ब्राह्मस्फुटसिद्धान्तः

Wikisource तः
(ब्रह्मस्फुटसिद्धान्त इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

ब्राह्मस्फुटसिद्धान्तम् ब्रह्मगुप्तस्य गणितखगोलशास्त्रग्रन्थः।

  • अध्याय १२ गणित
  • अध्याय १८ कुट्टक
  • अध्याय १९ शंकु-छाया-विज्ञान
  • अध्याय २० छन्दस्-चिति-उत्तरम्
  • अध्याय २१ गोल ( ज्या-प्रकरण के केवल श्लोक १७ से श्लोक २३ तक )



अथ गणित-अध्यायस्[सम्पाद्यताम्]

परिकर्म-विंशतिस्[सम्पाद्यताम्]

ब्रह्म१२.१क/ परिकर्म-विंशतिम् यस् सङ्कलित-आद्याम् पृथक् विजानाति ।

ब्रह्म१२.१ग/ अष्टौ च व्यवहारान् छाया-अन्तान् भवति गणकस् सस् ॥

ब्रह्म१२.२क/ विपरीत-छेद-गुणास् राश्योस् छेद-अंशकास् सम-छेदास् ।

ब्रह्म१२.२ग/ सङ्कलिते अंशास् योज्यास् व्यवकलिते अंश-अन्तरम् कार्यम् ॥

ब्रह्म१२.३क/ रूपाणि छेद-गुणानि अंश-युतानि द्वयोस् बहूनाम् वा ।

ब्रह्म१२.३ग/ प्रत्युत्पन्नस् भवति छेद-वधेन उद्धृतस् अंश-वधस् ॥

ब्रह्म१२.४क/ परिवर्त्य भाग-हार-छेद-अंशौ छेद-संगुण-छेदस्/ [द्विवेदी - परिवर्त्त्य

ब्रह्म१२.४ग/ अंशस् अंश-गुणस् भाज्यस्य भाग-हारस् सवर्णितयोस् ॥

ब्रह्म१२.५क/ संवर्णित--अंश-वर्गस् छेद-कृति-विभाजितस् भवति वर्गस् ।

ब्रह्म१२.५ग/ संवर्णित-अंश-मूलम् छेद-पदेन उद्धृतम् मूलम् ॥

ब्रह्म१२.६क/ स्थाप्यस् अन्त्य-घनस् अन्त्य-कृतिस् त्रि-गुण-उत्तर-सङ्गुणा च तद्-प्रथमात् ।

ब्रह्म१२.६ग/ उत्तर-कृतिस् अन्त्य-गुणा त्रि-गुणा च उत्तर-घनस् च घनस् ॥

ब्रह्म१२.७क/ छेदस् घनात् द्वितीयात् घन-मूल-कृतिस् त्रि-सङ्गुणा आप्त-कृतिस् ।

ब्रह्म१२.७ग/ शोध्या त्रि-पूर्व-गुणिता प्रथमात् घनतस् घनस् मूलम् ॥

ब्रह्म१२.८क/ सदृश-छेद-अंश-युतिस् छेद-विभक्ता फलम् प्रथम-जातौ ।

ब्रह्म१२.८ग/ अंशैस् अंशास् गुणितास् छेदैस् छेदास् द्वितीयायाम् ॥

ब्रह्म१२.९क/ ऊर्ध्व-अंशास् छेद-गुणास् तृतीय-जातौ द्वयोस् प्रथम-परयोस् ।

ब्रह्म१२.९ग/ छेदैस् छेदास् गुणितास् स्व-अंश-युत-ऊनैस् उपरि-ग-अंशास् ॥

ब्रह्म१२.१०क/ त्रैराशिके प्रमाणम् फलम् इच्चा आदि-अन्तयोस् सदृश-राशी ।

ब्रह्म१२.१०ग/ इच्छा फलेन गुणिता प्रमाण-भक्ता फलम् भवति ॥

ब्रह्म१२.११क/ व्यस्त-त्रैराशिक-फलम् इच्छा-भक्तस् प्रमाण-फल-घातस् ।

ब्रह्म१२.११ग/ त्रैराशिक-आदिषु फलम् विषमेषु एकादश-अन्तेषु ॥

ब्रह्म१२.१२क/ फल-सङ्क्रमणम् उभय-तस् बहु-राशि-वधस् अल्प-वध-हृतस् ज्ञेयम् ।

ब्रह्म१२.१२ग/ सकलेषु एवम् भिन्नेषु उभय-तस् छेद-सङ्क्रमणम् ॥

ब्रह्म१२.१३क/ प्राक् मूल्य-व्यत्यासस् भाण्डप्रतिभाण्डके अन्यत् उक्त-समम् ।

ब्रह्म१२.१३ग/ परिकर्माणि अष्टानाम् व्यवहाराणाम् अभिहितानि ॥


मिश्रक-व्यवहारस्[सम्पाद्यताम्]

ब्रह्म१२.१४क/ काल-गुणितम् प्रमाणम् फल-भक्तम् वि-एक-गुण-हतम् कालस् ।

ब्रह्म१२.१४ग/ स्व-फल-युत-रूप-भक्तम् मूल-फल-ऐक्यम् भवति मूलम् ॥

ब्रह्म१२.१५क/ काल-प्रमाण-घातस् पर-काल-हृतस् द्विधा आद्य-मिश्र-वधात् ।

ब्रह्म१२.१५ग/ अन्य-अर्ध-कृति-युतात् पदम् अन्य-अर्ध-ऊनम् प्रमाण-फलम् ॥

ब्रह्म१२.१६क/ प्रक्षेप-योग-हृतया लब्ध्या प्रक्षेपकास् गुणास् लाभास् ।

ब्रह्म१२.१६ग/ ऊन-अधिक-उत्तरास् तद्-युत-ऊनया स्व-फलम् ऊन-युतम् ॥


श्रेढी-व्यवहारस्[सम्पाद्यताम्]

ब्रह्म१२.१७क/ पदम् एक-हीनम् उत्तर-गुणितम् संयुक्तम् आदिना अन्त्य-धनम् ।

ब्रह्म१२.१७ग/ आदि-युत-अन्त्य-धन-अर्धम् मध्य-धनम् पद-गुणम् गणितम् ॥

ब्रह्म१२.१८क/ उत्तर-हीन-द्वि-गुण-आदि-शेष-वर्गम् धन-उत्तर-अष्ट-वधे ।

ब्रह्म१२.१८ग/ प्रक्षिप्य पदम् शेष-ऊनम् द्वि-गुण-उत्तर-हृतम् गच्छस् ॥

ब्रह्म१२.१९क/ एक-उत्तरम् एक-आद्यम् यदि इष्ट-गच्छस्य भवति सङ्कलितम् ।

ब्रह्म१२.१९ग/ तत् द्वि-युत-गच्छ-गुणितम् त्रि-हृतम् सङ्कलित-सङ्कलितम् ॥

ब्रह्म१२.२०क/ द्वि-गुण-पद-स-एक-गुणितम् तत् त्रि-हृतम् भवति वर्ग-सङ्कलितम् ।

ब्रह्म१२.२०ग/ घन-सङ्कलितम् तद्-कृतिस् एषाम् सम-गोलकैस् चितयस् ॥


क्षेत्र-व्यवहारस्[सम्पाद्यताम्]

ब्रह्म१२.२१क/ स्थूल-फलम् त्रि-चतुर्-भुज-बाहु-प्रतिबाहु-योग-दल-घातस् ।

ब्रह्म१२.२१ग/ भुज-योग-अर्ध-चतुष्टय-भुज-ऊन-घातात् पदम् सूक्ष्मम् ॥

ब्रह्म१२.२२क/ भुज-कृति-अन्तर-भू-हृत-हीन-युता भूस् द्वि-भाजिता आवाधे/ [द्विवेदी - -कृत्यन्त्यन्तर-<-कृति-अन्तर-]

ब्रह्म१२.२२ग/ स्व-आवाधा-वर्ग-ऊनात् भुज-वर्गात् मूलम् अवलम्बस् ॥

ब्रह्म१२.२३क/ अविषम-चतुर्-अस्र-भुज--प्रतिभुज-वधयोस् युतेस् पदम् कर्णस् ।

ब्रह्म१२.२३ग/ कर्ण-कृतिस् भू-मुख-युति-दल-वर्ग-ऊना पदम् लम्बस् ॥

ब्रह्म१२.२४क/ कर्ण-कृतेस् कोटि-कृतिम् विशोध्य मूलम् भुजस् भुजस्य कृतिम् ।

ब्रह्म१२.२४ग/ प्रोह्य पदम् कोटिस् कोटि-बाहु-कृति-युति-पदम् कर्णस् ॥ [द्विवेदी - वाहु < बाहु]

