ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः १९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः १९
[[लेखकः :|]]
अध्यायः २० →


सूत उवाच ।।
प्लक्षद्वीपं प्रवक्ष्यामि यथावदिह संग्रहात् ।।
श्रृणुतेमं यथातत्त्वं ब्रुवतो मे द्विजोत्तमाः ।। १९.१ ।।

जंबूद्वीपस्य विस्ताराद्द्विगुणास्तस्य विस्तरः ।।
विस्तराद्द्विगुणश्चास्य परिणाहः समंततः ।। १९.२ ।।

तेनावृतः समुद्रो वै द्वीपेन लवणोदकः ।।
तत्र पुण्या जनपदाश्चिरान्न म्रियते जनः ।। १९.३ ।।

कृत एव च दुर्भिक्षं जराव्याधिभयं कुतः ।।
तत्रापि पर्वताः पुण्याः सप्तैव मणिभूषणाः ।। १९.४ ।।

रत्नाकरास्तथा नद्यस्तासां नामानि च बुवे ।।
ब्लक्षद्वीपादिषु त्वेषु सप्त सप्त तु पंचसु ।। १९.५ ।।

ऋज्वायताः प्रतिदिशं निविष्टा वर्षपर्वताः ।।
प्लक्षद्वीपे तु वक्ष्यामि सप्तद्वीपान् महा बलान् ।। १९.६ ।।

गोमेदकोऽत्र प्रथमः पर्वतो मेघसन्निभः ।।
ख्यायते यस्य नाम्ना तु वर्षं गोमेदसंज्ञितम् ।। १९.७ ।।

द्वितीयः पर्वतश्चंद्रः सर्वौष धिसमन्वितः ।।
अश्विभ्याममृतस्यार्थमोषध्यो यत्र संभृताः ।। १९.८ ।।

तृतीयो नारदो नाम दुर्गशैलो महोच्चयः ।।
तत्राचले समुत्पन्नौ पूर्वं नारदपर्वतौ ।। १९.९ ।।

चतुर्थस्तत्र वै शैलो दुदुंभिर्न्नाम नामतः ।।
छन्दमृत्युः पुरा तस्मिन्दुंदुभिः सादितः सुरैः ।। १९.१० ।।

रज्जुदोलोरुकामं यः शाल्मलिश्चासुरान्तकृत् ।।
पंचमः सोमको नाम देवैर्यत्रामृतं पुरा ।। १९.११ ।।

संभृतं चाहृतं चैव मातुरर्थे गरुत्मता ।।
षष्टस्तु सुमना नाम सप्तमर्षभ उच्यते ।। १९.१२ ।।

हिरण्यक्षो वराहेण तस्मिञ्छैले निषूदितः ।।
वैभ्राजः सप्तमस्तत्र भ्राजिष्णुः स्फाटिको महान् ।। १९.१३ ।।

अर्चिर्भिर्भ्राजते यस्माद्वैभ्राजस्तेन संस्मृतः ।।
तेषां वर्षाणि वक्ष्यामि नामतस्तु यथाक्रमम् ।। १९.१४ ।।

गोमेदं प्रथमं वर्षं नाम्नाशांतभयं स्मृतम् ।।
चन्द्रस्य शिशिरं नाम नारदस्य सुखोदयम् ।। १९.१५ ।।

आनंदं दुंदुभेर्वर्षं सोमकस्यशिवं स्मृतम् ।।
क्षेमकं वृषभस्यापि वैभ्राजस्य ध्रुवं तथा ।। १९.१६ ।।

एतेषु देवगंधर्वाः सिद्धाश्च सह चारणैः ।।
विहरंति रमंते च दृश्यमानाश्च तैः सह ।। १९.१७ ।।

तेषां नद्यस्तु सप्तैव प्रतिवर्षं समुद्रगाः ।।
नामतस्ताः प्रवक्ष्यामि सप्तगंगास्तपोधनाः ।। १९.१८ ।।

अनुतप्तासुखी चैव विपाशा त्रिदिवा क्रमुः ।।
अमृता सुकृता चैव सप्तैताः सरितां वराः ।। १९.१९ ।।

अभिगच्छंति ता नद्यस्ताभ्यश्चान्याः सहस्रशः ।।
बहूदका ह्योघवत्यो यतो वर्षति वासवः ।। १९.२० ।।

ताः पिबंति सदा हृष्टा नदीजनपदास्तु ते ।।
शुभाः शांतभयाश्चैव प्रमुदं शैशिराः शिवाः ।। १९.२१ ।।

आनंदाश्च सुखाश्चैव क्षेमकाश्च ध्रुवैः सह ।।
वर्णाश्रमाचारयुता प्रजास्तेष्ववधिष्ठिताः ।। १९.२२ ।।

सर्वे त्वरोगाः सुबलाः प्रजाश्चामयव र्जिताः ।।
अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी न च ।। १९.२३ ।।

