ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०३३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३२ श्रीकृष्णजन्मखण्डः
अध्यायः ०३३
वेदव्यासः
अध्यायः ०३४ →

श्रीकृष्ण उवाच ।।
कृत्वा ब्रह्मा हरेः स्तोत्रं तस्थौ तस्याः समीपतः ।।
मनोमत्तगजेन्द्रं च कामासक्तं निवारयन् ।। १ ।।
दिव्यज्ञानांकुशे नैव मया दत्तेन राधिके ।।
उवाच मोहिनी तं च परिहासपरं वचः ।। २ ।।
मोहिन्युवाच ।। इङ्गितेनैव नारीणां सद्यो मत्तं भवेन्मनः ।।
करोत्याकृष्य संभोगं यः स एवोत्तमो विभो ।। ३ ।।
ज्ञात्वा स्फुटमभिप्रायं नार्या संप्रेषितो हि यः ।।
पश्चात्करोति शृङ्गारं पुरुषः स च मध्यमः ।। ४ ।।
पुनःपुनः प्रेषितश्च स्त्रिया कामार्तया च यः ।।
तया न लिप्तो रहसि स क्लीबो न पुमानहो ।।५।।
गृही तपस्वी कामी वा त्यजेत्स्त्रियमुपस्थिताम् ।।
व्रजेत्परत्र नरकमपूज्यश्च भवेदिह ।।६।।
नष्टश्रीर्भ्रष्टरूपश्च भ्रष्टबुद्धिर्भवेद् ध्रुवम्।।
स सद्यः क्लीबतां याति ब्रह्मञ्छापेन योषितः।।७।।
उत्तिष्ठ जगतीनाथ पारं कुरु स्मरार्णवे ।।
निमग्नां दुस्तरे घोरे कर्णधार भयानके ।।८।।
अतीव निर्जनस्थाने सर्वजन्तुविवर्जिते ।।
सुगन्धिवायुना रम्ये पुंस्कोकिलरुतश्रुते ।। ९ ।।
सततं त्वन्मनस्कां मां दासीं जन्मनि जन्मनि ।।
क्रीणीहि रतिपण्येनामूल्यरत्नेन सत्वरम् ।।4.33.१० ।।
इत्युक्त्वा मोहिनी सद्यो जगत्स्रष्टुश्च ब्रह्मणः ।।
विचकर्ष वरं वस्त्रं सस्मिता कामविह्वला ।। ११ ।।
विज्ञाय समयं धाता तामुवाच भयातुरः ।।
पीयूषतुल्यं वचनं वरं विनयपूर्वकम् ।। १२ ।।
ब्रह्मोवाच ।।
शृणु मोहिनि मद्वाक्यं सत्यसारं हितं स्फुटम् ।।
न कुरु त्वं च त्रैलोक्ये स्त्रीजातीनामपत्रपाम् ।। १३ ।।
त्यज मामम्बिके पुत्रं वृद्धं निष्काममेव च ।।
त्वत्कर्मयोग्यरसिकं युवानं पश्य सुस्मिते ।। १४ ।।
निषेकाल्लभते पत्नी गुरुं भर्तुः शुभाशुभम् ।।
मन्त्रशिल्पमपत्यं च सर्वमेतन्न यत्नतः ।। १५ ।।
त्वया सह मम रते निबन्धो नास्ति सुव्रते ।।
क्षुद्रं महद्वा यत्कर्म सर्वदैवनिबन्धकम् ।।१६।।
इत्युक्तवन्तं ब्रह्माणं स्मरन्तं मत्पदाम्बुजम्।।
विचकर्ष पुनर्वेश्या कामेन हतचेतना ।।१७।।
एतस्मिन्नन्तरे शीघ्रं स्थानं तत्सुमनोहरम्।।
आजग्मुर्मुनयः सर्वे ज्वलन्तो ब्रह्मतेजसा ।।१८।।
