ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः २१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २० ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः २१
[[लेखकः :|]]
अध्यायः २२ →

सूत उवाच ।।
सूर्या चंद्रमसावेतौ भ्रमतो यावदेव तु ।।
प्रकाशैस्तु प्रभाभिस्तौ मंडलाभ्यां समुच्छ्रितौ ।। २१.१ ।।

सप्तानां तु समुद्राणां द्वीपानां सतु विस्तरः ।।
विस्तरार्द्धे पृथिव्यास्तु भवेदन्यत्र बाह्यतः ।। २१.२ ।।

पर्यासपरिमाणं तु चंद्रादित्यौ प्रकाशतः ।।
पर्यास्तात्पारिमाण्येन भूमेस्तुल्यं दिवं स्मृतम् ।। २१.३ ।।

अवति त्रीनिमाँल्लोकान् यस्मात्सूर्यः परिभ्रमन् ।।
अविधातुः प्रकाशाख्यो ह्यवनात्स रविः स्मृतः ।। २१.४ ।।

अतः परं प्रवक्ष्यामि प्रमाणं चंद्रसूर्ययोः ।।
महित्तत्त्वान्महीशब्दोऽह्यस्मिन्वर्षे निपाद्यते ।। २१.५ ।।

अस्य भारतवर्षस्य विष्कंभात्तुल्यविस्तृतम् ।।
मंडलं भास्करस्याथ योजनानि निबोधत ।। २१.६ ।।

नवयोजनसाहस्रो विस्तारो भास्करस्य तु ।।
विस्तारात्र्रिगुणश्चास्य परिणाहस्तु मंडले ।। २१.७ ।।

विष्कंभमंडलाच्चैव भास्कराद्द्विगुणः शशी ।।
अथ पृथिव्या वक्ष्यामि प्रमाणं योजनैः सह ।। २१.८ ।।

सप्तद्वीपसमुद्राया विस्तारो मंडलं च यत् ।।
इत्येतदिह संख्यातं पुराणे परिमाणतः ।। २१.९ ।।

तद्वक्ष्यामि समाख्याय सांप्रतैरभिमानिभिः ।।
अभिमानिनोव्यतीता ये तुल्यास्ते सांप्रतैस्त्विह ।। २१.१० ।।

देवा ये वै व्यतीतास्तु रूपैर्नामभिरेव च ।।
तस्मात्तु सांप्रतैर्देवैर्वक्ष्यामि वसुधातलम् ।। २१.११ ।।

दिवास्तु सन्निवेशं वै सांप्रतैरेव कृत्स्नशः ।।
शतार्द्धकोटिविस्तारा पृथिवी कृत्स्नशः स्मृता ।। २१.१२ ।।

तस्या ऊर्द्ध्वप्रमाणेन मेरोर्यावत्तु संस्थितिः ।।
पृथिव्या ह्यर्द्धविस्तारो योजनाग्रात्प्रकीर्त्तितः ।। २१.१३ ।।

मेरोर्मध्यात्प्रतिदिशं कोटिरेका तु सा स्मृता ।।
तथा शातसहस्राणामेकोन नवतिः पुनः ।। २१.१४ ।।

पंचाशत्तु सहस्राणि पृथिव्यर्द्धस्य मंडलम् ।।
गणितं योजनाग्रात्तु कोट्यस्त्वेकादश स्मृताः ।। २१.१५ ।।

तथा शतसहस्राणि सप्तत्रिंशाधिकानि तु ।।
इत्येतदिह संश्यातं पृथिव्यंतस्य मंडलम् ।। २१.१६ ।।

तारकासंनिवेशास्य दिवि याव च्च मंडलम् ।।
पर्याससन्निवेशश्च भूमेर्यावत्तु मंडलम् ।। २१.१७ ।।

पर्यासपरिमाणेन भूमेस्तुल्यं दिवः स्मृतम् ।।
सप्तानामपि द्वीपानामेत त्स्थानं प्रकीर्तितम् ।। २१.१८ ।।

पर्यायपरिमाणेन मंडलानुगतेन च ।।
उपर्युपरि लोकानां छत्रवत्परिमंडलम् ।। २१.१९ ।।

संस्थितिर्विहिता सर्वा येषु तिष्ठंति जंतवः ।।
एतदंडकपालस्य प्रमाणं परिकीर्त्तितम् ।। २१.२० ।।

अंडस्यांतस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ।।
भूर्लोकश्च भुवर्ल्लोकस्तृतीयस्सृरिति स्स्वतः ।। २१.२१ ।।