ब्रह्म१२.२५क/ कर्ण-युतौ ऊर्ध्व-अधर-खण्डे कर्ण-अवलम्ब-योगे वा ।

ब्रह्म१२.२५ग/ स्व-आवाधे स्व-युति-हृते द्विधा पृथक् कर्ण-लम्ब-गुणे ॥

ब्रह्म१२.२६क/ अविषम-पार्श्व-भुज-गुणस् कर्णस् द्वि-गुण-अवलम्बक-विभक्तस् ।

ब्रह्म१२.२६ग/ हृदयम् विषमस्य भुज-प्रतिभुज-कृति-योग-मूल-अर्धम् ॥

ब्रह्म१२.२७क/ त्रि-भुजस्य वधस् भुजयोस् द्वि-गुणित-लम्ब-उद्धृतस् हृदय-रज्जुस् ।

ब्रह्म१२.२७ग/ सा द्वि-गुणा त्रि-चतुर्-भुज-कोण-स्पृक् वृत्त-विष्कम्भस् ॥

ब्रह्म१२.२८क/ कर्ण-आश्रित-भुज-घात-ऐक्यम् उभयथा अन्योन्य-भाजितम् गुणयेत् ।

ब्रह्म१२.२८ग/ योगेन भुज-प्रतिभुज-वधयोस् कर्णौ पदे विषमे ॥

ब्रह्म१२.२९क/ विषम-चतुर्-अस्र-मध्ये विषम-त्रि-भुज-द्वयम् प्रकल्प्य पृथक् ।

ब्रह्म१२.२९ग/ कर्ण-द्वयेन पूर्व-वत् आवाधे लम्बकौ च पृथक् ॥

ब्रह्म१२.३०क/ विषम-भुज-अन्तर्-त्रि-भुजे प्रकल्प्य कर्णौ भुजौ तद्-आवाधे ।

ब्रह्म१२.३०ग/ पृथक् ऊर्ध्व-अधर-खण्डे कर्ण-युतौ कर्णयोस् अधरे ॥

ब्रह्म१२.३१क/ त्रि-भ्जे भुजौ तु भूमिस् तद्-लम्बस् लम्बक-अधरम् खण्डम् ।

ब्रह्म१२.३१ग/ ऊर्ध्वम् अवलम्ब-खण्डम् लम्बक-योग-अर्धम् अधर-ऊनम् ॥

ब्रह्म१२.३२क/ कर्ण-अवलम्बक-युतौ खण्डे कर्ण-अवलम्बकयोस् अधरे ।

ब्रह्म१२.३२ग/ अनुपातेन तद्-ऊने ऊर्ध्वे सूच्याम् स-पाटायाम् ॥

ब्रह्म१२.३३क/ कृति-युतिस् असदृश-राश्योस् बाहुस् घातस् द्वि-सङ्गुणस् लम्बस् ।

ब्रह्म१२.३३ग/ कृति-अन्तरम् असदृशयोस् द्वि-गुणम् द्वि-सम-त्रि-भुज-भूमिस् ॥

ब्रह्म१२.३४क/ इष्ट-द्वयेन भक्तस् द्विधा इष्ट-वर्गस् फल-इष्ट-योग-अर्धे ।

ब्रह्म१२.३४ग/ विषम-त्रि-भुजस्य भुजौ इष्ट-ऊन-फल-अर्ध-योगस् भूस् ॥

ब्रह्म१२.३५क/ इष्टस्य भुजस्य कृतिस् भक्ता ऊना इष्टेन तद्-दलम् कोटिस् ।

ब्रह्म१२.३५ग/ आयत-चतुर्-अस्रस्य क्षेत्रस्य इष्ट-अधिका कर्णस् ॥

ब्रह्म१२.३६क/ आयत-कर्णस् बाहू भुज-कृतिस् इष्टेन भाजिता इष्ट-ऊना ।

ब्रह्म१२.३६ग/ द्वि-हृता कोटि-अधिका भूस् मुखम् ऊना द्वि-सम-चतुर्-अस्रे ॥

ब्रह्म१२.३७क/ कर्ण-कृतिस् त्रि-सम-ह्बुजास् त्रयस् चतुर्थस् विशोध्य कोटि-कृतिम् ।

ब्रह्म१२.३७ग/ बाहु-कृतेस् त्रि-गुणायास् यदि अधिकस् भूस् मुखम् हीनस् ॥

ब्रह्म१२.३८क/ जात्य-द्वय-कोटि-भुजास् पर-कर्ण-गुणास् भुजास् चतुर्-विषमे ।

ब्रह्म१२.३८ग/ अधिकस् भूस् मुख-हीनस् बाहु-द्वितयम् भुजौ अन्यौ ॥

ब्रह्म१२.३९क/ इष्ट-गुण-कार-गुणितस् गिरि-उच्छ्रायस् पुर-अन्तरम् अनष्टम् ।

ब्रह्म१२.३९ग/ द्वि-युत-गुण-कार-भाजितम् उत्पातस् अन्यस्य सम-गत्योस् ॥

ब्रह्म१२.४०क/ व्यास-व्यास-अर्ध-कृती परिधि-फले व्यावहारिके त्रि-गुणे ।

ब्रह्म१२.४०ग/ तद्-वर्गाभ्याम् दशभिस् सङ्गुणिताभ्याम् पदे सूक्ष्मे ॥

ब्रह्म१२.४१क/ वृत्ते शर-ऊन-गुणितात् व्यासात् चतुर्-आहतात् पदम् जीवा ।

ब्रह्म१२.४१ग/ ज्या-वर्गस् चतुर्-आहत-शर-भक्तस् शर-युतस् व्यासस् ॥

ब्रह्म१२.४२क/ ज्या-व्यास-कृति-विशेषात् मूल-व्यास-अन्तर-अर्धम् इषुस् अल्पस् ।

ब्रह्म१२.४२ग/ व्यासौ ग्रास-ऊन-गुणौ ग्रास-ऊन-ऐक्य-उद्धृतौ बाणौ ॥

ब्रह्म१२.४३क/ इष्ट-शर-द्वय-भक्ते ज्या-अर्ध-कृती शर-युते फले व्यासौ ।

ब्रह्म१२.४३ग/ शरयोस् फलयोस् ऐक्यम् ग्रासस् ग्रास-ऊनम् ऐक्यम् तत् ॥


खात-व्यवहारस्[सम्पाद्यताम्]

ब्रह्म१२.४४क/ क्षेत्र-फलम् वेध-गुणम् सम-खात-फलम् हृतम् त्रिभिस् सूच्यास् ।

ब्रह्म१२.४४ग/ मुख-तल-तुल्य-भुज-ऐक्यानि एक-अग्र-हृतानि सम-रज्जुस् ॥

ब्रह्म१२.४५क/ मुख-तल-युति-दल-Rofl वेध-गुणम् व्यावहारिकम् गणितम् ।

ब्रह्म१२.४५ग/ मुख-तल-गणित-ऐक्य-अर्धम् वेध-गुणम् स्यात् गणितम् औत्रम् ॥

ब्रह्म१२.४६क/ औत्र-गणितात् विशोध्य व्यवहार-फलम् भजेत् त्रिभिस् शेषम् ।

ब्रह्म१२.४६ग/ लब्धम् व्यवहार-फले प्रक्षिप्य भवति फलम् सूक्ष्मम् ॥

चिति-व्यवहारस्[सम्पाद्यताम्]

ब्रह्म१२.४७क/ आकृति-फलम् औच्च्य-दैर्घ्य-गुणम् ।

ब्रह्म१२.४७ग/ घन-गणितम् इष्टका-घन-फलेन हृतम् इष्टका-गणितम् ॥

क्राकचिक-व्यवहारस्[सम्पाद्यताम्]

ब्रह्म१२.४८क/ विस्तार-आयाम-अङ्गुल-घातस् मार्ग-आहतस् द्वि-वेद-हृतस् ।

ब्रह्म१२.४८ग/ किष्कु-अङ्गुलानि लब्धम् तत् षण्णवतिस् भवति कर्म ॥

ब्रह्म१२.४९क/ शाका-आदिषु शाल्मल्याम् शत-द्वयम् बीजके शतम् विंशम् ।

ब्रह्म१२.४९ग/ शाल-सरल-आदिषु शतम् अथ अवि-दारुषु चतुःषष्टिस् ।


राशि-व्यवहारस्[सम्पाद्यताम्]

ब्रह्म१२.५०क/ नवमस् शूकिषु दशमस् स्थूलेषु एकादशस् भवति अणुषु ।

ब्रह्म१२.५०ग/ परिधेस् वेधस् परिधेस् षष्-अंश-वर्ग-आहतस् गणितम् ॥

ब्रह्म१२.५१क/ द्वि-चतुर्-स-त्रि-अंश-गुणस् भित्ति-अन्तर्-वाह्य-कोण-गस् परिधिस् ।

ब्रह्म१२.५१ग/ प्राक्-वत् कृत्वा गणितम् तद्-गणितम् स्व-गुण-कार-हृतम् ॥


छाया-व्यवहारस्[सम्पाद्यताम्]

ब्रह्म१२.५२क/ छाया-नर-स-एक-हृतम् द्यु-दलम् प्राक्-अपरयोस् द्यु-गत-शेषम् ।

ब्रह्म१२.५२ग/ दिन-गत-शेष-अंश-हृतम् द्यु-दलम् छाया-नर-वि-एकम् ॥

ब्रह्म१२.५३क/ दीप-तल-शङ्कु-तलयोस् अन्तरम् इष्ट-प्रमाण-शङ्कु-गुणम् ।

ब्रह्म१२.५३ग/ दीप-शिख-औच्च्यात् शङ्कुम् विशोध्य शेष-उद्धृतम् छाया ॥

ब्रह्म१२.५४क/ छाया-अग्र-अन्तर-गुणिता छाया छाया-अन्तरेण भक्ता भूस् ।

ब्रह्म१२.५४ग/ भूस् शङ्कु-गुणा छाया-विभाजिता दीप-शिखया औच्च्यम् ॥


प्रत्युत्पन्न-आदयस्[सम्पाद्यताम्]

