ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ००५

विकिस्रोतः तः
← अध्यायः ००४ श्रीकृष्णजन्मखण्डः
अध्यायः ००५
वेदव्यासः
अध्यायः ००६ →

श्रीनारायण उवाच ।।
गोलोकं निखिलं दृष्ट्वा देवास्ते हृष्टमानसाः ।।
पुनराजग्मू राधायाः प्रधानद्वारमेव च ।। १ ।।
सद्रत्नमणिनिर्माणं वेदिकायुग्मसंयुतम् ।।
हरिद्राकारमणिना वज्रसंमिश्रितेन च ।। २ ।।
अमूल्यरत्नरचितकपाटेन विभूषितम् ।।
द्वारे नियुक्तं ददृशुर्वीरभानुमनुत्तमम् ।। ३ ।।
रत्नसिंहासनस्थं च रत्नाभरणभूषितम् ।।
पीतवस्त्रपरीधानं सद्रत्नमुकुटोज्ज्वलम् ।। ४ ।।
द्वारं चित्रविचित्रेण विचित्रं परमाद्भुतम् ।।
सर्वं निवेदनं चक्रुर्देवा दौवारिकं मुदा ।। ५ ।।
तानुवाच द्वारपालो निःशंकं त्रिदशेश्वरान् ।।
नाहं विनाऽऽज्ञया गंतुं दातुं सांप्रतमीश्वरः ।।६।।
किंकरान्प्रेषयामास श्रीकृष्णस्थानमेव च ।।
हरेरनुज्ञां संप्राप्य ददौ गंतुं सुरान्मुने ।। ७ ।।
तं संभाष्य ययुर्देवा द्वितीयं द्वारमुत्तमम् ।।
ततोऽधिकं विचित्रं च सुंदरं सुमनोहरम् ।। ५ ।।
द्वारे नियुक्तं ददृशुश्चंद्रभानुं च नारद ।।
किशोरं श्यामलं चारु स्वर्णवेत्रधरं वरम् ।। ९ ।।
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ।।
गोपानां च समूहेन पंचलक्षेण शोभितम् ।। 4.5.१० ।।
तं संभाष्य ययुर्देवास्तृतीयं द्वारमुत्तमम् ।।
ततोऽतिसुन्दरं चित्रं ज्वलन्तं मणितेजसा ।। ११ ।।
द्वारे नियुक्तं ददृशुः सूर्यभानुं च नारद ।।
द्विभुजं मुरलीहस्तं किशोरं श्यामसुन्दरम् ।। १२ ।।
मणिकुण्डलयुग्मेन कपोलस्थलराजितम् ।।
रत्नदंडकरं श्रेष्ठं प्रेष्यं राधेशयोः परम् ।। १३ ।।
नवलक्षेण गोपानां वेष्टितं च नृपेंद्रवत् ।।
तं संभाष्य ययुर्देवाश्चतुर्थं द्वारमेव च ।।१४।।
तेभ्यो विलक्षणं रम्यं सुदीप्तं मणितेजसा ।।
अत्यद्भुतविचित्रेण भूषितं सुमनोहरम् ।। १५ ।।
द्वारे नियुक्तं ददृशुर्वसुभानुं व्रजेश्वरम् ।।
किशोरं सुन्दरवरं मणिदण्डकरं परम् ।। १६ ।।
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ।।
पक्वबिंबाधरोष्ठं च सस्मितं सुमनोहरम् ।। १७ ।।
तं संभाष्य ययुर्देवा पञ्चमं द्वारमेव च ।।
वज्रभित्तिस्थितैश्चित्रविचित्रैर्ज्वलितं परम् ।। १८ ।।
द्वारपालं च ददृशुर्देवभानुं च तत्र वै ।।
चारु सिंहासनस्थं च रत्नभूषणभूषितम् ।। १९ ।।
मयूरपिच्छचूडं च रत्नमालाविभूषितम् ।।
