ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०२२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०२१ श्रीकृष्णजन्मखण्डः
अध्यायः ०२२
वेदव्यासः
अध्यायः ०२३ →

।।श्रीनारायण उवाच ।।
एकदा राधिकानाथो बलेन सह बालकैः ।।
जगाम तत्तालवनं परिपक्वफलान्वितम् ।। १ ।।
वृक्षाणां रक्षिता दैत्यः खर रूपी च धेनुकः।।
कोटिसिंहसमबलो देवानां दर्पनाशनः ।।२।।
शरीरं पर्वतसमं कूपतुल्ये च लोचने ।।
ईषापंक्तिसमा दन्तास्तुण्डं पर्वतगह्वरम् ।। ३ ।।
शतहस्तपरिमिता जिह्वा लोला भयानका ।।
कासारसदृशी नाभिः शब्दस्तस्य भयानकः ।। ४ ।।
दृष्ट्वा तालवनं बाला हर्षमापुरनिन्दिताः ।।
कौतुकात्कृष्णमूचुस्ते स्मेराननसरोरुहाः ।। ५ ।।
बाला ऊचुः ।।
हे कृष्ण करुणासिन्धो दीन बन्धो जगत्पते ।।
महाबल बलभ्रातः समस्तबलिनां वर ।। ६ ।।
अवधानं कुरु विभो क्षणार्द्धं नो निवेदने ।।
क्षुधितानां शिशूनां च भक्तानां भक्तवत्सल ।। ७ ।।
स्वादूनि सुन्दराण्येव पश्य तालफलानि च ।।
भङ्क्तुं चालयितुं वृक्षान्पातितुं च फलानि च ।। ८ ।।
नानावर्णानि पुष्पाणि पक्वानि दुर्लभानि च ।।
आज्ञां करोषि चेत्कृष्ण चेष्टां कर्त्तु वयं क्षमाः ।।९।।
किं त्वत्र दैत्यो बलवान्खररूपी च धेनुकः ।।
अजितस्त्रिदशैः सर्वैर्महाबलपराक्रमः ।। 4.22.१० ।।
दुर्निवार्यश्च सर्वेषां कंसस्य सचिवो महान् ।।
हिंसकः सर्वजन्तूनां वनानामस्ति रक्षिता ।। ११ ।।
सुविचार्य जगत्कान्त वद नो वदतां वर ।।
युक्तं कार्यमयुक्तं वा कर्तव्यमथ वा न वा ।। १२ ।।
बालकानां वचः श्रुत्वा भगवान्मधुसूदनः ।।
उवाच मधुरं बालान्वचनं तत्सुखावहम् ।। १३ ।।
श्रीकृष्ण उवाच ।।
किं वो दैत्याद्भयं बाला यूयं मत्सहचारिणः ।।
वृक्षान्भङ्क्त्वा चालयित्वा फलानि खादताभयम् ।। १४ ।।
श्रीकृष्णाज्ञां समादाय बालका बलशालिनः ।।
उत्पेतुर्वृक्षशिखरं क्षुधिताश्च फलार्थिनः ।। १५ ।।
नानाप्रकारवर्णानि स्वादूनि सुन्दराणि च ।।
फलानि पातयामासुः परिपक्वानि नारद ।। १६ ।।
केचिद्बभञ्जुर्वृक्षाश्च चालयामासुरेव च ।।
केचित्कोलाहलं चकुर्ननृतुस्तत्र केचन ।। १७ ।।
अवरुह्य तरुभ्यश्च बालका बलशालिनः ।।
फलान्यादाय गच्छन्तो ददृशुर्दैत्यपुङ्गवम् ।। १८ ।।
महाबलं महाकायं घोरं गर्दभरूपिणम् ।।
आगच्छन्तं महावेगात्कुर्वन्तं शब्दमुल्बणम् ।। १९ ।।
तं दृष्ट्वा रुरुदुः सर्वे फलानि तत्यजुर्भिया ।।