ब्रह्म१२.५५क/ गुण-कार-खण्ड-तुल्यस् गुण्यस् गो-मूत्रिका-कृतस् गुणितस् ।

ब्रह्म१२.५५ग/ सहितस् प्रत्युत्पन्नस् गुण-कारक-भेद-तुल्यस् वा ॥

ब्रह्म१२.५६क/ गुण्यस् राशिस् गुण-कार-राशिना इष्ट-अधिक-ऊनकेन गुणस् ।

ब्रह्म१२.५६ग/ गुण्य-इष्ट-वध-ऊन-युतस् गुणके अभ्यधिक-ऊनके कार्यस् ॥

ब्रह्म१२.५७क/ छेदेन इष्ट-युत-ऊनेन आप्तम् भाज्यात् अनष्टम् इष्ट-गुणम् ।

ब्रह्म१२.५७ग/ प्रकृति-स्थ-छेद-हृतम् लब्ध्या युत-हीनकम् अनष्टम् ॥

ब्रह्म१२.५८क/ गुण्यस् छेद-फल-वधस् गुणक-हृतस् गुण्य-भाजितस् गुणकस् ।

ब्रह्म१२.५८ग/ छेद-उद्धृतस् फलम् गुण्य-गुण-वधस् फल-हृतस् छेदस् ॥

ब्रह्म१२.५९क/ गुण्य-गुण-कारयोस् छेद-लब्धयोस् यदि द्वयोस् द्वयोस् नाशस् ।

ब्रह्म१२.५९ग/ तेषाम् दृश्यौ व्यस्तौ कृत्वा तद्-स्थानयोस् च इष्टौ ॥

ब्रह्म१२.६०क/ गुण्यम् गुण-कारम् वा गुणयेत् छेदेन भाग-हारस्य ।

ब्रह्म१२.६०ग/ गुण्य-गुण-कार-राश्योस् छेद-गुणस् भाग-हारस् च ॥

ब्रह्म१२.६१क/ अच्छेदस्य छेदम् रूपम् कृत्वा अन्यत् उक्त-वत् सर्वम् ।

ब्रह्म१२.६१ग/ अपवर्त्यौ छेद-गुणौ तुल्येन इष्टेन गुण्यौ वा ॥[द्विवेदी - अवपर्त्त्यौ < अपवर्त्यौ]

ब्रह्म१२.६२क/ स्व-विकल-षष्टि-अंश-गुणस् सकलस् त्रिंश-उद्धृतस् विकल-वर्गस् ।

ब्रह्म१२.६२ग/ प्रक्षेप्यस् सकल-कृतौ वर्ग-घनौ द्वि-त्रि-तुल्य-वधौ ॥

ब्रह्म१२.६३क/ राशेस् ऊनम् द्वि-गुणम् बहुतर-गुणम् ऊन-कृति-युतम् वर्गस् ।

ब्रह्म१२.६३ग/ राशेस् इष्ट-युत-ऊनात् वधस् कृतिस् वा इष्ट-कृति-युक्तस् ॥

ब्रह्म१२.६४क/ इष्ट-अल्प-राशि-वर्गौ युक्त-ऊनौ इतर-विकल-वर्गाभ्याम् ।

ब्रह्म१२.६४ग/ द्वि-गुण-इतर-राशिभ्याम् भक्तौ तेन अधिक-ऊनाभ्याम् ॥

ब्रह्म१२.६५क/ स्थान-अन्तरेषु लब्धम् येन समम् फल-युत-ऊनक-छेदस् ।

ब्रह्म१२.६५ग/ दलितस् कृति-योग-अन्तर-पदम् इतरस् वा फल-युत-ऊनस् ॥

ब्रह्म१२.६६क/ दिक्-मात्रम् एतत् अन्यत् ज्या-उत्पत्तौ कुट्टके च कथयिष्ये ।

ब्रह्म१२.६६ग/ सङ्कलित-आदिषु आर्यास् षट्षष्टिस् द्वादशस् अध्यायस् ॥

ब्रह्म१२.६६प्/ इति श्री-ब्राह्म-स्फुट-सिद्धान्ते द्वादशस् अध्यायस् ॥१२ ॥



अथ कुट्टक-अध्यायस्[सम्पाद्यताम्]

ब्रह्म१८.१क/ प्रायेण यतस् प्रश्नास् कुट्टाकारात् ऋते न शक्यन्ते ।

ब्रह्म१८.१ग/ ज्ञातुम् वक्ष्यामि ततस् कुट्टाकारम् सह प्रश्नैस् ॥

ब्रह्म१८.२क/ कुट्टक-ख-ऋण-धन-अव्यक्त-मध्य-हरण-एक-वर्ण-भावितकैस् ।

ब्रह्म१८.२ग/ आचार्यस् तन्त्र-विदाम् ज्ञातैस् वर्ग-प्रकृत्या च ॥


कुट्टकम्[सम्पाद्यताम्]

ब्रह्म१८.३क/ अधिक-अग्र-भाग-हारात् ऊन-अग्र-छेद-भाजितात् शेषम् ।

ब्रह्म१८.३ग/ यत् तत् परस्पर-हृतम् लब्धम् अधस् अधस् पृथक् स्थाप्यम् ॥

ब्रह्म१८.४क/ शेषम् तथा इष्ट-गुणितम् यथा अग्रयोस् अन्तरेण संयुक्तम् ।

ब्रह्म१८.४ग/ शुध्यति गुणकस् स्थाप्यस् लब्धम् च अन्त्यात् उपान्त्य-गुणस् ॥

ब्रह्म१८.५क/ स्व-ऊर्ध्वस् अन्त्य-युतस् अग्र-अन्तस् हीन-अग्र-छेद-भाजितस् शेषम् ।

ब्रह्म१८.५ग/ अधिक-अग्र-छेद-हतम् अधिक-अग्र-युतम् भवति अग्रम् ॥

ब्रह्म१८.६क/ छेद-वधस्य द्वि-युगम् छेद-वधस् युग-गतम् द्वयोस् अग्रम् ।

ब्रह्म१८.६ग/ कुट्टाकारेण एवम् त्रि-आदि-ग्रह-युग-गत-आनयनम् ॥

ब्रह्म१८.७क/ भ-गण-आदि-शेषम् अग्रम् छेद-हृतम् खम् च दिन-ज-शेष-हृतम् ।

ब्रह्म१८.७ग/ अनयोस् अग्रम् भ-गण-आदि-दिन-ज-शेष-उद्धृतम् द्यु-गणस् ॥ [Cब्.८]

ब्रह्म१८.८क/ दिन-ज-भ-गण-आदि-शेषम् येन गुणम् मण्डल-आदि शेषकयोस् ।

ब्रह्म१८.८ग/ स-दृश-छेद-उद्धृतयोस् तद्-घातम् अहर्-गण-आद्यम् अतस् ॥ [Cब्.१०]

ब्रह्म१८.९क/ हृतयोस् परस्परम् यत् छेषम् गुण-कार-भाग-हारकयोस् ।

ब्रह्म१८.९ग/ तेन हृतौ निस्-छेदौ तौ एव परस्परम् हृतयोस् ॥ [Cब्.११]

ब्रह्म१८.१०क/ लब्धम् अधस् अधस् स्थाप्यम् तथा इष्ट-गुण-कार-सङ्गुणम् शेषम् ।

ब्रह्म१८.१०ग/ शुध्यति यथा एक-हीनम् गुणकस् स्थाप्यस् फलम् च अन्त्यात् ॥ [Cब्.१२]

ब्रह्म१८.११क/ अग्र-अन्तम् उपान्त्येन स्व-ऊर्ध्वस् गुणितस् अन्त्य-संयुतस् भक्तम् ।

ब्रह्म१८.११ग/ निस्-शेष-भाग-हारेण एवम् स्थिर-कुट्टकस् शेषम् ॥ [Cब्.१३]

ब्रह्म१८.१२क/ इष्ट-भ-गण-आदि-शेषात् स्व-कुट्टक-गुणात् स्व-भाग-हार-गुणात् ।

ब्रह्म१८.१२ग/ शेषम् द्यु-गणस् गत-निस्-अपवर्त-गुण-भाग-हार-युतस् ॥ [Cब्.१५॑ द्विवेदी - -अपवर्त्त- < -अपवर्त-]

ब्रह्म१८.१३क/ एवम् समेषु विषमेषु ऋणम् धनम् धनम् ऋणम् यत् उक्तम् तत् ।

ब्रह्म१८.१३ग/ ऋण-धनयोस् व्यस्तत्वम् गुण्य-प्रक्षेपयोस् कार्यम् ॥ [Cब्.१६]

ब्रह्म१८.१४क/ गुणकस् छेदस् छेदस् गुणकस् धनम् ऋणम् ऋणम् धनम् कार्यम् ।

ब्रह्म१८.१४ग/ वर्गम् पदम् पदम् कृतिस् अन्त्यात् विपरीतम् आद्यम् तत् ॥ [Cब्.१७]

