ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ०२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१ ब्रह्मवैवर्तपुराणम्
अध्यायः ०२
वेदव्यासः
अध्यायः ०३ →

नारायण उवाच ।।
त्यक्त्वा रतिं महादेवो ददर्श पुरतः सुरान् ।।
पलायध्वमिति प्राह कृपया पार्वतीभयात्।। ।। १ ।।
देवाः पलायिता भीताः पार्वतीशापहेतुना ।।
सर्वब्रह्माण्डसंहर्त्ता चकम्पे पार्वतीभयात् ।। २ ।।
तल्पादुत्थाय सा दुर्गा न च दृष्ट्वा पुरस्सुरान् ।।
समुत्थितं कोपवह्निं स्तम्भयामास देहतः ।। ३ ।।
अद्यप्रभृति ते देवा व्यर्थवीर्य्या भवन्त्विति ।।
शशाप देवी तान्देवानतिरुष्टा बभूव ह ।। ४ ।।
ततः शिवः शिवां दृष्ट्वा क्रोधसंरक्तलोचनाम् ।।
रुदन्तीं नम्रवदनां लिखन्तीं धरणीतलम् ।। ५ ।।
शिवस्तां दुःखितां दृष्ट्वा क्रोधसंरक्तलोचनाम् ।।
हस्ते गृहीत्वा देवेशो वासयामास वक्षसि ।। ६ ।।
अतीव भीतः संत्रस्त उवाच मधुरं वचः ।।
शंकर उवाच ।।
कथं रुष्टा गिरिश्रेष्ठकन्ये धन्ये मनोहरे।।७।।
मम सौभाग्यरूपे च प्राणाधिष्ठातृदेवते ।।
किं ते ऽभीष्टं करिष्यामि वद मां जगदम्बिके ।।८।।
ब्रह्माण्डसंघे निखिले किमसाध्यमिहावयोः ।।
अहो निरपराधं मां प्रसन्ना भव सुन्दरि।। ।। ९ ।।
दैवादज्ञातदोषस्य शान्तिं मे कर्त्तुमर्हसि ।।
त्वया युक्तः शिवोऽहं च सर्वषां शिवदायकः ।। १० ।।
त्वया विना हीश्वरश्च शवतुल्योऽशिवः सदा ।।
प्रकृतिस्त्वं च बुद्धिस्त्वं शक्तिस्त्वं च क्षमा दया ।। ११ ।।
तुष्टिस्त्वं च तथा पुष्टिः शान्तिस्त्वं क्षान्तिरेव च ।।
क्षुत्त्वं छाया तथा निद्रा तन्द्रा श्रद्धा सुरेश्वरि ।। १२।।
सर्वाधारस्वरूपा त्वं सर्वबीजस्वरूपिणी ।।
स्मितपूर्वं वद वचः साम्प्रतं सरसं शिवे ।। १३ ।।
त्वत्कोपविषसंदग्धं द्रुतं जीवय मां मृतम् ।। १४ ।।
शंकरस्य वचः श्रुत्वा क्षमायुक्ता च पार्वती ।।
उवाच मधुरं देवी हृदयेन विदूयता ।। १५ ।।
पार्वत्युवाच ।।
किं त्वाऽहं कथयिष्यामि सर्वज्ञं सर्वरूपिणम् ।।
आत्मारामं पूर्णकामं सर्वदेहेष्ववस्थितम् ।। १६ ।।
कामिनी मानसं काममप्रज्ञं स्वामिनं वदेत् ।।
सर्वेषां हृदयज्ञं च हृदीष्टं कथयामि किम् ।। १७ ।।
सुगोप्यं सर्वनारीणां लज्जाजननकारणम् ।।
अकथ्यमपि सर्वासां महेश कथयामि ते।। १८ ।।
सुखेषु मध्ये स्त्रीणां च विभवेषु सुरेश्वर ।।
सत्पुंसा सह सम्भोगो निर्जनेषु परं सुखम् ।। १९ ।।
तद्भंगेन च यद्दुःखं तत्समं नास्ति च स्त्रियाः ।।
कान्तानां कान्तविच्छेदशोकः परमदारुणः ।। २० ।।
कृष्णपक्षे यथा चन्द्रः क्षीयमाणो दिने दिने ।।
तथा कान्तं विना कान्ता क्षीणा कान्त क्षणे क्षणे ।। २१ ।।
चिन्ताज्वरश्च सर्वेषामुपतापश्च वाससाम् ।।
साध्वीनां कान्तविच्छेदस्तुरगानां च मैथुनम् ।। २२ ।।
रतिभंगो दुःखमेकं द्वितीयं वीर्य्यपातनम् ।।
दुःखातिरेकि दुःखं च तृतीयमनपत्यता ।। २३ ।।
त्रैलोक्यकान्तं कान्तं त्वां लब्ध्वाऽपि न च मे सुतः ।।
या स्त्री पुत्रविहीना च जीवनं तन्निरर्थकम् ।। २४ ।।
जन्मान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।।
सद्वंशजातपुत्रश्च परत्रेह सुखप्रदः ।। २५ ।।
सुपुत्रः स्वामिनोंऽशश्च स्वामितुल्यसुखप्रदः ।।
कुपुत्रश्च कुलाङ्गारो मनस्तापाय केवलम् ।। २६ ।।
स्वामी स्वांशेन सुस्त्रीणां गर्भे जन्म लभेद्ध्रुवम् ।।
साध्वीस्त्री मातृतुल्या च सततं हितकारिणी ।। २७ ।।
असाध्वी वैरितुल्या च शश्वत्सन्तापदायिनी ।।
मुखदुष्टा योनिदुष्टा चासाध्वीति त्रिधा स्मृता ।। २८ ।।
किमुपायं करिष्यामि वद योगीश्वरेश्वर ।।
उपायसिन्धो तपसां सर्वेषां च फलप्रद ।। २९ ।।
इत्युक्त्वा पार्वती देवी नम्रवक्त्रा बभूव ह ।।
प्रहस्य शंकरो देवो बोधयामास पार्वतीम् ।। ३० ।।
सत्पुत्रबीजं सुखदं तापनाशनकारणम् ।।
मितं स्निग्धं सुरुचिरं प्रवक्तुमुपचक्रमे ।। ३१ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारद नारायणसंवादे द्वितीयोऽध्यायः ।। २ ।।