ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०१५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१४ श्रीकृष्णजन्मखण्डः
अध्यायः ०१५
वेदव्यासः
अध्यायः ०१६ →

श्रीनारायण उवाच ।।
एकदा कृष्णसहितो नन्दो वृन्दावनं ययौ।।
तत्रोपवनभाण्डीरे चारयामास गोधनम्।।१।।
सरः सुस्वादुतोयं च पाययामास तत्पपौ ।।
उवास वृक्षमूले च बालं कृत्वा स्ववक्षसि ।। २ ।।
एतस्मिन्नन्तरे कृष्णो मायामानुषविग्रहः ।।
चकार माययाऽकस्मान्मेघाच्छन्नं नभो मुने ।। ३ ।।
मेघावृतं नभो दृष्ट्वा श्यामलं काननान्तरम्।।
झंझावातं महाशब्दं वज्रशब्दं च दारुणम्।।४।।
वृष्टिधारामतिस्थूलां कम्पमानांश्च पादपान्।।
दृष्ट्वैवं पतितस्कन्धान्नन्दो भयमवाप ह।।५।।
कथं यास्यामि गोवत्सान्विहाय स्वाश्रमं बत।।
गृहं यदि न यास्यामि भविता बालकस्य किम् ।।६।।
एवं नन्दे प्रवदति रुरोद श्रीहरिस्तदा।।
पयोभिया हरिश्चैव पितुः कण्ठं दधार सः।।७।।
एतस्मिन्नन्तरे राधाऽऽजगाम कृष्ण सन्निधिम् ।।
गमनं कुवनी राजहंसखञ्जनगञ्जनम् ।।८।।
शरत्पार्वणचन्द्राभामुष्टवक्त्रमनोहरा ।।
शरन्मध्याह्नपद्मानां शोभामोचनलोचना ।। ९ ।।
परितस्तारकापक्ष्मविचित्रकज्जलोज्ज्वला ।।
खगेन्द्रचञ्चुचारुश्रीशंसानाशकनासिका ।। 4.15.१० ।।
तन्मध्यस्थलशोभार्ह स्थूलमुक्ताफलोज्ज्वला।।
कबरीवेषसंयुक्ता मालतीमाल्यवेष्टिता ।।११।।
ग्रीष्ममध्याह्नमार्तण्डप्रभामुष्टककुण्डला ।।
पक्वबिम्बफलानां च श्रीमुष्टाधरयुग्मका।।१२।।
मुक्तापङ्क्तिप्रभातैकदन्तपङ्क्तिसमुज्ज्वला ।।
ईषत्प्रफुल्लकुन्दानां सुप्रभानाशकस्मिता ।।१३।।
कस्तूरीबिन्दुसंयुक्त सिन्दूरबिन्दुभूषिता।।
कपालं मल्लिकायुक्तं बिभ्रती श्रीयुतं सती।।१४।।
सुचारुवर्तुलाकारकपोलपुलकान्विता ।।
मणिरत्नेन्द्रसाराणां हारोरःस्थलभूषिता ।। १५ ।।
सुचारुश्रीफलयुगकठिनस्तनसंगता ।।
पत्रावलीश्रिया युक्ता दीप्ता सद्रत्नतेजसा ।।१६।।
सुचारुवर्तुलाकारमुदरं सुमनोहरम् ।।
विचित्रत्रिवलीयुक्तं निम्ननाभिं च बिभ्रती ।। १७ ।। सद्रत्नसाररचितमेखलाजालभूषिता ।।
कामास्त्रसारभ्रूभङ्गयोगीन्द्रचित्तमोहिनी ।। १८ ।।
कठिनश्रोणियुगलं धरणीधरनिन्दितम् ।।
स्थलपद्मप्रभामुष्टचरणं दधती मुदा ।। ।। १९ ।।
रत्नभूषणसंयुक्तं यावकद्रवसंयुतम् ।।
मणीन्द्रशोभासंमुष्टसालक्तकपुनर्भवम् ।। 4.15.२० ।।
सद्रत्नसाररचितक्वणन्मञ्जीर रञ्जितम् ।।
रत्नकङ्कणकेयूरचारुशङ्खविभूषिता ।। २१ ।।
रत्नाङ्गुलीयनिकरवह्निशुद्धांशुकोज्वला ।।
चारुचम्पकपुष्पाणां प्रभा मुष्टकलेवरा ।। २२ ।।
सहस्रदलसंयुक्तक्रीडाकमलमुज्ज्वलम् ।।
श्रीमुखश्रीदर्शनार्थं बिभ्रती रत्नदर्पणम् ।। २३ ।।
