ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०६६

विकिस्रोतः तः
← अध्यायः ६५ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ६६
[[लेखकः :|]]
अध्यायः ६७ →


अथ षटुषष्टितमोऽध्यायः
नारायण उवाच
अथ रासेश्वरीयुक्तो रासे रासेश्वरः स्वयम् ।
स च रेमे तया सार्धंमतीव रमणोत्सुकः ।। १ ।।

सुखसंभोगमात्रेण ययौ निद्रां च राधिका ।
दृष्ट्वा स्वप्नं समुत्वाय दीनोवाच प्रियं दिने ।। २ ।।

राधिकोवाच
अहो स्वामिन्निहाऽऽगच्छ त्वां करोमि स्ववक्षसि ।
परिणामे विधाता मे न जाने किं करिष्यति ।। ३ ।।

इत्युक्त्वा का महाभागा प्रियं कृत्वा स्ववक्षसि ।
दुःस्वप्नं कथायामास हृदयेन विदूयता ।। ४ ।।

राधिकोवाच
रत्नसिंहासनेऽहं च रत्नच्छत्रं च बिभ्रती ।
तदातपत्रं जग्राह रुषटो विप्रश्च मे प्रभो ।। ५ ।।

सागरे कज्जलाकारे महाघोरे च दुस्तरे ।
गभीरे प्रेरयामास मामेव दुर्बलां स च ।। ६ ।।

तत्र स्रोतसि शोकार्ता भ्रमामि च मुहुर्मुहुः ।
महोर्मीणां च वेगेन व्याकुला नक्रसंकुले ।। ७ ।।

त्राहि त्राहीति हे नाथ त्वां वदामि पुनः पुनः ।
त्वां न दृष्ट्वा महाभीता करोमि प्रार्थनां सुरम् ।। ८ ।।

कृष्ण तत्र निमज्जन्ती पश्यामि चन्द्रमण़्डलम् ।
निपतन्तं च गगनाच्छतखण्डं च भूतले ।। ९ ।।

क्षणान्तरे च पश्यामि गगनात्सूर्यंमण्डलम् ।
बभूव च चतुःखण्डं निपत्य धरणीतले ।। १० ।।

एककाले च गगने मण्डलं चन्द्रसूर्ययोः ।
अतीव कज्जलाकारं सर्वं ग्रस्तं च राहुणा ।। ११ ।।

क्षणान्तरे च पश्यामि ब्रह्मणो दीप्तिमानिति ।
सत्क्रोडस्थं सुधाकुम्भं बभञ्ज च रुषेति च ।। १२ ।।

क्षणान्तरे च पश्यामि महारुष्टं च ब्राह्मणम् ।
गृहीत्वा च व्रजन्तं च चक्षुषोः पुरुषं मम ।। १३ ।।

क्रीडाकमलदण्डं च हस्ताद्ध्वस्तं मम प्रभो ।
सहसा खण्डशण्डं च बभूव सह हेतुना ।। १४ ।।

हस्ताद्ष्वस्तश्च सहसा सद्रत्नसारदर्पणः ।
निर्मलः कज्जलाकारः खण्डकण्डो बभूव ह ।। १५ ।।

हारो मे रत्नमाराणां छिन्नो भूत्वा च वक्षसः ।
अतीव मरिनं पद्मं पपात धरणीतले ।। १६ ।।

सौधपुत्तलिकाः सर्वा नृत्यन्ति च हसन्ति च ।
आस्फोटयन्ति गायन्ति रुदन्ति य क्षणं क्षणम् ।। १७ ।।

कृष्णवर्णं बृहच्चक्रं खे भ्रमन्तं मुहुर्मुहुः ।
निपतन्तं चोत्पतन्तं पश्यामि च भयंकरम् ।। १८ ।।

प्राणाधिदेवः पुरुषो निःसृत्याम्यन्तरान्मम ।
राधे विदायं देहीति ततो यामीत्युवाच ह ।। १९ ।।

कृष्णवर्णा च प्रतिमा मामाश्लिष्यति चुम्बति ।
कृष्णवस्त्रपरीधाना चेति पश्यामि सांप्रतम् ।। २० ।।

इतीदं विपरीतं च दृष्टावा च प्राणावल्लभ ।
नृत्यन्ति तक्षिणाङ्गानि प्राणा आन्दोलयन्ति मे ।। २१ ।।

रुदन्ति शोकात्कर्षन्ति समुद्विग्नं च मानसम् ।
किमिदं किमिदं नाथ वद वेदविदां वर ।। २२ ।।

इत्युक्त्वा राधिका देवी शुष्ककण्ठोष्ठतालुका ।
पपात तत्पदाम्भोजे भीता स शोकविङ्वला ।। २३ ।।

श्रुत्वा स्वप्नं जगन्नाथो देवीं कृत्वा स्ववक्षमि ।
आध्यात्मिकेन योगेन वोधयामास तत्क्षणम् ।। २४ ।।

त्तयाच शोकं स देवी ज्ञानं संप्राप्य निर्मलम् ।
शान्तं च भगवंतं च कृत्वा कान्तं स्ववक्षसि ।। २५ ।।

इतिo श्रीब्रह्मo महाo श्रीकृष्णजान्मखo उत्तo नारदनाo राधाशोका-
पनोदने षट्षष्टितमोऽध्यायः ।। ६६ ।।