कदंबपुष्पसंसक्तसद्रत्नकुण्डलोज्ज्वलम् ।। 4.5.२० ।।
चंदनागरुकस्तूरीकुङ्कुमद्रवचर्चितम् ।।
नृपेंद्रवरतुल्यं च दशलक्षप्रजान्वितम् ।। २१ ।।
तं वेत्रपाणिं संभाष्य ययुर्देवा मुदाऽन्विताः ।।
विलक्षणं द्वारषट्कं चित्रराजिविराजितम् ।। २२ ।।
वज्रभित्तियुग्मयुक्ते पुष्पमाल्यविभूषिते ।।
द्वारे नियुक्तं ददृशुः शुक्रभानुं व्रजेश्वरम् ।। २३ ।।
नानालंकारशोभाढ्यं दशलक्षप्रजान्वितम् ।।
श्रीखंडपल्लवासक्तकपोलं कुण्डलोज्ज्वलम् ।। २४।।
तूर्णं सुरास्तं सभाष्य ययुर्द्वारं च सप्तमम् ।।
नानाप्रकारचित्रं च षड्भ्यश्चातिविलक्षणम् ।। २५ ।।
द्वारे नियुक्तं ददृशू रत्नभानुं हरेः प्रियम् ।।
चंदनोक्षितसर्वांगं पुष्पमालाविभूषितम् ।।
भूषितं भूषणै रम्यैर्मणिरत्नमनोहरैः ।। २६ ।।
गोपैर्द्वादशलक्षैश्च राजेंद्रमिव राजितम् ।।
रत्नसिंहासनस्थं च स्मेराननसरोरुहम् ।। २७ ।।
तं वेत्रहस्तं संभाष्य जग्मुर्देवेश्वरा मुदा ।।
विचित्रमष्टमं द्वारं सप्तभ्योऽपि विलक्षणम् ।। २८ ।।
दौवारिकं ते ददृशुः सुपार्श्वं सुमनोहरम् ।।
सस्मितं सुन्दरवरं श्रीखण्डतिलकोज्ज्वलम् ।। २९ ।।
बन्धुजीवाधरोष्ठं च रत्नकुण्डलमंडितम् ।।
सर्वालंकारशोभाढ्यं रत्नदण्डधरं वरम् ।। 4.5.३० ।।
गोपैर्द्वादशलक्षैश्च किशोरैश्च समन्वितम् ।।
ततः शीघ्रं ययुर्देवा नवमं द्वारमीप्सितम् ।।३१।।
वज्रसद्रत्नरचितं चतुर्वेदिसमन्वितम् ।।
अपूर्वचित्ररचितमालजालैर्विराजितम् ।। ३२ ।।
द्वारपालं च ददृशुः सुबलं ललिताकृतिम् ।।
नानाभूषणशोभाढ्यं भूषणार्हं मनोहरम् ।। ३३ ।।
वज्रैर्द्वादशलक्षैश्च संयुक्तं सुमनोहरम् ।।
तं दण्डहस्तं सम्भाष्य सुरा द्वारातरं ययुः ।। ३४ ।।
विशिष्टं दशमं द्वारं दृष्ट्वा ते विस्मयं ययुः ।।
सर्वानिर्वचनीयं चाप्यदृष्टमश्रुतं मुने ।। ३९ ।।
ददृशुर्द्वारपालं च सुदामानं च सुन्दरम् ।।
अनिवर्चनीयरूपं कृष्णतुल्यं मनोहरम् ।। ३६ ।।
गोपविंशतिलक्षाणां समूहैः परिवारितम् ।।
तं दण्डहस्तं दृष्ट्वैव जग्मुर्द्वारांतरं सुराः ।। ३७ ।।
द्वारमेकादशाख्यं च सुचित्रं महदद्भुतम् ।।
द्वारपालं च तत्रस्थं श्रीदामानं व्रजेश्वरम् ।। ३८ ।।
राधिकापुत्रतुल्यं च पीतवस्त्रेण भूषितम् ।।
अमूल्यरत्नरचितरत्नसिंहासनस्थितम् ।। ३९ ।।
अमूल्यरत्नभूषाभिर्भूषितं सुमनोहरम् ।।
चन्दनागुरुकस्तूरीकुंकुमेन विराजितम् ।। 4.5.४० ।।
गण्डस्थलकपोलार्हसद्रत्नकुण्डलोज्ज्वलम् ।।
