ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०५७

विकिस्रोतः तः
← अध्यायः ५६ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ५७
[[लेखकः :|]]
अध्यायः ५८ →

अथ सप्तपञ्चाशत्तमोऽध्यायः
नारायण उवाच
देवानां स्तवनं श्रुत्वा त्यक्तवा च रोदनं सती ।
उवाच सुप्रसन्ना तांस्तेषां स्तोत्रेण नारद ।। १ ।।

महालक्ष्मीरुवाच
त्यजामि देहं न क्रोधान्न वैराग्योण सांप्रतम् ।
इदं हृदि समालोच्य देवास्तच्छ्ूयतामिति ।। २ ।।

यस्मिन्सदीशे महति सर्वसाम्यो च निर्गुणे ।
सर्वात्मनि सदानन्दे समता तृणशैलयोः ।। ३ ।।

भ्रूभङ्गलीलया लक्ष्मीर्लक्षं स्रष्टुमलं च यः ।
भृत्ये स्त्रियां यत्समता किं कार्य तस्च सेवया ।। ४ ।।

तत्पत्नीनां प्रधानाऽहं नीरस्ता द्वारिणाऽधुना ।
तद्भृत्यभृत्यभृत्येन परिपूर्णेन नेप्सिता ।। ५ ।।

त्यक्ष्यामि जीवनमहमसौभाग्या च स्वामिनि ।
वह्नौ च कामनां कृत्वा यथा भद्रं भवेत्पुरा ।। ६ ।।

या स्त्री भर्तुरसौभाग्या साऽसौभाग्या च सर्वतः ।
शयनेऽभोजने तस्या न सुखं जीवनं वृथा ।। ७ ।।

यस्या नास्ति प्रियप्रेम तस्या जन्म निरर्थकम् ।
तर्त्कि पुत्रे धने रुपे संपत्तौ यौवनेऽथवा ।। ८ ।।

यद्भक्तिर्नास्ति कान्ते च सर्वप्रियतमे परे ।
साऽशुचिर्धर्महीना च सर्वकर्मविवर्जिता ।। ९ ।।

पतिर्बन्धुर्गतिर्भर्ता दैवतं गुरुरेव च ।
सर्वक्माच्च परः स्वामी न गुरुः स्वामिनः परः ।। १० ।।

पितामाता सुतो भ्राता क्लिष्टो दातुमिदं धनम् ।
सर्वस्वदाता स्वामी च मूढानं योषितां सुराः ।। ११ ।।

काचिदेव हि जानाति महासाध्वी च स्वामिनम् ।
अतिसद्वंशजाता च सुशीला कुलपालिका ।। १२ ।।

आसद्वंशप्रसूता या दुःशीला धर्मवर्जिता ।
मुखदुष्टा योनिदुष्टा पतिं निन्दति कोपतः ।। १३ ।।

या स्त्री सर्वपरं द्वेष्टि पतिं विष्णुसमं गुरुम् ।
कुम्भीपाके पचति सा यावदिन्द्राश्चतुर्दश ।। १४ ।।

व्रतं चानशनं दानं सत्यं पुष्यं तपश्चिरम् ।
पतिभक्तिविहीनाया भस्मीभूतं निरर्थकम् ।। १५ ।।

अतः रिंचिन्न वक्ष्यामि निष्ठुरं पतिमीश्वरम् ।
भृत्यापराधैर्देवस्य प्राणांस्तयक्ष्यामि निश्चितम् ।। १६ ।।

पतिदोषे महासाध्वी पतिं न निष्ठुरं वदेत् ।
यदि सोढुमशक्ता च प्राणांस्त्यजति धर्मतः ।। १७ ।।

पतिसेवा व्रतं स्त्रीणां पतिसेवा परं तपः ।
पतिसेवा परो धर्मः पतिसेवा सुरार्चनम् ।। १८ ।।

पतिसेवा परं सत्यं दानतौर्थानुकीर्तनम् ।
सर्वदेवमयः स्वामी सर्वदेवमयः शुचिः ।। १९ ।।