न तत्रास्ति युगावस्था चतुर्युगकृता क्वचित् ।।
त्रेतायुगसमः कालः सर्वदा तत्र वर्त्तते ।। १९.२४ ।।

प्लक्षद्वीपादिषु ज्ञेयः पंचस्वेतेषु सर्वशः ।।
देशस्यानुविधानेन कालस्यानुविधाः स्मृताः ।। १९.२५ ।।

पंचवर्षसहस्राणि तेषु जीवंति मानवाः ।।
सुरूपाश्च सुवेषाश्च ह्यरोगा बलिनस्तथा ।। १९.२६ ।।

सुखमायुर्बलं रुपमारोग्यं धर्म एव च ।।
प्लक्षद्वीपादिषु ज्ञेयः शाकद्वीपांतिकेषु वै ।। १९.२७ ।।

प्रक्षद्वीपः पृथुः श्रीमान्सर्वतो धनधान्यवान् ।।
दिव्यौषधिफलोपेतः सर्वौषधिवनस्पतिः ।। १९.२८ ।।

आवृतः पशुभिः सर्वैर्ग्राम्यारण्यैः सहस्रशः ।।
जंबूवृक्षेम संख्यातस्तस्य मध्ये द्विजोत्तमाः ।। १९.२९ ।।

प्लक्षो नाम महावृक्षस्तस्य नाम्ना स उच्यते ।।
स तत्र पूज्यते स्थाने मध्ये जनपदस्य ह ।। १९.३० ।।

स चापीक्षुरसोदेन प्रक्षद्वीपः समावृतः ।।
प्लक्षद्वीपसमेनैव वैपुल्यद्विस्तरेण तु ।। १९.३१ ।।

इत्येवं संनिवेशो वः प्लक्षद्वीपस्य कीर्तितः ।।
आनुपूर्व्यात्समासेन शाल्मलं तु निबोधत ।। १९.३२ ।।

ततस्तृतीयं वक्ष्यामि शाल्मलं द्वीपसुत्तमम् ।।
शाल्मलेन समुद्रस्तु द्वीपेनेक्षुरसोदकः ।। १९.३३ ।।

प्लक्षद्वीपस्य विस्ताराद्द्विगुणेन समावृतः ।।
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः ।। १९.३४ ।।

रत्नाकरास्तथा नद्यस्तेषां वर्षेषु सप्तसु ।।
प्रथमः सूर्यसंकाशः कुमुदो नाम पर्वतः ।। १९.३५ ।।

सर्वधातुमयैः श्रृंगैः शिलाजालसमाकुलैः ।।
द्वितीयः पर्वतश्चात्र ह्युत्तमो नाम विश्रुतः ।। १९.३६ ।।

हरितालमयैः श्रृंगैर्दिवमावृत्य तिष्ठति ।।
तृतियः पर्वतस्तत्र बलाहक इति श्रुतः ।। १९.३७ ।।

जात्यंजनमयैः श्रृंगैर्दिवमावृत्य तिष्ठति ।।
चतुर्थः पर्वतो द्रोणो यत्र सा वै सहोषधिः ।। १९.३८ ।।

विशल्यकरणी चैव मृतसञ्जीविनी तथा ।।
कंकस्तु पंचमस्तत्र पर्वतः सुमहोदयः ।। १९.३९ ।।

नित्यपुष्पफलोपेतो वृक्षवीरुत्समावृतः ।।
षष्ठस्तु पर्वतस्तत्र महिषो मेघसन्निभः ।। १९.४० ।।

यस्मिन्सोऽग्निर्निवसति महिषो नाम वारिजः ।।
सप्तमः पर्वतस्तत्र ककुद्मान्नाम भाष्यते ।। १९.४१ ।।

तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः ।।
प्रजापतिमुपादाय प्रजाभ्यो विधिवत्स्वयम् ।। १९.४२ ।।

इत्येते पर्वताः सप्त शाल्मले मणिभूषणाः ।।
तेषां वर्षाणि वक्ष्यामि सर्पैव तु शुभानि वै ।। १९.४३ ।।

कुमुदस्य स्मृतं श्वेतमुत्तमस्य च लोहितम् ।।
बलाहकस्य जीमूतं द्रोणस्य हरितं स्मृतम् ।। १९.४४ ।।

कंकस्य वैद्युतं नाम महिषस्य च मानसम् ।।
ककुदः सुप्रदं नाम सप्तैतानि तु सप्तधा ।। १९.४५ ।।

वर्षाणि पर्वताश्चैव नदीस्तेषु निबोधत ।।
ज्योतिः शांतिस्तथा तुष्टा चंद्रा शुक्रा विमोचनी ।। १९.४६ ।।

निवृत्तिः सप्तमी तासां प्रतिवर्षं तु ताः स्मृताः ।।
तासां समीपगाश्चान्याः शतशोऽथ सहस्रशः ।। १९.४७ ।।

न संख्यां परिसंख्यातुं शक्नुयात्कोऽपि मानवः ।।
इत्येष संनिवेशो वः शाल्मलस्य प्रकीर्त्तितः ।। १९.४८ ।।

