ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः १००

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ९९ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १००
[[लेखकः :|]]
अध्यायः १०१ →

अथ शाततमेऽध्यायः
नारायण उवाच
अथादितिर्दितिश्चैव देवकी रोहिणी रतिः ।
सरस्वती च सावित्री यशोदा च पतिव्रता ।। १ ।।

लोबामुद्राऽरुन्धती च अहल्या तारका तथा ।
ययुस्ताः पार्वतीं दृष्टवा वेगेन मन्दिरादपि ।। २ ।।

परस्परं च संभाष्य समाश्लिष्य पुनः पुनः ।
प्रणम्य वेशयामासुर्मन्दिरं रत्ननिर्मितम् ।। ३ ।।

रत्नसिहासने रम्ये वासयामासुरीश्वरीम् ।
वरयामासुर्माल्येन वाससा रत्नभूषणैः ।। ४ ।।

पारिजातस्य पुष्पं च शक्रानीतं मनोहरम् ।
ददौ तत्पादपद्मे च देवकी भक्तिपूर्वकम् ।। ५ ।।

सिन्दूरबिन्दुं सीमन्ते भाले चन्दनबिन्दुकम् ।
कस्तूरीकुङ्कुमादींश्च प्रददौ परितस्तयोः ।। ६ ।।

मिष्टान्नं भोजयामास शीततोयं सुवासितं ।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।। ७ ।।

अलक्तकं च प्रददौ नखेषु पादपद्मयोः ।
कुङ्कुमस्यापि रागं च सिषेवे श्वेतचामरैः ।। ८ ।।

मंपुज्य पार्वतीं देवीं मुनिपत्नीः क्रमेण च ।
पूजयामास विधिवत्पतिपुत्रवतीः सतीः ।। ९ ।।

राजकन्या देवकन्या नागकन्या मनोहराः ।
मुनिकन्या बन्धुकन्याः पूजयामास सुव्रता ।। १० ।।

वाद्य नानाविधं रम्यं वादयामास कौतुकात् ।
मङ्गलं कारयामास भोजयामास ब्रह्मणान् ।। ११ ।।

भैरवीं पूजयामास मथुराग्रामदेवताम् ।
उपचारैः षोडशभिः षष्ठीं मङ्गलचण्डिकाम् ।। १२ ।।

पुण्यं स्वस्त्ययनं शुद्धं वारयामास मङ्गलम् ।
वेदांश्च पाठयामास वसुदेवास्य वल्लभा ।। १३ ।।

स्वर्गङ्गासुजलेनैव सुवर्मकलशेन च ।
स्नापयामास सबलं श्रीकृष्णं पुत्रवत्सला ।। १४ ।।

वस्त्रचन्दनमाल्यैश्च तयोर्वेषं चकार सा ।
रत्नेन्द्रसारनिर्माणभूषणैश्च मनोहरैः ।। १५ ।।

मातृभूषणभूषाढ्यः सबलः कृष्ण एव च ।
आययौ च सभां देवमुनीन्द्राणां च नारद ।। १६ ।।

दृष्ट्वा तं जगतां राथमुत्तस्थौ प्रजवेन च ।
स्वयं विधाता शंभुश्च शेषो धर्मश्च भास्करः ।। १७ ।।

देवाश्च मुनयश्चैव कार्तिकेयो गणेश्वरः ।
पृथक्पृथक् क्रमेणैव तुष्टाव परमेश्वरम् ।। १८ ।।

ब्रह्मोवाच
नाथानिर्वचनोयोऽसि भक्तानुग्रहविग्रहः ।
वेदानिर्वचनीयं च कस्त्वां स्तोतुमिहेश्वरः ।। १९ ।।

महादेव उवाच
देहेषु देहिनां शश्वत्स्थितं निर्लिप्तमेव च ।
कर्मिणां कर्मणां शुद्धं साक्षिणां साक्षतं विभुम् ।।
किं स्तौमि रूपशून्यं च गुणशून्यं च निर्गुणम् ।। २० ।।

अनन्त उवाच
किंवा जानाम्यहं नाथ त्वामज्ञोऽनन्तमीश्वरम् ।
अनन्तकोटिब्रह्माण्डकारणं दुःखतारणम् ।। २१ ।।

महाविष्णोश्च लोम्नां च विवरेषु जलेषु च ।
सन्ति विश्वान्यसंख्यानि चित्राणि कृत्रिमाणि च ।। २२ ।।

सन्ति सन्तश्च देवाश्च ब्रह्मविष्णुशिवात्मकाः ।
त्वदंशाः प्रतिबिम्बेषु तीर्थानि भारतं तथा ।। २३ ।।

ब्रह्माण्डैकस्थितोऽहं च सूक्ष्मनागस्वरूपकः ।
स्थापितश्च त्वया कूर्मे गजेन्द्रे मशको यथा ।। २४ ।।

परमाणुपरं सूक्ष्मं विश्वेषु नास्ति कुत्रचित् ।
महाविष्णोः परं स्थूलं समो नास्ति च कुत्रचित् ।। २५ ।।

महाविष्णोः परस्त्वं च त्वत्परो नास्ति कश्चन ।
स्थूलात्स्थूलतरो देवः मूक्ष्मात्सूक्ष्मतमो महान् ।। २६ ।।

आधारश्च महाविष्णो जलरूपो भवान्स्वयम् ।
जलाधारो हि गोलोकस्त्वं च स्थावररूपधृक् ।। २७ ।।

मर्वाधारो महान्वायुः श्वासनिः श्वासरूपकः ।
भक्तानुग्रहदेहस्य नित्यस्य भवतो दिभो ।। २८ ।।

वक्त्रैर्बहुतरैर्वांऽथ त्वया दत्तैः पुरैव च ।
स्तोतुमिच्छामि त्वद्योगं न दत्तं ज्ञानमैश्वरम् ।। २९ ।।

देवा ऊचुः
त्वामनन्तं यदि स्तोतुं देवोऽनन्तो न हीश्वरः ।
न हि स्वयं विधाता च न हि ज्ञानात्मकः शिवः ।।
सरस्वती जडीभूता किं कुर्मः स्तवनं वयम् ।। ३० ।।

मुनीन्द्रा ऊचुः
वेदा न शक्ताः स्तोतुं चेत्त्वां चैव ज्ञातुमीश्वरम् ।
वयं वेदविदः सन्तः किं कुर्मः स्तवनं तव ।। ३१ ।।

इदं स्तोत्रं महापुण्यं देवैश्च मुनिमिः कृतम् ।
यः पठेत्संयतः शुद्धः पूजाकाले च भक्तितः ।। ३२ ।।

इह लोके सुखं भुक्त्वा लब्ध्वा ज्ञानं निरञ्जनम् ।
रत्नायानं समारुह्य गोलोकं स च गच्छति ।। ३३ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवदुपनयने
शाततमोऽयायः ।। १०० ।।