सामग्री पर जाएँ

ब्रह्मसूत्रम्/चतुर्थः अध्यायः/तृतीयः पादः

विकिस्रोतः तः
← द्वितीयः पादः ब्रह्मसूत्रम्
चतुर्थाध्याये तृतीयः पादः
वेदव्यासः
चतुर्थः पादः →

अर्चिराद्यधिकरणम्

[सम्पाद्यताम्]

अर्चिरादिना तत्प्रथितेः । ( ब्रसू-४,३.१ । )

भाष्यम्

शाङ्करभाष्यम्॥

अर्चिरादिनेति सर्वो ब्रह्म प्रेप्सुः अर्चिरादिनैवाध्वना रंहतीति प्रतिजानीमहे कुतः तत्प्रथितेः प्रथितो ह्येष मार्गः सर्वेषां विदुषाम् तथा हि पञ्चाग्निविद्याप्रकरणे येचामी अरण्ये श्रद्धां सत्यमुपासते इति विद्यान्तरशीलिनामपि अर्चिरादिका सृतिः श्राव्यते। स्यादेतत् यासु विद्यासु न काचिद्गतिरुच्यते तासु इयमर्चिरादिका उपतिष्ठताम् यासु तु अन्या श्राव्यते तासु किमित्यर्चिराद्याश्रयणमिति अत्रोच्यते भवेदेतदेवम् यद्यत्यन्तभिन्ना एव एताः सृतयः स्युः एकैव त्वेषा सृतिः अनेकविशेषणा ब्रह्मलोकप्रपदनी क्वचित् केनचित् विशेषणेनोपलक्षितेति वदामः सर्वत्रैकदेशप्रत्यभिज्ञानात् इतरेतरविशेषणविशेष्यभावोपपत्तेः प्रकरणभेदेऽपि हि विद्यैकत्वे भवति इतरेतरविशेषणोपसंहारवत् गतिविशेषणानामप्युपसंहारः विद्याभेदेऽपि तु गत्येकदेशप्रत्यभिज्ञानात् गन्तव्याभेदाच्च गत्यभेद एव तथा हि ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तस्मिन्वसन्ति शाश्वतीः समाः सा या ब्रह्मणो जितिर्या व्युष्टिस्तां जितिं जयति तां व्युष्टिं व्यश्नुते तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दति इति च तत्र तत्र तदेव एकं फलं ब्रह्मलोकप्राप्तिलक्षणं प्रदर्श्यते। यत्तु एतैरेव इत्यवधारणम् अर्चिराद्याश्रयणे न स्यादिति नैष दोषः रश्मिप्राप्तिपरत्वादस्य न हि एक एव शब्दो रश्मींश्च प्रापयितुमर्हति अर्चिरादींश्च व्यावर्तयितुम् तस्मात् रश्मिसंबन्ध एवायमवधार्यत इति द्रष्टव्यम्। त्वरावचनं तु अर्चिराद्यपेक्षायामपि गन्तव्यान्तरापेक्षया क्षैप्र्यार्थत्वात् नोपरुध्यते यथा निमेषमात्रेणात्रागम्यत इति। अपि च अथैतयोः पथोर्न कतरेणचन इति मार्गद्वयभ्रष्टानां कष्टं तृतीयं स्थानमाचक्षाणा पितृयाणव्यतिरिक्तमेकमेव देवयानमर्चिरादिपर्वाणं पन्थानं प्रथयति भूयांस्यर्चिरादिसृतौ मार्गपर्वाणि अल्पीयांसि त्वन्यत्र भूयसां च आनुगुण्येन अल्पीयसां नयनं न्याय्यमित्यतोऽपि अर्चिरादिना तत्प्रथितेरित्युक्तम्।।


वाय्वधिकरणम्

[सम्पाद्यताम्]

वायुमब्दादविशेषविशेषाभ्याम् । ( ब्रसू-४,३.२ । )