प्लक्षवृक्षेण संख्यातस्तस्य मध्ये महा द्रुमः ।।
शाल्मलिर्विपुलस्कंधस्तस्य नाम्ना स उच्यते ।। १९.४९ ।।

शाल्मलस्तु समुद्रेण सुरोदेन समावृतः ।।
विस्तराच्छाल्मलस्वैव समे न तु समंततः ।। १९.५० ।।

उत्तरेषु तु धर्मज्ञाद्वीपेषु श्रृणुत प्रजाः ।।
यथाश्रुतं यथान्यायं ब्रुवतो मे निबोधत ।। १९.५१ ।।

कुशद्वीपं प्रवक्ष्यामि चतुर्थं तु समासतः ।।
सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ।। १९.५२ ।।

शाल्मलस्य तु विस्ताराद्द्विगुणेन समंततः ।।
सप्तैव च गिरींस्तत्र वर्ण्यमानान्निबोधत ।। १९.५३ ।।

कुशद्वीपे तु विज्ञेयः पर्वतो विद्रुमश्च यः ।।
द्वीपस्य प्रथमस्तस्य द्वितीयो हेमपर्वतः ।। १९.५४ ।।

तृतीयो द्युतिमान्नाम जीमूतसदृशो गिरिः ।।
चतुर्थः पुष्पवान्नाम पंचमस्तु कुशेशयः ।। १९.५५ ।।

षष्ठो हरिगिरिर्नाम सप्तमो मंदरः स्मृतः ।।
मंदा इति ह्यपा नाम मंदरो दारणादयम् ।। १९.५६ ।।

तेषामंतरविषकंभो द्विगुणः प्रविभागतः ।।
उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ।। १९.५७ ।।

तृतीयं वै रथाकारं चतुर्थं लवणं समृतम् ।।
पंचमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम् ।। १९.५८ ।।

सप्तमं कपिलं नाम सर्वे ते वर्ष भावकाः ।।
एतेषु देवगंधर्वाः प्रजास्तु जगदीश्वराः ।। १९.५९ ।।

विहरंति रमंते च हृष्यमाणास्तु सर्वशः ।।
न तेषु दस्यवः संति म्लेच्छ जातय एव च ।। १९.६० ।।

गौरप्रायो जनः सर्वः क्रमाच्च म्रियते तथा ।।
तत्रापि नद्यः सप्तैव धूतपापाशिवा तथा ।। १९.६१ ।।

पवित्रा संततिश्चैव विद्युद्दंभा मही तथा ।।
अन्यास्ताभ्योऽपरिज्ञाताः शतशोऽथ सहस्रशः ।। १९.६२ ।।

अभिगच्छंति ताः सर्वा यतो वर्षति वासवः ।।
घृतोदेन कुशद्वीपो बाह्यतः परिवारितः ।। १९.६३ ।।

विज्ञेयः स तु विस्तारात्कुशद्वीपसमेन तु ।।
इत्येष सन्निवेशो वः कुशद्वीपस्य कीर्त्तितः ।। १९.६४ ।।

क्रौंचद्वीपस्य विस्तारं वक्ष्याम्यहमतः परम् ।।
कुशद्वीपस्य विस्ताराद्द्विगुणः स तु वै स्मृतः ।। १९.६५ ।।

घृतोदकसमुद्रो वै क्रौंच द्वीपेन संयुतः ।।
तस्मिन्द्वीपे नगश्रेष्ठः क्रौंचस्तु प्रथमो गिरिः ।। १९.६६ ।।

क्रौंचात्परो वामनको वामनादंधकारकः ।।
अंधकारात्परश्चापि दिवावृन्नाम पर्वतः ।। १९.६७ ।।

दिवावृतः परश्चापि द्विविदो गिरिसत्तमः ।।
द्विविदात्परतश्चापि पुंडरीको महागिरिः ।। १९.६८ ।।

पुंडरीकात्परश्चापि प्रोच्यते दुंदुभिस्वनः ।।
एते रत्नमयाः सप्त क्रैंचद्वीपस्य पर्वताः ।। १९.६९ ।।

बहुपुष्पफलोपेतनानावृक्षलतावृताः ।।
परस्परेण द्विगुणा विस्तृता हर्षवर्द्धनाः ।। १९.७० ।।

वर्षाणि तत्र वक्ष्यामि नामतस्तान्निबोधत ।।
क्रौंचस्य कुशलो देशो वामनस्य मनोनुगः ।। १९.७१ ।।

मनोनुगात्परश्चोष्णस्तृतीयं वर्षमुच्यते ।।
उष्णात्परः पीवरकः पीवरादंधकारकः ।। १९.७२ ।।

अंधकारात्परश्चापि मुनिदेशः स्मृतो बुधैः ।।
मुनिदेशात्परश्चैव प्रोच्यते दुंदुभिस्वनः ।। १९.७३ ।।

