ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ४०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३९ ब्रह्मवैवर्तपुराणम्
अध्यायः ४०
वेदव्यासः
अध्यायः ४१ →

नारायण उवाच ।।
तं गृहीत्वा तदा विष्णौ वैकुण्ठं च गते सति।।
सपुत्रं च सहस्राक्षं जघान भृगुनन्दनः।।१।।
कृत्वा युद्धं तु सप्ताहं ब्रह्मास्त्रेण प्रयत्नतः ।।
राजा कवचहीनोऽपि सपुत्रश्च पपात ह।।
पतिते तु सहस्राक्षे कार्तवीर्य्यार्जुनः स्वयम्।।
आजगाम महावीरो द्विलक्षाक्षौहिणीयुतः।। ।।३।।
सुवर्णरथमारुह्य रत्नसारपरिच्छदम् ।।
नानास्त्रं परितः कृत्वा तस्थौ समरमूर्द्धनि।।४।।
समरे तं परशुरामो राजेन्द्रं च ददर्श ह ।।
रत्नालंकारभूषाढ्यै राजेन्द्राणां च कोटिभिः ।।५।।
रत्नातपत्रभूषाढ्यं रत्नालंकारभूषितम् ।।
चन्दनोक्षितसर्वांगं सस्मितं सुमनोहरम् ।। ६ ।।
राजा दृष्ट्वा मुनीन्द्रं तमवरुह्म रथादहो ।।
प्रणम्य रथमारुह्य तस्थौ नृपगणैः सह ।। ७ ।।
ददौ शुभाशिषं तस्मै रामश्च समयोचितम् ।।
प्रोवाच च गतार्थं तं स्वर्गं गच्छेति सानुगः।।८।।
उभयोः सेनयोर्युद्धमभवत्तत्र नारद ।।
पलायिता रामशिष्या भ्रातरश्च महाबलाः ।।
क्षतविक्षतसर्वाङ्गाः कार्त्तवीर्य्यप्रपीडिताः ।। ९ ।।
नृपस्य शरजालेन रामः शस्त्रभृतां वरः ।।
न ददर्श स्वसैन्यं च राजसैन्यं तथैव च ।। 3.40.१० ।।
चिक्षेप रामश्चाग्नेयं बभूवाग्निमयं रणे ।।
निर्वापयामास राजा वारुणेनैव लीलया ।। ११ ।।
चिक्षेप रामो गान्धर्वं शैलसर्पसमन्वितम् ।।
वायव्येन महाराजः प्रेरयामास लीलया ।। १२ ।।
चिक्षेप रामो नागास्त्रं दुर्निवार्य्यं भयंकरम् ।।
गारुडेन महाराजः प्रेरयामास लीलया ।। १३ ।।
माहेश्वरं च भगवांश्चिक्षेप भृगुनन्दनः ।।
निर्वापयामास राजा वैष्णवास्त्रेण लीलया ।। १४ ।।
ब्रह्मास्त्रं चिक्षिपे रामो नृपनाशाय नारद ।।
ब्रह्मास्त्रेण च शान्तं तत्प्राणनिर्वापणं रणे ।। १५ ।।
दत्तदत्तं च यच्छूलमव्यर्थं मन्त्रपूर्वकम् ।।
जग्राह राजा परशुरामनाशाय संयुगे ।। १६ ।।
शूलं ददर्श रामश्च शतसूर्य्यसमप्रभम् ।।
प्रलयाग्रिशिखोद्रिक्तं दुर्निवार्यं सुरैरपि ।। १७ ।।
पपात शूलं समरे रामस्योपरि नारद ।।
मूर्च्छामवाप स भृगुः पपात च हरिं स्मरन् ।। १८ ।।
पतिते तु तदा रामे सर्वे देवा भयाकुलाः ।।
आजग्मुः समरं तत्र ब्रह्मविष्णुमहेश्वराः ।। १९ ।।
शङ्करश्च महाज्ञानी महाज्ञानेन लीलया ।।
ब्राह्मणं जीवयामास तूर्णं नारायणाज्ञया ।। 3.40.२० ।।
भृगुश्च चेतनां प्राप्य ददर्श पुरतः सुरान् ।।