सद्रत्नश्रेष्ठरचितविचित्रमुकुटोज्ज्वलम् ।। ४१ ।।
प्रफुल्लमालतीमालाजालैः सर्वांगभूषितम् ।।
कोटिगोपैः परिवृतं राजेन्द्राधिकमुज्ज्वलम् ।। ४२ ।।
तं संभाष्य ययुर्द्वारं द्वादशाख्यं सुरा मुदा ।।
अमूल्यरत्नरचितवेदिकाभिः समन्वितम् ।। ४३ ।।
सर्वेषां दुर्लभं चित्रमदृश्यमश्रुतं मुने ।।
वज्रभित्तिस्थितं चित्रं सुन्दरं सुमनोहरम् ।। ४४ ।।
द्वारे नियुक्ता ददृशुर्देवा गोपांगना वराः ।।
नवयौवनसंपन्ना रत्नाभरणभूषिताः ।। ४५ ।।
पीतवस्त्रपरीधानाः कबरीभारभूषिताः ।।
सुगंधिमालतीमाला जालैः सर्वांगभूषिताः ।। ४६ ।।
रत्नकंकणकेयूररत्ननूपुरभूषिताः ।।
रत्नकुंडलयुग्मेन गण्डस्थलविराजिताः ।। ४७ ।।
चन्दनागुरु कस्तूरीकुंकुमद्रवचर्चिताः ।।
पीनश्रोणीभरानम्रा नितंबाभारपीडिताः ।। ४८ ।।
गोपीनां शतकोटीनां श्रेष्ठाः प्रेष्ठा हरेरपि ।।
गोपीश्च कोटिशो दृष्ट्वा सुरास्ते विस्मयं ययुः ।। ४९ ।।
संभाष्य ता मुदा युक्ता ययुर्द्वारातरं मुने ।।
ततश्च क्रमशो विप्र त्रिषु द्वारेषु तत्र वै ।। 4.5.५० ।।
गोपांगनानां श्रेष्ठाश्च ददृशुः सुमनोहराः ।।
वराणां च वरा रम्या धन्या मान्याश्च शोभनाः ।। ५१ ।।
सर्वाः सौभाग्ययुक्ताश्च राधिकायाः प्रियाश्च ताः ।।
भूषिता भूषणै रम्यैः प्रोद्भिन्ननवयौवनाः ।। ५२ ।।
एवं द्वारत्रयं दृष्ट्वा स्वप्ना ज्ञानाद्भुताश्रुतम् ।।
अदृश्यमतिरम्यं चाप्यनिरूप्यं विचक्षणैः ।। ५३ ।।
तास्ताः संभाष्य देवास्ते विस्मिता ययुरीश्वराः ।।
राधिकाभ्यंतरं द्वारं षोडशाख्यं मनोहरम् ।। ५४ ।।
सर्वासां च प्रधानं च गोप्यं गोपांगनागणैः ।।
त्रयस्त्रिंशद्वयस्यानां निकरैर्वेष्टितं मुने ।। ५५ ।।
तेषामनिर्वचनीयैर्नानागुणसमन्वितैः ।।
रूपयौवनसंपन्नै रत्नालंकारभूषितैः ।। ५६ ।।
रत्नकंकणकेयूरत्ननूपुरभूषितैः ।।
सद्रत्नकिंकिणीजालैमर्ध्यदेशविभूषितैः ।। ५७ ।।
रत्नकुंडलयुग्मेन गंडस्थलविराजितैः ।।
प्रफुल्लमालतीमालाजालैर्वक्षस्थलोज्ज्वलैः ।। ५८ ।।
शरत्पार्वणपद्मानां प्रभां मुष्णन्मुखेंदुभिः ।।
पारिजातप्रसूनानां मालाजालेन वेष्टितैः ।। ।। ५९ ।।
पक्वबिंबाधरोष्ठैश्च स्मेराननसरोरुहैः ।।
पक्वदाडिमबीजाभिः शोभितैर्दंतपंक्तिभिः ।। 4.5.६० ।।
चारुचंपकवर्णाभिर्मध्यस्थलकृशैर्मुने ।।
गजमौक्तिकयुक्ताभिर्नासिकाभिर्विराजितैः ।। ६१ ।।
खगेंद्रचारुचंचूनां शोभामुष्णाभिरेव च ।।
गजेंद्रगंडकठिन स्तनभारभरानतैः ।। ६२ ।।
पीनश्रोणिभरार्तैश्च मुकुंदपदमानसैः ।।