सिद्धचारणसंकीर्णो गौरप्रयो जनः स्मतः ।।
तत्रापि नद्यः सप्तैव प्रतिवर्ष स्मृताः शुभाः ।। १९.७४ ।।

गौरी कुमुद्वती चैव संध्या रात्रिर्मनोजवा ।।
ख्यातिश्च पुंडरीका च गंगाः सप्तविधाः स्मृताः ।। १९.७५ ।।

तासां सहस्रशश्चान्या नद्यो यास्तु समीपगाः ।।
अभिगच्छंति ताः सर्वा विपुलाः सुबहूदकाः ।। १९.७६ ।।

क्रौंचद्वीपः समुद्रेण दधिमंडौदकेन तु ।।
आवृतः सर्वतः श्रीमान्क्रौंचद्वीपसमेन तु ।। १९.७७ ।।

प्लक्षद्वीपादयो ह्येते समासेन प्रकीर्त्तिताः ।।
तेषां निसर्गोद्वीपानामानुपूर्व्येण सर्वशः ।। १९.७८ ।।

न शक्यो विस्तराद्वक्तुं दिव्यवर्षशतैरपि ।।
निसर्गो यः प्रजानां तु संहारो यश्च तासु वै ।। १९.७९ ।।

शाकद्वीपं प्रवक्ष्यामि यथावदिह निश्चयात् ।।
श्रृणुध्वं तु यथातथ्यं ब्रुवतो मे यथार्थवत् ।। १९.८० ।।

क्रौंचद्वीपस्य विस्ताराद्द्विगुणास्तस्य विस्तरः ।।
परिवार्य समुद्रं स दधिमंडोदकं स्थितः ।। १९.८१ ।।

तत्र पुण्या जनपदाश्चिरात्तु म्रियते जनः ।।
कुत एव च दुर्भिक्षं जराव्याधिभयं कुतः ।। १९.८२ ।।

तत्रापि पर्वताः शभ्राः सप्तैव मणिभूषणाः ।।
रत्नाकरास्तथा नद्यस्तेषां नामानि मे श्रृणु ।। १९.८३ ।।

देवर्षिगंधर्वयुतः प्रथमो मेरुरुच्यते ।।
प्रागायतः स सौवर्णो ह्युदयो नाम पर्वतः ।। १९.८४ ।।

वृष्ट्यर्थं जलदास्तत्र प्रभंवति च यांति च ।।
तस्यापरेण सुमहाञ्जलधारो महागिरिः ।। १९.८५ ।।

यतो नित्यमुपादत्ते वासवः परमं जलम् ।।
ततो वर्षं प्रभवति वर्षाकाले प्रजास्विह ।। १९.८६ ।।

तस्योत्तरे रैवतको यत्र नित्यं प्रतिष्ठितम् ।।
रेवती दिवि नक्षत्रं पितामहकृतो विधिः ।। १९.८७ ।।

तस्यापरेण सुमहान् श्यामो नाम महागिरिः ।।
तस्माच्छ्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल ।। १९.८८ ।।

तस्यापरेण सुमहान्नाजतोऽस्तगिरिः स्मृतः ।।
तस्यापरे चांबिकेयो दुर्गशैलो महागिरिः ।। १९.८९ ।।

अंबिकेयात्परो रम्यः सर्वौषधिसमन्वितः ।।
केसरी केसरयुतो यतो वायुः प्रजापतिः ।। १९.९० ।।

उदयात्प्रथमं वर्षं महात्तज्जलदं स्मृतम् ।।
द्वितीयं जलधारस्य सुकुमारमिति स्मृतम् ।। १९.९१ ।।

रैवतस्य तु कौमारं श्यामस्य च मणीवकम् ।।
अस्तस्यापि शुभं वर्षं विज्ञेयं कुसुमोत्तरम् ।। १९.९२ ।।

अम्बिकेयस्य मोदाकं केसरस्य महाद्रुमम् ।।
द्वीपस्य परिमाणं तु ह्रस्वदीर्घत्वमेव च ।। १९.९३ ।।

क्रौंचद्वीपेन विख्यातं तस्य केतुर्महाद्रुमः ।।
शाको नाम महोत्सेधस्तस्य पूज्या महानुगाः ।। १९.९४ ।।

तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ।।
नद्यश्चापि महापुण्या गंगाः सप्तविधास्तथा ।। १९.९५ ।।

सुकुमारी कुमारी च नलिनी वेणुका च या ।।
इक्षुश्च वेणुका चैव गभस्तिः सप्तमी तथा ।। १९.९६ ।।

नद्यश्चान्याः पुण्यजलाः शीततोयवहाः शुभाः ।।
सहस्रशः समाख्याता यतो वर्षति वासवः ।। १९.९७ ।।

न तासां नामधेयानि परिमाणं तथैव च ।।
शक्यं वै परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः ।। १९.९८ ।।

ताः पिबंति सदा हृष्टा नदीर्जनपदास्तु ते ।।
शांशपायनविस्तीर्णो द्वीपोऽसौ चक्रसंस्थितः ।। १९.९९ ।।