दृष्ट्वा तां निर्जने नन्दो विस्मयं परमं ययौ ।।
चन्द्रकोटिप्रभामुष्टां भासयन्तीं दिशो दश ।। २४ ।।
ननाम तां साश्रुनेत्रो भक्तिनम्रात्मकन्धरः ।।
जानामि त्वां गर्गमुखात्पद्माधिकप्रियां हरेः ।। २५ ।।
जानामीमं महाविष्णोः परं निर्गुणमच्युतम् ।।
तथापि मोहितोऽहं च मानवो विष्णुमायया ।। २६ ।।
गृहाण प्राणनाथं च गच्छ भद्रे यथासुखम् ।।
पश्चाद्दास्यसि मत्पुत्रं कृत्वा पूर्णमनोरथम् ।। २७ ।।
इत्युक्त्वा प्रददौ तस्यै रुदन्तं बालकं भिया ।।
जग्राह बालकं राधा जहास मधुरं सुखात् ।। २८ ।।
उवाच नन्दं सा यत्नान्न प्रकाश्यं रहस्यकम् ।।
अहं दृष्टा त्वया नन्द कतिजन्मफलोदयात् ।। २९ ।।
प्राज्ञस्त्वं गर्गवचनात्सर्वं जानासि कारणम् ।।
अकथ्यमावयोर्गोप्यं चरितं गोकुले व्रज ।। 4.15.३० ।।
वरं वृणु व्रजेश त्वं यत्ते मनसि वाञ्छितम् ।।
ददामि लीलया तुभ्यं देवानामपि दुर्लभम् ।। ३१ ।।
राधिकावचनं श्रुत्वा तामुवाच व्रजेश्वरः ।।
युवयोश्चरणे भक्तिं देहि नान्यत्र मे स्पृहा ।। ३२ ।।
युवयोः सन्निधौ वासं दास्यसि त्वं सुदुर्लभम् ।।
आवाभ्यां देहि जगतामम्बिके परमेश्वरि ।। ३३ ।।
श्रुत्वा नन्दस्य वचनमुवाच परमेश्वरी ।।
दास्यामि दास्यमतुलमिदानीं भक्तिरस्तु ते ।। ३४ ।।
आवयोश्चरणाम्भोजे युवयोश्च दिवानिशम् ।।
प्रफुल्लहृदये शश्वत्स्मृतिरस्तु सुदुर्लभा ।। ३९ ।।
माया युवां च प्रच्छन्नौ न करिष्यति मद्वरात् ।।
गोलोके यास्यथान्ते च विहाय मानवीं तनुम् ।। ३६ ।।
एवमुक्त्वा तु सानन्दं कृत्वा कृष्णं स्ववक्षसि ।।
दूरं निनाय श्रीकृष्णं बाहुभ्यां च यथेप्सितम् ।। ३७ ।।
कृत्वा वक्षसि तं कामाच्छ्लेषंश्लेषं चुचुम्ब च ।।
पुलकाङ्कितसर्वाङ्गो सस्मार रासमण्डलम् ।। ३८ ।।
एतस्मिन्नन्तरे राधा मायासद्रत्नमण्डपम् ।।
ददर्श रत्नकलशशतेन च समन्वितम् ।। ३९ ।।
नानाविचित्रचित्राढ्यं चित्रकाननशोभितम् ।।
सिन्दूराकारमणिभिः स्तम्भसंघैर्विराजितम् ।। 4.15.४० ।।
चन्दनागुरुकस्तृरीकुङ्कुमद्रवयुक्तया ।।
संयुक्तं मालतीमालासमूहपुष्पशय्यया ।। ४१ ।।
नानाभोगसमायुक्तं दिव्यदर्पणसंयुतम् ।।
मणीन्द्रमुक्तामाणिक्यमालाजालैर्विभूषितम् ।। ४२ ।।
मणीन्द्रसाररचितकपाटेन समन्वितम् ।।
भूषितं भूषितैर्वस्त्रैः पताकानिकरैर्वरैः ।।
कुङ्कुमाकारमणिभिः सप्तसोपानसंयुतम् ।। ४३ ।।
युक्तं षट्पदसंयुक्तैः पुष्पोद्यानं च पुष्पितैः ।।
सा देवी मण्डपं दृष्ट्वा जगामाभ्यन्तरं मुदा ।। ४४ ।।
ददर्श तत्र ताम्बूलं कर्पूरादिसमन्वितम् ।।
जलं च रत्नकुम्भस्थं स्वच्छं शीतं मनोहरम् ।। ४९ ।।
सुधामधुभ्यां पूर्णानि रत्नकुम्भानि नारद ।।