प्रणनाम परं भक्त्या लज्जानम्रात्मकन्धरः ।। २१ ।।
राजा दृष्ट्वा सुरेशांश्च भक्तिनम्रात्मकन्धरः ।।
प्रणम्य शिरसा मूर्ध्ना तुष्टाव च सुरेश्वरान् ।। २२ ।।
तत्राजगाम भगवान्दत्तात्रेयो रणस्थलम् ।।
शिष्यरक्षानिमित्तेन कृपालुर्भक्तवत्सलः ।। २३ ।।
भृगुः पाशुपतास्त्रं च सोऽग्रहीत्कोपसंयुतः ।।
दत्तदत्तेन दृष्टेन बभूव स्तम्भितो भृगुः ।।२४।।
ददर्श स्तम्भितो रामो राजानं रणमूर्द्धनि ।।
नानापार्षदयुक्तेन कृष्णेनाऽऽरक्षितं रणे ।।२५।।
सुदर्शनं प्रज्वलन्तं भ्रमणं कुर्वता सदा ।।
सस्मितेन स्तुतेनैव ब्रह्मविष्णुमहेश्वरैः ।। ।। २६ ।।
गोपालशतयुक्तेन गोपवेषविधारिणा ।।
नवीनजलदाभेन वंशीहस्तेन गायता ।। २७ ।।
एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ।।
दत्तेन दत्तं कवचं कृष्णस्य परमात्मनः ।। २८ ।।
राज्ञोऽस्ति दक्षिणे बाहौ सद्रत्नगुटिकान्वितम् ।।
गृहीतकवचे शम्भौ भिक्षया योगिनां गुरौ ।। २९ ।।
तदा हन्तुं नृपं शक्तो भृगुश्चेति च नारद ।।
श्रुत्वाऽशरीरिणीं वाणीं शङ्करो द्विजरूपधृक्।। 3.40.३० ।।
भिक्षां कृत्वा तु कवचमानीय च नृपस्य च ।।
शम्भुना भृगवे दत्तं कृष्णस्य कवचं च यत् ।। ३१ ।।
एतस्मिन्नन्तरे देवा जग्मुः स्वस्थानमुत्तमम् ।।
प्रत्युवाचापि परशुरामो वै समरे नृपम् ।।३२।।
परशुराम उवाच ।।
राजेन्द्रोत्तिष्ठ समरं कुरु साहसपूर्वकम् ।।
कालभेदे जयो नृणां कालभेदे पराजयः।।३३।।
अधीतं विधिवद्दत्तं कृत्स्ना पृथ्वी सुशासिता ।।
सम्यक्कृतश्च संग्रामस्त्वयाऽहं मूर्च्छितो ऽधुना।। ३४ ।।
जिताः सर्वे च राजेन्द्रा लीलया रावणो जितः ।।
जितोऽहं दत्तशूलेन शम्भुना जीवितः पुनः ।। ३५ ।।
रामस्य वचनं श्रुत्वा राजा परमधार्मिकः ।।
मूर्ध्ना प्रणम्य तं भक्त्या यथार्थोक्तिमुवाच ह ।। ३६ ।।
राजोवाच ।।
किमधीतं तथा दत्तं का वा पृथ्वी सुशासिता ।।
गताः कतिविधा भूपा मादृशा धरणीतले ।। ३७ ।।
बुद्धिस्तेजो विक्रमश्च विविधा रणमन्त्रणा ।।
श्रीरैश्वर्यं तथा ज्ञानं दानशक्तिश्च लौकिकम् ।। ३८ ।।
आचारो विनयो विद्या प्रतिष्ठा परमं तपः ।।
सर्वं मनोरमासंगे गतमेव मम प्रभो ।। ३९ ।।
सा च स्त्री प्राणतुल्या मे साध्वी पद्मांशसम्भवा ।।
यज्ञेषु पत्नी मातेव स्नेहे क्रीडति संगिनी ।।3.40.४०।।
आबाल्यात्संगिनी शश्वच्छयने भोजने रणे ।।
तां विना प्राणहीनोऽहं विषहीनो यथोरगः ।। ४१ ।।
त्वया न दृष्टं युद्धं मे पुरेयं शोचना स्थिता ।।
द्वितीया शोचना विप्र हतोऽहं ब्राह्मणेन च ।। ४२ ।।
