ब्रह्मसूत्रम्/चतुर्थः अध्यायः/प्रथमः पादः

विकिस्रोतः तः
Jump to navigation Jump to search
ब्रह्मसूत्रम्
चतुर्थाध्याये प्रथमः पादः
वेदव्यासः
द्वितीयः पादः →

आवृत्यधिकरणम्[सम्पाद्यताम्]

आवृत्तिर् असकृदुपदेशात् । ( ब्रसू-४,१.१ । )

भाष्यम्

शाङ्करभाष्यम्॥

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत सोऽन्वेष्टव्यः स विजिज्ञासितव्यः इति च एवमादिश्रवणेषु संशयः किं सकृत्प्रत्ययः कर्तव्यः आहोस्वित् आवृत्त्येति। किं तावत्प्राप्तम् सकृत्प्रत्ययः स्यात् प्रयाजादिवत् तावता शास्त्रस्य कृतार्थत्वात् अश्रूयमाणायां हि आवृत्तौ क्रियमाणायाम् अशास्त्रार्थः कृतो भवेत्। ननु असकृदुपदेशा उदाहृताः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्येवमादयः एवमपि यावच्छब्दमावर्तयेत् सकृच्छ्रवणं सकृन्मननं सकृन्निदिध्यासनं चेति नातिरिक्तम्। सकृदुपदेशेषु तु वेद उपासीत इत्येवमादिषु अनावृत्तिरित्येवं प्राप्ते ब्रूमः प्रत्ययावृत्तिः कर्तव्या कुतः असकृदुपदेशात् श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्येवंजातीयको हि असकृदुपदेशः प्रत्ययावृत्तिं सूचयति। ननु उक्तम् यावच्छब्दमेव आवर्तयेत् नाधिकमिति न दर्शनपर्यवसानत्वादेषाम् दर्शनपर्यवसानानि हि श्रवणादीन्यावर्त्यमानानि दृष्टार्थानि भवन्ति यथा अवघातादीनि तण्डुलादिनिष्पत्तिपर्यवसानानि हि तद्वत्। अपि च उपासनं निदिध्यासनं च इत्यन्तर्णीतावृत्तिगुणैव क्रिया अभिधीयते तथा हि लोके गुरुमुपास्ते राजानमुपास्ते इति च यस्तात्पर्येण गुर्वादीननुवर्तते स एवमुच्यते तथा ध्यायति प्रोषितनाथा पतिम् इति या निरन्तरस्मरणा पतिं प्रति सोत्कण्ठा सा एवमभिधीयते। विद्युपास्त्योश्च वेदान्तेषु अव्यतिरेकेण प्रयोगो दृश्यते क्वचित् विदिनोपक्रम्य उपासिनोपसंहरति यथा यस्तद्वेद यत्स वेद स मयैतदुक्तः इत्यत्र अनु म एतां भगवो देवतां शाधि यां देवतामुपास्से इति क्वचिच्च उपासिनोपक्रम्य विदिनोपसंहरति यथा मनो ब्रह्मेत्युपासीत इत्यत्र भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद इति। तस्मात्सकृदुपदेशेष्वपि आवृत्तिसिद्धिः। असकृदुपदेशस्तु आवृत्तेः सूचकः।।

लिङ्गाच् च । ( ब्रसू-४,१.२ । )

भाष्यम्

शाङ्करभाष्यम्॥

लिङ्गमपि प्रत्ययावृत्तिं प्रत्याययति। तथा हि उद्गीथविज्ञानं प्रस्तुत्य आदित्य उद्गीथः इत्येतत् एकपुत्रतादोषेणापोद्य रश्मींस्त्वं पर्यावर्तयात् इति रश्मिबहुत्वविज्ञानं बहुपुत्रतायै विदधत् सिद्धवत्प्रत्ययावृत्तिं दर्शयति तत्सामान्यात् सर्वप्रत्ययेष्वावृत्तिसिद्धिः।।

अत्राह भवतु नाम साध्यफलेषु प्रत्ययेष्वावृत्तिः तेष्वावृत्तिसाध्यस्यातिशयस्य संभवात् यस्तु परब्रह्मविषयः प्रत्ययो नित्यशुद्धबुद्धमुक्तस्वभावमेव आत्मभूतं परं ब्रह्म समर्पयति तत्र किमर्था आवृत्तिरिति। सकृच्छ्रुतौ च ब्रह्मात्मत्वप्रतीत्यनुपपत्तेरावृत्त्यभ्युपगम इति चेत् न आवृत्तावपि तदनुपपत्तेः यदि हि तत्त्वमसि इत्येवंजातीयकं वाक्यं सकृच्छ्रूयमाणं ब्रह्मात्मत्वप्रतीतिं नोत्पादयेत् ततस्तदेव आवर्त्यमानमुत्पादयिष्यतीति का प्रत्याशा स्यात्। अथोच्येत न केवलं वाक्यं कंचिदर्थं साक्षात्कर्तुं शक्नोति अतो युक्त्यपेक्षं वाक्यमनुभावयिष्यति ब्रह्मात्मत्वमिति तथाप्यावृत्त्यानर्थक्यमेव सापि हि युक्तिः सकृत्प्रवृत्तैव स्वमर्थमनुभावयिष्यति। अथापि स्यात् युक्त्या वाक्येन च सामान्यविषयमेव विज्ञानं क्रियते न विशेषविषयम् यथा अस्ति मे हृदये शूलम् इत्यतो वाक्यात् गात्रकम्पादिलिङ्गाच्च शूलसद्भावसामान्यमेव परः प्रतिपद्यते न विशेषमनुभवति यथा स एव शूली विशेषानुभवश्च अविद्याया निवर्तकः तदर्था आवृत्तिरिति चेत् न असकृदपि तावन्मात्रे क्रियमाणे विशेषविज्ञानोत्पत्त्यसंभवात् न हि सकृत्प्रयुक्ताभ्यां शास्त्रयुक्तिभ्यामनवगतो विशेषः शतकृत्वोऽपि प्रयुज्यमानाभ्यामवगन्तुं शक्यते तस्मात् यदि शास्त्रयुक्तिभ्यां विशेषः प्रतिपाद्येत यदि वा सामान्यमेव उभयथापि सकृत्प्रवृत्ते एव ते स्वकार्यं कुरुत इति आवृत्त्यनुपयोगः न च सकृत्प्रयुक्ते शास्त्रयुक्ती कस्यचिदप्यनुभवं नोत्पादयत इति शक्यते नियन्तुम् विचित्रप्रज्ञत्वात्प्रतिपत्तृ़णाम्। अपि च अनेकांशोपेते लौकिके पदार्थे सामान्यविशेषवति एकेनावधानेन एकमंशमवधारयति अपरेण अपरम् इति स्यादप्यभ्यासोपयोगः यथा दीर्घप्रपाठकग्रहणादिषु न तु निर्विशेषे ब्रह्मणि सामान्यविशेषरहिते चैतन्यमात्रात्मके प्रमोत्पत्तावभ्यासापेक्षा युक्तेति।।

