ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०८५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ८४ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ८५
[[लेखकः :|]]
अध्यायः ८६ →


अथ पञ्चाशीतितमोऽध्यायः
नन्द उवाच
वर्णानां च चतुर्णां च भक्ष्याभक्ष्यं च सांप्रतम् ।
विपाकं कर्मणां चैव सर्वेषां प्राणिनामपि ।। १ ।।

कथयस्व महाभाग कारणानां च कारणम् ।
त्वत्तोऽन्यं कं च पृच्छामि नितान्तं सन्तमीश्वरम् ।। २ ।।

श्रीभगवानुवाच
भक्ष्याभक्ष्यं चतुर्णां च वर्णानां च यथोचितम् ।
वेदोक्तं श्रूयता तात सावधानं निशामय ।। ३ ।।

अयःपात्रे पयःपानं गव्यं सिद्धान्नमेव च ।
भृष्टादिकं पधु गुडं नालिकेरोदकं तथा ।। ४ ।।

फलं मूलं च यत्किंचिदभक्षयं मनुरब्रवीत् ।
दग्धान्नं तप्तसौवीरमभक्ष्यं व्रह्मनिर्मितम् ।। ५ ।।

नालिकेरोदकं कांस्ये ताम्रपात्रे स्थितं मधु ।
गव्यं च ताम्रपात्रस्थं सर्वं मद्यं घृतं विना ।। ६ ।।

ताम्रपात्रे पयःपानमुच्छिष्टे घृतभोजनम् ।
दुग्धं सलवणं चैव सद्यो गोमांसभक्षणम् ।। ७ ।।

अभक्ष्यं मधुमिक्षं च घृतं तैलं गुडं तथा ।
आर्द्रकं गुडसंयुक्तमभक्ष्यं श्रुतिसंमतम् ।। ८ ।।

पीतशेषजलं चैव माघे च मूलकं तथा ।
जपादिकं च शयने सदा प्राज्ञः परित्यजेत् ।। ९ ।।

द्विर्भोजनं च दिवसे संध्ययोह्भोजनं तथा ।
भक्ष्यं च रात्रिशेषे च ध्रुवं प्राज्ञः परित्यजेत् ।। १० ।।

पानीयं पायसं चूर्णं घुतं लवणमेव च ।
स्वस्तिकं गुडकं चैव क्षीरं तक्रं तथा मधु ।। ११ ।।

हस्ताद्धस्तगृहीतं च सद्यो गोमांसमेव च ।
कर्पूरं रौप्यपात्रस्थमभक्ष्यं श्रुतिसंमतम् ।। १२ ।।

परिवेषणकारी चेद्भोक्तारं स्पृशते यदि ।
मभक्ष्यं च तदन्नं च सर्वेषामेव संमतम् ।। १३ ।।

नकुलानां गण्डकानां महिषाणां च पक्षिणाम् ।
सर्पाणां सूकराणां च गर्दभानां विशेषतः ।। १४ ।।

मर्जाराणां सृगालानां कुक्कुटानां व्रजेश्वर ।
व्याघ्राणामपि सिंहानां त्याज्यं मांसं नृणां सदा ।। १५ ।।

जलौकसां च नक्राणां गेधिकानां तथैव च ।
मण्डूकानां कर्कटानां चुञ्चुकानां च निश्चितम् ।। १६ ।।

गवां च चमरीणां च न कलौ मांसभक्षणम् ।
हस्तिनां घोटकानां च नृणामेव च रक्षसाम् ।। १७ ।।

दंशश्च मशकश्चैव मक्षिका च पिपीनिका ।
अन्येधां च निषिद्धानां लोके वेदे व्रजेश्वर ।। १८ ।।

वानराणां भल्लुकानां शरभाणां तथैव च ।
निषिद्धं मृगनाभीनां गर्दभानां च मांसकम् ।। १९ ।।

अभक्ष्यं महिषीणां च दुग्धं दधि घृतं तथा ।
स्वस्तिकं च तथा तत्र विप्राणां नवनीतकम् ।। २० ।।

मांसमुच्छैःश्रवसकं तस्य दुग्धादिकं तथा ।
वर्णानां च चतुर्णां चाप्यभक्ष्यं च श्रुतौ श्रुतम् ।। २१ ।।

अभक्ष्यमार्द्रकं चैव सर्वेषां च रवेर्दिने ।
पर्युषितं चलं चान्नं विप्राणां दुग्धमेव च ।। २२ ।।

वर्णानां च चतुर्णां चाप्यवीरान्नस्य भक्षणम् ।
तदन्नं च सुरातुल्यं गोमांसाधिकमेव च ।। २३ ।।

अवीरान्नं च योभुङ्क्ते ब्राह्मणो ज्ञानदुर्बलः ।
पितृदेवार्चनं तस्य निष्फलं मनुरब्रवीत् ।। २४ ।।

ब्रह्माणानां व२ष्णवानामभक्ष्यं मत्स्यमेव च ।
इतरेषामभक्ष्यं च पञ्चपर्वसु निश्चितम् ।। २५ ।।

पितृदेवावशेषे च भक्ष्यं मांसं न दूथितम् ।
पञ्चपर्वसु त्याज्यं च सर्वेषां मनुरब्रवीत् ।। २६ ।।

असंस्कृतं च लवणं तैलं चाभक्ष्यमेव च ।
भक्ष्यं पवित्रं सर्वेषां व्यञ्जनं वह्निसंस्कृतम् ।। २७ ।।