महर्ल्लोको जनश्चैव तपः सत्यं च सप्तमम् ।।
एते सप्त कृता लोकाश्छत्राकारा व्यवस्थिताः ।। २१.२२ ।।

स्वकैरावरणैः सूक्ष्मैर्धार्यमाणाः पृथक्पृथक् ।।
दशभागाधिकाभिश्च ताभिः प्रकृतिभिर्बहिः ।। २१.२३ ।।

पूर्यमाणा विशेषैश्च समुत्पन्नैः परस्परात् ।।
अस्यांडस्य समंताच्च सन्निविष्टो घनोदधिः ।। २१.२४ ।।

पृथिव्या मंडलं कृत्स्नं घनतोयेन धार्यते ।।
घनोदधिः परेणाथ धार्य्यते घनतेजसा ।। २१.२५ ।।

बाह्यतो घनतेजस्च तिर्य्यगूर्द्ध्वं तु मंडलम् ।।
संमताद्धनवातेन धार्यमाणं प्रतिष्ठितम् ।। २१.२६ ।।

घनवातं तथाकाशमाकाशं च महात्मना ।।
भूतादिना वृतं सर्वं भूतादिर्महता वृतः ।। २१.२७ ।।

वृतो महाननंतेन प्रधानेनाव्य यात्मना ।।
पुराणि लोकपालानां प्रवक्ष्यामि यथाक्रमम् ।। २१.२८ ।।

ज्योतिर्गुणप्रचारस्य प्रमाणपरिसिद्धये ।।
मेरोः प्राच्यां दिशि तथा मानसस्यैव मूर्द्धनि ।। २१.२९ ।।

वस्वौकसारा माहेंद्री पुरी हेमपरिष्कृता ।।
दक्षिणेन पुनर्मेरोर्मानसस्यैव मूर्द्धनि ।। २१.३० ।।

वैवस्वतो निव सति यमः संयमने पुरे ।।
प्रतीच्यां तु पुनर्मेरोर्मानसस्यैव मूर्द्धनि ।। २१.३१ ।।

सुखा नाम पुरी रम्या वरुणस्यापि धीमतः ।।
वरुणो यादसां नाथस्सुखाख्ये वसते पुरे ।। २१.३२ ।।

दिश्युत्तरस्यां मेरोस्तु मानसस्यैव मूर्द्धनि ।।
तुल्या महेंद्रपुर्य्यास्तु सोमस्यापि विभावरी ।। २१.३३ ।।

मानसोत्तरवृष्टे तु लोकपालाश्चतुर्दिशम् ।।
स्थिता धर्मव्यवस्थार्थ लोकमंरक्षणाय च ।। २१.३४ ।।

लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने ।।
काष्ठागतस्य सूर्यस्य गतिया तां निबोधत ।। २१.३५ ।।

दक्षिणोऽपक्रमे सूर्य्यः क्षिप्तेषुरिव सर्पति ।।
ज्योतिषां चत्र्रमादाय सततं परिगच्छति ।। २१.३६ ।।

मध्यगश्चामरावत्यां यदा भवति भास्करः ।।
वैवस्वते संयमते उदयस्तत्र दृश्यते ।। २१.३७ ।।

सुखायामर्द्धरात्रं स्याद्विभायामस्तमेति च ।।
वैवस्वते संयमने मध्यगः स्याद्रविर्यदा ।।
सुखायामथ वारुण्यामुत्तिष्ठन्स तु दृश्यते ।। २१.३८ ।।

विभाया मर्द्धरात्रं स्यान्माहेंद्यामस्तमेति च ।।
यदा दक्षिणपुर्वेषामपराह्णो विधीयते ।। २१.३९ ।।

दक्षिणापरदेश्यानां पूर्वह्णः परिकी र्त्तितः ।।
तेषामपररात्रश्च ये जना उत्तराः परे ।। २१.४० ।।

देशा उत्तरपूर्वा ये पूवरात्रस्तु तान्प्रति ।।
एवमेवोत्तरेष्व र्को भुवनेषु विराजते ।। २१.४१ ।।

सुखायासथ वारुण्यां मध्याह्ने चार्यमा यदा ।।
विभायां सोमपुर्यां वा उत्तिष्ठति विभावसुः ।। २१.४२ ।।

रात्र्यर्द्ध चामरावत्यामस्तमेति यमस्य च ।।
सोमपुर्या विभायां तु मध्याह्ने स्याद्दिवाकरः ।। २१.४३ ।।

महेद्रस्यामरावत्यां सूर्य उत्तिष्ठते तदा ।।
अर्द्धरात्रं संयमने वारुण्यामस्तमेति च ।। २१.४४ ।।