अत्रोच्यते भवेदावृत्त्यानर्थक्यं तं प्रति यः तत्त्वमसि इति सकृदुक्तमेव ब्रह्मात्मत्वमनुभवितुं शक्नुयात् यस्तु न शक्नोति तं प्रति उपयुज्यत एव आवृत्तिः। तथा हि च्छान्दोग्ये तत्त्वमसि श्वेतकेतो इत्युपदिश्य भूय एव मा भगवान्विज्ञापयतु इति पुनः पुनः परिचोद्यमानः तत्तदाशङ्काकारणं निराकृत्य तत्त्वमसि इत्येवासकृदुपदिशति तथा च श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्यादि दर्शितम्। ननु उक्तम् सकृच्छ्रुतं चेत् तत्त्वमसिवाक्यं स्वमर्थमनुभावयितुं न शक्नोति तत आवर्त्यमानमपि नैव शक्ष्यतीति नैष दोषः न हि दृष्टेऽनुपपन्नं नाम दृश्यन्ते हि सकृच्छ्रुताद्वाक्यात् मन्दप्रतीतं वाक्यार्थं आवर्तयन्तः तत्तदाभासव्युदासेन सम्यक्प्रतिपद्यमानाः। अपि च तत्त्वमसि इत्येतद्वाक्यं त्वंपदार्थस्य तत्पदार्थभावमाचष्टे तत्पदेन च प्रकृतं सत् ब्रह्म ईक्षितृ जगतो जन्मादिकारणमभिधीयते सत्यं ज्ञानमनन्तं ब्रह्म विज्ञानमानन्दं ब्रह्म अदृष्टं द्रष्टृ अविज्ञातं विज्ञातृ अजमजरममरम् अस्थूलमनण्वह्रस्वमदीर्घम् इत्यादिशास्त्रसिद्धम् तत्र अजादिशब्दैर्जन्मादयो भावविकारा निवर्तिताः अस्थूलादिशब्दैश्च स्थौल्यादयो द्रव्यधर्माः विज्ञानादिशब्दैश्च चैतन्यप्रकाशात्मकत्वमुक्तम् एष व्यावृत्तसर्वसंसारधर्मकोऽनुभवात्मको ब्रह्मसंज्ञकस्तत्पदार्थो वेदान्ताभियुक्तानां प्रसिद्धः तथा त्वंपदार्थोऽपि प्रत्यगात्मा श्रोता देहादारभ्य प्रत्यगात्मतया संभाव्यमानः चैतन्यपर्यन्तत्वेनावधारितः तत्र येषाम् एतौ पदार्थौ अज्ञानसंशयविपर्ययप्रतिबद्धौ तेषां तत्त्वमसि इत्येतद्वाक्यं स्वार्थे प्रमां नोत्पादयितुं शक्नोति पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य इत्यतः तान्प्रति एष्टव्यः पदार्थविवेकप्रयोजनः शास्त्रयुक्त्यभ्यासः। यद्यपि च प्रतिपत्तव्य आत्मा निरंशः तथापि अध्यारोपितं तस्मिन् बह्वंशत्वं देहेन्द्रियमनोबुद्धिविषयवेदनादिलक्षणम् तत्र एकेन अवधानेन एकमंशमपोहति अपरेण अपरम् इति युज्यते तत्र क्रमवती प्रतिपत्तिः तत्तु पूर्वरूपमेव आत्मप्रतिपत्तेः। येषां पुनः निपुणमतीनां न अज्ञानसंशयविपर्ययलक्षणः पदार्थविषयः प्रतिबन्धोऽस्ति ते शक्नुवन्ति सकृदुक्तमेव तत्त्वमसिवाक्यार्थम् अनुभवितुमिति तान्प्रति आवृत्त्यानर्थक्यमिष्टमेव सकृदुत्पन्नैव हि आत्मप्रतिपत्तिः अविद्यां निवर्तयतीति नात्र कश्चिदपि क्रमोऽभ्युपगम्यते। सत्यमेवं युज्येत यदि कस्यचित् एवं प्रतिपत्तिर्भवेत् बलवती हि आत्मनो दुःखित्वादिप्रतिपत्तिः अतो न दुःखित्वाद्यभावं कश्चित्प्रतिपद्यत इति चेत् न देहाद्यभिमानवत् दुःखित्वाद्यभिमानस्य मिथ्याभिमानत्वोपपत्तेः प्रत्यक्षं हि देहे छिद्यमाने दह्यमाने वा अहं छिद्ये दह्ये इति च मिथ्याभिमानो दृष्टः तथा बाह्यतरेष्वपि पुत्रमित्रादिषु संतप्यमानेषु अहमेव संतप्ये इत्यध्यारोपो दृष्टः तथा दुःखित्वाद्यभिमानोऽपि स्यात् देहादिवदेव चैतन्याद्बहिरुपलभ्यमानत्वाद्दुःखित्वादीनाम् सुषुप्तादिषु च अननुवृत्तेः चैतन्यस्य तु सुषुप्तेऽपि अनुवृत्तिमामनन्ति यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति इत्यादिना तस्मात् सर्वदुःखविनिर्मुक्तैकचैतन्यात्मकोऽहमित्येष आत्मानुभवः। न च एवम् आत्मानमनुभवतः किंचिदन्यत्कृत्यमवशिष्यते तथा च श्रुतिः किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः इत्यात्मविदः कर्तव्याभावं दर्शयति स्मृतिरपि यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते इति। यस्य तु न एषोऽनुभवो द्रागिव जायते तं प्रति अनुभवार्थ एव आवृत्त्यभ्युपगमः। तत्रापि न तत्त्वमसिवाक्यार्थात् प्रच्याव्य आवृत्तौ प्रवर्तयेत् न हि वरघाताय कन्यामुद्वाहयन्ति नियुक्तस्य च अस्मिन्नधिकृतोऽहं कर्ता मयेदं कर्तव्यम् इत्यवश्यं ब्रह्मप्रत्ययाद्विपरीतप्रत्यय उत्पद्यते यस्तु स्वयमेव मन्दमतिः अप्रतिभानात् तं वाक्यार्थं जिहासेत् तस्य एतस्मिन्नेव वाक्यार्थे स्थिरीकार आवृत्त्यादिवाचोयुक्त्या अभ्युपेयते। तस्मात् परब्रह्मविषयेऽपि प्रत्यये तदुपायोपदेशेष्वावृत्तिसिद्धिः।।

आत्मत्वोपासनाधिकरणम्[सम्पाद्यताम्]

आत्मेति तूपगच्छन्ति ग्राहयन्ति च । ( ब्रसू-४,१.३ । )

भाष्यम्

शाङ्करभाष्यम्॥

यः शास्त्रोक्तविशेषणः परमात्मा स किम् अहमिति ग्रहीतव्यः किं वा मदन्य इति एतद्विचारयति। कथं पुनरात्मशब्दे प्रत्यगात्मविषये श्रूयमाणे संशय इति उच्यते अयमात्मशब्दो मुख्यः शक्यतेऽभ्युपगन्तुम् सति जीवेश्वरयोरभेदसंभवे इतरथा तु गौणोऽयमभ्युपगन्तव्यः इति मन्यते। किं तावत्प्राप्तम् न अहमिति ग्राह्यः न हि अपहतपाप्मत्वादिगुणो विपरीतगुणत्वेन शक्यते ग्रहीतुम् विपरीतगुणो वा अपहतपाप्मत्वादिगुणत्वेन अपहतपाप्मत्वादिगुणश्च परमेश्वरः तद्विपरीतगुणस्तु शारीरः ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावप्रसङ्गः ततः शास्त्रानर्थक्यम् संसारिणोऽपि ईश्वरात्मत्वे अधिकार्यभावाच्छास्त्रानर्थक्यमेव प्रत्यक्षादिविरोधश्च। अन्यत्वेऽपि तादात्म्यदर्शनं शास्त्रात् कर्तव्यम् प्रतिमादिष्विव विष्ण्वादिदर्शनम् इति चेत् काममेवं भवतु न तु संसारिणो मुख्य आत्मा ईश्वर इत्येतत् नः प्रापयितव्यम्।।