एकहस्ते घृतं तोयमभक्ष्यं सर्वमंमतम् ।
आविलं कृमियुक्तं च परिशुद्धं च निर्मलम् ।। २८ ।।

अभक्ष्यं ब्रह्माणानां च वैष्णवानां विशेषतः ।
अनिवेद्यं हरेरेव यतीनां ब्रह्मचारिणाम् ।। २९ ।।

पिपीलिकामिश्रितं च मधु गव्यं गुडं तथा ।
यत्किंचिद्वस्तु वा तात न भक्ष्यं च श्रुतौ श्रुतम् ।। ३० ।।

पक्षिभक्ष्यं कीटभक्ष्यं शृद्धं पक्वफलं तथा ।
काकभक्ष्यमभक्ष्यं च सर्वेषां द्रव्यमेव च ।। ३१ ।।

घृतपक्वं तैलपक्वं मिष्टान्नं शूद्रसंस्कृतम् ।
अभक्ष्यं ब्राह्मणानां च शूद्रभक्ष्यं च पीठकम् ।। ३२ ।।

सर्वेषामशुचीनां च जलमन्नं परित्यजेत् ।
आशौचान्तात्परदिने शुद्धमेव न संशयः ।। ३३ ।।

विपाकं कर्मणामेव दुष्करं श्रुतिसंमतम् ।
भक्ष्याभक्ष्यं च कथितं यथाज्ञानं व्रचेश्वर ।। ३४ ।।

क्रमाच्चतुर्षु वेदेषु चौक्तं मतचतुष्टयम् ।
सर्वेषां सारभूतं च कथयामि पितः शृणु ।। ३५ ।।

नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।। ३६ ।।

तीर्थानां च सुराणां च सहायेन नृणामपि ।
किंचिद्भवति साहाय्यं कायव्यूहेन सर्वतः ।। ३७ ।।

प्रायश्चितानि चीर्णानि निश्चितममत्पराङमुखम् ।
न निष्पुनन्ति हे तात सुराकुम्भमिवाऽऽपगाः ।। ३८ ।।

प्रायश्चित्तेन पुण्येन न हि शुध्यन्ति मानवा ।
सर्वारम्भेण वैश्येन्द्र दानेन योगतोऽपि वा ।। ३९ ।।

शुभाशुभं च यत्कर्म विना भोगान्न च क्षयः ।
भोगेन शुद्धिमाप्नोति ततो मुक्तिर्भवेन्नृणाम् ।। ४० ।।

न नष्टं दुष्कृतं कर्म सुकृतेन च कर्मणा ।
न नष्टं सुकृतं कर्म कृतेन दुष्कृतेन च ।। ४१ ।।

यज्ञेन तपसा वाऽपि व्रतेनानशनेन च ।
तीर्थस्नानेन दानेन जपेन नियमेन च ।। ४२ ।।

भुवः प्रदक्षिणेनैव पुराणश्रवणेन च ।
उपदेणेन पुण्येन पूजया गुरुदेवयोः ।। ४३ ।।

स्वधर्माचरणेनैवातिथीनां पूजनेन च ।
ब्रह्मणां पूजनेनैव भोजनेन विशेषतः ।। ४४ ।।

यद्धत्तमपि विप्राय तत्प्राप्तं पूर्णरूपतः ।
बीजरूपं च तद्दानं क्षेत्ररूपं च ब्रह्मणः ४५
एकेन कर्मणा तात स्वर्गं प्राप्नोति मानवः ।
कर्मणा न हि मोक्षं च तदेव मम सेवया ।। ४६ ।।

स्वर्गं च सुकृतेनैव नरकं दुष्कृतेन च ।
व्याधिर्जन्म च योनौ च कुत्सिते च ततः शुचिः ।। ४७ ।।

गोघ्नो यो ब्राह्मणानां च कामतश्चोपपातकी ।
दन्दशूकत्वमाप्नोति गोलोमसमवर्षकम् ।। ४८ ।।

सर्पेण भक्षितस्तेन च्वालया गरलस्य च ।
तृषितो व्यथितश्चैव निराहारः कृशोदरः ।। ४९ ।।

ततः कुण्डात्समुत्थाय गौर्भवेल्लोमवर्षकम् ।
ततः कुष्ठी च चाण्डालो वर्षलक्षंततो नरः ।। ५० ।।

तदा भवेद्ब्राह्मणश्च कुष्ठयुक्तो हि कर्मणा ।
भोजयित्वा विप्रलक्षं निर्व्याधिश्च भवेच्छुचिः ।। ५१ ।।

अकामतस्तदर्धं च क्षत्रियस्यापि कामतः ।
अकामतस्तदर्धं च तदर्धं च विशस्तथा ।। ५२ ।।

तदर्ध शूद्रगोघ्नश्च भुङ्क्ते पापं न संशयः ।
प्रायश्चित्तेन शुद्धश्च भुङ्क्ते शेषं च कर्मणः ।। ५३ ।।

अनुकल्पे चतुर्थं च पापं भुङ्क्ते न संशयः ।
चतुर्गुणं च गोघ्नानां ब्राह्मणानां च पातकम् ।। ५४ ।।

भुङ्क्ते पापं च ब्रह्मन्नो ब्राह्मणाश्चेतरोऽपि वा ।
क्रमेणानेन बोध्यं च कामतोऽकामतोऽपि वा ।। ५५ ।।

