ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०९२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ९१ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ९२
[[लेखकः :|]]
अध्यायः ९३ →


अथ द्विनवतितमोऽध्यायः
नारायण उवाच
श्रीकृष्णप्रेरितो हृष्टः प्रणम्य च गणेश्वरम् ।
स्मरन्नारायणं शंभुं दुर्गा लक्ष्मीं सरस्वतीम् ।। १ ।।

गङ्गां च मनसि ध्यात्वा दिमीशं तं महेश्वरम् ।
प्रजगामोद्धवश्चैव दृष्ट्वा मङ्गलमूचकम् ।। २ ।।

शुश्राव दुंदुभिं घण्टानादं शङ्खध्वनिं तथा ।
हरिशब्दं च संगीतं शुश्राव मङ्गलध्वनिम् ।। ३ ।।

पतिपुत्रवतीं साध्वीं प्रदीपं माल्यदर्पणम् ।
परिबूर्णतमं कुम्भं दधिलाजफलानि च ।। ४ ।।

दूर्वाङ्कुरं शुक्लधान्यं रजतं काञ्चनं मधु ।
ब्राह्मणानां समूहं च कृष्णसारं वृषं घृतम् ।। ५ ।।

सद्योमांसं गजेन्द्रं च नृपेन्द्रं श्वेतघोटकम् ।
पताकां नकुलं चाषं शुक्लं पुष्पं च चन्दनम् ।। ६ ।।

दृष्ट्वैवं पथि कल्याणं प्राप वृन्दावनं वनम् ।
ददर्श पुरतो वृक्षं भाण्डीरे वटमक्षयम् ।। ७ ।।

स्निग्धपर्ण रक्तवर्ण पुण्यदं तीर्थमीप्सितम् ।
सुवेषान्बालकांश्चैव रत्नभूषणभूषितान् ।। ८ ।।

वदतो बलकृष्णेति रुदतश्च शुचाऽन्वितान् ।
तानाश्वास्य ययौ दूरं प्रविश्य नगरं मुदा ।। ९ ।।

ददर्श नन्दशिबिरं रचितं विश्वकर्मणा ।
मणिरत्नविनिर्माणं मुक्तामाणिक्यहीरकैः ।। १० ।।
परिच्छन्नं मनोरम्यं सद्रत्नकलशान्वितम् ।
द्वारं चित्रं विचित्राढ्यं दृष्ट्वा च प्रविवेश सः ।। ११ ।।

अवरुह्य रथात्तूर्ण तस्थौ तत्प्राङ्गणे मुदा ।
यशोदा रोहिणी शीघ्रं पप्रच्छ कुशलं परम् ।। १२ ।।

आसनं च जलं गां च मधुपर्कं ददौ मुदा ।
क्व नन्दः क्व बलः कृष्णः सत्यं तत्कथयोद्धव ।। १३ ।।

उद्धवः कथयामास सर्व भद्रं क्रमेण च ।
सार्धं च बलकृष्णाभ्यां नन्दः सानन्दपूर्वकम् ।। १४ ।।

आयास्यति विलम्बेन कृष्णोपनयनावधि ।
युष्माकं कुशलं तत्वं विज्ञाय विधिपूर्वकम् ।। १५ ।।

अहं यास्यामि मथुरां यशोदे शृणु सांप्रतम् ।
श्रृत्वा मङ्गलवार्ता च यशोदा रोहिणी मुदा ।। १६ ।।

ब्राह्मणाय ददौ रत्नं सुवर्णं वस्त्रमीप्सितम् ।
उद्धवं भोजयामास मिष्टान्नं च सुधोपमम् ।। १७ ।।

मणिश्रेष्ठं च रत्नं च ददौ तस्मै च हीरकम् ।
वाद्यं च वादयामास भद्रं नानाविधं तथा ।। १८ ।।

ब्रह्मणान्भोजयामास कारयामास मङ्गलम् ।
वेदाश्च पाठयामास परमानन्दपूर्वकम् ।। १९ ।।

शंकरं पूजयामास विप्रद्वारा परं विभूम् ।
नानोपहारैर्नैवेद्यैः पुष्पधूपप्रदीपकैः ।। २० ।।
चन्दनैर्वस्त्रताम्बूलैर्मधुगव्यघृतादिभिः ।
भवानीं पूजयामास श्रीवृन्दारण्यदेवताम् ।। २१ ।।

षोडशोपचारैर्द्रव्यैर्बलिभिर्विविधैर्मुने ।
महिषाणां शते शुद्धं छागालानां सहस्रकम् ।। २२ ।।