पुरुषं कमनीयं च किशोर श्यामसुन्दरम् ।।४६।।
कोटिकन्दर्पलीलाभं चन्दनेन विभूषितम् ।।
शयानं पुष्पशय्यायां सस्मितं सुमनोहरम् ।।४७।।
पीतवस्त्रपरीधानं प्रसन्नवदनेक्षणम् ।।
मणीन्द्रसारनिर्माणं क्वणन्मञ्जीररञ्जितम् ।। ४८ ।। सद्रत्नसारनिर्माणकेयूरवलयान्वितम् ।।
मणीन्द्रकुण्डलाभ्यां च गण्डस्थलविराजितम् ।। ४९ ।।
कौस्तुभेन मणीन्द्रेण वक्षःस्थलसमुज्ज्वलम् ।। शरत्पार्वणचंद्रास्यप्रभामुष्टमुखोज्ज्वलम् ।। 4.15.५० ।।
शरत्प्रफुल्लकमलप्रभामोचनलोचनम् ।।
मालतीमाल्यसंश्लिष्टशिखिपिच्छसुशोभितम् ।। ५१ ।।
त्रिवंकचूडां बिभ्रन्तं पश्यन्तं रत्नमन्दिरम् ।।
क्रोडं बालकशून्यं च दृष्ट्वा तं नवयौवनम् ।। ५२ ।।
सर्वस्मृतिस्वरूपा सा तथापि विस्मयं ययौ ।।
रूपं रासेश्वरी दृष्ट्वा मुमोह सुमनोहरम् ।। ५३ ।।
कामाच्चक्षुश्चकोराभ्यां मुखचन्द्रं पपौ मुदा ।।
निमेषरहिता राधा नवसंगमलालसा ।। ५४ ।।
पुलकाङ्कितसर्वाङ्गी सस्मिता मदनातुरा ।।
तामुवाच हरिस्तत्र स्मेराननसरोरुहाम् ।।
नवसंगमयोग्यां च पश्यन्तीं वक्रचक्षुषा ।। ५५ ।।
श्रीकृष्ण उवाच ।।
राधे स्मरसि गोलोकवृत्तान्तं सुरसंसदि ।। ५६ ।।
अद्य पूर्णं करिष्यामि स्वीकृतं यत्पुरा प्रिये ।।
त्वं मे प्राणाधिका राधे प्रेयसी च वरानने ।। ५७ ।।
यथा त्वं च तथाऽहं च भेदो हि नावयोर्ध्रुवम् ।।
यथा क्षीरे च धावल्यं यथाऽग्नौ दाहिका सति ।। ५८ ।।
यथा पृथिव्यां गन्धश्च तथाऽहं त्वयि संततम् ।।
विना मृदा घटं कर्तुं विना स्वर्णेन कुण्डलम् ।। ५९ ।।
कुलालः स्वर्णकारश्च नहि शक्तः कदाचन ।।
तथा त्वया विना सृष्टिमहं कर्तुं न च क्षमः ।। 4.15.६० ।।
सृष्टेराधारभूता त्वं बीजरूपोऽहमच्युतः ।।
आगच्छ शयने साध्वि कुरु वक्षःस्थले हि माम् ।। ६१ ।।
त्वं मे शोभा स्वरूपाऽसि देहस्य भूषणं यथा ।।
कृष्णं वदान्त मां लोकास्त्वयैव रहितं यदा ।। ६२ ।।
श्रीकृष्णं च तदा तेऽपि त्वयैव सहितं परम् ।।
त्वं च श्रीस्त्वं च संपत्तिस्त्वमाधारस्वरूपिणी ।। ६३ ।।
सर्वशक्तिस्वरूपासि सर्वरूपोऽहमक्षरः ।।
यदा तेजःस्वरूपोऽहं तेजोरूपाऽसि त्वं तदा ।। ६४ ।।
न शरीरी यदाहं च तदा त्वमशरीरिणी ।।
सर्वबीजस्वरूपोऽहं सदा योगेन सुन्दरि ।। ६५ ।।
त्वं च शक्तिस्वरूपा च सर्वस्त्रीरूपधारिणी ।।
ममाङ्गांशस्वरूपा त्वं मूलप्रकृतिरीश्वरी ।। ६६ ।।
शक्त्या बुद्ध्या च ज्ञानेन मया तुल्या वरानने ।।
आवयोर्भेदबुद्धिं च यः करोति नराधमः ।। ६७ ।।
तस्य वासः कालसूत्रे यावच्चन्द्रदिवाकरौ ।।
पूर्वान्सप्त परान्सप्त पुरुषान्पातयत्यधः ।। ६८ ।।
कोटिजन्मार्जितं पुण्यं तस्य नश्यति निश्चितम् ।।