प्रायश्चित्तं जन्म कर्म व्याधिरेव प संशयः ।
गोघ्नो भवति गौश्चापि यावद्वर्ष च निश्चितम् ।। ५६ ।।

चतुर्गुणं च तेषां च ब्रह्मघ्नो विट्कृमिर्भवेत् ।
ततो भवति म्लेच्छश्च तावद्वर्षचतुर्गुणम् ।। ५७ ।।

ततश्चान्धो भवेद्विप्रः पूर्वेषां च चतुर्गुणम् ।
ब्रह्मणानां चतुर्लक्षं भोजयित्वा शुचिर्भवेत् ।। ५८ ।।

चक्षुष्मांश्च यशस्वी च भवेत्सोऽप्यतिपातकात् ।
स्त्रीघ्नचतुर्णां वर्णानां वेदे सोऽप्यतिपातकी ।। ५९ ।।

कालसूत्रं च प्राप्नोति स्त्रीलोमसमवर्षकम् ।
भक्षितः कृमिणा तत्र निराहारो व्यथायुतः ।। ६० ।।

ततो भवति लोके च तावद्वर्ष च पातकी ।
ततः पापी भवेत्सोऽपि यक्ष्मग्रस्तश्च कर्मणा ।। ६१ ।।

वर्षाणां शतकं चैव विप्रलक्षं च भोजयेत् ।
ततः शुद्धो ब्राह्मणश्च विद्वांस्तपसि संयतः ।। ६२ ।।

किंचिद्भुङक्ते पापशेषं स्वर्णदानाच्छुचिर्भवेत् ।
गर्भघ्नश्च महापापी संप्राप्नोति शुनीमुखम् ।। ६३ ।।

वर्षाणां सतकं चैव घोटकश्च भवेद्ध्रुवम् ।
वर्षाणां शतकं चैव सूक्ष्मशस्त्रेण पीडीतः ।। ६४ ।।

ततः पापी भवेद्वैश्यो द्रव्ययुक्तो हि कमंणा ।
पञ्चाशद्वर्षपर्यन्तं स्वर्णदानाद्भवेच्छुचिः ।। ६५ ।।

ततः स्वकुलजातोऽपि निर्व्याधिर्ब्राह्मणःशुचिः ।
ब्राह्मणः क्षत्रियघ्नश्च क्षत्रियो वा विना रणात् ।। ६६ ।।

तप्तशूलं च प्राप्नोति वर्षाणां च सहस्रकम् ।
क्वथितं तप्तलोहेन चाऽऽर्तनादं करोति च ।। ६७ ।।

ततो भवेन्मत्तगजो वर्षाणां शतकं तथा ।
ततो रक्तविकारी च शूद्रो वर्षशतं तथा ।। ६८ ।।

गजदानेन मुक्तश्च व्याधितश्च ततो द्विजः ।
वैश्यघ्नश्चापि वैश्यश्च शूद्रघ्नो वैश्य एव च ।। ६९ ।।

वैश्यघ्नश्चापि शूद्रश्च समं पापं लभेद्ध्रुवम् ।
कृमिकुण्डं च प्राप्नोति वर्षाणां शतकं तथा ।। ७० ।।

कृमिभिर्भक्षितो दुःशी किरातश्च भवेत्ततः ।
वर्षाणां शतकं चैव कृमिव्याधिसमन्वितः ।। ७१ ।।

ततो मन्दाग्नियुक्तश्च ब्राह्मणो दैन्यवान्व्रज ।
पञ्चाशद्वर्षपर्यन्तं दुर्बलश्च कृशोदरः ।। ७२ ।।

मुक्तिर्भवति युक्तेन तीर्थेचाश्वप्रदानतः ।
शूद्रघ्नो ब्रह्मणश्चैव कामतोऽकामतोऽपि वा ।। ७३ ।।

सावित्री लक्षयाप्येन तदर्धेन शुचिर्भवेत् ।
चतुर्वर्णः कुक्कुरघ्नो ह्यभिशप्तश्च शंभुना ।। ७४ ।।

वर्षाणां शतकं चैव प्राप्नोति रौरवं नरः ।
ततो भवेत्कुक्कुलश्च वर्षाणामपि षोडश ।। ७५ ।।

ततः शुद्धो भवेद्विप्रो भक्षितः कुक्कुरेणै च ।
गङ्गास्नानेन दानेन स्वर्णस्यापि भवेच्छुचिः ।। ७६ ।।

मार्जारघ्नश्चतुर्वर्णो गङ्गास्नानाद्भवेच्छुचिः ।
विप्राय लवणं दत्त्वा षट्पलं च प्रमुच्यते ।। ७७ ।।

हत्वा सर्पांश्चतुर्वर्णो मम पादेन चिह्नितान् ।
ब्रह्महत्याचतुर्थं च पातकं च लभेद्ध्रुवम् ।। ७८ ।।

असिपत्रं च नरकं वर्षांणां शतकं तथा ।
प्राप्नोति यातनायुक्तो विच्छिन्नस्तीक्ष्णधारया ।। ७९ ।।

ततो भवति सर्पश्च डुण्डुभो वर्षपञ्चकम् ।
नरेण ताडितो दुःखी मृत्योर्भवति पीडितः ।। ८० ।।

ततो भवेन्नरः पापी ज्वरयुक्तो हि दुर्बलः ।
वर्षाणां पञ्चकेनैव मृतो भवति कर्मणा ।। ८१ ।।

