ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ४४

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ४३ ब्रह्मवैवर्तपुराणम्
अध्यायः ४४
वेदव्यासः
अध्यायः ४५ →

पार्वत्युवाच ।।
सर्वे जानन्ति जगति दुर्गां शङ्करकिंकरीम् ।।
अपेक्षा रहिता दासी तस्या वै जीवनं वृथा ।। १ ।।
ईश्वरस्य समाः सर्वास्तृणपर्वतजातयः ।।
दासीपुत्रस्य शिष्यस्य दोषः कस्येति च प्रभो ।। २ ।।
विचारं कर्तुमुचितं त्वं च धर्मविदां वरः ।।
वीरभद्रः कार्त्तिकेयः पार्षदाः सन्ति साक्षिणः ।।३।।
साक्ष्ये मिथ्यां को वदेद्वा द्वावेषां भ्रातरौ समौ ।।
साक्ष्ये समे शत्रुमित्रे सतां धर्मनिरूपणे ।। ४ ।।
साक्षी सभायां यत्साक्ष्यं जानन्नप्यन्यथा वदेत् ।।
कामतः क्रोधतो वाऽपि लोभेन च भयेन च ।। ५ ।।
स याति कुम्भीपाकं च निपात्य शतपूरुषम् ।।
तैश्च सार्द्धं वसेत्तत्र यावच्चन्द्रदिवाकरम् ।। ६ ।।
अहं विबोधितुं शक्ता यन्निर्णेत्री द्वयोरपि ।।
तथाऽपि तव साक्षात्तु ममाज्ञा निन्दिता श्रुतौ ।। ७ ।।
किंकराणां प्रभा तत्र नृपे वसति संसदि ।।
उदिते भास्करे पृथ्व्यां खद्योतो हि यथा प्रभो ।। ८ ।।
सुचिरं तपसा प्राप्तं त्वदीयं चरणाम्बुजम् ।।
परित्यागभयेनैव सन्ततं भीतया मया ।। ९ ।।
यत्किंचित्कोपशोकाभ्यामुक्तं मोहेन तत्परम्।।
तत्क्षमस्व जगन्नाथ पुत्रस्नेहाच्च दारुणात् ।। 3.44.१० ।।
त्वया यदि परित्यक्ता तदा पुत्रेण तेन किम् ।।
साध्व्याः सद्वंशजायाश्च शतपुत्राधिकः पतिः ।। ११ ।।
असद्वंशप्रसूता या दुश्शीला ज्ञानवर्जिता ।।
स्वामिनं मन्यते नासौ पित्रोर्दोषेण कुत्सिता ।। १२ ।।
कुत्सितं पतितं मूढं दरिद्रं रोगिणं जडम् ।।
कुलजा विष्णुतुल्यं च कान्तं पश्यति सन्ततम् ।। १३ ।।
हुताशनो वा सूर्य्यो वा सर्वतेजस्विनां वरः ।।
पतिव्रतातेजसश्च कलां नार्हन्ति षोडशीम्।।१४।।
महादानानि पुण्यानि व्रतान्यनशनानि च ।।
तपांसि पतिसेवायाः कलां नार्हन्ति षोडशीम्।।१५।।
पुत्रोवाऽपि पिता वाऽपि बान्धवोऽथ सहोदरः ।।
योषितां कुलजातानां न कश्चित्स्वामिनः समः ।। १६ ।।
इत्युक्त्वा स्वामिनं दुर्गा ददर्श पुरतो भृगुम् ।।
शम्भोः पदाब्जं सेवन्तं निर्भयं तमुवाच ह।।१७।।
पार्वत्युवाच ।।
अहो राम महाभाग ब्रह्मवंश्योऽसि पण्डितः ।।
पुत्रोऽसि जमदग्नेश्च शिष्यो वै योगिनां गुरोः ।।१८।।
माता ते रेणुका साध्वी पद्मांशा सत्कुलोद्भवा ।।
