ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०१२

विकिस्रोतः तः
← अध्यायः ०११ श्रीकृष्णजन्मखण्डः
अध्यायः ०१२
वेदव्यासः
अध्यायः ०१३ →

श्रीनारायण उवाच ।। ।।
एकदा मंदिरे नन्दपत्नी साऽऽनंदपूर्वकम् ।।
कृत्वा वक्षसि गोविंदं क्षुधितं च स्तनं ददौ ।। १ ।।
एतस्मिन्नंतरे गोप्य आजग्मुर्नंदमंदिरम् ।।
स्थविराश्च वयस्याश्च बालिका बालकान्विताः ।। २ ।।
अतृप्तं बालकं शीघ्रं संन्यस्य शयने सती ।।
प्रणनाम समुत्थाय कर्मण्यौत्थानिके मुदा ।। ३ ।।
तैलसिंदूरतांबूलं ददौ ताभ्यो मुदाऽन्विता।।
मिष्टवस्तूनि वस्त्राणि भूषणानि च गोपिका ।। ४ ।।
एतस्मिन्नन्तरे कृष्णो रुरोद क्षुधितस्तदा ।।
प्रेरयित्वा स चरणं मायेशो मायया विभुः ।।५।।
पपात चरणं तस्य प्रवीणे शकटे मुने ।।
विश्वंभरपदाघातात्तच्च चूर्णं बभूव ह ।। ६ ।।
बभंज शकटं पेतुर्भग्नकाष्ठानि तत्र वै ।।
पपात दधि दुग्धं च नवनीतं घृतं मधु ।।७।।
दृष्ट्वाऽऽश्चर्यं गोपिकाश्च दुद्रुवुर्बालकं भयात्।।
ददृशुर्भग्नशकटमिंधनाभ्यंतरे शिशुम्।।८।।
भग्नभांडसमूहं च पतितं बहुगोरसम् ।।
प्रेरयित्वा तु काष्ठानि जग्राह बालकं भिया ।। ९ ।।
मायारक्षितसर्वांगं रुदितं क्षुधितं क्षुधा।।
स्तनं ददौ यशोदा तं रुरोद च भृशं शुचा ।। 4.12.१० ।।
पप्रच्छुर्बालकान्गोपा बभंज शकटं कथम् ।।
किंचिद्धेतुं न पश्यामः सहसेति किमद्भुतम् ।। ११ ।।
इत्यूचुर्बालकाः सर्वे गोपाः शृणुत मद्वचः ।।
श्रीकृष्णस्य पदाघाताद्बभंज शकटं ध्रुवम् ।।१२।।
श्रुत्वा तद्वचनं गोपा गोप्यश्च जहसुर्मुदा ।।
न हि जग्मुः प्रतीतिं च मिथ्येत्यूचुर्व्रजे प्रजाः ।। १३ ।।
शिशोः स्वस्त्ययनं कार्यं चक्रुर्ब्राह्मणपुंगवाः ।।
हस्तं दत्त्वा शिशोर्गात्रे पपाठ कवचं द्विजः ।। १४ ।।
वदामि तत्ते विप्रेन्द्र कवचं सर्वरक्षणम् ।।
यद्दत्तं मायया पूर्वं ब्रह्मणे नाभिपंकजे ।।१५।।
निद्रिते जगतीनाथे जले च जलशायिनि ।।
भीताय स्तुतिकर्त्रे च मधुकैटभयोर्भयात् ।। १६ ।।
योगनिद्रोवाच ।।
दूरीभूतं कुरु भयं भयं किं ते हरौ स्थिते ।।
स्थितायां मयि च ब्रह्मन्सुखी तिष्ठ जगत्पते ।।१७।।
श्रीहरिः पातु ते वक्त्रं मस्तकं मधुसूदनः ।।
श्रीकृष्णश्चक्षुषी पातु नासिकां राधिकापतिः ।। १८ ।।
कर्णयुग्मं च कण्ठं च कपालं पातु माधवः ।।
कपोलं पातु गोविन्दः केशांश्च केशवः स्वयम् ।।१९।।
अधरोष्ठं हृषीकेशो दंतपंक्तिं गदाग्रजः ।।
रासेश्वरश्च रसनां तालुकं वामनो विभुः ।। 4.12.२० ।।
वक्षः पातु मुकुन्दश्च जठरं पातु दैत्यहा ।।
