ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०९७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ९६ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ९७
[[लेखकः :|]]
अध्यायः ९८ →

अथ सप्तनवतितमोऽध्यायः
नारायण उवाच
गच्छन्तमुद्धवं दृष्ट्वा संत्रस्ता श्रीहरेः प्रिया ।
समुत्थायाऽऽसनाच्छीघ्रं हृदयेन विदूयता ।। १ ।।

गोपीभिः सहिता शीघ्रं समुद्विग्ना सहासती ।
ददौ शुभाशिषं तस्मै तस्य मूर्ध्नि करं तथा ।। २ ।।

स्तिग्धदूर्वाक्षतं शुक्लधान्यं पुष्पं च मङ्गलम् ।
प्रेरयामास लाजांश्च फलं पर्णं तथा दधि ।। ३ ।।

दर्मणं दर्शयामास पूर्णकुम्भ सपल्लवम् ।
सफलं गन्धसिन्धूरकस्तूरीचन्दनान्वितम् ।। ४ ।।

पुष्पमाल्यं प्रदीपं च रत्नं गन्धं द्विजोत्तम ।
पतिपुत्रवती साध्वी काञ्चनं रजतं तथा ।। ५ ।।

तमुवाच महासाध्वी हितं सत्यं च मङ्गलम् ।
संगोप्यं साश्रुनेत्रं च पतितं दुःखिता हृदि ।। ६ ।।

राधिकोवाच
शुभं भवतु मार्गस्ते कल्याणमस्तु संततम् ।
ज्ञानं लभ हरेः स्थानात्कृष्णस्य सुप्रियो भव ।। ७ ।।

कृष्णभक्तिः कृष्णदास्यं दलेषु च वरं वरम् ।
श्रेष्ठा पञ्चविधा मुक्तेर्हरिभक्तिर्गरीयसी ।। ८ ।।

ब्रह्मत्वादपि देवत्वादिन्द्रत्वादमरादपि ।
अमृतात्सिद्धिलाभाच्च हरिदास्यं सुदुर्लभम् ।। ९ ।।

अनेकनन्मतपसा संभूय भारते द्विजः ।
हरिभक्तिं यदि लभेत्तस्य जन्म सुदुर्लभम् ।। १० ।।
सफलं जीवनं तस्य कुर्वतः कर्मणः क्षयम् ।
पितॄणां च सहस्राणि स्वस्य मातुश्च निश्चितम् ।। ११ ।।

मातामहानां पुंसां च शतानां सोदरस्य च ।
बान्धवस्यापि पत्न्याश्च गुरूणां शिष्यभृत्ययोः ।। १२ ।।

तत्कर्म शोभरं वत्स यच्च कृष्णो समर्पणम् ।
तत्कर्म शोभनं शुद्धं कुष्णसंतोषणं यतः ।। १३ ।।

संकल्पसाधनं कर्म संप्रीतिविधिपूर्वकम् ।
तदेव मङ्गलं धन्यं परिणामसुखावहम् ।। १४ ।।

तद्व्रतं तत्तपः सत्यं तद्भक्तिः पूजनं तथा ।
तदुद्देश्यमनशनं केवलं दास्यकालणम् ।। १५ ।।

समस्तपृथिवीदानं प्रदक्षिण्यं भुवस्तथा ।
समस्ततीर्थस्नानं च समस्तं च व्रतं तपः ।। १६ ।।

समस्तयज्ञकरणं सर्वदानफलं तथा ।
समस्तवेदवेदाङ्गपठनं पाठनं तथा ।। १७ ।।

भीतस्थं रक्षणं चैव ज्ञानदानं सुदुर्लभम् ।
अतिथीनां पूजनं च शरणागतरक्षणम् ।। १८ ।।

सर्वदेवार्चनं चैव वन्दनं जपनं मनोः ।
भोजनं विप्रदेवानां पुरश्चरणपूर्वकम् ।। १९ ।।

गुरुशुश्रूषणं चैव पित्रोर्भक्तिश्च पोषणम् ।
सर्वं श्रीकृष्णदास्यस्य कलां नार्हति षोडशीम् ।। २० ।।
तस्मादुद्धव यत्नेन भज कृष्णं परात्परम् ।
निर्गुणं च निरीहं च परमात्मानमीश्वरम् ।। २१ ।।