अज्ञानादावयोर्निन्दां ये कुर्वन्ति नराधमाः ।। ६९ ।।
पच्यन्ते नरके घोरे यावच्चन्द्रदिवाकरौ ।।
राशब्दं कुर्वतस्त्रस्तो ददामि भक्तिमुत्तमाम् ।। 4.15.७० ।।
धाशब्दं कुर्वतः पश्चाद्यामि श्रवणलोभतः ।।
ये सेवन्ते च दत्त्वा मामुपचारांश्च षोडश ।।
यावजीवनपर्यन्तं या प्रीतिर्जायते मम ।। ७१ ।।
सा प्रीतिर्मम जायेत राधाशब्दात्ततोऽधिका ।।
प्रिया न मे तथा राधे राधावक्ता ततोऽधिकः ।। ७२ ।।
ब्रह्मानन्तः शिवो धर्मो नरनारायणावृषी ।।
कपिलश्च गणेशश्च कार्त्तिकेयश्च मत्प्रियः ।। ७३ ।।
लक्ष्मीः सरस्वती दुर्गा सावित्री प्रकृतिस्तथा।।
मम प्रियाश्च देवाश्च तास्तथापि न तत्समाः ।।७४।।
ते सर्वे प्राणतुल्या मे त्वं मे प्राणाधिका सती ।।
भिन्नस्थानस्थितास्ते च त्वं च वक्षःस्थले स्थिता ।। ७५ ।।
या मे चतुर्भुजा मूर्तिर्बिभर्त्ति वक्षसि प्रियाम् ।।
सोऽहं कृष्णस्वरूपस्त्वां विवहामि स्वयं सदा ।। ७६ ।।
इत्येवमुक्त्वा श्रीकृष्णस्तस्थौ तल्पे मनोरमे ।।
उवाच राधिका नाथं भक्तिनम्रात्मकन्धरा ।।७७ ।।
राधिकोवाच ।।
स्मरामि सर्वं जानामि विस्मरामि कथं विभो ।।
यत्त्वं वदसि सर्वाहं त्वत्पादाब्जप्रसादतः ।। ७८ ।।
ईश्वरस्याप्रियाः केचित्प्रियाश्च कुत्र केचन ।।
ये यथा मां न स्मरन्ति तथा तेषु तवाकृपा ।। ७९ ।।
तृणं च पर्वतं कर्तु समर्थः पर्वतं तृणम् ।।
तथापि योग्यायोग्ये च संपत्तौ च समा कृपा ।। 4.15.८० ।।
तिष्ठत्यहं शयानस्त्वं कथाभिर्यत्क्षणं गतम् ।।
तत्क्षणं च युगसमं नाहं प्रापयितुं क्षमा ।।८१।।
वक्षःस्थले च शिरसि देहि ते चरणाम्बुजम् ।।
दुनोति मन्मनः सद्यस्त्वदीयविरहानलात् ।। ८२ ।।
पुरः पपात मे दृष्टिस्त्वदीयचरणाम्बुजे ।।
नीता मया नहि क्लेशाद्द्रष्टुमन्यत्कलेवरम् ।।८३।।
प्रत्येकमङ्गं दृष्ट्वैव दत्ता शान्ते मुखाम्बुजे।।
दृष्ट्वा मुखारविन्दं च नान्यं गन्तुं च सा क्षमा ।। ८४ ।।
राधिकावचनं श्रुत्वा जहास पुरुषोत्तमः ।।
तामुवाच हितं तथ्यं श्रुतिस्मृतिनिरूपितम् ।। ८९ ।।
श्रीकृष्ण उवाच ।।
न खण्डनीयं तत्तत्र मया पूर्वं निरूपितम् ।।
तिष्ठ भद्रे क्षणं भद्रं करिष्यामि तव प्रिये ।। ८६।।
त्वन्मनोरथपूर्णस्य स्वयं कालः समागतः ।।
यस्य यल्लिखितं पूर्वं यत्र काले निरूपितम् ।। ८७ ।।
तदेव खण्डितुं राधे क्षमो नाहं च को विधिः ।।
विधातुश्च विधाताऽहं येषां यल्लेखनं कृतम् ।। ८८ ।।
ब्रह्मादीनां च क्षुद्राणां न तत्खण्ड्यं कदाचन ।।
एतस्मिन्नन्तरे ब्रह्माऽऽजगाम पुरतो हरेः ।। ८९ ।।
मालाकमण्डलुकर ईषत्स्मेरचतुर्मुखः ।।
गत्वा ननाम तं कृष्णं प्रतुष्टाव यथागमम्।।4.15.९०।।