कृष्णकृष्णेति शब्दं च प्रचक्रुर्बहुधा भृशम् ।। 4.22.२० ।।
अस्मान्रक्ष समागच्छ हे कृष्ण करुणानिधे ।।
हे सङ्कर्षण नो रक्ष प्राणा नो यान्ति दानवात्।।२१।।
हे कृष्ण हे कृष्ण हरे मुरारे गोविन्द दामोदर दीनबन्धो।।
गोपीशगोपेश भवार्णवेऽस्मा ननन्त नारायण रक्ष रक्ष ।।२२।।
भयेऽभये वाथ शुभेऽशुभे वा सुखेषु दुःखेषु च दीननाथ ।।
त्वया विनाऽन्यं शरणं भवार्णवे न नोऽस्ति हे माधव रक्ष रक्ष।।२३।।
जयजय गुणसिन्धो कृष्ण भक्तैकबन्धो बहुतरभययुक्तान्बालकान्रक्ष रक्ष ।।
जहि दनुजकुलानामीशमस्माक मन्तं सुरकुलबलदर्पं वर्धयेमं निहत्य ।। २४ ।।
बालानां विक्लवं दृष्ट्वा बलेन सह माधवः ।।
आजगाम शिशुस्थानं भयहा भक्त वत्सलः ।। २५ ।।
भयं नास्ति भयं नास्तीत्युक्त्वा दुद्राव सत्वरम् ।।
ईषद्धास्यप्रसन्नास्यो निर्भयं दत्तवाञ्छिशून् ।। २६ ।।
दृष्ट्वा कृष्णं बलं बाला ननृतुर्विजहुर्भयम् ।।
हरिस्मृतिश्चाभयदा सर्वमङ्गलदायिका।।२७।।
श्रीकृष्णो दानवं दृष्ट्वा ग्रसन्तं पुरतः शिशून्।।
बलं संबोध्य बलिनमुवाच मधुसूदनः ।। २८ ।।
श्रीकृष्ण उवाच ।।
दानवो बलिपुत्रोऽयं नाम्ना साहसिको बली ।।
गर्दभो ब्रह्मशापेन शप्तो दुर्वाससा पुरा ।।२९।।
पापिष्ठो मम वध्योऽयं महाबलपराकमः ।।
अहमेनं वधिष्यामि त्वं रक्ष बालकान्बल ।।4.22.३०।।
आदाय बालकान्सर्वान्दूरं गच्छेत्युवाच ह ।।
तान्गृहीत्वा बलः शीघ्रं जगाम त्वरयाज्ञया ।। ३१ ।।
दृष्ट्वा कृष्णं दानवेन्द्रो महाबलपराक्रमः ।।
जग्रास लीलया कोपाज्ज्वलदग्निशिखोपमम् ।। ३२ ।।
बभूवातिदाहयुक्तो मर्तुकामोऽतितेजसा ।।
उज्जग्रास पुनर्दैत्यो विभुं तेजस्विनं भिया ।।३३।।
उज्झितं सन्तमीशं च दृष्ट्वा दैत्यो मुमोच ह।।
अतीव सुन्दरं शान्तं ज्वलन्तं ब्रह्मतेजसा ।।३४।।
कृष्णदर्शनमात्रेण बभूवास्य पुरा स्मृतिः ।।
आत्मानं बुबुधे कृष्णं जगतां कारणं परम् ।। ३५ ।।
तेजःस्वरूपमीशं तं दृष्ट्वा तुष्टाव दानवः ।।
यथागमं यथाजन्म गुणातीतं श्रुतेः परम् ।। ३६ ।।
दानव उवाच ।।
वामनोऽसि त्वमंशेन मत्पितुर्यज्ञभिक्षुकः ।।
राज्यहर्ता च श्रीहर्ता सुतलस्थलदायकः ।। ३७ ।।
बलिर्भक्तिवशो वीरः सर्वेशो भक्तवत्सलः ।।
शीघ्रं त्वं हिन्धि मां पापं शापाद्गर्दभरूपिणम् ।। ३८ ।।
मुनेर्दुर्वाससः शापादीदृशं जन्म कुत्सितम् ।।
मृत्युरुक्तश्च मुनिना त्वत्तो मम जगत्पते ।। ३९ ।।
षोडशारेण चक्रेण सुतीक्ष्णेनातितेजसा ।।
जहि मां जगतां नाथ सद्भक्तिं कुरु मोक्षद ।।4.22.४०।।