मातामहो वैष्णवश्च मातुलश्च ततोऽधिकः ।। । ।। १९ ।।
त्वं च रेणुकभूपस्य मनुवंशोद्भवस्य च ।।
दौहित्रो मातुलः साधुः शूरो विष्णुपदाश्रयः ।। 3.44.२० ।।
कस्य दोषेण दुर्द्धर्षस्त्वं न जानेऽप्यशुद्धधीः ।।
येषां दोषैर्जनो दुष्टस्तमृते शुद्धमानसः ।। २१ ।।
अमोघं प्राप्य पर्शुं च गुरुं च करुणानिधिम् ।।
परीक्षां क्षत्त्रिये कृत्वा बभूवास्य सुते पुनः ।। २२ ।।
गुरवे दक्षिणादानमुचितं च श्रुतौ श्रुतम् ।।
भग्नो दन्तस्तत्सुतस्य च्छिन्धि मस्तकमप्यहो ।।२३।।
गणेश्वरं रणे जित्वा स्थितश्चेदावयोः पुरः ।।
स त्वं लब्ध्वाऽऽशिषो लोके पूजितोऽभूर्जगत्त्रये।।२४।।
पर्शुनाऽमोघवीर्य्येण शङ्करस्य वरेण च ।।
हन्तुं शक्तः सृगालश्च सिंहं शार्दूलमाखुभुक्।।२५।।
त्वद्विधं लक्षकोटिं च हन्तुं शक्तो गणेश्वरः ।।
जितेन्द्रियाणां प्रवरो नहि हन्ति च मक्षिकाम् ।। २६ ।।
तेजसा कृष्णतुल्योऽयं कृष्णांशश्च गणेश्वरः ।।
देशश्चान्ये कृष्णकलाः पूजाऽस्य पुरतस्ततः ।। २७ ।।
व्रतप्रभावतः प्राप्तः शङ्करस्य वरेण च ।।
शोकेनातिकठोरेण नहि सम्पद्विनाऽऽपदम् ।। २८ ।।
इत्युक्त्वा पार्वती रोषात्तं रामं हन्तुमुद्यता ।।
रामः सस्मार तं कृष्णं प्रणम्य मनसा गुरुम् ।।२९।।
एतस्मिन्नन्तरे दुर्गा ददर्श पुरतो द्विजम् ।।
अतीव वामनं बालं सूर्य्यकोटिसमप्रभम्।। 3.44.३० ।।
शुक्लदन्तं शुक्लवासं शुक्लयज्ञोपवीतिनम् ।।
दण्डिनं छत्रिणं चैव सुप्रभं तिलकोज्ज्वलम्।। ।। ३१ ।।
दधतं तुलसीमालां सस्मितं सुमनोहरम् ।।
रत्नकेयूरवलयं रत्नमालाविभूषितम् ।। ३२ ।।
रत्ननूपुरपादं च सद्रत्नमुकुटोज्ज्वलम् ।।
रत्नकुण्डलयुग्माढ्यगण्डस्थलविराजितम् ।। ३३ ।।
स्थिरमुद्रां दर्शयन्तं भक्तवामकरेण च ।।
दक्षिणेऽभयमुद्रां च भक्तेशं भक्तवत्सलम् ।। ३४ ।।
बालिकाबालकगणैर्नागरैः सस्मितैर्युतम् ।।
कैलासवासिभिः सर्वैरावृद्धैरीक्षितं मुदा ।। ३९ ।।
तं दृष्ट्वा सम्भ्रमाच्छम्भुः सभृत्यः सहपुत्रकः ।।
मूर्ध्ना भक्त्या प्राणमच्च दुर्गायै दण्डवद्भुवि ।। ३६ ।।
आशिषं प्रददौ बालः सर्वेभ्यो वाञ्छितप्रदाम् ।।
तं दृष्ट्वा बालकाः सर्वे महाश्चर्य्यं ययुर्भिया ।। ३७ ।।
दत्त्वा तस्मै शिवो भक्त्या तूपचारांस्तु षोडश ।।
पूजां चकार श्रुत्युक्तां परिपूर्णतमस्य च ।। ३८ ।।
तुष्टाव काण्वशाखोक्तस्तोत्रेण नतकन्धरः ।।
पुलकाङ्कितसर्वांगो भगवन्तं सनातनम् ।। ।। ३९ ।।
रत्नसिंहासनस्थं च प्रावोचच्छङ्करः स्वयम् ।।