काले सिंहः सृगालं च सृगालः सिंहमेव च ।।
काले व्याघ्रं हन्ति मृगो गजेन्द्रं हरिणस्तथा ।। ४३ ।।
महिषं मक्षिका काले गरुडं च तथोरगः ।।
किङ्करः स्तौति राजेन्द्रं काले राजा च किंकरम्।। ४४ ।।
इन्द्रं च मानवः काले काले ब्रह्मा मरिष्यति ।।
तिरोभूत्वा सा प्रकृतिः काले श्रीकृष्णविग्रहे ।। ४९ ।।
मरिष्यन्ति सुराः सर्वे त्रिलोकस्थाश्चराचराः ।।
सर्वे काले लयं यान्ति कालो हि दुरतिक्रमः।।४६।।
कालस्य कालः श्रीकृष्णः स्रष्टुः स्रष्टा यथेच्छया।।
संहर्ता चैव संहर्तुः पातुः पाता परात्परः।।४७।।
महास्थूलात्स्थूलतमः सूक्ष्मात्सूक्ष्मतमः कृशः ।।
परमाणुपरः कालः कालस्स्यात्कालभेदकः ।। ४८ ।।
यस्य लोमानि विश्वानि स पुमांश्च महाविराट् ।।
तेजसा षोडशांशश्च कृष्णस्य परमात्मनः ।।४९।।
ततः क्षुद्रविराड् जातः सर्वेषां कारणं परम् ।।
यः स्रष्टा च स्वयं ब्रह्मा यन्नाभिकमलोद्भवः ।। 3.40.५० ।।
नाभेः कमलदण्डस्य योऽन्तं न प्राप यत्नतः ।।
भ्रमणाल्लक्षवर्षं च ततः स्वस्थानसंस्थितः ।। ५१ ।।
तपश्चक्रे ततस्तत्र लक्षवर्षं च वायुभुक् ।।
ततो ददर्श गोलोकं श्रीकृष्णं च सपार्षदम् ।। ।। ५२ ।।
गोपगोपीपरिवृतं द्विभुजं मुरलीधरम् ।।
रत्नसिंहासनस्थं च राधावक्षस्थलस्थितम् ।। ५३ ।।
दृष्ट्वाऽनुज्ञां गृहीत्वा च प्रणम्य च पुनः पुनः ।।
ईश्वरेच्छां च विज्ञाय स्रष्टुं सृष्टिं मनो दधे ।। ५४ ।।
यः शिवः सृष्टिसंहर्त्ता स च स्रष्टुर्ललाटजः ।।
विष्णुः पाता क्षुद्रविराट् श्वेतद्वीपनिवासकृत् ।। ५५ ।।
सृष्टिकारणभूताश्च ब्रह्मविष्णुमहेश्वराः ।।
सन्ति विश्वेषु सर्वेषु श्रीकृष्णस्य कलोद्भवाः ।।५६।।
तेऽपि देवाः प्राकृतिकाः प्राकृतश्च महाविराट् ।।
सर्वप्रसूतिः प्रकृतिः श्रीकृष्णः प्रकृतेः परः ।।५७।।
न शक्तः परमेशोऽपि तां शक्तिं प्रकृतिं विना ।।
सृष्टिं विधातुं मायेशो न सृष्टिर्मायया विना ।। ५८ ।।
सा च कृष्णे तिरोभूय सृष्टिसंहारकारके ।।
साऽऽविर्भूता सृष्टिकाले सा च नित्या महेश्वरी ।।५९।।
कुलालश्च कटं कर्तुं यथाऽशक्तो मृदं विना।।
स्वर्णं विना स्वर्णकारः कुण्डलं कर्तुमक्षमः ।। 3.40.६० ।।
सा च शक्तिः सृष्टिकाले पञ्चधा चेश्वरेच्छया ।।
राधा पद्मा च सावित्री दुर्गा देवी सरस्वती ।। ६१ ।।
प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः ।।
प्राणाधिकप्रियतमा सा राधा परिकीर्त्तिता ।। ६२ ।।
ऐश्वर्य्याधिष्ठातृदेवी सर्वमङ्गलकारिणी ।।