सर्वपुण्यस्वरुपश्च पतिरुपी जनार्दनः ।
या सतीभर्तुरुच्छिष्टं भुङ्क्तै पादोदकं सदा ।। २० ।।

तस्या दर्शमुपस्पर्श नित्यं वाञ्छन्ति देवताः ।
ततः सर्वाणि तीर्यानि पुनन्ति पापिनो ह्यघात् ।। २१ ।।

इत्युक्त्वा च महासाध्वी रुरोद च सुहुर्मुहुः ।
उवाच ब्रह्मा भीतश्च भक्तिनम्रात्मकंधरः ।। २२ ।।

ब्रह्मोवाच
भविष्यति न भद्रं च जयस्य विजयस्य च ।
त्वया न शप्तौ तौ मूढौ प्रियापराधभौतया ।। २३ ।।

सापराधं च धर्मिष्ठः क्षमया न शपेद्यदी ।
सर्वनाशो भवेत्तस्य निश्चितं मा चिरं सति ।। २४ ।।

यदि शप्तुं न शक्तश्च न द्ण्डं कर्तुमीश्वरः ।
सापराधे च पुरुषे धर्मो दण्डं करोति च ।। २५ ।।

सर्वं क्षमस्व हे मार्तगच्छ प्रियान्तिकम् ।
मां च त्वत्स्वामिनोभक्तं नियोज्य कृष्टिकर्मणि ।। २६ ।।

इत्युक्त्वा तां पुरस्कृत्वा सार्ध देवैर्मुनीन्द्रकैः ।
शीघ्रं जगाम वैकुण्ठं वैकुण्ठं स्तोतुमीश्वरः ।। २७ ।।

तत्र गत्वा जगत्रायं तुष्टाव कमलासनः ।
चतुर्वक्त्रैश्चतुर्वक्त्रश्चतुर्वेदविदां गुरुम् ।। २८ ।।

ब्रह्मणः क्तवनं श्रुत्वा दृषट्वा लक्ष्मीं पुरः सराम् ।
रुदतीं नम्रवदनामुवाच कमलापतिः ।। २९ ।।

श्रीभगवानुवाच
सर्वं जानामि सर्वज्ञः सर्वात्मा सर्वपालकः ।
सर्वशास्ता च सर्वादिकारणं कमलोद्भव ।। ३० ।।

भक्ते कलत्रे बन्धौ च सर्वत्र समता मम ।
विशेषतोऽतिमद्भक्तः कलत्रात्पर एव च ।। ३१ ।।

मद्भक्तौ तव पुतौ च द्वारपालौ दुरन्तकौ ।
क्षम मामपराथं च तयोश्च भक्तिपूर्णयोः ।। ३२ ।।

मद्भक्तिपूर्णो बलवान्दैत्यैभ्यो न बिभेति च ।
रक्षितो मम चक्रेण भक्तिमाध्वीकदुर्मदः ।। ३३ ।।

इत्युक्त्वा जगतां नायो लक्ष्मीं कृत्वा स्ववक्षसि ।
समानीय द्वारणकं तमुवाचेदमेव च ।। ३४ ।।

मा भैर्वत्स सुखं तिष्ठ भयं कि ते मयि स्थिते ।
मद्भक्तानां च कः शास्ता गच्छ वत्साऽऽत्मनः पदम् ।। ३५ ।।

इत्युक्तवा भगवांस्तत्र विरराम महामुने ।
ययुर्देवाश्च स्वस्थातं प्रणम्य जगदीश्वरम् ।। ३६ ।।

नारायणवचः श्रुत्वा द्वारापाल उवाच तम् ।
पुलकाञ्चितसर्वाङ्गो भक्तिनम्रात्मकंधरः ।। ३७ ।।

जय उवाच
नाहं बिभेमि देवंश्च लक्ष्मीं सुनिगणांस्तथा ।
त्वदीयचरणाम्भोजध्यानैकतानमानसः ।। ३८ ।।

इति श्रीब्लह्मo महाo श्रीकृष्णजन्मखo नारदनाo उत्तo लक्षमी-
वैराग्यमोचनं नाम सप्तपञ्चाशत्तमोऽध्यायः ।। ५७ ।।