ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०७३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ७२ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ७३
[[लेखकः :|]]
अध्यायः ७४ →

अथ त्रिसप्ततितमोध्यायः
नारायण उवाच
अथ कृष्णश्च सानन्दं नन्दं तं पितरं बलः ।
बोधयामास शोकार्तं दिव्यैराध्यात्मिकादिभिः ।। १ ।।

उच्चै रुदन्तं निश्चेष्टं पुत्रविच्चेदकातरम् ।
दत्त्वा तस्मै मणिश्रेष्ठमित्युवाच जगत्पतिः ।। २ ।।

श्रीभगवानुवाच
निबोध नन्द सानन्दं त्यज शोकं मुदं लभ ।
ज्ञानं गृहाण मद्दत्तं यद्दतं ब्रह्मणे पुरा ।। ३ ।।

यद्यद्दत्तं च शोषाय गणेशायेश्वराय च ।
दिनेशाय मुनीशाय योगीशाय च पुष्करे ।। ४ ।।

कःकस्य पुत्रः कस्तातः का माता कस्यचित्कुतः।
आयान्ति यान्ति संसारं परं स्वकृतकर्मणा ।। ५ ।।

कर्मानुसाराज्जन्तुश्च जायते स्थानभेदतः ।
कर्मणा कोऽपि जन्तुश्च योगीन्द्राणां नृपस्त्रियाम् ।। ६ ।।

द्विजापत्न्यां क्षत्रियाणां वैश्यायां शूद्रयोनिषु ।
तिर्यग्योनिषु कश्चिच्च कश्चित्पश्वादियोनिषु ।। ७ ।।

ममैव मायया सर्वे सानन्दा विषयेषु च ।
देहत्यामे विषण्णाश्च विच्छेदे बान्धवस्य च ।। ८ ।।

प्रजाभूमिधनादीनां विच्छेदो मरणाधिकः ।
नित्यं भवति मूढश्च न च विद्वाञ्छुचा युतः ।। ९ ।।

मद्भक्तो भक्तियुक्तश्च मद्याजी विजितेन्द्रियः ।
मन्मन्त्रोपासकश्चैव मत्सेवानिरतः शुचिः ।। १० ।।

मद्भयाद्वाति वातोऽयं रविर्भाति च नित्यशः ।
भाति चन्द्रो महेन्द्रश्च कालभेदे च वर्षति ।। ११ ।।

वह्निर्वहति मृत्युश्च चरत्येव हि जन्तुषु ।
बिभर्ति वृक्षः कालेन पुष्पापि च फलानि च ।। १२ ।।

निराधारश्च वायुश्च वाय्वाधारश्च कच्चिपः ।
शेषश्च कच्छपाधारः शेषाधारश्च पर्वतः ।। १३ ।।

तदाधाराश्च पातालाः सप्त एव हि पङ्क्तितः ।
निश्चलं च जलं तस्माज्जलस्था च वसुंधरा ।। १४ ।।

सप्तस्वर्ग धराधारं ज्योतिश्चकं ग्रहाश्रयम् ।
निराधारश्च वैकुण्ठो ब्रह्माण्डेम्यः परो वरः ।। १५ ।।

तत्परश्चापि गोलोकः पञ्चाशत्को टियोजनात् ।
ऊर्ध्व निराश्रयश्चापि रत्नसारविनिर्मितः ।। १६ ।।

सप्तद्वारः सप्तसारः परिखासप्तसंयुतः ।
लक्षप्राकारयुक्तश्च नद्या विरजया युतः ।। १७ ।।

वेष्टितो रत्नशैलेन शतशृङ्गेण चारुणा ।
योजनायुतमानं च यस्यैकं शृङ्गमुज्ज्वलम् ।। १८ ।।

शतकोटियोजनश्च शैल उच्छ्रित एव च ।
दैर्ध्यं तस्य शतगुणं प्रस्थं च लक्षयोजनम् ।। १९ ।।

योजनायुतविस्तीर्णस्तत्रैव रासमण्डलः ।
अमूल्यरत्ननिर्माणो वर्तुलश्चन्द्रबिम्बवतु ।। २० ।।

