १,२.४ ॥
सिसृक्षमाणो विश्वं हि यजते विसृजत्पुरा ।
सत्रं हि तेऽतिपुण्यं च सहस्रपरिवत्सरान् ॥ १,२.५ ॥
तपोगृहपतेर्यत्र ब्रह्मा चैवाभवत्स्वयम् ।
इडाया यत्र पत्नीत्वं शामित्रं यत्र बुद्धिमान् ॥ १,२.६ ॥
मृत्युश्चके महातेजास्तस्मिन्सत्रे महात्मनाम् ।
विबुधाश्चोषिरे तत्र सहस्रपरिवत्सरान् ॥ १,२.७ ॥
भ्रमतो धर्मचक्रस्य यत्र नेमिरशीर्यत ।
कर्मणा तेन विख्यातं नैमिषं मुनिपूजितम् ॥ १,२.८ ॥
यत्र सा गोमती पुण्या सिद्धचारणसेविता ।
रोहिणी स सुता तत्र गोमती साभवत्क्षणात् ॥ १,२.९ ॥
शक्तिर्ज्येष्ठा समभवद्वसिष्ठस्य महात्मनः ।
रुन्धत्याः सुतायात्रादानमुत्तमतेजसः ॥ १,२.१० ॥
कल्माषपादो नृपतिर्यत्र शक्रश्च शक्तिना ।
यत्र वैरं समभवद्विश्वामित्रवसिष्ठयोः ॥ १,२.११ ॥
अदृश्यन्त्यां समभवन्मुनिर्यत्र पराशरः ।
पराभवो वसिष्ठस्य यस्य ज्ञाने ह्यवर्त्तयत् ॥ १,२.१२ ॥
तत्र ते मेनिरे शैलं नैमिषे ब्रह्मवादिनः ।
नैमिषं जज्ञिरे यस्मान्नैमिषीयास्ततः स्मृताः ॥ १,२.१३ ॥
तत्सत्रमभवत्तेषां समा द्वादश धीमताम् ।
पुरूरवसि विक्रान्ते प्रशासति वसुंधराम् ॥ १,२.१४ ॥
अष्टादश समुद्रस्य द्वीपानश्रन् पुरूरवाः ।
तुतोष नैव रत्नानां लोभादिति हि नः श्रुतम् ॥ १,२.१५ ॥
उर्वशी चकमे तं च देवदूतप्रचोदिता ।
आजहार च तत्सत्रमुर्वश्या सह संगतः ॥ १,२.१६ ॥
तस्मिन्नरपतौ सत्रे नैमिषीयाः प्रचक्रिरे ।
यं गर्भं सुषुवे गङ्गा पावकाद्दीप्ततेजसम् ॥ १,२.१७ ॥
तत्तुल्यं पर्वते न्यस्तं हिरण्यं समपद्यत ।
हिरण्मयं ततश्चके यज्ञवाटं महात्मनाम् ॥ १,२.१८ ॥
विश्वकर्मा स्वयन्देवो भावनो लोकभावनः ।
स प्रविश्य ततः सत्रे तेषाममिततेजसाम् ॥ १,२.१९ ॥
ऐडः पुरूरवा भेजे तं देशं मृगयां चरन् ।
तं दृष्ट्वा महादाश्वर्यं यज्ञवाटं हिरण्मयम् ॥ १,२.२० ॥
लोभेन हतविज्ञानस्तदादातुमुपाक्रमत् ।
नैमिषेयास्ततस्तस्य चुक्रुधुर्नृपतिं भृशम् ॥ १,२.२१ ॥
निजघ्नुश्चापि तं क्रुद्धाः कुशवज्रैर्मनीषिणः ।
तपोनिष्ठाश्च राजानं मुनयो देवचोदिताः ॥ १,२.२२ ॥
कुशवज्रौर्विनिष्पिष्टः स राजा व्यजहात्तनुम् ।
और्वशेयैस्ततस्तस्य युद्धं चक्रे नृपो भुवि ॥ १,२.२३ ॥
नहुषस्य महात्मानं पितरं यं प्रचक्षते ।
स तेष्ववभृथेष्वेव धर्म्मशीलो महीपतिः ॥ १,२.२४ ॥
आयुरायभवायाग्र्यमस्मिन् सत्रे नरोत्तमः ।
शान्तयित्वा तु राजानं तदा ब्रह्मविदस्तथा ॥ १,२.२५ ॥
सत्रमारेभिरे कर्त्तुं पृथ्वीवत्सा त्ममूर्तयः ।
बभूव सत्रे तेषां तु ब्रह्मचर्यं महात्मनाम् ॥ १,२.२६ ॥
विश्वं सिसृक्षमाणानां पुरा विस्वसृजामिव ।