निमेषरहिता देवा द्वारं च ददृशुश्च ताः ।।६३।।
लसद्रमणिरत्नैश्च वेदिकायुग्मशोभितम् ।।
हरिन्मणीनां स्तंभानां समूहैः संयुतं सदा ।। ६४ ।।
सिंदूराकारमणिभिर्मध्यस्थलविराजितैः ।।
पारिजात प्रसूनानां मालाजालैर्विभूषितम् ।। ६५ ।।
तत्संस्पर्शैर्गंधवाहैः सर्वत्र सुरभीकृतम् ।।
दृष्ट्वा तत्परमाश्चर्यं राधिकाभ्यंतरं सुराः ।। ६६ ।।
श्रीकृष्णचरणांभोजदर्शनैकमनोरथाः ।।
ताः संभाष्य ययुः शीघ्रं पुलकांचितविग्रहाः ।। ६७ ।।
भक्त्युद्रेकादश्रुपूर्णाः किंचिन्नम्रात्मकंधराः ।।
आरात्ते ददृशुर्देवा राधिकाभ्यंतरं वरम् ।। ६८ ।।
मंदिराणां च मध्यस्थं चतुःशालं मनोहरम् ।।
अमूल्यरत्नसाराणां सारेण रचितं परम् ।। ६९ ।।
नानारत्नमणिस्तंभैर्वज्रयुक्तैश्च भूषितम् ।।
पारिजातप्रसूनानां मालाजालैर्विराजितम् ।। 4.5.७० ।।
मुक्तासमूहैर्माणिक्यैः श्वेतचामरदर्पणैः ।।
अमूल्यरत्नसाराणां कलशैर्भूषितं मुने ।। ७१ ।।
पट्टसूत्रग्रंथियुक्तश्रीखंडपल्लवान्वितैः ।।
मणिस्तंभसमूहैश्च रम्यप्रांगणभूषितम् ।। ७२ ।।
चंदनागुरुकस्तूरीकुंकुमद्रवसंयुतम् ।।
शु्क्लधान्यशुक्लपुष्पप्रवालफलतंडुलैः ।। ७३ ।।
पर्णदूर्वाक्षतैर्लाजैर्निर्मंछनविभूषितैः ।।
फलयुक्तै रत्नकुंभैः सिंदूरकुंकुमान्वितैः ।। ७४ ।।
पारिजातप्रसूनानां मालायुक्तैर्विराजितम् ।।
प्रसूनाक्तैर्गंधवाहैः सर्वत्र सुरभीकृतम् ।। ७५ ।।
सर्वानिर्वचनीयं च यद्द्रव्यमनिरूपितम् ।।
ब्रह्मांडे दुर्लभं यद्यद्वस्तुभिस्तैर्विराजितम् ।। ७६ ।।
पारिजातप्रसूनानां मालाजालैः सुशोभितम् ।।
रत्नशय्यासु ललिताः सूक्ष्मवस्त्रपरिच्छदाः।।७७।।
कोटिशो रत्नकुंभाश्च रत्नपात्राणि नारद ।।
अमूल्यानि च चारूणि तैस्तैरेव विभूषितम्।।७८।।
नानाप्रकारवाद्यानां कलनादैर्निनादितम्।।
स्वरयंत्रैश्च वीणाभिर्गोपीसंगीतसुश्रुतम्।। ७९ ।।
मोहितं वाद्यशब्दैश्च मृदंगानां च नारद ।।
गोपानां कृष्णतुल्यानां समूहैः परिवारितम्।। ।।4.5.८०।।
राधासखीनां गोपीनां वृंदैर्वृंदैर्विराजितम् ।।
राधाकृष्णगुणोद्रेकपदसंगीतसुश्रुतम्।।८१।।
एवमभ्यंतरं दृष्ट्वा बभूवुर्विस्मिताः सुराः।। ।
शुश्रुवुर्मधुरं गीतं ददृशुर्नृत्यमुत्तमम् ।।८२।।
तत्र तस्थुः सुराः सर्वे ध्यानैकतानमानसाः ।।
रत्नसिंहासनं रम्यं ददृशुस्त्रिदशेश्वराः ।। ८३ ।।
धनुःशतप्रमाणं च परितो वर्तुलाकृतिम्।।
सद्रत्नक्षुद्रकलशसमूहैश्च समन्वितम् ।।८४ ।।