साश्रुनेत्रपुलकितो भक्तिनम्रात्मकन्धरः।।
स्तुत्वा नत्वा जगद्धाता जगाम हरिसन्निधिम् ।।९१।।
पुनर्नत्वा प्रभुं भक्त्या जगाम राधिकान्तिकम् ।।
मूर्ध्ना ननाम भक्त्या च मातुस्तच्चरणाम्बुजे ।।९२।।
चकार संभ्रमेणैव जटाजालेन वेष्टितम्।।
कमण्डलुजलेनैव शीघ्रं प्रक्षालितं मुदा ।।९३।।
यथागमं प्रतुष्टाव पुटाञ्जलियुतः पुनः ।।
।।ब्रह्मोवाच ।। ।।
हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः ।।९४।।
सुदुर्लभं च सर्वेषां भारते च विशेषतः ।।
षष्टिवर्षसहस्राणि तपस्तप्तं पुरा मया ।। ९५ ।।
भास्करे पुष्करे तीर्थे कृष्णस्य परमात्मनः ।।
आजगाम वरं दातुं वरदाता हरिः स्वयम् ।। ९६ ।।
वरं वृणीष्वेत्युक्ते च स्वाभीष्टं च वृतं मुदा ।।
राधिकाचरणाम्भोजं सर्वेषामपि दुर्लभम् ।। ९७ ।।
हे गुणातीत मे शीघ्रमधुनैव प्रदर्शय ।।
मयेत्युक्तो हरिरयमुवाच मां तपस्विनम् ।। ९८ ।।
दर्शयिष्यामि काले च वत्सेदानीं क्षमेति च ।।
नहीश्वराज्ञा विफला तेन दृष्टं पदाम्बुजम् ।। ९९ ।।
सर्वेषां वाञ्छितं मातर्गोलोके भारतेऽधुना ।।
सर्वा देव्यः प्रकृत्यंशा जन्याः प्राकृतिका ध्रुवम् ।। 4.15.१०० ।।
त्वं कृष्णाङ्गार्धसंभूता तुल्या कृष्णेन सर्वतः ।।
श्रीकृष्णस्त्वमयं राधा त्वं राधा वा हरिः स्वयम् ।। १०१ ।।
नहि वेदेषु मे दृष्ट इति केन निरूपितम् ।।
ब्रह्माण्डाद्बहिरूर्ध्वं च गोलोकोऽस्ति यथाम्बिके ।। १०२ ।।
वैकुण्ठश्चाप्यजन्यश्च त्वमजन्या तथाम्बिके ।।
यथा समस्तब्रह्माण्डे श्रीकृष्णांशांशजीविनः।।१०३।।
तथा शक्तिस्वरूपा त्वं तेषु सर्वेषु संस्थिता।।
पुरुषाश्च हरेरंशास्त्वदंशा निखिलाः स्त्रियः ।।१०४।।
आत्मना देहरूपा त्वमस्याधारस्त्वमेव हि।।
अस्यानु प्राणैस्त्वं मातस्त्वत्प्राणैरयमीश्वरः ।।१०५।।
किमहो निर्मितः केन हेतुना शिल्पकारिणा ।।
नित्योऽयं च तथा कृष्णस्त्वं च नित्या तथाऽम्बिके ।। १०६ ।।
अस्यांशा त्वं त्वदंशो वाऽप्ययं केन निरूपितः ।।
अहं विधाता जगतां देवानां जनकः स्वयम् ।। १०७ ।।
तं पठित्वा गुरुमुखाद्भवन्त्येव बुधा जनाः ।।
गुणानां वास्तवानां ते शतांशं वक्तुमक्षमः ।। १०८ ।।
वेदो वा पण्डितो वाऽन्यः को वा त्वां स्तोतुमीश्वरः ।।
स्तवानां जनकं ज्ञानं बुद्धिर्ज्ञानाम्बिका सदा ।। १०९ ।।
त्वं बुद्धेर्जननी मातः को वा त्वां स्तोतुमीश्वरः ।।
यद्वस्तु दृष्टं सर्वेषां तद्धि वक्तुं बुधः क्षमः ।।4.15.११०।।
यददृष्टाश्रुते वस्तु तन्निर्वक्तुं च कः क्षमः ।।
अहं महेशोऽनंतश्च स्तोतुं त्वां कोऽपि न क्षमः।। १११ ।।
सरस्वती च वेदाश्च क्षमः कः स्तोतुमीश्वरः ।।
यथागमं यथोक्तं च न मां निन्दितुमर्हसि ।। ११२ ।।