नदीजलैः प्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः ।।
सर्वधातुविचित्रैश्च मणिविद्रुमभूषितैः ।। १९.१०० ।।

नगरैश्चैव विविधैः स्फीतैर्जनपदैरपि ।।
वृक्षैः पुष्पफलोपेतैः समंताद्धनधान्यवान् ।। १९.१०१ ।।

क्षीरोदेन समुद्रेण सर्वतः परिवारितः ।।
शाकद्वीपस्य विस्तारात्समेन तु समंन्ततः ।। १९.१०२ ।।

तस्मिञ्जनपदाः पुण्याः पर्वताः सरितः शुभाः ।।
वर्णाश्रमसमाकीर्णा देशास्ते सप्त वै स्मृताः ।। १९.१०३ ।।

न संकरश्च तेष्वस्ति वर्णाश्रमकृतः क्वचित् ।।
धर्मस्य चाव्यभीचारादेकांतसुखिताः प्रजाः ।। १९.१०४ ।।

न तेषु लोभो माया वा हीर्षासूयाकृतः कुतः ।।
विपर्ययो न तेष्वस्ति कालात्स्वाभाविकं परम् ।। १९.१०५ ।।

करावाप्तिर्न तेष्वस्ति न दंडो न च दंड्यकाः ।।
स्वधर्मेणैव धर्म ज्ञास्ते रक्षंति परस्परम् ।। १९.१०६ ।।

एतावदेव शक्यं वै तस्मिन्द्वीपे प्रभाषितुम् ।।
एतावदेव श्रोतव्यं शाकद्वीपनिवासिनाम् ।। १९.१०७ ।।

पुष्करं सप्तमं द्वीपं प्रवक्ष्यामि निबोधत ।।
पुष्करेण तु द्वीपेन वृतः क्षीरोदको बहिः ।। १९.१०८ ।।

शाकद्वीपस्य विस्ताराद्द्विगुणेन संमततः ।।
पुष्करे पर्वतः श्रीमानेक एव महाशिलः ।। १९.१०९ ।।

चित्रैर्मणिमयैः श्रृंगैः शिलाजालैः समुच्छ्रितः ।।
द्वीपस्य तस्य पूर्वर्द्धे चित्रसानुः स्थितो महान् ।। १९.११० ।।

स मंडलसहस्राणि विस्तीर्णः पंचविंशतिः ।।
उर्द्धं चैव चतुस्त्रिंशत्सहस्राणि महीतलात् ।। १९.१११ ।।

द्वीपर्धस्य परिक्षिप्तः पर्वतो मानसोत्तरः ।।
स्थितो वेलासमीपे तु नवचंद्र इवोदितः ।। १९.११२ ।।

योजनानां सहस्राणि ऊर्ध्वं पंचाशदुच्छ्रितः ।।
तावदेव च विस्तीर्णः सर्वतः परिमंडलः ।। १९.११३ ।।

स एव द्वीपपश्चार्द्धे मानसः पृथिवीधरः ।।
एक एव महासारः सन्निवेशो द्विधा कृतः ।। १९.११४ ।।

स्वादूदकेनोदधिना सर्वतः परिवारितः ।।
पुष्करद्वीपविस्ताराद्विस्तीर्णोऽसौ समंततः ।। १९.११५ ।।

तस्मिन्द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ ।।
अभितो मानसस्याथ पर्वतस्य तु मंडले ।। १९.११६ ।।

महावीतं तु यद्वर्ष बाह्यतो मानसस्य तत् ।।
त्स्यैवाभ्यंतरेणापि धातकीखंडमुच्यते ।। १९.११७ ।।

दशवर्षसहस्राणि तत्र जीवति मानवाः ।।
अरोगाः सुखबाहुल्या मानसीं सिद्धिमास्थिताः ।। १९.११८ ।।

मससायुश्च रूपं च तस्मिन्वर्षद्वये स्मृतम् ।।
अधमोत्तमा न तेष्वस्ति तुल्यास्ते रूपशीलतः ।। १९.११९ ।।

न तत्र दस्युर्दमको नेर्ष्यासूया भयं तथा ।।
निग्रहो न च दंडोऽस्ति न लोभो न परिग्रहः ।। १९.१२० ।।

सत्यानृतं न तत्रास्ति धर्माधर्मौ तथैव च ।।
वर्णाश्रमौ वा वार्ता वा पाशुपाल्यं वणिक्पथः ।। १९.१२१ ।।

त्रयी विद्या दंडनीतिः शुश्रूषा शिल्पमेव च ।।
वर्षद्वये सर्वमेतत्पुष्करस्य न विद्यते ।। १९.१२२ ।।

न तत्र वर्षं नद्यो वा शीतोष्णं वापि विद्यते ।।
उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि च ।। १९.१२३ ।।

उत्तराणां कुरूणां च तुल्यकालो जनस्तथा ।।
सर्वर्त्तुसुसुखस्तत्र जराक्रमविवर्जितः ।। १९.१२४ ।।

