ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः १२४

विकिस्रोतः तः
← अध्यायः १२३ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १२४
[[लेखकः :|]]
अध्यायः १२५ →


अथ चतुर्विंशत्यधिकशततमोऽध्योयः
नालायण उवाच
राधा संपूज्य विधिना स्तुत्वा लम्बोदरं सती ।
अमूल्यरत्ननिर्माणं सर्वाङ्गभूषणं ददौ ।। १ ।।

राधायाः स्तवनं श्रुत्वा पूजां दृष्ट्वा च वस्तु च ।
उवाच मधुरं शान्तः शान्तां त्रैलोक्यमातरम् ।। २ ।।

गणेश उवाच
तव पूजा जगन्मातर्लोकशिक्षाकरी शुभे ।
ब्रह्मस्वरूपा भवती कृष्णवक्षः स्थलस्थिता ।। ३ ।।

यत्पादपद्मतुलं ध्यायन्ते ते सुदुर्लभम् ।
सुरा ब्रह्मेशशेषाद्या मुनीन्द्राः सनकादयः ।। ४ ।।

जीवन्मुक्ताश्च भक्ताश्च सिद्धेन्द्राः कपिलादयः ।
तस्य प्राणाधिदेवी त्वं प्रिया प्राणाधिका परा ।। ५ ।।

वामाङ्गनिर्मिता राधा दक्षिणाङ्गश्च माधवः ।
महालक्ष्मीर्जगन्माता तव वामाङ्गनिर्मिता ।। ६ ।।

वसोः सर्वनिवासस्य प्रसूस्त्वं परमेश्वरी ।
वेदानां जगतामेव मूल्प्रकृतिरीश्वरी ।। ७ ।।

सर्वाः प्राकृतिका मातः सृष्ट्यां च त्वद्विभूतयः ।
विश्वानि कार्यरूपाणि त्वं च कारणरूपिणी ।। ८ ।।

प्रलये ब्रह्मणः पाते तन्निमेषो हरेरपि ।
आदौ राधां समुच्चार्य पश्चात्कृष्णं परात्परम् ।। ९ ।।

स एव पण्डितो योगी गोलोकं याति लीलया ।
आदौ राधां समुच्चार्य पश्चात्कृष्णं परात्परम् ।। १० ।।

जगतां भवती माता परमात्मा पिता हरिः ।
पितुरेव गुरुर्माता पूज्या वन्द्या परात्परा ।। ११ ।।

भजते देवमन्यं वा कृष्णं वा सर्वकारणम् ।
पुण्यक्षेत्रे महामूढो यदि निन्दति राधिकाम् ।। १२ ।।

वंशहानिर्भवेत्तस्य दुःखशोकमिहैव च ।
पच्यते निरये घोरे यावच्चन्द्रदिवाकरौ ।। १३ ।।

गुरुश्चज्ञानोद्गिरणाज्ज्ञानं स्यान्मन्त्रतन्त्रयोः ।
स च मन्त्रश्च तत्तन्त्रं भक्तिः स्याद्ध्रुवयोर्यतः ।। १४ ।।

निषेव्य मन्त्रं देवानां जीवा जन्मनि जन्मनि ।
भक्ता भवन्ति दुर्गायाः पादपद्मे सुदुर्लभे ।। १५ ।।

निषेव्य मन्त्रे शंभोश्च जगतां कारणस्य च ।
तदा प्राप्नोति युवयोः पादपद्मं सुदुर्लभम् ।। १६ ।।

युक्योः पादपद्मं च दुर्लभं प्राप्य पुण्यवान् ।
क्षणार्धं षोडशांशं च नहि मुञ्चति दैवतः ।। १७ ।।

भक्त्या च युवचोर्मन्त्रं गृहीत्वा वैष्मपादपि ।
स्तवं वा कवचं वाऽपि कर्ममूलनिकृन्तनम् ।। १८ ।।

योजयेत्परया भक्त्या पुण्यक्षेत्रे च भारते ।
पुरुषाणां सहस्रं च त्वात्मना सार्धमुद्धरेत् ।। १९ ।।

गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचन्दनैः ।
कवचं धारयेद्यो हि विष्णुतुल्यो भवेद्ध्रुवम् ।। २० ।।

यद्दत्तं वस्तु मे मातस्तत्सर्वं सार्थकं कुरु ।
देहि विप्राय मत्प्रीत्या तदा भोक्ष्यामि सांप्रतम् ।। २१ ।।

