ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः १२८

विकिस्रोतः तः
← अध्यायः १२७ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १२८
[[लेखकः :|]]
अध्यायः १२९ →

अथाष्टाविंशत्यधिकशततमोऽध्यायः
नारायण उवाच
श्रीकृष्णश्च समाह्वानं गोपांश्चापि चकार सः।
भाण्डीरे वटमूले च तत्र स्वयमुवास ह ।।१।।

पुराऽन्नं च ददौ तस्मै यत्रैव ब्राह्मणीगणः।
उवास राधिका देवी वामपार्श्वे हरेरपि ।।२।।

दक्षिणे नन्दगोपश्च यशोदासहितस्तथा ।
तद्दक्षिणो वृषभानस्तद्वामे सा कलावती ।।३।।

अन्ये गोपाश्च गोप्यश्च बान्धवाः सुहृदस्तथा ।
तानुवाच स गोविन्दो यथार्थ्यं समयोचितम्।।४।।

श्रीभगवानुवाच
शृणु नन्द प्रवक्ष्यामि सांप्रतं समयोचितम्।
सत्यं च परमार्थं च परलोकसुखावहम् ।।५।।

आब्रह्मस्तम्बपर्यन्तं भ्रमं सर्वं निशामय।
विद्युद्दीप्तिर्जले रेषा यथा तोयस्य बुद्बुदम्।।६।।

मथुरायां सर्वमुक्तं नावशेषं च किंचन।
यशोदां बोधयामास राधिका कदलीवने ।।७।।

तदेव सत्यं परमं भ्रमध्वान्तप्रदीपकम्।
विहाय मिथ्यामायां च स्मर तत्परमं पदम्।।८ ।।

जन्ममृत्युजराव्याधिहरं हर्षकरं परम्।
शोकसंतापहरणं कर्ममूलनिकृन्तनम् ।।९।।

मामेव परमं ब्रह्म भगवन्तं सनातनम् ।
ध्यायंध्यायं पुत्रबुद्धिं त्यक्त्वा लभ परंपदम्।।१०।।

गोलोकं गच्छ शीघ्रं त्वं सार्धं गोकुलवासिभिः।
आरात्कलेरागमनं कर्ममूलनिकृन्तनम् ।।११।।

स्त्रीपुंसोर्नियमो नास्ति जातीनां च तथैव च ।
विप्रेसन्ध्यादिकंनास्ति चिह्नं यज्ञोपवीतकम्।।१२ ।।

यज्ञसूत्रं च तिलकं शेषं लुप्तं सुनिश्चितम् ।
दिवाव्यवायनिरतं विरतं धर्मकर्मणि ।।१३।।

यज्ञानां च व्रतानां च तपसां लुप्तमेव च।
केदारकन्याशापेनधर्मो नास्त्येव केवलम्।।१४।।

स्वच्छन्दगामिनीस्त्रीर्णा पतिश्च सततं वशे ।
ताडयेत्सततंतं च भर्त्सयेच्छ दिवानिशम्।।१५।।

प्राधान्यं स्त्रीकुटुम्बानां स्त्रीणां च सततं व्रज।
स्वामीचभक्तस्तासां च पराभूतो निरन्तरम्।।१६।।

कलौ च योषितः सर्वा जारसेवासु तत्पराः।
शतपुत्रसमः स्नेहस्तासां जारे भविष्यति ।।१७।।

ददाति तस्मै भक्ष्यं च यथा भृत्याय कोपतः।
सस्मिता सकटाक्षा साऽमृतदृष्ट्या निरन्तरम्।।१८।

जारं पश्यति कामेन विषदृष्ट्या पतिं सदा।
सततं गौरवं तासां स्नेहं च जारबान्धवे ।।१९।।

पत्यौ करप्रहारं च नित्यं नित्यं करोति च।
मिष्टान्नं श्रद्धया भक्त्या जाराय प्रददाति च।। २०।।


वेषयुक्ता च सततं जारसेवनतत्परा।
प्राणा बन्धुर्गतिश्चाऽऽत्मा कलौ जारश्चयौषिताम्।। २१।।

लुप्ता चातिथिसेवा च प्रलुप्तं विष्णुसेवनम्।
पितृणामर्चनं चैव देवानां च तथैव च ।।२२।।

विष्णुवैष्णवयोर्द्वेषी सततं च नरो भवेत्।
वाममन्त्रोपासकाश्च चतुर्वर्णाश्च तत्पराः ।।२३।।

शालग्रामं च तुलसीं कुशं गङ्गोदकं तथा।
नस्पृशेन्मानवो धूर्तो म्लेच्छाचाररतः सदा।।२४।।

कारणं कारणानां च सर्वेषां सर्वबीजकम्।
सुखदं मोक्षदं शश्वद्दातारं सर्वसंपदाम् ।।२५।।

त्यक्त्वा मां परया भक्त्या क्षुद्रसंपत्प्रदायिनम्।
वेदनिघ्नं वाममन्त्रं जपेद्विप्रश्च मायया ।।२६।।

सनातनी विष्णुमाया वञ्चितं तं करिष्यति।
ममाऽऽज्ञयाभगवती जगतां च दुरत्यया।।२७ ।।

कलेर्दशसहस्राणि मदर्चा भुवि तिष्ठति ।
तदर्धानि च वर्षाणि गङ्गा भुवनपावनी ।।२८।।

तुलसी विष्णुभक्ताश्च यावद्गङ्गा च कीर्तनम् ।
पुराणानि च स्वल्पानि तावदेव महीतले ।।२९।।