ब्रह्म१८.१५क/ यस् जानाति युग-आदि ग्रह-युग-यातैस् पृथक् पृथक् कथितैस् ।

ब्रह्म१८.१५ग/ द्वि-त्रि-चतुर्-प्रभृतीनाम् कुट्टाकारम् सस् जानाति ॥ [Cब्.७]

ब्रह्म१८.१६क/ भ-गण-आद्यम् इष्ट-शेषम् कदा इन्दु-दिवसे रवेस् गुरु-दिने वा ।

ब्रह्म१८.१६ग/ ज्ञ-दिने राशीन् कथयति कुट्टाकारम् सस् जानाति ॥ [Cब्.१९]

ब्रह्म१८.१७क/ ज्ञ-दिने यत् अंश-शेषम् विकला-शेषम् कदा तत् इन्दु-दिने ।

ब्रह्म१८.१७ग/ भानोस् अथ वा शशिनस् यस् कथयति कुट्टक-ज्ञस् सस् ॥ [Cब्.२०]

ब्रह्म१८.१८क/ तिथि-मान-दिनेषु इष्टास् ये अर्क-आद्यास् ते पुनर् कदा तेषु ।

ब्रह्म१८.१८ग/ इष्ट-ग्रह-वारेषु यस् कथयति कुट्टक-ज्ञस् सस् ॥ [Cब्.२१]

ब्रह्म१८.१९क/ इष्ट-भ-गण-आदि-शेषात् द्यु-गणस् तत् कुट्टकेन संयुक्तस् ।

ब्रह्म१८.१९ग/ तद्-छेद-दिनैस् तावत् दिन-वारस् यावत् इष्टस् स्यात् ॥ [Cब्.२२]

ब्रह्म१८.२०क/ यस् राशि-आदीन् दृष्ट्वा मध्यस्य इष्टस्य कतह्यति द्यु-गणम् ।

ब्रह्म१८.२०ग/ द्वि-आदि-ग्रह-संयोगात् ग्रह-अन्तरात् वा सस् कुट्ट-ज्ञस् ॥ [Cब्.२३]

ब्रह्म१८.२१क/ निस्-छेद-भाग-हारात् राशि-आदि-कला-आदिना हतात् भक्तात् ।

ब्रह्म१८.२१ग/ भ-गण-कलाभिस् लब्धम् मण्डल-शेषम् दिन-गणस् अस्मात् ॥ [Cब्.२४]

ब्रह्म१८.२२क/ एवम् राशि-अंश-कला-विकला-शेषात् अहर्-गणस् प्राक्-वत् ।

ब्रह्म१८.२२ग/ नष्ट-स्थेषु इष्टान् तान् कृत्वा भक्त्वा उक्त-वत् शेषम् ॥ [Cब्.२५]

ब्रह्म१८.२३क/ राशि-अंश-कला-विकला-शेषात् कथितात् अभीष्टतस् नष्टान् ।

ब्रह्म१८.२३ग/ यस् साधयति उपरितनान् स-मध्यमान् कुट्टक-ज्ञस् सस् ॥ [Cब्.२६]

ब्रह्म१८.२४क/ येन गुणस् शेष-युतस् छेदस् शुध्यति हृतस् स्व-गुणकेन ।

ब्रह्म१८.२४ग/ तद्-भुक्तम् शेषम् फलम् एवम् शेषात् ग्रह-द्यु-गणौ ॥ [Cब्.२७]

ब्रह्म१८.२५क/ जानाति यस् युग-गतम् कथितात् अधिमास-शेषकात् इष्टात् ।

ब्रह्म१८.२५ग/ अवम-अवशेषतस् वा तद्-योगात् वा सस् कुट्ट-ज्ञस् ॥ [Cब्.२८]

ब्रह्म१८.२६क/ इष्टेषु मान-दिवसेषु अधिमास-न्यून-रात्र-शेषे वा ।

ब्रह्म१८.२६ग/ भूयस् ते यस् कथयति पृथक् पृथक् वा सस् कुट्ट-ज्ञस् ॥ [Cब्.॰]

ब्रह्म१८.२७क/ अंशक-शेषात् त्रि-ऊनात् सप्त-हृतात् मूलम् ऊनम् अष्टाभिस् ।

ब्रह्म१८.२७ग/ नवभिस् गुणम् स-रूपम् कदा शतम् बुध-दिने सवितुस् ॥ [Cब्.१८]

ब्रह्म१८.२८क/ त्रि-ऊन-अधिमास-शेषात् मूलम् द्वि-अधिकम् विभाजितम् षड्भिस् ।

ब्रह्म१८.२८ग/ द्वि-ऊनम् वर्गितम् अधिकम् नवभिस् नवतिस् कदा भवति ॥ [Cब्.२९]

ब्रह्म१८.२९क/ अवम-अवशेष-वर्गस् वि-एकस् विंशति-विभाजितस् द्वि-अधिकस् ।

ब्रह्म१८.२९ग/ अष्ट-गुणस् दश-भक्तस् द्वि-युतस् अष्टादश कदा भवति ॥ [Cब्.३०]


धन-ऋण-शून्यम्[सम्पाद्यताम्]

ब्रह्म१८.३०क/ धनयोस् धनम् ऋणम् ऋणयोस् धन-ऋणयोस् अन्तरम् सम-ऐक्यम् खम् ।

ब्रह्म१८.३०ग/ ऋणम् ऐक्यम् च धनम् ऋण-धन-श्ऊन्ययोस् श्ऊन्ययोस् श्ऊन्यम् ॥ [Cब्.३१]

ब्रह्म१८.३१क/ ऊनम् अधिकात् विशोध्यम् धनम् धनात् ऋणम् ऋणात् अधिकम् ऊनात् ।

ब्रह्म१८.३१ग/ व्यस्तम् तद्-अन्तरम् स्यात् ऋणम् धनम् धनम् ऋणम् भवति ॥ [Cब्.३२]

ब्रह्म१८.३२क/ श्ऊन्य-विहीनम् ऋणम् ऋणम् धनम् धनम् भवति श्ऊन्यम् आकाशम् ।

ब्रह्म१८.३२ग/ शोध्यम् यदा धनम् ऋणात् ऋणम् धनात् वा तदा क्षेप्यम् ॥ [Cब्.३३]

ब्रह्म१८.३३क/ ऋणम् ऋण-धनयोस् घातस् धनम् ऋणयोस् धन-वधस् धनम् भवति ।

ब्रह्म१८.३३ग/ श्ऊन्य-ऋणयोस् ख-धनयोस् ख-श्ऊन्ययोस् वा वधस् श्ऊन्यम् ॥ [Cब्.३४]

ब्रह्म१८.३४क/ धन-भक्तम् धनम् ऋण-हृतम् ऋणम् धनम् भवति खम् ख-भक्तम् खम् ।

ब्रह्म१८.३४ग/ भक्तम् ऋणेन धनम् ऋणम् धनेन हृतम् ऋणम् ऋणम् भवति ॥ [Cब्.३४]

ब्रह्म१८.३५क/ ख-उद्धृतम् ऋणम् धनम् वा तद्-छेदम् खम् ऋण-धन-विभक्तम् वा ।

ब्रह्म१८.३५ग/ ऋण-धनयोस् वर्गस् स्वम् खम् खस्य पदम् कृतिस् यत् तत् ॥ [Cब्.३६]


सङ्क्रमणम्[सम्पाद्यताम्]

ब्रह्म१८.३६क/ योगस् अन्तर-युत-हीनस् द्वि-हृतस् सङ्क्रमणम् अन्तर-विभक्तम् वा ।

ब्रह्म१८.३६ग/ वर्ग-अन्तरम् अन्तर-युत-हीनम् द्वि-हृतम् विषम-कर्म ॥ [Cब्.३७]


करणी[सम्पाद्यताम्]

ब्रह्म१८.३७क/ करणी लम्बस् तद्-कृतिस् इष्ट-हृता इष्ट-ऊन-संयुता अल्पा भूस् ।

ब्रह्म१८.३७ग/ अधिकस् द्वि-हृतस् बाहुस् संक्षेप्यस् यद्-वधस् वर्गस् ॥ [Cब्.३८॑ द्विवेदी - संक्षेप्पस्]

ब्रह्म१८.३८क/ इष्ट-उद्धृत-करणी-पद-युति-कृतिस् इष्ट-गुणिता अन्तर-कृतिस् वा ।

ब्रह्म१८.३८ग/ गुण्यस् तिर्यक् अधस् अधस् गुणक-समस् तद्-गुणस् सहितस् ॥ [Cब्.३९]

ब्रह्म१८.३९क/ स्व-इष्ट-ऋण-छेद-गुणौ भाज्य-छेदौ पृथक् युजौ असकृत् ।

ब्रह्म१८.३९ग/ छेद-एक-गत-हृतस् वा भाज्यस् वर्गस् सम-द्वि-वधस् ॥ [Cब्.४०]