एवं प्राप्ते ब्रूमः आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः। तथा हि परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैव एतमुपगच्छन्ति त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि देवते इति तथा अन्येऽपि अहं ब्रह्मास्मि इत्येवमादय आत्मत्वोपगमा द्रष्टव्याः। ग्राहयन्ति च आत्मत्वेनैव ईश्वरं वेदान्तवाक्यानि एष त आत्मा सर्वान्तरः एष त आत्मान्तर्याम्यमृतः तत्सत्यं स आत्मा तत्त्वमसि इत्येवमादीनि। यदुक्तम् प्रतीकदर्शनमिदं विष्णुप्रतिमान्यायेन भविष्यतीति तदयुक्तम् गौणत्वप्रसङ्गात् वाक्यवैरूप्याच्च यत्र हि प्रतीकदृष्टिरभिप्रेयते सकृदेव तत्र वचनं भवति यथा मनो ब्रह्म आदित्यो ब्रह्म इत्यादि इह पुनः त्वम् अहमस्मि अहं च त्वमसीत्याह अतः प्रतीकश्रुतिवैरूप्यात् अभेदप्रतिपत्तिः भेददृष्ट्यपवादाच्च तथा हि अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद इत्येवमाद्या भूयसी श्रुतिः भेददर्शनमपवदति। यत्तूक्तम् न विरुद्धगुणयोरन्योन्यात्मत्वसंभव इति नायं दोषः विरुद्धगुणताया मिथ्यात्वोपपत्तेः। यत्पुनरुक्तम् ईश्वराभावप्रसङ्ग इति तदसत् शास्त्रप्रामाण्यात् अनभ्युपगमाच्च न हि ईश्वरस्य संसार्यात्मत्वं प्रतिपाद्यत इत्यभ्युपगच्छामः किं तर्हि संसारिणः संसारित्वापोहेन ईश्वरात्मत्वं प्रतिपिपादयिषितमिति। एवं च सति अद्वैतेश्वरस्य अपहतपाप्मत्वादिगुणता विपरीतगुणता तु इतरस्य मिथ्येति व्यवतिष्ठते। यदप्युक्तम् अधिकार्यभावः प्रत्यक्षादिविरोधश्चेति तदप्यसत् प्राक्प्रबोधात् संसारित्वाभ्युपगमात् तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्यादिना हि प्रबोधे प्रत्यक्षाद्यभावं दर्शयति। प्रत्यक्षाद्यभावे श्रुतेरप्यभावप्रसङ्ग इति चेत् न इष्टत्वात् अत्र पितापिता भवति इत्युपक्रम्य वेदा अवेदाः इति वचनात् इष्यत एव अस्माभिः श्रुतेरप्यभावः प्रबोधे। कस्य पुनरयम् अप्रबोध इति चेत् यस्त्वं पृच्छसि तस्य ते इति वदामः। ननु अहमीश्वर एवोक्तः श्रुत्या यद्येवं प्रतिबुद्धोऽसि नास्ति कस्यचिदप्रबोधः। योऽपि दोषश्चोद्यते कैश्चिदविद्यया किल आत्मनः सद्वितीयत्वात् अद्वैतानुपपत्तिरिति सोऽपि एतेन प्रत्युक्तः। तस्मात् आत्मेत्येव ईश्वरे मनो दधीत।।

प्रतीकाधिकरणम्[सम्पाद्यताम्]

न प्रतीके न हि सः । ( ब्रसू-४,१.४ । )

भाष्यम्

शाङ्करभाष्यम्॥

मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेति तथा आदित्यो ब्रह्मेत्यादेशः स यो नाम ब्रह्मेत्युपास्ते इत्येवमादिषु प्रतीकोपासनेषु संशयः किं तेष्वपि आत्मग्रहः कर्तव्यः न वेति। किं तावत्प्राप्तम् तेष्वपि आत्मग्रह एव युक्तः कर्तुम् कस्मात् ब्रह्मणः श्रुतिषु आत्मत्वेन प्रसिद्धत्वात् प्रतीकानामपि ब्रह्मविकारत्वाद्ब्रह्मत्वे सति आत्मत्वोपपत्तेरित्येवं प्राप्ते ब्रूमः न प्रतीकेष्वात्ममतिं बध्नीयात् न हि स उपासकः प्रतीकानि व्यस्तानि आत्मत्वेन आकलयेत्। यत्पुनः ब्रह्मविकारत्वात्प्रतीकानां ब्रह्मत्वं ततश्च आत्मत्वमिति तदसत् प्रतीकाभावप्रसङ्गात् विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेव आश्रितं भवति स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकत्वम् आत्मग्रहो वा न च ब्रह्मण आत्मत्वात् ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्प्या कर्तृत्वाद्यनिराकरणात् कर्तृत्वादिसर्वसंसारधर्मनिराकरणेन हि ब्रह्मण आत्मत्वोपदेशः तदनिराकरणेन च उपासनविधानम्। अतश्च उपासकस्य प्रतीकैः समत्वात् आत्मग्रहो नोपपद्यते न हि रुचकस्वस्तिकयोः इतरेतरात्मत्वमस्ति सुवर्णात्मनेव तु ब्रह्मात्मना एकत्वे प्रतीकाभावप्रसङ्गमवोचाम। अतो न प्रतीकेष्वात्मदृष्टिः क्रियते।।

ब्रह्मदृष्ट्यधिकरणम्[सम्पाद्यताम्]

ब्रह्मदृष्टिर् उत्कर्षात् । ( ब्रसू-४,१.५ । )

भाष्यम्

शाङ्करभाष्यम्॥

तेष्वेव उदाहरणेष्वन्यः संशयः किमादित्यादिदृष्टयो ब्रह्मण्यध्यसितव्याः किं वा ब्रह्मदृष्टिरादित्यादिष्विति। कुतः संशयः सामानाधिकरण्ये कारणानवधारणात् अत्र हि ब्रह्मशब्दस्य आदित्यादिशब्दैः सामानाधिकरण्यमुपलभ्यते आदित्यो ब्रह्म प्राणो ब्रह्म विद्युद्ब्रह्म इत्यादिसमानविभक्तिनिर्देशात् न च अत्र आञ्जसं सामानाधिकरण्यमवकल्पते अर्थान्तरवचनत्वाद्ब्रह्मादित्यादिशब्दानाम् न हि भवति गौरश्व इति सामानाधिकरण्यम्। ननु प्रकृतिविकारभावाद्ब्रह्मादित्यादीनां मृच्छरावादिवत्सामानाधिकरण्यं स्यात् नेत्युच्यते विकारप्रविलयो ह्येवं प्रकृतिसामानाधिकरण्यात्स्यात् ततश्च प्रतीकाभावप्रसङ्गमवोचाम परमात्मवाक्यं चेदं तदानीं स्यात् ततश्चोपासनाधिकारो बाध्येत परिमितविकारोपादानं च व्यर्थम्। तस्मात् ब्राह्मणोऽग्निर्वैश्वानरः इत्यादिवत् अन्यतरत्रान्यतरदृष्ट्यध्यासे सति क्व किंदृष्टिरध्यस्यतामिति संशयः। तत्र अनियमः नियमकारिणः शास्त्रस्याभावादित्येवं प्राप्तम्। अथवा आदित्यादिदृष्टय एव ब्रह्मणि कर्तव्या इत्येवं प्राप्तम् एवं हि आदित्यादिदृष्टिभिः ब्रह्म उपासितं भवति ब्रह्मोपासनं च फलवदिति शास्त्रमर्यादा। तस्मात् न ब्रह्मदृष्टिरादित्यादिष्वित्येवं प्राप्ते