स शीघ्रमेव पर्येति भास्करोऽलातच त्रवत् ।।
भ्रमन्वै भ्रममार्णानि ऋक्षाणि चरते रविः ।। २१.४५ ।।

एवं चतुर्षु पार्श्वेषु दक्षिणां तेन सर्पति ।।
उदयास्तमने चासावृत्ति ष्ठति पुनः पुनः ।। २१.४६ ।।

पूवाह्णे चापराह्णे च द्वौ द्वौ देवालयौ तु सः ।।
तपत्यर्कश्च मध्याह्ने तैरेव च स्वरश्मिभिः ।। २१.४७ ।।

उदितो वर्द्धमानाभिरामध्याह्नं तपन्रविः ।।
अतः परं ह्रसंतीभिर्गोभिरस्तं निगच्छति ।। २१.४८ ।।

उदयास्तमयाभ्यां च स्मृते पूर्वापरे दिशौ ।।
यावत्पुरस्तात्तपति तापत्पृष्ठेऽथ पार्श्वयोः ।। २१.४९ ।।

यत्रोद्यन्दृश्यते सूर्यस्तेषां स उदयः समृतः ।।
प्रणाशं गच्छते यत्र तेषामस्तः स उच्यते ।। २१.५० ।।

सर्वेषामुत्तरे मेरुलोंकालोकश्च दक्षिणे ।।
विदूरभावादर्कस्य भूमिलेखावृतस्य च ।। २१.५१ ।।

लीयन्ते रश्मयो यस्मात्तेन रात्रौ न दृश्यते ।।
ग्रहनक्षत्रसोमानां दर्शनं भास्करस्य च ।। २१.५२ ।।

उच्ध्रयस्य प्रमाणेन ज्ञेयमस्तमथोदयम् ।।
शुक्लच्छायोऽग्निरा पश्च कृष्णच्छाया च मेदिनी ।। २१.५३ ।।

विदूरभावादर्कस्य ह्युद्यतेऽपि विरशिमता ।।
रक्तभावो विरश्मत्वाद्रक्तत्वाच्जाप्यनुष्णता ।। २१.५४ ।।

लेखायामास्थितः सूर्यो यत्र यत्र च दृश्यते ।।
ऊर्द्ध्व शातसहस्र तु योजनानां स दृश्यते ।। २१.५५ ।।

प्रभा हि सौरी पादेन ह्यस्तं गच्छति भास्करे ।।
अग्निमाविशते राद्रौ तस्माद्दूरात्प्रकाशते ।। २१.५६ ।।

उदिते हि पुनः सूर्ये ह्यौष्ण्यमाग्नेयमाविशेत् ।।
संयुक्तो वह्निना सूर्यस्तपते तु ततो दिवा ।। २१.५७ ।।

प्राकाश्यं च तथौष्ण्यं च सौराग्नेये च तेजसी ।।
परस्परानुप्रवेशाद्दीप्येते तु दिवानिशम् ।। २१.५८ ।।

उत्तरे चैव भूम्यर्द्धे तथा तस्मिंश्च दक्षिणे ।।
उत्तिष्ठति तथा सूर्ये रात्रिराविशतत्वपः ।। २१.५९ ।।

तस्माच्छीता भक्त्यांपो दिवारात्रिप्रवेशनात् ।।
अस्तं याति पुनः सूर्ये दिनमाविशते त्वषः ।। २१.६० ।।

तस्मादुष्णा भवत्यापो नक्तमह्नः प्रवेशनात् ।।
एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे ।। २१.६१ ।।

उदयास्तमनेऽर्कस्य अहोरात्रं विशत्यपः ।।
देनं सूर्यप्रकाशाख्यं तामसी रात्रिरूच्यते ।। २१.६२ ।।

तस्माद्व्यवस्थिता रात्रिः सूर्यापेक्षमहः स्मृतम् ।।
एवं पुष्करमध्येन यदा सर्पति भास्करः ।। २१.६३ ।।

अंशांशकं तु मेदिन्यां मुहूर्त्तेनैव गच्छति ।।
योजनाग्रान्मुहूर्त्तस्य इह संख्यां निबोधत ।। २१.६४ ।।

पूर्णे शतसहस्राणामेकत्रिंशाधिकं स्मृतम् ।।
पंचाशत्तु तथान्यानि सहस्राण्यधिकानि च ।। २१.६५ ।।

मौहूर्त्ति की गतिर्ह्येषा सूर्यस्य तु विधीयते ।।
एतेन गतियोगेन यदा काष्ठां तु दक्षिणाम् ।। २१.६६ ।।