देवे देयानि दानानि देवे देया च दक्षिणा ।
तत्सर्वं ब्राह्मणे दद्यात्तदानन्त्याय कल्पते ।। २२ ।।

ब्राह्मणानां मुखं राधे देवानां मुखमुख्यकम् ।
विप्रभुक्तं च यद्द्रव्यं प्राप्नुवन्त्येव देवताः ।। २३ ।।

विप्रांश्च भोजयामास तत्सर्व राधिका सती ।
बभूव तत्क्षणादेव प्रीतो लम्बोदरो मुने ।। २४ ।।

एतस्मिन्नन्तरे देवा ब्रह्मेशशेषसंज्ञकाः ।
आययुर्वटमूलं च देवपूजार्थमेव च ।। २५ ।।

तत्र गत्वा शिवचरो देवान्देवीरुवाच सः ।
श्रीकृष्णं शुष्ककण्ठश्च भयभीतश्च रक्षकः ।। २६ ।।

रक्षक उवाच
गणेशं पूजयामास सर्वादौ च शुभक्षणे ।
वृषभानसुता राधा प्रकृत्य स्वस्तिवाचनम् ।। २७ ।।

सहिता सा बलवती गोपीत्रिशतकोटिभिः ।
वारितोऽहं वलिष्ठाभिर्युष्मांश्च कथयामि तत् ।। २८ ।।

मर्वादौ पूजयेद्यो हि सोऽनन्तं फलमालभेत् ।
मध्ये मध्यविधं पुण्यं शेषे स्वल्पमिति स्मृतम् ।। २९ ।।

देवेन्द्रेषु मुनीन्द्रेषु देवस्त्रीषु स्थितासु च ।
गोपीभिश्च सह तया राधया पूजितः परः ।। ३० ।।

दूतवाक्यं समाकर्ण्य जहसुः सर्वदेवताः ।
मुनयो मनवश्चैव राजानो देवयोषितः ।। ३१ ।।

रुक्मिण्याद्या रमण्यश्च या देव्यो विस्मयं ययुः ।
सरस्वती च सावित्री पार्वती परमेश्वरी ।। ३२ ।।

रोहिणी च सती संज्ञा स्वाहाद्या देवयोषितः ।
मुदिताः प्रययुः सर्वा मुनिपत्न्यः पतिव्रताः ।। ३३ ।।

मुनयो मनवः सर्वे देवाश्चापि नरास्तथा ।
श्रीकृष्णः स गणैः सार्धं ये चान्ये प्रययुर्मुदा ।। ३४ ।।

ते सर्वे विविधैर्द्रव्यैः पूजां चक्रुः शुभक्षणे ।
बलिष्ठा दुर्बलाश्चैव क्रमेण च पृथक्पृथक् ।। ३५ ।।

लड्डुकानां च राशीनां शतकोटिर्बभूव ह ।
शर्कराणां तदर्धं च स्वस्तिकानां तथैव च ।। ३६ ।।

अन्नानां भव्यवस्तूनां शतकोटिर्बभूव ह ।
असंख्यानि फलान्येव स्वादूनि मधुराणि च ।। ३७ ।।

मधुकुल्या दुग्धकुल्या दधिकुल्या घृतस्य च ।
बभूवुः शतसंख्याश्च त्रैलोक्यानां च पूजने ।। ३८ ।।

पूजां कृत्वा तु ते सर्वे समूषुश्च सुखासने ।
पार्वती परमप्रीत्या राधास्थानं समाययौ ।। ३९ ।।

सा राधा पार्वतीं दृष्ट्वा समुत्थाय जवेन च ।
यथायोग्यां च संभाषां चकार सादरं मुदा ।। ४० ।।

आश्लेषणं चुम्बनं च बभूव च परस्परम् ।
उवाच मधुरं दुर्गा राधां कृत्वा स्ववक्षसि ।। ४१ ।।

पार्वत्युवाच
किंवा प्रश्नं करिष्यामि त्वां राधा मङ्गलालयाम् ।
गता ते विरहज्वाला श्रीदाम्नः शापमोक्षणे ।। ४२ ।।

सततं मन्मनः प्राणास्त्वय्येव मयि ते तथा ।
न ह्येवमावयोर्भेदः शक्तिपूरुषयोस्तथा ।। ४३ ।।

येत्वां निन्दन्ति मद्भक्तास्त्वद्भक्ताश्चापि मामपि ।
कुम्भीपाके च पज्यन्ते यावच्चन्द्र दिवाकरौ ।। ४४ ।।