अतीव तेजसाऽत्यन्तं प्रच्छन्नाकृतिमेव च ।। 3.44.४० ।।
शंकर उवाच ।।
आत्मारामेषु कुशलप्रश्नोऽतीव विडम्बनम् ।।
ते शश्वत्कुशलाधाराः कुशलाः कुशलप्रदाः ।। ४१ ।।
अयने सफलं जन्म जीवितं च सुजीवितम् ।।
प्राप्तस्त्वमतिथिब्रह्मन्कृष्णसेवाफलोदयात् ।। ४२ ।।
परिपूर्णतमः कृष्णो लोकनिस्तारहेतवे ।।
पुण्यक्षेत्रे हि कलया भारते च कृपानिधिः ।। ४३ ।।
अतिथिः पूजितो येन पूजिताः सर्वदेवताः ।।
अतिथिर्यस्य सन्तुष्टस्तस्य तुष्टो हरिः स्वयम् ।।४४।।
स्नानेन सर्वतीर्थेषु सर्वदानेन यत्फलम् ।।
सर्वव्रतोपवासेन सर्वयज्ञेषु दीक्षया ।। ४५' ।।
सर्वैस्तपोभिर्विविधैर्नित्यैर्नैमित्तिकादिभिः ।।
तदेवातिथिसेवायाः कलां नार्हन्ति षोडशीम् ।। ४६ ।।
अतिथिर्यस्य भग्नाशो याति रुष्टश्च मन्दिरात् ।।
कोटिजन्मार्जितं पुण्यं तस्य नश्यति निश्चितम् ।। ४७ ।।
स्त्रीगोघ्नश्च कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः ।।
पितृमातृगुरूणां च निन्दको नरघातकः ।। ४८ ।।
सन्ध्याहीनः स्वघाती च सत्यघ्नो हरिनिन्दकः ।।
ब्रह्मस्वस्थाप्यहारी च मिथ्यासाक्ष्यप्रदायकः ।। ४९ ।।
मित्रद्रोही कृतघ्नश्च वृषवाहश्च सूपकृत् ।।
शवदाही ग्रामयाजी ब्राह्मणो वृषलीपतिः ।। 3.44.५० ।।
शूद्रश्राद्धान्नभोजी च शूद्रश्राद्धेषु भोजकः ।।
कन्याविक्रयकारी च श्रीहरेर्नामविक्रयी ।। ५१ ।।
लाक्षामांसतिलानां च लवणस्य तिलस्य च ।।
विक्रेता ब्राह्मणश्चैव तुरगाणां गवां तथा ।। ५२ ।।
एकादशीकृष्णसेवाहीनो विप्रश्च भारते।।
एते महापातकिनस्त्रिषु लोकेषु निन्दिताः।।५३।।
कालसूत्रे च नरके पतन्ति ब्रह्मणां शतम् ।।
एतेभ्योऽप्यधिकः सोऽपि यश्चातिथिपराङ्मुखः ।। ५४ ।।
नारायण उवाच ।।
शङ्करस्य वचः श्रुत्वा सन्तुष्टः श्रीहरिः स्वयम् ।।
मेघगम्भीरया वाचा तमुवाच जगत्पतिः ।। ९५ ।।
विष्णुरुवाच ।। श्वेतद्वीपादागतोऽहं ज्ञात्वा कोलाहलं च वः ।।
अस्य रामस्य रक्षार्थं कृष्णभक्तस्य साम्प्रतम् ।। ५६ ।।
नैतेषां कृष्णभक्तानामशुभं विद्यते क्वचित् ।।
रक्षामि तांश्चक्रहस्तो गुरुमन्यं विना शिव ।। ५७ ।।
नाहं पाता गुरौ रुष्टे बलवद्गुरुहेलनम् ।।
तत्परः पातकी नास्ति सेवाहीनो गुरोश्च यः ।। ५८ ।।
मान्यः पूज्यश्च सर्वेभ्यः सर्वेषां जनको भवेत् ।।
अहो यस्य प्रसादेन सर्वान्पश्यति मानवः ।। ५९ ।।
जनको जन्मदानाच्च पालनाच्च पिता नृणाम् ।।
ततो विस्तारकरणात्कलया स प्रजापतिः ।। 3.44.६० ।।