ब्रूमः ब्रह्मदृष्टिरेव आदित्यादिषु स्यादिति। कस्मात् उत्कर्षात् एवम् उत्कर्षेण आदित्यादयो दृष्टा भवन्ति उत्कृष्टदृष्टेस्तेष्वध्यासात् तथा च लौकिको न्यायोऽनुगतो भवति उत्कृष्टदृष्टिर्हि निकृष्टेऽध्यसितव्येति लौकिको न्यायः यथा राजदृष्टिः क्षत्तरि स च अनुसर्तव्यः विपर्यये प्रत्यवायप्रसङ्गात् न हि क्षत्तृदृष्टिपरिगृहीतो राजा निकर्षं नीयमानः श्रेयसे स्यात्। ननु शास्त्रप्रामाण्यादनाशङ्कनीयोऽत्र प्रत्यवायप्रसङ्गः न च लौकिकेन न्यायेन शास्त्रीया दृष्टिर्नियन्तुं युक्तेति अत्रोच्यते निर्धारिते शास्त्रार्थे एतदेवं स्यात् संदिग्धे तु तस्मिन् तन्निर्णयं प्रति लौकिकोऽपि न्याय आश्रीयमाणो न विरुध्यते तेन च उत्कृष्टदृष्ट्यध्यासे शास्त्रार्थेऽवधार्यमाणे निकृष्टदृष्टिमध्यस्यन्प्रत्यवेयादिति श्लिष्यते। प्राथम्याच्च आदित्यादिशब्दानां मुख्यार्थत्वम् अविरोधात् ग्रहीतव्यम् तैः स्वार्थवृत्तिभिरवरुद्धायां बुद्धौ पश्चादवतरतो ब्रह्मशब्दस्य मुख्यया वृत्त्या सामानाधिकरण्यासंभवात् ब्रह्मदृष्टिविधानार्थतैव अवतिष्ठते। इतिपरत्वादपि ब्रह्मशब्दस्य एष एवार्थो न्याय्यः तथा हि ब्रह्मेत्यादेशः ब्रह्मेत्युपासीत ब्रह्मेत्युपास्ते इति च सर्वत्रेतिपरं ब्रह्मशब्दमुच्चारयति शुद्धांस्तु आदित्यादिशब्दान् ततश्च यथा शुक्तिकां रजतमिति प्रत्येतीत्यत्र शुक्तिवचन एव शुक्तिकाशब्दः रजतशब्दस्तु रजतप्रतीतिलक्षणार्थः प्रत्येत्येव हि केवलं रजतमिति न तु तत्र रजतमस्ति एवमत्रापि आदित्यादीन्ब्रह्मेति प्रतीयादिति गम्यते। वाक्यशेषोऽपि च द्वितीयानिर्देशेन आदित्यादीनेव उपास्तिक्रियया व्याप्यमानान्दर्शयति स य एतदेवं विद्वानादित्यं ब्रह्मेत्युपास्ते यो वाचं ब्रह्मेत्युपास्ते यः संकल्पं ब्रह्मेत्युपास्ते इति च। यत्तूक्तम् ब्रह्मोपासनमेवात्र आदरणीयं फलवत्त्वायेति तदयुक्तम् उक्तेन न्यायेन आदित्यादीनामेव उपास्यत्वावगमात् फलं तु अतिथ्याद्युपासन इव आदित्याद्युपासनेऽपि ब्रह्मैव दास्यति सर्वाध्यक्षत्वात् वर्णितं चैतत् फलमत उपपत्तेः इत्यत्र। ईदृशं च अत्र ब्रह्मण उपास्यत्वम् यत्प्रतीकेषु तद्दृष्ट्यध्यारोपणम् प्रतिमादिष्विव विष्ण्वादीनाम्।।

आदित्यादिमत्यधिकरणम्[सम्पाद्यताम्]

आदित्यादिमतयश् चाङ्ग उपपत्तेः । ( ब्रसू-४,१.६ । )

भाष्यम्

शाङ्करभाष्यम्॥

य एवासौ तपति तमुद्गीथमुपासीत लोकेषु पञ्चविधं सामोपासीत वाचि सप्तविधं सामोपासीत इयमेवर्गग्निः साम इत्येवमादिषु अङ्गावबद्धेषूपासनेषु संशयः किमादित्यादिषु उद्गीथादिदृष्टयो विधीयन्ते किं वा उद्गीथादिष्वेव आदित्यादिदृष्टय इति। तत्र अनियमः नियमकारणाभावात् इति प्राप्तम् न हि अत्र ब्रह्मण इव कस्यचिदुत्कर्षविशेषोऽवधार्यते ब्रह्म हि समस्तजगत्कारणत्वात् अपहतपाप्मत्वादिगुणयोगाच्च आदित्यादिभ्य उत्कृष्टमिति शक्यमवधारयितुम् न तु आदित्योद्गीथादीनां विकारत्वाविशेषात् किंचिदुत्कर्षविशेषावधारणे कारणमस्ति। अथवा नियमेनैव उद्गीथादिमतय आदित्यादिषु अध्यस्येरन् कस्मात् कर्मात्मकत्वादुद्गीथादीनाम् कर्मणश्च फलप्राप्तिप्रसिद्धेः उद्गीथादिमतिभिरुपास्यमाना आदित्यादयः कर्मात्मकाः सन्तः फलहेतवो भविष्यन्ति। तथा च इयमेवर्गग्निः साम इत्यत्र तदेतदेतस्यामृच्यध्यूढं साम इति ऋक्शब्देन पृथिवीं निर्दिशति सामशब्देनाग्निम् तच्च पृथिव्यग्न्योः ऋक्सामदृष्टिचिकीर्षायामवकल्पते न ऋक्सामयोः पृथिव्यग्निदृष्टिचिकीर्षायाम् क्षत्तरि हि राजदृष्टिकरणात् राजशब्द उपचर्यते न राजनि क्षत्तृशब्दः। अपि च लोकेषु पञ्चविधं सामोपासीत इति अधिकरणनिर्देशात् लोकेषु साम अध्यसितव्यमिति प्रतीयते एतद्गायत्रं प्राणेषु प्रोतम् इति च एतदेव दर्शयति। प्रथमनिर्दिष्टेषु च आदित्यादिषु चरमनिर्दिष्टं ब्रह्माध्यस्तम् आदित्यो ब्रह्मेत्यादेशः इत्यादिषु प्रथमनिर्दिष्टाश्च पृथिव्यादयः चरमनिर्दिष्टा हिंकारादयः पृथिवी हिंकारः इत्यादिश्रुतिषु। अतः अनङ्गेष्वादित्यादिषु अङ्गमतिक्षेप इत्येवं प्राप्ते