मेषाणामयुतं शुद्धं युक्तमादाय पञ्चकम् ।
ब्राह्मणेभ्यः स्वर्णशतं धेनुनां च शतं तथा ।। २३ ।।

प्रददौ दक्षिणां तूर्ण कृष्णकल्याणहेतवे ।
उद्धवं पूजयामास सादरं च पुनः पुनः ।। २४ ।।

समाश्वास्य यशोदां च रोहिणीं गोपबालकान् ।
वृद्धान्गोपालिकाः सर्वाः प्रययू रासमण्डलम् ।। २५ ।।

ददर्श रासं रुचिरं चन्द्रमण्डलवर्तुलम् ।
श्रीरामकदलीस्तम्भशतकैरुपशोभितम् ।। २६ ।।

युक्तैश्च स्निग्धवसनैश्चन्दनानां च पल्लवैः ।
पट्टसूत्रनिबद्धैश्च श्रीयुक्तमाल्यजालकैः ।। २७ ।।

दधिलाजफलैः पट्टैः पुष्पैर्दूर्वाङ्कुरैरपि ।
चन्दनागुरुकस्तूरीकुङ्कुमैः परिसंस्कृतम् ।। २८ ।।

वेष्टितं सक्षितं यत्नाद्गोपिकानां त्रिकोटिभिः ।
त्रिलक्षैः सुन्दरै रम्यैः संसक्तं रतिमन्दिरैः ।। २९ ।।

लक्षगोपैः परिवृतं कृष्णागमनशङ्कितैः ।
यमुनां दक्षिणां कृत्वा प्रययौ मालतीवनम् ।। ३० ।।
चन्दनानां चम्पकानां यूथिकानां तथैव च ।
केतकीमाधवीनां च वनं कृत्वा प्रदक्षिणम् ।। ३१ ।।

बकुलानां वञ्जुलानामशोकानां च काननम् ।
मल्लिकानां पलाशानां शिरीषाणां तथैव च ।। ३२ ।।

धात्रीणां काञ्चनानां च कर्णिकानां वनं तथा ।
नागेश्वराणां विपिनं लवङ्गानां तथैव च ।। ३३ ।।

वनं च शालतालानां हिन्तालानां वनं तथा ।
पनसानां रसालानां लाङ्गलीनां मनोहरम् ।। ३४ ।।

मन्दारकाननं रम्यं वामं कृत्वा च सत्वरम् ।
दृष्ट्वा कुन्दवनं रम्यं संप्राप्य मधुकाननम् ।। ३५ ।।

पुंस्कोकिलानां शब्देन मधुरेण समन्वितम् ।
मधुव्रतसमूहानां मधुरध्वनिबूरितम् ।। ३६ ।।

वन्यवृक्षैः परिवृतं माध्वीकाधारमीप्सितम् ।
वातेन वन्यबुष्पाणां वरितः सुरभीकृतम् ।। ३७ ।।

तद्दृष्ट्वा राजमार्गेण यशोदोक्तेन सांप्रतम् ।
ययौ शीघ्रं निरुद्विग्निं रहस्यं बदरीवनम् ।। ३८ ।।

श्रीफलानां च निम्बार्नां नारिङ्गाणां वनं तथा ।
पद्मानां करवीराणां तुलसीनां च काननम् ।। ३९ ।।

दृष्टवा रक्तिमवर्णं च सुपक्वफलमीप्सितम् ।
तदेव वामतः कृत्वा विवेश कदलीवनम् ।। ४० ।।
अतीव निर्जने रम्ये ददर्श राधिकाश्रमम् ।
मणीन्द्राणां च प्राकारं परिखादुर्गवेष्टितम् ।। ४१ ।।

अत्यगम्यं रिपूणां च मित्राणां सुगमं सुखम् ।
गोप्यं संकेतमार्गं च रक्षकैः परिरक्षितम् ।। ४२ ।।

नानाचित्रविचित्राढ्यं निर्मितं विश्वकर्मणा ।
मणीन्द्रमुक्तामाणिक्यहीरहारोज्ज्वलं परम् ।। ४३ ।।

रत्नेन्द्रसाररचितं रत्नस्तम्भैः सुशोभितम् ।
रत्नसोपानसंसक्तमन्दिरेण मनोहरम् ।। ४४ ।।

अमूल्यरत्नखचितं कलशैः परिशोभितम् ।
वाह्निशुद्धांशुकाभिश्च पताकाभिः परिष्कृतम् ।। ४५ ।।

सद्रत्नदर्पणोत्कृष्टं चर्चितं श्वेतचामरैः ।
ददर्श सिंहद्वारं च युक्तं रत्नकपाटकैः ।। ४६ ।।