मम चोत्कीर्तनं नास्ति एतदन्ते कलौ व्रज ।
एकवर्णा भविष्यन्तिकिराता बलिनःशठाः।।३० ।।

पित्रोः सेवा गुरोः सेवा सेवा च देवविप्रयोः ।
विवर्जिता नराः सर्वे चातिथीनां तथैव च।।३१।।

सस्यहीना भवेत्पृथ्वी साऽनावृष्ट्या निरन्तरम् ।
फलहीनोऽपि वृक्षश्च जलहीना सरित्तथा।।३२।।

वेदहीनो ब्राह्मणश्च बलहीनश्च भूपतिः।
जातिहीनाजनाःसर्वे म्लेच्छोभूपोभविष्यति।।३३।।

भृत्यवत्ताडयेत्तातं पुत्रः शिष्यस्तथा गुरुम् ।
कान्तं च ताडयेत्कान्ता लुब्धकुक्कुटवद्गृही।।३४।।

नश्यन्ति सकला लोकाः कलौ शेषे च पापिनः।
सूर्याणामातपात्केचिज्जलौघेनापि केचन ।।३५।।

हे गोपेन्द्र प्रतिकलौ न नश्यति वसुंधरा ।
पुनःसृष्टौ भवेत्सत्यं सत्यबीजं निरन्तरम्।।३६।।

एतस्मिन्नन्तरे विप्र रथमेव मनोहरम् ।
चतुर्योजनविस्तीर्णमूर्ध्वे च पञ्चयोजनम् ।।३७।।

शुद्धस्फटिकसंकाशं रत्नेन्द्रसारनिर्मितम्।
अम्लानपारिजातानां मालाजालविराजितम्।।३८।।

मणीनां कौस्तुभानां च भूषणेन विभूषितम् ।
अमूल्यरत्नकलशं हीरहारविलम्बितम् ।।३९।।

मनोहरैः परिष्वक्तं सहस्रकोटिमन्दिरैः ।
सहस्रद्वयचक्रं च सहस्रद्वयघोटकम् ।।४०।।

सूक्ष्मवस्त्राच्छादितं च गोपीकोटीभिरावृतम् ।
गोलोकादागतं तूर्णं ददृशुः सहसा व्रजे ।।४१।।

कृष्णाज्ञया तमारुह्य ययुर्गोलोकमुत्तमम् ।
राधा कलावती देवीधन्या चायोनिसंभवा।।४२।।

गोलोकाद गता गोप्यश्चायोनिसंभवाश्च ताः ।
श्रुतिपत्न्यश्च ताः सर्वाः स्वशरीरेण नारद।।४३।।

सर्वे त्यक्त्वा शरीराणि नश्वराणि सुनिश्चितम् ।
गोलोकं च ययौ राधा सार्घं गोकुलवासिभिः ।। ४४ ।।

ददर्श विरजातीर्र नानारत्नविभूषितम् ।
तदुत्तीर्य ययौ विप्र शतशृङ्गं च पर्वतम् ।।४५।।

नानामणिगणाकीर्णं रासमण्डलमण्डितम् ।
ततो ययौ कियद्दूरं पुण्यं वृन्दावनं वनम्।।४६ ।।

सा ददर्शाक्षयवटमूर्ध्वे त्रिशतयोजनम् ।
शतयोजनविस्तीर्णं शाखाकोटिसमावृतम् ।।४७ ।।

रक्तवर्णैः फलौघैश्च स्थूलैरपि विभूषितम् ।
गोपीकोटिसहस्रैश्च सार्धं वृन्दा मनोहरा ।।४८ ।।

अनुव्रजं सादरं च सस्मिता सा समाययौ ।
अवरुङ्य रथात्तूर्णं राधां सा प्रणनाम च ।।४९ ।।

रासेश्वरीं तां संभाष्य प्रविवेश स्वमालयम् ।
रत्नसिंहासने रम्ये हीरहारसमन्विते ।। ५०।।

वृन्दा तां वासयामास पादसेवनतत्परा ।
सप्तभिश्च सखीभिश्च सेवितां श्वेतचामरैः ।।५१ ।।

आययुर्गोपिकाः सर्वा द्रष्टुं तां परमेश्वरीम् ।
नन्दादिकं प्रकल्प्यैतद्राधा वासं पृथकपृथक् ।। ५२ ।।

परमानन्दरूपा सा परमानन्दपूर्वकम् ।
स्ववेश्मनि महारम्ये प्रतस्थे गोपिका सह ।। ५३ ।।


_____________________________

इति श्रीब्रह्मवैवर्त महापुराण श्रीकृष्णजन्मखण्ड उत्तरार्द्ध नारदनारायणो संवाद
भांडीरवने व्रजजनसमक्षं नन्दं बोधयता कृष्णेन कलिदोषाणां निरूपणम्, अकस्मात्प्राप्तेनाद्भुतरथेन राधादिसर्वगोपीनां गोलोके गमनं च
अष्टाविंशत्यधिकशततमोऽध्यायः।।१२८।।