ब्रूमः आदित्यादिमतय एव अङ्गेषु उद्गीथादिषु क्षिप्येरन् कुतः उपपत्तेः उपपद्यते हि एवम् अपूर्वसंनिकर्षात् आदित्यादिमतिभिः संस्क्रियमाणेषु उद्गीथादिषु कर्मसमृद्धिः। यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति इति च विद्यायाः कर्मसमृद्धिहेतुत्वं दर्शयति। भवतु कर्मसमृद्धिफलेष्वेवम् स्वतन्त्रफलेषु तु कथम् य एतदेवं विद्वा्लोकेषु पञ्चविधं सामोपास्ते इत्यादिषु तेष्वपि अधिकृताधिकारात् प्रकृतापूर्वसंनिकर्षेणैव फलकल्पना युक्ता गोदोहनादिनियमवत्। फलात्मकत्वाच्च आदित्यादीनाम् उद्गीथादिभ्यः कर्मात्मकेभ्यः उत्कर्षोपपत्तिः आदित्यादिप्राप्तिलक्षणं हि कर्मफलं शिष्यते श्रुतिषु। अपि च ओमित्येतदक्षरमुद्गीथमुपासीत खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति इति च उद्गीथमेव उपास्यत्वेनोपक्रम्य आदित्यादिमतीर्विदधाति। यत्तूक्तम् उद्गीथादिमतिभिरुपास्यमाना आदित्यादयः कर्मभूयं भूत्वा फलं करिष्यन्तीति तदयुक्तम् स्वयमेवोपासनस्य कर्मत्वात् फलवत्त्वोपपत्तेः आदित्यादिभावेनापि च दृश्यमानानामुद्गीथादीनां कर्मात्मकत्वानपायात्। तदेतदेतस्यामृच्यध्यूढं साम इति तु लाक्षणिक एव पृथिव्यग्न्योः ऋक्सामशब्दप्रयोगः लक्षणा च यथासंभवं संनिकृष्टेन विप्रकृष्टेन वा स्वार्थसंबन्धेन प्रवर्तते तत्र यद्यपि ऋक्सामयोः पृथिव्यग्निदृष्टिचिकीर्षा तथापि प्रसिद्धयोः ऋक्सामयोर्भेदेनानुकीर्तनात् पृथिव्यग्न्योश्च संनिधानात् तयोरेव एष ऋक्सामशब्दप्रयोगः ऋक्सामसंबन्धादिति निश्चीयते क्षत्तृशब्दोऽपि हि कुतश्चित्कारणाद्राजानमुपसर्पन् न निवारयितुं पार्यते। इयमेवर्क् इति च यथाक्षरन्यासम् ऋच एव पृथिवीत्वमवधारयति पृथिव्या हि ऋक्त्वेऽवधार्यमाणे इयमृगेवेत्यक्षरन्यासः स्यात्। य एवं विद्वान्साम गायति इति च अङ्गाश्रयमवविज्ञानमुपसंहरति न पृथिव्याद्याश्रयम्। तथा लोकेषु पञ्चविधं सामोपासीत इति यद्यपि सप्तमीनिर्दिष्टा लोकाः तथापि साम्न्येव ते अध्यस्येरन् द्वितीयानिर्देशेन साम्न उपास्यत्वावगमात् सामनि हि लोकेष्वध्यस्यमानेषु साम लोकात्मनोपासितं भवति अन्यथा पुनः लोकाः सामात्मनाउपासिताः स्युः। एतेन एतद्गायत्रं प्राणेषु प्रोतम् इत्यादि व्याख्यातम्। यत्रापि तुल्यो द्वितीयानिर्देशः अथ खल्वमुमादित्यं सप्तविधं सामोपासीत इति तत्रापि समस्तस्य खलु साम्न उपासनं साधु इतिं तु पञ्चविधस्य अथ सप्तविधस्य इति च साम्न एव उपास्यत्वोपक्रमात् तस्मिन्नेव आदित्याद्यध्यासः। एतस्मादेव च साम्न उपास्यत्वावगमात् पृथिवी हिंकारः इत्यादिनिर्देशविपर्ययेऽपि हिंकारादिष्वेव पृथिव्यादिदृष्टिः। तस्मात् अनङ्गाश्रया आदित्यादिमतयः अङ्गेषूद्गीथादिषु क्षिप्येरन्निति सिद्धम्।।

आसीनाधिकरणम्[सम्पाद्यताम्]

आसीनः संभवात् । ( ब्रसू-४,१.७ । )

भाष्यम्

शाङ्करभाष्यम्॥

कर्माङ्गसंबद्धेषु तावत् उपासनेषु कर्मतन्त्रत्वात् न आसनादिचिन्ता नापि सम्यग्दर्शने वस्तुतन्त्रत्वाद्विज्ञानस्य इतरेषु तु उपासनेषु किम् अनियमेन तिष्ठन् आसीनः शयानो वा प्रवर्तेत उत नियमेन आसीन एवेति चिन्तयति। तत्र मानसत्वावदुपासनस्य अनियमः शरीरस्थितेरित्येवं प्राप्ते ब्रवीति आसीन एवोपासीतेति कुतः संभवात्। उपासनं नाम समानप्रत्ययप्रवाहकरणम् न च तत् गच्छतो धावतो वा संभवति गत्यादीनां चित्तविक्षेपकरत्वात् तिष्ठतोऽपि देहधारणे व्यापृतं मनो न सूक्ष्मवस्तुनिरीक्षणक्षमं भवति शयानस्यापि अकस्मादेव निद्रया अभिभूयते आसीनस्य तु एवंजातीयको भूयान्दोषः सुपरिहर इति संभवति तस्योपासनम्।।

ध्यानाच् च । ( ब्रसू-४,१.८ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च ध्यायत्यर्थ एषः यत्समानप्रत्ययप्रवाहकरणम् ध्यायतिश्च प्रशिथिलाङ्गचेष्टेषु प्रतिष्ठितदृष्टिषु एकविषयाक्षिप्तचित्तेषु उपचर्यमाणो दृश्यते ध्यायति बकः ध्यायति प्रोषितबन्धुरिति। आसीनश्च अनायासो भवति तस्मादपि आसीनकर्मोपासनम्।।


अचलत्वं चापेक्ष्य । ( ब्रसू-४,१.९ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च ध्यायतीव पृथिवी इत्यत्र पृथिव्यादिषु अचलत्वमेवापेक्ष्य ध्यायतिवादो भवति तच्च लिङ्गम् उपासनस्य आसीनकर्मत्वे।।

स्मरन्ति च । ( ब्रसू-४,१.१० । )

भाष्यम्

शाङ्करभाष्यम्॥

स्मरन्त्यपि च शिष्टा उपासनाङ्गत्वेन आसनम् शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः इत्यादिना। अत एव पद्मकादीनामासनविशेषाणामुपदेशो योगशास्त्रे।।

एकात्मताधिकरणम्[सम्पाद्यताम्]

यत्रैकाग्रता तत्राविशेषात् । ( ब्रसू-४,१.११ । )

भाष्यम्

शाङ्करभाष्यम्॥

दिग्देशकालेषु संशयः किमस्ति कश्चिन्नियमः नास्ति वेति। प्रायेण वैदिकेष्वारम्भेषु दिगादिनियमदर्शनात् स्यादिहापि कश्चिन्नियम इति यस्य मतिः तं प्रत्याह दिग्देशकालेषु अर्थलक्षण एव नियमः यत्रैव अस्य दिशि देशे काले वा मनसः सौकर्येणैकाग्रता भवति तत्रैवोपासीत प्राचीदिक्पूर्वाह्णप्राचीनप्रवणादिवत् विशेषाश्रवणात् एकाग्रताया इष्टायाः सर्वत्राविशेषात्। ननु विशेषमपि केचिदामनन्ति समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः। मनोनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत् इति यथेति उच्यते सत्यमस्ति एवंजातीयको नियमः सति त्वेतस्मिन् तद्गतेषु विशेषेष्वनियम इति सुहृद्भूत्वा आचार्य आचष्टे। मनोनुकूले इति चैषा श्रुतिः यत्रैकाग्रता तत्रैवइत्येतदेव दर्शयति।।

आप्रायणाधिकरणम्[सम्पाद्यताम्]

आप्रयाणात् तत्रापि हि दृष्टम् । ( ब्रसू-४,१.१२ । )