पारिजातवनेनैव पुष्पितेन च वेव्टितः ।
कल्पवृक्षसहस्रेण पुष्पोद्यानशतेन च ।। २१ ।।

नानाविधैः पुष्पवृक्षैः पुष्पितेन च चारुणा ।
त्रिकोटिरत्नभवनो गोपीलक्षैश्च रक्षितः ।। २२ ।।

रत्नप्रदीपयुक्तश्च रत्नतल्पसमन्वितः ।
नानाभोगसमायुक्तो सधुवापीशतैर्वृतः ।। २३ ।।

पीयूषवापीयुक्तश्च कामभोगसमन्वितः ।
गोलोकगृहसंख्यानवर्णने वा विशारदः ।। २४ ।।

न कोऽपि वेद विद्वान्वा वेदविद्वान्व्रजेश्वरः ।
अमूल्यरत्ननिर्माणभवनानां त्रिकोटिभिः ।। २५ ।।

शोभितं सुन्दरं रम्यं राधाशिविरमुत्तमम् ।
अमूल्यरत्नकलशैरुज्ज्वलं रत्नदर्पणैः ।। २६ ।।

असूल्यरत्नस्तमभानां राजिभिश्च विराजितम् ।
नानाचित्रविचित्रैश्च चित्रितं श्वेतचामरैः ।। २७ ।।

माणिक्यमुक्तासंसक्तं हीरावारसमन्वितम् ।
रत्नप्रदीपसंसक्तं रत्नसोपानसुन्दरम् ।। २८ ।।

अमूल्यरत्नपत्रैश्च तल्पराजिविराजितम् ।
अमूल्यरत्नचित्रैश्च त्रिभिश्चित्रविचित्रितैः ।। २९ ।।

तिसृभिः परिखाभिश्च त्रिभिर्द्वारैश्च दुर्गमैः ।
युक्तं षोडशकक्षाभिः प्रतिद्वारेषु वाऽन्तरम् ।। ३० ।।

गोपीषोडशलक्षैश्च संनियुक्तैरितस्ततः ।
वह्निशुद्धांशुकाधानै रत्नभूषणभूषितैः ।। ३१ ।।

तप्तकाञ्चनवर्णाभैः शतचन्द्रसमन्वितैः ।
राधिकारिंकरीवर्गैर्युक्तमभ्यन्तरं वरम् ।। ३२ ।।

अमूल्यरत्ननिर्माणप्रङ्गणं सुमनोहरम् ।
अमूल्यरत्नस्तम्भानां समूरैश्च सुशोभितम् ।। ३३ ।।

रत्नमङ्गलकुम्भैश्च फलपल्लवसंयुतैः ।
संयुतं रत्नवेदीभिर्मुक्ता युक्ताभिरीप्सितम् ।। ३४ ।।

अमूल्यरत्नमुकुरैः शोभितं सुन्दरैरहो ।
अमूल्यरत्ननिर्माणं भवनानां वरं गृहम् ।। ३५ ।।

रत्नसिंहासनस्था च गोपीलक्षैश्च सेविता ।
कोटिपूर्णेन्दुशोभाढ्या श्वेतचम्पकसंनिभा ।। ३६ ।।

अमूल्यरत्ननिर्माणभूषणैश्च विभूषिता ।
अमूल्यरत्नवसना बिभ्रती रत्नदर्पणम् ।। ३७ ।।

रत्नपद्मं च रुचिरं सव्यदक्षिणहस्ततः ।
दाडिम्बकुसुमाकारं सिन्दूरं सुमनोहरम् ।। ३८ ।।

सुशोभितं सृगमदैरिष्टैश्चन्दनबिन्दुभिः ।
दधती कबरीभारं मालतीमल्यमण्डितम् ।। ३९ ।।

रचितं वामभगेन मुनीन्द्राणां मनोहरम् ।
एवंभूतं (ता) तत्र राधा गोपीभिः परिसेविता ।। ४० ।।

श्वेतचामरहस्ताभिस्तत्तुल्याभिश्च सर्वतः ।
अमूल्यरत्ननिर्माणैर्भूषिताभिश्च भूषणैः ।। ४१ ।।