चित्रपुत्तलिकापुष्पचित्रकाननभूषितम् ।।
तत्र तेजःसमूहं च सूर्यकोटिसमप्रभम् ।। ८५ ।।
प्रभया ज्वलितं ब्रह्मन्नाश्चर्यं महदद्भुतम् ।।
सप्ततालप्रमाणं तद्व्याप्तमूर्ध्वं समन्ततः।।६६।।
तेजोमुषं च सर्वेषां महाश्रमविवर्जितम् ।।
सर्वव्यापि सर्वबीजं चक्षूरोधकरं परम् ।।८७।।
दृष्ट्वा तेजःस्वरूपं च ते देवा ध्यानतत्पराः ।।
प्रणेमुः परया भक्त्या भक्तिनम्रात्मकंधराः ।। ८८ ।।
परमानन्दसंयोगादश्रुपूर्णविलोचनाः ।।
पुलकांकितसर्वांगा वांछापूर्णमनोरथाः ।। ८९ ।।
नत्वा तेजःस्वरूपं च तमीशं त्रिदशेश्वराः ।।
तत्रोत्थाय ध्यानयुक्ताः प्रतस्थुस्तेजसः पुरः ।। 4.5.९० ।।
ध्यात्वैवं जगतां धाता बभूव संपुटांजलिः ।।
दक्षिणे शंकरं कृत्वा वामे धर्मं च नारद ।। ९१ ।।
भक्त्युद्रेकात्प्रतुष्टाव ध्यानैकतानमानसः ।।
परात्परं गुणातीतं परमात्मानमीश्वरम् ।। ९२ ।।
।। ब्रह्मोवाच ।। ।।
वरं वरेण्यं वरदं वरदानां च कारणम् ।।
कारणं सर्वभूतानां तेजोरूपं नमाम्यहम् ।। ९३ ।।
मंगलं मंगलानां च मंगलं मंगलप्रदम् ।।
समस्तमंगलाधारं तेजोरूपं नमाम्यहम्।। ९४ ।।
स्थितं सर्वत्र निर्लिप्तमात्मरूपं परात्परम् ।।
निरीहमवितर्क्यं च तेजोरूपं नमाम्यहम् ।। ९५ ।।
सगुणं निर्गुणं ब्रह्म ज्योतीरूपं सनातनम् ।।
साकारं च निराकारं तेजोरूपं नमाम्यहम् ।। ९६ ।।
तमनिर्वचनीयं च व्यक्तमव्यक्तमेककम् ।।
स्वेच्छामयं सर्वरूपं तेजोरूपं नमाम्यहम् ।। ९७ ।।
गुणत्रयविभागाय रूपत्रयधरं परम् ।।
कलया ते कृताः सर्वे किं जानन्ति श्रुतेः परम् ।। ९८ ।।
सर्वाधारं सर्वरूपं सर्वबीजमबीजकम् ।।
सर्वांतकमनन्तं च तेजोरूपं नमाम्यहम् ।। ९९ ।।
लक्ष्यं षङ्गुणरूपं च वर्णनीयं विचक्षणैः ।।
किं वर्णयामि लक्ष्यं च तेजोरूपं नमाम्यहम् ।। 4.5.१०० ।।
अशरीरं विग्रहवदिंद्रियं यदतींद्रियम् ।।
यदसाक्षि सर्वसाक्षि तेजोरूपं नमाम्यहम् ।। १०१ ।।
गमनार्हमपादं यदचक्षुः सर्वदर्शनम् ।।
हस्तास्यहीनं यद्भोक्तृ तेजोरूपं नमाम्यहम् ।। १०२ ।।
वेदे निरूपितं वस्तु सन्तः शक्ताश्च वर्णितुम् ।।
वेदेऽनिरूपितं यत्तत्तेजोरूपं नमाम्यहम् ।। १०३ ।।
सर्वेशं यदनीशं यत्सर्वादि यदनादि यत् ।।
सर्वात्मकमनात्मं यत्तेजोरूपं नमाम्यहम् ।। १०४ ।।
अहं विधाता जगतो वेदानां जनकः स्वयम् ।।
पाता धर्मो हरो हर्ता स्तोतुं शक्ता न केऽपि यत् ।। १०५ ।।
सेवया तव धर्मोऽयं पालने च निरूपितः।।
तवाज्ञया च संहर्ता त्वया काले निरूपिते ।।१०६।।