नित्यं सत्यं परं ब्रह्म प्रकृतेः परमीश्वरम् ।
परिबूर्णतमं शुद्धं भक्तानुग्रहविग्रहम् ।। २२ ।।

कर्मिणां कर्मणां साक्ष्यप्रदं निर्लिप्तमेव च ।
ज्योतिः स्वरूपं परमं कारणानां च कारणम् ।। २३ ।।

सर्वस्वरूपं सर्वेशं सर्वसंपत्प्रदं शुभम् ।
भक्तिदं दास्यदं स्वस्य निजसंपत्पदप्रदम् ।। २४ ।।

विसृज्य ज्ञातिबुद्धिं च मात्सर्यमशुभप्रदम् ।
भज तं परमानन्दं सानन्दं नन्दनन्दनम् ।। २५ ।।

वेदे कौथुमिशाखायां तस्य नाम्नां सहस्रकम् ।
नन्दनन्दननामोक्तं कृतौ विघ्नं सुदुर्लभम् ।। २६ ।।

उद्धवः सर्वमाकर्ण्य परमं विस्मयं ययौ ।
ज्ञानं संप्राप्य संपूर्ण परिबूर्णे भभूव ह ।। २७ ।।

स्ववस्त्रं च गले बद्ध्वा दण्डवत्प्रणनाम् ताम् ।
मुर्ध्नः केशैश्च तत्पादं निबध्य च पुनाः पुनः ।। २८ ।।

पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रश्च भक्तितः ।
तद्विच्छेदशुचा प्रेम्ण रुरोदोच्चैश्च नारद ।। २९ ।।

रुरोद राधा तत्प्रेम्णा रुरोद बल्लवीगणः ।
उद्धवस्य गलं धृत्वा सथापयामास लोभतः ।। ३० ।।
उद्ववं मूर्च्छितं दृष्ट्वा जृम्भितं त्यक्तचेतनम् ।
शीघ्रसुत्थापयामास राधिका कृष्णमानसम् ।। ३१ ।।

चेतनं कारयामास जलं दत्त्वा मुखाम्बुजे ।
शुभाशिषं च प्रददौ वत्स जीवेति नारद ।। ३२ ।।

उद्धवश्चेतनां प्राप्य तमुवाच सुसंसदि ।
रुदतीनां च गोपीनां पुरतः परमार्थदम् ।। ३३ ।।

उद्धव उवाच
धन्यो यशस्यो द्वीपानां जम्बुद्वीपः सुदुर्लभः ।
यत्र भारतवर्ष तु सर्वैषामीप्सितं वरम् ।। ३४ ।।

अहो भारतवर्षे तु पुण्यं वृन्दावनं वनम् ।
राधापादाब्जसंस्पर्शरजः पूतं सुरेप्सितम् ।। ३५ ।।

धन्या मान्या च पृथिवी त्रेषु लोकेषु पूजिता ।
राधायास्तीर्थपूतायाः पादाब्जरजसा वरा ।। ३६ ।।

षष्टिवर्षसहस्राणि दिव्यानि पुष्करे पुरा ।
ब्रह्मणा च तपस्तप्तं वेदोक्तं भक्तिपूर्वकम् ।। ३७ ।।

गोलोके राधिकाकृष्णदर्शनार्थं मनोरथात् ।
गोलोके राधिकाकृष्णो न दृष्टः स्वप्नतस्तदा ।। ३८ ।।

श्रुता तेनाऽऽकाशवाणी सत्यरूपा च लीलया ।
वाराहे भारते वर्षे पुण्ये वृन्दावने वने ।। ३९ ।।

रासोत्सवे महाराम्ये तत्रैव रासमण्डले ।
द्रक्ष्यसीति च देवानां मध्ये सुस्थो न संशयः ।। ४० ।।
श्रुत्वा च विरतो ब्रह्मा तपसः स्वगृहं गतः ।कृष्णो दृष्टश्च हृष्टश्च परिपूर्णमनोरथः ।। ४१ ।।

गोपानां गोपिकानां च सफलं जन्म जीवनम् ।
नित्यं पश्यन्ति ते पादपद्मं ब्रह्मादिदुर्लभम् ।। ४२ ।।

मानिनीं राधिकां सन्तः सदा सेवन्ति नित्यशः ।
योगीन्द्राश्च मुनीन्द्राश्च सिद्धेन्द्रा वैष्णवास्तथा ।। ४३ ।।