मत्प्राणाधिष्ठातृदेवी देवीनां प्रवरा वरा ।
सुदाम्नः सा च शापेन वृषभानसुताऽधुना ।। ४२ ।।

शताब्दिको हि विच्छेदो भविष्यति मया सह ।
तेन भारावतरणं करिष्यसि भुवः पितः ।। ४३ ।।

तदा यास्यामि गोलोकं तया सार्धं सुनिश्चतम् ।
त्वया यशोदया चाऽपि गोबैर्गोपीभिरेव च ।। ४४ ।।

वृषभानेन तत्पत्न्या कलावत्या च बान्धवैः ।
एवं च नन्दं सानन्दं यशोदां कथयिष्यसि ।। ४५ ।।

त्यज शोक्रं महाभाग व्रजैः सार्धं व्रजं व्रज ।
अहमात्मा च साक्षी च निर्लिप्तः सर्वजीविषु ।। ४६ ।।

जीवो मत्प्रतिबिम्बश्च इत्येवं सर्वसंमतम् ।
प्रकृतिर्मद्विकारा च साऽप्यहं प्रकृतिः स्वयम् ।। ४७ ।।

यथा दुग्धे च धावल्यं न तर्योर्भैद एव च ।
यथा जले तथा शैत्यं यथा वह्नौ च दाहिका ।। ४८ ।।

यथाऽऽकाशे तथा शब्दो भूमौ गन्धो यथा नृप ।
यथा शोभा च चन्द्रे च यथा दिनकरे प्रभा ।। ४९ ।।

यथा दीवस्तथाऽऽत्माहं तथैव राधया सह ।
त्यज त्वं गोपिकाबुद्धिं राधायां मयि पुत्रताम् ।। ५० ।।

अहं सर्वस्य प्रभावः सा च प्रकृतिनीश्वरी ।
श्रूयतां नन्द सानन्दं मद्विभूतिं सुखावहाम् ।। ५१ ।।

पुरा या कथिता तात ब्रह्मणे व्यक्तजन्मने ।
कृष्णोऽहं देवतानां च गोलोके द्विभुजः स्वयम् ।। ५२ ।।

चतुर्भुजोऽहं वैकुण्ठे शिवलोके शिवः स्वयम् ।
ब्रह्मलोके च ब्रह्माऽहं सूयस्तेजस्विनामहम् ।। ५३ ।।

पवित्राणामहं वह्निर्जलमेव द्रवेषु च ।
इन्द्रियाणां मनश्चास्मि समीरः शीघ्रगामिनाम् ।। ५४ ।।

यमोऽहं दण्डकर्त णां कालः कलयतामहम् ।
अक्षराणामकारोऽस्मि साम्नां च साम एव च ।। ५५ ।।

इन्द्रश्चतुर्दशेन्द्रेषु कुबेरो धनिनामहम् ।
ईशानोऽहं दिमीशानां व्यापकानां नभस्तथा ।। ५६ ।।

सर्वान्तरात्मा जीवेषु ब्राह्मणश्चाऽऽश्रमेषु च ।
धनानां च रत्नमहममूल्यं सर्वदुर्लभम् ।। ५७ ।।

तैजसानां सुवर्णोऽहं मणीनां कौस्तुभः स्वयम् ।
वैष्णवानां कुमारोऽहं योगीन्द्राणां गणेश्वरः ।। ५८ ।।

पुष्पाणां पारिजातोऽहं तीर्थानां पुष्करः स्वयम् ।
शालग्रामस्तथाऽर्च्यानां पत्राणां तुलसीति च ।। ५९ ।।

सेनापतीनां स्कन्दोऽहं लक्ष्मणोऽहं धनुष्मताम् ।
राजेन्द्राणां च रामोऽहं नक्षत्राणामहं शशी ।। ६० ।।

मासानां मर्गशीर्षोऽहमृतूनामस्मि माधवः ।
वारेष्वादित्यवारोऽहं तिथिष्वेकादशीति च ।। ६१ ।।