पर्यागच्छेत्पतंगोऽसौ मध्ये काष्ठांतमेव हि ।।
मध्येन पुष्करस्याथ भ्रमते दक्षिणायने ।। २१.६७ ।।

मानसोत्तरशैले तु अंतरे विषुवं च तत् ।।
सर्पते दक्षिणायां तु काष्ठायां वै निबोधत ।। २१.६८ ।।

नवकोट्यः प्रसंख्याता योजनैः परिमंडलम् ।।
तथा शतसहस्राणि चत्वारिंशच्च पंच च ।। २१.६९ ।।

अहोरात्रात्पतंगस्य गतिरेषा विधीयते ।।
दक्षिणाद्विनिवृत्तोऽसौ विषुवस्थो यदा रविः ।। २१.७० ।।

क्षीरोदस्य समुद्रस्योत्तरतश्चाद्रितश्चरन् ।।
मंडलं विषुवत्तस्य योजनैस्तन्निबोधत ।। २१.७१ ।।

तिस्रः कोट्यस्तु संख्याता विषुवस्यापि मंडलम् ।।
तथा शतसहस्राणामशीत्येकाधिका पुनः ।। २१.७२ ।।

श्रवणे चोत्तरषाढे चित्रभानुर्यदा भवेत् ।।
शाकद्वीपस्य षष्ठस्य उत्तरातो दिशश्चरन् ।। २१.७३ ।।

उतरायाः प्रमाणं च काष्ठाया मंडलस्य च ।।
योजनाग्रात्प्रसंख्याता कोटिरेका तु स द्विजाः ।। २१.७४ ।।

अशीतिर्नियुतानीह योजनानां तथैव च ।।
अष्टपंचाशतं चव योजनान्यधिकानि तु ।। २१.७५ ।।

नागवीथ्युत्तरावीथी ह्यज वीथी च दक्षिणा ।।
मूलं चैव तथाषाढे त्वजवीथ्युदयास्त्रयः ।। २१.७६ ।।

अश्विनी कृत्तिका याम्यं नागवीथ्युदयास्त्रयः ।।
काष्ठयोरंतरं यच्च तद्वक्ष्येयजनैः पुनः ।। २१.७७ ।।

एतच्छतसहस्राणामष्टाभिश्चोत्तरं शतम् ।।
त्रयः शताधिकाश्चन्ये त्रयस्त्रिंशच्च योजनैः ।। २१.७८ ।।

काष्ठयोरंतरं ह्येतद्योजनाग्रात्प्रकीर्तितम् ।।
काष्ठयोर्लेखयोश्चैव ह्यंतरं दक्षिणोत्तरे ।। २१.७९ ।।

तेन्ववक्ष्ये प्रसंख्याय चोजनैस्तन्निबोधत ।।
एकैकमंतरं तस्य वियुतान्येकसप्ततिः ।। २१.८० ।।

सहस्राण्यतिरिक्ताश्च ततोऽन्या पंचसप्ततिः ।।
लेखयोः काष्ठयोश्चैव बाह्याभ्यंतरयोः स्मृतम् ।। २१.८१ ।।

अभ्यंतरं तु पर्येति मंडलान्युत्तरायणे ।।
बाह्यतो दक्षिणे चैव सततं तु यथाक्रमम् ।। २१.८२ ।।

मंडलानां शतं पूर्मं त्र्यशीत्यधिकमुत्तरम् ।।
चरते दक्षिणे चापि तावदेव विभावसुः ।। २१.८३ ।।

प्रमाणं मण्डलस्याथ योजनाग्रं निबोधत ।।
योजनानां सहस्राणि सप्तादश समासतः ।। २१.८४ ।।

शते द्वे पुनरप्यन्ये योजनामां प्रकीर्त्तिते ।।
एकविंशतिभिश्चैव योजनैरधिकैर्हि ते ।। २१.८५ ।।

एतत्प्रमाणमाख्यातं योजनैर्मंडलस्य च ।।
विष्कंभो मंडलस्याथ तिर्यक् स तु विधीयते ।। २१.८६ ।।

प्रत्यहं चरते तानि सूर्या वै मंडलक्रमात् ।।
कुलालचक्रपर्यंतो यथा शीघ्रं निवर्त्तते ।। २१.८७ ।।

दक्षिणप्रक्रमे सूर्यस्तथा शीघ्रं प्रवर्त्तते ।।
तस्मात्प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ।। २१.८८ ।।

सूर्यो द्वादशभिः शैघ्र्यान्मुहूर्तैर्दक्षिणायने ।।
त्रयोदशार्द्धमृक्षाणामह्ना तु चरते रविः ।। २१.८९ ।।