पितुः शतगुणं माता पोषणाद्गर्भधारणात् ।।
वन्द्या पूज्या च मान्या च प्रसूस्स्याद्वै वसुन्धरा ।। ६१ ।।
मातुः शतगुणं वन्द्यः पूज्यो मान्योऽन्नदायकः ।।
यद्विना नश्वरो देहो विष्णुश्च कलयाऽन्नदः ।। ६२ ।।
अन्नदातुः शतगुणोऽभीष्टदेवः परः स्मृतः ।।
गुरुस्तस्माच्छतगुणो विद्यामन्त्रप्रदायकः ।। ६३ ।।
अज्ञानतिमिराच्छन्नं ज्ञानदीपेन चक्षुषा ।।
यः सर्वार्थं दर्शयति तत्परो नैव बान्धवः ।।६४।।
गुरुदत्तेन मन्त्रेण तपसेष्टसुखं लभेत्।।
सर्वज्ञत्वं सर्वसिद्धिं तत्परो नैव बान्धवः।।६५।।
सर्वं जयति सर्वत्र विद्यया गुरुदत्तया ।।
तस्मात्पूज्यो हि जगति को वा बन्धुस्ततोऽधिकः ।। ६६ ।।
विद्यान्धो वा धनान्धो वा यो मूढो न भजेद्गुरुम् ।।
ब्रह्महत्यादिभिः पापैः स लिप्तो नात्र संशयः ।। ६७ ।।
दरिद्रं पतितं क्षुद्रं नरबुद्ध्याऽऽचरेद्गुरुम् ।।
तीर्थस्नातोऽपि न शुचिर्नाधिकारी च कर्मसु ।। ६८ ।।
पितरं मातरं भार्य्यां गुरुपत्नीं गुरुं परम् ।।
यो न पुष्णाति कापट्यात्स महापातकी शिव ।। ६९ ।।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।।
गुरुरेव परं ब्रह्म गुरुर्भास्कररूपकः ।। 3.44.७० ।।
गुरुश्चन्द्रस्तथेन्द्रश्च वायुश्च वरुणोऽनलः ।।
सर्वरूपो हि भगवान्परमात्मा स्वयं गुरुः ।। ७१ ।।
नास्ति वेदात्परं शास्त्रं नहि कृष्णात्परः सुरः ।।
नास्ति गङ्गासमं तीर्थं न पुष्पं तुलसीदलात् ।। ७२ ।।
नास्ति क्षमावती भूमेः पुत्रान्नास्त्यपरः प्रियः ।।
न च दैवात्परा शक्तिर्नैकादश्याः परं व्रतम् ।। ७३ ।।
शालग्रामात्परो यन्त्रो न क्षेत्रं भारतात्परम् ।।
परं पुण्यस्थलानां च पुण्यं वृन्दावनं यथा ।। ७४ ।।
मोक्षदानां यथा काशी वैष्णवानां यथा शिवः ।।
न पार्वत्याः परा साध्वी न गणेशात्परो वशी ।।७५।।
न च विद्यासमो बन्धुर्नास्ति कश्चिद्गुरोः परः ।।
विद्यादातुः पुत्रदारौ तत्समौ नात्र संशयः ।। ७६ ।।
गुरुस्त्रियां च पुत्रे चाप्यभवद्रामहेलनम् ।।
परं सम्मार्जनं कर्तुमागतोऽहं तवालयम् ।। ७७ ।।
नारायण उवाच ।।
इत्येवमुक्त्वा शम्भुं च दुर्गां सम्बोध्य नारद ।।
उवाच भगवांस्तत्र सत्यसारं परं वचः ।। ७८ ।।
श्रीविष्णुरुवाच ।।
शृणु देवि प्रवक्ष्यामि मदीयं वचनं शुभम् ।।
नीतियुक्तं वेदसारं परिणामसुखावहम् ।। ७९ ।।
यथा ते गजवक्त्रश्च कार्त्तिकेयश्च पार्वति ।। ।
तथा परशुरामश्च भार्गवो नात्र संशयः ।। 3.44.८० ।।