परमानन्दरूपा च सा लक्ष्मीः परिकीर्त्तिता ।।६३।।
विद्याधिष्ठातृदेवी या परमेशस्य दुर्लभा ।।
या माता वेदशास्त्राणां सा सावित्री प्रकीर्तिता।।६४।।
बुद्ध्यधिष्ठातृदेवी या सर्वशक्तिस्वरूपिणी ।।
सर्वज्ञानात्मिका सर्वा सा दुर्गा दुर्गनाशिनी ।। ६५ ।।
वागधिष्ठातृदेवी या शास्त्रज्ञानप्रदा सदा ।।
कृष्णकण्ठोद्भवा सा स्याद्या च देवी सरस्वती।।६६।।
पञ्चधाऽऽदौ स्वयं देवी मूलप्रकृतिरीश्वरी ।।
ततः सृष्टिक्रमेणैव बहुधा कलया च सा ।। ६७ ।।
योषितः प्रकृतेरंशाः पुमांसः पुरुषस्य च ।।
मायया सृष्टि काले च तद्विना न भवेद्भवः।।६८।।
सृष्टिश्च प्रतिविश्वेषु ब्रह्मन्ब्रह्मोद्भवा सदा ।।
पाता विष्णुश्च संहर्त्ता शिवः शश्वच्छिवप्रदः ।।६९।।
 दत्तदत्तं ज्ञानमिदं राम मह्यं च पुष्करे ।।
दीक्षाकाले च माघ्यां च मुनिप्रवरसन्निधौ ।। 3.40.७० ।।
इत्युक्त्वा कार्त्तवीर्य्यश्च रामं नत्वा च सस्मितः ।।
आरुरोह रथं शीघ्रं गृहीत्वा सशरं धनुः ।। ७१ ।।
रामस्ततो राजसैन्यं ब्रह्मास्त्रेण जघान ह ।।
नृपं पाशुपतेनैव लीलया श्रीहरिं स्मरन् ।। ७२ ।।
एवं त्रिस्सप्तकृत्वश्च क्रमेण च वसुन्धराम् ।।
रामश्चकार निर्भूपां लीलया च शिवं स्मरन् ।। ७३ ।।
गर्भस्थं मातुरङ्कस्थं शिशुं वृद्धं च मध्यमम् ।।
जघान क्षत्रियं रामः प्रतिज्ञापालनाय वै ।। ७४ ।।
कार्त्तवीर्य्यश्च गोलोकं त्वगमत्कृष्णसन्निधिम् ।।
जगाम तोषात्परशुरामश्च श्रीहरिं स्मरन्।। ७५ ।।
त्रिस्सप्तकृत्वो निर्भूपां महीं दृष्ट्वा महेश्वरः ।।
रमणं तेन परशुरामं दृष्ट्वा च कातरम् ।। ७६ ।।
देवाश्च मुनयो देव्यः सिद्धगन्धर्वकिन्नराः ।।
सर्वे चक्रुः पुष्पवृष्टिं राममूर्ध्नि च नारद ।। ७७ ।।
स्वर्गे दुन्दुभयो नेदुर्हर्षशब्दो बभूव ह।।
यशसा चैव परशुरामस्यापूरितं जगत् ।।७८।।
ब्रह्मा भृगुश्च शुक्रश्च वाल्मीकिश्च्यवनस्तथा।।
जमदग्निर्ब्रह्मलोकादाजगाम प्रहर्षितः।।७९।।
पुलकाञ्चितसर्वाङ्गाः सानन्दाश्च समन्विताः ।।
दूर्वापुष्पकराः सर्वे कुर्वन्तो मंगलाशिषः।। ।। 3.40.८० ।।
प्रणनाम च तान्रामो दण्डवत्पतितो भुवि ।।
क्रोडे चकार ब्रह्माऽऽदौ क्रमात्तातेति संवदन् ।। ८१ ।।
तमुवाचाथ परशुरामं ब्रह्मा जगद्गुरुः ।।
वेदसारं नीतियुतं परिणामसुखावहम् ।। ८२ ।।
ब्रह्मोवाच ।।
शृणु राम प्रवक्ष्यामि सर्वसम्पत्करं परम् ।।
काण्वशाखोक्तवचनं सत्यं वै सर्वसम्मतम् ।।८३।।
पूज्यानामेव सर्वेषामिष्टः पूज्यतमः परः ।।
जनको जन्मदानाच्च पालनाच्च पिता स्मृतः ।। ८४ ।।