मुहूर्तै स्तावदृक्षाणि नक्तमष्टादशैश्चरन् ।।
कुलालचक्रमध्ये तु यथा मंदं प्रसर्पति ।। २१.९० ।।

तथोदगयने सूर्यः सर्पते मंदविक्रमः ।।
तस्मा द्दीर्घेन कालेन भूमिं स्वल्पानि गच्छति ।। २१.९१ ।।

अष्टादश मुहूर्त तु उत्तरायणपश्चिमम् ।।
अहो भवति तच्चापि चरते मंदविक्रमः ।। २१.९२ ।।

त्रयोदशार्द्धं माद्येन त्वृक्षाणां चरते रविः ।।
मुहूर्तैस्तावदृक्षाणि नक्तं द्वादशभिश्चरन् ।। २१.९३ ।।

ततो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा ।।
मृत्पिंड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ।। २१.९४ ।।

त्रिंशन्मुहूर्तानेवाहुरहोरात्रं ध्रुवो भ्रमन् ।।
उभयोः काष्ठयोर्मध्ये भ्रमते मंडलानि तु ।। २१.९५ ।।

कुलालचक्रनाभिश्च यथा तत्रैव वर्त्तते ।।
ध्रुवस्तथा हि विज्ञेयस्तत्रैव परीवर्त्तते ।। २१.९६ ।।

उभयोः काष्ठयोर्मध्ये भ्रमते मंडलानि सः ।।
दिवानक्तं च सूर्यस्य मन्दा शीघ्रा च वै गातिः ।। २१.९७ ।।

उत्तरप्रक्रमे चापि दिवा मंदा गतिस्तथा ।।
तथैव च पुनर्नक्तं शीघ्रा सूर्यस्य वै गातिः ।। २१.९८ ।।

दक्षिणप्रक्रमेणैव दिवा शीघ्रं विधीयते ।।
गतिः सूर्यस्य नक्तं च मन्दा चैव गतिस्तथा ।। २१.९९ ।।

एवं गतिविशेषेण विभजन् रात्र्यहानि तु ।।
तजापि संचरन्मार्गं समेन विषमेण च ।। २१.१०० ।।

लोकालोकस्थिता ह्येते लोकपालाश्चतुर्दिशम् ।।
अगस्त्यश्चरते तेषामुपरिष्टाज्जवेन तु ।। २१.१०१ ।।

भुंजन्नसापहोरा त्रमेवं गतिविशेषणम् ।।
दक्षिणे नागवीथ्यास्तु लोकालोकस्य चोत्तरे ।. २१.१०२ ।।

लोकसन्तानको ह्येष वैश्वानरपथाद्वहिः ।।
पृष्टे यावत्प्रभा सौरी पुरस्तात्संप्रकाशते ।। २१.१०३ ।।

पार्श्वतः पृष्ठतश्चैव लोकालोकस्य वर्त्तते ।।
योजनानां सहस्राणि दशकं तुच्छ्रितो गिरिः ।। २१.१०४ ।।

प्रकाशश्चाप्रकाशश्च सर्वतः परिमंडलः ।।
नक्षत्रचंद्रसूर्यश्च ग्रहैस्तारागणैः सह ।। २१.१०५ ।।

अभ्यंतरं प्रकाशंते लोकालोकस्य वै गिरेः ।।
एतावानेव लोकस्तु निरालोकस्ततः परम् ।। २१.१०६ ।।

लोकेनालोकवानेष निरालोकस्त्वलोकतः ।।
लोकालोकं तु संधत्ते यस्मात्सुर्यपरिग्रहम् ।। २१.१०७ ।।

तस्मात्सन्ध्येति तामाहुरुषाव्युष्ट्योर्यदंतरम् ।।
उषा रात्रिः स्मृता विप्रैर्व्युष्टिश्चापि त्वहः स्मृतम् ।। २१.१०८ ।।

सूर्याग्निग्रसमानानां संध्याकाले हि रक्षसाम् ।।
प्रजापतिनियोगेन शापस्त्वेषां दुरात्मनाम् ।। २१.१०९ ।।

अक्षयत्वं तु देहस्य प्रापिताम्रणं तथा ।।
तिस्रः कोट्यस्तु विख्याता मंदेहा नाम राक्षसाः ।। २१.११० ।।

प्रार्थयंति सहस्रांशुभुदयन्तं दिनेदिने ।।
तापयंतं दुरात्मानः सूर्यमिच्छंति खादितुम् ।। २१.१११ ।।