जनार्दनः पातु नाभिं पातु विष्णुश्च मेहनम् ।। २१ ।।
नितंबयुग्मं गुह्यं च पातु ते पुरुषोत्तमः ।।
जानुयुग्मे जानकीशः पातु ते सर्वदा विभुः ।। २२ ।।
हस्तयुग्मं नृसिंहश्च पातु सर्वत्र संकटे ।।
पादयुग्मं वराहश्च पातु ते कमलोद्भवः ।। २३ ।।
ऊर्ध्वं नारायणः पातु ह्यधस्तात्कमलापतिः ।।
पूर्वस्यां पातु गोपालः पातु वह्नौ दशास्यहा ।। २४ ।।
वनमाली पातु याम्यां वैकुंठः पातु नैर्ऋतौ ।।
वारुण्यां वासुदेवश्च सतो रक्षाकरः स्वयम् ।। २५ ।।
पातु ते संततमजो वायव्यां विष्टरश्रवाः ।।
उत्तरे च सदा पातु तेजसा जलजासनः ।। २६ ।।
ऐशान्यामीश्वरः पातु पातु सर्वत्र शत्रुजित् ।।
जले स्थले चांतरिक्षे निद्रायां पातु राघवः ।। २७ ।।
इत्येवं कथितं ब्रह्मन्कवचं परमाद्भुतम् ।।
कृष्णेन कृपया दत्तं स्मृतेनैव पुरा मया ।। २८ ।।
शुंभेन सह संग्रामे निर्लक्ष्ये घोरदारुणे ।।
गगने स्थितया सद्यः प्राप्तिमात्रेण सो जितः ।। २९ ।।
कवचस्य प्रभावेण धरण्यां पतितो मृतः।।
पूर्वं वर्षशतं खे च कृत्वा युद्धं भयावहम् ।। 4.12.३० ।।
मृते शुंभे च गोविन्दः कृपालुर्गगनस्थितः ।।
मालां च कवचं दत्त्वा गोलोकं स जगाम ह ।। ३१ ।।
कल्पांतरस्य वृत्तांतं कृपया कथितं मुने ।।
अभ्यंतरभयं नास्ति कवचस्य प्रभावतः ।। ३२ ।।
कोटिशः कोटिशो नष्टा मया दृष्टाश्च वेधसः ।।
अहं च हरिणा सार्द्धं कल्पेकल्पे स्थिरा सदा ।। ३३ ।।
इत्युक्त्वा कवचं दत्त्वा साऽन्तर्धानं चकार ह ।।
निःशङ्को नाभिकमले तस्थौ स कमलोद्भवः ।। ३४ ।।
सुवर्णगुटिकायां च कृत्वेदं कवचं परम् ।।
कण्ठे वा दक्षिणे बाहौ बध्नीयाद्यः सुधीः सदा ।। ३५ ।।
विषाग्निजलशत्रुभ्यो भयं तस्य न जायते ।।
जले स्थले चांतरिक्षे निद्रायां रक्षतीश्वरः ।। ३६ ।।
संग्रामे वज्रपाते च विपत्तौ प्राणसंकटे ।।
कवचस्मरणादेव सद्यो निःशङ्कतां व्रजेत् ।। ३७ ।।
बद्ध्वेदं कवचं कण्ठे शंकरस्त्रिपुरं पुरा ।।
जघान लीलामात्रेण दुरंतमसुरेश्वरम् ।। ३८ ।।
बद्ध्वेदं कवचं काली रक्तबीजं चखाद सा ।।
सहस्रशीर्षा धृत्वेदं विश्वं धत्ते तिलं यथा ।। ३९ ।।
आवां सनत्कुमारश्च धर्मसाक्षी च कर्मणाम् ।।
कवचस्य प्रभावेण सर्वत्र जयिनो वयम् ।। 4.12.४० ।।
तस्य नन्दशिशोः कण्ठे चकार कवचं द्विजः ।।
आत्मनः कवचं कण्ठे दधार च स्वयं हरिः ।। ४१ ।।
प्रभावः कथितः सर्वः कवचस्य हरेस्तथा ।।
अनन्तस्याच्युतस्यैव प्रभावमतुलं मुने ।। ४२ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे शकटभंजनयोगनिद्रोक्तकवचन्यासो नाम द्वादशोऽध्यायः ।। १२ ।।