सहिष्णूनां च पृथिवी माताऽहं बान्धवेषु च ।
अमृतं भक्ष्यवस्तूनां गव्येष्वाज्यमहं तथा ।। ६२ ।।

कल्पवृक्षश्च वृक्षाणां सुरभिः कामधेनुषु ।
गङ्गाऽहं सरितां मध्ये कृतपापविनाशिनी ।। ६३ ।।

वाणीति पण्डितानां च मन्त्राणां प्रणवस्तथा ।
विद्यासु बीजरूपोऽहं सस्यानां धान्यमेव च ।। ६४ ।।

अश्वत्थः फलिनामेव गुरूणां मन्त्रदः स्वयम् ।
कश्यपश्च प्रजेशानां गरुडः पक्षिणां तथा ।। ६५ ।।

अनन्तोऽहं च नागानां नराणां च नराधिपः ।
ब्रह्मर्षीणां भृगुरहं देवर्षीणां च नारदः ।। ६६ ।।

राजर्षीणां च जनको महर्षीणां शुकस्तथा ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनीः ।। ६७ ।।

बृहस्पतिर्बुद्धिमतां कवीनां शुक्र एव च ।
ग्रहाणां च शनिरहं विश्वकर्मा च शिल्पिनाम् ।। ६८ ।।

मृगाणां च मृगेन्दोऽहं वृषाणां शिववाहनम् ।
ऐरावतो गजेन्द्राणां गायत्री छन्दसामहम् ।। ६९ ।।

वेदाश्च सर्वशास्त्राणां वरुणो यादसामहम् ।
उर्वश्यप्सरसामेव समुद्राणां जलार्णवः ।। ७० ।।

सुमेरुः पर्वतानां च रत्नवत्सु हिमालयः ।
दुर्गा च प्रकृतीनां च देवीनां कमलालया ।। ७१ ।।

शतरूपा च नारीणां मत्प्रियाणां च राधिका ।
साध्वीनामपि सावित्री वेदमाता च निश्चितम् ।। ७२ ।।

प्रह्लादश्चापि दैत्यानां बलिष्ठानां बलिः स्वयाम् ।
नारायणर्षिर्भगवाञ्ज्ञानिनां मध्य एव च ।। ७३ ।।

हनूमान्वानराणां च पाण्डवानां धनंजयः ।
मनसा नागकन्यानां वसूनां द्रोण एव च ।। ७४ ।।

द्रोणो जलधराणां च वर्षाणां भारतं तथा ।
कामिनां कामदेवोऽहं रम्भा च कामुकीषु च ।। ७५ ।।

गोलोकश्चास्मि लोकानासुत्तमः सर्वतः परः ।
मातृकासु शान्तिरहं रतिश्च सुन्दरीषु च ।। ७६ ।।

धर्मोऽहं साक्षिणां मध्ये संध्या च वासरेषु च ।
देवेष्वहं च माहेन्दो राक्षसेषु विभीषणः ।। ७७ ।।

कालाग्निरुद्रो रुद्राणां संहारो भैरवेषु च ।
शङ्खेषु पाञ्चजन्योऽहमङ्गेष्वपि च मस्तकः ।। ७८ ।।

परं पुराणसूत्रेषु चाहं भागवतं वरम् ।
भारतं चेतिहासेषु पञ्चरात्रेषु कापिलम् ।। ७९ ।।

स्वायंभुवो मनूनां च मुनीनां व्यासदेवकः ।
स्वधाऽहं पितृपत्नीषु स्वाहा वङ्निप्रियासु च ।। ८० ।।

यज्ञानां नाजसूयोऽहं यज्ञपत्नीषु दक्षिणा ।
शस्त्रास्त्रज्ञेषु रामोऽहं जमदग्निसुतो महान् ।। ८१ ।।

पौराणिकेषु सूतोऽहं नीतिमत्स्वङ्गिरा मुनिः ।
विष्णुव्रतं व्रतानां च बलानां दैवमेव च ।। ८२ ।।

ओषधीनामहं दूर्वा तृणानां कुशमेव च ।
धर्मकर्मसु सत्यं च स्नेहपात्रेषु पुत्रकः ।। ८३ ।।