भाष्यम्

शाङ्करभाष्यम्॥

केन पुनः संनिवेशविशेषेण गतिविशेषणानाम् इतरेतरविशेषणविशेष्यभावः इति तदेतत् सुहृद्भूत्वा आचार्यो ग्रथयति। स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम् इति कौषीतकिनां देवयानः पन्थाः पठ्यते तत्र अर्चिरग्निलोकशब्दौ तावत् एकार्थौ ज्वलनवचनत्वादिति नात्र संनिवेशक्रमः कश्चिदन्वेष्यः वायुस्तु अर्चिरादौ वर्त्मनि कतमस्मिन्स्थाने निवेशयितव्य इति उच्यते तेऽर्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यम् इत्यत्र संवत्सरात्पराञ्चम् आदित्यादर्वाञ्चं वायुमभिसंभवन्ति कस्मात् अविशेषविशेषाभ्याम्। तथा हि स वायुलोकम् इत्यत्र अविशेषोपदिष्टस्य वायोः श्रुत्यन्तरेण विशेषोपदेशो दृश्यते यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति इति एतस्मात् आदित्यात् वायोः पूर्वत्वदर्शनात् विशेषात् अब्दादित्ययोरन्तराले वायुर्निवेशयितव्यः। कस्मात्पुनरग्नेः परत्वदर्शनाद्विशेषादर्चिषोऽनन्तरं वायुर्न निवेश्यते नैषोऽस्ति विशेष इति वदामः ननूदाहृता श्रुतिः स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकम् इति उच्यते केवलोऽत्र पाठः पौर्वापर्येणावस्थितः नात्र क्रमवचनः कश्चिच्छब्दोऽस्ति पदार्थोपदर्शनमात्रं ह्यत्र क्रियते एतं एतं च आगच्छतीति इतरत्र पुनः वायुप्रत्तेन रथचक्रमात्रेण च्छिद्रेण ऊर्ध्वमाक्रम्य आदित्यमागच्छतीति अवगम्यते क्रमः तस्मात् सूक्तम् अविशेषविशेषाभ्यामिति। वाजसनेयिनस्तु मासेभ्यो देवलोकं देवलोकादादित्यम् इति समामनन्ति तत्र आदित्यानन्तर्याय देवलोकाद्वायुमभिसंभवेयुः वायुमब्दात् इति तु च्छन्दोगश्रुत्यपेक्षयोक्तम्। छान्दोग्यवाजसनेयकयोस्तु एकत्र देवलोको न विद्यते परत्र संवत्सरः तत्र श्रुतिद्वयप्रत्ययात् उभावपि उभयत्र ग्रथयितव्यौ तत्रापि माससंबन्धात्संवत्सरः पूर्वः पश्चिमो देवलोक इति विवेक्तव्यम्।।

तडिदधिकरणम्

[सम्पाद्यताम्]

तटितोऽधि वरुणः संबन्धात् । ( ब्रसू-४,३.३ । )

भाष्यम्

शाङ्करभाष्यम्॥

आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतम् इत्यस्या विद्युत उपरिष्टात् स वरुणलोकम् इत्ययं वरुणः संबध्येत अस्ति हि संबन्धो विद्युद्वरुणयोः यदा हि विशाला विद्युतस्तीव्रस्तनितनिर्घोषा जीमूतोदरेषु प्रनृत्यन्ति अथ आपः प्रपतन्ति विद्योतते स्तनयति वर्षिष्यति वा इति च ब्राह्मणम् अपां च अधिपतिर्वरुण इति श्रुतिस्मृतिप्रसिद्धिः वरुणादधि इन्द्रप्रजापती स्थानान्तराभावात् पाठसामर्थ्याच्च आगन्तुकत्वादपि वरुणादीनामन्ते एव निवेशः वैशेषिकस्थानाभावात् विद्युच्च अन्त्या अर्चिरादौ वर्त्मनि।।

आतिवाहिकाधिकरणम्

[सम्पाद्यताम्]

आतिवाहिकास् तल्लिङ्गात् । ( ब्रसू-४,३.४ । )

भाष्यम्

शाङ्करभाष्यम्॥

तेष्वेव अर्चिरादिषु संशयः किमेतानि मार्गचिह्नानि उत भोगभूमयः अथवा नेतारो गन्तृ़णामिति। तत्र मार्गलक्षणभूता अर्चिरादय इति तावत्प्राप्तम् तत्स्वरूपत्वादुपदेशस्य यथा हि लोके कश्चिद्ग्रामं नगरं वा प्रतिष्ठासमानोऽनुशिष्यते गच्छ इतस्त्वममुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं ततो नगरं वा प्राप्स्यसीति एवमिहापि अर्चिषोऽहरह्न आपूर्यमाणपक्षम् इत्याद्याह। अथवा भोगभूमय इति प्राप्तम् तथाहि लोकशब्देन अग्न्यादीननुबध्नाति अग्निलोकमागच्छति इत्यादि लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यते मनुष्यलोकः पितृलोको देवलोकः इति च तथा च ब्राह्मणम् अहोरात्रेषु ते लोकेषु सज्जन्ते इत्यादि। तस्मान्नातिवाहिका अर्चिरादयः। अचेतनत्वादप्येषामातिवाहिकत्वानुपपत्तिः चेतना हि लोके राजनियुक्ताः पुरुषा दुर्गेषु मार्गेष्वतिवाह्यान् अतिवाहयन्तीति। एवं प्राप्ते ब्रूमः आतिवाहिका एवैते भवितुमर्हन्ति कुतः तल्लिङ्गात् तथा हि चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एतान्ब्रह्म गमयति इति सिद्धवद्गमयितृत्वं दर्शयति तद्वचनं तद्विषयमेवोपक्षीणमिति चेत् न प्राप्तमानवत्वनिवृत्तिपरत्वाद्विशेषणस्य यद्यर्चिरादिषु पुरुषा गमयितारः प्राप्ताः ते च मानवाः ततो युक्तं तन्निवृत्त्यर्थं पुरुषविशेषणम् अमानव इति।।