ब्रह्म१८.४०क/ इष्ट-करणी-ऊनायास् रूप-कृतेस् पद-युत-ऊन-रूप-अर्धे ।

ब्रह्म१८.४०ग/ प्रथमम् रूपाणि अन्यत् ततस् द्वितीयम् करणी असकृत् ॥ [Cब्.४१]

ब्रह्म१८.४१क/ अव्यक्त-वर्ग-घन-वर्ग-वर्ग-पञ्च-गत-षष्-गत-आदीनाम् ।

ब्रह्म१८.४१ग/ तुल्यानाम् सङ्कलित-व्यवकलिते पृथक् अतुल्यानाम् ॥ [Cब्.४२]

ब्रह्म१८.४२क/ सदृश-द्वि-वधस् वर्गस् त्रि-आदि-वधस् तद्-गतस् अन्य-जाति-वधस् ।

ब्रह्म१८.४२ग/ अन्योन्य-वर्ण-घातस् भावितकस् पूर्व-वत् शेषम् ॥ [Cब्.४३]


एक-वर्ण-समी-करणम्[सम्पाद्यताम्]

ब्रह्म१८.४३क/ अव्यक्त-अन्तर-भक्तम् व्यस्तम् रूप-अन्तरम् समे अव्यक्तस् ।

ब्रह्म१८.४३ग/ वर्ग-अव्यक्तास् शोध्यास् यस्मात् रूपाणि तद्-अधस्तात् ॥ [Cब्.४४]

ब्रह्म१८.४४क/ वर्ग-चतुर्-गुणितानाम् रूपाणाम् मध्य-वर्ग-सहितानाम् ।

ब्रह्म१८.४४ग/ मूलम् नध्येन ऊनम् वर्ग-द्वि-गुण-उद्धृतम् मध्यस् ॥ [Cब्.४८]

ब्रह्म१८.४५क/ वर्ग-आहत-रूपाणाम् अव्यक्त-अर्ध-कृति-संयुतानाम् यत् ।

ब्रह्म१८.४५ग/ पदम् अव्यक्त-अर्ध-ऊनम् तत् वर्ग-विभक्तम् अव्यक्तस् ॥ [Cब्.५०]

ब्रह्म१८.४६क/ स-एकात् अंशक-शेषात् द्वादश-भागस् चतुर्-गुणस् अष्ट-युतस् ।

ब्रह्म१८.४६ग/ स-एक-अंश-शेष-तुल्यस् यदा तदा अहर्-गणम् कथय ॥ [Cब्.४५]

ब्रह्म१८.४७क/ द्वि-ऊनम् अधिक-मास-शेषम् त्रि-हृतम् सप्त-अधिकम् द्वि-सङ्गुणितम् ।

ब्रह्म१८.४७ग/ अधिमास-शेष-तुल्यम् यदा तदा युग-गतम् कथय ॥ [Cब्.४६]

ब्रह्म१८.४८क/ वि-एकम् अवम-अवशेषम् षष्-उद्धृतम् त्रि-युतम् अवम-शेषस्य ।

ब्रह्म१८.४८ग/ पञ्च-विभक्तस्य समम् यदा तदा युग-गतम् कथय ॥ [Cब्.४७]

ब्रह्म१८.४९क/ मण्डल-शेषात् द्वि-ऊनात् मूलम् वि-एकम् दश-आहतम् द्वि-युतम् ।

ब्रह्म१८.४९ग/ मण्डल-शेषम् वि-एकम् भानोस् ज्ञ-दिने कदा भवति ॥

ब्रह्म१८.५०क/ अधिमास-शेष-पादात् त्रि-ऊनात् वर्गस् अधिमास-शेष-समस् ।

ब्रह्म१८.५०ग/ अवम-अवशेषतस् वा अवम-शेष-समस् कदा भवति ॥ [Cब्.५१]


अनेक-वर्ण-समी-करणम्[सम्पाद्यताम्]

ब्रह्म१८.५१क/ आद्यात् वर्णात् अन्यान् वर्णान् प्रोह्य आद्य-मानम् आड्य-हृतम् ।

ब्रह्म१८.५१ग/ सदृश-छेदौ असकृत् द्वौ व्यस्तौ कुट्टकस् बहुषु ॥ [Cब्.५२]

ब्रह्म१८.५२क/ गत-भगण-युतात् द्यु-गणात् तद्-शेष-युतात् तद्-ऐक्य-संयुक्तात् ।

ब्रह्म१८.५२ग/ तद्-योगात् द्यु-गणम् वा यस् कथयति कुट्टक-ज्ञस् सस् ॥ [Cब्.५३]

ब्रह्म१८.५३क/ गत-भगण-ऊनात् द्यु-गणात् तद्-शेष-ऊनात् तद्-ऐक्य-हीनात् वा ।

ब्रह्म१८.५३ग/ तद्-विवरात् द्यु-गणम् वा यस् कथयति कुट्टक-ज्ञस् सस् ॥ [Cब्.५४]

ब्रह्म१८.५४क/ राशि-आद्यैस् तद्-शेषैस् च एवम् भुक्त-अधिमास-दिन-हीनैस् ।

ब्रह्म१८.५४ग/ तद्-शेषैस् च युग-गतम् यस् कथयति कुट्टक-ज्ञस् सस् ॥ [Cब्.५५]

ब्रह्म१८.५५क/ अंशक-शेषेण युतात् लिप्ता-शेषात् तद्-अन्तरात् अथ वा ।

ब्रह्म१८.५५ग/ भानोस् ज्ञ-दिने द्यु-गणम् यस् कथयति कुट्टक-ज्ञस् सस् ॥ [Cब्.५६]

ब्रह्म१८.५६क/ अंशक-शेषम् त्रि-युतम् लिप्ता-शेषम् कदा रवेस् ज्ञ-दिने ।

ब्रह्म१८.५६ग/ षट् सप्त अष्टौ नव वा कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.५७]

ब्रह्म१८.५७क/ अंश-समम् अंश-शेषम् कला-समम् वा कला-शेषम् ।

ब्रह्म१८.५७ग/ दिवस-करस्य इष्ट-दिने कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.५८]

ब्रह्म१८.५८क/ अवम-अवशेषम् अवमैस् अधिमासक-शेषम् अधिमासैस् ।

ब्रह्म१८.५८ग/ इष्ट-युत-ऊनम् तुल्यम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.५९]

ब्रह्म१८.५९क/ निस्-छेद-भाग-हारस् भानोस् सप्तति-गुणस् अंश-शेष-ऊनस् ।

ब्रह्म१८.५९ग/ शुध्यति अयुत-विभक्तस् कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.६०]


भावितकम्[सम्पाद्यताम्]

ब्रह्म१८.६०क/ भावितक-रूप-गुणना स-अव्यक्त-वधा इष्ट-भाजिता इष्ट-आप्त्योस् ।

ब्रह्म१८.६०ग/ अल्पे अधिकस् अधिके अल्पस् क्षेप्यस् भावित-हृतौ व्यस्तम् ॥ [Cब्.६१]

ब्रह्म१८.६१क/ भानोस् राशि-अंश-वधात् त्रि-चतुर्-गुणितान् विशोध्य राशि-अंशान् ।

ब्रह्म१८.६१ग/ नवतिम् दृष्ट्वा सूर्यम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.६२]

ब्रह्म१८.६२क/ भावितके यद्-घातस् विनष्ट-वर्णेन तद्-प्रमाणानि ।

ब्रह्म१८.६२ग/ कृत्वा इष्टानि तद्-आहत-वर्ण-ऐक्यम् भवति रूपाणि ॥ [Cब्.६६]

ब्रह्म१८.६३क/ वर्ण-प्रमाण-भावित-घातस् भवति इष्ट-वर्ण-सङ्ख्या एवम् ।

ब्रह्म१८.६३ग/ सिध्यति विना अपि भावित-सम-करणात् किम् कृतम् तत् अतस् ॥ [Cब्.६४]


वर्ग-प्रकृतिस्[सम्पाद्यताम्]

ब्रह्म१८.६४क/ मूलम् द्विधा इष्ट-वर्गात् गुणक-गुणात् इष्ट-युत-विहीनात् च ।

ब्रह्म१८.६४ग/ आद्य-वधस् गुणक-गुणस् सह अन्त्य-घातेन कृतम् अन्त्यम् ॥ [Cब्.६५]

ब्रह्म१८.६५क/ वज्र-वध-ऐक्यम् प्रथमम् प्रक्षेपस् क्षेप-वध-तुल्यस् ।

ब्रह्म१८.६५ग/ प्रक्षेप-शोधक-हृते मूले प्रक्षेपके रूपे ॥ [Cब्.६६]

ब्रह्म१८.६६क/ रूप-प्रक्षेप-पदे पृथक् इष्ट-क्षेप्य-शोध्य-मूलाभ्याम् ।

ब्रह्म१८.६६ग/ कृत्वा अन्त्य-आद्य-पदे ये प्रक्षेपे शोधने वा इष्टे ॥ [Cब्.६८]

ब्रह्म१८.६७क/ चतुर्-अधिके अन्त्य-पद-कृतिस् त्रि-ऊना दलिता अन्त्य-पद-गुणा अन्त्य-पदम् ।

ब्रह्म१८.६७ग/ अन्त्य-पद-कृतिस् वि-एका द्वि-हृता आद्य-पद-आहता आद्य-पदम् ॥ [Cब्.६९]