भाष्यम्

शाङ्करभाष्यम्॥

आवृत्तिः सर्वोपासनेष्वादर्तव्येति स्थितमाद्येऽधिकरणे तत्र यानि तावत् सम्यग्दर्शनार्थान्युपासनानि तानि अवघातादिवत् कार्यपर्यवसानानीति ज्ञातमेव एषामावृत्तिंपरिमाणम् न हि सम्यग्दर्शने कार्ये निष्पन्ने यत्नान्तरं किंचिच्छासितुं शक्यम् अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात्। यानि पुनः अभ्युदयफलानि तेष्वेषा चिन्ता किं कियन्तंचित्कालं प्रत्ययमावर्त्य उपरमेत् उत यावज्जीवमावर्तयेदिति। किं तावत्प्राप्तम् कियन्तंचित्कालं प्रत्ययमभ्यस्य उत्सृजेत् आवृत्तिविशिष्टस्योपासनशब्दार्थस्य कृतत्वादित्येवं प्राप्ते ब्रूमः आ प्रायणादेव आवर्तयेत्प्रत्ययम् अन्त्यप्रत्ययवशाददृष्टफलप्राप्तेः कर्माण्यपि हि जन्मान्तरोपभोग्यं फलमारभमाणानि तदनुरूपं भावनाविज्ञानं प्रायणकाले आक्षिपन्ति सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः सहात्मना यथासंकल्पितं लोकं नयति इति चैवमादिश्रुतिभ्यः तृणजलूकानिदर्शनाच्च प्रत्ययास्त्वेते स्वरूपानुवृत्तिं मुक्त्वा किमन्यत् प्रायणकालभावि भावनाविज्ञानमपेक्षेरन्। तस्मात् ये प्रतिपत्तव्यफलभावनात्मकाः प्रत्ययाः तेषु आ प्रायणात् आवृत्तिः। तथा च श्रुतिः स यावत्क्रतुरयमस्माल्लोकात्प्रैति इति प्रायणकालेऽपि प्रत्ययानुवृत्तिं दर्शयति। स्मृतिरपि यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम्। तं तमेवैति कौन्तय सदा तद्भावभावितः इति प्रयाणकाले मनसाचलेन इति च। सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येत इति च मरणवेलायामपि कर्तव्यशेषं श्रावयति।।आवृत्तिः सर्वोपासनेष्वादर्तव्येति स्थितमाद्येऽधिकरणे तत्र यानि तावत् सम्यग्दर्शनार्थान्युपासनानि तानि अवघातादिवत् कार्यपर्यवसानानीति ज्ञातमेव एषामावृत्तिंपरिमाणम् न हि सम्यग्दर्शने कार्ये निष्पन्ने यत्नान्तरं किंचिच्छासितुं शक्यम् अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात्। यानि पुनः अभ्युदयफलानि तेष्वेषा चिन्ता किं कियन्तंचित्कालं प्रत्ययमावर्त्य उपरमेत् उत यावज्जीवमावर्तयेदिति। किं तावत्प्राप्तम् कियन्तंचित्कालं प्रत्ययमभ्यस्य उत्सृजेत् आवृत्तिविशिष्टस्योपासनशब्दार्थस्य कृतत्वादित्येवं प्राप्ते ब्रूमः आ प्रायणादेव आवर्तयेत्प्रत्ययम् अन्त्यप्रत्ययवशाददृष्टफलप्राप्तेः कर्माण्यपि हि जन्मान्तरोपभोग्यं फलमारभमाणानि तदनुरूपं भावनाविज्ञानं प्रायणकाले आक्षिपन्ति सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः सहात्मना यथासंकल्पितं लोकं नयति इति चैवमादिश्रुतिभ्यः तृणजलूकानिदर्शनाच्च प्रत्ययास्त्वेते स्वरूपानुवृत्तिं मुक्त्वा किमन्यत् प्रायणकालभावि भावनाविज्ञानमपेक्षेरन्। तस्मात् ये प्रतिपत्तव्यफलभावनात्मकाः प्रत्ययाः तेषु आ प्रायणात् आवृत्तिः। तथा च श्रुतिः स यावत्क्रतुरयमस्माल्लोकात्प्रैति इति प्रायणकालेऽपि प्रत्ययानुवृत्तिं दर्शयति। स्मृतिरपि यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम्। तं तमेवैति कौन्तय सदा तद्भावभावितः इति प्रयाणकाले मनसाचलेन इति च। सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येत इति च मरणवेलायामपि कर्तव्यशेषं श्रावयति।।

तदधिगमाधिकरणम्[सम्पाद्यताम्]

तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात् । ( ब्रसू-४,१.१३ । )

भाष्यम्

शाङ्करभाष्यम्॥

गतस्तृतीयशेषः अथेदानीं ब्रह्मविद्याफलं प्रति चिन्ता प्रतायते। ब्रह्माधिगमे सति तद्विपरीतफलं दुरितं क्षीयते न क्षीयते वेति संशयः। किं तावत्प्राप्तम् फलार्थत्वात्कर्मणः फलमदत्त्वा न संभाव्यते क्षयः फलदायिनी हि अस्य शक्तिः श्रुत्या समधिगता यदि तत् अन्तरेणैव फलोपभोगमपवृज्येत श्रुतिः कदर्थिता स्यात् स्मरन्ति च न हि कर्म क्षीयते इति। नन्वेवं सति प्रायश्चित्तोपदेशोऽनर्थकः प्राप्नोति नैष दोषः प्रायश्चित्तानां नैमित्तिकत्वोपपत्तेः गृहदाहेष्ट्यादिवत्। अपि च प्रायश्चित्तानां दोषसंयोगेन विधानाद्भवेदपि दोषक्षपणार्थता न त्वेवं ब्रह्मविद्यायां विधानमस्ति। नन्वनभ्युपगम्यमाने ब्रह्मविदः कर्मक्षये तत्फलस्यावश्यभोक्तव्यत्वादनिर्मोक्षः स्यात् नेत्युच्यते देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भविष्यति। तस्मान्न ब्रह्माधिगमे दुरितनिवृत्तिरित्येवं प्राप्ते

ब्रूमः तदधिगमे ब्रह्माधिगमे सति उत्तरपूर्वयोरघयोरश्लेषविनाशौ भवतः उत्तरस्य अश्लेषः पूर्वस्य विनाशः। कस्मात् तद्व्यपदेशात् तथा हि ब्रह्मविद्याप्रक्रियायां संभाव्यमानसंबन्धस्य आगामिनो दुरितस्यानभिसंबन्धं विदुषो व्यपदिशति यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते इति तथा विनाशमपि पूर्वोपचितस्य दुरितस्य व्यपदिशति तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते इति अयमपरः कर्मक्षयव्यपदेशो भवति भिद्यते हृदयग्रन्धिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे इति। यदुक्तम् अनुपभुक्तफलस्य कर्मणः क्षयकल्पनायां शास्त्रं कदर्थितं स्यादिति नैष दोषः न हि वयं कर्मणः फलदायिनीं शक्तिमवजानीमहे विद्यत एव सा सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः शक्तिसद्भावमात्रे च शास्त्रं व्याप्रियते न प्रतिबन्धाप्रतिबन्धयोरपि। न हि कर्म क्षीयते इत्येतदपि स्मरणमौत्सर्गिकम् न हि भोगादृते कर्म क्षीयते तदर्थत्वादिति इष्यत एव तु प्रायश्चित्तादिना तस्य क्षयः सर्वं पाप्मानं तरति तरति ब्रह्महत्याम् योऽश्वमेधेन यजते य उ चैनमेवं वेद इत्यादि श्रुतिस्मृतिभ्यः। यत्तूक्तम् नैमित्तिकानि प्रायश्चित्तानि भविष्यन्तीति तदसत् दोषसंयोगेन चोद्यमानानामेषां दोषनिर्घातफलसंभवे फलान्तरकल्पनानुपपत्तेः। यत्पुनरेतदुक्तम् न प्रायश्चित्तवत् दोषक्षयोद्देशेन विद्याविधानमस्तीति अत्र ब्रूमः सगुणासु तावद्विद्यासु विद्यत एव विधानम् तासु च वाक्यशेषे ऐश्वर्यप्राप्तिः पापनिवृत्तिश्च विद्यावत उच्यते तयोश्चाविवक्षाकारणं नास्ति इत्यतः पाप्मप्रहाणपूर्वकैश्वर्यप्राप्तिः तासां फलमिति निश्चीयते निर्गुणायां तु विद्यायां यद्यपि विधानं नास्ति तथापि अकर्त्रात्मत्वबोधात्कर्मप्रदाहसिद्धिः। अश्लेष इति च आगामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते ब्रह्मविदिति दर्शयति। अतिक्रान्तेषु तु यद्यपि मिथ्याज्ञानात्कर्तृत्वं प्रतिपेद इव तथापि विद्यासामर्थ्यान्मिथ्याज्ञाननिवृत्तेः तान्यपि प्रविलीयन्त इत्याह विनाश इति। पूर्वसिद्धकर्तृत्वभोक्तृत्वविपरीतं हि त्रिष्वपि कालेष्वकर्तृत्वाभोक्तृत्वस्वरूपं ब्रह्माहमस्मि नेतः पूर्वमपि कर्ता भोक्ता वा अहमासम् नेदानीम् नापि भविष्यत्काले इति ब्रह्मविदवगच्छति एवमेव च मोक्ष उपपद्यते अन्यथा हि अनादिकालप्रवृत्तानां कर्मणां क्षयाभावे मोक्षाभावः स्यात्। न च देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भवितुमर्हति अनित्यत्वप्रसङ्गात् परोक्षत्वानुपपत्तेश्च ज्ञानफलस्य। तस्मात् ब्रह्माधिगमे दुरितक्षय इति स्थितम्।।