अथ सूर्यस्य तेषां च युद्धमासीत्सुदारुणम् ।।
ततो ब्रह्मा च देवाश्च ब्राह्ममाश्चैव सत्तमाः ।। २१.११२ ।।

संध्यां तु समुपासीनाः प्रक्षिपंति जलं सदा ।।
ओंकारब्रह्मसंयुक्तं गायत्र्या चाभिमंत्रितम् ।। २१.११३ ।।

स्फूर्जज्ज्योतिश्च चंडांशुस्तथा दीप्यति भास्करः ।।
ततः पुनर्महातेजा महाबलपराक्रमः ।। २१.११४ ।।

योजनानां सहस्राणि ऊर्द्ध्वमुत्तिष्ठते शतम् ।।
प्रयाति भगवानाशु ब्राह्मणैरभिरक्षितः ।।
वालखिल्यैश्च मुनिभिर्धृतार्चिः समरीचिभिः ।। २१.११५ ।।

काष्ठा निमेषा दश पंच चैव त्रिंशच्च काष्ठा गणयेत्कलां तु ।।
त्रिंशत्कलाश्चापि भवेन्मुहूर्त्तस्तैस्त्रिंशता रात्र्यहनी समेते ।। २१.११६ ।।

ह्रासवृद्धी त्वहर्भागैर्दिवसानां यथाक्रमात् ।। २१.११७ ।।

संध्या मुहूर्त्तमात्रा तु ह्रासवृद्धिस्तु सा स्मृता ।।
लेखाप्रभृत्यथादित्ये त्रिमुहूर्त्तगते तु वै ।। २१.११८ ।।

प्रातस्ततः स्मृतः कालो भागश्चाह्नः स पञ्चमः ।।
तस्मात्प्रातस्तनात्कालात्र्रिमुहूर्त्तस्तु संगवः ।। २१.११९ ।।

मध्याह्नस्त्रिमुहूर्त्तस्तु तस्मात्कालश्च संगवात् ।।
तस्मान्मध्यंदिनात्कालादपराह्ण इति स्मृतः ।। २१.१२० ।।

त्रय एव मुहूर्त्तास्तु कालागः स्मृतो बुधैः ।।
अपराह्णे व्यतीते तु कालः सायाह्न उच्यते ।। २१.१२१ ।।

दशपंच मुहूर्ताह्नो मुहूर्त्तास्त्रय एव च ।।
दशपंचमुहूर्त्त वै ह्यहर्वैषुवतं स्मृतम् ।। २१.१२२ ।।

वर्द्धंते च ह्रसंते च ह्ययने दक्षिणोत्तरे ।।
अहस्तु ग्रसते रात्रिं रात्रिश्च ग्रसते त्वहः ।। २१.१२३ ।।

शरद्वसंतयोर्मध्यं विषुवत्परिभाव्यते ।।
अहोरात्रे कलाश्चैव समं सोमः समश्नुते ।। २१.१२४ ।।

तथा पंचदशाहानि पक्ष इत्यभिधीयते ।।
द्वौच पक्षौभवेन्मासो द्वौमासावर्कजावृतुः ।। २१.१२५ ।।

ऋतुत्रितयमयने द्वे हि वर्षं तु सौरकम् ।।
निमेषा विद्युतश्चैव काष्टास्ता दश पंच च ।। २१.१२६ ।।

कलास्तास्त्रिशतः काष्ठा मात्रा शीतिद्वयात्मिका ।।
सप्तैका द्व्यधिका त्रिशन्मात्रा षटत्रिंशदुत्तरा ।। २१.१२७ ।।

द्विषाष्टिना त्रयोविंशन्मात्रायाश्च कला भवेत् ।।
चत्वारि शत्सहस्राणि शतान्यष्टौ च विद्युतः ।। २१.१२८ ।।

सप्ततिश्चैव तत्रापि नवतिं विद्धि निश्चये ।।
चत्वार्येव शतान्याहुर्विद्युते द्वे च संयुते ।। २१.१२९ ।।

वरांशो ह्येष विज्ञेयो नाडिका चात्र कारणम् ।।
संवत्सरादयः पंच चतुर्मानविकल्पिताः ।। २१.१३० ।।

निश्चयः सर्वकालस्य युगमित्यभिधीयते ।।
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ।। २१.१३१ ।।

इडावत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः ।।
पंचमोवत्सरस्तेषां कालस्तु युगसंहितः ।। २१.१३२ ।।

त्रिंशच्छतं भवेत्पूर्णं पर्वणां तु रवेर्युगे ।।
शतान्यष्टादश त्रिंशदुदयाद्भास्करस्य च ।। २१.१३३ ।।