अहं व्याधिश्च शत्रूणां ज्वरो व्याधिष्वहं तथा ।
मद्भक्तिष्वपि मद्दास्यं वरेषु च वरः स्मृतः ।। ८४ ।।

आश्रमाणां गृहस्थोऽहं संन्यासी च विवेकिनाम् ।
सुदर्शनं च शस्त्राणां कुशलं च शुभाशिषाम् ।। ८५ ।।

एश्वर्याणां महाज्ञानं वैराग्यं च सुखेष्वहम् ।
मि (इ) ष्टवाक्यं प्रीतिदेषु दानेषु चाऽऽत्मदानकम् ।। ८६ ।।

संचयेषु धर्मकर्म कर्मणां च मदर्चनम् ।
कठोरेषु तपश्चाहं फलेषु मोक्ष एव च ।। ८७ ।।

अष्टसिद्धिषु प्राकाम्यमहं काशीपुरीषु च ।
नगरेषु तथा काञ्ची स देशो यत्र वैष्णवः ।। ८८ ।।

सर्वाधारेषु स्थूलेषु अहमेव महान्विराट् ।
परमाणुरहं विश्वे महासूक्ष्मेषु नित्यशः ।। ८९ ।।

वैद्यानामश्विनीपुत्रौ जौषधीषु रसायनम् ।
धन्वन्तरीर्मन्त्रविदां विषादः क्षयकारिणाम् ।। ९० ।।

रागाणां मेघमल्लारः कामोदस्तत्प्रियासु च ।
मत्पार्षदेषु श्रीदामा मद्वन्वुष्वहमुद्धवः ।। ९१ ।।

पशुजन्तुषु गौश्चहं चन्दनं काननेषु च ।
तीर्थपूतश्च पूतेषु निःशङ्केषु च वैष्णवः ।। ९२ ।।

न वैष्णवात्परः प्राणी मन्मन्त्रोपासकश्च यः ।
वृक्षेष्वङ्कुररूपोऽहमाकारः सर्ववस्तुषु ।। ९३ ।।

अहं च सर्वभूतेषु मयि सर्वे च संततम् ।
यथा वृक्षे फलान्येव फलेषु चाङ्कुरस्तरोः ।। ९४ ।।

सर्वकारणरूपोऽहं न च मत्कारणं परम् ।
सर्वेशीऽहं न मेऽपीशो ह्यहं कारणकारणम् ।। ९५ ।।

सर्वेषां सर्वबीजानां प्रवदन्ति मनीषिणः ।
मन्मायामोहितजना मां न जानन्ति पापिनः ।। ९६ ।।

पापग्रस्तेन दुर्बुद्ध्या विधिना वञ्चितेन च ।
स्वात्माऽहं सर्वजन्तूनां स्वाम्यहं नादृतः स्वयम् ।। ९७ ।।

यत्राहं शक्तयस्तत्र क्षुत्पिपासादयस्तथा ।
गते मयि तथा यान्ति नरदेहे (वे) यथाऽनुगाः ।। ९८ ।।

हे व्रजेश नन्द तात ज्ञानं ज्ञात्वा व्रजं व्रज ।
कथयस्व च तां राधां यशोदां ज्ञानमेव च ।। ९९ ।।

ज्ञात्वा ज्ञानं व्रजेशश्च जगाम स्वानुगैः सह ।
गत्वा च कथयामास ते द्वे च योषितां वरे ।। १०० ।।

ते च सर्वे जहः शोकं महाज्ञानेन नारद ।
कृष्णो यद्यपि निर्लिप्तो मायेशो मायया रतः ।। १०१ ।।

यशोदया प्रेरितश्च पुनरागत्य माधवम् ।
तुष्टाव परमानन्दं नन्दश्च नन्दनन्दनम् ।। १०२ ।।

सामवेदोक्तस्तोत्रेण कृतेन ब्रह्मणा पुरा ।
पुत्रस्य पुरतः स्थित्वा रुरोद च पुनः पुनः ।। १०३ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo नन्दादि-
णोकप्रमोचनं नाम त्रिसप्ततितमोऽध्यायः ।। ७३ ।।