अश्वघ्नश्च गजघ्नश्च चतुर्वर्णश्च पातकी ।
वर्षाणां पञ्चकेनैव मृतो भवति कर्मणा ।। ८२ ।।

ततो भवति हस्ती च घोटको वा व्रजेश्वर ।
यावद्विंशतिवर्षाणि ततः शूद्रो भवेद्ध्रुवम् ।। ८३ ।।

अहंकृती व्याधियुक्तो रौप्यदानेन मुच्यते ।
ब्राह्मणानां च शतकं भोजयित्वा शुचिर्भवेत् ।। ८४ ।।

क्षुद्रजन्तुवधेनैव क्षुद्रजन्तुर्भवेन्नरः ।
वर्षाणां शतकं चैव क्षुद्रव्याधिं तरेत्ततः ।। ८५ ।।

कृपा कार्या सता शश्वतहिंस्रेषु च जन्तुषु ।
हिंसायां न हि दोषश्च हिंस्राणां च व्रजेश्वर ।। ८६ ।।

अश्वत्थघ्नश्चतुवंर्णो ब्रह्महत्याचतुर्थकम् ।
पापं च लभते तात चासिपत्रं व्रजेद्ध्रुवम् ।। ८७ ।।

स तीक्ष्णेनापि शस्त्रेण विच्छिन्नश्च दिवानिशम् ।
वर्षाणां शतकं चैव भुङ्क्ते परमयातनाम् ।। ८८ ।।

ततो भवति वृक्षश्च शालमलिरह्वर्षलक्षकम् ।
ततो भवति शूद्रश्च च्छिन्नाङ्गो व्याधिसंयुतः ।। ८९ ।।

यावज्जीवनपर्यन्तं ततो विप्रो भवेद्ध्रुवम् ।
व्रणव्याधिसमायुक्तो मुच्यते स्वर्णदानतः ।। ९० ।।

मिथ्यासाक्ष्यप्रदाता च कृतघ्नोऽतिकृतघ्नकः ।
विश्वासघाती मित्रघ्नो विप्राणां धनहारकः ।। ९१ ।।

शूद्रश्राद्धान्नभोजी च शूद्राणां शवदाहकः ।
शूद्राणां सूपकारश्च वृषवाहकपातकी ।। ९२ ।।

धावको देवलश्चापि चैतेऽतिपापिनस्तथा ।
कुम्भीपाकं प्रयान्तयेव वर्षाणां च सहस्रकम् ।। ९३ ।।

तत्रैव तप्ततैलेन संतप्तश्च दिवानिशम् ।
णक्षितो व्यथितश्चैव सर्वाकारेण जन्तुना ।। ९४ ।।

गृध्रः कोटिसमस्राणि शतजन्मानि शूकरः ।
श्वापदः शतजन्मानि शूद्रो रोगी भवेत्ततः ।। ९५ ।।

मन्दाग्निज्वरसंयुक्तः पञ्चाशद्वर्षकं तथा ।
सुवर्णानां शतपलं दत्तवा शुद्धो भवेद्ध्रुवम् ।। ९६ ।।

चतुर्वर्णो वस्त्रहारी गव्यहारी च मानवः ।
रौप्यमुक्तापहारी च शूद्रद्रव्यापहारकः ।। ९७ ।।

वर्षाणां च सहस्रं च बकजातिर्भवेद्ध्रुवम् ।
मुत्रकुण्डं च वै भुक्त्वा वर्षाणां शतकं तथा ।। ९८ ।।

ततो भवेच्छूद्रजातिर्वर्षाणां शतकं व्रज ।
कुष्ठव्याधिसमायुक्तो गलितश्चैव पातकी ।। ९९ ।।

ततो भवेद्ब्राह्मणश्च कुष्ठावशेषसंयुतः ।
स्वर्णषट्पलदानेन व्याधितो मुच्यते शुचिः ।। १०० ।।

शाकापहारकश्चैव फलापहारकस्तथा ।
यक्षः पृथिव्यां संभूतो लीलाद्रव्यापहारकः ।। १०१ ।।

वर्षाणां शतकं चैव चाषपक्षी भवेद्ध्रुवम् ।
ततो भवेत्कृष्णवर्णः शूद्रश्च भारते भुवि ।। १०२ ।।

ततो भवेद्ब्राह्मणश्चाप्यधिकाङ्गोऽपि जन्मनि ।
पुनर्जन्मद्विजो भूत्वा सुच्यते विप्रभोजनात् ।। १०३ ।।

पक्वद्रव्यापहारी च पशुयोनिर्भवेद्रध्रुवम् ।
यस्याण्डकोशो गन्धाक्तः कस्तूरी यस्य नाम च ।। १०४ ।।

सप्तजन्ममृगो भूत्वा ततो भवति गन्धकः ।
जन्मैकं च ततः शूद्रो गलत्कुष्ठी च जन्मनि ।। १०५ ।।

ततो रोगावशेषेण संयुतो ब्रह्मणः कृशः ।
स्वर्णषट्पलदानेन मुच्यते नात्र संशयः ।। १०६ ।।

धान्यापहारी दुःखी च कृपणः सप्तजन्मसु ।
विष्ठाकुण्डं वर्षशतं संप्राप्य मुच्यते भिया ।। १०७ ।।

स्वर्णापहारी कुष्ठी च मानव पतितो भवेत् ।
स्वर्णदानप्रतिग्राही विट्कुण्डं च प्रयाति य ।। १०८ ।।