अत्रिः पुलस्त्यः पुलहो वसिष्ठः क्रतुरंगिराः।।
भृगुर्मरीचिः कपिलो वोढुः पञ्चशिखो रुचिः ।। १९ ।।
आसुरिश्च प्रचेताश्च स्वयं शुक्रो बृहस्पतिः ।।
उतथ्यः करकः कण्वः कश्यपो गौतमस्तथा ।। 4.33.२० ।।
सनकश्च सनन्दश्च कर्दमश्च सनातनः ।।
सनत्कुमारो भगवान्योगिनां परमो गुरुः ।। २१ ।।
शातातपः पिप्पलश्च शंकुः शुक्रः पराशरः ।।
मार्कण्डेयो लोमशश्च मृकण्डुश्च्यवनस्तथा ।। २२ ।।
दुर्वासाश्च जरत्कारुरास्तीकश्च विभाण्डकः ।।
ऋष्यशृङ्गो भरद्वाजो वामदेवश्च कौशिकः ।। २३ ।।
दृष्ट्वैतांश्च तपोनिष्ठानागतांश्च मुनीश्वरान् ।।
तत्याज मोहिनी शीघ्रं व्रीडया कमलोद्भवम् ।। २४ ।।
तत्रोवास जगद्धाता तद्धामपार्श्वतश्च सा ।।
प्रणेमुर्मुनयस्तं च भक्तिनम्रात्मकन्धराः ।। २५ ।।
आशिषं युयुजे ब्रह्मा वासयामास तान्विभुः ।।
तेषु मध्ये प्रजज्वाल यथा तारासु चन्द्रमाः ।। २६ ।।
पप्रच्छुर्मुनयो देवं कथमेषा तवान्तिके।।
स्वर्वेश्यानां च प्रवरा मोहिनीत्येवमेव च ।। २७ ।।
श्रुत्वा मुनीनां वचनमुवाच तान्प्रजापतिः ।।
स्त्रीजातीनां च वचनं लज्जाच्छादनमेव च ।। २८ ।।
।। ब्रह्मोवाच ।।
अपूर्वं नृत्यगीतं च चिरं कृत्वा शुभावहा ।।
उवासेयं परिश्रान्ता यथा कन्या पितुः पुरः ।।
इत्युक्त्वा जगतां धाता जहास मुनि संसदि ।। २९ ।।
जहसुर्मुनयः सर्वे सर्वज्ञास्तत्र राधिके ।।
सर्वं रहस्यं विज्ञाय जगत्स्रष्टुश्च मानसम् ।। 4.33.३० ।।
सद्यश्चुकोप कुलटा हास्यव्याजेन संसदि ।।
सर्वाङ्गकम्पमाना सा कुलटा कुटिलानना ।। ३१ ।।
रक्तपङ्कजनेत्रा च कोपप्रस्फुरिताधरा ।।
उत्थाय च सभामध्ये तेषां च पुरतः स्थिता ।।
संबोध्योवाच ब्रह्माणं मृत्युकन्या यथा रुषा ।। ३२ ।।
मोहिन्युवाच ।।
अये ब्रह्मञ्जगन्नाथ वेदकर्ता त्वमेव च ।। ३३ ।।
किं वा वेदप्रणिहितं कर्म किं तद्विपर्ययम् ।।
विचारं मनसा स्वेन कुरु वेदविदां गुरो ।। ३४ ।।
स्वकन्यायां यत्स्पृहा स कथं हससि नर्तकीम् ।।
निर्मिताऽहमीश्वरेण स्वर्वेश्या सर्वगामिनी ।। ३५।।
सतां कर्म विरुद्धं यत्तदत्यन्तविडम्बनम् ।।
दासीतुल्यां विनीतां च दैवेन शरणागताम् ।। ३६ ।।
यतो हससि गर्वेण ततोऽपूज्यो भवाचिरम् ।।
अचिराद्दर्पभङ्गं ते करिष्यति हरिः स्वयम् ।। ३७ ।।
निबोध वचनं ब्रह्मन्वेश्यायाश्च तु सांप्रतम् ।।
तवैव वचनं स्तोत्रं गृह्णाति यो नरः सदा ।। ३८ ।।