वैखानसैः प्रियसखैर्वाल खिल्यैर्मरीचिभिः ॥ १,२.२७ ॥
अजैश्च मुनिभिर्जातं सूर्यवैश्वानरप्रभः ।
वितृदेवाप्सरःसिद्धैर्गन्धर्वोरगचारणैः ॥ १,२.२८ ॥
भारतैः शुशुभे राजा देवैरिन्द्रसमो यथा ।
स्तोत्रशस्त्रैर्गृहैर्देवान्पितॄन्पित्र्यैश्च कर्मभिः ॥ १,२.२९ ॥
आनर्चुःस्म यथाजाति गन्धर्वादीन् यथाविधि ।
आराधने स सस्मार ततः कर्मान्तरेषु च ॥ १,२.३० ॥
जगुः सामानि गन्धर्वा ननृतुश्चाप्सरोगणाः ।
व्याजह्रुर्मुनयो वाचं चित्राक्षरपदां शुभाम् ॥ १,२.३१ ॥
मन्त्रादि तत्र विद्वांसो जजपुश्च परस्परम् ।
वितण्डावचनैश्चैव निजघ्नुः प्रतिवादिनः ॥ १,२.३२ ॥
ऋषयश्चैव विद्वांसः शब्दार्थन्यायकोविदाः ।
न तत्र हारितं किञ्चिद्विविशुर्ब्रह्मराक्षसाः ॥ १,२.३३ ॥
नैव यज्ञहरा दैत्या नैव वाजमुखास्त्रिणः ।
प्रायश्चित्तं दरिद्रं च न तत्र समजायत ॥ १,२.३४ ॥
शक्तिप्रज्ञाक्रियायेगैर्विधिराशीष्वनुष्टितः ।
एवं च ववृधे सत्रं द्वादशाब्दं मनीषिणाम् ॥ १,२.३५ ॥
ऋषीणां नैमिषीयाणां तदभूदिव वज्रिणः ।
वृद्धाद्या ऋत्विजो वीरा ज्योतिष्टोमान् पृथक्पृथक् ॥ १,२.३६ ॥
चक्रिरे पृष्ठगमनाः सर्वानयुतदक्षिणान् ।
समाप्तयज्ञो यत्रास्ते वासुदेवं महाधिपम् ॥ १,२.३७ ॥
पप्रच्छुरमितात्मानं भवद्भिर्यदहं द्विजः ।
प्रचोदितः स्ववंशार्थं स च तानब्रवीत्प्रभुः ॥ १,२.३८ ॥
शिष्यःस्वयंभुवो देवः सर्वं प्रत्यक्षदृग्वशी ।
अणिमादिभिरष्टाभिः सूक्ष्मैरङ्गैः समन्वितः ॥ १,२.३९ ॥
तिर्यग्वातादिभिर्वर्षैः सर्वां ल्लोकान्बिभर्ति यः ।
सप्तस्कन्धा भृताः शाखाः सर्वतोयाजराजरान् ॥ १,२.४० ॥
विषयैर्मरुतो यस्य संस्थिताः सप्तसप्तकाः ।
व्यूहत्रयाणां सूतानां कुर्वन् सत्रं महाबलः ॥ १,२.४१ ॥
तेजसश्वाप्युपायानां दधातीह शरीरिणः ।
प्राणाद्या वृत्तयः पञ्च धारणानां स्ववृत्तिभिः ॥ १,२.४२ ॥
पूर्यमाणः शरीराणां धारणं यस्य कुर्वते ।
आकाशयोनिर्द्विगुणः शब्दस्पर्शसमन्वितः ॥ १,२.४३ ॥
वाचोरणिः समाख्याता शब्दशास्त्रविचक्षणैः ।
भारत्याः श्लक्ष्णया सर्वान्मुनीन्प्रह्लादयन्निव ॥ १,२.४४ ॥
पुराणज्ञाः सुमनसः पुराणाश्रययुक्तया ।
पुराणनियता विप्राः कथामकथयद्विभुः ॥ १,२.४५ ॥
एतत्सर्वं यथावृत्तमाख्यानं द्विजसत्तमाः ।
ऋषीणां च परं चैतल्लोकतत्त्वमनुत्तमम् ॥ १,२.४६ ॥
ब्रह्मणा यत्पुरा प्रोक्तं पुराणं ज्ञानमुत्तमम् ।
देवतानामृषीणां च सर्वपापप्रमोचनम् ॥ १,२.४७ ॥
विस्तरेणानुपूर्व्या च तस्य वक्ष्याम्यनुक्रमम् ॥ १,२.४८ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापादे नैमिषाख्यानकथनं नाम द्वितीयोऽध्यायः