इतरासंश्लेषाधिकरणम्[सम्पाद्यताम्]

इतरस्याप्य् एवम् असंश्लेषः पाते तु । ( ब्रसू-४,१.१४ । )

भाष्यम्

शाङ्करभाष्यम्॥

पूर्वस्मिन्नधिकरणे बन्धहेतोरघस्य स्वाभाविकस्य अश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशान्निरूपितौ धर्मस्य पुनः शास्त्रीयत्वात् शास्त्रीयेण ज्ञानेन अविरोध इत्याशङ्क्य तन्निराकरणाय पूर्वाधिकरणन्यायातिदेशः क्रियते इतरस्यापि पुण्यस्य कर्मणः एवम् अघवत् असंश्लेषो विनाशश्च ज्ञानवतो भवतः कुतः तस्यापि स्वफलहेतुत्वेन ज्ञानफलप्रतिबन्धित्वप्रसङ्गात् उभे उ हैवैष एते तरति इत्यादिश्रुतिषु च दुष्कृतवत्सुकृतस्यापि प्रणाशव्यपदेशात् अकर्त्रात्मत्वबोधनिमित्तस्य च कर्मक्षयस्य सुकृतदुष्कृतयोस्तुल्यत्वात् क्षीयन्ते चास्य कर्माणि इति च अविशेषश्रुतेः। यत्रापि केवल एव पाप्मशब्दः पठ्यते तत्रापि तेनैव पुण्यमप्याकलितमिति द्रष्टव्यम् ज्ञानापेक्षया निकृष्टफलत्वात्। अस्ति च श्रुतौ पुण्येऽपि पाप्मशब्दः नैनं सेतुमहोरात्रे तरतः इत्यत्र सह दुष्कृतेन सुकृतमप्यनुक्रम्य सर्वे पाप्मानोऽतो निवर्तन्ते इत्यविशेषेणैव प्रकृते पुण्ये पाप्मशब्दप्रयोगात्। पाते तु इति तुशब्दोऽवधारणार्थः। एवं धर्माधर्मयोर्बन्धहेत्वोः विद्यासामर्थ्यादश्लेषविनाशसिद्धेः अवश्यंभाविनी विदुषः शरीरपाते मुक्तिरित्यवधारयति।।

अनारब्धाधिरणम्[सम्पाद्यताम्]

अनारब्धकार्ये एव तु पूर्वे तदवधेः । ( ब्रसू-४,१.१५ । )

भाष्यम्

शाङ्करभाष्यम्॥

पूर्वयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विनाशोऽवधारितः स किमविशेषेण आरब्धकार्ययोरनारब्धकार्ययोश्च भवति उत विशेषेणानारब्धकार्ययोरेवेति विचार्यते। तत्र उभे उ हैवैष एते तरति इत्येवमादिश्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय इत्येवं प्राप्ते प्रत्याह अनारब्धकार्ये एव त्विति। अप्रवृत्तफले एव पूर्वे जन्मान्तरसंचिते अस्मिन्नपि च जन्मनि प्राग्ज्ञानोत्पत्तेः संचिते सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते न तु आरब्धकार्ये सामिभुक्तफले याभ्यामेतत् ब्रह्मज्ञानायतनं जन्म निर्मितम्। कुत एतत् तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये इति शरीरपातावधिकरणात्क्षेमप्राप्तेः इतरथा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात् ज्ञानप्राप्त्यनन्तरमेव क्षेममश्नुवीत तत्र शरीरपातप्रतीक्षां न आचक्षीत। ननु वस्तुबलेनैव अयमकर्त्रात्मावबोधः कर्माणि क्षपयन् कथं कानिचित्क्षपयेत् कानिचिच्चोपेक्षेत न हि समानेऽग्निबीजसंपर्के केषांचिद्बीजशक्तिः क्षीयते केषांचिन्न क्षीयते इति शक्यमङ्गीकर्तुमिति उच्यते न तावदनाश्रित्य आरब्धकार्यं कर्माशयं ज्ञानोत्पत्तिरुपपद्यते आश्रिते च तस्मिन्कुलालचक्रवत्प्रवृत्तवेगस्य अन्तराले प्रतिबन्धासंभवात् भवति वेगक्षयप्रतिपालनम्। अकर्त्रात्मबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्ति बाधितमपि तु मिथ्याज्ञानं द्विचन्द्रज्ञानवत्संस्कारवशात्कंचित्कालमनुवर्तत एव। अपि च नैवात्र विवदितव्यम् ब्रह्मविदा कंचित्कालं शरीरं ध्रियते न वा ध्रियत इति कथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं च अपरेण प्रतिक्षेप्तुं शक्येत श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेन एतदेव निरुच्यते। तस्मादनारब्धकार्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात्क्षय इति निर्णयः।।

अग्निहोत्राद्यधिकरणम्[सम्पाद्यताम्]

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् । ( ब्रसू-४,१.१६ । )

भाष्यम्

शाङ्करभाष्यम्॥

पुण्यस्याप्यश्लेषविनाशयोरघन्यायोऽतिदिष्टः सोऽतिदेशः सर्वपुण्यविषय इत्याशङ्क्य प्रतिवक्ति अग्निहोत्रादि त्विति। तुशब्द आशङ्कामपनुदति यन्नित्यं कर्म वैदिकमग्निहोत्रादि तत् तत्कार्यायैव भवति ज्ञानस्य यत्कार्यं तदेव अस्यापि कार्यमित्यर्थः कुतः तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन इत्यादिदर्शनात्। ननु ज्ञानकर्मणोर्विलक्षणकार्यत्वात्कार्यैकत्वानुपपत्तिः नैष दोषः ज्वरमरणकार्ययोरपि दधिविषयोः गुडमन्त्रसंयुक्तयोस्तृप्तिपुष्टिकार्यदर्शनात् तद्वत् कर्मणोऽपि ज्ञानसंयुक्तस्य मोक्षकार्योपपत्तेः। ननु अनारभ्यो मोक्षः कथमस्य कर्मकार्यत्वमुच्यते नैष दोषः आरादुपकारकत्वात्कर्मणः ज्ञानस्यैव हि प्रापकं सत् कर्म प्रणाड्या मोक्षकारणमित्युपचर्यते अत एव च अतिक्रान्तविषयमेतत्कार्यैकत्वाभिधानम्। न हि ब्रह्मविद आगाम्यग्निहोत्रादि संभवति अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात्। सगुणासु तु विद्यासु कर्तृत्वानतिवृत्तेः संभवति आगाम्यपि अग्निहोत्रादि। तस्यापि निरभिसंधिनः कार्यान्तराभावाद्विद्यासंगत्युपपत्तिः।।