द्वारोपरि विचित्रं च रम्यं वृन्दावनं वनम् ।
कदम्बकाननं रम्यं तद्वास्त्रहरणादिकम् ।। ४७ ।।

विश्वकर्मविरचितं सुरम्यं रासमण्डलम् ।
नानारत्नकुटीरं च गोपगोपीसमन्वितम् ।। ४८ ।।

रक्षितं गोपिकालक्षैर्वेत्रहस्तैर्मनोहरैः ।
स्वच्छन्दाचरणैः शश्वदमितैर्बलिभिर्मुदा ।। ४९ ।।

तद्द्वारं पुरतो दृष्ट्वा विलङ्क्य च जगाम् सः ।
द्वितीयं द्वारमुल्लङ्घ्य तस्मादुत्तममीप्सितम् ।। ५० ।।
द्वारं चतुर्थं संप्राप्य सर्वस्माच्च विलक्षणम् ।
तत्पश्चात्पञ्चमं द्वारं ददर्श चित्रमुत्तमम् ।। ५१ ।।

द्वारषट्कं च प्रययौ सर्वत्र रुचिरं परम् ।
रामरावणयोर्युद्धं भित्तिचित्रं मनोहरम् ।। ५२ ।।

दशावतारं विष्णोश्च कृत्रिमं रासमण्डलम् ।
यमुनाजलकेलिं च रचितां विश्वकर्मणा ।। ५३ ।।

गोपिकानां सहस्रेणा षष्ठं द्वारं च रक्षितम् ।
रत्नेन्द्रसारनिर्माणभूषणैर्भूषितेन च ।। ५४ ।।

सद्रत्नदण़्डहस्तेन हीरकैर्भूषितेन च ।
मणीन्द्रमुक्तामाणिक्यहीरहारान्वितेन च ।। ५५ ।।

माधवी तत्प्रधाना सा पप्रच्छ सांप्रतं शिवम् ।
ददौ प्रत्युत्तरं सर्वं क्रमेण च स उद्धवः ।। ५६ ।।

गत्वा विज्ञापयामास राधाप्रियसखीगणम् ।
सा माधवी महाहृष्टा तत्र संस्थाप्य तं मुदा ।। ५७ ।।

श्रुत्वा मङ्गलवार्तां च राधाप्रियसखीगणैः ।
कृत्वा शङ्खध्वनिं घण्टामृदङ्गपटहस्वनम् ।। ५८ ।।

कृत्वा निर्मञ्छनं शीघ्रमुद्धवं प्रियमागतम् ।
हृष्टा प्रवेशयामास राधाभ्यन्तरमुत्तमम् ।। ५९ ।।

अमूल्यरत्ननिर्माणं गत्वा मन्दिरमुत्तमम् ।
ददर्श पुरतो राधां कुह्वा चन्द्रकलोपमाम् ।। ६० ।।
सुपक्वपद्मनेत्रां च शयानां शोकमूर्च्छिताम् ।
रुदतीं रक्तवदनां विल्ष्टां च त्यक्तभूषणाम् ।। ६१ ।।

निश्चेष्टां च निराहारां सुवर्णवर्णकुण्डलाम् ।
शुष्किताधरकण्ठां च किंचिन्निः श्वाससंयुताम् ।। ६२ ।।

प्रणनाम च तां दृष्ट्वा भक्तिनम्रात्मकंधरः ।
पुलकाञ्चितसर्वाङ्गो भक्त्या भक्तः स उद्धवः ।। ६३ ।।

उद्धव उवाच
वन्दे राधापदाम्भोजं ब्रह्मादिसुरविन्दतम् ।
यत्कीर्तिः कीर्तनेनैव पुनाति भुवनत्रयम् ।। ६४ ।।

नमो गोकुलवासिन्यै राधिकायै नमो नमः ।
शतशृङ्गनिवासिन्यै चन्द्रावत्यै नo ।। ६५ ।।

तुलसीवनवासिन्य वृन्दारण्यै नo ।
रासमण्डलवासिन्यै रासेश्वर्यै नo ।। ६६ ।।

विरजातीरवासिन्यै वृन्दायै च नo ।
वृन्दावनविलासिन्यै कृष्णायै च नo ।। ६७ ।।

नमः कृष्णप्रियायै च शान्तायै च नo ।
कृष्णवक्षःस्थितायै च तत्पियायै नo ।। ६८ ।।

नमो वैकुण्ठवासिन्यै महालक्ष्म्यै नo ।
विद्याधिष्ठातृदेव्यै च सरस्वत्यै नo ।। ६९ ।।
सर्वैश्वर्याधिदेव्यै च कमलायै नo ।
पद्मनाभप्रियायै च पद्मायै च नo ।। ७० ।।
महाविष्णोश्च मात्रे च पराद्यायै नo ।
नमः सिन्धुसुतायै च मर्त्यलक्ष्मयै नo ।। ७१ ।।