ननु तल्लिङ्गमात्रमगमकम् न्यायाभावात् नैष दोषः

वैद्युतेनैव ततस् तच्छ्रुतेः । ( ब्रसू-४,३.५ । )

भाष्यम्

शाङ्करभाष्यम्॥

ततो विद्युदभिसंभवनादूर्ध्वं विद्युदनन्तरवर्तिनैवामानवेन पुरुषेण वरुणलोकादिष्वतिवाह्यमाना ब्रह्मलोकं गच्छन्तीत्यवगन्तव्यम् तान्वैद्युतात्पुरुषोऽमानवः स एत्य ब्रह्मलोकं गमयति इति तस्यैव गमयितृत्वश्रुतेः। वरुणादयस्तु तस्यैव अप्रतिबन्धकरणेन साहाय्यानुष्ठानेन वा केनचित् अनुग्राहका इत्यवगन्तव्यम्। तस्मात्साधूक्तम् आतिवाहिका देवतात्मानोऽर्चिरादय इति।।

कार्याधिकरणम्

[सम्पाद्यताम्]

कार्यं बादरिरस्य गत्युपपत्तेः । ( ब्रसू-४,३.६ । )

भाष्यम्

शाङ्करभाष्यम्॥

स एनान्ब्रह्म गमयति इत्यत्र विचिकित्स्यते किं कार्यमपरं ब्रह्म गमयति आहोस्वित्परमेवाविकृतं मुख्यं ब्रह्मेति। कुतः संशयः ब्रह्मशब्दप्रयोगात् गतिश्रुतेश्च। तत्र कार्यमेव सगुणमपरं ब्रह्म एनान्गमयत्यमानवः पुरुष इति बादरिराचार्यो मन्यते कुतः अस्य गत्युपपत्तेः अस्य हि कार्यब्रह्मणो गन्तव्यत्वमुपपद्यते प्रदेशवत्त्वात् न तु परस्मिन्ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिर्वा अवकल्पते सर्वगतत्वात्प्रत्यगात्मत्वाच्च गन्तृ़णाम्।।

विशेषितत्वाच् च । ( ब्रसू-४,३.७ । )

भाष्यम्

शाङ्करभाष्यम्॥

ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति इति च श्रुत्यन्तरे विशेषितत्वात् कार्यब्रह्मविषयैव गतिरिति गम्यते न हि बहुवचनेन विशेषणं परस्मिन्ब्रह्मण्यवकल्पते कार्ये तु अवस्थाभेदोपपत्तेः संभवति बहुवचनम्। लोकश्रुतिरपि विकारगोचरायामेव संनिवेशविशिष्टायां भोगभूमावाञ्जसी गौणी त्वन्यत्र ब्रह्मैव लोक एष सम्राट् इत्यादिषु। अधिकरणाधिकर्तव्यनिर्देशोऽपि परस्मिन्ब्रह्मणि अनाञ्जसः स्यात्। तस्मात् कार्यविषयमेवेदं नयनम्।।

ननु कार्यविषयेऽपि ब्रह्मशब्दो नोपपद्यते समन्वये हि समस्तस्य जगतो जन्मादिकारणं ब्रह्मेति स्थापितम् इत्यत्रोच्यते

सामीप्यात् तु तद्व्यपदेशः । ( ब्रसू-४,३.८ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्द आशङ्काव्यावृत्त्यर्थः परब्रह्मसामीप्यात् अपरस्य ब्रह्मणः तस्मिन्नपि ब्रह्मशब्दप्रयोगो न विरुध्यते। परमेव हि ब्रह्म विशुद्धोपाधिसंबन्धं क्वचित्कैश्चिद्विकारधर्मैर्मनोमयत्वादिभिः उपासनाय उपदिश्यमानम् अपरमिति स्थितिः।।

ननु कार्यप्राप्तौ अनावृत्तिश्रवणं न घटते न हि परस्माद्ब्रह्मणोऽन्यत्र क्वचिन्नित्यतां संभावयन्ति दर्शयति च देवयानेन पथा प्रस्थितानामनावृत्तिम् एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते इति तेषामिह न पुनरावृत्तिरस्ति तयोर्ध्वमायन्नमृतत्वमेति इति च अत्र ब्रूमः

कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात् । ( ब्रसू-४,३.९ । )

भाष्यम्

शाङ्करभाष्यम्॥

कार्यब्रह्मलोकप्रलयप्रत्युपस्थाने सति तत्रैव उत्पन्नसम्यग्दर्शनाः सन्तः तदध्यक्षेण हिरण्यगर्भेण सह अतः पर परिशुद्धं विष्णोः परमं पदं प्रतिपद्यन्ते इतीत्थं क्रममुक्तिः अनावृत्त्यादिश्रुत्यभिधानेभ्योऽभ्युपगन्तव्या। न ह्यञ्जसैव गतिपूर्विका परप्राप्तिः संभवतीत्युपपादितम्।।

स्मृतेश् च । ( ब्रसू-४,३.१० । )

भाष्यम्

शाङ्करभाष्यम्॥

स्मृतिरप्येतमर्थमनुजानाति ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् इति। तस्मात्कार्यब्रह्मविषया एव गतिश्रुतयः इति सिद्धान्तः।।

कं पुनः पूर्वपक्षमाशङ्क्य अयं सिद्धान्तः प्रतिष्ठापितः कार्यं बादरिः इत्यादिनेति स इदानीं सूत्रैरेवोपदर्श्यते

परं जैमिनिर् मुख्यत्वात् । ( ब्रसू-४,३.११ । )

जैमिनिस्त्वाचार्यः स एनान्ब्रह्म गमयति इत्यत्र परमेव ब्रह्म प्रापयतीति मन्यते कुतः मुख्यत्वात्। परं हि ब्रह्म ब्रह्मशब्दस्य मुख्यमालम्बनम् गौणमपरम् मुख्यगौणयोश्च मुख्ये संप्रत्ययो भवति।।

भाष्यम्

शाङ्करभाष्यम्॥

दर्शनाच् च । ( ब्रसू-४,३.१२ । )

भाष्यम्

शाङ्करभाष्यम्॥

तयोर्ध्वमायन्नमृतत्वमेति इति च गतिपूर्वकममृतत्वं दर्शयति अमृतत्वं च परस्मिन्ब्रह्मण्युपपद्यते न कार्ये विनाशित्वात्कार्यस्य अथ यत्रान्यत्पश्यति तदल्पं तन्मर्त्यम् इति प्रवचनात् परविषयैव च एषा गतिः कठवल्लीषु पठ्यते न हि तत्र विद्यान्तरप्रक्रमोऽस्ति अन्यत्र धर्मादन्यत्राधर्मात् इति परस्यैव ब्रह्मणः प्रक्रान्तत्वात्।।

न च कार्ये प्रत्यभिसन्धिः । ( ब्रसू-४,३.१३ । )

भाष्यम्

शाङ्करभाष्यम्॥

अपि च प्रजापतेः सभां वेश्म प्रपद्ये इति नायं कार्यविषयः प्रतिपत्त्यभिसंधिः नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म इति कार्यविलक्षणस्य परस्यैव ब्रह्मणः प्रकृतत्वात् यशोऽहं भवामि ब्राह्मणानाम् इति च सर्वात्मत्वेनोपक्रमणात् न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः इति च परस्यैव ब्रह्मणो यशोनामत्वप्रसिद्धेः। सा चेयं वेश्मप्रतिपत्तिर्गतिपूर्विका हार्दविद्यायामुदिता तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम् इत्यत्र। पदेरपि च गत्यर्थत्वात् मार्गापेक्षता अवसीयते। तस्मात्परब्रह्मविषया गतिश्रुतय इति पक्षान्तरम्। तावेतौ द्वौ पक्षावाचार्येण सूत्रितौ गत्युपपत्त्यादिभिरेकः मुख्यत्वादिभिरपरः। तत्र गत्युपपत्त्यादयः प्रभवन्ति मुख्यत्वादीनाभासयितुम् न तु मुख्यत्वादयो गत्युपपत्त्यादीन् इति आद्य एव सिद्धान्तो व्याख्यातः द्वितीयस्तु पूर्वपक्षः। न ह्यसत्यपि संभवे मुख्यस्यैवार्थस्य ग्रहणमिति कश्चिदाज्ञापयिता विद्यते। परविद्याप्रकरणेऽपि च तत्स्तुत्यर्थं विद्यान्तराश्रयगत्यनुकीर्तनमुपपद्यते विष्वङ्ङन्या उत्क्रमणे भवन्ति इतिवत्। प्रजापतेः सभां वेश्म प्रपद्ये इति तु पूर्ववाक्यविच्छेदेन कार्येऽपि प्रतिपत्त्यभिसंधिर्न विरुध्यते। सगुणेऽपि च ब्रह्मणि सर्वात्मत्वसंकीर्तनम् सर्वकर्मा सर्वकामः इत्यादिवत् अवकल्पते। तस्मादपरविषया एव गतिश्रुतयः।।