किंविषयं पुनरिदम् अश्लेषविनाशवचनम् किंविषयं वा अदो विनियोगवचनम् एकेषां शाखिनाम् तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम् इति अत उत्तरं पठति

अतोऽन्यापि ह्य् एकेषाम् उभयोः । ( ब्रसू-४,१.१७ । )

भाष्यम्

शाङ्करभाष्यम्॥

अतोऽग्निहोत्रादेर्नित्यात्कर्मणः अन्यापि ह्यस्ति साधुकृत्या या फलमभिसंधाय क्रियते तस्या एष विनियोग उक्तः एकेषां शाखिनाम् सुहृदः साधुकृत्यामुपयन्ति इति। तस्या एव च इदम् अघवदश्लेषविनाशनिरूपणम् इतरस्याप्येवमसंश्लेष इति। तथाजातीयकस्य काम्यस्य कर्मणो विद्यां प्रत्यनुपकारकत्वे संप्रतिपत्तिः उभयोरपि जैमिनिबादरायणयोराचार्ययोः।।

विद्याज्ञानसाधनत्वाधिकरणम्[सम्पाद्यताम्]

यद् एव विद्ययेति हि । ( ब्रसू-४,१.१८ । )

भाष्यम्

शाङ्करभाष्यम्॥

समधिगतमेतदनन्तराधिकरणे नित्यमग्निहोत्रादिकं कर्म मुमुक्षुणा मोक्षप्रयोजनोद्देशेन कृतमुपात्तदुरितक्षयहेतुद्वारेण सत्त्वशुद्धिकारणतां प्रतिपद्यमानं मोक्षप्रयोजनब्रह्माधिगमनिमित्तत्वेन ब्रह्मविद्यया सह एककार्यं भवतीति तत्र अग्निहोत्रादि कर्माङ्गव्यपाश्रयविद्यासंयुक्तं केवलं चास्ति य एवं विद्वान्यजति य एवं विद्वाञ्जुहोति य एवं विद्वाञ्शंसति य एवं विद्वान्गायति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद इत्यादिवचनेभ्यो विद्यासंयुक्तमस्ति केवलमप्यस्ति। तत्रेदं विचार्यते किं विद्यासंयुक्तमेव अग्निहोत्रादिकं कर्म मुमुक्षोर्विद्याहेतुत्वेन तया सह एककार्यत्वं प्रतिपद्यते न केवलम् उत विद्यासंयुक्तं केवलं च अविशेषेणेति। कुतः संशयः तमेतमात्मानं यज्ञेन विविदिषन्ति इति यज्ञादीनामविशेषेण आत्मवेदनाङ्गत्वेन श्रवणात् विद्यासंयुक्तस्य च अग्निहोत्रादेर्विशिष्टत्वावगमात्। किं तावत्प्राप्तम् विद्यासंयुक्तमेव कर्म अग्निहोत्रादि आत्मविद्याशेषत्वं प्रतिपद्यते न विद्याहीनम् विद्योपेतस्य विशिष्टत्वावगमाद्विद्याविहीनात् यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् इत्यादिश्रुतिभ्यः बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय इत्यादिस्मृतिभ्यश्च इत्येवं प्राप्ते

प्रतिपाद्यते यदेव विद्ययेति हि। सत्यमेतत् विद्यासंयुक्तं कर्म अग्निहोत्रादिकं विद्याविहीनात्कर्मणोऽग्निहोत्राद्विशिष्टम् विद्वानिव ब्राह्मणो विद्याविहीनाद्ब्राह्मणात् तथापि नात्यन्तमनपेक्षं विद्याविहीनं कर्म अग्निहोत्रादिकम् कस्मात् तमेतमात्मानं यज्ञेन विविदिषन्ति इत्यविशेषेण अग्निहोत्रादेर्विद्याहेतुत्वेन श्रुतत्वात्। ननु विद्यासंयुक्तस्य अग्निहोत्रादेर्विद्याविहीनाद्विशिष्टत्वावगमात् विद्याविहीनमग्निहोत्रादि आत्मविद्याहेतुत्वेनानपेक्षमेवेति युक्तम् नैतदेवम् विद्यासहायस्याग्निहोत्रादेर्विद्यानिमित्तेन सामर्थ्यातिशयेन योगात् आत्मज्ञानं प्रति कश्चित्कारणत्वातिशयो भविष्यति न तथा विद्याविहीनस्य इति युक्तं कल्पयितुम् न तु यज्ञेन विविदिषन्ति इत्यत्राविशेषेणात्मज्ञानाङ्गत्वेन श्रुतस्याग्निहोत्रादेरनङ्गत्वं शक्यमभ्युपगन्तुम् तथा हि श्रुतिः यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति इति विद्यासंयुक्तस्य कर्मणोऽग्निहोत्रादेः वीर्यवत्तरत्वाभिधानेन स्वकार्यं प्रति कंचिदतिशयं ब्रुवाणा विद्याविहीनस्य तस्यैव तत्प्रयोजनं प्रति वीर्यवत्त्वं दर्शयति कर्मणश्च वीर्यवत्त्वं तत् यत्स्वप्रयोजनसाधनसहत्वम्। तस्माद्विद्यासंयुक्तं नित्यमग्निहोत्रादि विद्याविहीनं च उभयमपि मुमुक्षुणा मोक्षप्रयोजनोद्देशेन इह जन्मनि जन्मान्तरे च प्राग्ज्ञानोत्पत्तेः कृतं यत तद्यथासामर्थ्यं ब्रह्माधिगमप्रतिबन्धकारणोपात्तदुरितक्षयहेतुत्वद्वारेण ब्रह्माधिगमकारणत्वं प्रतिपद्यमानं श्रवणमननश्रद्धातात्पर्याद्यन्तरङ्गकारणापेक्षं ब्रह्मविद्यया सह एककार्यं भवतीति स्थितम्।।

इतरक्षपणाधिकरणम्[सम्पाद्यताम्]

भोगेन त्व् इतरे क्षपयित्वाथ संपद्यते । ( ब्रसू-४,१.१९ । )

भाष्यम्

शाङ्करभाष्यम्॥

अनारब्धकार्ययोः पुण्यपापयोर्विद्यासामर्थ्यात्क्षय उक्तः। इतरे तु आरब्धकार्ये पुण्यपापे उपभोगेन क्षपयित्वा ब्रह्म संपद्यते तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये इति ब्रह्मैव सन्ब्रह्माप्येति इति च एवमादिश्रुतिभ्यः। ननु सत्यपि सम्यग्दर्शने यथा प्राग्देहपाताद्भेददर्शनं द्विचन्द्रदर्शनन्यायेनानुवृत्तम् एवं पश्चादप्युनुवर्तेत न निमित्ताभवात्। उपभोगशेषक्षपणं हि तत्रानुवृत्तिनिमित्तम् न च तादृशमत्र किंचिदस्ति। ननु अपरः कर्माशयोऽभिनवमुपभोगमारप्स्यते न तस्य दग्धबीजत्वात् मिथ्याज्ञानावष्टम्भं हि कर्मान्तरं देहपात उपभोगान्तरमारभेत तच्च मिथ्याज्ञानं सम्यग्ज्ञानेन दग्धम् इत्यतः साध्वेतत् आरब्धकार्यक्षये विदुषः कैवल्यमवश्यं भवतीति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये चतुर्थाध्यायस्य प्रथमः पादः।।