ततो वर्षशतं भुक्त्वा पुरीषं च दिवानिशम् ।
ततो व्याघो भवेच्छूद्रो रक्तदोषेण संयुतः ।। १०९ ।।

तज्जन्मपातकं भुक्त्वा ब्राह्मणश्च पुनर्भवेत् ।
व्याधिरोषावयुक्तश्च मुच्यते स्वर्णदानतः ।। ११० ।।

अगम्यानां च गामी च पूर्वोक्तं रौरवं व्रजेत् ।
कुम्भीपाकं महाघोरं वर्षाणां चाप्यसंख्यकम् ।। १११ ।।

ततो भवेत्पुंश्चलीनां योनीनां च कृमिस्तथा ।
वर्षाणां च सहस्रं च विट्कृमिर्वर्षलक्षकम् ।। ११२ ।।

पशुयोनिर्भवेत्तस्मात्तस्माच्च क्षुद्रजन्तवः ।
ततो भवेन्म्लेच्छजातिस्ततः शूद्राधमस्तदा ।। ११३ ।।

ततो भवति विप्रश्च व्याधियुक्तो नपुंसकः ।
पुनश्च ब्राह्मणो भूत्वा तीर्थपर्यटनेन च ।। ११४ ।।

क्रमेण शुद्धो भवति वंशहीनश्च पातकात् ।
भोजयित्वा विप्रलक्षं पुत्रं च लभते शुचिः ।। ११५ ।।

मानवः क्रोधयुक्तश्च गर्दभः सप्तजन्मसु ।
मानवः कलहाविष्टः सप्तजन्मसु वायसः ।। ११६ ।।

शालग्रामप्रतिग्राही कालसूत्रं व्रजेद्ध्रुवम् ।
वर्षाणां शतकं चैव शञ्जरीटो भवेत्ततः ।। ११७ ।।

लोहचोरश्च निर्वशो मषीचोरश्च कोकिलः ।
शुकोऽप्यञ्जनचोनश्च मिष्टचोरः कृमिर्भवेत् ।। ११८ ।।

विप्रद्वेषी गुरुद्वेषी शिरसां च कृमिर्भवेत् ।
पुंश्चलीं कामिनीं तात भुक्त्वा च रौरवं व्रजेत् ।। ११९
ततो वृथा कृमिश्चैव वर्षाणां शतकं तथा ।
ततोऽपि विधवा चैव वन्ध्या च सप्तजन्मसु ।। १२० ।।

अस्पृश्या जातिहीना च च्चिन्ननासा भवेत्क्रमात् ।
रक्तद्रव्यापहानी च रक्तदोषान्वितो भवेत् ।। १२१ ।।

आचारहीनो यवनः खञ्जो भवति हिंसकः ।
अदीक्षितो वङ्खरश्च दुष्टदर्शो च काणकः ।। १२२ ।।

अहंकारी कर्णहीनो बधिरो वेदनिन्दकः ।
वाक्यहर्ता च मूकश्च हिंसकः केशहीनकः ।। १२३ ।।

मिथ्यावादी श्मश्रुहीनो दुर्वाक्यो दन्तहीनकः ।
चिह्वाहीनः सत्यहारी दुष्टोऽप्यङ्गुलिहीनकः ।। १२४ ।।

ग्रन्थापहारी मूर्खश्च व्याधियुक्तो भवेद्ध्रुवम् ।
अश्वग्राही च तच्चौरो लालामूत्रं व्रजेदिति ।। १२५ ।।

वर्षाणां च शतं स्छित्वा घोटकश्च भवेद्ध्रुवम् ।
गजचोरो गचग्राही विट्कुण्डे च सहस्रकम् ।। १२६ ।।

स्थित्वा वर्ष भवेद्धस्ती तत्पश्चाद्वृषलो भवेत् ।
अयज्ञे छागहन्ता च च्छागचोरप्रतिग्रही ।। १२७ ।।

पूयकुण्डे वर्षशतं स्थितवा चाण्डालतां व्रजेत् ।
छागश्च वर्षपर्यन्तं तदा भवति मानवः ।। १२८ ।।

शत्रुशस्त्रेणा च्छिन्नश्च तदा मुक्तो भवेद्द्विजः ।
दत्तापहारी वाग्दानं कृत्वाऽपहरते पुनः ।। १२९ ।।

स भवेन्मलेच्छयोनौ च भुक्त्वा च नरकं व्रजेत् ।
एकाकी मिष्टमश्नाति कालमूत्रं व्रजेद्ध्रुवम् ।। १३० ।।

तत्र वर्षशतं स्थित्वा प्रेदो वर्षसहस्रकम् ।
तदा भवति जन्मैकं मक्षिका च पिपीलिका ।। १३१ ।।

जन्मैकं भ्रमरश्यैव जन्मैकं मधुमक्षिका ।
जन्मैकं वरलश्चैव जन्मैकं दंश एव च ।। १३२ ।।

जन्मैकं मशकश्चैव जन्मैकं पूतिकं स्मृतम् ।
जन्मैकं तल्पकीटश्च तदा शूद्रो भवेद्ध्रुवम् ।। १३३ ।।

असद्बुद्धिर्व्याधियुक्तस्तदा मुक्तो भवेद्द्विजः ।
तैलचोरस्तैलकारो मूर्धिन कीटस्त्रिजन्मकम् ।। १३४ ।।