इत्येष धातकीखंडे महा वीते तथैव च ।।
आनुपूर्व्याद्विधिः कृत्स्नः पुष्करस्य प्रकीर्त्तितः ।। १९.१२५ ।।

स्वादूदकेनोदधिना पुष्करः परिवारितः ।।
विस्तारान्मंडलाच्चैव पुष्करस्य समेन तु ।। १९.१२६ ।।

एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ।।
द्वीपस्यानंतरो यस्तु सामुद्रस्तत्समस्तु सः ।। १९.१२७ ।।

एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परात् ।।
अपां चैव समुद्रेकात्सामुद्र इति संज्ञितः ।। १९.१२८ ।।

विशंतिर्निवसंत्यस्मिन्प्रजा यस्माच्चतुर्विधाः ।।
तस्माद्वर्षमिति प्रोक्तं प्रजानां सुखदं यतः ।। १९.१२९ ।।

ऋष इत्येष रमणे वृषशक्तिप्रबंधने ।।
रतिप्रबधनात्मिद्धं वर्षं तत्तेषु तेन वै ।। १९.१३० ।।

शुक्लपक्षे चन्द्रवृद्ध्या समुद्रः पूर्यते सदा ।।
प्रक्षीयमाणे बहुले क्षीयतेऽस्तमिते खगे ।। १९.१३१ ।।

आपूर्यमाणो ह्युदधिः स्वत एवाभिपूर्यते ।।
तथोपक्षीयमाणेऽपि स्वात्मन्येवावकृष्यते ।। १९.१३२ ।।

उखास्थमग्निसंयोगादुद्रिक्तं दृश्यते यथा ।।
महोदधिगतं तोयं स्वत उद्रिच्यते तथा ।। १९.१३३ ।।

अन्यूनानतिरिक्तांश्च वंर्द्वत्यापो ह्रसंति च ।।
उदयास्तमये त्विन्दौ पक्षयोः शुक्लकृष्णयोः ।। १९.१३४ ।।

क्षयवृद्धत्वमुदधेः सोमवृद्धिक्षयात्पुनः ।।
दशोत्तराणि पंचैव ह्यंगुलानि शतानि च ।। १९.१३५ ।।

अपां वृद्धिः क्षयो दृष्टः सामुद्रीणां तु पर्वसु ।।
द्विराप्कत्वात्स्मृता द्वीपाः सर्वतश्चोदकावृताः ।। १९.१३६ ।।

उदकस्यायनं यस्मात्तस्मादुदधिरुच्यते ।।
अपर्वाणस्तु गिरयः पर्वभिः पर्वताः स्मृताः ।। १९.१३७ ।।

प्लक्षद्वीपे तु गोमेदः पर्वतस्तेन चौच्यते ।।
शाल्मलिः शाल्मले द्वीपे पूज्यते सुमहाव्रतैः ।। १९.१३८ ।।

कुशद्वीपे कुशस्तंबस्तस्यनाम्ना स उच्यते ।।
क्रौंचद्वीपे गिरिः कौंचो मध्ये जनपदस्य ह ।। १९.१३९ ।।

शाकद्वीपे द्रुमः शाकस्तस्य नाम्ना स उच्यते ।।
न्यग्रोधः पुष्करद्वीपे तत्रत्यैः स नमस्कृतः ।। १९.१४० ।।

महादेवः पूज्यते तु ब्रह्मा त्रिभुवनेश्वरः ।।
तस्मिन्नि वसति ब्रह्मा साध्यैः सार्द्धं प्रजापतिः ।। १९.१४१ ।।

उपासंते तत्र देवास्त्रयस्त्रिंशन्महर्षिभिः ।।
स तत्र पूज्यते चैव देवेर्देवोतमोतमः ।। १९.१४२ ।।

जंबूद्वीपात्प्रवर्त्तंते रत्नानि विविधानि च ।।
द्वीपेषु तेषु सर्वेषु प्रजानां क्रमतस्तु वै ।। १९.१४३ ।।

सर्वशो ब्रह्मवर्येण सत्येन च दमेन च ।।
आरोग्ययुःप्रमाणाभ्यां प्रमाणं द्विगुणं ततः ।। १९.१४४ ।।

एतस्मिन्पुष्करद्वीपे यदुक्तं वर्षकद्वयम् ।।
गोपायति प्रजास्तत्र स्वयंभूर्जड पण्डिताः ।। १९.१४५ ।।

ईश्वरो दंडसुद्यम्य ब्रह्मा त्रिभुवनेश्वरः ।।
स विष्णोः सचिवो देवः स पिता स पितामहः ।। १९.१४६ ।।

भोजनं चाप्रयत्नेन तत्र स्वयमुपस्थितम् ।।
षड्रसं सुमहावीर्यं भुंजते तु प्रजाः सदा ।। १९.१४७ ।।

परेण पुष्करस्यार्द्धे आवृत्यावस्थितो महान् ।।
स्वादूदकः समुद्रस्तु समंतात्परिवेष्ट्य तम् ।। १९.१४८ ।।