भविता तस्य विघ्नश्च स यास्यत्युपहास्यताम् ।।
भविता वार्षिकी पूजा देवतानां युगेयुगे ।। ३९ ।।
तव माघ्यां च संक्रान्त्यां न भविष्यति सा पुनः ।।
कल्पान्तरेऽत्र कल्पे वा देहे देहांतरेऽत्र वा ।। 4.33.४० ।।
पुनः पूजा न भविता या गता सा गतैव च ।।
इत्युक्त्वा मोहिनी शीघ्रं जगाम मदनालयम् ।। ४१ ।।
तेन सार्द्धं रतिं कृत्वा बभूव विज्वरा पुनः ।।
पश्चात्सा चेतनां प्राप्य विललाप भृशं पुनः ।। ४२ ।।
अयं कथं मया शप्तो जगद्विधिरतिप्रियः ।।
स्वर्वेश्यायां गतायां च मुनयो दुःखिता भृशम् ।। ४३ ।।
स्वयं विधाता जगतां चकम्पे नतकन्धरः ।।
उपायं मुनयस्तस्मै ददुः कल्याणकारिणः ।। ४४ ।।
शरणं व्रज वैकुण्ठमित्युक्त्वा ते गृहान्ययुः ।।
ब्रह्मा जगाम शरणं मम मूर्त्यन्तरं परम् ।। ४५ ।।
शान्तं तं कमलाकान्तं श्यामं नारायणाभिधम्।।
गत्वा विषष्णवदनः प्रणम्य च चतुर्भुजम् ।। ४६ ।।
तत्रोवास जगत्कर्ता नातिदूरे समीपतः ।।
रहस्यं कथयामास शुष्ककण्ठोष्ठतालुकः ।। ४७ ।।
दीनबन्धुं दयासिन्धुं विपत्तारणकारणम् ।।
श्रुत्वा रहस्यं तत्सर्वं प्रहस्योवाच तं विभुः ।।
सत्यं सारं हितं वाक्यं जगतां च सुखावहम् ।। ४८ ।।
श्रीनारायण उवाच ।।
स्वयं त्वं वेदविदसि विदुषां च गुरोर्गुरुः ।। ४९ ।।
त्वया कृतं च यत्कर्म इह केन न तत्कृतम् ।।
स्त्रीजातिः प्रकृतेरंशा जगतां बीजरूपिणी ।। 4.33.५० ।।
स्त्रीणां विडम्बनेनैव प्रकृतेश्च विडम्बनम् ।।
न तद्भारतवर्षं च पुण्यक्षेत्रमनुत्तमम् ।। ५१ ।।
क्रीडाक्षेत्रे ब्रह्मलोके कस्तवेन्द्रियनिग्रहः ।।
यदि तद्भारते दैवात्कामिनी समुपस्थिता ।। ५२ ।।
स्वयं रहसि कामार्ता न सा त्याज्या जितेन्द्रियैः ।।
त्यक्त्वा परत्र नरकं व्रजेदतिविडम्बितः ।। ५३ ।।
भवेदेव हि दुःखार्ता शापं दद्याच्च तं ध्रुवम् ।।
विहाय स्वकलत्रं च यो गृह्णाति परस्त्रियम् ।। ५४ ।।
लोभात्कामसुखाद्वाऽपि सोऽधमो नात्र संशयः ।।
पातयित्वा स च पतेद्दश पूर्वान्दशापरान् ।। ५५ ।।
त्यक्त्वा स्वस्वामिनं या च परं गच्छति कामतः ।।
न पुमान्न च वेश्या च कुलस्त्री तत्र दुष्यति ।। ।। ५६ ।।
उपायेन च या साध्यं करोति परपूरुषम् ।।
तिष्ठत्येवान्धकूपे सा यावच्चन्द्रदिवाकरौ ।। ५७ ।।
स्वर्वेश्या च दिवं याति सततं कुलधर्मतः ।।
ध्रुवं भवेत्सोऽपराधी तस्या अप्यवमानतः ।। ५८ ।।