त्वमंशेन वराहश्च समुद्धर्तुं वसुन्धराम् ।।
वेदानां रक्षिता नाथ हिरण्याक्षनिषूदनः ।। ४१ ।।
त्वं नृसिंहः स्वयं पूर्णो हिरण्यकशिपोर्वधे ।।
प्रह्रादानुग्रहार्थाय देवानां रक्षणाय च ।। ।। ४२ ।।
त्वं च वेदोद्धारकर्ता मीनांशेन दयानिधे ।।
नृपस्य ज्ञानदानाय रक्षायै सुरविप्रयोः ।। ४३ ।।
शेषाधारश्च कूर्मस्त्वमंशेन सृष्टिहेतवे ।।
विश्वाधारश्च विश्वस्त्वमंशेनापि सहस्रधृक् ।।४४।।
रामो दाशरथिस्त्वं च जानक्युद्धारहेतवे ।।
दशकन्धरहन्ता च सिन्धौ सेतुविधायकः ।।४५।।
कलया परशुरामश्च जमदग्निसुतो महान् ।।
त्रिःसप्तकृत्वो भूपानां निहन्ता जगतीपते ।। ४६ ।।
अंशेन कपिलस्त्वं च सिद्धानां च गुरोर्गुरुः ।।
मातृज्ञानप्रदाता च योगशास्त्रविधायकः ।। ४७ ।।
अंशेन ज्ञानिनां श्रेष्ठो नरनारायणावृषी ।।
त्वं च धर्मसुतो भूत्वा लोकविस्तारकारकः ।।४८।।
अधुना कृष्णरूपस्त्वं परिपूर्णतमः स्वयम् ।।
सर्वेषामवताराणां बीजरूपः सनातनः ।। ४९ ।।
यशोदाजीवनो नित्यो नन्दैकानन्दवर्धनः ।।
प्राणाधिदेवो गोपीनां राधाप्राणाधिकप्रियः ।।4.22.५०।।
वसुदेवसुतः शान्तो देवकीदुःखभञ्जनः ।।
अयोनिसंभवः श्रीमान्पृथिवीभारहारकः ।। ५१ ।।
पूतनायै मातृगतिं प्रदाता च कृपानिधिः ।।
बककेशिप्रलम्बानां ममापि मोक्षकारकः ।। ५२ ।।
स्वेच्छामय गुणातीत भक्तानां भयभञ्जन ।।
प्रसीद राधिकानाथ प्रसीद कुरु मोक्षणम् ।। ।।५३।।
हे नाथ गार्दभीयोनेः समुद्धर भवार्णवात्।।
मूर्खस्त्वद्भक्तपुत्रोऽहं मामुद्धर्तुं त्वमर्हसि ।। ५४ ।।
वेदा ब्रह्मादयो यं च मुनीन्द्राः स्तोतुमक्षमाः ।।
किं स्तौमि तं गुणातीतं पुरा दैत्योऽधुना खरः ।।५५।।
एवं कुरु कृपासिन्धो येन मे न भवेज्जनुः ।।
दृष्ट्वा पादारविन्दं ते कः पुनर्भवनं व्रजेत् ।।५६।।
ब्रह्मा स्तोता खरः स्तोता नोपहासितुमर्हसि।।
सदीश्वरस्य विज्ञस्य योग्यायोग्ये समा कृपा ।। ५७ ।।
इत्येवमुक्त्वा दैत्येन्द्रस्तस्थौ च पुरतो हरेः ।।
प्रसन्नवदनः श्रीमानतितुष्टो बभूव ह ।।५८।।
इदं दैत्यकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ।।
सालोक्यसार्ष्टिसामीप्यं लीलया लभते हरेः।।५९।।
इह लोके हरेर्भक्तिमन्ते दास्यं सुदुर्लभम्।।
विद्यां श्रियं सुकवितां पुत्रपौत्रान्यशो लभेत् ।। 4.22.६० ।।
श्रीनारायण उवाच ।।
श्रुत्वाऽनुमेने दैत्येन्द्रस्तवनं करुणानिधिः ।।
कथं करोमि संहारमीदृशं भक्तमित्यहो ।। ।।६१।।