ब्रह्म१८.६८क/ चतुर्-ऊने अन्त्य-पद-कृती त्रि-एक-युते वध-दलम् पृथक् वि-एकम् ।

ब्रह्म१८.६८ग/ वि-एक-आड्य-आहतम् अन्त्यम् पद-वध-गुणम् आद्यम् आन्त्य-पदम् ॥ [Cब्.७१]

ब्रह्म१८.६९क/ वर्गे गुणके क्षेपस् केन चित् उद्धृत-युत-ऊनितस् दलितस् ।

ब्रह्म१८.६९ग/ प्रथमस् अन्त्य-मूलम् अन्यस् गुण-कार-पद-उद्धृतस् प्रथमस् ॥ [Cब्.७३]

ब्रह्म१८.७०क/ वर्ग-छिन्ने गुणके प्रथमम् तद्-मूल-भाजितम् भवति ।

ब्रह्म१८.७०ग/ वर्ग-छिन्ने क्षेपे तद्-पद-गुणिते तदा मूले ॥ [Cब्.७५]

ब्रह्म१८.७१क/ गुणक-युतिस् अष्ट-गुणिता गुणक-अन्तर-वर्ग-भाजिता राशिस् ।

ब्रह्म१८.७१ग/ गुणकौ त्रि-गुणौ व्यस्त-अधिकौ हृतौ अन्तरेण पदे ॥ [Cब्.७८]

ब्रह्म१८.७२क/ वर्गस् अन्य-कृति-युत-ऊनस् तद्-संयोग-अन्तर-अर्ध-कृति-भक्तस् ।

ब्रह्म१८.७२ग/ तद्-गुणितौ युति-वियुतौ वर्गौ घाते च रूप-युते ॥ [Cब्.७२]

ब्रह्म१८.७३क/ यैस् ऊनस् यैस् च युतस् रूपैस् वर्गस् तद्-ऐक्यम् इष्ट-हृतम् ।

ब्रह्म१८.७३ग/ इष्ट-ऊनम् तद्-दल-कृतिस् ऊना अभ्यधिका भवति राशिस् ॥ [Cब्.८४]

ब्रह्म१८.७४क/ याभ्याम् कृतिस् अधिक-ऊनस् तद्-अन्तरम् हृत-युत-ऊनम् इष्टेन ।

ब्रह्म१८.७४ग/ तद्-दल-कृतिस् अधिक-ऊना अधिकयोस् अधिक-ऊनयोस् राशिस् ॥ [Cब्.८२]


उदाहरणानि[सम्पाद्यताम्]

ब्रह्म१८.७५क/ राशि-कला-शेष-कृतिम् द्विनवति-गुणिताम् त्र्यशीति-गुणिताम् वा ।

ब्रह्म१८.७५ग/ स-एका ज्ञ-दिने वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.६७]

ब्रह्म१८.७६क/ सूर्य-विलिप्ता-शेषम् पञ्चभिस् ऊन-आहतम् तथा दशभिस् ।

ब्रह्म१८.७६ग/ वर्गे बृहस्पति-दिने कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.८६]

ब्रह्म१८.७७क/ भ-गण-आदि-शेष-वर्गम् त्रिभिस् गुणम् संयुतम् शतैस् नवभिस् ।

ब्रह्म१८.७७ग/ कृतिम् अष्ट-शत-ऊनम् वा कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.७०]

ब्रह्म१८.७८क/ भ-गण-आदि-शेष-वर्गम् चतुर्-गुणम् पञ्चषष्टि-संयुक्तम् ।

ब्रह्म१८.७८ग/ षष्टि-ऊनम् वा वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.७४]

ब्रह्म१८.७९क/ इष्ट-भगण-आदि-शेषम् द्विनवति-ऊनम् त्र्यशीति-संगुणितम् ।

ब्रह्म१८.७९ग/ रूपेण युतम् वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.८७]

ब्रह्म१८.८०क/ अधिमास-शेष-वर्गम् त्रयोदश-गुणम् त्रिभिस् शतैस् युक्तम् ।

ब्रह्म१८.८०ग/ त्रि-घन-ऊनम् वा वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.७२]

ब्रह्म१८.८१क/ इन्दु-विलिप्ता-शेषम् सप्तदश-गुणम् त्रयोदश-गुणम् च अपि ।

ब्रह्म१८.८१ग/ पृथक् एक-युतम् वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.७९]

ब्रह्म१८.८२क/ अवम-अवशेष-वर्गम् द्वादश-गुणितम् शतेन संयुक्तम् ।

ब्रह्म१८.८२ग/ त्रिभिस् ऊनम् वा वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.७६]

ब्रह्म१८.८३क/ ज्ञ-दिने अर्क-कला-शेषम् गुरु-दिन-विकला-अवशेष-युक्त-ऊनम् ।

ब्रह्म१८.८३ग/ वर्गम् वधम् च स-एकम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.८१]

ब्रह्म१८.८४क/ विकला-शेषम् सहितम् त्रिनवत्या सप्तषष्टि-हीनम् च ।

ब्रह्म१८.८४ग/ भानोस् ज्ञ-दिने वर्गम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.८५]

ब्रह्म१८.८५क/ ज्ञ-दिने अर्क-कला-शेषम् द्वादशभिस् संयुतम् त्रिषष्ट्या च ।

ब्रह्म१८.८५ग/ षष्ट्या अष्टभिस् च ऊनम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.८३]

ब्रह्म१८.८६क/ इन्दु-विलिप्ता-शेषात् रवि-लिप्ता-शेषम् अंश-शेषम् वा ।

ब्रह्म१८.८६ग/ अथ वा मध्यमम् इष्टम् कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.८८]

ब्रह्म१८.८७क/ जीव-विलिप्ता-शेषात् कु-जम् इन्दुम् भौम-लिप्तिका-शेषात् ।

ब्रह्म१८.८७ग/ रविम् इन्दु-भाग-शेषात् कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.८९]

ब्रह्म१८.८८क/ इष्ट-ग्रह-इष्ट-शेषात् द्यु-गणस् गत-निस्-अपवर्त-संगुणितैस्/ [द्विवेदी - -अपवर्त्त- < -अपवर्त-]

ब्रह्म१८.८८ग/ छेद-दिनैस् अधिकस् अस्मात् अन्य-ग्रह-शेषम् इष्टस् वा ॥ [Cब्.९०]

ब्रह्म१८.८९क/ निस्-छेद-भाग-हारौ ग्रहयोस् विपरीतौ ग्रहयोस् द्यु-गणात् ।

ब्रह्म१८.८९ग/ यस्मात् तद्-निस्-छेदेन उद्धृतयोस् लब्ध-संगुणितौ ॥ [द्विवेदी - उद्धतयोस् < उद्धृतयोस्, Cब्.८९]

ब्रह्म१८.९०क/ निस्-छेद-भाग-हारौ विपरीतौ तद्-युतात् पुनर् तस्मात् ।

ब्रह्म१८.९०ग/ शेषे द्यु-गणात् एवम् त्रि-आदीनाम् प्राक्-वत् इष्ट-दिने ॥ [Cब्.९१]

ब्रह्म१८.९१क/ द्यु-गणम् अवम-अवशेषात् रवि-चन्द्रौ मध्यमौ स्फुटौ अथ वा ।

ब्रह्म१८.९१ग/ एवम् तिथिम् ग्रहम् वा कुर्वन् आ वत्सरात् गणकस् ॥ [Cब्.९२]

ब्रह्म१८.९२क/ एक-दिनम् अवम-शेषम् यद्-गुणम् एक-रवि-चन्द्र-भ-गण-ऊनम् ।

ब्रह्म१८.९२ग/ शुध्यति भू-दिन-भक्तम् वि-एकम् चान्द्रैस् तद्-उक्तिस् इयम् ॥ [Cब्.९३]

ब्रह्म१८.९३क/ इषु-श्अर-कृत-अष्ट-३दिग्भिस् १०८४५५ सङ्गुणितात् अवम-शेषकात् भक्तात् ।

ब्रह्म१८.९३ग/ रूप-अष्ट-वेद-रस-श्ऊन्य-श्अर-गुणैस् ३५०६४८१ दिन-गणस् शेषम् ॥ [Cब्.९४]

ब्रह्म१८.९४क/ जिन-रस-गो-अब्धि-रद-३२४९६२४-गुणात् श्अशि-वसु-कृत-रस-ख-भूत-राम-३५०६४८१-हृतात् ।

ब्रह्म१८.९४ग/ इष्ट-अवम-शेषात् यत् शेषम् रवि-भ-गण-शेषम् तत् ॥ [Cब्.९५]

ब्रह्म१८.९५क/ गो-अग-इन्दु-ख-ईश-११०१७९-गुणितात् भक्तात् नख-पक्ष-यम-रस-इषु-गुणैस् ३५६२२२० ।

ब्रह्म१८.९५ग/ शेषम् अवम-अवशेषात् तिथयस् अवम-शेषकात् विकलम् ॥ [Cब्.९६]

ब्रह्म१८.९६क/ भाग-कला-विकला-ऐक्यम् दृष्ट्वा विकला-अन्तरम् च के शेषे ।

ब्रह्म१८.९६ग/ ऐक्यम् द्विधा अन्तर-अधिक-हीनम् च द्वि-भाजितम् शेषे ॥ [Cब्.९७]