परेण तस्य महती दृश्यते लोकसंस्थितिः ।।
कांचनी द्विगुणा भूमिः सर्वाह्येकशिलोपमा ।। १९.१४९ ।।

तस्यापरेण शैलश्च पर्यासात्पस्मिंडलः ।।
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते ।। १९.१५० ।।

आलोकस्तस्य चार्वक्तु निरालोकस्ततः परम् ।।
योजनानां सहस्राणि दश तस्योच्छ्रयः समृतः ।। १९.१५१ ।।

तावांश्च विस्तरस्तस्य पृथिव्यां कामगश्च सः ।।
आलोको लोकवृत्तिस्थो निरालोको ह्यलौकिकः ।। १९.१५२ ।।

लोकार्द्धे संमिता लोका निरालोकास्तु बाह्यतः ।।
लोकविस्तारमात्रं तु ह्यलोकः सर्वतो बहिः ।। १९.१५३ ।।

परिच्छिन्नः समंताच्च उदकेनावृतस्तु सः ।।
आलोकात्परतश्चापि ह्यंडमा वृत्य तिष्ठति ।। १९.१५४ ।।

अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ।।
भूर्लोकोऽथ भुवर्ल्लोकः स्वर्लोकोऽथ महस्तथा ।। १९.१५५ ।।

जनस्तपस्तथा सत्यमेतावांल्लोकसंग्रहः ।।
एतावानेव विज्ञेयो लोकांतश्चैव यः परः ।। १९.१५६ ।।

कुंभस्थायी भवेद्यादृवप्रतीच्यां दिशि चन्द्रमाः ।।
आदितः शुक्लपक्षस्य वपुश्चांडस्य तद्विधम् ।। १९.१५७ ।।

अंडानामीदृशानां तु कोट्यो ज्ञेयाः सहस्रशः ।।
तिर्यगूर्ध्वमधो वापि कारणस्याव्ययात्मनः ।। १९.१५८ ।।

धरणैः प्राकृतैस्तत्तदावृतं प्रति सप्तभिः ।।
दशाधिक्येन चान्योन्यं धारयंति परस्परम् ।। १९.१५९ ।।

परस्परावृताः सर्वे उत्पन्नाश्च परस्परम् ।।
अण्डस्यास्य समंतात्तु सन्निविष्टो घनोदधिः ।। १९.१६० ।।

समंतात्तु वनोदेन धार्यमाणः स तिष्टति ।।
बाह्यतो घनतो यस्य तिर्यगूर्द्ध्वं तु मंडलम् ।। १९.१६१ ।।

धार्यमाणं समंतात्तु तिष्ठते यत्तु तेजसा ।।
अयोगुडनिभो वाह्नः समंता न्मंडलाकृतिः ।। १९.१६२ ।।

समंताद्धनवातेन धार्यमाणः स तिष्ठति ।।
घनवातं तथाकाशो दधानः खलु तिष्ठति ।। १९.१६३ ।।

भूतादिश्च तथा काशं भूतादिश्चाप्यसौ महान् ।।
महाश्च सोऽप्यनंतेन ह्यव्यक्तेन तु धार्यते ।। १९.१६४ ।।

अनंतमपरिव्यक्तं दशधा सूक्ष्ममेव च ।।
अनंतम कृतात्मानमनादिनिधनं च यत् ।। १९.१६५ ।।

अनित्यं परतोऽघोरमनालंबमनामयम् ।।
नैकयोजनसाहस्रं विप्रकृष्टमनावृतम् ।। १९.१६६ ।।

तम एव निरालोकममर्य्यादमदैशिकम् ।।
देवानामप्यविदितं व्यवहारविवर्जितम् ।। १९.१६७ ।।

तमसोंते च विश्यातमाकाशांते ह्यभास्वरम् ।।
मर्यादायामनंतस्य देवस्यायतनं महत् ।। १९.१६८ ।।

त्रिदशानामगम्यं ततस्थानं दिव्यमिति श्रुतिः ।।
महतो देवदेवस्य मर्यादा या व्यवस्थिताः ।। १९.१६९ ।।

चंद्रादित्यावधस्तात्तु ये लोकाः प्रथिता बुधैः ।।
ते लोका इत्यभिहिता जगतस्च न संशयः ।। १९.१७० ।।

रसातलतलाः सप्तसप्तैवोर्द्ध्वतलाश्च ये ।।
सप्तस्कंधस्तथा वायोः सब्रह्मसदना द्विजाः ।। १९.१७१ ।।

आपातालाद्दिवं यावदत्र पंचविधा गतिः ।।
प्रमाणमेतज्जगत एष संसारसागरः ।। १९.१७२ ।।

अनाद्यंतां व्रजंत्येव नैकजातिसमुद्भवाः ।।
विचित्रा जगतः सा वै प्रकृतिर्ब्रह्मणः स्थिता ।। १९.१७३ ।।