केचित्पुनः पूर्वाणि पूर्वपक्षसूत्राणि भवन्ति उत्तराणि सिद्धान्तसूत्राणि इत्येतां व्यवस्थामनुरुध्यमानाः परविषया एव गतिश्रुतीः प्रतिष्ठापयन्ति तत् अनुपपन्नम् गन्तव्यत्वानुपपत्तेर्ब्रह्मणः यत्सर्वगतं सर्वान्तरं सर्वात्मकं च परं ब्रह्म आकाशवत्सर्वगतश्च नित्यः यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः आत्मैवेदं सर्वम् ब्रह्मैवेदं विश्वमिदं वरिष्ठम् इत्यादिश्रुतिनिर्धारितविशेषम् तस्य गन्तव्यता न कदाचिदप्युपपद्यते न हि गतमेव गम्यते अन्यो ह्यन्यद्गच्छतीति प्रसिद्धं लोके। ननु लोके गतस्यापि गन्तव्यता देशान्तरविशिष्टस्य दृष्टा यथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छति तथा अनन्यत्वेऽपि बालस्य कालान्तरविशिष्टं वार्धकं स्वात्मभूतमेव गन्तव्यं दृष्टम् तद्वत् ब्रह्मणोऽपि सर्वशक्त्युपेतत्वात् कथंचित् गन्तव्यता स्यादिति न प्रतिषिद्धसर्वविशेषत्वाद्ब्रह्मणः निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् अस्थूलमनण्वह्रस्वमदीर्घम् स बाह्याभ्यन्तरो ह्यजः स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म स एष नेति नेत्यात्मा इत्यादिश्रुतिस्मृतिन्यायेभ्यो न देशकालादिविशेषयोगः परमात्मनि कल्पयितुं शक्यते येन भूप्रदेशवयोवस्थान्यायेनास्य गन्तव्यता स्यात् भूवयसोस्तु प्रदेशावस्थादिविशेषयोगादुपपद्यते देशकालविशिष्टा गन्तव्यता। जगदुत्पत्तिस्थितिप्रलयहेतुत्वश्रुतेरनेकशक्तित्वं ब्रह्मण इति चेत् न विशेषनिराकरणश्रुतीनामनन्यार्थत्वात्। उत्पत्त्यादिश्रुतीनामपि समानमनन्यार्थत्वमिति चेत् न तासामेकत्वप्रतिपादनपरत्वात् मृदादिदृष्टान्तैर्हि सतो ब्रह्मण एकस्य सत्यत्वं विकारस्य च अनृतत्वं प्रतिपादयत् शास्त्रं नोत्पत्त्यादिपरं भवितुमर्हति।।

कस्मात्पुनरुत्पत्त्यादिश्रुतीनां विशेषनिराकरणश्रुतिशेषत्वम् न पुनरितरशेषत्वमितरासामिति उच्यते विशेषनिराकरणश्रुतीनां निराकाङ्क्षार्थत्वात् न हि आत्मन एकत्वनित्यत्वशुद्धत्वाद्यवगतौ सत्यां भूयः काचिदाकाङ्क्षा उपजायते पुरुषार्थसमाप्तिबुद्ध्युत्पत्तेः तत्र को मोहः कः शोक एकत्वमनुपश्यतः अभयं वै जनक प्राप्तोऽसि विद्वान्न बिभेति कुतश्चन। एत् वाव न तपति। किमह्ाधु नाकरवम्। किमहं पापमकरवम् इत्यादिश्रुतिभ्यः तथैव च विदुषां तुष्ट्यनुभवादिदर्शनात् विकारानृताभिसंध्यपवादाच्च मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति इति अतो न विशेषनिराकरणश्रुतीनामन्यशेषत्वमवगन्तुं शक्यम्। नैवमुत्पत्त्यादिश्रुतीनां निराकाङ्क्षार्थप्रतिपादनसामर्थ्यमस्ति प्रत्यक्षं तु तासामन्यार्थत्वं समनुगम्यते तथा हि तत्रैतच्छुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यति इत्युपन्यस्य उदर्के सत एवैकस्य जगन्मूलस्य विज्ञेयत्वं दर्शयति यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद्ब्रह्म इति च एवमुत्पत्त्यादिश्रुतीनाम् ऐकात्म्यावगमपरत्वात् नानेकशक्तियोगो ब्रह्मणः अतश्च गन्तव्यत्वानुपपत्तिः। न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति इति च परस्मिन्ब्रह्मणि गतिं निवारयति तद्व्यख्यातम् स्पष्टो ह्येकेषाम् इत्यत्र।।

गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रह्मणः अवयवः विकारः अन्यो वा ततः स्यात् अत्यन्ततादात्म्ये गमनानुपपत्तेः। यद्येवम् ततः किं स्यात् अत उच्यते यद्येकदेशः तेन एकदेशिनो नित्यप्राप्तत्वात् न पुनर्ब्रह्मगमनमुपपद्यते एकदेशैकदेशित्वकल्पना च ब्रह्मण्यनुपपन्ना निरवयवत्वप्रसिद्धेः। विकारपक्षेऽप्येतत्तुल्यम् विकारेणापि विकारिणो नित्यप्राप्तत्वात् न हि घटो मृदात्मतां परित्यज्य अवतिष्ठते परित्यागे वा अभावप्राप्तेः। विकारावयवपक्षयोश्च तद्वतः स्थिरत्वात् ब्रह्मणः संसारगमनमपि अनवक्लृप्तम्। अथ अन्य एव जीवो ब्रह्मणः सोऽणुः व्यापी मध्यमपरिमाणो वा भवितुमर्हति व्यापित्वे गमनानुपपत्तिः मध्यमपरिमाणत्वे च अनित्यत्वप्रसङ्गः अणुत्वे कृत्स्नशरीरवेदनानुपपत्तिः प्रतिषिद्धे च अणुत्वमध्यमपरिमाणत्वे विस्तरेण पुरस्तात्। परस्माच्च अन्यत्वे जीवस्य तत्त्वमसि इत्यादिशास्त्रबाधप्रसङ्गः। विकारावयवपक्षयोरपि समानोऽयं दोषः। विकारावयवयोस्तद्वतोऽनन्यत्वात् अदोष इति चेत् न मुख्यैकत्वानुपपत्तेः। सर्वेषु च एतेषु पक्षेषु अनिर्मोक्षप्रसङ्गः संसार्यात्मत्वानिवृत्तेः निवृत्तौ वा स्वरूपनाशप्रसङ्गः ब्रह्मात्मत्वानभ्युपगमाच्च।।

यत्तु कैश्चिज्जल्प्यते नित्यानि नैमित्तिकानि च कर्माण्यनुष्ठीयन्ते प्रत्यवायानुत्पत्तये काम्यानि प्रतिषिद्धानि च परिह्रियन्ते स्वर्गनरकानवाप्तये सांप्रतदेहोपभोग्यानि च कर्माण्युपभोगेनैव क्षिप्यन्ते इत्यतो वर्तमानदेहपातादूर्ध्वं देहान्तरप्रतिसंधानकारणाभावात् स्वरूपावस्थानलक्षणं कैवल्यं विनापि ब्रह्मात्मतया एवंवृत्तस्य सेत्स्यतीति तदसत् प्रमाणाभावात्। न ह्येतत् शास्त्रेण केनचित्प्रतिपादितम् मोक्षार्थी इत्थं समाचरेदिति। स्वमनीषया तु एतत्तर्कितम् यस्मात्कर्मनिमित्तः संसारः तस्मान्निमित्ताभावान्न भविष्यतीति। न च एतत् तर्कयितुं शक्यते निमित्ताभावस्य दुर्ज्ञानत्वात्। बहूनि हि कर्माणि जात्यन्तरसंचितानि इष्टानिष्टविपाकानि एकैकस्य जन्तोः संभाव्यन्ते। तेषां विरुद्धफलानां युगपदुपभोगासंभवात् कानिचिल्लब्धावसराणि इदं जन्म निर्मिमते कानिचित्तु देशकालनिमित्तप्रतीक्षाण्यासते इत्यतः तेषामवशिष्टानां सांप्रतेनोपभोगेन क्षपणासंभवात् न यथावर्णितचरितस्यापि वर्तमानदेहपाते देहान्तरनिमित्ताभावः शक्यते निश्चेतुम्। कर्मशेषसद्भावसिद्धिश्च तद्य इह रमणीयचरणाः ततः शेषेण इत्यादिश्रुतिस्मृतिभ्यः। स्यादेतत् नित्यनैमित्तिकानि तेषां क्षेपकाणि भविष्यन्तीति तत् न विरोधाभावात् सति हि विरोधे क्षेप्यक्षेपकभावो भवति न च जन्मान्तरसंचितानां सुकृतानां नित्यनैमित्तिकैरस्ति विरोधः शुद्धिरूपत्वाविशेषात् दुरितानां तु अशुद्धिरूपत्वात् सति विरोधे भवतु क्षपणम् न तु तावता देहान्तरनिमित्ताभावसिद्धिः सुकृतनिमित्तत्वोपपत्तेः दुरितस्याप्यशेषक्षपणानवगमात्। न च नित्यनैमित्तिकानुष्ठानात् प्रत्यवायानुत्पत्तिमात्रम् न पुनः फलान्तरोत्पत्तिः इति प्रमाणमस्ति फलान्तरस्याप्यनुनिष्पादिनः संभवात् स्मरति हि आपस्तम्बः तद्यथा आम्रे फलार्थे निमित्ते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते इति। न च असति सम्यग्दर्शने सर्वात्मना काम्यप्रतिषिद्धवर्जनं जन्मप्रायणान्तराले केनचित्प्रतिज्ञातुं शक्यम् सुनिपुणानामपि सूक्ष्मापराधदर्शनात् संशयितव्यं तु भवति तथापि निमित्ताभावस्य दुर्ज्ञानत्वमेव। न च अनभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृत्वभोक्तृत्वस्वभावस्य आत्मनः कैवल्यमाकाङ्क्षितुं शक्यम् अग्न्यौष्ण्यवत् स्वभावस्यापरिहार्यत्वात्। स्यादेतत् कर्तृत्वभोक्तृत्वकार्यम् अनर्थः न तच्छक्तिः तेन शक्त्यवस्थानेऽपि कार्यपरिहारादुपपन्नो मोक्ष इति तच्च न। शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात्। अथापि स्यात् न केवला शक्तिः कार्यमारभते अनपेक्ष्य अन्यानि निमित्तानि अत एकाकिनी सा स्थितापि नापराध्यतीति तच्च न निमित्तानामपि शक्तिलक्षणेन संबन्धेन नित्यसंबद्धत्वात्। तस्मात् कर्तृत्वभोक्तृत्वस्वभावे सति आत्मनि असत्यां विद्यागम्यायां ब्रह्मात्मतायाम् न कथंचन मोक्षं प्रति आशा अस्ति। श्रुतिश्च नान्यः पन्था विद्यतेऽयनाय इति ज्ञानादन्यं मोक्षमार्गं वारयति।।