नास्त्येषु स्नेहभेदश्च तव वा शंकरस्य च ।।
विचार्य्य सर्वं सर्वज्ञे कुरु मातर्यथोचितम् ।। ८१ ।।
पुत्रेण सार्द्धं पुत्रस्य विवादो दैवदोषतः ।।
दैवं हन्तुं को हि शक्तो दैवं च बलवत्तरम् ।। ८२ ।।
पुत्राभिधानं वेदेषु पश्य वत्से वरानने ।।
एकदन्त इति ख्यातं सर्वदेवनमस्कृतम् ।। ८३ ।।
पुत्रनामाष्टकं स्तोत्रं सामवेदोक्तमीश्वरि ।।
शृणुष्वावहितं मातः सर्वविघ्नहरं परम् ।। ८४ ।।
विष्णुरुवाच ।।
गणेशमेकदन्तं च हेरम्बं विघ्ननायकम् ।।
लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम् ।। ८५ ।।
अष्टाख्यार्थं च पुत्रस्य शृणु मातर्हरप्रिये ।।
स्तोत्राणां सारभूतं च सर्वविघ्नहरं परम् ।। ८६ ।।
ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः ।।
तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम् ।। ८७ ।।
एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः ।।
बलं प्रधानं सर्वस्मादेकदन्तं नमाम्यहम् ।। ८८ ।।
दीनार्थवाचको हेश्च रम्बः पालकवाचकः ।।
पालकं दीनलोकानां हेरम्बं प्रणमाम्यहम् ।। ८९ ।।
विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः ।।
विपत्खण्डनकारं तं प्रणमे विघ्ननायकम् ।। ।। 3.44.९० ।।
विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बं पुरोदरम् ।।
पित्रा दत्तैश्च विविधैर्वन्दे लम्बोदरं च तम् ।। ९१ ।।
शूर्पाकारौ च यत्कर्णौ विघ्नवारणकारकौ ।।
सम्पद्दौ ज्ञानरूपौ च शूर्पकर्णं नमाम्यहम् ।।९२।।
विष्णुप्रसादं मुनिना दत्तं यन्मूर्ध्नि पुष्पकम् ।।
तद्गजेन्द्रमुखं कान्तं गजवक्त्रं नमाम्यहम् ।।९३ ।।
गुहस्याग्रे च जातोऽयमाविर्भूतो हरालये ।।
वन्दे गुहाग्रजं देवं सर्वदेवाग्रपूजितम्।। ।। ९४ ।।
एतन्नामाष्टकं दुर्गे नानाशक्तियुतं परम् ।।
एतन्नामाष्टकं स्तोत्रं नानार्थसहितं शुभम् ।। ९५ ।।
त्रिसन्ध्यं यः पठेन्नित्यं स सुखी सर्वतो जयी ।।
ततो विघ्नाः पलायन्ते वैनतेयाद्यथोरगाः ।। ९६ ।।
गणेश्वरप्रसादेन महाज्ञानी भवेद्ध्रुवम् ।।
पुत्रार्थी लभते पुत्रं भार्य्यार्थी कुशलां स्त्रियम् ।।९७।।
महाजडः कवीन्द्रश्च विद्यावांश्च भवेद्ध्रुवम् ।।
पुत्रस्त्वं पश्य वेदे च तथा कोपं च नो कुरु।। ।। ९८ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे गणेशस्तोत्रकथनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ।। ४४ ।।