तमुपायं करिष्यामि शप्तो यत्र विशुद्ध्यति ।।
क्षणं तिष्ठ जगन्नाथ पापिनश्च भवार्णवे ।। ५९ ।।
एतस्मिन्नंतरे कश्चिदाजगाम हरेः पुरः ।।
द्वारपालः शीघ्रगामीत्युवाच नतकन्धरः ।। 4.33.६० ।।
द्वारपाल उवाच ।।
अन्यब्रह्माण्डाधिपतिर्ब्रह्मा दशमुखः स्वयम् ।।
द्वारे तिष्ठन्महाभक्तस्त्वां द्रष्टुं स्वयमागतः।। ६१ ।।
द्वारपालवचः श्रुत्वा स चैवानुमतिं ददौ ।।
द्वारपालाज्ञया ब्रह्मा तुष्टावागत्य भक्तितः ।। ६२।।
स्तोत्रैरतिविचित्रैश्च चतुर्वक्त्राऽश्रुतैरहो ।।
स्तुत्वोवासाज्ञया विष्णोः कृत्वा पश्चाच्चतुर्मुखम् ।। ६३ ।।
नारायणो द्वारपालानित्युवाच चतुर्भुजान् ।।
आगन्तुकं जनमपि प्रवेशयत सादरम् ।। ६४ ।।
एतस्मिन्नन्तरे तत्र वृन्दावनविनोदिनि ।।
आजगामातिप्रणतो ब्रह्मा शतमुखः स्वयम् ।। ।। ६५ ।।
दिव्यैः स्तोत्रैश्च तुष्टाव निगूढमतिसुन्दरैः ।।
स्तुत्वोवास वरैः स्तोत्रैः सर्वेषामश्रुतैरहो ।। ६६ ।।
तदनन्तरयोरग्रे भक्तस्य शतमुखः स्वयम् ।।
जगद्विधौ सभायां च तत्र तिष्ठति तत्क्षणे ।। ६७ ।।
आजगामान्यब्रह्माण्डाधिपो ब्रह्मा हरेः पुरः ।।
सहस्रवदनः श्रीमान्भक्त्या नम्रात्मकन्धरः ।। ६८ ।।
स्तुत्वोवास वरैः स्तोत्रैः सर्वेषामश्रुतैरहो ।।
तं च पप्रच्छ सर्वेषां ब्रह्माण्डानां च ब्रह्मणाम् ।। ।। ६९ ।।
वार्ता विषयिणां चैव सुराणां च क्रमेण च।।
चतुर्मुखस्य तान्दृष्ट्वा दर्पभङ्गो बभूव ह ।। 4.33.७० ।।
आत्मानं विष्णुसदृशं मन्यमानस्य दर्पतः ।।
अन्यान्न दर्शयामास ब्रह्माण्डस्थान्विधीन्हरिः ।। ७१ ।।
दृष्ट्वा च कृपया तत्र मृततुल्यं चतुर्मुखम्।।
यावन्ति गात्रलोमानि सन्ति नारायणस्य मे।।७२।।
तत्प्रमाणाश्च ब्रह्माण्डा ब्रह्माणः सन्ति सन्ततम्।।
नारायणं प्रणम्याशु जग्मुस्ते स्वालयं प्रति।।७३।।
स मेने विधिरात्मानमत्यल्पविषयाधिपम् ।।
पप्रच्छ प्रणतं विष्णुर्लज्जानम्रचतुर्मुखम् ।। ७४ ।।
वद तत्किमिदं दृष्टं स्वप्नवद्भवताऽधुना ।।
नारायणवचः श्रुत्वा विधिरित्युक्तवांस्तदा ।।७५।।
भूतं भव्यं भविष्यं च तव मायासमुद्भवम् ।।
इत्येवमुक्त्वा स विधिस्तस्थौ संसदि लज्जया ।।
सर्वान्तर्यामी भगवांस्तस्योपायं विनिर्ममे ।। ७६ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे मोहिनीशापब्रह्मदर्पभंगो नाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।