ईश्वराणामीश्वरस्य योग्यायोग्ये समा कृपा।।
जनस्य प्रतिपाल्यस्य क्षणे दोषः क्षणे गुणः ।। ११३ ।।
जननी जनको यो वा सर्वं क्षमति स्नेहतः ।।
इत्युक्त्वा जगतां धाता तस्थौ च पुरतस्तयोः ।।११४।।
प्रणम्य चरणाम्भोजे सर्वेषां वन्द्यमीप्सितम् ।।
ब्रह्मणा च कृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः ।।११५।।
राधामाधवयोः पादे भक्तिर्दास्यं लभेद्ध्रुवम् ।।
कर्मनिर्मूलनं कृत्वा मृत्युं जित्वा सुदुर्जयम् ।।
विलङ्घ्य सर्वलोकांश्च याति गोलोकमुत्तमम्।। ११६।।
श्रीनारायण उवाच।।
ब्रह्मणः स्तवनं श्रुत्वा तमुवाच ह राधिका ।। ११७ ।।
वरं वृणु विधातस्त्वं यत्ते मनसि वर्तते ।।
राधिकावचनं श्रुत्वा तामुवाच जगद्विधिः ।। ११८ ।।
वरं च युवयोः पादपद्मभक्तिं च देहि मे ।।
इत्युक्ते विधिना राधा तूर्णमोमित्युवाच ह ।। ११९ ।।
पुनर्ननाम तां भक्त्या विधाता जगतां पतिः ।।
तदा ब्रह्मा तयोर्मध्ये प्रज्वाल्य च हुताशनम् ।। 4.15.१२० ।।
हरिं संस्मृत्य हवनं चकार विधिना विधिः।।
उत्थाय शयनात्कृष्ण उवास वह्निसन्निधौ ।। १२१ ।।
ब्रह्मणोक्तेन विधिना चकार हवनं स्वयम् ।।
प्रणमय्य पुनः कृष्णं राधां तां जनकः स्वयम् ।। १२२ ।।
कौतुकं कारयामास सप्तधा च प्रदक्षिणाम् ।।
पुनः प्रदक्षिणां राधां कारयित्वा हुताशनम् ।। १२३ ।।
प्रणमय्य ततः कृष्णं वासयामास तं विधिः ।।
तस्या हस्तं च श्रीकृष्णं ग्राहयामास तं विधिः ।। १२४।।
वेदोक्तसप्तमन्त्रांश्च पाठयामास माधवम् ।।
संस्थाप्य राधिकाहस्तं हरेर्वक्षसि वेदवित् ।। १२५ ।।
श्रीकृष्णहस्तं राधायाः पृष्ठदेशे प्रजापतिः ।।
स्थापयामास मन्त्रांस्त्रीन्पाठयामास राधिकाम् ।।१२६।।
पारिजातप्रसूनानां मालां जानुविलम्बिताम् ।।
श्रीकृष्णस्य गले ब्रह्मा राधाद्वारा ददौ मुदा ।। १२७ ।।
प्रणमय्य पुनः कृष्णं राधां च कमलोद्भवः ।।
राधागले हरिद्वारा ददौ मालां मनोहराम्।।
पुनश्च वासयामास श्रीकृष्णं कमलोद्भवः ।। १२८ ।।
तद्वामपार्श्वे राधां च सस्मितां कृष्णचेतसम् ।।
पुटाञ्जलिं कारयित्वा माधवं राधिकां विधिः ।। ।।१२९।।
पाठयामास वेदोक्तान्पञ्च मन्त्रांश्च नारद ।।
प्रणमय्य पुनः कृष्णं समर्प्य राधिकां विधिः ।। 4.15.१३० ।।
कन्यकां च यथा तातो भक्त्या तस्थौ हरेः पुरः ।।
एतस्मिन्नन्तरे देवाः सानन्दपुलकोद्गमाः ।। १३१।।
दुन्दुभिं वादयामासुश्चानकं मुरजादिकम्।।
पारिजातप्रसूनानां पुष्पवृष्टिर्बभूव ह ।। १३२ ।।
जगुर्गन्धर्वप्रवरा ननृतुश्चाप्सरोगणाः ।।
तुष्टाव श्रीहरिं ब्रह्मा तमुवाच ह सस्मितः ।।१३३।।
युवयोश्चरणाम्भोजे भक्तिं मे देहि दक्षिणाम्।।