तदा भवेत्स्वर्णकारो जन्मैकं दुष्टमानसः ।
विश्वैकनिपिकर्ता च भक्ष्मदादुर्धनं हरेत् ।। १३५ ।।

तमःकुण्डे वर्षशतं स्थित्वा स्वर्णवणिग्भवेत् ।
जन्मैकं च दराचारो जन्मैकं करणो भवेत् ।। १३६ ।।

कायस्थेनोदरस्थेन मातुर्मासं न खादितम् ।
तत्र नास्ति कृपा तस्य दन्ताभावेन केवलम् ।। १३७ ।।

स्वर्णकारः स्वर्णवणिक् कायस्थश्च व्रजेश्वर ।
नरेषु मध्ये ते धूर्ताः कृपाहीना महीतले ।। १३८ ।।

हृदयं क्षुरधाराभं तेषां नास्ति च सादरम् ।
शतेषु सज्जनः कोऽपि कायस्थो नेतरौ च तौ ।। १३९ ।।

सुबुद्धिः शिवयुक्तश्च शास्त्रज्ञो धर्ममानसः ।
न विश्वसेत्तेषु तात स्वात्मकल्याणहेतवे ।। १४० ।।

सीमापहारी दुष्टश्च भूमिचोरश्च हिंसकः ।
भूमिदानापहारी च कालसूत्रं व्रजेद्ध्रुवम् ।। १४१ ।।

षष्टिवर्षसहस्रामि क्षटत्विवासार्दितः स्थितः
ततोऽपितानि नामानि विष्ठायां जायते कृमिः ।। १४२ ।।

ततो भवेदसच्छूद्रो जन्मैकं च ततः शुचिः ।
तस्माज्ज्ञानैः सावधानं भवेत्प्राज्ञश्च यत्नतः ।। १४३ ।।

रक्तवस्त्रापहारी च जन्मैकं रक्तकीट कः ।
ततः शूद्रश्च जन्मैकं ततो विप्रो भवेच्छुचि ।। १४४ ।।

त्रिसंध्यहीनो विब्रश्च प्रातःशायी च यो नरः ।
संध्याशायी दिवाशायी यज्ञसूत्रापहारकः ।। १४५ ।।

अशुद्धः संध्याकारी च वेदवेदाङ्गनिन्दकः ।
तद्विरुद्धः स्वर्गमार्गस्त्रिजन्मपतितो द्विजः ।। १४६ ।।

यः शूद्रो ब्राह्मणीगामी कुम्भीपाके व्रजेद्ध्रुवम् ।
वर्षाणां च त्रिलक्षं च पच्यते तत्र पीडितः ।। १४७ ।।

दिवानिशं प्रदग्धश्च तप्ततैले च दारुणे ।
ततौ भवेद्योनिकीटः पुंश्चलीनां च पातकी ।। १४८ ।।

षष्टिवर्षसहस्राणि चाऽऽहारं तस्य तन्मलम् ।
ततो भवति चाण्डालो जन्मलक्षं क्रमेण च ।। १४९ ।।

ततः शूद्रो गलत्कुष्ठी जन्मैकं च ततः शुचिः ।
सोऽपि विप्रो व्याधिशेषस्तीर्थपर्यटनाच्छुचिः ।। १५० ।।

असच्छूद्रश्च भवति सोऽस्थानेऽसूरपूजिते ।
दत्तवा देवाय नैवेद्यमपवित्रं च मानवः ।। १५१ ।।

सकेशं पार्थिवं लिङ्गं संपूज्य यवनो भवेत् ।
दुर्बलेन भवेदन्धः कुत्सितेन च कुत्सतिः ।। १५२ ।।

अङ्गहीनो दरिद्रश्च व्याधियुक्तश्च मानवः ।
अश्रद्धया च निर्माणे निर्माणसदृशं फलम् ।। १५३ ।।

मृद्भस्मगोशकृत्विण्डैस्तथा वालुकयाऽपि वा ।
कृत्वा लिङ्गं सकृत्पूज्य वसेत्कल्पायुषं दिवि ।। १५४ ।।

ततो भवति विप्रश्च महाब्रज्ञश्च भूमिमान् ।
राजा भवेद्भारते च लिङ्गानां शतपूजनात् ।। १५५ ।।

सहस्रपूजनात्सोऽपि लभते निश्चितं फलम् ।
स्थित्वा च सुचिरं स्वर्गे राजेन्द्रो भारते भवेत् ।। १५६ ।।

अयुते च तदीशश्च लक्षे च पृथिवीश्वरः ।
पूजने चातिभक्त्या चाप्यतिरिस्तं फलं लभेत् ।। १५७ ।।

तीर्थस्नानेन दानेन विप्राणां भोजनेन च ।
नारायणार्चया चैव विप्रजातिश्च कर्मणा ।। १५८ ।।

अतिरिक्तेन तपसा पण्डितो ब्राह्मणो भवेत् ।
पण्डितो ब्राह्मणश्चैव वैष्णवश्च जितेन्द्रियः ।। १५९ ।।

अनेकजन्मपुण्येन जायते भारते भुवि ।
तस्याङ्ध्रिस्पर्शनेनैव सद्यः पूता वसुंधरा ।। १६० ।।

तीर्थाः कुर्वन्ति तीर्थानि जीवनमुक्ताश्च वैष्णवाः ।
स्वपुंसां च सहस्रं च पुनन्तीति श्रुतौ श्रुतम् ।। १६१ ।।