ब्रह्म१८.९७क/ तद्-वर्ग-अन्तरम् आद्ये तद्-अन्तरम् च अनतर-उद्धृत-युत-ऊनम् ।

ब्रह्म१८.९७ग/ वर्ग-अन्तरम् विभक्तम् द्वाभ्याम् शेषे ततस् द्यु-गणस् ॥ [Cब्. ९८]

ब्रह्म१८.९८क/ [कृति-संयोगात् द्वि-गुणात् युति-वर्गम् प्रोह्य शेष-मूलम् यत् ।

ब्रह्म१८.९८ग/ तेन युत-ऊनस् योगस् दलितस् शेषे पृथक् अभीष्टे ॥ Cब्.९९]

ब्रह्म१८.९९क/ शेष-वधात् द्वि-कृति-गुणात् शेष-अन्तर-वर्ग-संयुतात् मूलम् ।

ब्रह्म१८.९९ग/ शेष-अन्तर-ऊन-युक्तम् दलितम् शेषे पृथक् अभीष्टे ॥ [Cब्.१००]

ब्रह्म१८.१००क/ हृदि-घात्रम् अमी प्रश्नास् प्रश्नान् अन्यान् सहस्र-शस् कुर्यात्/ [द्विवेदी - हृदि-घात्रम् > हृद्-मात्रम्]

ब्रह्म१८.१००ग/ अन्यैस् दत्तान् प्रश्नान् उक्त्या एवम् साधयेत् करणैस् ॥ [Cब्.१०१]

ब्रह्म१८.१०१क/ जन-संसदि दैव-विदाम् तेजस् नाशयति भानुस् इव भानाम् ।

ब्रह्म१८.१०१ग/ कुट्टाकार-प्रश्नैस् पथितैस् अपि किम् पुनर् शत-शस् ॥ [Cब्.१०२, द्विवेदी - शत-शस् > सूत्रैस्]

ब्रह्म१८.१०२क/ प्रति-सूत्रम् अमी प्रश्नास् पथितास् स-उद्देशकेषु सूत्रेषु ।

ब्रह्म१८.१०२ग/ आर्या-त्रि-अधिक-शतेन च कुट्टस् च अष्टादशस् अध्यायस् ॥ [Cब्.१०३]

ब्रह्म१८.१०२प्/ इति श्री-ब्राह्मस्फुटसिद्धान्ते कुट्टक-अध्यायस् अष्टादशस् ॥



शङ्कु-छाया-आदि-ज्ञानम्[सम्पाद्यताम्]

प्रश्नास्[सम्पाद्यताम्]

ब्रह्म१९.१क/ दृष्ट्वा दिन-अर्ध-घटिका यस् अर्क-ज्ञस् अक्ष-अंशकान् विजानाति ।

ब्रह्म१९.१ग/ उदय-अन्तर-घटिकाभिस् ज्ञातात् ज्ञेयम् सस् तन्त्र-ज्ञस् ॥

ब्रह्म१९.२क/ अस्त-अन्तर-घटिकाभिस् यस् ज्ञातात् ज्ञेयम् आनयति तस्त्मात् ।

ब्रह्म१९.२ग/ मध्य-गतिम् युग-भ-गणान् आनयति ततस् सस् तन्त्र-ज्ञस् ॥

ब्रह्म१९.३क/ आनयति यस् तमस्-रवि-शश-अङ्क-मानानि दीपक-शिख-औच्च्यात् ।

ब्रह्म१९.३ग/ शङ्कु-तल-अन्तर-भूमि-ज्ञाने छायाम् सस् तन्त्र-ज्ञस् ॥

ब्रह्म१९.४क/ इष्ट-गृह-औच्च्य-ज्ञस् यस् तद्-अन्तर-ज्ञस् निरीक्ष्यते तु जले ।

ब्रह्म१९.४ग/ गृह-भित्ति-अग्रम् दर्शयति दर्पणे वा सस् तन्त्र-ज्ञस् ॥

ब्रह्म१९.५क/ छाया-द्वितीय-भा-अग्र-अन्तर-विज्ञानेन वेत्ति दीप-औच्यम् ।

ब्रह्म१९.५ग/ शङ्कु-छाया-ज्ञस् वा भूमेस् छायाम् सस् तन्त्र-ज्ञस् ॥ [द्विवेदी - शङ्क- < शङ्कु-]

ब्रह्म१९.६क/ दृष्ट्वा गृह-तल-अन्तर-जालभोस् दृष्ट्वा अग्रम् गृहस्य भूमि-ज्ञस्/ [द्विवेदी - दृष्ट्वा गृह-तल-अन्तर-जालभोस् > गृह-पुरुष-अन्तर-सलिले यस्]

ब्रह्म१९.६ग/ वेत्ति गृह-औच्च्यम् दृष्ट्वा तैल-स्थम् वा सस् तन्त्र-ज्ञस् ॥

ब्रह्म१९.७क/ वीक्ष्य गृह-अग्रम् सलिले प्रसार्य सलिलम् पुनर् स्व-भू-ज्ञाने ।

ब्रह्म१९.७ग/ आनयति जलात् भूमिम् गृहस्य वा औच्च्यम् सस् तन्त्र-ज्ञस् ॥

ब्रह्म१९.८क/ ज्ञातैस् छाया-पुरुषैस् विज्ञाते तोय-कुड्ययोस् विवरे ।

ब्रह्म१९.८ग/ कुड्ये अर्क-तेजसस् यस् वेत्ति आरूढिम् सस् तन्त्र-ज्ञस् ॥


उत्तराणि[सम्पाद्यताम्]

ब्रह्म१९.९क/ इष्ट-दिवस-अर्ध-घटिका घटिका-पञ्चदश-अन्तर-प्राणास् ।

ब्रह्म१९.९ग/ तद्-दिवस-चर-प्राणास् तैस् अक्षम् साधयेत् प्राक्-वत् ॥

ब्रह्म१९.१०क/ ज्ञात-ज्ञेय-ग्रहयोस् उदय-अन्तर-नाडिकाभिस् अधिक-ऊनस् ।

ब्रह्म१९.१०ग/ उदयैस् ज्ञातस् ज्ञातात् ज्ञेयस् प्राक्-अपरयोस् ज्ञेयस् ॥

ब्रह्म१९.११क/ ज्ञातस् स-भ-अर्धस् उदयैस् अस्त-अन्तर-नाडिकाभिस् अधिक-ऊनस् ।

ब्रह्म१९.११ग/ ज्ञातात् पूर्व-अपरयोस् ज्ञेयस् भ-अर्ध-ऊनके ज्ञेयस् ॥

ब्रह्म१९.१२क/ ज्ञातम् कृत्वा मध्यम् भूयस् अन्य-दिने तद्-अन्तरम् भुक्तिस् ।

ब्रह्म१९.१२ग/ त्रैराशिकेन भुक्त्या कल्प-ग्रह-मण्डल-आनयनम् ॥

ब्रह्म१९.१३क/ स्थिति-अर्धात् विपरीतम् तमस्-प्रमाणम् स्फुटम् ग्रहणे ।

ब्रह्म१९.१३ग/ मान-उदयात् रवि-इन्द्वोस् घटिका-अवयवेन भ-उदय-तस् ॥

ब्रह्म१९.१४क/ दीप-तल-शङ्कु-तलयोस् अन्तरम् इष्ट-प्रमाण-शङ्कु-गुणम् ।

ब्रह्म१९.१४ग/ दीप-शिख-औच्च्यात् शङ्कुम् विशोध्य शेष-उद्धृतम् छाया ॥

ब्रह्म१९.१५क/ शङ्कु-अन्तरेण गुणिता छाया छाया-अन्तरेण भक्ता भूस् ।

ब्रह्म१९.१५ग/ स-छाया शङ्कु-गुणा दीप-औच्च्यम् छायया भक्ता ॥

ब्रह्म१९.१६क/ ज्ञात्वा शङ्कु-छायाम् अनुपातात् साधयेत् समुच्छ्रायान् ।

ब्रह्म१९.१६ग/ गृह-चैत्य-तरु-नगानाम् औच्च्यम् विज्ञाय वा छायाम् ॥

ब्रह्म१९.१७क/ युत-दृष्टि-गृह-औच्च्य-हृता हि अन्तर-भूमिस् दृक्-औच्च्य-सङ्गुणिता ॥

ब्रह्म१९.१७ग/ फल-भूस् न्यस्ते तोये प्रति-रूप-अग्रम् गृहस्य नरात् ॥

ब्रह्म१९.१८क/ गृह-पुरुष-अन्तर-सलिले वीक्ष्य गृह-अग्रम् दृक्-औच्च्य-सङ्गुणितम् ।

ब्रह्म१९.१८ग/ गृह-तोय-अन्तरम् औच्च्यम् गृहस्य नृ-जल-अन्तरेण हृतम् ॥

ब्रह्म१९.१९क/ प्रथम-द्वितीय-नृ-जल-अन्तर-अन्तरेण उद्धृता जल-अपसृतिस् ।

ब्रह्म१९.१९ग/ दृष्टि-औच्च्य-गुणा उच्छ्रायस् तोयात् नृ-जल-अन्तर-गुणा भूस् ॥

ब्रह्म१९.२०क/ छाया-पुरुष-छिन्नम् जल-कुड्य-अन्तरम् अवाप्तम् आरूढिस् ।

ब्रह्म१९.२०ग/ अध्यायस् विंशति-आर्याणाम् एकोनविंशस् अयम् ॥


छन्दस्-चिति-उत्तरम्[सम्पाद्यताम्]