अनुमन्य स्मृतिं तस्य संजहार हरिः स्वयम् ।।
न हि युक्तो वधः स्तोतुर्दुर्वक्तुर्विधिरीश्वरात् ।।६२।।
दानवो मायया विष्णोर्विसस्मार पुनः स्वकम्।।
दुरुक्तिस्तत्कण्ठदेशे ह्यधिष्ठानं चकार ह।।६३।।
उवाच श्रीहरिं दैत्यः कोपात्प्रस्फुरिताधरः ।।
मुने सद्यो मर्तुकामो दैवग्रस्तो विचेतनः ।।६४।।
दैत्य उवाच।। ध्रुवं त्वं मर्तुकामोऽसि दुर्बुद्धे मानवार्भक ।।
अद्य प्रस्थापयिष्यामि त्वामहं यममन्दिरम् ।। ।।६५।।
आयासि जीवनाकाङ्क्षी मम तालवनं शिशो।।
न यास्यसि पुनर्गेहं बान्धवं न हि द्रक्ष्यसि ।।६६।।
न कंसो न जरासन्धो नरको न समो मम ।।
देवाः कम्पन्ति मे नित्यं के चान्ये मत्समा भुवि ।।६७।।
नहि संहारकर्ता च मां संहर्तुं क्षमः शिवः ।।
न च ब्रह्मा न विष्णुश्च न मृत्युः काल एव च ।।६८।।
मम तालतरून्भङ्क्त्वा पातयित्वा फलानि च ।।
अहंकरोषि सहसा किमहो कस्य तेजसा ।। ६९ ।।
कस्त्वं वद बटो सत्यं कमनीयोऽतिसुन्दरः ।।
दुर्लभं जीवनं दातुं मह्यं कथमिहागतः ।।4.22.७० ।।
इत्युक्त्वा मस्तके कृत्वा प्रेरयित्वा तु तं बली ।।
दूरतः पातयामास श्रीकृष्णं मरणोन्मुखः ।। ७१ ।।
पातयित्वा च तं भूमौ विषाणाभ्यां जघान सः ।।
कृष्णाङ्गस्पर्शमात्रेण तद्विषाणे बभञ्जतुः ।।७२।।
दैत्यो भग्नविषाणश्च तमीशं कोपयन्मुने ।।
जग्रास चर्वणं कर्तुं भग्नदन्तो बभूव ह ।। ७३ ।।
तेजसा दग्धवक्त्रश्च तमुज्जग्राह तत्क्षणे ।।
जज्वाल व्यथितः कोपाद्ददार खुरतो महीम् ।। ७४ ।।
चूर्णयित्वा तु लांगूलं शब्दं कृत्वा भयानकम् ।।
स जगाम शिशुस्थानं दुद्रुवुर्बालका भिया ।। ७९।।
बलं च प्रेरयामास मस्तकेन महाबली ।।
बलो मुष्टिं ददौ तस्मै मूर्च्छामाप ततोऽसुरः ।।७६।।
क्षणेन चेतनां प्राप्य जगाम हरिसन्निधिम् ।।
बलमुष्ट्या च व्यथितः पुनर्मूर्च्छामवाप सः ।। ७७ ।।
पुनश्च चेतनां प्राप्य समुत्तस्थौ व्यथाकुलः ।।
उत्ससर्ज बृहल्लेडं मूत्रं च भयमाप ह ।।७८।।
क्षणात्संधिक्षणं प्राप्य महाबलपराक्रमः ।।
कृत्वा शिरसि गोविन्दं चूर्णयामास दानवः ।। ७९ ।।
पातयामास भूमौ तं चूर्णयित्वा पुनःपुनः ।।
उत्पाट्य तालवृक्षं तं ताडयामास माधवः ।।4.22.८०।।
यथा खड्गप्रहारेण दानवस्य भवेद्व्यथा ।।
तथा बभूव दैत्यस्य तालवृक्षस्य ताडनात् ।।८१।। ।
गोवर्धनं समुत्पाट्य घातयामास तं विभुः ।।
पपात वेगाच्छैलेन्द्रस्तस्योपरि महामुने ।।८२।।