पापेन वैद्यजन्मैव दुश्चिकित्सोऽपि ब्राह्मणः ।
दुश्चिकित्सस्तथा वैद्यो व्यालग्राही त्रिजन्मसु ।। १६२।।
अतिक्रूरो दुराचारो द्वेष्टा च सुरविप्रयोः ।
स भवेत्कुटिलव्यालो वर्षाणां च महस्रकम् ।। १६३ ।।

पुंश्चलीलम्पटानां च दूती या कामिनी व्रज ।
कालमूत्रे वर्षशतं स्थित्वा च गोधिका भवेत् ।। १६४ ।।

जन्मैकं गोधिका भूत्वा हरिणश्च त्रिजन्मसु ।
जन्मैकं महिषचैव जन्मैकं भल्लुको भवेत् ।। १६५ ।।

जन्मैकं गण्डकश्चैव सृगालश्च त्रिजन्मसु ।
परकीयतडागं च लुप्त्वा सस्यं ददाति च ।। १६६ ।।

स भवेन्नक्रजातिश्च कच्छपश्च त्रिजन्मसु ।
वृथा मांसं च यो भुङ्क्ते मत्स्यलुब्धश्च ब्राह्मणः ।। १६७ ।।

भुङ्क्ते मांसमदत्तं च स मीनश्च मृगो भवेत् ।
वर्षाणां च सहस्रं च तात भुक्त्वा च किल्बिषम् ।। १६८ ।।

कर्मभोगाच्छुचिर्भूत्वा स पुनर्ब्राह्मणो भवेत् ।
एकादशीविहीनश्च ब्राह्मणः पतितोभवेत् ।। १६९ ।।

भक्ष्यस्य द्विगुणं दत्त्वा तेन पापेन मुच्यते ।
मम जन्मदिने चैव यो भुङ्क्ते मानवोऽधमः ।। १७० ।।

त्रैलोक्यजनितं पापं सोऽपि भुङ्क्ते न संशयः ।
भुक्त्वा च नरकं सर्वं पश्चाच्चण्डालतां व्रजेत् ।। १७१ ।।

एवं च शिवरातौ च श्रीरामनवमीदिने ।
उपवासासमर्थश्च हविष्यान्नं समाचरेत् ।। १७२ ।।

ततोऽशक्तो दुर्बलश्च भोजयेद्ब्राह्मणानपि ।
कृत्वा महोत्सवं पुण्यं मदीयं पातकाच्छुचिः ।। १७३ ।।

तस्माद्यत्नेन कर्तव्यं नामसंकीर्तनं मम ।
गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः ।। १७४ ।।

श्वापदः शतजन्मानि कुह्वां च निशि भोजनात् ।
अदीक्षितो द्विजश्चैव शङ्खश्चिल्लः ।।
शुको भवेत् ।। १७५ ।।

अनुद्वाही द्विजश्चैव राजहंसो भवद्ध्रुवम् ।
चित्रवस्त्रापहारी च मयूरश्च त्रिजन्मसु ।। १७६ ।।

तेजःपत्रापहारी च भवेत्कारण्डवश्चिरम् ।
सुराणां प्रतिमाचोरोऽप्यन्धश्च सप्तचन्मसु ।। १७७ ।।

दरिद्रो व्याधियुक्तश्च बधिरश्चापि कुब्जकः ।
स्त्रीतैलमधुमांसानि रवौ वा पञ्चपर्वसु ।। १७८ ।।

सेवते यो महामूढो वज्रदंष्ट्रं व्रजेद्ध्रुवम् ।
पातकी दुःखितस्तत्र वर्षाणां च सहस्रकम् ।। १७९ ।।

ततो भवति म्लेच्छश्च चाण्डालः सप्तजन्मसु ।
व्यावियुक्तस्ततः शूद्रो ब्राह्मणश्च ततः शुचिः ।। १८० ।।

तस्माद्यत्नान्न भोक्तव्यं भारते धर्मभीरुणा ।
ब्राह्मणं च सुरं दृष्ट्वा न नमेद्यो नराधमः ।। १८१ ।।

यावज्जीवनपर्यन्तमशुचिर्यवनो भवेत् ।
अभ्युत्थानं न कुरुते दृष्ट्वा चाऽऽगतब्राह्मणम् ।। १८२ ।।

स भवेद्ब्रह्मघाती च सप्तजन्मसु निश्चितम् ।
शिवद्वेषी कुक्कुटश्च देवलः सप्तजन्ममु ।। १८३ ।।

पितृदेवान्चनं हन्ति वेदोक्तं ज्ञानदुर्बलः ।
स याति नरमं पापी वर्षाणां च सहस्रकम् ।। १८४ ।।

ततश्च रौरवं भुक्त्वा तीर्थकाकस्त्रिचन्मसु ।
त्रिजन्मसु शृगालश्च तीर्थे भुङ्क्ते शवं व्रज ।। १८५ ।।

त्रिजन्मसु भवेत्सोऽपि तीर्थेषु शवरक्षकः ।
शवानां करमादत्ते कर्मणा कृतपातकी ।। १८६ ।।

नित्यं सुरार्चनं कृत्वा दाम्भिको ज्ञानदुर्बलः ।
गुरुं च नार्चयेद्भक्त्या तस्मै नान्नं ददाति यः ।। १८७ ।।

स भवेद्देलो दुःखी देवशापेन पातकी ।
नित्यं सुरार्चनं कृत्वा दाम्भिको ज्ञानदुर्बलः ।। १८८ ।।