ब्रह्म२०.१क/ ऋग्वर्गः पर्यायः समूहयोगावयुक्षु युग्मेषु ।

ब्रह्म२०.१ग/ सोयाः प्राग्वत्प्राप्तादाश्चतुष्ककाः शेषयुक्त्योन्त्यः ॥

ब्रह्म२०.२क/ एकादियुतविहीनावाद्यन्तौ तद्विपर्ययौ यावत् ।

ब्रह्म२०.२ग/ वर्गादिषु विषमयुजां क्रमोत्क्रमाद्वर्धयेत्पादान् ॥

ब्रह्म२०.३क/ एकैकेन द्व्याद्व्याः सोप्पप्पधिकेषु तत्प्रतिष्ठेषु ।

ब्रह्म२०.३ग/ वर्गादिरभीष्टान्तः प्रस्तारो भवति यवमध्यः ॥

ब्रह्म२०.४क/ सूनोन्त्यो द्विपदाग्रं त्रिपदाद्यानामधः पृथक् संख्या ।

ब्रह्म२०.४ग/ तच्छोध्यो व्येकः पृथग्न्ताद्रूपमूर्ध्वयुतम् ॥

ब्रह्म२०.५क/ यावत् पादाव्येकागच्छाद्वर्णेष्वथैकवृद्धेषु ।

ब्रह्म२०.५ग/ रूपाद्युतघाते वर्गाद्यानां परा संख्या ॥

ब्रह्म२०.६क/ रूपाधिकपादार्धेविषमेषूर्ध्वः समेषु पादार्धे ।

ब्रह्म२०.६ग/ अर्धाद्विगुणाव्येकांयुलान्यधस्तस्य सर्वेषाम् ॥

ब्रह्म२०.७क/ माध्यैस् तथार्धहीनैः क्रमपादैर् व्यस्ततुल्यपादाद्यः ।

ब्रह्म२०.७ग/ विषमेरव्येकं मध्ये प्रोह्याद्यान्यतः कुर्यात् ॥

ब्रह्म२०.८क/ सैकक्रमतुल्याद्यैर् न्यासोऽभ्यधिको विशोधितश् चाधः ।

ब्रह्म२०.८ग/ संख्यैक्यं तादृक् यादृक् प्रथमस् त्रिरहितो नष्टे ॥

ब्रह्म२०.९क/ माध्यैः कृतैश् च दलितैः समसंख्यायां क्रमोत्क्रमात् क्षेप्पम् ।

ब्रह्म२०.९ग/ विषमायां व्येकायां दलम् क्रमाद् उत्त्क्रमात् सैकम् ॥

ब्रह्म२०.१०क/ समसंख्यायां सोपानक्रमोत्क्रमाभ्यां तथैव विषमाभ्याम् ।

ब्रह्म२०.१०ग/ कल्प्या पचिते दृष्टे प्रथमः शेषाक्षराण्यन्ते ॥

ब्रह्म२०.११क/ समदलसमविषमाणां संख्यापादार्धसर्वकल्पवधः ।

ब्रह्म२०.११ग/ स्वाद्यवधोऽन्यैः पादैः स्वपरस्य प्राग्वधः सैकैः ॥

ब्रह्म२०.१२क/ आद्यादनन्तरोऽधः कल्प्पोऽन्यतुल्यमाद्यः प्राक् ।

ब्रह्म२०.१२ग/ न्यासो वर्गोऽन्योनः प्रस्तारोऽर्धसमविषमाणाम् ॥

ब्रह्म२०.१३क/ नष्टेन्त्यात् स्वाधस्थोनकल्पघातोऽर्धतुल्यविषमाणाम् ।

ब्रह्म२०.१३ग/ व्येकः पृथक् स्ववर्गोद्धृतः फलं तुल्यकल्यानाम् ॥

ब्रह्म२०.१४क/ उद्दिष्टे कल्पहृतेऽतीतैः प्रथमः फले सरूपे ऽन्यः ।

ब्रह्म२०.१४ग/ असकृद्वर्गांशयुते सैके वार्धसमविषमाणाम् ॥

ब्रह्म२०.१५क/ कपेषु पृथक् गुरुलघुसंख्यैकादिभाजिता प्राग्वत् ।

ब्रह्म२०.१५ग/ विषमेष्वाद्यलघूनो लघुभिर् मेरुः समादीनाम् ॥

ब्रह्म२०.१६क/ एकद्वितयोः परतो द्विसंगुणोऽनन्तराद्विरूपोऽधः ।

ब्रह्म२०.१६ग/ वर्गधराद्योनोदलसमविषमाणां ध्वजो लघुभिः ॥

ब्रह्म२०.१७क/ लघुसंख्या पददलिता परतोऽधोऽधश् च शुध्यति हृता यैः ।

ब्रह्म२०.१७ग/ द्विगुणान्तैः शुद्धैर् वर्गपरैर् मन्दरो लघुभिः ॥

ब्रह्म२०.१८क/ कृत्वाधोऽधः कल्प्यान्येकाद्येकोत्तरानधस्तेषाम् ।

ब्रह्म२०.१८ग/ स्वात् परतोऽन्यैक्यम् अधः प्रस्ताराद् उक्तवद् इहाद्यैः ॥

ब्रह्म२०.१९क/ गुरुषष्ट्येकानिघटीद्विगुणान्येकांगुलानि संख्या स्यात् ।

ब्रह्म२०.१९ग/ द्राविंशतिर् आर्याणां छन्दश्चित्युत्तरोऽध्यायः ॥

ब्रह्म२०.१९प्/ इति श्री-ब्राह्मस्फुट-सिद्धान्ते छन्दश्चित्युत्तराध्यायो विंशतितमः ॥


गोल[सम्पाद्यताम्]

ज्या-प्रकरणम्[सम्पाद्यताम्]

ब्रह्म२१.१७क/ राशि-अष्ट-अंशेषु अङ्कान् पद-सन्धिभ्यस् क्रम-उत्क्रमात् कृत्वा ।

ब्रह्म२१.१७ग/ बध्नीयात् सूत्राणि द्वयोस् द्वयोस् ज्यास् तद्-अर्धानि ॥

ब्रह्म२१.१८क/ ज्या-अर्धानि ज्या-अर्धानाम् ज्या-खण्डानि अन्तराणि ।

ब्रह्म२१.१८ग/ व्यस्तानि अन्त्यात् अथ वा इषुस् उत्क्रम-ज्या धनुस् ताभ्याम् ॥

ब्रह्म२१.१९क/ एक-द्वि-त्रि-गुणायास् व्यास-अर्ध-कृतेस् पृथक् चतुर्थेभ्यस् ।

ब्रह्म२१.१९ग/ मूलानि अष्ट-द्वादश-षोडश-खण्डानि अतस् अन्यानि ॥

ब्रह्म२१.२०क/ तुल्य-क्रम-उत्क्रम-ज्या-सम-खण्डक-वर्ग-युति-चतुर्-भागम् ।

ब्रह्म२१.२०ग/ प्रोह्य अनष्टम् व्यास-अर्ध-वर्गतस् तद्-पदे प्रथमम् ॥

ब्रह्म२१.२१क/ तद्-दल-खण्डानि तद्-ऊन-जिन-समानि द्वितीयम् उत्पत्तौ ।

ब्रह्म२१.२१ग/ कृत-यमल-एक-दिश्-ईश-इषु-सप्त-रस-गुण-नव-आदीनाम् ॥

ब्रह्म२१.२२क/ एवम् जीवा-खण्डानि अल्पानि बहूनि वा आद्य-खण्डानि ।

ब्रह्म२१.२२ग/ ज्या-अर्धानि वृत्त-परिधेस् षष्ठ-चतुर्थ-त्रि-भागानाम् ॥

ब्रह्म२१.२३क/ उत्क्रम-सम-खण्ड-गुणात् व्यासात् अथ वा चतुर्थ-भागात् यत् ।

ब्रह्म२१.२३ग/ कृत्वा उक्त-खण्डकानि ज्या-अर्ध-आनयनम् न लघु अस्मात् ॥


संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कडियाँ[सम्पाद्यताम्]

  • उपरोक्त सामग्री [http: ॥www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/6_sastra/8_jyot/brsphutu.htm यहाँ] से रोमन यूनिकोड में ली गयी
    और [http: ॥www.bhasa.net/diCrunch.php Diacritic Conversion - diCrunch v2.00:b5] की सहायता से इसे देवनागरी में परिवर्तित करके कुछ अन्य आवश्यक परिवर्तनों के बाद यहाँ रखा गया। (23-12-2007)
  • [http: ॥hi.wikipedia.org/wiki/ब्रह्मस्फुटसिद्धान्त हिन्दी विकिपीडिया पर ब्रह्मस्फुटसिद्धान्त के बारे में लेख]