ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ४६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४५ ब्रह्मवैवर्तपुराणम्
अध्यायः ४६
वेदव्यासः

नारायण उवाच ।।
स्तुत्वा तां पर्शुरामोऽसौ हर्षसंफुल्लमानसः ।।
स्तोत्रेण हरिणोक्तेन स तुष्टाव गणाधिपम् ।। १ ।।
पूजां चकार भक्त्या च नैवेद्यैर्विविधैरपि ।।
धूपैर्दीपैश्च गन्धैश्च पुष्पैश्च तुलसीं विना ।। २ ।।
सम्पूज्य भ्रातरं भक्त्या स रामः शंकराज्ञया ।।
गुरुपत्नीं गुरुं नत्वा गमनं कर्तुमुद्यतः ।। ३ ।।
नारद उवाच ।।
पूजां भगवतश्चक्रे रामो गणपतेर्यदा ।।
नैवद्यैर्विविधैः पुष्पैस्तुलसीं च विना कथम् ।। ४ ।।
तुलसी सर्वपुष्पाणां मान्या धन्या मनोहरा ।।
कथं पूजां सारभूतां न गृह्णाति गणेश्वरः ।। ५ ।।
नारायण उवाच ।।
शृणु नारद वक्ष्येऽहमितिहासं पुरातनम् ।।
ब्रह्मकल्पस्य वृत्तान्तं निगूढं च मनोहरम् ।।६।।
एकदा तुलसी देवी प्रोद्भिन्ननवयौवना ।।
तीर्थं भ्रमन्ती तपसा नारायणपरायणा ।। ७ ।।
ददर्श गङ्गातीरे सा गणेशं यौवनान्वितम् ।।
अतीव सुन्दरं शुद्धं सस्मितं पीतवाससम् ।। ८ ।।
चन्दनोक्षितसर्वांगं रत्नभूषणभूषितम् ।।
ध्यायन्तं कृष्णपादाब्जं जन्ममृत्युजरापहम् ।। ९ ।।
जितेन्द्रियाणां प्रवरं योगीन्द्राणां गुरोर्गुरुम् ।।
सुरूपहार्य्यं निष्कामं सकामा तमुवाच ह ।। 3.46.१० ।।
तुलस्युवाच ।।
अहो ध्यायसि किं देव शान्तरूप गजानन ।।
कथं लम्बोदरो देहो गजवक्त्रं कथं तव ।। ११ ।।
एकदन्तः कथं वक्त्रे वदामुत्र च कारणम् ।।
त्यज ध्यानं महाभाग सायंकाल उपस्थितः ।। १२ ।।
इत्युक्त्वा तुलसी देवी प्रजहास पुनः पुनः ।।
परं चेतसि दग्धा सा कामबाणैः सुदारुणैः ।। १३ ।।
गणेशस्य प्रधानांगे दत्त्वा किञ्चिज्जलं मुने ।।
जघान तर्जन्यग्रेण निष्पन्दं कृष्णमानसम् ।। १४ ।।
बभूव ध्यानभग्नं च तस्य नारद चेतनम् ।।
दुःखं च ध्यानभेदेन तद्विच्छेदो हि शोकदः ।। १५ ।।
ध्यानं त्यक्त्वा हरिं स्मृत्वा चापश्यत्कामिनीं पुरः ।।
नवयौवनसम्पन्नां सस्मितां कामपीडिताम् ।। ।। १६ ।।
लम्बोदरश्च तां दृष्ट्वा परं विनयपूर्वकम् ।।
उवाच सस्मितः शान्तः शान्तां कामातुरां वशी ।। १७ ।।
गणेश्वर उवाच ।।
का त्वं वत्से कस्य कन्या मातर्मा ब्रूहि किं शुभे ।।
पापदोऽशुभदः शश्वद्ध्यानभंगस्तपस्विनाम् ।। १८ ।।
कृष्णः करोतु कल्याणं हन्तु विघ्नं कृपानिधिः ।।
तद्ध्यानभंगजाद्दोषान्नाशुभं स्यात्तु ते शुभे ।। १९ ।।
गणेशवचनं श्रुत्वा तमुवाच स्मरातुरा ।।
सस्मितं सकटाक्षं च देवं मधुरया गिरा ।। 3.46.२० ।।
तुलस्युवाच ।।
धर्मात्मजस्य कन्याऽहमप्रौढा च तपस्विनी ।।
तपस्या मे स्वामिनोऽर्थे त्वं स्वामी भव मे प्रभो ।। २१ ।।
तुलसीवचनं श्रुत्वा गणेशः श्रीहरिं स्मरन् ।।
तामुवाच महाप्राज्ञः प्राज्ञीं मधुरया गिरा ।। २२ ।।
गणेश उवाच ।।
हे मातर्नास्ति मे वाच्छा घोरे दारपरिग्रहे ।।
दारग्रहो हि दुःखाय न सुखाय कदाचन ।। २३ ।।
हरिभक्तेर्व्यवायश्च तपस्यानाशकारकः ।।
मोक्षद्वारकपाटश्च भवबन्धनपाशकः ।। २४ ।।
गर्भवासकरः शश्वत्तत्त्वज्ञाननिकृन्तकः ।।
संशयानां समारम्भो यस्त्याज्यो वृषलैरपि ।। २५ ।।