पर्वतस्य प्रहारेण मूर्च्छामाप महाबलः।। ।
बभूव जर्जराङ्गश्च रुधिरं च समुद्वमन् ।। ८३ ।।
क्षणेन चेतनां प्राप्य समुत्तस्थौ रुषाऽसुरः ।।
गृहीत्वा पर्वतश्रेष्ठं प्रेरयामास माधवम् । ।। ८४ ।।
दृष्ट्वा शैलमुत्पतन्तं वेगेन मधुसूदनः ।।
जग्राह दक्षिणकरे यथेक्षुदण्डवत्प्रभुः ।। ८५ ।।
पूर्वस्थाने पर्वतं तं स्थापयामास कौतुकात् ।।
गृहीत्वा दैत्यकर्णाग्रं पातयामास दूरतः ।। ८६ ।।
उत्पत्य च महावेगाच्चकार वेष्टनं हरेः ।।
पृथिवीं घर्षयामास तीक्ष्णाग्रेण खुरेण च ।। ८७ ।।
प्रगृह्य श्रीहरिं वेगात्कृत्वा मूर्ध्नि महासुरः ।।
उत्पपात मनोयायी लीलया लक्षयोजनम् ।। ८८ ।।
प्रहरं च तयोर्युद्धं निर्लक्षे च बभूव ह ।।
ततो गृहीत्वा श्रीकृष्णं पपात धरणीतले ।। ८९ ।।
पुनर्मुहूर्तं युद्धं च बभूव भूतले तयोः ।।
मुदा हरिः प्रशशंस प्रहस्य दानवेश्वरम् ।। 4.22.९० ।।
मद्भक्तस्य बलेः पुत्रं धन्यं तज्जीवनं परम्।।
स्वस्त्यस्तु ते दानवेन्द्र वत्स निर्वाणतां व्रज ।। ९१ ।।
मद्दर्शनं स्वस्तिबीजं परं निर्वाणकारणम् ।।
सर्वाधिकं सर्वपरं लभ स्थानं मनोहरम् ।। ९२ ।।
इत्येवमुक्त्वा श्रीकृष्णः सस्मार चक्रमुत्तमम् ।।
सूर्यकोटिसमं दीप्त्या जग्राह तत्सुदर्शनम् ।।९३।।
चिक्षेप भ्रामयित्वा च षोडशारमनुत्तमम् ।।
चिच्छेद लीलयाऽवध्यं ब्रह्मविष्णुमहेश्वरैः ।। ९४ ।।
पपात मस्तकं भूमौ दानवस्य महात्मनः ।।
तेजःसमूह उत्तस्थौ शतसूर्यसमप्रभः।। ९५ ।।
विलोक्य हरिलोकं संश्लिष्टं कृष्णपदाम्बुजे ।।
संप्राप्य परमं मोक्षमहो दानवपुङ्गवः ।। ९६ ।।
गगनस्थाः सुराः सर्वे मुनयश्च भृशं मुदा ।।
पारिजातप्रसूनानां चक्रुस्ते तत्र वर्षणम् ।।९७।।
नेदुर्दुन्दुभयः स्वर्गे ननृतुश्चाप्सरोगणाः ।।
जगुर्गन्धर्वनिकरा स्तुष्टुवुर्मुनयो मुदा ।। ९८ ।।
स्तुत्वा जग्मुः सुराः सर्वे मुनयो हर्षविह्वलाः ।।
धेनुकस्य वधं दृष्ट्वा तत्राजग्मुश्च बालकाः ।। ९९ ।।
बलश्च बलिनां श्रेष्ठस्तुष्टाव पुरुषोत्तमम् ।।
तुष्टुवुर्बालकाः सर्वे ननृतुश्च मुदाऽन्विताः ।। 4.22.१०० ।।
दत्त्वा कृष्णबलाभ्यां च प्रपक्वानि फलानि च ।।
सर्वाणि भक्षयामासुर्बालाः प्रहष्टमानसाः ।। १०१ ।।
भुक्त्वा पीत्वा हरिः शीघ्रं बलेन बालकैः सह ।।
जगाम स्वालयं ब्रह्मन्निहत्य दानवेश्वरम्।।१०२।।
इति श्रीबह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायनारदसंवादे धेनुकवधोनाम द्वाविंशोऽध्यायः
।। २२ ।।