राधामाधवयोर्भेदं ये कुर्वन्ति नराधमाः ।
वंशहानिर्भवेत्तेषां पच्यन्ते नरके चिरम् ।। ४५ ।।

यान्ति सूकरयोनिं च पितृभिः शतकैः सह ।
षष्टिवर्षसहस्राणि विष्ठायां कृमयस्तथा ।। ४६ ।।

त्वयैव पूजितः पुत्रो न मया च गणेश्वरः ।
सर्वादौ सर्वपूज्योऽयं यथा तव तथा मम ।। ४७ ।।

यावज्जीवनपर्यन्तं न विच्छेदो भविष्यति ।
राधामाधवयोर्देवि दुग्धधावल्ययोर्यथा ।। ४८ ।।

सिद्धाश्रमे महातीर्थे पुण्यक्षेत्रे च भारते ।
निर्वघ्नं लभगोविन्दं संपूज्य विघ्नखण्डनम् ।। ४९ ।।

रासेश्वरी त्वं रसिका श्रीकृष्णो रसिकेश्वरः ।
विदग्धाया विदग्धेन संगमो गुणवान्भदेत् ।। ५० ।।

श्रीदाम्नः शापनिर्मुक्ता शतवर्षान्तरे सति ।
कुरुष्व मद्रेणाद्य कृष्णेन सह संगमम् ।। ५१ ।।

ममाऽऽज्ञया दुर्लभया सुवेषं कुरु सुन्दरि ।
सुदुर्लभः कामिनीनां सत्पुंसा सह संगमः ।। ५२ ।।

चक्रुः सुवेषं राधायाः प्रियाल्यश्च शिवाज्ञया ।
रत्नसिंहासने रम्ये वासयामासुरीश्वरीम् ।। ५३ ।।

पुरतो रत्नमाला सा रत्नमालां गले ददौ ।
राधाया दक्षिणे हस्ते क्रीडापद्मं मनोहरम् ।। ५४ ।।

ददौ पद्ममुखी पादपद्मयुग्मेऽप्यलक्तकम् ।
प्रददौ सुन्दरी गोपी सिन्दूरं सुन्दरं वरम् ।। ५५ ।।

चन्दनेन समयुतं सीमन्ताधः स्थलोज्ज्वलम् ।
सुचारुकबरीं रम्यां चकार मालती सती ।। ५६ ।।

मनोहरां मुनीनां च मालतीमाल्यभूषिताम् ।
कस्तूरीकुङ्कुमाक्तं च चारुचन्दनपत्रकम् ।। ५७ ।।

स्तनयुग्मे सुकठिने चकार चन्दना सती ।
चारुचम्पकपुप्पाणां मालां गन्धमनोहराम् ।। ५८ ।।

मालावती ददौ तस्यौ प्रफुल्लां नवमल्लिकाम् ।
रतीषु रसिका गोपी रत्नभूषणभूषिताम् ।। ५९ ।।

तां चकारातिरसिकां वरां रतिरसोत्सुकाम् ।
शरत्पद्मदलाभं च लोजनं कज्जलोज्ज्वलम् ।। ६० ।।

कृत्वा ददौ सुललितं वस्त्रं च ललिता सती ।
महेन्द्रेण प्रदत्तं च पारिजातप्रसूनकम् ।। ६१ ।।

सुगन्धियुक्तं तस्याश्च पारिजातं करे ददौ ।
सुशीलं मधुरोक्तं च भर्तुः पार्श्वे यथोचितम् ।। ६२ ।।

शिक्षां चकार नीतिं च सुशीला गोपिका सती ।
स्त्रीणां च षोडशकलां विपत्तौ विस्मृतांतयोः ।। ६३ ।।

स्मरणं कारयामास राधामाता कलावती ।
श्रृङ्गारविषयोक्तं च वचनं च सुधोपमम् ।। ६४ ।।

स्मरणं कारयामास भगिनी च सुधामुखी ।
कमलानां चम्पकानां दले चन्दनचर्चिते ।। ६५ ।।

चकार रतितल्पं च कमला चाऽऽशु कोमलम् ।
चारुचम्पकपुष्पं च कृष्णार्थं पुटकस्थितम् ।। ६६ ।।

चकार चन्दनाक्तं च स्वयं च पार्वती सती ।
पुष्पं केलिकदम्बानां स्तबकं च मनोहरम् ।। ६७ ।।

कदम्बमालां कृष्णार्थ विद्यमानां चकार सा ।
ताम्बूलं च वरं सम्यं कर्पूरादिसुवासितम् ।। ६८ ।।