ब्रह्मणो वचनं श्रुत्वा तमुवाच हरिः स्वयम् ।।१३४।।
मदीयचरणाम्भोजे सुदृढा भक्तिरस्तु ते ।।
स्वस्थानं गच्छ भद्रं ते भविता नात्र संशयः ।। १३५ ।।
मया नियोजितं कर्म कुरु वत्स ममाज्ञया ।।
श्रीकृष्णस्य वचः श्रुत्वा विधाता जगतां मुने ।। १३६ ।।
प्रणम्य राधां कृष्णं च जगाम स्वालयं मुदा ।।
गते ब्रह्मणि सा देवी सस्मिता वक्रचक्षुषा ।। ।। १३७ ।।
सा ददर्श हरेर्वक्त्रं चच्छाद व्रीडया मुखम् ।।
पुलकाङ्कितसर्वांगी कामबाणप्रपीडिता ।। १३८ ।।
प्रणम्य श्रीहरिं भक्त्या जगाम शयनं हरेः ।।
चन्दनागुरुपङ्कं च कस्तूरीकुङ्कुमान्वितम्।।१३९।।
ललाटे तिलकं कृत्वा ददौ कृष्णस्य वक्षसि ।।
सुधापूर्णं रत्नपात्रं मधुपूर्णं मनोहरम् ।। 4.15.१४० ।।
प्रददौ हरये भक्त्या बुभुजे जगतीपतिः ।।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।। १४१ ।।
ददौ कृष्णाय सा राधा सादरं बुभुजे हरिः ।।
चखाद सस्मिता राधा हरिदत्तं सुधारसम् ।।१४२।।
ताम्बूलं तेन दत्तं च बुभुजे पुरतो हरेः ।।
कृष्णश्चर्वितताम्बूलं राधिकायै मुदा ददौ ।।१४३।।
चखाद परया भक्त्या पपौ तन्मुखपङ्कजम् ।।
राधाचर्वितताम्बूलं ययाचे मधुसूदनः ।।१४४।।
जहास न ददौ राधा क्षमेत्युक्तं तया मुदा।।
चन्दनागुरुकस्तूरीकुङ्कुमद्रवमुत्तमम् ।।
राधिकायाश्च सर्वांगे प्रददौ माधवः स्वयम् ।। १४५ ।।
यः कामो ध्यायते नित्यं यस्यैकचरणाम्बुजम् ।।
बभूव तस्य स वशो राधासंतोषकारणात् ।। १४६ ।।
यद्भृत्यभृत्यैर्मदनो जितः सर्वक्षणं मुने ।।
स्वेच्छामयो हि भगवाञ्जितस्तेन कुतूहलात् ।।१४७।।
करे धृत्वा च तां कृष्णः स्थापयामास वक्षसि ।।
चकार शिथिलं वस्त्रं चुम्बनं च चतुर्विधम् ।।१४८।।
बभूव रतियुद्धेन विच्छिन्ना क्षुद्रघण्टिका ।।
चुम्बनेनौष्ठरागश्च ह्याश्लेषेण च पत्रकम् ।।१४९।।
शृंगारेणैव कबरी सिन्दूरतिलकं मुने ।।
जगामालक्तकाङ्कश्च विपरीतादिकेन च ।।4.15.१५०।।
पुलकाङ्कितसर्वांङ्गी बभूव नवसंगमात् ।।
मूर्च्छामवाप सा राधा बुबुधे न दिवानिशम् ।।१५१।।
प्रत्यङ्गेनैव प्रत्यङ्गमङ्गेनाङ्गं समाश्लिषत् ।।
शृङ्गाराष्टविधं कृष्णश्चकार कामशास्त्रवित्।।१५२।।
पुनस्तां च समाश्लिष्य सस्मितां वक्रलोचनाम् ।।
क्षतविक्षतसर्वाङ्गीं नखदन्तैश्चकार ह ।।१५३।।
कङ्कणानां किङ्किणीनां मञ्जीराणां मनोहरः ।।
बभूव शब्दस्तत्रैव शृङ्गारसमरोद्भवः ।। १५४ ।।
पुनस्तां च समाकृष्य शय्यायां च निवेश्य च ।।
चकार रहितां राधां कबरीबन्धवाससा ।। १५५ ।।
निर्जने कौतुकात्कृष्णः कामशास्त्रविशारदः ।।
चूडावेषांशुकैर्हीनं चकार तं च राधिका ।।१५६।।
न कस्य कस्माद्धानिश्च तौ द्वौ कार्यविशारदौ ।।