नारायणप्रियायै च नारायण्यै नo ।
नमोऽस्तु विष्णुमायायै वैष्णव्यै च नo ।। ७२ ।।

महामायास्वरूपायै संपदायै नo ।
नमः कल्याणरूपिण्यै शुभायै च नo ।। ७३ ।।

मात्रे चतुर्णा वेदानां सावित्र्यै च नo ।
नमोऽस्तु बुद्धिरूपायै ज्ञानदायै नo ।। ७४ ।।

नमो दुर्गविनाशिन्यै दुर्गादेव्यै नo ।
तेजःसु सर्वदेवानां पुरा कृतयुगे मुदा ।। ७५ ।।

अधिष्टानकृतायै च प्रकृत्यै च नo ।
नमस्त्रिपुरहारिण्यै त्रिपुरायै नo ।। ७६ ।।

सुन्दरीषु च रम्यायै निर्गुणायै नo ।
ममो निद्रास्वरूपायै निर्गुणायै नo ।। ७७ ।।

नमो दक्षसुतायै च नमः सत्यै नo ।
नमः शैलसुतायै च पार्वत्यै च नo ।। ७८ ।।

नमो नमस्तपस्विन्यै ह्यु मायै च नo ।
निराहारस्वरूपायै ह्यपर्णायै नo ।। ७९ ।।

गौरीलौकविलासिन्यै नमो गौर्यै नo ।
नमः कैलासवासिन्यै माहेश्वर्यैः नo ।। ८० ।।
निद्रायै च दयायै च श्रद्धायै च नo ।
नमो धृत्यै क्षमार्यै च लज्जायै च नo ।। ८१ ।।

तृष्णायै क्षुत्स्वरूपायै स्थितिकर्त्र्यै नo ।
नमः संहाररूपिण्यै महामार्यै नo ।। ८२ ।।

भयायैं चाभयायैं च मुक्तिदायै नo ।
नमः स्वधायैं स्वाहायै शान्तयै कान्त्यै नo ।। ८३ ।।

नमस्तुष्ट्यैं च पुष्ट्यै च दयायै च नo ।
नमो निद्रास्वरूपायै श्रद्धायै च नo ।। ८४ ।।

क्षुत्पिपासास्वरूपायै लज्जायैं च नo ।
नमो धृत्यैं क्षमायैं च चेतनायैं नo ।। ८५ ।।

सर्वशक्तिस्वरूपिण्यै सर्वमात्रे नo ।
अग्नौ दाहस्वरूपायै भद्रायै च नo ।। ८६ ।।

शोभायै पूर्णचन्द्रे च शरत्पद्म नo ।
नास्ति भेदो यथा देवि दुग्धधावल्ययोःसदा ।। ८७ ।।

यथैव गन्धभूम्योश्च यथैव जलशैत्ययौः ।
यथैव शब्दन्भसोर्ज्योतिः सूर्यकयोर्यथा ।। ८८ ।।

लोके वेदे पुराणे च राधामाधवयोस्तथा ।
चेतनं कुरु कल्याणि देहि मामुत्तरं सति ।। ८९ ।।

इत्युक्त्वा चोद्धवस्तत्र प्रणनाम पुनः पुनः ।
इत्युद्ववकृतं स्तोत्रं यः पठेद्भक्तिपूर्वकम् ।। ९० ।।
इह लोके सुखं भुक्त्वा यात्यन्ते हरिमन्दिरम् ।न भवेद्बन्धुविच्छेदो रोगः शोकः सुदारुणः ।। ९१ ।।

प्रोषिता स्त्री लभेत्कान्तं भार्याभेदी लभेत्प्रियाम् ।
अपुत्रो लभते पुत्रान्निर्धनो लभते धनम् ।। ९२ ।।

निर्भूमिर्लभते भूमिं प्रजाहीनो लभेत्प्रजाम् ।
रोगाद्विमुच्यते रोगी बद्धी मुच्यते बन्धनात् ।। ९३ ।।

भयान्मुच्येत भीतस्तु मुच्येताऽऽपन्नआपदः ।
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ।। ९४ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo राधास्तोत्रं
नाम द्विनवतितमोऽध्यायः ।। ९२ ।।