कृष्णप्रिया च कृष्णार्थं चकार वासितं जलम् ।
एतस्मिन्नन्तरे सर्वमाश्रमं सजलस्थलम् ।। ६९ ।।

साक्षाद्गोरोचनाभं च ददृशुर्मुनयः सुराः ।
ते सर्वे विस्मयं गत्वा पप्रच्छुः कृष्णमीश्वरम् ।। ७० ।।

उवाच भगवांस्ताश्च सर्वज्ञः सर्वकाराणा ।। ७१ ।।

श्रीभगवानुवाच
अभिशप्ता च श्रीदाम्ना भ्रष्टशोभा राधिका ।
सर्वं ज्ञानं विसस्मार मद्विच्छेदज्वरातुरा ।। ७२ ।।

विमुक्ते वर्षशतके ज्ञानं सस्मार सा सती ।
सिद्धाश्रमं च पीताभं रासेश्वर्याश्च तेजसा ।। ७३ ।।

परमाह्लादकं तेजश्चन्द्रकोटिसमप्रभम् ।
सुखदृश्यं च सुखदं चक्षुधां प्राणिनामपि ।। ७४ ।।

तच्छ्रुत्वा परमाश्चर्यं मुनयो मनवस्तथा ।
देव्यश्च सर्वदेवास्ते ब्रह्मेशानादयस्तथा ।। ७५ ।।

जवेन गत्वा तत्स्थानं भक्तिनम्रात्मकंधरा ।
सर्वे जनास्ते ददृशुस्त्रैलोक्यस्थाश्च राधिकाम् ।। ७६ ।।

श्वेतचम्पकवर्णाभामतुलां सुमनोहराम् ।
मोहिनीं मानसानां च मुनीनामूर्ध्वरेतसाम् ।। ७७ ।।

सुकेशीं सुन्दरीं श्यामां न्यग्रोधपरिमण्डलाम् ।
नितम्बकठिनश्रोणीं स्तनयुग्मोन्नताननाम् ।। ७८ ।।

कोटीन्दुनिन्दितास्यां तां सस्मितां सुदतीं सतीम् ।
कज्जलोज्ज्वलरूपां च शरत्कमललोजनाम् ।। ७९ ।।

महालक्ष्मीं बीजरूपां परामाद्यां सनातीम् ।
परमात्मस्वरूपस्य प्राणाधिष्ठातृदेवताम् ।। ८० ।।

स्तुतां च पूजितां चैव परां च परमात्मने ।
ब्रह्मस्वरूपां निर्लिप्तां नित्यरूपां च निर्गुणाम् ।। ८१ ।।

विश्वानुरोधात्प्रकृतिं भक्तानुग्रहविग्रहाम् ।
मत्यस्वरूपां शुद्धां च पूतां पतितपावनीम् ।। ८२ ।।
सुतीर्थपूतां सत्कीर्तिं विधात्रीं वेदसामपि ।
महत्प्रियां च महतीं महाविष्णोश्च मातरम् ।। ८३ ।।

रासेश्वरेश्वरीं रम्यां रसिकां रसिकेश्वरीम् ।
वह्निशुद्धांशुकाधामां स्वेच्छारूपां शुभालयाम् ।। ८४ ।।

गोपीभिः सप्तभिः शश्वत्सेवितां श्वेतचामरैः ।
चतसृभिः प्रियालीभिः पादपद्मोपसेविताम् ।। ८५ ।।

अमूल्यरत्ननिर्माणभूषणोच्चैर्विभूषिताम् ।
चारुकुण्डलयुग्मेन श्रुतिगण्डस्थलोज्ज्वलाम् ।। ८६ ।।

सुनासां गजमुक्तार्हां खगेन्द्रचञ्चुनिन्दिताम् ।
कुङ्कुमालक्तकस्तूरीस्निग्धचन्दनचर्चिताम् ।। ८७ ।।

दधानां सुकपोलं च कोमलाङ्गीं सुकामुकीम् ।
गचेन्द्रगामिनीं रामां कामनीयां सुकामिनीम् ।। ८८ ।।

कामास्त्रजयरूपां च कामकाम्यालयां वराम् ।
क्रीडाकमलमम्लानं पारिजातप्रसूनकम् ।। ८९ ।।

अमूल्यरत्ननिर्माणं दधानां दर्पणोज्ज्वलम् ।
नानारत्नविचित्राढ्यरतनसिंहासनस्थिताम् ।। ९० ।।