परस्मादनन्यत्वेऽपि जीवस्य सर्वव्यवहारलोपप्रसङ्गः प्रत्यक्षादिप्रमाणाप्रवृत्तेरिति चेत् न प्राक्प्रबोधात् स्वप्नव्यवहारवत् तदुपपत्तेः शास्त्रं च यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति इत्यादिना अप्रबुद्धविषये प्रत्यक्षादिव्यवहारमुक्त्वा पुनः प्रबुद्धविषये यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्यादिना तदभावं दर्शयति। तदेवं परब्रह्मविदो गन्तव्यादिविज्ञानस्य बाधितत्वात् न कथंचन गतिरुपपादयितुं शक्या। किंविषयाः पुनर्गतिश्रुतय इति उच्यते सगुणविद्याविषया भविष्यन्ति। तथा हि क्वचित्पञ्चाग्निविद्यां प्रकृत्य गतिरुच्यते क्वचित्पर्यङ्कविद्याम् क्वचिद्वैश्वानरविद्याम् यत्रापि ब्रह्म प्रकृत्य गतिरुच्यते यथा प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म इति अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म इति च तत्रापि वामनीत्वादिभिः सत्यकामादिभिश्च गुणैः सगुणस्यैव उपास्यत्वात् संभवति गतिः। न क्वचित्परब्रह्मविषया गतिः श्राव्यते यथा गतिप्रतिषेधः श्रावितः न तस्य प्राणा उत्क्रामन्ति इति। ब्रह्मविदाप्नोति परम् इत्यादिषु तु सत्यपि आप्नोतेर्गत्यर्थत्वे वर्णितेन न्यायेन देशान्तरप्राप्त्यसंभवात् स्वरूपप्रतिपत्तिरेवेयम् अविद्याध्यारोपितनामरूपप्रविलयापेक्षया अभिधीयते ब्रह्मैव सन्ब्रह्माप्येति इत्यादिवत् इति द्रष्टव्यम्। अपि च परविषया गतिर्व्याख्यायमाना प्ररोचनाय वा स्यात् अनुचिन्तनाय वा तत्र प्ररोचनं तावत् ब्रह्मविदो न गत्युक्त्या क्रियते स्वसंवेद्येनैव अव्यवहितेन विद्यासमर्पितेन स्वास्थ्येन तत्सिद्धेः न च नित्यसिद्धनिःश्रेयसनिवेदनस्य असाध्यफलस्य विज्ञानस्य गत्यनुचिन्तने काचिदपेक्षा उपपद्यते तस्मादपरविषया गतिः। तत्र परापरब्रह्मविवेकानवधारणेन अपरस्मिन्ब्रह्मणि वर्तमाना गतिश्रुतयः परस्मिन्नध्यारोप्यन्ते। किं द्वे ब्रह्मणी परमपरं चेति बाढम् एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः इत्यादिदर्शनात्। किं पुनः परं ब्रह्म किमपरमिति उच्यते यत्र अविद्याकृतनामरूपादिविशेषप्रतिषेधात् अस्थूलादिशब्दैर्ब्रह्मोपदिश्यते तत्परम् तदेव यत्र नामरूपादिविशेषेण केनचिद्विशिष्टम् उपासनायोपदिश्यते मनोमयः प्राणशरीरो भारूपः इत्यादिशब्दैः तदपरम्। ननु एवमद्वितीयश्रुतिरुपरुध्येत न अविद्याकृतनामरूपोपाधिकतया परिहृतत्वात्। तस्य च अपरब्रह्मोपासनस्य तत्संनिधौ श्रूयमाणम् स यदि पितृलोककामो भवति इत्यादि जगदैश्वर्यलक्षणं संसारगोचरमेव फलं भवति अनिवर्तितत्वादविद्यायाः तस्य च देशविशेषावबद्धत्वात् तत्प्राप्त्यर्थं गमनमविरुद्धम्। सर्वगतत्वेऽपि च आत्मनः आकाशस्येव घटादिगमने बुद्ध्याद्युपाधिगमने गमनप्रसिद्धिः इत्यवादिष्म तद्गुणसारत्वात् इत्यत्र। तस्मात् कार्यं बादरिः इत्येष एव स्थितः पक्षः परं जैमिनिः इति तु पक्षान्तरप्रतिभानमात्रप्रदर्शनं प्रज्ञाविकासनायेति द्रष्टव्यम्।।