गरीयाञ्जन्मदातुश्च सोऽन्नदाता पिता मुने ।।
विनाऽन्नं नश्वरो देहो नित्यं च पितुरुद्भवः ।। ८९ ।।
तयोः शतगुणं माता पूज्या मान्या च वन्दिता।।
गर्भधारणपोषाभ्यां सैव प्रोक्ता गरीयसी।।८६।।
तेभ्यः शतगुणं पूज्योऽभीष्टदेवः श्रुतौ श्रुतः।।
ज्ञानविद्यामन्त्रदाताऽभीष्टदेवात्परो गुरुः ।। ८७ ।।
गुरुवद्गुरुपुत्रश्च गुरुपत्नी ततोऽधिका ।।
देवे रुष्टे गुरू रक्षेद्गुरौ रुष्टे न कश्चन ।। ८८ ।।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।।
गुरुरेव परं ब्रह्म ब्राह्मणेभ्यः प्रियः परः ।। ८९ ।।
गुरुर्ज्ञानं ददात्येव ज्ञानं च हरिभक्तिदम् ।।
हरिभक्तिप्रदाता यः को वा बन्धुस्ततः परम् ।। 3.40.९० ।।
अज्ञानतिमिराच्छन्नो ज्ञानदीपं यतो लभेत् ।।
लब्ध्वा च निर्मलं पश्येत्को वा बन्धुस्ततः परः ।। ९१ ।।
गुरुदत्तं सुमन्त्रं च जप्त्वा ज्ञानं ततो लभेत् ।।
सर्वज्ञत्वाच्च सिद्धिं च को वा बन्धुस्ततोऽधिकः ।। ९२ ।।
सुखं जयति सर्वत्र विद्यया गुरुदत्तया ।।
यया पूज्योऽपि जगति को वा बन्धुस्ततोऽधिकः ।। ९३ ।।
विद्यान्धो वा धनान्धो वा यो मूढो न यजेद्गुरुम् ।।
ब्रह्महत्यादिकं पापं लभते नात्र संशयः ।। ९४ ।।
दरिद्रं पतितं क्षुद्रं नरबुद्या भजेद्गुरुम् ।।
तीर्थस्नातोऽपि न शुचिर्नाधिकारी च कर्मसु ।। ९५ ।।
अभीष्टदेवः श्रीकृष्णो गुरुस्ते शङ्करः स्वयम् ।।
शरणं गच्छ हे पुत्र देवपूज्यतमं गुरुम् ।। ९६ ।।
त्रिस्सप्तकृत्वो निर्भूपा त्वया पृथ्वी कृता यतः ।।
प्राप्ता त्वया हरेर्भक्तिस्तं शिवं शरणं व्रज ।। ९७ ।।
शिवां च शिवरूपं च शिवदं शिवकारणम् ।।
शिवाराध्यं शिवं शान्तं गुरुं त्वं शरणं व्रज ।। ९८ ।।
गोलोकनाथो भगवानंशेन शिवरूपधृक् ।।
य इष्टदेवः स गुरुस्तमेव शरणं व्रज ।। ९९ ।।
आत्मा कृष्णः शिवो ज्ञानं मनोऽहं सर्वजीविषु ।।
प्राणा विष्णोस्सा प्रकृतिस्सर्वशक्तियुता सुत ।। 3.40.१००।।
ज्ञानदं ज्ञानरूपं च ज्ञानबीजं सनातनम् ।।
मृत्युञ्जयं कालकालं तं गुरुं शरणं व्रज ।। १०१ ।।
ब्रह्मज्योतिस्स्वरूपं तं भक्तानुग्रहविग्रहम् ।।
शरणं व्रज सर्वज्ञं भगवन्तं सनातनम् ।। १०२ ।।
प्रकृतिर्लक्षवर्षं च तपस्तप्त्वा यमीश्वरम् ।।
कान्तं प्रियपतिं लेभे तं गुरुं शरणं व्रज ।। १०३ ।।
इत्युक्त्वा मुनिभिः सार्द्धं जगाम कमलोद्भवः ।।
रामश्च गन्तुं कैलासं मनश्चक्रे च नारद ।। १०४ ।।
इति श्रीब्रह्मवैवर्त्ते तृतीये गणेशखण्डे नारदनारायणसंवादे भृगोः कैलासगमनोपदेशो नाम चत्वारिंशत्तमोऽध्यायः ।। ४० ।।