यच्चैह दैविकं वाथ निसर्गं बहुविस्तरः ।।
अतींद्रियेर्महाभागैः सिद्धैरपि न लक्षितः ।। १९.१७४ ।।

पृथिव्यंब्वग्निवायूनां नभसस्तमसस्तथा ।।
मानसस्य तु देहस्य अनंतस्य द्विजोत्तमाः ।। १९.१७५ ।।

क्षयो वा परिणामो वा अन्तो वापि न विद्यते ।।
अनंत एष सर्वत्र एवं ज्ञानेषु पठ्यते ।। १९.१७६ ।।

तस्य चोक्तं मया पूर्व तस्मिन्नामानुकीर्तने ।।
यः पद्मनाभनाम्ना तु तत्कार्त्स्न्येन च कीर्त्तितः ।। १९.१७७ ।।

स एव सर्वत्र गतः सर्वस्थानेषु पूज्यते ।।
भूमौ रसातले चैव आकाशे पवनेऽनले ।। १९.१७८ ।।

अर्णवेषु च सर्वेषु दिवि चैव न संशयः ।।
तथा तमसि विज्ञेय एष एव महाद्युतिः ।। १९.१७९ ।।

अनेकधा विभक्तांगो महायोगी जनार्दनः ।।
सर्वलोकेषु लोकेश इज्यते बहुधा प्रभुः ।। १९.१८० ।।

एवं परस्परोत्पन्न धार्यंते च परस्परम् ।।
आधाराधेयभावेन विकारास्तेऽविकारिणः ।। १९.१८१ ।।

पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम् ।।
परस्परधिकाश्चैव प्रविष्टास्ते परस्परम् ।। १९.१८२ ।।

यस्मात्सृषटास्तु तेऽन्योन्यं तस्मात्स्थैर्यमुपागताः ।।
प्रागासन्नविशेषास्तु विशेषोऽन्यविशेषणात् ।। १९.१८३ ।।

पृथिव्याद्यास्तु वाद्यंतापरिच्छिन्नास्त्रयस्तु ते ।।
गुणोपचयसारेण परिच्छेदो विशेषतः ।। १९.१८४ ।।

शेषाणां तु परिच्छेदः सौक्ष्म्यान्नेह विभाव्यते ।।
भूतेभ्यः परतस्तेभ्यो व्यालोका सा धरा स्मृता ।। १९.१८५ ।।

भूतान्यालोक आकाशे परिच्छिन्नानि सर्वशः ।।
पात्रे महति पात्राणि यथैवांतर्गतानि तु ।। १९.१८६ ।।

भवंत्यन्योन्यहीनानि परस्परसमाश्रयात् ।।
तथा ह्यालोक आकाशे भेदास्त्वंतर्गता मताः ।। १९.१८७ ।।

कृत्त्नान्येतानि चत्वारि ह्यन्योन्यस्याधिकानि तु ।।
यावदेतानि भूतानि तावदुत्पत्तिरुच्यते ।। १९.१८८ ।।

तंतुनामिव संतारो भूतेष्वंतर्गतो मतः ।।
प्रत्या ख्याय तु भूतानि कार्योत्पर्त्तिन विद्यते ।। १९.१८९ ।।

तस्मात्परिमिता भेदाः स्मृताः कार्य्यात्मकास्तु ते ।।
कारणात्मकास्तथैक स्युर्भेदा ये महदादयः ।। १९.१९० ।।

इत्येष संनिवेशो वै मया प्रोक्तो विभागशः ।।
सप्तद्वीपसमुद्राड्यो याथातथ्यन वै द्विजाः ।। १९.१९१ ।।

विस्तरान्मंडलाश्चैव प्रसंख्यानेन चैव हि ।।
वैश्वरूप्रधानस्य परिणामैकदेशिकः ।। १९.१९२ ।।

अधिष्ठितं भगवता यस्य सर्वमिदं जगत् ।।
एवंभूतगणाः सप्त सन्निविष्टाः परस्परम् ।। १९.१९३ ।।

एतावान्संनिवेशस्तु मया शक्यः प्रभाषितुम् ।।
एतावदेव श्रोतव्यं संनिवेशे तु पार्थेवे ।। १९.१९४ ।।

सप्त प्रकृतयस्त्वेता धारयंति परस्परम् ।।
तास्त्वहं परिमाणेन नं संख्यातुमिहोत्सहे ।। १९.१९५ ।।

असंख्याताः प्रकृतयस्तिर्य्यगूर्द्ध्वमधस्तथा ।।
तारकासंनिवेशश्च यावद्दिव्यानुमण्डलम् ।। १९.१९६ ।।

पर्य्या यसन्निवेशस्तु भूमेस्तदनु मण्डलः ।।
अत ऊर्ध्वं प्रवक्ष्यामि कृथिव्या वै विचक्षणाः ।। १९.१९७ ।।

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
प्लक्षादिद्वीपवर्णनं नामैकोनविंशतितमोऽध्यायः ।। १९ ।।