पद्मैः पद्मार्चितं पादपद्मं च मङ्गलालयम् ।
हृत्पद्मे ध्यायमानं च कृणस्य परमात्मनः ।। ९१ ।।

कर्मणा मनसा वाचा स्वप्ने जागरणेऽपि च ।
तत्प्रीतिं प्रेम सौभाग्यं स्मरन्तीं नित्यनूतनम् ।। ९२ ।।

भावानुरक्तसंसक्तां शुद्धभक्तां पतिव्रताम् ।
धन्यां मान्यां गौरवर्णां शश्वद्वक्षः स्थलस्थिताम् ।। ९३ ।।

प्रियासु प्रियभक्तेषु सुप्रियां प्रियवादिनीम् ।
कृष्णवामाङ्गसंभूतामभेदां गुणरूपयोः ।। ९४ ।।

गोलोकवासिनीं देवदेवीं सर्वोपरिस्थितम् ।
वृषभानसुताख्यां तां पुण्यक्षेत्रे च भारते ।। ९५ ।।

गोपीश्वरीं गुप्तरूपां सिद्धिदां सिद्धिरूपिणीम् ।
ध्यानासाध्यां दुराराध्यां वन्दे सद्भक्तवन्दिताम् ।। ९६ ।।

ध्याने ध्यानेन राधाया व्यायन्ते ध्यानतत्पराः ।
इहैव जीवन्मुक्तास्ते परत्र कृष्णपार्षदाः ।। ९७ ।।

दृष्ट्वा ब्रह्मा च सर्वादौ तुष्टाव परमेश्वरीम् ।
स्वयं विधाता जगतां मातरं वेधसामपि ।। ९८ ।।

ब्राह्मोवाच
षष्टिवर्षसहस्रणि दिव्यानि परमेश्वरि ।
पुष्करे च तपस्तप्तं पुण्यक्षेत्रे च भारते ।। ९९ ।।

त्वत्पादपद्मधुरमधुलुब्धेन चेतसा ।
मधुव्रतेन लोलेन प्रेरितेन मया सति ।। १०० ।।

तथाऽपि न मया लब्धं त्वत्पादपद्ममीप्सितम् ।
न दृष्टमपि स्वप्नेऽयि जाता वागशरीरिणी ।। १०१ ।।

वाराहे भारते वर्षे पुण्ये वृन्दावने वने ।
सिद्धाश्रमे गणेशस्य पादपद्मं च द्रक्ष्यसि ।। १०२ ।।

राधामाधवयोर्दास्यं कुतो विषयिणस्तव ।
निवर्तस्व महाभाग परमेतत्मुदुर्लभम् ।। १०३ ।।

इति श्रुत्वा निवृत्तोऽहं तपसे भग्नमानसः ।
परिपुर्ण तदधुना वाञ्छितं तपसः फलम् ।। १०४ ।।

महादेव उवाच
पद्मैः पद्मार्चितं पादपदमं यस्य सुदुर्लभम् ।
ध्यायन्ते ध्याननिष्ठाश्च शाश्वद्रब्रह्मादयः सुराः ।। १०५ ।।

मुनयो मनवश्चैव सिद्धाः सन्तश्च योगिनः ।
द्रष्टुं नैव क्षमाः स्वप्ने भवती तस्य वक्षसि ।। १०६ ।।

अनन्त उवाच
वेदाश्च वेदमाता च पुराणानि च सुव्रते ।
अहं सरस्वती सन्त स्तोतुं नालं च संततम् ।। १०७ ।।

अस्माकं स्तवने यस्य भ्रूभङ्गं च सुदुर्लभम् ।
तवैव भत्सेने भीताश्चावयोरन्तरं हरेः ।। १०८ ।।

एवं देवाश्च देव्यश्चाप्यन्ये ये च समागताः ।
प्रणतास्तुष्टुवुः सर्वे मुनिमन्वादयस्तथा ।। १०९ ।।

लज्जया नम्रवक्त्राश्च रुक्मिण्यद्याश्च योषितः ।
मलीमसं च चक्रुस्ताः श्वासेन रत्नदर्पणम् ।। ११० ।।

मृततुल्या सत्यभामा निराहारा कृशोदरी ।
मनसोऽप्यभिमानं च सर्व तत्याच नारद ।। १११ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo
सिद्धाश्रमतीर्थयात्राप्रसङ्गेगणेशपूजनं ब्रह्मेशशेषादिकृतराधिकास्तोत्रं नाम
चतुर्विंशत्यधिकशततमोऽध्यायः ।। १२४ ।।