ऋतवस्त्रिंशतः सौरादयनानि दशैव तु ।।
पंच च त्रिशतं चापि षष्टिवर्षं च भास्करम् ।। २१.१३४ ।।

त्रिशदेव त्वहोरात्रास्तैस्तु मासस्तु भास्करः ।।
एकषष्टि त्वहोरात्रमृतुरेको विभाव्यते ।। २१.१३५ ।।

अह्नां तु त्र्यधिकाशीतिः शतं चाप्यधिकं भवेत् ।।
मानं तच्चित्रभानोस्तु विज्ञेयमयनस्य ह ।। २१.१३६ ।।

सौरं सौम्यं तु विज्ञेयं नाक्षत्रं सावनं तथा ।।
मानान्येतानि चत्वारि यैःपुराणे हि निश्चयः ।। २१.१३७ ।।

यः श्वेतस्योत्तरश्चैव श्रृङ्गवान्नाम पर्व्वतः ।।
त्रीणितस्य तु श्रृंगाणि स्पृशंतीव नभस्तलम् ।। २१.१३८ ।।

तैश्चापि श्रृङ्गैस्सनगः श्रृंगवा निति कथ्यते ।।
एकश्च मार्गविष्कंभविस्तारश्चास्य कीर्तितः ।। २१.१३९ ।।

तस्य वै पूर्वतः श्रृंगं मध्यमं तद्धिरण्मयम् ।।
दक्षिणं राजतं चैव श्रृंगं तु स्फटिकप्रभम् ।। २१.१४० ।।

सर्वरत्नमयं चैव श्रृंगमुत्तरमुत्तमम् ।।
एवं कूटैस्त्रिभिः शैलः श्रृंगवानिति विश्रुतः ।। २१.१४१ ।।

यत्तद्वै पूर्वतः श्रृंगं तदर्कः प्रतिपद्यते ।।
शरद्वसंतयोर्मध्ये मध्यमां गतिमास्थितः ।। २१.१४२ ।।

अतस्तुल्यमहोरात्रं करोति तिमिरा पहः ।।
हरिताश्च हया दिव्यास्तस्य युक्ता महारथे ।।
अनुलिप्ता इवाभांति पद्मरक्तैर्गभस्तिभिः ।। २१.१४३ ।।

मेषति च तुलांते च भास्करोदयतः स्मृताः ।।
मुहूर्त्ता दश पंचैव अहो रात्रिश्च तावती ।। २१.१४४ ।।

कृत्तिकानां यदा सूर्यः प्रथमां शगतो भवेत् ।।
विशाखानां तदा ज्ञेयश्चतुर्थांश निशाकरः ।। २१.१४५ ।।

विशाखानां यदा सूर्यश्चरतेंशं तृतीयकम् ।।
तदा चंद्रं विजानीयात्कृत्तिकाशिरसि स्थितम् ।। २१.१४६ ।।

विषुवं तं विजानीयादेवमाहुर्महर्षयः ।। २१.१४७ ।।

सूर्येण विषुवं विद्या त्कालं सोमेन लक्षयेत् ।।
समा रात्रिरहश्चैव यदा तद्विषुवं भवेत् ।। २१.१४८ ।।

तदा दानानि देयानि पितृभ्यो विषुवेषु च ।।
ब्राह्मणेभ्यो विशेषेण मुखमेतत्तु दैवतम् ।। २१.१४९ ।।

ऊनमासाधिमासौ च कला काष्ठा मुहूर्त्तकाः ।।
पौर्णमासी तथा ज्ञेया अमावास्या तथैव च ।।
सिनीवाली कुहूश्चैव राका चानुमतिस्तथा ।। २१.१५० ।।

तपस्तपस्यौ मदुमाधवौ च शुक्रःशुचिश्चायनमुत्तरं स्यात् ।।
नभोनभस्याविषऊर्जसंज्ञौ सहःसहस्याविति दक्षिणं स्यात् ।। २१.१५१ ।।

आर्तवाश्च ततो ज्ञेया पञ्चाब्दा ब्रह्मणाः सुताः ।। २१.१५२ ।।

तस्माच्च ऋतवो ज्ञेया ऋतुभ्यो ह्यार्त्तवाः स्मृताः ।।
तस्मादृतुमुखी ज्ञेया अमावास्यास्य पर्वणः ।। २१.१५३ ।।

तस्मात्तु विषुवं ज्ञेयं पितृदेवहितं सदा ।।
पर्व ज्ञात्वा न मुह्येत पित्र्ये दैवे च मानवः ।। २१.१५४ ।।