सतीं पुण्यां तीर्थपूतां स्वतः शुद्धां सुदुर्लभाम् ।
सुलभं यत्वदाम्भोजं ब्रह्मादीनां सुदुर्लभम् ।। ४४ ।।

यत्पादपद्मनखरं कृतं यावकचिह्नितम् ।
सर्वेश्वरेश्वरेणैव कृष्णेन परमात्मना ।। ४५ ।।

चकार यस्याः पूजां च स्तोत्रराजं सुदुर्लभम् ।
शतशृङ्गे स्वयं कृष्णो गोलोके रासमण्डले ।। ४६ ।।

पारिजातप्रसूनानामञ्जलिं गन्धयन्दनम् ।
ददौ दूर्वाक्षतं स्निग्धं यस्याः पादारविन्दयोः ।। ४७ ।।

त्रिंशत्सहस्रकोटीनां गोपीनामीश्वरी च या ।
तत्षट्त्रिंशत्सखीनां च ईश्वरी राधिकाभिधा ।। ४८ ।।

ये वा द्विषन्ति निन्दन्ति पापिनश्च हसन्ति च ।
कृष्णप्राणाधिकादेवदेवीं च राधिकां वराम् ।। ४९ ।।

ब्रह्महत्याशतं ते च लभन्ते नात्र संशयः ।
तत्पापेन च पच्यन्ते कुम्भीपाके च रौरवे ।। ५० ।।
तप्ततैले महाघोरे ध्वान्ते कीटे च यन्त्रके ।
चतुर्दशेन्द्रावच्छिन्नं पितृभिः सप्तभिः सह ।। ५१ ।।

ततः परं च जायन्ते जन्मैकं लोकजन्मतः ।
दिव्यं वर्षसहस्रं च विष्ठाकीटाश्च पापतः ।। ५२ ।।

पुंश्चलीनां योनिकीटास्तद्रक्तमलभक्षकाः ।
मलकीटाश्च तन्मानवर्षं च पूयभक्षकाः ।। ५३ ।।

वेदे च काण्वशाखायामित्याह कमलोद्भवः ।
इत्युक्तवन्तं तं यान्तमुवाच राधिका पुनः
रुदन्तं च रुदन्ती सा कृष्णविच्छेदकातरा ।। ५४ ।।

राधिकोवाच
गच्छ वत्स मधुपुरीं सर्वं बोधय माधवम् ।
यथा पश्यामि गोविन्दं प्रयत्नेन तथा कुरु ।। ५५ ।।

निष्फलं च गतं जन्म गच्छ मिथ्यादुराशया ।
आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।। ५६ ।।

पश्चाद्विचिन्त्य गोविन्दं जीवन्मुक्ता बभूव सा ।
इत्युक्त्वा राधिका तत्र रुरोद च भृशं पुनः ।। ५७ ।।

प्रणम्य तां रुदन्तीं च यशोदाभवनं ययौ ।
अथोद्धवे गते राधा मूर्च्छां मंप्राप नारद ।। ५८ ।।

तत्याज चेतनां शश्वद्बभूव ध्यानतत्परा ।
पङ्कस्थे पङ्कजदके सजले शयने मुने ।। ५९ ।।

गोप्यस्तां स्थापयामासुः साश्रुनेत्रोत्पला वराः ।
तत्स्पर्शमात्राच्छयनं भस्मीभूतं बभूव ह ।। ६० ।।
पुनः स्निग्धस्थले स्थिग्धनिचोले चन्दनाङ्किते ।
पुनस्तां स्थापयामासुर्विरहज्वरकातराम् ।। ६१ ।।

सहसा शुष्कतां प्राप सुगन्धि चन्दनोदकम् ।
निमेषेण शतयुगं तद्बभूवोद्धवं विना ।। ६२ ।।

हा होद्धवोद्धव हरिं शीघ्रं गत्वा वदेति च ।
समानय हरिं शीघ्रं मत्प्राणेश्वरमित्यपि ।। ६३ ।।

इत्युक्तवचनां दीनां संतापहृतचेतनाम् ।
रुरुदुर्गोपिकाः सर्वा राधां कृत्वा स्ववक्षसि
चेतनां कारयामासुर्बोधयामासुरौप्सितम् ।। ६४ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo राधोद्धवसंo
सप्तनवतितमोऽध्यायः ।। ९७ ।।