पूचाफलं न लभते देवद्रोही स दारुपाः ।
दीपनिर्वाणकर्ता च खद्योल सप्तचन्मसु ।। १८९ ।।

अतीव मत्स्यलब्धश्चाप्यनैवेद्यं च खादति ।
स भवेन्मत्स्यरङ्गश्च मार्जरिः सप्तजन्मसु ।। १९० ।।

गोणीहर्ता कपोतश्च मालाहर्ता विहंगमः ।
चटको धान्यचोरश्च मांसचोरश्च कुंजरः ।। १९१ ।।

कविः प्रहर्ता विदुषां माण्ड्रकः सप्तजन्मसु ।
असत्कविर्ग्रामविप्रो नकुलः सप्तजन्मसु ।। १९२ ।।

कुष्ठी भवेच्च जन्मैकं कृकलासस्त्रिजन्मसु ।
जन्मैकं वरलश्चैव ततो वृक्षपिपीलिका ।। १९३ ।।

ततः शूद्रश्च वैश्यश्च क्षत्रियो ब्राह्मणस्तथा ।
कन्याविक्रयकारी च चतुर्वर्णो हि मानवः ।। १९४ ।।

सद्यः प्रयाति तामिस्रं यावच्चन्द्रदिवाकरौ ।
ततौ भवति व्याधश्च मांसविक्रयकारकः ।। १९५ ।।

ततो व्याधि(धो)र्भवेत्पश्चाद्यो यथा पूर्वचन्मनि ।
मन्नामविक्रयी विप्रोन हि मुक्तो ।।
भवेद्ध्रुवम् ।। १९६ ।।

मृत्युलोके च मन्नामस्मृतिमात्रं न विद्यतेः ।
पश्चाद्भवेत्स गोयोनौ जन्मैकं ज्ञानदुर्बलः ।। १९७ ।।

ततश्चागस्ततो मेषो महिषः स्प्तचन्मसु ।
महाचक्री च कुटिलो धर्महीनस्तु मानवः ।। १९८ ।।

जन्मैकं तैलकारश्च कुम्भकालस्तथैव च ।
मिथ्याकलङ्कवक्ता च देवब्राह्मण निन्दकः ।। १९९ ।।

स भवेत्स्वर्णकारश्च रजकः सप्तजन्मसु ।
ब्राह्मणक्षत्रविट्शूद्राः कुत्सिताः शौचवर्जिताः ।। २०० ।।

जन्म तेषां मलेच्छयोनौ वर्षाणामयुतं तथा ।
अतीव कामिनीलुब्धः कामुकः स्त्रीरतः सदा ।। २०१ ।।

यक्ष्मग्रस्तो भवेत्सद्यः परत्रापि नपुंसकः ।
कामतो योषितां श्रोणीस्तनास्ये यश्च पश्यति ।। २०२ ।।

स भवेद्दृष्टिहीनश्च परत्रापि नपुंसकः ।
विप्रोऽभिचारकर्ता च हिंसको ज्ञानदुर्बलः ।। २०३ ।।

यात्येवमन्धतामिस्रं वर्षाणामयुतं तथा ।
तदा भवति दैवज्ञोऽप्यग्रदानी च दुर्मतिः ।। २०४ ।।

ततः शूद्रो भवेद्विप्रो भोगेन कर्मणस्तथा ।
शास्त्रज्ञाता च दैवज्ञो मिथ्या वदति लोभतः ।। २०५ ।।

स भवेच्च ध्रुवं ज्येष्ठी वानरः सप्तजन्मसु ।
अनेकजन्मतपसा भारते ब्राह्मणो भवेत् ।। २०६ ।।

सुबुद्धिरतिधर्मिष्ठो धर्महीनश्च पातकी ।
स्वधर्मनिरतो विप्रः परमाच्च हुताशनात् ।। २०७ ।।

पवित्रश्चातितेजस्वी तस्मद्भीताः सुराः सदा ।
नदीषु च यथा गङ्गा तीर्थेषु पुष्करं यथा ।। २०८ ।।

पुरीषु च यथा काशी यथा ज्ञानिषु शंकरः ।
शास्त्रेषु च यथा वेदा यथाऽश्वत्थश्च पादपे ।। २०९ ।।

मम पूजा तपस्यासु व्रतेष्वनशनं यथा ।
तथा जातिषु सर्वासु ब्राह्मणाः श्रेष्ठ एव च ।। २१० ।।

विप्रणदेषु तीर्थानि पुण्यानि च व्रतानि च ।
विप्रपादरजः शुद्धं पापव्याधिविमर्दनम् ।। २११ ।।

शुभाशीर्वचनं तेषां सर्वकल्याणकारणम् ।
एतत्ते कथितं तात विपाकः कर्मणामहो ।। २१२ ।।

यथाश्रुतं यथाज्ञातं तदशेषं निणामय।
शुत्वा धर्मविपाकं च वाचकाय सुवर्णकम् ।। २१३ ।।

दद्यात्तस्मै च रौप्यं च वस्त्रं ताम्बूलमेव च ।
सुवर्णशतकं दद्यात्सद्यो देही च गोकुलम् ।।
रौप्यं वस्त्रं च ताम्बूलं मत्प्रीत्या ब्राह्मणाय च ।। २१४ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo-
पञ्चाशीतितमोऽध्यायः ।। ८५ ।।