निःशेषोत्पत्तिकर्त्ताऽहं त्वत्पादांभोजसेवया ।।
कर्मिणां फलदाता च त्वं भक्तानां च नः प्रभुः ।। १०७
ब्रह्मांडे बिंबसदृशे भूत्वा विषयिणो वयम् ।।
एवं कतिविधाः संति तेष्वनन्तेषु सेवकाः ।।१०८।।
यथा न संख्या रेणूनां तथा तेषामणीयसाम् ।।
सर्वेषां जनकश्चेशो यस्तं स्तोतुं च के क्षमाः ।।१०९।।
एकैकलोमविवरे ब्रह्मांडमेकमेककम् ।।
यस्यैव महतो विष्णोः षोडशांशस्तवैव सः ।।4.5.११०।।
ध्यायंते योगिनः सर्वे तवैतद्रूपमीप्सितम् ।।
त्वद्भक्तदास्यनिरताः सेवंते चरणांबुजम् ।। १११ ।।
किशोरं सुंदरतरं यक्षं कमनीयकम् ।।
मंत्रध्यानानुरूपं च दर्शयास्माकमीश्वर ।। ११२ ।।
नवीनजलदश्यामपीतांबरधरं वरम् ।।
द्विभुजं मुरलीहस्तं सस्मितं सुमनोहरम् ।। ११३ ।।
मयूरपिच्छचूडं च मालतीजालमंडितम् ।।
चंदनागुरुकस्तूरीकुङ्कुमद्रवचर्चितम् ।। ११४ ।।
अमूल्यरत्नसाराणां सारभूषणभूषितम् ।।
अमूल्यरत्नरचितकिरीटमुकुटोज्ज्वलम् ।। ११५ ।।
शरत्प्रफुल्लपद्मानां प्रभामोष्यास्यचंद्रकम् ।।
पक्वबिंबसमानेन ह्यधरोष्ठेन राजितम् ।। ११६ ।।
पक्वदाडिमबीजाभदंतपंक्तिमनोहरम् ।।
केलीकदंबमूले च स्थितं रासरसोन्मुखम् ।। ११७ ।।
गोपीवक्त्रस्मिततनुं राधावक्षःस्थलस्थितम् ।।
एवं वांछितरूपं ते दृष्टुं को वा न चोत्सुकः ।।११८।।
इत्येवमुक्त्वा विश्वसृट् प्रणनाम पुनः पुनः ।।
एवं स्तोत्रेण तुष्टाव धर्मोऽपि शंकरः स्वयम् ।।११९।।
ननाम भूयोभूयश्च साश्रुपूर्णविलोचनः ।।
तिष्ठतोऽपि पुनः स्तोत्रं प्रचक्रुस्त्रिदशेश्वराः ।। 4.5.१२० ।।
व्याप्तास्तत्राश्रमे सर्वे श्रीकृष्णतेजसा मुने ।।
स्तवराजमिमं नित्यं ब्रह्मेशधर्मभिः कृतम् ।। १२१ ।।
पूजाकाले हरेरेवं भक्तियुक्तश्च यः पठेत् ।।
सुदुर्लभां दृढां भक्तिं निश्चलां लभते हरेः ।। १२२ ।।
सुरासुरमुनींद्राणां दुर्लभं दास्यमेव च ।।
अणिमादिकसिद्धिं च सालोक्यादि चतुष्टयम् ।।१२३।।
इहैव विष्णुतुल्यश्च विख्यातः पूजितो धुवम् ।।
वाक्सिद्धिर्मंत्रसिद्धिश्च भवेत्तस्य सुनिश्चितम् ।। १२४ ।।
सर्वसौभाम्यसंयुक्तं यशसा पूरितं जगत् ।।
पुत्रश्च विद्या कविता निश्चला कमला तथा।।१२५।।
पत्नी पतिव्रता साध्वी सुशीला सुस्थिराः प्रजाः ।।
कीर्तिश्च चिरकालीना त्वंते कृष्णांतिके गतिः ।। १२६ ।।
इति श्रीब्रह्म वैवर्ते महापुराणे श्रीकृष्णजन्मखंडे गोलोकवर्णने श्रीकृष्णस्तोत्रराजपठनं नाम पंचमोऽध्यायः ।। ५ ।।