अप्रतीकालम्बनाधिकरणम्

[सम्पाद्यताम्]

अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च । ( ब्रसू-४,३.१४ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्थितमेतत् कार्यविषया गतिः न परविषयेति। इदमिदानीं संदिह्यते किं सर्वान्विकारालम्बनान् अविशेषेणैव अमानवः पुरुषः प्रापयति ब्रह्मलोकम् उत कांश्चिदेवेति। किं तावत्प्राप्तम् सर्वेषामेव एषां विदुषाम् अन्यत्र परस्माद्ब्रह्मणः गतिः स्यात् तथा हि अनियमः सर्वासाम् इत्यत्र अविशेषेणैव एषा विद्यान्तरेष्ववतारितेति। एवं प्राप्ते प्रत्याह अप्रतीकालम्बनानिति प्रतीकालम्बनान्वर्जयित्वा सर्वानन्यान्विकारालम्बनान् नयति ब्रह्मलोकम् इति बादरायण आचार्यो मन्यते न हि एवम् उभयथाभावाभ्युपगमे कश्चिद्दोषोऽस्ति अनियमन्यायस्य प्रतीकव्यतिरिक्तेष्वप्युपासनेषूपपत्तेः। तत्क्रतुश्च अस्य उभयथाभावस्य समर्थको हेतुर्द्रष्टव्यः यो हि ब्रह्मक्रतुः स ब्राह्ममैश्वर्यमासीदेत् इति श्लिष्यते तं यथा यथोपासते तदेव भवति इति श्रुतेः न तु प्रतीकेषु ब्रह्मक्रतुत्वमस्ति प्रतीकप्रधानत्वादुपासनस्य। ननु अब्रह्मक्रतुरपि ब्रह्म गच्छतीति श्रूयते यथा पञ्चाग्निविद्यायाम् स एनान्ब्रह्म गमयति इति भवतु यत्र एवम् आहत्यवाद उपलभ्यते तदभावे तु औत्सर्गिकेण तत्क्रतुन्यायेन ब्रह्मक्रतूनामेव तत्प्राप्तिः न इतरेषाम् इति गम्यते।।

विशेषं च दर्शयति । ( ब्रसू-४,३.१५ । )

भाष्यम्

शाङ्करभाष्यम्॥

नामादिषु प्रतीकोपासनेषु पूर्वस्मात्पूर्वस्मात् फलविशेषम् उत्तरस्मिन्नुत्तरस्मिन् उपासने दर्शयति यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति वाग्वाव नाम्नो भूयसी यावद्वाचो गतं तत्रास्य यथाकामचारो भवति मनो वाव वाचो भूयः इत्यादिना। स च अयं फलविशेषः प्रतीकतन्त्रत्वादुपासनानाम् उपपद्यते। ब्रह्मतन्त्रत्वे तु ब्रह्मणोऽविशिष्टत्वात् कथं फलविशेषः स्यात्। तस्मात् न प्रतीकालम्बनानाम् इतरैस्तुल्यफलत्वमिति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये चतुर्थाध्यायस्य तृतीयः पादः।।