जग्राह राधाहस्तात्तु माधवो रत्नदर्पणम् ।।१५७।।
मुरलीं माधवकराज्जग्राह राधिका बलात् ।।
चित्तापहारं राधायाश्चकार माधवो बलात् ।।१५८।।
जहार राधिका रासान्माधवस्यापि मानसम् ।।
निवृत्ते कामयुद्धे च सस्मिता वक्रलोचना।।१५९।।
प्रददौ मुरलीं प्रीत्या श्रीकृष्णाय महात्मने।।
प्रददौ दर्पणं कृष्णः क्रीडाकमलमुज्ज्वलम् ।।4.15.१६०।।
चकार कबरीं रम्यां सिन्दूरतिलकं ददौ।।
विचित्रपत्रकं वेषं चकारैवंविधं हरिः।। ।।१६१।।
विश्वकर्मा न जानाति सखीनामपि का कथा ।।
वेषं विधातुं कृष्णस्य यदा राधा समुद्यता ।। १६२ ।।
बभूव शिशुरूपं च कैशोरं च विहाय च ।।
ददर्श बालरूपं तं रुदन्तं पीडितं क्षुधा ।।१६३।।
यादृशं प्रददौ नन्दो भीतं तादृशमच्युतम् ।।
विनिश्वस्य च सा राधा हृदयेन विदूयता ।।१६४।।
इतस्ततस्तं पश्यन्ती शोकार्ता विरहातुरा ।।
उवाच कृष्णमुद्दिश्य काकूक्तिमिति कातरा ।। १६५ ।।
मायां करोषि मायेश किंकरीं कथमीदृशीम् ।।
इत्येवमुक्त्वा सा राधा पपात च रुरोद च ।। ।।१६६।।
रुरोद कृष्णस्तत्रैव वाग्बभूवाशरीरिणी ।।
कथं रोदिषि राधे त्वं स्मर कृष्णपदाम्बुजम्।।१६७।।
आरासमण्डलं यावन्नक्तमत्रागमिष्यति ।।
करिष्यसि रतिं नित्यं हरिणा सार्द्धमीप्सिताम् ।।१६८।।
छायां विधाय स्वगृहे स्वयमागत्य मा रुद ।।
कृत्वा क्रोडे च प्राणेशं मायेशं बालरूपिणम् ।। १६९ ।।
त्यज शोकं गृहं गच्छ सुन्दरीत्थं प्रबोधिता ।।
श्रुत्वैवं वचनं राधा कृत्वा क्रोडे च बालकम् ।। ।। 4.15.१७० ।।
ददर्श पुष्पोद्यानं च वनं सद्रत्नमण्डपम् ।।
तूर्णं वृन्दावनाद्राधा जगाम नन्दमन्दिरम् ।। १७१ ।।
सा मनोयायिनी देवी निमिषार्धेन नारद ।।
संसिक्तस्निग्धमधुररसना रक्तलोचना ।। १७२ ।।
यशोदायै शिशुं दातुमुद्यता सत्युवाच ह ।।
गृहीत्वैवं शिशुं स्थूलं रुदन्तं च क्षुधातुरम् ।। १७३ ।।
गोष्ठे त्वत्स्वामिना दत्तं प्राप्नोमि यातनां पथि ।।
संसिक्तं वसनं वत्से मेघाच्छन्नेऽतिदुर्दिने ।। १७४ ।।
पिच्छिले कर्दमोद्रेके यशोदा वोढुमक्षमा ।।
गृहाण बालकं भद्रे स्तनं दत्त्वा प्रबोधय ।। १७५ ।।
गृहं चिरं परित्यक्तं यामि तिष्ठ सुखं सति ।।
इत्युक्त्वा बालकं दत्त्वा जगाम स्वगृहं प्रति ।। १७६ ।।
यशोदा बालकं नीत्वा चुचुम्ब च स्तनं ददौ ।।
बहिर्निविष्टा सा राधा स्वगृहे गृहकर्मणि ।। १७७ ।।
नित्यं नक्तं रतिं तत्र चकार हरिणा सह ।।
इत्येवं कथितं वत्स श्रीकृष्णचरितं शुभम् ।।
सुखदं मोक्षदं पुण्यमपरं कथयामि ते ।। १७८ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे राधाकृष्णविवाहनवसंगमप्रस्तावो नाम पञ्चदशोऽध्यायः ।। १५ ।।