तस्मात्स्मृतं प्रचानां वै विषुवत्सर्वगं सदा ।।
आलोकात्तु स्मृतो लोको लोकालोकः स उच्यते ।। २१.१५५ ।।

लोकपालाः स्थितास्तत्र लोकालोकस्य मध्यतः ।।
चत्वारस्ते महात्मानस्तिष्टंत्याभूतसंप्लवात् ।। २१.१५६ ।।

सुधामा चैव वैराजः कर्दमः शंखपास्तथा ।।
हिरण्यरोमा पर्जन्यः केतुमान्राजसश्च यः ।। २१.१५७ ।।

निर्द्वन्द्वा निरभीमाना निः सीमा निष्परिग्रहाः ।।
लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम् ।। २१.१५८ ।।

उत्तरं यदपस्तस्य ह्यजवीथ्याश्च दक्षिणाम् ।।
पितृयानः स वै पंथा वैश्वानरपथाद्वहिः ।। २१.१५९ ।।

तत्रासते प्रजावन्तो मुनयो येऽग्निहोत्रिणः ।।
लोकस्य संतानकराः पितृयानपथे स्थिताः ।। २१.१६० ।।

भूतारंभकृतं कर्म आशिषो ऋत्विगुद्यताः ।।
प्रारभंते लोककामास्तेषां पंथाः स दक्षिणाः ।। २१.१६१ ।।

चलितं ते पुनर्धर्मं स्थापयंति युगेयुगे ।।
संतप्तास्तपसा चैव मर्यादाभिः श्रुतेन च ।। २१.१६२ ।।

जायमानास्तु पूर्वे वै पश्चिमानां गृहे ष्विह ।।
पश्चिमाश्चैव पूर्वेषां जायंते निधनेष्वपि ।। २१.१६३ ।।

एवमावर्त्तमानास्ते तिष्ठंत्याभूतसंप्लवात् ।।
अष्टाशीतिसहस्राणि ऋषीमांगृहमेधिनाम् ।। २१.१६४ ।।

सवितुर्दक्षिणं मार्गश्रिता ह्याचंद्रतारकम् ।।
क्रियावतां प्रसंख्यैषा ये श्मशानानि भेजिरे ।। २१.१६५ ।।

लोकसंव्यवहाराश्च भूतारंभकृतेन च ।।
इच्छाद्वेषप्रवृत्त्या च मैथुनोपगमेन वै ।। २१.१६६ ।।

तथा कामकृतेनेह सेवनाद्विषयस्य च ।।
एतैस्तैः कारणैः सिद्धा ये श्मशानानि भेजिरे ।। २१.१६७ ।।

प्रचैषिणस्ते मुनयो द्वापरेष्विह जज्ञिरे ।।
नागवीथ्युत्तरो यश्च सप्तर्षिगणदक्षिणः ।। २१.१६८ ।।

उत्तरः सवितुः पंथा देवयानश्च स स्मृतः ।।
यत्र ते वासिनः सिद्धा विमला ब्रह्मचारिणः ।। २१.१६९ ।।

संततिं ते जुगुप्संते तस्मान्मृत्युस्तु तैर्जितः ।।
अष्टाशीतिसहस्राणि ऋषीणामूर्द्ध्वरेतसाम् ।। २१.१७० ।।

उदक्पंथानमत्यर्थं श्रिता ह्याश्रितसंप्लवात् ।।
ते संप्रयोगाल्लोकस्य मैथुनस्य च वर्जनात् ।। २१.१७१ ।।

इच्छाद्वेषनिवृत्त्या च भूतारंभविवर्जनात् ।।
पुनश्चाकामसंयोगाच्छब्दादेर्दोषद र्शनात् ।। २१.१७२ ।।

इत्येतैः कारणैः सिद्धास्तेऽमृतत्वं हि भेजिरे ।।
आभूतसंप्लवस्थानाममृतत्वं विभाव्यते ।। २१.१७३ ।।

त्रैलोक्यस्थिति कालाय पुनर्दाराभिगमिनाम् ।।
ब्रूणहत्याश्वमेधाभ्यां पुण्यपापकृतोऽपरे ।। २१.१७४ ।।

आभूतसंप्लवांते तु क्षीयं ते ह्यूर्ध्वरेतसः ।।
उर्द्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र स वै स्मृतः ।। २१.१७५ ।।

एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ।।
यत्र गत्वा न शोचंति तद्विष्णोः परमं पदम् ।।
धर्मध्रुवाद्यास्तिष्ठंति यत्र ते लोकसाधकाः ।। २१.१७६ ।।

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
आदित्यव्यूहकीर्त्तनं नामैकविंशतितमोऽध्यायः ।। २१ ।।