गेहोऽयं कारणानां च सर्वमायाकरण्डकम् ।।
साहसानां समूहश्च दोषाणां च विशेषतः ।। २६ ।।
निवर्तस्व महाभागे पश्यान्यं कामुकं पतिम् ।।
कामुकेनैव कामुक्याः संगमो गुणवान्भवेत ।। २७ ।।
इत्येवं वचनं श्रुत्वा कोपात्सा तं शशाप ह ।।
दारास्ते भविताऽसाध्वी गणेश्वर न संशयः ।। २८ ।।
इत्याकर्ण्य सुरश्रेष्ठस्तां शशाप शिवात्मजः ।।
देवि त्वमसुरग्रस्ता भविष्यसि न संशयः ।। २९ ।।
तत्पश्चान्महतां शापाद्वृक्षस्त्वं भवितेति च ।।
महातपस्वीत्युक्त्वा तां विरराम च नारद ।। 3.46.३० ।।
शापं श्रुत्वा तु तुलसी सा रुरोद पुनः पुनः ।।
तुष्टाव च सुरश्रेष्ठं स प्रसन्न उवाच ताम् ।। ३१ ।।
गणेश्वर उवाच ।।
पुष्पाणां सारभूता त्वं भविष्यसि मनोरमे ।।
कलांशेन महाभागे स्वयं नारायणप्रिया ।। ३२ ।।
प्रिया त्वं सर्वदेवानां श्रीकृष्णस्य विशेषतः ।।
पूजा विमुक्तिदा नॄणां मया भोग्या न नित्यशः ।। ३३'।।
इत्युक्त्वा तां सुरश्रेष्ठो जगाम तपसे पुनः ।।
हरेराराधनव्यग्रो बदरीसन्निधिं ययौ ।। ३४ ।।
जगाम तुलसी देवी हृदयेन विदूयता ।।
निराहारा तपश्चक्रे पुष्करे लक्षवर्षकम् ।। ३५ ।।
पश्चान्मुनीन्द्रशापेन गणेशस्य च नारद ।।
सा प्रिया शंखचूडस्य बभूव सुचिरं मुने ।। ३६ ।।
ततः शङ्करशूलेन स ममारासुरेश्वरः ।।
सा कलांशेन वृक्षत्वं ययौ नारायणप्रिया ।। ३७ ।।
कथितश्चेतिहासस्ते श्रुतो धर्ममुखात्पुरा ।।
मोक्षप्रदश्च सारश्च पुराणेन प्रकीर्तितः ।। ३८ ।।
ततः परशुरामोऽसौ जगाम तपसे वनम् ।।
प्रणम्य शङ्करं दुर्गां संपूज्य च गणेश्वरम् ।। ३९ ।।
पूजितो वन्दितः सर्वैः सुरेन्द्रमुनिपुङ्गवैः ।।
पार्वतीशिवसान्निध्ये सुखं तस्थौ गणेश्वरः ।। 3.46.४० ।।
इदं गणपतेः खण्डं यः शृणोति समाहितः ।।
स राजसूययज्ञस्य फलमाप्नोति निश्चितम् ।। ४१ ।।
अपुत्रो लभते पुत्रं श्रीगणेशप्रसादतः ।।
धीरं वीरं च धनिनं गुणिनं चिरजीविनम् ।। ४२ ।।
यशस्विनं पुत्रिणं च विद्वांसं सुकवीश्वरम् ।।
जितेन्द्रियाणां प्रवरं दातारं सर्वसम्पदाम् ।। ४३ ।।
सुशीलं च सदाचारं प्रशंस्यं वैष्णवं लभेत् ।।
अहिंसकं दयालुं च तत्त्वज्ञानविशारदम् ।। ४४ ।।
भक्त्या गणेशं संपूज्य वस्त्रालङ्कारचन्दनैः ।।
श्रुत्वा गणपतेः खण्डं महावन्ध्या प्रसूयते ।। ४९ ।।
मृतवत्सा काकवन्ध्या ब्रह्मन्पुत्रं लभेद्ध्रुवम् ।।
अदूष्यदूषणपरा शुद्धा चैव लभेत्सुतम् ।। ४६ ।।
संपूर्णं ब्रह्मवैवर्तं श्रुत्वा यल्लभते फलम् ।।
तत्फलं लभते मर्त्यः श्रुत्वेदं खण्डमुत्तमम्।।४७।।
वाञ्छां कृत्वा तु मनसि शृणोति परमास्थितः।।
तस्मै ददाति सर्वेष्टं सुरश्रेष्ठो गणेश्वरः ।।४८।।
श्रुत्वा गणपतेः खण्डं विघ्ननाशाय यत्नतः ।।
स्वर्णयज्ञोपवीतं च श्वेतच्छत्रं च माल्यकम् ।। ४९ ।।
प्रदीयते वाचकाय स्वस्तिकं तिललड्डुकान् ।।
परिपक्वफलान्येव देशकालोद्भवानि च ।।3.46.५०।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे परशुरामागमनैतत्खण्डश्रवणफलवर्णनं नाम षट्चत्वारिंशत्तमोऽध्यायः ।। ४६ ।।

इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीयं गणपतिखण्डं समाप्तम् ।।